पृष्ठम्:साहित्यसारः.pdf/9

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रतिपादितं विषयजातं कृत्स्नमपि न स्वोपज्ञमिति 'आहृतं भरतो-त्किञ्चित् उत्तरात्किञ्चिदुद्धृतम् । कलितं कोहलात्किञ्चित् किञ्चिद्भरतविस्तरात्’ इत्यनेन कविरेव आविरकार्षीत् । तथा ’अस्य साहित्यसारस्य संख्या सर्वेश- कल्पिता । भवेदष्टाधिकैवाऽत्र षट्शती सुमनोहरा’ इत्यनेन ग्रन्थस्थश्लोकसंख्यापि कविनैव निवेदिता यथायथं विद्यते ।

गीर्वाणवाङ्मये हि सागरतुल्यं नाट्यलक्षणं भारतं नाट्यशास्त्रम् । तदनुसृत्यैव द्वित्राणि संग्रहप्रयोजनानि नाट्यलक्षणानि परस्तादुदितानि । तत्र दशरूपकमतीव प्रसिद्धम् । एवं सति अतिसंग्रहाभिलाषिणां लक्षणैकप्रवणानामयं साहित्यसारः दशरूपकतोऽपि विशिष्य उपयुज्यत इति सुदृढं संभावयामि । पठितारश्च अमुमंशं स्वयमेव ग्रहीष्यन्तीति नाऽत्नातीव प्रयत्यते ।

५. उपसंहारः
ईदृशमल्पमूल्यमधिगुणं ग्रन्थरत्नं अमरवाणीसेवकानां मुदे श्रीवेङ्कटेश्वरप्राच्यपरिशोधनालयाधिकृताः प्राकाशयन् । अतस्तान् प्रति सहृदयलोकः सदा कृतज्ञो भवेत्।

मुद्रणं सर्व संपादकानां आध्यक्ष्य एव निर्व्यूढम् । यावत्परिचयरचनाया: समय आगतस्तावदेव संपादकाः श्रीरामकृष्णकवयः पदवीतो विश्रान्ताः । अतस्तद्रचनावकाशं श्रीवेङ्कटेश्वरप्राच्यपरिशोधनालयकुलपतयः श्रीमन्तः परवस्तु वेङ्कटरामानुजस्वामिपादाः वात्सल्येन मे अदासिषुः । यथाशक्ति तदिदं कृत्यं निरवहम्। कृतज्ञश्च भवामि सततं कुलपतीन् प्रति। अत्र परिचयलेखने भासमानं भ्रमप्रमादादिकं सहृदयवतंसाः कृपया क्षमन्तामिति, निर्दोषं निर्गुणं वाऽपि नास्ति लोके हि किञ्चनेति च विज्ञापयामि ।

विबुधविधेयः, 'व्याकरणसाहित्यविद्याप्रवीणः, भाषाप्रवीणश्च' अप्पल्ल- सोमेश्वरशर्मा, P.O.L. व्याकरणोपाध्याय:

श्रीवेङ्कटेश्वरप्राच्यविद्यालयः नन्दनमार्गशीर्षकृष्णदशमी तिरुपति। क्री.श., ११-१२=१९५२.