पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०८९

विकिस्रोतः तः
← अध्यायः ०८८ पद्मपुराणम्
अध्यायः ०८९
वेदव्यासः
अध्यायः ०९० →

श्रीकृष्ण उवाच-
ततो गुणवती श्रुत्वा रक्षसा निहतावुभौ ।
पितृभर्तजदुःखार्त्ता करुणं पर्यदेवयत् १।
गुणवत्युवाच-
हा नाथ हा पितस्त्यक्त्वा गच्छतं क्व मया विना ।
बालाहं किं करोम्यद्य ह्यनाथा भवता विना २।
को नु मामास्थितां गेहे भोजनाच्छादनादिभिः ।
अकिंचित्कुशलां स्नेहात्पालयिष्यति दुःखिताम् ३।
हतभाग्या गतसुखा हतेशा हतजीविता ।
शरणं कं व्रजाम्यद्य त्वन्नाथा बतबालिशा ४।
श्रीकृष्ण उवाच-
एवं बहुविलप्याथ कुररीव भृशातुरा ।
पपात भूमौ विकला रंभा वातहता यथा ५।
चिरादाश्वस्य सा भूमौ विलप्य करुणं बहु ।
निमग्ना दुःखजलधौ शोकार्त्ता समवर्त्तत ६।
साग्रहोपस्करान्सर्वान्विक्रीय शुभकर्मकृत् ।
तयोश्चक्रे यथाशक्ति पारलौकिक सत्क्रियाम् ७।
तस्मिन्नेव पुरे वासं चक्रे प्रभृतिजीवितम् ।
विष्णुभक्तिपरा शांता सत्यशौचा जितेंद्रिया ८।
व्रतद्वयं तया सम्यगाजन्म मरणात्कृतम् ।
एकादशीव्रतं सम्यक्सेवनं कार्त्तिकस्य च ९।
एतद्व्रतद्वयं कांते ममातीव प्रियंकरम् ।
भुक्तिमुक्तिकरं सम्यक्पुत्रसंपत्तिकारकम् १०।
कार्तिके मासि ये नित्यं तुलासंस्थे दिवाकरे ।
प्रातः स्नास्यंति ते मुक्ता महापातकिनोऽपि च ११।
संमार्जनं गृहे विष्णोः स्वस्तिकादि निवेदनम् ।
विष्णुपूजां प्रकुर्वंति जीवन्मुक्ताश्च ते नराः १२।
स्नानं जागरणं दीपं तुलसीवनसेवनम् ।
कार्त्तिके ये प्रकुर्वंति ते नरा विष्णुमूर्त्तयः १३।
इत्थं दिनत्रयमपि कार्तिके ये प्रकुर्वते ।
देवानामपि ते वंद्याः किं यैराजन्मतः कृतम् १४।
इत्थं गुणवती सम्यक्प्रत्यब्दं प्रतिनीयते ।
नित्यं विष्णोः परिकरे भक्ता तत्परमानसा १५।
कदाचिज्जरसा साथ कृशांगी ज्वरपीडिता ।
स्नातुं गंगां गता कांते कथंचिच्छनकैस्तथा १६।
यावज्जलांतरगता कंपिता शीतपीडिता ।
तावत्सा विह्वला पश्यद्विमानं प्राप्तमंबरात् १७।
शंखचक्रगदापद्महस्तैरासन्नमंबरात् ।
विष्णुरूपधरैः सम्यग्वैनतेयध्वजांकितैः १८।
आरोहयन्विमानं तमप्सरोगणसेवितम् ।
चामरैर्वीज्यमानां तां वैकुंठमनयन्गणाः १९।
अथ सा तद्विमानस्था ज्वलदग्निशिखोपमा ।
कार्त्तिकव्रतपुण्येन मत्सान्निध्यगताभवत् २०।
अथ ब्रह्मादिदेवानां यथा प्रार्थनया भुवम् ।
आगच्छता गणाः सर्वे यातास्तेऽपि मया सह २१।
एतेपि यादवाः सर्वे मद्गणा एव भामिनि ।
पिता ते देवशर्माभूत्सत्राजिदधिपो ह्ययम् २२।
यश्चंद्रशर्मा सोऽक्रूरस्त्वं सा गुणवती शुभे ।
कार्त्तिकव्रतपुण्येन बहुमत्प्रीतिवर्द्धनी २३।
मम द्वारे त्वया पूर्वं तुलसीवाटिका कृता ।
तस्मादयं कल्पवृक्षस्तवांगणतः शुभे २४।
कार्तिके दीपमानं च यत्त्वया तु कृतं पुरा ।
त्वद्देहगेहसंस्थेयं तस्माल्लक्ष्मी स्थिराभवत् २५।
यच्च व्रतादिकं सर्वं विष्णवे भर्तृरूपिणे ।
निवेदितवती तस्मान्मम भार्यात्वमागता २६।
आजन्ममरणात्पूर्वं कार्त्तिके यद्व्रतं कृतम् ।
कदाचिदपि तेनैव मद्वियोगं न पश्यसि २७।
एवं ये कार्त्तिके मासि नरा व्रतपरायणाः ।
मत्सान्निध्यं गतास्तेऽपि प्रीतिदा त्वं यथा मम २८।
यज्ञदानव्रततपः कारिणो मानवाः खलु ।
कार्त्तिकव्रतपुण्यस्य नाप्नुवंति कलामपि २९।
इत्थं निशम्य भुवनाधिपतेस्तदानीं प्राक्पुण्यजन्मभव वैभव जातहर्षा ।
विश्वेश्वरं त्रिभुवनैकनिदानभूतं कृष्णंप्रणम्य वचनं निजगाद सत्या ३०।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां कार्त्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे सत्यापूर्वजन्मवर्णनंनामैकोननवतितमोऽध्यायः ८९।