गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०७१-०७५

विकिस्रोतः तः
← अध्यायाः ६६-७० गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ७१-७५
[[लेखकः :|]]
अध्यायाः ७६-८० →


अध्याय ७१ प्रारंभ –
क उवाच ।
अपरस्मिन्दिने ब्रह्मन्राजा भद्रासनं गतः ।
अमात्यान्वीरमुख्यांश्च वृद्धांश्च सुहृदो द्विजान् ॥१॥
आकार्य च नमस्कृत्य जगाद हदि संस्थितम् ।
राजोवाच ।
विवाहाय तु पुत्रस्य समाहूतो विनायकः ॥२॥
उत्पाता बहवो जातास्ते च तेन निराकृताः ।
अदित्यै च मया प्रोक्तं शीघ्रं ते तनयं शुभम् ॥३॥
आनयिष्ये तत्र बहु दिवसा जग्मुरज्जसा ।
स्वस्थेषु त्रिषु लोकेषु विवाहोऽस्य विचिन्त्यताम् ॥४॥
अमात्या ऊचुः ।
सम्यगुक्तं महाराज विलम्बो विघ्नकारितः ।
जातो विवाहकार्येऽस्मिन्गतेऽस्मिन्स विधीयताम् ॥५॥
विनायकप्रसादेन सर्वमव्याकुलं जगत् ।
दूरस्थानां च सुहृदां प्रेष्यन्ता लग्नपत्रिकः ॥६॥
दूतांश्च सर्वसंभारान्कर्तुं ग्रामेषु युज्यताम् ।
क उवाच ।
इति प्रकृतिवाक्यानि श्रुत्वा लोकाः सभासदः ॥७॥
साधूक्तमिति तत्रोचुस्ततो राजा जहर्ष च ।
ज्योतिर्विद्भिर्लग्नदिनं निश्चिकाय तदैव सः ॥८॥
प्रेषयामास सुहृदो दूतानाकारितुं शुभान् ।
सामग्रीं कारयामास दूतैराप्तैर्यथाविधि ॥९॥
ततो मगधराजोऽपि सुतामादाय तां पुरीम् ।
आययुः सर्वसुहृदो नानादिग्भ्यः समागताः ॥२.७१.१०॥
उपायमानि भूरीणि ददुस्तेऽन्योन्यमादरात्।
देवतास्थापनं तौ च चक्रतुः सुमहोत्सवान् ॥ ११॥
सांगोपांगविवाहं तौ सम्यक्संपाद्य यत्नतः ।
तोषयामासतुर्विप्रान्सर्वलोकान्धनादिभिः ॥१२॥
विसृज्य सुहृदः सर्वांस्ततो राजा विनायकम् ।
भूषयामास विविधैर्भूषणैरंशुकैर्वरैः ॥१३॥
अभ्यज्य भोजयामास स्वाद्वन्नं सह बन्धुभिः ।
ततो रथं समारुह्य सह तेन नृसत्तमः ॥१४॥
ययौ वादित्रनिर्घोषैः कश्यपाश्रममुत्तमम् ।
ततो नागरिकाः सर्वे हित्वा कृत्यानि निर्ययुः ॥१५॥
भोजनं पठनं निद्रा व्यासंग तत्यजुस्तदा ।
अकृत्वा स्वस्ववेषं ते त्वरया निर्ययुः पुरात् ॥१६॥
ततो बालसहस्राणि रुरुधुस्तं विनायकम् ।
अस्मांस्त्यक्त्वा कथं यासि कथं निष्ठुरतां गतः ॥१७॥
गमिष्य इति पूर्वं नः कथं नोक्तं प्रसंगतः।
अभुक्त्वाऽस्मद्गृहे यासि कथं तं निजमाश्रमम् ॥१८॥
कश्चिद्बालो दधारास्य पादपद्मं रुदन्मुहुः ।
कश्चित्स्नेहात्समालिंग्य दधार करपंकजम् ॥१९॥
पौरांगनास्तथैवैनं बाला मुग्धाः सयौवनाः ।
विपर्यस्य निजा भूषा आययुस्तं विलोकितुम् ॥२.७१.२०॥
यथा पाथोनिधिं सर्वां वर्षाकाले समुद्रगाः ।
यान्ति हंसा यथा मुक्तासमूहं मरुतो हरिम् ॥२१॥
अतिप्रीतियुताः प्रोचुः कथं यासि विनायक ।
अकस्मात्स्नेहमुत्सृज्य कथं निष्ठुरतां गतः ॥२२॥
क उवाच ।
रथादवततारासौ दृष्ट्वा तान्नृपसंयुतः ।
परिश्रान्तान्धावमानान्स्खलतः पततोऽपि च ॥२३॥
तानुवाच ततः सर्वान्मुहूर्तं त्वरया जनाः ।
नृपेण सहितः शीघ्रमागतो नगराद्बहिः ॥२४॥
इदानीं प्रार्थये सर्वान्न त्याज्या करुणा मयि ।
अपराधास्तु क्षन्तव्या मया वः सदने कृताः ॥२५॥
न च त्याज्यः परिचयो यदि वो दर्शनं भवेत् ।
एवं तद्वाक्यमाकर्ण्य पौराः सर्वे शुचान्विताः ॥२६॥
रोमांचांचितमात्रास्ते प्रोचुर्गदगदया गिरा ।
जना ऊचुः ।
न माया मायिनस्तेऽस्ति सर्वस्य जगतः पितुः ॥२७॥
न पिता त्यजते बालान्सापराधानपि ध्रुवम् ।
न चन्द्र उष्णतां याति सुवर्णनीलतामपि ॥२८॥
कथं निष्ठुरतां यातः कथं गन्तुं समुत्सुकः ।
पूर्वमेव न चागाश्चेत्तदा शोको न संभवेत् ॥२९॥
चोरयित्वा कथं यासि सर्वेषां नो मनांसि च ।
कथं कार्यं करिष्यामो नीतेषु नो मनस्सु च ॥२.७१.३०॥
जले नष्टे जलचराः कथं जीवन्ति तद्वद ।
प्राणे गते शरीरेण किं प्रयोजनमस्ति नः ॥३१॥
कस्तत्र प्रतिकारः स्यादिक्षुश्चेत्स्रवते विषम् ।
तस्मान्नो नय यत्र त्वं यासि तत्र स्वकिंकरान् ॥३२॥
तद्वचः परिकर्ण्यासौ प्रोचे गद्गदया गिरा ।
मुंचन्नेत्राश्रु बहुलं सर्वान्स्त्रीवृद्धबालकान् ॥३३॥
देव उवाच ।
न खेदः सर्वदा कार्यो न वियोगो मम क्वचित् ।
सर्वान्तर्यामिणोऽपायहीनस्यानन्दरूपिणः ॥३४॥
न चित्तस्य समाधानं भवेद्वै चिन्तनेन मे।
मम मूर्ति मृदा कृत्वा पूजयन्तु गृहे गृहे ॥३५॥
संकटं वो यदा तु स्यात्स्मर्तव्योऽहं तदा जनाः ।
साक्षात्कारं प्रदास्यामि नाशयिष्यामि संकटम् ॥३६॥
क उवाच ।
वचनं तत्समाकर्ण्य ननन्दुः सर्वनागराः ।
नेमुः प्रदक्षिणीकृत्य जयशब्दै प्रतुष्टुवुः ॥३७॥
गृहीत्वाज्ञां ययुः सर्वे पौराः स्वं स्वं निवेशनम् ।
विनायकोऽपि शीघ्रं स रथारूढो ययौ पुरः ॥३८॥
काशिराजेन सहितो मातृदर्शनलालसः।
स ददर्श परावृत्यं मुखं पौरकुमारकान् ॥३९॥
आक्रन्दतस्तानुवाच पुनर्यास्ये वजन्तु हि ।
चिन्ता न कार्या सत्यं वो ब्रवीमि नानृतं क्वचित् ॥२.७१.४०॥
एवं तान्स परावृत्य क्षणात्स्वाश्रममाप्तवान् ॥४१॥ ( ३१६४ )
इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकाश्रमं प्रतिगमनं नामैकसप्ततितमोध्यायः ॥७१॥

अध्याय ७२ प्रारंभ –
क उवाच ।
पूर्वमेव च दूतेन कथितोऽसौ विनायकः ।
अदित्यै काशिराजेन रथस्थेन सहागतः ॥१॥
ततः सा तद्वियोगेन धावमाना ययौ पुरः ।
औत्सुक्यत्वरिता वेद नांचलं पतितं स्वकम् ॥२॥
दृष्ट्वा तां मुनिपुत्रोऽपि रथात्स्प्रकन्द्य सत्वरः ।
आययौ मातुरभ्याशमालिलिंग च तां मुदा ॥३॥
आनन्दाश्रु मुमोचासौ सोऽपि बाष्पं चिरागतः ।
मुहूर्तमेकभावं तौ गच्छेतां पयसी इव ॥४॥
ददौ स्नेहात्स्वस्थचित्ता स्तनपानं मुदाऽदितिः ।
प्रमृज्य नेत्रे प्रोवाच श्रान्तोऽसि बहुवासरम् । ॥५॥
ततो ननाम तां राजा जगौ गद्गदभाषया ।
राजोवाच ।
नीत्वा विनायकं देवं यातास्तु बहुवासराः ॥६॥
अतो न मातः कोपं त्वं मयि कर्तुमिहार्हसि ।
वियोगं नास्य सोढुं च न शक्तोऽहं मुनिप्रिये ॥७॥
न तृप्तिरस्ति पीयूषे नौदासिन्यं निधावपि ।
दिने दिने नवप्रेम वर्धयत्येष नो गृहे ॥८॥
उत्पाता बहवोऽनेन पुरे नो विनिवारिताः ।
असंख्याता हता दैत्या देवाश्च मुदमापिताः। ॥९॥
बहुला च कृता कीर्तिः स्थापिता धर्मसेतवः ।
पौरुषं च तथाऽनेन कृतं नेन्द्रादिभिः कृतम् ॥२.७२.१०॥
क उवाच ।
एवं स सर्ववृत्तान्तं कथयामास सादरम् ।
ततोऽदितिस्तु दध्यन्नं भ्रामयित्वाऽत्यजद्बहिः ॥११॥
दुष्टदृष्टिनिपातस्य शान्तये बालकोपरि ।
ततो बालं स नृपतिं निनायाश्रममण्डलम् ॥१२॥
कश्यपो हि बहिर्यातो दृष्ट्वा पुत्रं स भूपतिम् ।
तौ तं च नेमतुर्भक्त्या बद्धांजलिपुटावुभौ ॥१३॥
आलिलिंग मुनिस्तौ च मूर्ध्न्याघ्राय मुदा तदा ।
उवाच रुद्धकण्ठोऽसावंके कृत्वा विनायकम् ॥१४॥
काशिराज नोचितं ते बालं नीत्वा विलम्बनम् ।
शीघ्रमेवानयिष्येऽहमित्युक्त्वा नीतवान्कथम् ॥१५॥
वियोगेनास्य तप्तानामंगानां मेऽधुना नृप ।
जाता शीतलता पुण्याद्दर्शनादस्य साम्प्रतम् ॥१६॥
क उवाच ।
तत ऊचे काशिराजो निपीय मुनिभाषितम् ।
उपविश्यासने रम्ये प्राप्यानुज्ञां मुनेर्नृपः ॥१७॥
नृप उवाच ।
अस्यैव मायया जाता सत्यता मे मुनीश्वर ।
मद्गृहं देव देवेन स्वकीयमिति निश्चितम् ॥१८॥
अवाप्तकामो देवोऽयं स्वकामवशगो मुने ।
संपाद्य मम पुत्रस्य विवाहं समुपागतः ॥१९॥
क उवाच ।
तस्य दैत्यवधादीनि कर्माण्यस्मै न्यवेदयत् ।
ततो जहर्षतुरुभौ मुनिपत्नी मुनिश्च सः ।
ज्ञात्वा पराक्रमं तस्य स्वपुत्रस्य गुणान्बहून् ।॥२.७२.२०॥
ततस्ते भोजनं चक्रुः षड्रसान्नेन सादरम् ।
दत्त्वाशीर्वचनं तस्मै विससर्ज नृपं मुनिः ॥२१॥
सोऽपि तान्प्रणनामाथ प्रादक्षिण्येन निर्ययौ।
प्राप्यानुज्ञां नेत्रयुग्मान्मुंचन्नश्रु सुदुःखितः ॥२२॥
स्मरन्गुणगणं तस्य स्नेहनिर्भरमानसः ।
शीघ्रं प्रयातो नगरं वाद्यघोषसमन्वितः ॥२३॥
सर्वे नागरिका बाला विनायकदिदृक्षयः ।
आगता ददृशुस्तत्र ततो दुःखितमानसाः ॥२४॥
निरीक्ष्य तं काशिराजं ययुः स्वं स्वं निकेतनम् ।
अपरेद्युः सर्वपौराः पप्रच्छुस्तं नृपं मुदा ॥२५॥
यास्य इत्युक्तवान्देवो नागतः स कथं नृप ।
त्वं तु निष्ठुरभावेन त्यक्त्वा तं कथमागतः ॥२६॥
राजोवाच ।
अत्यन्तं प्रार्थितो देव उक्तवान्मां मुनिप्रियः।
मन्मूर्तिस्थापनं कृत्वा सेवध्वं सर्व एव माम् ॥२७॥
वियोगो न च सर्वान्तर्यामिणा वः कथंचन ।
ततस्ते कारयामासुर्मूर्तिं धातुमयीं शुभाम् ॥२८॥
चतुर्भुजां त्रिनयनां सर्वभूषणभूषिताम् ।
शूर्पकर्णां गजमुखीं सर्वावयवसुन्दराम् ॥२९॥
ढुण्ढिराजेति नाम्ना ता स्थापयामासुरादरात् ।
ऋत्विग्भिर्ब्राह्मणैरन्यैर्वेदशास्त्रविशारदैः ॥२.७२.३०॥
प्रासादं परमं कृत्वा पुपूजुस्ते दिने दिने ।
येन येनैव कामेन पूजयेद्यो विनायकम् ॥३१॥
तं तं ददाति तस्मै स भक्त्या संपूजितो विभुः ।
एवं नानामूर्तिधरो भ्राजते स्म विनायकः ॥३२॥
विश्वेश्वरे स्वनगरं याते सर्वसुरैः सह ।
दिवोदासे चाविमुक्ते काशिराजे सुखं स्थिते ॥३३॥
विनायको मुनिं प्राह कश्यपं मातरं च ताम् ।
अहं ते पुत्रतां यातस्तपसाराधितः पुरा ॥३४॥
भूभारश्च हृतः सम्यग्हतौ दैत्यौ महाबलौ।
त्रैलोक्यपीडकौ दुष्टौ देवान्तकनरान्तकौ ॥३५॥
देवाश्च साधवश्चैव रक्षिताः स्थापिताः परे ।
इदानीं तु गमिष्यामि निजलोकं चिरन्तनम् ॥३६॥
क उवाच।
श्रुत्वा वाक्यमुभौ खिन्नौ बाष्पकण्ठौ तमूचतुः ।
कदा ते दर्शनं देव पुनरावां भविष्यति ॥३७॥
ततः स मातरं प्राह दर्शनं मे भविष्यति ।
भवान्या मन्दिरे मातः सत्यं मे प्रियभाषितम् ॥३८॥
एवं श्रुत्वा देववाक्यं पुनर्यावद्वदत्यसौ।
तावदन्तर्हितो देवस्ततस्तौ खिन्नमानसौ ॥३९॥
कारयामासतुर्मूर्तिं प्रासादं चातिशोभनम् ।
विनायकेति नामास्य चक्रतुर्भक्तितत्परौ ॥२.७२.४०॥
तस्यां मूर्तौ ध्यातमात्रो नित्यं दर्शयते विभुः ।
स्वात्मानं सर्वगं नानारूपिणं स विनायकः ॥४१॥
गृत्समद उवाच ।
एवं कीर्ते समाख्यातं चरितं ते मया शुभम् ।
विनायकस्य देवस्य श्रवणात्सर्व सिद्धिदम् ॥४२॥
धन्यं यशस्यमायुष्यं सर्वोपद्रवनाशनम् ।
सर्वकामप्रदं सर्वपापसंचयनाशनम् ॥४३॥
पुनस्ते कथयिष्यामि सिन्धुदैत्यवधाय सः ।
अवतीर्णः शिवगृहे मयूरेश्वरसंज्ञितः ॥४४॥
बाल्यात्प्रभृत्यद्भुतानि नानाकर्माणि योऽकरोत् ॥४५॥ (३२०९)
इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकचरित्रकथनं नाम द्विसप्ततितमोऽध्यायः ॥७२॥

अध्याय ७३ प्रारंभ :-
व्यास उवाच ।
कथं ब्रह्मञ्शिवगृहे मयूरेश्वर संज्ञितः ।
अवतीर्णः किमर्थं वा किं च तच्चरितं पितः ।। १।।
मयूरेश्वरसंज्ञा च कथं जाता विनायके ।
एतन्मे सर्वमा- चक्ष्व शृण्वंस्तृप्यामि न क्वचित् ।।२।।
क उवाच ।
त्रेतायुगे महादैत्यः सिन्धुनामाऽभवत्पुरा ।
स हतस्तेन बलिनाऽवतीर्णेन शिवालये ।।३।।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शौनकस्य च संवादं राज्ञा च चक्रपाणिना ।।४।।
मैथिले विषये राजा गण्डकीन- गरे शुभे ।
चक्रपाणिरिति ख्यातः साक्षाद्विष्णुरिवापरः ।।५।।
न गुणा वर्णितुं शक्याः शेषेणास्य कदाचन ।।६।।
तेजसा लोपयन्मानं लावण्येन च मन्मथम् ।
मत्या बृहस्पतिं स्कन्दं विक्रमेण बलेन च ।।७।।
येनेयं सकला पृथ्वी क्षणेन वशवर्तिनी ।
कृता सर्वे च राजानः सेवायां विनियोजिताः ।।८।।
तुरंगाणां गजानां च पदातिना जयैषिणाम् ।
रथानां च न यस्यास्ति संख्यानं जगतीतले ।।९।।
साक्षाल्लक्ष्मी स्थिरा यस्य गृहे दर्शनगोचरा ।
रत्नकांचनमुक्ताभिरनिशं भासयद्दिशः ।।२.७३.१ ०।।
भद्रं भद्रकरं यस्य लोकनामलकोपमम् ।
यस्यामात्यौ महाबुद्धी साम्बश्चैव सुबोधनः ।। १ १।।
सेवन्तौ स्वामिकार्यार्थे तृणीकृत्य स्वजीवितम् ।
यस्यासीत्प्रमदा रम्या नाम्नोग्रा चारुहासिनी ।। १२।।
कुमुदानि विकासन्ते दिवा यन्मुखचन्द्रतः ।
अनेकभूषादीप्त्या या नाशयित्वाऽखिलं तमः ।। १ ३।।
पातिव्रत्य गुणान्द्रष्टुं यान्ति सर्वाः पतिव्रताः ।
एवं राजा बुधो मान्यः सदा विष्णुपरायणः ।। १४।।।
पुराणश्रवणे सक्तो धर्मशास्त्रपरायणः ।
सन्तत्या रहितः सोऽथ दुःखमाप दिवानिशम् ।। १५।।
असत्यं जायते यद्यत्तत्तन्नश्यति तत्क्षणात् ।
अनेकव्रतदानानि यज्ञांश्च कृतवान्बहून् ।। १६।।
ततः स राजा कस्मिंश्चित्समये निजभार्यया ।
आकार्य प्रकृती पौरान्विरक्तो राज्यसंपदि ।। १७।।
उवाच सर्वान्दण्डे च कोशं राज्यं त्यजेऽधुना ।
किमपुत्रस्य राज्येन स्वर्गहीनस्य मेऽधुना ।। १८।।
यानि कर्माणि च मया पुत्रार्थे चरितानि च ।
ईश्वरार्पणबुद्ध्या चेत्कृतानि स्युर्यदा तदा ।। १ ९।।
मुक्तिः स्यादुभयोः पूर्वजन्मकर्मक्षयोऽपि च ।
गतमायुर्वृथा लोका वनं यास्ये मुदाऽधुना ।।२.७३.२०।।
सर्वं प्रकृतिसात्कृत्वा यूयं तद्वाक्यकारिणः ।
गमिष्येऽहं वनं लोकास्तपस्तप्तुं हिताय वै ।।२ १ ।।
कदाचिदिष्टसिद्धिश्चेत्पुनर्यास्ये निजां पुरीम् ।
ध्रुवमाज्ञां मम पुनः प्रयच्छताधुना जनाः ।
एवं श्रुत्वा नृपवचः सर्वे दुःखितमानसाः ।।२२।।
अश्रुधाराः प्रमुंचंतः प्रोचुस्तं नृपसत्तमम् ।
पौरा ऊचुः ।
जननी जनकस्त्वं नः कथं निष्ठुरतां गतः ।
किमर्थं त्यजसे नस्त्वमपराधं विना प्रभो ।।२३।।
विना भवन्तं नो जन्म वृथैव मातरं शिशोः ।
वयमप्यनुयास्यामो यत्र याति भवान् प्रभो ।।२४।।
क उवाच ।
एवं वदत्सु लोकेषु नृपेणाथागतो मुनिः ।
शौनको मुनिशार्दूलो जातवेदा इवापरः ।।२५।।
वेदवेदांगशास्त्राणां वक्ता त्रैलोक्यविश्रुतः ।
शक्रादिसुरवन्द्यो यो भूतभव्यभविष्यवित् ।।२६।।
तं दृष्ट्वा पुरतो राजा ननामोत्थाय चासनात् ।
स्वासने तमुपावेश्य पुपूज परया मुदा ।।२७।।
भुक्तवन्तं च विश्रान्तं पादसंवाहनादिभिः ।
चक्रपाणिरथोवाच पुण्यं किं फलितं मम ।।२८।।
यज्जातं दर्शनं तेऽद्य सर्वपापहरं शुभम् ।
सर्वकामप्रदं नृणां दुर्लभं पापकर्मणाम् ।।२९।।
ततः प्रोचे मुनिश्चक्रपाणिं नृपतिसत्तमम् ।
संतुष्टः परया भक्त्या प्रश्रयेण दमेन च ।।२.७३.३ ०।।
मुनिरुवाच।
मा चिन्तां कुरु राजेन्द्र मा च राज्यं परित्यज ।
पुत्रस्ते भविता सम्यक् मद्वाक्यान्नात्र संशयः ।।३ १ ।।
मया वाणी नोक्तपूर्वाऽनृता हासेऽपि कर्हिचित् ।
क उवाच । एवमाकर्ण्य तद्वाक्यं जहृषे राजसत्तमः ।।३२।।
अलंकारान्ददौ तस्मै रत्नकांचननिर्मितान् ।
वस्त्राणि च महार्हाणि न च जग्राह वै मुनिः ।।३ ३।।
पुनः प्रोवाच नृपतिं वयं वल्कलधारिणः? ।
निःस्पृहाः सर्वभोगेषु सर्वभूतहिते रताः ।।३४।।
सृष्टिसंहारकरणे समर्थाः करुणाब्धयः ।
साधूनां दर्शनरताः समलोष्टाश्मकांचना ।।३५।।
विद्वत्सु नैव कमला स्थानं धत्ते कदाचन ।
तस्मान्नेदं ग्रहीष्यामि कांचनं वसनं शुभम्।।३ ६।।
तीर्थयात्राप्रसंगेन त्वामहं समुपागतः।
दिनानि च व्यतीतानि बहूनि तव दर्शने ।।३७।।
क उवाच ।
पुनस्तौ नेमतुः सम्यग्दम्पती शौनकं मुनिम् ।
पप्रच्छतुरुपायं तं सन्तानोत्पादने क्षमम् ।।३८।।
सर्वव्रततपोयज्ञान्मत्वा दानानि वै वृथा ।
ततोऽब्रवीन्मुनिः सौरं व्रतं सर्वार्थदं नृणाम् ।।३९।।
अनेकजन्मपापानां शमनं पुत्रपौत्रदम् ।
मुनिरुवाच ।
मासमात्रं व्रतं कार्यमारभ्य भानुसप्तमी ।।२.७३.४०।।
कृत्वाऽभ्युदयिकं श्राद्धं मातृपूजनपूर्वकम् ।
अभ्यर्च्य गणनाथं च स्वस्तिवाच्य द्विजर्षभान् ।।४१।।
सुवर्णकलशै स्थाप्यः सौवर्णं रविमण्डलम् ।
उपचारैः षोडशभिर्भक्तिभावसमन्वितः ।।४२।।
रक्तचन्दनमिश्रैश्च तण्डुलैः कुसुमैरपि ।
रक्तैर्नानाविधै रत्नैः फलैश्च विविधैरपि ।।४३।।
अर्घ्यैर्द्वादशसंख्यैश्च नमस्कारैः परिक्रमैः ।
स्तुतिभिः प्रार्थनाभिश्च प्रार्थयेत्परमेश्वरम् ।।४४।।
ततो लक्षनमस्कारान्कुर्वीत कारयीत वा ।
प्रत्यहं लक्षविप्रांस्तु भोजयेत्परया मुदा ।।४५।।
गामेकां प्रत्यहं दद्याद्वेदज्ञाय कुटुम्बिने ।
ब्रह्मचर्येण तिष्ठेच्च सपत्नीको नृपोत्तम ।।४६।।
दीनान्धकृपणेभ्यश्च दद्यादन्नं दयान्वितः ।
मासान्ते सर्वसंभारान्ब्राह्मणाय समर्पयेत् ।।४७।।
एवं व्रते कृते राजन्पुत्रस्ते मत्प्रसादतः ।
भविष्यति महाख्यातः सूर्यभक्तियुतः शुचिः ।।४८।।
क उवाच ।
एवं व्रतं समादिश्य शौनकोऽन्तर्हितस्तदा ।
ततश्चकार नृपतिर्य- थादिष्टं व्रतं तु तत् ।।४९।।
पत्न्या सह विनीतात्मा सूर्यभक्तिपरायणः ।
ब्राह्मणान्भोजयामास यथेच्छं लक्षसंख्यया ।।२.७३.५ ०।।
उपवासयुतः पत्न्या मासमात्रं बभूव सः ।
गोदानं च नमस्कारांश्चक्रे चाकारयद्द्विजैः ।।५ १ ।।
सूर्यमन्त्रं जपन्नित्यं तन्नामस्मरणं सदा ।
ततः कदाचित्तत्पत्नी रात्रौ स्वप्ने ददर्श तम ।।६२।।
निजभर्तृद्विजरूपं सवितारं मनोरमम ।
चकमे कामरूपं तं मदना- ग्निप्रपीडिता ।।५३।।
उवाच परितप्तांगी कामो मे बाधते भृशम् ।
ऋतुं मे देहि भर्तस्त्वं नो चेन्मृत्युर्भवेन्मम ।।५४।।
सोऽपि वन्ध्यं विनिश्चित्य तत्पतिं कामुकां च ताम् ।
स्वप्न एव भर्तृरूपी सविता तामृतुं ददौ ।।५५।।
सा प्रबुद्धा ततः प्राह समुत्थाप्य निजं पतिम् ।
नियमस्थेन किं ब्रह्मंस्त्वया मे ऋतुरर्पितः ।।५६।।
स उवाच ततस्तां तु नाहं व्रतमनाः शुभे ।
उपवासरतः क्षीणो रराम रविभक्तिमान् ।।५७।।
ततः पुनः प्राह सती नान्यं जाने कथंचन ।
त्वद्रूपेणैव ध्यायामि सवितारं व्रते स्थिता ।।५८।।
ऋतुजेन च दग्धाऽहं वह्निनाऽन्तर्गतेन ह ।
ततः पुनश्चक्रपाणिरूचे तां प्रियभाषिणीम् ।।५९।।
नृप उवाच ।
तुष्टोऽसौ सविता कान्त नमस्कारैश्च भोजनैः ।
ब्राह्मणानां गवां दानैरुपवासैर्जपैरपि ।।२.७३.६ ०।।
आवां सिद्धिं ददौ सम्यक् पुत्रस्तव भविष्यति ।
क उवाच ।
दिने दिने गर्भवृद्धौ तस्यास्तापोऽभिवर्द्धते ।।६ १ ।।
सा मुमुर्षुश्चन्दनानि सोशीराणि निषेवते ।
लिलेपांगे च कर्पूरं तापो नास्या शशाम च ।।६२।।
न चार्द्रवस्त्रपवनैस्ततः सा सखिभिः सह ।
तत्याज सिन्धुतीरे तं गर्भं गत्वा महत्तरम् ।।६३ ।।
आययौ साथ विश्रान्ता सखिभिर्निजमन्दिरम् ।
निवेद्य भर्त्रे त्यक्तं तं गृहकार्यरताऽभवत् ।।६४।।। (३२७३)
इति श्रीगणेशपुराणे क्रीडाखण्डे सिन्धूत्पत्तिवर्णनं नाम त्रिसप्ततितमोऽध्यायः ।।७३।।

अध्याय ७४ प्रारंभ –
क उवाच ।
त्यक्ते गर्भे तया सिन्धौ बालोऽजनि महाबलः ।
तेजस्वी विकरालास्यो दीर्घभालस्त्रिलोचनः १
रक्तकेशजटाभारश्चक्रपाणिस्त्रिशूलभृत् ।
बालशब्देन तस्याथ चकम्पे भुवनत्रयम् २
आजानुबाहुराक्रान्तुमियेष विष्टपत्रयम् ।
चुक्षुभे सागरस्तेन यादोभिर्मुनिसत्तम ।।३
तत्र स्थितस्तु बालोऽसौ समुद्रमुपशोषयत् ।
समुद्र उवाच ।
जीवनाय मम सुतं नेष्य एनं नृपालयम् ।। ४
क उवाच ।
इत्यानिनाय तं बालं समुद्रो नृपमन्दिरम् ।
दम्पत्योः पुरतः स्थाप्य प्रोच एवं द्विजस्तदा ५
तव पत्न्याऽत्याजि गर्भो दुःसहत्वान्ममोदरे ।
उग्रो बालस्ततो जातोऽखिललोकभयंकरः ६
यस्य प्रथमशब्देन कम्पितं भुवनत्रयम् ।
नेत्राभ्यां नेक्षितुं शक्योऽत एवैनमुपानयम् ७
इत्युक्त्वा बालकं मुक्त्वाऽन्तर्दधे सागरस्तदा ।
तत एनं कराभ्यां सा कटौ दध्रे नृपांगना ८
स्थापयित्वा ददौ प्रेम्णा स्तनपानं मुदान्विता ।
उभावानन्द युक्तौ तौ दम्पती पुत्रदर्शनात् ९
यथा चिरं योगनिष्ठो लब्ध्वा ब्रह्मामृतं परम् ।
तत आकारयामास ब्राह्मणान्सुहृदोऽपि च ।।२.७४.१०
ज्योतिर्विद्भिर्विचार्यास्य सिन्धुरित्यभिधां शुभाम् ।
राज्ञी चक्रे नृपश्चास्य जातकर्मं यथाविधि ११
कृत्वा ददौ ततो दानमनेकं हर्षनिर्भरः ।
अनेकेभ्यो द्विजातिभ्यो वस्त्राणि विविधानि च १२
दापयामास नगरे पताकाभिरलंकृते ।
वाद्यत्सु सर्ववाद्येषु शर्करां च गृहे गृहे १३
गतेषु सर्वलोकेषु रक्तांग इति नाम च ।
चक्रतुर्दम्पती स्नेहादथामात्यै समूचतुः १४
उग्रायास्तनयश्चायमुग्रमुद्राधरोऽपि च ।
अयमुग्रेक्षण इति नाम्ना ख्यातो भविष्यति १५
विप्रप्रसादन इति पौरा नाम प्रचक्रिरे ।
ततः सर्वे पौरजना उपदा विविधास्तदा १६
ददुर्नृपाय सोऽप्येतान्दापयामास तत्क्षणात् ।
ववृधे बालकः सोऽथ शुक्लपक्षे यथा शशी १७
यथाऽग्निर्वायुवेगेन वर्धते क्षणमात्रतः ।
तथा स्वतेजसा बालः प्रवृद्धो गगनं स्पृशत् १८
क्रीडन्नेव सदा बालो वृक्षान्गृहगतान्बहून् ।
उत्पाट्य पातयामास वामहस्ततलेन ह १९
अरण्ये क्रीडता तेन पर्वतांश्चूर्णिता द्रुमाः ।
उड्डीय चन्द्रहरिणं क्षणं जग्राह कर्हिचित २.७४.२०
जलावतारमार्गे तु रुद्धे क्वापि करेणुना ।
मुष्टिघातेन बिभिदे गण्डमस्या पपात सा २१
एवं तस्याद्भुतं कर्मं दृष्ट्वा लोका विसिस्मिरे ।
जहर्ष जननी चास्य पिता ज्ञात्वाऽतिमानुषम् २२
एवं प्रवृद्धो बालोऽसौ सिन्धुनामा महाबलः ।
उवाच पितरं यास्ये तप- स्तप्तुमहं नृप २३
अनुष्ठित्या स्वर्गलोकं भूलोकं च रसातलम् ।
आक्रमिष्ये वृथायुर्मै गच्छतीति मतिर्मम २४
एवमाकर्ण्य तद्वाक्यमूचतुः पितरौ च तम् ।
उत्कर्षं स्वस्य पुत्रस्य नित्यं प्रार्थयते पिता २५
जननी सर्वदेवेभ्यो व्रतदानादिनापि च ।
एवमाज्ञामवाप्यैव नत्वा तौ स ययौ वनम् २६
तत्र भ्रमन्ददर्शाथ कासारं जलजैर्युतम् ।
तत्र स्थातुं मनश्चक्रे विविक्तमिति हर्षितः २७
एकांगुष्ठेन भूमिष्ठ ऊर्ध्वबाहू रविं स्मरन् ।
शुक्रोपदिष्टं तं मन्त्रं जपन्पर्वतनिश्चलः २८
दक्षिणे जानुनि सदा वामपादं निधाय च ।
अंजलिं हृदि विन्यस्य ध्यायन्दिनमणिं तदा २९
शीतवातातपजलवृष्टीनां सहनो दृढः ।
वायुमात्राशनस्तस्थौ वल्मीकाक्रान्त- विग्रहः २.७४.३०
अस्थिमात्रावशिष्टोऽपि जपत्येव महामनुम् ।
एवं तस्य व्यतीताय शरदां द्विसहस्रकम् ३१
 तस्य सिन्धोः शरीरोत्थास्तेपुर्भासो रविं तदा ।
एवमुग्रं तपो दृष्ट्वा प्रत्यक्षोऽभूद्दिवाकरः ३२
उवाच परमप्रीतोऽनुष्ठानेन तवाधुना ।
वरं वरय चित्तस्थं दास्यामि जीवितावधि ३३
सिन्धुस्तदाकर्ण्य वचो भाषितं भानुना स्वयम् ।
देहभावं गतौऽपश्यत्पुरतो भास्करं प्रभुम् ३४
नत्वा तत्पादकमलं बद्धांजलिपुटोऽब्रवीत् ।
नमस्ते दीननाथाय नमस्ते सर्वसाक्षिणे ३५
नमस्ते त्रिदशेशाय ब्रह्मविष्णुशिवात्मने ।
नमस्ते विश्ववन्द्याय नमस्ते विश्वहेतवे ३६
नमस्ते वृष्टिबीजाय सस्योत्पादनहेतवे ।
परब्रह्मस्वरूपाय सृष्टिस्थित्यन्तहेतवे ३७
गुणातीताय गुरवे ग्रुणक्षोभविधायिने ।
सर्वज्ञाय ज्ञानदात्रे सर्वस्य पतये नमः ३८
धन्यं मे जन्म देवेश वंशो मे जनकोऽपि च ।
जननी च तपश्चापि यज्जातं तव दर्शनम् ३९
वरदश्चेद्दिनेश त्वं देहि मे सर्वतोऽमृतिम् ।
तव प्रसादात्संग्रामे जयेयं सर्वदेवताः २.७४.४०
वर्तमानाद्देवणान्न मे मृत्युर्भवेदिति ।
एवं तस्य वराञ्श्रुत्वा परितुष्टो विभावसुः ।
उवाच निजभक्तं तमनुष्ठानभृशं कृशम ४१
सूर्य उवाच ।
न भयं विद्यते देवयोनिभ्यो नृभ्य एव च ।
न तिर्यग्भ्यो न नागेभ्यो न दिवा न निशि क्वचित् ४२
नोषःकाले न सन्ध्यायां मम वाक्याद्भविष्यति ।
मरणं ते नृपसुत गृहाणामृतभाजनम् ४३
इदं यावत्कण्ठगतं तावन्मृत्युर्न ते भवेत् ।
निष्काशयेदिदं यस्ते तस्मान्मृत्युर्भविष्यति ४४
देवो योऽवतरेत्कोऽपि धुन्वन्केशाग्रतो दिवम् ।
यस्यांगुष्ठनखाग्रे स्युर्ब्रह्मांडानां हि कोटयः ४५
स त्वां हनिष्यति विभुरन्यस्मादभयं तव ।
मद्वरस्य प्रसादेन सवं तृणमयं तव ४६
त्रैलोक्यराजं ते दत्तं नात्र कार्या विचारणा ।
क उवाच ।
एवं नानावरान्दत्त्वान्तर्दधे सविता तदा ४७
सोप्यानन्दसमायुक्तो जगाम निजमन्दिरम् ।
जननी च पिता तस्य मूर्ध्न्याघ्रायापतुर्मुदम् ४८
ऊचतुस्तं तदा पुत्रं विरहाग्नेऽन्नवर्जितौ ।
चिन्तया कृशतां यातौ पश्य पुत्रदशामिमाम् ४९
तयोः पादौ प्रणम्याह स पुत्रो हर्षनिर्भरः ।
प्रसन्नः सविता मह्यं त्रैलोक्यस्वामितामदात् २.७४.५०
साधयिष्ये तद्वरात्तां न चिन्तां कर्तुमर्हथ ५१ ( ३३२४)
इति श्रीगणेशपुराणे क्रीडाखण्डे वरप्रदानं नाम चतुःसप्ततितमोऽध्यायः।।७४।।

अध्याय ७५ प्रारंभः
क उवाच ।
बुद्धिमन्तं सुतं ज्ञात्वा सवितुर्वरदर्पितम् ।
राज्यं तस्मै ददौ सर्वं देशकोशबलान्वितम् १
पिता वनं ययौ तस्य स्वात्मसाधनलालसः ।
स तु पित्राभिषिक्तः सन्राज्यं कर्तुं मनो दधे २
श्रेणीमुख्यान्समाहूय प्रकृतीरधिकारिणः ।
आस्थापयत्स्वाधिकारे मानयित्वांशुकादिभिः ।
डिण्डिरवेण स्वाज्ञाया भंगे दोषमघोषयत् ३
दिग्जयार्थं ततो वीरानाज्ञापयत सत्वरम ।
तेजसाऽहेपयत्सूर्यमतिभीषणविग्रहः ४
वीरा अग्रे प्रयान्ति स्म विकरालारुणाननाः ।
नग्ननानाशस्त्रधरा रजश्छादितभास्कराः ५
ततो गजाश्चतुर्दन्ता नानावर्णविभूषिताः ।
ययुर्महाशृंगलिनः कम्पयन्तो वसुन्धराम् ६
महामात्रसमारूढाश्चंचलाः पर्वता इव ।
नानावर्णध्वजयुता दिग्गजान्भेत्तुमिच्छवः ७
घण्टाघोषेण महता नादयन्तो दिगन्तरम् ।
अश्वारोहा ययुः पश्चान्नानालंकरणान्विताः ८
असंख्यतूणधनुषां शस्त्राणां मण्डलान्विताः ।
सिन्धुदैत्यश्चमूमध्ये रराज हयपृष्ठगः ९
मुक्तामालालसत्कण्ठो धनुर्बाणलसत्करः ।
खड्गखेटधरो गच्छंश्चूर्णयन्द्रुमपर्वतान् २.७५.१०
यद्यन्नगरमुद्दिश्य याति दैत्यो महाबलः ।
तस्य तस्याधिपं वीरा धृत्वा निन्युर्निजाधिपम् ११
स्वकीयं नायकं चिह्नं मुद्रां तत्र न्यवेशयन् ।
ततोऽन्ये शरणं याता दासभावमुपागताः १२
करदांस्तान्स कृत्वैव ररक्ष स्वपदे बलात ।
एवं सर्वान्वशं चक्रे दैत्यकोट्यस्ततोऽन्वयुः १३
शुम्भो निशुम्भो वृत्रश्च प्रचण्डः काल एव च ।
कदम्बासुरनामा च शम्बरः कमलासुरः १४
कोलासुरोऽब्रवीत्तत्र यथा त्रिपुरदैत्यराट् ।
विजित्य लोकत्रितयमधिकारान्हि नो ददौ १५
तथा यच्छाधिकारान्नो जित्वा त्रैलोक्यमोजसा ।
तस्मिन्हते शिवेनाद्य दृष्टोऽसि प्रबलोऽसुरः १६
न ते पराक्रमतुलां कृतान्तोऽपि लभेत्क्वचित् ।
तवाज्ञां कर्तुमिच्छामस्तव सेवां महाबल १७
एवमाकर्ण्य तद्वाक्यं संतुष्टः सिन्धुदैत्यराट् ।
ददावश्वान्गजांस्तेभ्यो वस्त्राणि भूष- णानि च १८
सिन्धुरुवाच ।
प्रबलस्तु तदाऽहं स्यां यदा जेष्येऽमरावतीम् ।
दरविष्णुसत्यलोकान्पातालानि च सप्त च १९
क उवाच ।
साधु साध्विति सर्वेषु ब्रुवत्सु सर्वंदैत्यपाः ।
जगर्जुंश्च जहर्षुश्च ब्रह्माण्डं पर्यकम्पयन् २.७५.२०
न भूपयुद्धात्कण्डुर्नो ह्यशमद्दे- वयुद्धतः ।
शमं यास्यत्ग्रतो जग्मुः शीघ्रमेवाव्रजन्दिवम् २१
रुरुधुस्ते शक्रपुरीं ब्राह्मणा इव वित्तदम् ।
मध्यं विविशुरपरे लुण्टन्तो रत्नसंचयान् २२
कोलाहलो महानासीद्देवानां तत्र गर्जताम् ।
ततः सभामध्यगतो हरिर्दूतमुखात्ततः २३
शुश्राव दैत्याभिगमं वेष्टिकां च निजां पुरीम् ।
शीघ्रमैरावतारूढो वज्रहस्तोऽमरान्वितः २४
आययौ तेन दैत्येन योद्धुकामः सुराधिपः ।
केचिदूचुः सुरास्तत्र नायं युद्धक्षमो हरे २५
विना रमापतिं चास्य न समो दृश्यते क्वचित् ।
यावद्वदत्सु तेष्वेवं तावदैत्थो महाबलः २६
शक्रं सुरगणैर्युक्तमविध्यच्छरवृष्टिभिः ।
तावद्देवगणाः केचित्पलायनपरा ययुः २७
ततोऽधावन्महेन्द्रोऽसौ गर्जमानो रुषान्वितः ।
ग्रसन्दैत्यगणान्सर्वान्वज्रोद्यतकरोऽरिहा २८
अहनद्दैत्यराजं तं मस्तके वज्रतो दृढम् ।
स मूर्छां महतीं प्रायान्मुहूर्तात्पुनरुत्थितः २९
उवाच च हरिं गच्छ स्वक्षयं न क्षयं व्रज ।
मम मुष्टिप्रहारेण कालो मृत्युं गमिष्यति २.७५.३०
तत्र का गणना तेऽस्ति नाशणोत्तद्धरिर्वचः ।
रोषाविष्टो महादैत्यस्ततो मुष्टिप्रहारतः ३१
बिभेदैरावतकटं रुधिरौघप्रवर्षितम् ।
तत उड्डीय दैत्यस्तच्चतुर्दन्तानधारयत् ३२
अपातयदगजपतिमाश्चर्यं हरिराययौ ।
दधार च हरिं पादे पोथयद्यावदेव तम् ३३
तावत्सूक्ष्मेण वपुषा निर्गतो हस्तमध्यतः ।
जगाम दूरदेशं स मनसा प्रशशंस तम् ३४
नैतादृशं बलं दृष्टमतिष्ठं चेन्मृतोऽभवम् ।
ततोऽमरगणैः सार्द्धं शरणं तं हरिं हरिः ३५
जगाम वपुषाऽन्येन विसृज्यैरावतं गजम् ।
सिन्धूदैत्यस्तु सेन्द्रेषु देवेषु विद्रुतेषु च ३६
इन्द्रासनमारूढो दैत्यवृन्देन वेष्टितः ।
ददौ पदानि देवानां दैत्येभ्यः सकलानि सः ३७
ततः शुम्भादयो दैत्याः स्थितास्तेषु निराकुलाः ।
नमस्यन्तोऽसुरपतिं प्रशंसन्तो बलाधिकम् ३८
नानावादित्रनिर्घोषैर्नादयंतस्त्रिविष्टपम् ३९ ( ३३६३)
इति श्री गणेशपुराणे क्रीडाखण्डे सुरपराजयो नाम पंचसप्ततितमोऽध्यायः ७५