गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०२१-०२५

विकिस्रोतः तः
← अध्यायाः १६-२० गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः २१-२५
[[लेखकः :|]]
अध्यायाः २६-३० →

अध्याय २१ प्रारंभ :-
क उवाच ।
शृणु द्विज महाश्चर्यं कथ्यमानं मया तव ।
विनायकस्य चरितं सर्वपापहरं नृणाम् ॥१॥
अम्भासुरस्य यो मूर्धा स गतो निजमन्दिरम् ।
भ्रमराया निरैक्षिष्ट सखी सा तां न्यबोधयत् ॥२॥
प्रसुप्तां कांचने तप्ते सोत्थायांगणमाययौ ।
पौत्रं शिरो निरीक्ष्यैव मूर्छिता पतिता भुवि ॥३॥
निघ्नती निजवक्षः सा कराभ्यां शोकनिर्भरा ।
निपतत् भूषणा खिन्ना नागामृष्टेव पद्मिनी ॥४॥
विभिन्नवलया छिन्न कूर्पासा तनुमध्यमा ।
दृश्यादृश्य महद्गात्रा लुंठती भुवि विह्वला ॥५॥
निषिध्यमाना सखिभिर्भ्रातृभिः स्वजनैरपि।
त्रिमुहूर्तेः प्रबुद्धा सा किंचिद् वक्तुं प्रचक्रमे ॥६॥
उत्थाय च कराभ्यां तु निजघान पुनः शिरः ।
भ्रमर्युवाच ।
येनेयं पृथिवी सर्वा त्रासिता सामरावती ॥७॥
मूर्ध्ना सहस्रं शेषस्य भ्रूकटाक्षेन कम्पितम् ।
येन राज्येऽभिषिक्तौ तौ देवान्तक नरान्तकौ ॥८॥
यस्य क्ष्वेडितमात्रेण रोदसी कम्पिता भृशम्।
स कथं पतितः कुत्र निहतः केन वा सुतः ॥९॥
यं दृष्ट्वा कम्पितः कालः स कथं निधनं गतः।
एवमाक्रन्दती दीना विवत्सेव पयस्विनी ॥२.२१.१०॥
एवं विलपतीं तां तु न्यषेधयत् सखीजनः ।
न दृष्ट्वा सखि केनापि मृतेन सह वै मृतिः ॥११॥
अतिशोकेन शोकोऽग्न्यः प्राप्यते मूढजन्तुभिः ।
यदि स्नेहेन पुत्र त्वम् शोचसेऽस्य हितं कुरु ॥१२॥
चारान्प्रेषय वृत्तान्तग्रहणायास्य सर्वतः ।
दह्यतां मस्तको मन्त्रैरेवमस्य हितं कुरू ॥१३॥
सुह्रदामश्रु पतितं प्रेतस्य तन्मुखे पतेत् ।
दहत्येनं न नतत्त्याज्यमित्याहुः परमर्षयः ॥१४॥
एवमाकर्ण्य तद्वाक्यं सोवाच तां सखीं रुषा ।
अयं मूर्ध्ना महाभागे स्थाप्यतां यत्नतः सखि ॥१५॥
आनयिष्येऽदितेः पुत्रमस्तकं सह तेन च ।
दाहयिष्याम्यमुं तस्मात् स्थाप्यतां तैलमध्यतः ॥१६॥
सा राक्षसी राक्षसवर्ययुक्ता समाययौ राजपुरीं निहन्तुम् ।
विनायकं तं निजरूपगोपिनी पतंगपत्रीव धनंजयान्तिकम् ॥१७॥
आगताऽदितिरूपेण भासयन्ती दिशो दश ।
अति लावण्यनिलया सर्वालंकार शोभिनी ॥१८॥
दाडिमी बीजदशना बिम्बोष्ठी तनुमध्यमा ।
विलसत् पद्मनयना मुक्तादामलसत् कुचा ॥१९॥
वीरा मुमुहिरे दृष्ट्वा तादृशीं नृपसद्मगाम् ।
मनसा कामयन्ति स्म यदालिंगन चुम्बने ॥२.२१.२०॥
तर्कयामासुरपरे रम्भा किं नु तिलोत्तमा ।
मेनका वा घृताची वा नागी यक्षी शिवा नु किम् ॥२१॥
उर्वशी वा रती राज्ञी कश्यपस्यादितिर्नु किम् ।
ज्ञात्वा तु राजपत्नीं ताम् प्रणनामादितिं मुदा ॥२२॥
पूजयामास सौभाग्यद्रव्यैर्भूषां शुकादिभिः ।
उवाच च सुचार्वंगी प्रेमगद्गदया गिरा ॥२३॥
महाभाग्येन दृष्टासि त्वं देवजननी मया ।
विनायकप्रसादेन क्वान्यथा दर्शनं तव ॥२४॥
राज्ञीमेवं ब्रुवन्तीं तु साश्रुकंठाऽवदद्वचः ।
अदितिरुवाच ।
मम बालो बहुदिनं स्थापितः कुत्र वर्तते ॥२५॥
अत्युत्कंठतया सुभ्रु दर्शनार्थमिहागता ।
स्त्रीणां स्वभावं जानासि माया व्याकुल चेतसाम् ॥२६॥
शोकसंतप्तगात्राऽहं तमालिंगामि चार्भकम् ।
तत्संसर्गसुशीतांगी प्राप्स्ये संतोषमुत्तमम् ॥२७॥
इति तद्वचनं श्रुत्वा सादरा सा ससम्भ्रमा।
गवेषितुं तु तं बालं राज्ञी दूतानचोदयत् ॥२८॥
अन्ये चख्युः काशिराजं कश्यपस्त्रियमागताम्।
स स्नात्वा गृहमागत्य तां दृष्ट्वा हर्षमाप ह ॥२९॥
ताम् प्रणम्य महाभक्त्या प्रोचे बद्धांजलिर्नृपः ।
मे राज्यं जन्म पितरौ धनं दृष्टिः श्रुतं तपः ॥२.२१.३०॥
दृष्ट्वा शक्तिर्देवमाता जगज्जननकारिणी ।
न शक्तिर्वर्तते सम्यग् वर्णितुं ते गुणान्मम ॥३१॥
बालो विनायकस्तेऽयं शक्रादधिक विक्रमः ।
अवदानान्यनेकानि कृतानि बहुधा सुरैः ॥३२॥
अशक्यानि मया वक्तुं रक्षसां निधनानि च ।
तस्यापि वर्णितुं नास्ति गुणानां शक्तिरल्पिका ॥३३॥
विश्राम्यतां क्षणं मातर्मम भाग्यं महत्तरम् ।
पदनेन हता मायाबलमाश्रित्य दानवाः ॥३४॥
अपरिक्षितेन वपुषा बालस्ते वसते सुखम् ।
त्वं किमर्थमिहायाता याता चेत् स्थीयतां क्षणम् ॥३५॥
निवृत्तेऽस्मिन्विवाहे तु प्रापयिष्ये उभावपि।
सोवाच ।
किमिदं भाषसे राजन्वियोगादस्य मेऽभवत् ॥३६॥
महान्खेदो न च सुखं लेभे क्वापीह किंचन ।
क उवाच ।
एवं वदत्यां तस्यां स आगतोऽसौ विनायकः ॥३७॥
प्रेषितो बालकैः सर्वैरागता जननी तव ।
सा लिलिंग ततो बालमश्रुपूर्णा मुदा जगौ ॥३८॥
चिरकालं स्थितोऽस्यत्र मां विहायाति निष्ठुर ।
त्वद्वियोगेन संतप्ताऽऽगता सर्वं विहाय च ॥३९॥
जीविताशां परित्यज्य त्वदर्थे तप आचरम् ।
अतिक्लेशेन लब्धोऽसि तान क्लेशान्वेत्ति चेश्वरः ॥२.२१.४०॥
विना त्वया क्षणो मेऽतो युगकल्पसमोऽभवत् ।
एवं लाघव वाक्याऽसौ दुष्टभावेन भामिनी ॥४१॥
अतिप्रेमबलात्सा तं कटिदेशे दधार ह ।
सोऽपि तच्चेष्टितं ज्ञात्वाऽऽगस्तस्याःपरिचिन्तयन् ॥४२॥
गूढाभिसन्धिस्तां प्रोचे पूर्वं किं मे त्वयाह्रतम् ।
एवं तस्मिन्ब्रुवत्येव लड्डुकं सा ततो ददौ ॥४३॥
अत्तेऽस्मिन्पुनरन्यं सा महाविषयुतम् ददौ ।
अत्तेऽस्मिन्पुनरन्यं स ययाचे लड्डुकं बलात् ॥४४॥
काशिराजश्च पत्नी च प्रार्थयामासतुस्तदा ।
उत्तिष्ठोत्तिष्ठ मातस्त्वं सबाला भोजनं कुरु ॥४५॥
यावदुत्तिष्ठते सा तु तावद्रुद्धाऽर्भकेण सा।
गिरीन्द्रसारवपुषा सा ततो विह्वलाभवत् ॥४६॥
मुंच मुंचेति तं प्राह माताऽहं तव बालक ।
बहुकालेन दृष्टुं त्वामागता स्नेहपाशतः ॥४७॥
कथं चूर्णयितुं माम् त्वमुद्यतोऽसि गिरिर्यथा ।
कराभ्यां नुनुदे सा तं तावन्निद्रां ययो च सः ॥४८॥
प्रसार्य चरणौ हस्तौ श्वासोच्छ्वासपरायणः ।
इति राजा न्यषेधत्तां विह्वलां भारपीडिताम् ॥४९॥
मा निद्राभंगमस्याशु कुरु त्वं जननी सती।
उद्धर्तुं बालकं केचिच्चक्रुःकरुणया मनः ॥२.२१.५०॥
उत्थापितुं चालितुं वा सर्वे नाशक्नुवंस्तदा ।
प्रार्थयामासुरपरे बालं राजीवलोचनम् ॥५१॥
अनुक्रोशं कुरु शिशो जननी ते मरिष्यति ।
चालयामास चरणौ हस्ते साऽथशिरोधराम्।।५२॥
किमिदं क्रियते बाल पितरं किं वदिष्यसि ।
एवं वदत्सु लोकेषु सा मृताऽथ निशाचरी ॥५३॥
दशयोजन देहेन व्यापितं भूतलं तया ।
पलायनपराः केचित्तां दृष्ट्वाऽतिभयानकाम् ॥५४॥
ययुः केचिच्च तां दृष्टुं विचित्रजनवृत्तयः ।
राजा च विस्मितस्तत्र जनः सर्वे विलोक्यताम् ॥५५॥
कथं कपटरूपेयमागता बालघातिनी।
ऋषिपत्नीस्वरूपेण ज्ञाता न राक्षसीति च ॥५६॥
अत्यद्भूतमं ज्ञानमस्य सामर्थ्यं च विलोकितम् ।
इति ब्रुवाणास्तु नरास्तत्समीपं मुदा ययुः ॥५७॥
बालमुत्थाप्य तस्यास्तु पुष्पभारसमं जगुः ।
अपनेयेति तेऽप्याहुर्दुष्टा दुष्टस्वरूपिणी ॥५८॥
परस्यानिष्टमिच्छेद्यः स एव निधनं व्रजेत् ।
तुष्टुवः परिपूज्यैनं काशिराजो जना अपि ॥५९॥
ऋषयो लोकपालाश्च भक्त्या देवं विनायकम् ।
नाथस्त्वमसि देवानां मनुष्योरगरक्षसाम् ॥२.२१.६०॥
यक्षगन्धर्वविप्राणां गजाश्वरथ पक्षिणाम् ।
भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च ॥६१॥
हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहवोः ।
अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च ॥६२॥
स्वर्गपाताललोकानां पृथिव्या जलधेरपि।
नक्षत्राणां ग्रहाणां च पिशाचानां च वीरुधाम् ॥६३॥
वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च ।
उत्पत्तिस्थिति संहारकारिणे ते नमो नमः ॥६४॥
पशूनां पतये तुभ्यं तत्वज्ञानप्रदायिने ।
नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे ॥६५॥
नमस्ते ब्रह्मरूपाय नमोऽनन्तस्वरूपिणे ।
मोक्षहेतो नमस्तुभ्यं नमो विघ्नहराय ते ॥६६॥
नमोऽभक्तविनाशाय नमो भक्तप्रियाय च ।
अधिदैवाधिभूतात्मंस्तापत्रय हराय ते ॥६७॥
सर्वोत्पातविघाताय नमो लीलास्वरूपिणे ।
सर्वांन्तर्यामिणे तुभ्यं सर्वाध्यक्षाय ते नमः ॥६८॥
अदित्या जठरोत्पन्न विनायक नमोऽस्तु ते।
परब्रह्मस्वरूपाय नमः कश्यपसूनवे ॥६९॥
अमेयमायान्वित विक्रमाय, मायाविने मायिक मोहनाय ।
अमेयमायाहरणाय मायामहाश्रयायास्तु नमो नमस्ते ॥२.२१.७०॥
एवं स्तुत्वा तु ते सर्वे ययुः स्वं स्वं गृहं मुदा।
त्यक्त्वा ताम् राक्षसीं छित्त्वा खंडशो दूरतः पुरात् ॥७१॥
य इदं पठते स्तोत्रं त्रिसन्ध्योत्पातनाशनम्।
न भवन्ति महोत्पाता विघ्ना भूतभयानि च ॥७२॥
त्रिसन्ध्यं यः पठेत्स्तोत्रं सर्वान् कामानवाप्नुयात् ।
विनायकः सदा तस्य रक्षणं कुरतेऽनघ ॥७३॥ (९८८)
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते राक्षसीवधो नामैकविंशतितमोऽध्यायः ॥२१॥

अध्याय २२ प्रारंभ :-
क उवाच ।
अपरस्मिन् दिने राजा प्रातःस्नानकृतोद्यमः ।
पौराः सर्वे वितर्क्यैवं नायं देवो न मानुषः ॥१॥
न देवश्चेत् कथं पंच महान्तो देवदुर्धराः ।
अजेयाः शक्रहरिभिर्हता दैत्या महाबलाः॥२॥
देवएव भवेद् बालमध्येऽयं क्रीडते लघु ।
इति तर्क्य ततस्तावदागता राजदर्शनम् ॥३॥
राजाऽपि भद्रमगमदुवाच सकलान् प्रति।
निरूपयन्तु यत्कार्यं तद्वः सिद्धिं प्रयास्यति ॥४॥
किमर्थं प्रातरेवेह पौरा यूयं समागताः ।
त ऊचुर्न रहस्यं यत् स्वाभिप्रेतमृते वचः ॥५॥
त्वयाऽयं हि समानीतो मुनिपुत्रो विनायकः ।
नास्य दास्यमभून्नो हि किंचित् क्वापि कदाचन ॥६॥
त्वया तु पूजितोऽनेकवारं स्वशरणे स्थितः ।
यद्यत्तव गृहे याति तत्तन्नः प्रेषयस्यहो ॥७॥
अयं तु न कथं राजन प्रेषितो नु विनायकः ।
राजोवाच ।
सम्यगुक्तं यत्र जना विभज्य भुज्यते तु यत् ॥८॥
अमृतं याति च विषं विषमन्यद् भवेत्तु तत् ।
अस्मिन्यस्य भवेद् भक्तिर्देवे वा मानुषेऽपि वा ॥९॥
स एनं स्वगृहे नीत्वा पूजयेद्भोजयेदपि ।
जनास्तु त्रिविधाः पौरा रजःसत्वतमो गुणैः ॥२.२२.१०॥
परीक्षन्तेन्मरा दुष्टाः पुण्यवन्तो भजन्त्यपि ।
केचिदेनं विनिन्दन्ति प्रशंसन्ति च केचन ॥११॥
यस्य स्वभावो यादृक्स्यात्स तथा वर्तते नरः ।
न जहाति घृष्यमाणश्चन्दनः स्वसुगन्धिताम् ॥१२॥
कस्तुरी कर्दमयुतः पलांडुवा निजं गुणम् ।
भवतां यदि भक्तिश्चेदनन्याऽस्मिन्सुते मुनेः ॥१३॥
नीयतां पूजयन्स्वाशु भोजनाय प्रियाय च ।
परीक्षार्थं न नेयोऽसौ जनको जननी मम ॥१४॥
मया कथं नरा वाच्या नीत्वैनं पूजयन् त्विति ।
अस्य शक्तिं दृढां दृष्ट्वा मम भक्तिर्विशिष्यते ॥१५॥
नायं चेन्मत्पुरी क्वत्या कृतो यूयं क्व चाप्यहम् ।
इति राजवचः श्रुत्वा पुनरूचुश्च नागराः ॥१६॥
यथा वदसि कल्याण तत्तथा न तदन्यथा ।
अस्माकं कार्यसिद्धिर्या तां कुरुष्व जनाधिप ॥१७॥
नीत्वेमं स्वगृहे बालं पूजयामो यथार्हतः ।
एतस्मिन्नन्तरे बालोऽवदत्तान् सदसिस्थितान् ॥१८॥
जानन्नन्तर्गतं तेषां सर्वसाक्षी जगद्गुरुः ।
विनायक उवाच ।
किमर्थं माम् प्रार्थयन्तो भवन्तोऽति महत्तराः ॥१९॥
अहं बालो मुनिसुतो मत्पूजनफलं नु किम् ।
भविष्यति न जानेऽहं भवतां व्ययकारिणाम् ॥२.२२.२०॥
विवाहो व्रतबन्धो वा यज्ञो वाऽन्यो महोत्सवः ।
तदा भवद्गृहं यास्ये हव्यं कव्यं यदा भवेत् ॥२१॥
असंख्याता भवन्तो हि कथमेको गृहं व्रजे ।
वकेशिनीं किमर्थं वा गां धोक्ष्यथ भवद्विधाः ॥२२॥
वांछितार्थी कथं याचेत्त्यक्त्वा कल्पद्रुमं द्रुमम् ।
अन्यत् क्षुद्रं वांछितं वा तद्वद्यूयं समुत्सुकाः ॥२३॥
क उवाच ।
विनायकवचः श्रुत्वा श्रेणीमुख्या जगुः पुनः ।
अस्मिन्विवाहे सम्पन्ने न स्थास्यति क्षणं भवान् ॥२४॥
राज्ञः प्रसादाद्दृष्टोऽसि भक्तिं न सफलीकुरू ।
अवाप्तकामस्य च ते सृष्टि स्थित्यन्तकारिणः ॥२५॥
सर्वान्तर्यामिणः सर्वं चित्तवृत्ती विजानतः ।
कर्तुं वाप्यन्यथा कर्तुमकर्तुं वा क्षमस्य ह ॥२६॥
चिदानन्दस्य नैवास्ति पूजाभिर्नः प्रयोजनम् ।
भक्तिप्रियो देव इति निगमं न वृथा कुरू ॥२७॥
निशम्येति वचस्तेषां तानूचेऽथ विनायकः ।
एवं चेद्भवतां भक्तिस्तदा यास्ये नृपाज्ञया ॥२८॥
एवमाकर्ण्य तद्वाक्यं सर्वेऽपि स्वगृहान् ययुः ।
मंडपान् विदधुः केचित् केचिद्वस्त्रगृहाणि च ॥२९॥
तोरणान् विदधुर्भक्त्यादर्शशोभाद्भुतानि च ।
भाजनानि महार्हाणि सुगन्ध चन्दनानि च ॥२.२२.३०॥
द्रव्याणि च सुगन्धीनि मृगनाभिभवानि च ।
फलानि च विचित्राणि वासांस्याभरणानि च ॥३१॥
पक्वान्नानि विचित्राणि पंचामृतयुतानि च ।
स्थापिता मूर्तयो नानामुक्तामाला विभूषिताः ॥३२॥
एवं गृहे गृहे सर्वे सामग्रीं चक्रुरुत्सुकाः ।
एकोऽभून्नगरप्रान्ते ब्राह्मणो वेदशास्त्रवित् ॥३३॥
शुक्ल नाम्ना शुक्लवृत्तिः शान्तो दान्तः क्षमान्वितः ।
श्रौतस्मार्त कर्मनिधिर्ब्रह्मनिष्ठोतिथिप्रियः ॥३४॥
यस्य पत्नी महाभागा विद्रुमा नाम नामतः ।
निस्पृहा ज्ञानसम्पन्ना सर्वावयवसुन्दरा ॥३५॥
दरिद्रा ज्ञाननिष्ठा सा पतिप्राणा पतिव्रता ।
तस्या गृहगतं दृश्यं नभस्तारांकितं स्फुटम् ॥३६॥
न स्वर्णं राजतं ताम्रं भाजनं रीतिजं न च ।
गौरा वल्कलसंवीता तेजोज्वाला सुशोभना ॥३७॥
यदंगतेजसा व्याप्तं दृश्यमानं न दृश्यते ।
तेन वृत्तेन तुष्टा सा गहशोभाविधायिनी॥३८॥
तस्यास्तोषेण तुष्टोऽभूद्विनयेन च सेवया।
स्वस्थःस्थितो ज्ञाननिष्ठस्तिष्ठत्यकृतभोजनः॥३९॥
कदाचिद्भिक्षितुं यातो वारितस्तु गृहेगृहे ।
महोत्सवं प्रकुर्वद्भिर्विनायककृते जनैः ॥२.२२.४०॥
यल्लब्धं तेन तुष्टोऽसौ भार्यामेत्याऽब्रवीदिदम् ।
श्रूयतां पत्नि नगरे वारितोऽहं गृहेगृहे ॥४१॥
आयास्यति प्रतिग्रहं पूजार्थं स विनायकः ।
योऽवतीर्णो मुनिगृहं भूभार हरणोद्यतः ॥४२॥
आयास्यति गृहं चेत्स पूजार्थे यत्नमाचर ।
साऽब्रवीन्महतीं पूजां त्यक्त्वाऽन्नं त्वद्गृहे कथम् ॥४३॥
भवतां सोऽकिंचनानां कथं वा गृहमेष्यति ।
गन्धपुष्पं पर्युषितं पक्वं कन्दफलं मुने ॥४४॥
भविष्यति कृतं सम्यगसम्यक् स्वल्पमप्यहो।
किं वा प्रयोजनं तस्य गृहेण भवतां प्रभो ॥४५॥
इति प्रियावचः श्रुत्वा पुनरूचे मुनिः प्रियाम् ।
स माम् भक्तं विजानाति दीनानाथ प्रभुः प्रभुः॥४६॥
भक्तिप्रियोऽस्ति देवोऽयं न लोभवशगो विभुः।
अर्णसा च पलाशेन पुष्पेण प्रीयते हि सः ॥४७॥
सुवर्णानिचयार्वापि न हि दम्भाति समर्पितैः ।
इत्याकर्ण्य वचस्तस्य विद्रुमा पुनरब्रवीत् ॥४८॥
एवं चेत्तर्हि यत् सिद्धं तदेतस्मै निवेद्यताम् ।
ततोऽष्टादश धान्यानाम् कृत्वा पिष्टं पपाच सा । ॥४९॥
ओदनश्च कृतो जीर्णं तन्दुलानां जलाधिकः ।
मुष्टिपिष्टं पर्णपुटे पक्त्वा भुंक्ते दिनेदिने ॥२.२२.५०॥
तत्तेन दिनमानेन द्रव्येण चैलमानयत् ।
गन्धाक्षतं च पुष्पाणि धूपं दीपं महार्तिके ॥५१॥
वन्यं फलं वल्कलं च स्थापयामास चैकतः ।
शुष्कामलक खंडानि मुखवासार्थमेव च ॥५२॥
प्रसार्य दर्भनिचयं सुसिक्ते स्वांगणे ध्वजम् ।
चकार कशिपू नासौ ध्याननिष्ठोभवन् मुनिः ॥५३॥
नैवेद्यं वैश्वदेवं च कृत्वा पूर्वं प्रयत्नतः ॥५४॥ (१०४२)
इति श्रीमदादि श्रीमन्महागाणेशपुराणे क्रीडाखंडे बालचरिते नाम द्वाविंशतितमोऽध्यायः ॥२२॥

अध्याय २३ प्रारंभ –
क उवाच ।
स बालो बालमध्ये तु चिक्रीडे कौतुकान्वितः ।
राजा भद्रासनगतो नृत्यं सर्वजनैः सह ॥१॥
यावत्पश्यति वेश्यानां तावदेवागतावुभौ ।
देवलोकात्सदो रम्यं सनकश्च सनन्दनः ॥२॥
उद्भासितं तयोर्दीप्त्या सूर्याग्न्योरिव तत्सदः ।
आसनादुदतिष्ठत्स नृपतिः सहसेक्ष्य तौ ॥३॥
स्थिरः स्थाप्य पादपद्मे साष्टांगं प्रणनाम तौ ।
बद्धांजलिरुवाचाथ अद्य धन्यं कुलं मम ॥४॥
राज्यं ज्ञानं च देहश्च पत्नीपुत्रादिकं च यत् ।
इत्युक्त्वा पाणिना धृत्वा स्वासने चोपवेश्य तौ ॥५॥
उपचारैः षोडशभिरपूजयत भक्तितः ।
तौ च विश्रामयामास पादसंवाहनादिभिः ॥६॥
पुनः पुनः प्रणम्यासौ वक्तुं समुपचक्रमे ।
राजोवाच ।
मुनीनां न्यस्तदंडानां निस्पृहाणां च सर्वदा ॥७॥
कार्यलिप्सा न काचित्स्यादाज्ञामीहे तथाप्यहम् ।
तपो राज्यं कुलं शीलं सार्थकं कर्तुमुद्यतः ॥८॥
तावूचतुः ।
अवाप्तसर्वकामोऽसौ परब्रह्मस्वरूपवान् ।
लीलावतारी भगवान् कश्यपस्य सुतस्तव ॥९॥
गृहे नानाकौतुकानि कुरुतेऽद्भुतविक्रमः ।
श्रुत्वाऽवदानं तस्यात्र द्रष्टुमावां समागतौ ॥२.२३.१०॥
अन्यथा शक्रभवनत्यागे किं नः प्रयोजनम् ।
गृहे यस्य कल्पतरुः सोऽन्यं कि याचयिष्यति ॥११॥
तस्योङ्घ्रिकमलं नत्वा गच्छावः स्वस्थलं नृप ।
एवं तयोरागतयोः श्रुत्वा वाक्यं विनायकः ॥१२॥
वदतोरागतः क्रीडां त्यक्त्वा मोदक हस्तकः ।
पंचखाद्यमयं भक्ष्य मोदकं लीलयादधत् ॥१३॥
तयोस्तं दर्शयामास नृपो हास्यपरो मृदु ।
सोऽयं समागतो देवो यद्दर्शनसमुत्सुकौ ॥१४॥
आगतो यच्च कर्तव्यं कुरुतं तद्यथेष्टतः ।
तं निरीक्ष्य मुनी तौ तु परस्परमथोचतुः ॥१५॥
अनेन दूषितो नूनं कश्यपो मुनिसत्तमः ।
तत्पुत्रतां समासाद्य स्वाचारं त्यजता भृशम् ॥१६॥
स्पृष्टास्पृष्टविचारोऽस्य भक्ष्याभक्ष्यविधिर्न च ।
दर्शने स्पर्शने चास्य महान्दोषो भवेत्खलु ॥१७॥
कथं स्वनियमांस्त्यक्त्वा स्थितः क्षत्रियवेश्मनि ।
स्वधर्मे नः स्थितानां तु दर्शनेनास्य किं भवेत् ॥१८॥
शुश्राव तां गिरं देवो नृपसन्निहितस्तदा ।
उवाच वाक्यं वाक्यज्ञो वाचस्पतिरिवापरः ॥१९॥
क्व गतं भवतो ज्ञानं वृथा श्रमवतोर्मुनी।
स्वर्गं त्यक्त्वा कथमिह संप्राप्तौ प्राकृताविव ॥२.२३.२०॥
श्रुत्वेत्थं वचनं तस्य नृपतिं तावथोचतुः ।
मायामयस्य देवस्य मायया मोहितो भृशम् ॥२१॥
देह्यनुज्ञां गमिष्यावो निजमाश्रम मंडलम् ।
ततो नृपतिशार्दूलो दृढभक्ति प्रणोदितः ॥२२॥
स्थीयतां श्रूयतां वाक्यं मदीयमित्युवाच तौ।
भक्त्या च प्रार्थयामास स्नात्वा भुक्त्वाऽनुगम्यताम् ॥२३॥
निशम्य प्रार्थनां तस्य मोचतुर्मुनिपुंगवौ ।
न भुज्येते राजकीयमन्नम् तस्माद् व्रजावहे ॥२४॥
तदनुज्ञां समासाद्य मणिकर्णी ततो गतौ ।
विनायकः सर्वबालैरनुयातो मुदा रमन् ॥२५॥
स्नात्वा गतः शुक्लगृहं ज्ञात्वा तद्भक्तिमादृतः ।
यथा धावति गौर्वत्सं यथा माता रुदच्छिशुम् ॥२६॥
यथा कृष्णः सभानीतां द्रौपदीं शरणागताम् ।
दृष्ट्वा तौ दम्पती देवं पादयोर्विनिपेततु ॥२७॥
आनन्दाश्रूणि मुंच्चन्तौ वाचा गद्गदया गिरा।
लिलिंगतुर्मुदा देवं ननृतुर्हर्षनिर्भरौ ॥२८॥
न विन्दतुः प्रकर्तव्यं देहातीता विवासतुः ।
रोमांच्चांच्चितगात्रौ तौ बाष्पधाराममुंच्चताम् ॥२९॥
मुहूर्ताल्लब्धसंज्ञौ तौ नेमतुर्जगदीश्वरम् ।
तत ऊचे मुनिर्देवं दीननाथेति यत्तव ॥२.२३.३०॥
विख्यातं त्रिषु लोकेषु नाम पापहरं शुभम् ।
सार्थकं कृतमद्यैव जन्म नः पाददर्शनात् ॥३१॥
प्रासादनिचयांस्त्यक्त्वा गतः पर्णकुटीमिमाम् ।
धन्यो वंशो मदीयोऽद्य जन्म ज्ञानं तपो वयः ॥३२॥
अपूजयत्ततस्तं स कुशासनगतं मुनिः ।
प्रक्षाल्य चरणद्वन्द्वं जलं तच्छिरसाऽदधत् ॥३३॥
गन्धाक्षतं पुष्पमालां धूपं दीपं ददावथ ।
दूर्वांकुरान् शमीपत्रं सुतैलं केतकं शुभम् ॥३४॥
खाद्यं स्वल्पं पुरः स्थाप्य फलमारण्यकं तथा।
पुष्पांजलिं मन्त्रपूतां दत्त्वा नत्त्वा स लज्जितः ॥३५॥
कदन्नं कथमस्मै तद्देयमित्येव चिन्तयन् ।
अभिप्रायं विदित्वा तं देवदेवो विनायकः ॥३६॥
याचे मातः किमन्नं ते गृहे तद्दीयतां मम ।
भक्त्या दत्तं कदन्नं मेऽधिकं स्यादमृतादपि ॥३७॥
विषं भवति यदत्तं दम्भेनाश्रद्धयान्वितम् ।
विस्तीर्णमोदनं शुष्कं भास्करीं बहुधान्यजाम् ॥३८॥
आस्थापयत् पुरस्तस्य मुनिपत्नी ह्रियान्विता ।
तैलं च सकलं दृष्ट्वा प्राहसंस्तं च बालकाः ॥३९॥
अभक्षयत्स पक्वान्नसदृशं परमादरात् ।
प्रतिग्रासं जलं पीत्वा जघास बलवत्तरम् ॥२.२३.४०॥
ततस्तेनोदनः पात्रं निक्षिप्तो मुनिनाऽखिलः ।
तज्जलं चलितं दिक्षु बालो रोद्धुं न चाशकत् ॥४१॥
ततोऽभवद्दशभुजो बुभुजे चौदनं च तैः ।
आश्चर्यं ददृशुर्लोका हसन्तो हस्ततालतः ॥४२॥
अपूर्वः पाचितोऽयं नु जानुदघ्नजलेन यः ।
इत्यूचुर्बुभुजुर्बाला रुच्या पायसकल्पया ॥४३॥
साकं तेन च वैर्भुक्तं गतास्ते देवतुल्यताम् ।
अशोचन्नितरे पश्चाद्येऽहसन्विवृतै रदैः ॥४४॥
कोलाहलो महानासीन्नगरे क्व विनायकः ।
केचिदूचुः शुक्लगृहे भुनक्ति शीर्णमोदनम् ॥४५॥
रोद्धुं कृता दशभुजो ओदनं च भुनक्ति तैः ।
भुक्ते तस्मिन्विशुद्धे स शुष्कमामलकं ददौ ॥४६॥
मुखशुद्धिं तेन चक्रे जगदात्मा विनायकः ।
प्रसन्नः शुक्लमवदत् प्रीतो भावेन तेऽनघ ॥४७॥
वरान्वृणु महाभाग मत्तो यानभिकांक्षसे ।
शुक्ल उवाच ।
सर्वान्नागरिकांस्त्यक्त्वा भोक्तुं रूक्षान्नमागतः ॥४८॥
अयमेव वरो महयं यज्जातं तव दर्शनम् ।
प्रभुवाक्यानुरोधेन याचे भक्तिं त्वयि स्थिराम्॥४९॥
अन्ते मोक्षं च मे देहि येन नावर्तते पुनः ।
न संसारसुखे चित्तं रमते ते विनायक ॥२.२३.५०॥
क उवाच ।
एवमस्त्विति तं प्रोच्य पूर्ववद् द्विभुजः शिशुः ।
गृहं तस्मै शक्रगृहाद्वरं सद्रत्नकांचनम् ॥५१॥
अत्युत्तमं स्वरूपं च ज्ञानं सम्पदमर्पयत् ।
अनुज्ञातो ययौ ताभ्यामन्यत्र बालकैर्वृतः ॥५२॥ (१०९४ )
इति श्रीगणेशपुराणे क्रीडाखंडे बालचरित्रे शुक्लवरप्रदानं नाम त्रयोविंशतितमोऽध्यायः ॥२३॥

अध्याय २४ प्रारंभ :-
क उवाच ।
व्यलोकयंस्तं नगरे तस्मिन् सर्वे महाजनाः ।
विधाय पूजासामग्रीं भोजनस्याप्यनेकधा ॥१॥
गृहे गृहे राजगृहे सर्वामात्यगृहेऽपि च ।
गवेषयन्ति स्म जनास्तदा कश्यपनन्दनम् ॥२॥
अपृच्छन्त जनाः सर्वे क्वचिदृष्टो विनायकः ।
नेति नेति श्रुतिर्वक्ति यं स कस्याक्षिगोचरः ॥३॥
भवेन्नालोकितोऽस्माभिरिति तत्रावदज्जनाः ।
पुरप्रान्ते तु ये तत्र तेऽशृण्वज्जनवाक्यतः ॥४॥
स चागतः शुक्लगृहं ततस्ते तद्गृहं ययुः ।
नापश्यंस्तमथापृच्छंस्तेनोक्तं स इतो गतः ॥५॥
स तु मायामयो बालो जनान्वंचितुमुत्सुकः ।
विसृज्य बालकान् पश्चाद् द्वारेणागत्य सुप्तवान् ॥६॥
केचित्तं ददृशुः सुप्तं हर्यक्षमिव गह्वर ।
केचित्तं क्रोधावशगा निनिन्दुर्बालको लघुः ॥७॥
पिशाच इव किं यातो दरिद्रस्य गृहं प्रति ।
ईशश्चेत् सर्वभावज्ञः सर्वेषां प्रियमाचरेत् ॥८॥
उत्थाप्य तं करे धृत्वा याहीति शरणं शुभम् ।
सफलं कुरु नः सर्वं त्वदर्थमुपकल्पितम् ॥९॥
गतः खेदो भ्रमणजो दृष्ट्वा त्वच्चरणाम्बुजम् ।
याहि याहि गृहान्नस्त्वं भोक्तुं बालगणैः सह ॥२.२४.१०॥
स ऊचे साम्प्रतं भुक्तं पुनरूचुर्जनास्तु तम् ।
दरिद्रस्य गृहे किं ते भुक्तंस्याद्भैक्ष्यवर्तितः ॥११॥
नापोऽपि पिबते क्वान्नं कथं भुक्तं त्वया विभो।
गणेश उवाच ।
उदरं परिपूर्णं मे यातुं शक्तिश्चनास्ति मे ॥१२॥
क उवाच ।
ततः सर्वे विदित्वा तं भुक्तं शुक्लगृहे जनाः।
निराशा भग्नसंकल्पा रुष्टा दीना विचेतसः ॥१३॥
सम्भारा व्यर्थतां याता नानावकेशार्थ संचिताः ।
बुभुजुस्तान् स्वयं दुष्टा दाम्भिका भक्तिवर्जिताः ॥१४॥
ये भक्तास्ते निराहारास्तस्थुर्ध्यानपरायणाः ।
एवं सर्वेषु लोकेषु ज्ञात्वा ध्यानस्थितेषु सः ॥१५॥
एको नानाष्वरूपोऽभूद् घटाकाश इव स्फुटम् ।
जलपूर्णेषु कुम्भेषु रविर्नाना यथेक्ष्यते ॥१६॥
क्वचित् पर्यंकशयनः क्वचित् जपपरायणः ।
क्वचिद्दानरतः क्वापि भोजनाय समुत्सुकः ॥१७॥
क्वचित् पाठ्यते शिष्यान् सांगवेदंसहार्थकम् ।
क्वचित् व्याकुरुते शास्त्रं क्वचिच्च पठति स्वयम् ॥१८॥
एवं नानास्वरूपैः स नानागृहगतो बभौ ।
अयमस्मद् गृहं यातः पूर्वमित्यभिमेनिरे ॥१९॥
तैलमुद्वर्तनं स्नानं पूजनं भोजनं ददुः ।
एवं सर्वे जह्रषिरे काशिराजसमन्वितम् ॥२.२४.२०॥
दृष्ट्वा देवं परमया मुदा साधुविनायकम् ।
पुपूजुर्भोजयामासुर्द्विजान् सुहृद्गणानपि ॥२१॥
पंचामृतं च पक्वान्नं व्यंजनं पायसौदनौ ।
अन्यद्रुचिकरं सर्वं बुभजुस्ते यथारुचि ॥२२॥
एवं द्विजेषु देवेषु काशिराजे सुहृत्स्वपि ।
आशीर्वत्सु सभाविष्टः काशिराजो न्वपृच्छत ॥२३॥
मायया मुनिपुत्रस्य मोहितोऽनेकधाकृतेः ।
राजोवाच ।
विनायको गतो भोक्तुं नानागृह इतिस्फुटम् ॥२४॥
अयं मे निकटेऽप्यस्ति को नु भुंक्ते गृहे गृहे ।
क्वचिच्च शिबिकारूढो याति भोक्तुं विनायकः। ॥२५॥
गजारूढः क्वचिद्याति हयारुढश्च कुत्रचित् ।
एवं सर्वेषु लोकेषु पूजाव्यग्रेषु बालके ॥२६॥
ततस्तौ नगरीं यातौ तत्र तत्र विनायकम्।
अपश्यतां भुक्तवन्तं परावृत्य समीयतुः ॥२७॥
यत्र यत्र गृहे यत्तौ तत्र तत्र विनायकम् ।
निर्वृत्य सकलं नित्यं भिक्षार्थं पर्यगच्छताम् ॥२८॥
शयानं शयने दिव्ये भक्षयन्तं फलानि च ।
चर्वयन्तं च ताम्बूलं क्वचित्गन्धादिचर्चितम् ॥२९॥
क्वचिन्नृत्यं प्रपश्यन्तं गणिकानां गणान्वितत् ।
क्रीडन्तमक्षैः कुत्रापि क्वचिद् बुद्धिबलेन च ॥२.२४.३०॥
नानालंकारसंयुक्तं दिव्यवस्त्रान्वितं क्वचित् ।
पठन्तं च जपन्तं च ध्यानेन तमपश्यताम् ॥३१॥
स्तूयमानं क्वचिद् भक्तै स्तुवन्तं जगदीश्वरम् ।
दर्शयन्तं विभूतिं स्वां भक्त्यानेकशः क्वचित् ॥३२॥
युवानं रमयन्तं स्वाःस्त्रियोऽत्यन्त मनोरमाः ।
चिकित्सयन्तं वृद्धं च सेवन्तं रसमुत्तमम् ॥३३॥
रिंगंतं भक्षयन्तं च मृदं कुत्रचिदंगणे ।
परिश्रान्तं पिबन्तं कं क्रीडाभिः कन्दुकादिभिः ॥३४॥
एवं तौ क्षुधितौ श्रान्तौ पर्यटन्तौ गृहे गृहे ।
सर्वत्र दृष्ट्वा तं देवं परस्परमथोचतुः ॥३५॥
अत्रास्ति निर्मलः शुक्लो ब्राह्मणो नगरे शुचिः ।
यावो भोक्तुं तस्य गृहे इत्युक्त्वा तत्र जग्मतुः ॥३६॥
तत्रापि सोंऽगणगतो दृष्टस्ताभ्यां विनायकः ।
नगरे नात्र भोक्तव्यं न तु शेषं विनायकात् ॥३७॥
इत्युक्त्वा बहिरायातौ पुरो दृष्ट्वा विनायकम् ।
तिर्यग् गतिधरौ भूत्वा ततोऽपि समपश्यताम् ॥३८॥
प्राच्यां प्रतीच्यां च दिशि तमेवेतौ समन्वतः ।
अधश्चोर्ध्वं सर्वगतं विनायकमपश्यताम् ॥३९॥
विनायकस्वरूपं च तौ पुनर्विश्वरूपिणम् ।
सर्वं विनायकमयं वस्तुमात्रमपश्यताम् ॥२.२४.४०॥
अथाभावयतां शम्भुं विष्णुं तौ भृशविस्मितौ ।
अपश्यतां ह्रदि तदा तं च तं च विनायकम् ॥४१॥
निमील्य नयने चान्तस्तमेव मुनिसत्तमौ ।
उद्घाटय नयने चापि स्वान्त एनमपश्यताम् ॥४२॥
किरीटिनं कुंडलिनं मुक्तामालाम्बरांगदम् ।
कटिसूत्रेण हैमेन मुद्रिकाभिश्च भूषितम् ॥४३॥
सिंहारूढं दशभुजं सिद्धिबुद्धियुतं शुभम् ।
भालचन्द्रं मृगमदतिलकं नागभूषणम् ॥४४॥
सूर्यकोटिप्रभं सृष्टिस्थितिसंहारकारिणम्।
त्यक्त्वा भेदं तत्त्वविदौ नेमतुश्चरणाम्बुजम् ॥४५॥
नुतःस्म परया भक्त्या देवदेवं विनायकम् ।
तस्यैव करुणाप्राप्त प्रबोधौ तौ मुनीश्वरौ ॥४६॥ (११४०)
इति श्रीगणेशपुराणे क्रीडाखंडे विनायकभोजनकथनं नाम चतुर्विंशतितमोऽध्यायः ॥२४॥
 
अध्याय २५ प्रारंभ :-
तावूचतुः ।
सर्वेषां कारणानां त्वं कारणं कारणातिगः।
ब्रह्मस्वरूपो ब्रह्मांडकारणं व्यापकः परः ॥१॥
पासीदं सृजसे विश्वं त्वमेव हरसेऽनघ ।
नानारूपैररूपस्त्वं नानामाया बलान्वितः॥२॥
त्वमेव पंचभूतानि यक्षगन्धर्व राक्षसाः।
कस्त्वां स्तोतुं समर्थः स्याच्चराचरस्वरूपकम् ॥३॥
नेति नेति ब्रवीति स्म त्वद्रूपाज्ञानतः श्रुतिः ।
आवाम् विमोहितौ ज्ञातुं नेशाथे रूपमुत्तमम् ॥४॥
महिमानं न जानीवोऽनेकरूपस्य ते विभो ।
कृतकृत्यो भवत्पाददर्शनात्स्वः प्रभोऽधुना ॥५॥
नानावतारैर्भूभारं हरसेऽनन्तशक्तितः ।
क उवाच ।
एवं तयोः स्तुतिं श्रुत्वा प्रीत्या प्रोवाच तावुभौ ॥६॥
विनायको बालरूपी कौतुकी मायिकोऽपि च ।
तत्वज्ञौ मत्प्रसादाच्च सर्वज्ञौ च भविष्यथः ॥७॥
एवं दत्वा वरं देवस्तत्रैवान्तरधीयत ।
ततस्तौ मूतिमतुलां कृत्वा सम्यग्विनायकीम् ॥८॥
कृत्वा प्रासादामतुलं रत्नकांचन संयुतम् ।
स्थापयामासतुरुभौ सनकश्च सनन्दनः ॥९॥
आख्यां च चक्रतुस्तस्या वरदोऽयं विनायकः ।
गणेशकुंडमिति च कृतं ताभ्यां सरोवरम् ॥२.२५.१०॥
अत्र स्नात्वा पूजयेद्यो वरदं तं विनायकम् ।
स कामानखिलान् प्राप्य भुक्त्वा भोगाननेकशः ॥११॥
अवाप्य पुत्रान् पौत्रांश्च विद्यामायुर्यशो महत् ।
धनं धान्यं यशश्चापि तत्वज्ञानं च शाश्वतम् ॥१२॥
अन्ते वैनायकं धाम याति नास्त्यत्र संशयः ।
क उवाच ।
यत्र देवाः सगन्धर्वा यक्षाश्चाप्सरसां गणाः ॥१३॥
दृष्ट्वा सम्पूज्य देवेशं तत्रैवान्तर्हिताः क्षणात् ।
संप्राप्तविस्मयौ तौ च जग्मतुर्दिवमुत्तमम् ॥१४॥
काशिराजोऽपि तत्रत्य सामात्यः सप्रजस्तु तम् ।
नानाद्रव्यैरलंकारैर्वस्त्रैरुच्चावचैरपि ॥१५॥
पक्वान्नैश्चाप्यनेकैश्च फलैर्नानाविधैरपि ।
रत्नैर्मुक्ताफलैः पुष्पैर्दक्षिणाभिरनेकशः ॥१६॥
पुपूज परया भक्त्या ब्राह्मणैः सह मन्त्रतः ।
ब्राह्मणान् पूजयामास वस्त्रालंकार कांचनैः ॥१७॥
आशिषः परिगृह्यैव नगरं पुनरागमत् ।
तथैव ताः प्रकृतयः पुपूजुस्तं विनायकम् ॥१८॥
तथैव ब्राह्मणान् पूज्य जगृहुराशिषः पराः ।
ततः प्रजास्तं पुपूजुर्यथाशक्ति विनायकम् ॥१९॥
सर्वे ते हृष्टमनसा पुरं प्रविविशुस्तदा ।
इति ते सर्वमाख्यातं विनायकविचेष्टितम् ॥२.२५.२०॥
सर्वपापपहरं पुण्यं किमन्यच्छ्रोतुमिच्छसि ।
मुनिरुवाच ।
श्रुतं चरित्रं शुक्लस्य शुक्लभिक्षारतस्य च ॥२१॥
धातुस्पर्शविहीनस्य गृहं यातौ विनायकः ।
भुजैर्दशभिरादाय ह्योदनं शिथिलं जलैः ॥२२॥
जग्ध्वा त्यक्त्वा श्रमं तृप्तो दारिद्र्यं च व्यनाशयत्।
दत्तं गृहं तु शुक्लस्य शक्रस्य नगराद्वरम् ॥२३॥
सम्पदोऽपि तथा दत्ता याः सन्ति ह्यलकाधिपे ।
स्वरूपं च तथा दत्तं यन्नास्ति मकरध्वजे ॥२४॥
ज्ञानं तस्मै तथा दत्तं यन्नास्ति चतुरानने ।
अत्र किं कारणं ब्रह्मँस्तन्मे व्याख्यातुमर्हसि ॥२५॥
क उवाच ।
सम्यक्पृष्टं त्वया व्यास परमेशकथा यतः ।
पुनाति प्राश्निकं श्रोतॄन्वक्तारं भक्तितः श्रुता ॥२६॥
मनो मे हि स्थितं वक्तुं तत्पृष्टं हि त्वया विभो ।
सम्यक्तेऽहं वदिष्यामि भक्तिगम्यस्य चेष्टितम् ॥२७॥
सर्वज्ञः सर्वदर्शी च सर्वगः सर्वचित्तवित् ।
भक्त्यैव तुष्यते देवो भावाहि तोषकारणम् ॥२८॥
भक्त्याह्रतं पलाशं च जलं पुष्पं मनोहरम् ।
तेनैव परितुष्टोऽसावात्मानं च प्रयच्छति ॥२९॥
दम्भेन हेलया वापि लज्जयाऽपि परस्य वा ।
महाधनं महावित्तं रत्नानि विविधानि च ॥२.२५.३०॥
कांचनं राजतं मुक्ता दत्तं सर्वं वृथा भवेत् ।
शमीपत्रेण तुष्टोऽसौ व्याधायादात् सलोकताम् ॥३१॥
प्रसंगतोऽपि दत्तेन भावं कृत्वा दृढं हृदि।
अनायासेन लब्धेन तस्माद्भक्तिर्गरीयसी ॥३२॥ (११७२)
 इति श्रीगणेशपुराणे क्रीडाखंडे बालचरिते भक्तिप्रशंसा कथनं नाम पंचविंशतितमोऽध्यायः ॥२५॥