पृष्ठम्:Gandhi charitam sanskrit book.pdf/30

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ श्रीगान्धिचरिते ष्ठासुः स डर्वन् इत्यत्र गतो भरतवर्षीयजनतया सुष्टु संभावितः| तत्र पुर्यो स वृत्तपत्रेष्वपाठीत् व्यवस्थापिकायां सभाया- मुपन्यासः प्रस्तोष्यते येन स्वीकृतेन भरतभूमिजानां निर्वाचना- दिकर्मसु संमतिदनेऽधिकारो व्यावर्तिष्यते । प्रस्तोष्यन्ते चैव आतीयकान्युपन्यासान्तराणीति । एवंविधेषु प्रस्तावेष्वधिकृतानां कीदृशोऽनुर्बन्धः कीदृशश्च तैर्भरतभूमिजनमनर्थोपनिपात इति स अप्रच्छनाय समेताञ्जनान् सम्यगावेदयत् । तद्विरो धाय च तन् प्रचोदयत् । एवमुपस्थितां विपदं श्रुत्वा सर्वे डरबनस्था भरतदेशीया भवानिह कञ्चित्कालमवतिष्टतमा श्रवंश्च नस्तथा नयतां यथा वयं शोकं तरेमेति सप्रश्रयं प्रार्थयन्त । परदुःखमसहिष्णुः करुण्या दुतचेता महात्मा तद्वचनमनुरुन्धानस्तत्रैव वस्तुं निरचिनोत् । व्यवहारविच्छ्रीगान्धी प्रस्तुतस्य प्रथमं व्यवहाराविरुद्धता मुपपादयितुं प्रायस्यत् । ततः प्रार्थनापत्रादिकं बहुजनसमर्थितं न्यवघ्नात् । असकृदकृतार्थतां गतः सोन्ते सिद्धिमापत्| भरतभूमिजान् संहन्तुं श्रीगान्धी नेटाल्देशे इण्डियन्



१ जनानां समूहो जनता। ग्रामजनबन्धुभ्यस्तल् । तलन्तं स्त्रियाम् । २ अनुबन्धोऽभिप्रायः । तथा च मानवे धर्मशास्त्रे प्रयोगः -- अनुबन्धं परिज्ञाय देशकालौ च तत्वत: । सारापराधौ चालोक्य दण्डं दण्डयेषु पातयेत् ॥ ३ विधेयो विनयग्राही वचने स्थित आश्रवः---इत्यमरः । . .- ... -------- -