द्वात्रिंशत्पुत्तलिकासिंहासनम्/११

विकिस्रोतः तः

अथ दारिद्र्यमोचनं नाम एकोनत्रिंशोपाख्यानम्

पुनरपि राजा यावत् सिंहासने समुपविशति, तावदन्यया पुत्तलिकयोक्तं ,- भो राजन्! यस्य विक्रमस्येव औदार्य्यादयो गुणा विद्यन्ते, स एवात्र सिंहासने उपवेष्टुं क्षमः ।

भोजेनोक्तं,-पुत्तलिके! कथय तस्य विक्रमस्यौदार्य्यगुण- वृत्तान्तम् ।

सा अत्रवीत्,-श्रूयतां राजन्! एकदा विक्रमार्को राजकुमारैरुपास्यमानः ( घ) सभायाम् उपविष्टोऽस्ति, तदा कश्चित् स्तुतिपाठकः समागत्य,-

यावद्वीचीतरङ्गान् वहति सुरनदी जाह्नवी पुण्यतोया

यावच्चाऽकाशमार्गे तपति हि भुवनं भास्करो लोकपालः ।

यावद्वज्रेन्द्रनील--स्फटिकमणिशिला विद्यते मेरुशृङ्गे

तावत्पुत्रैश्चपौत्रैः स्वजनपरिवृतो भुङ्क्ष्व राज्यं नृपाल! ।।२८१।।

इत्याशिषमुक्त्वा राजानं स्तौति,- भो राजन्-

यथा सरति जीमूते चातको ग्रीष्मपीडितः ।

तृषितो याचते तोयं तथाऽहं तव दर्शनात् ।। २८२ ।।

अहं हि दूरदेशवासी । तव कीर्त्तिं समाकर्ण्य, दूरात् आगतोऽस्मि ।

तव कीर्त्तिः सप्तार्णवमेदिनीमण्डिता (ङ)-

कर्पूरादपि कैरवादपि दलत्कुन्दादपि स्वर्णदी-

कल्लोलादपि राजतादपि चलत्कान्तादृगन्तादपि ।

निःशेषञ्च? यथा कलङ्करहितात् शीतांशुखण्डादपि

श्वेताभिस्तव कीर्त्तिभिर्धवलिता सप्तार्णवा मेदिनी।।२८३।।

भो राजन्! त्वाम् अर्थिजनकल्पद्रुमम् ( च) आगत्य अद्य दारिद्र्यव्याधिमुक्तो (छ) ऽस्मि । अन्यच्च,-अस्मिन् देशे सकलार्थिकल्पद्रुमं भवन्तं विलोक्य धनेश्वरनामा कश्चिद् राजा अस्माकं स्मृतिपथे ( ज) उदेति । उत्तरस्यां दिशि ईशानभागे जम्बीरनगरे धनेश्वरनामा कश्चिद् राजा अर्थिनां दारिद्र्यदुःख- निवारणार्थं तेभ्यो धनं वितीर्णवान् । एकदा धनेश्वरेण माघशुक्लसप्तमीदिवसे वसन्तपूजायां कृतायां बहुदूरस्थाः अपि बहवः याचकाः समायाताः । तस्मिन् समये राज्ञा दानार्थम् अष्टादशकोटिसुवर्णं (झ) दत्तम् । एवमत्यन्तमौदार्य्यवरिष्ठः (ञ) स इव राजा अस्मिन् देशे त्वमेव एकः दृष्टोऽसि ।

तस्य वचनं श्रुत्वा विक्रमादित्यः भाण्डारिकमाहूय अभणत,- भो भाण्डारिक! अमुं स्तुतिपाठकं भाण्डारगृहे नीत्वा महार्हाणि रत्नानि दर्शय । ततोऽयं यावन्ति रत्नानि, अन्यान्यपि वस्तूनि गृहीतुमिच्छति, तावन्ति गृह्णातु ।

तदनन्तरं भाण्डारिकस्तं भाण्डारे नीत्वा, दिव्यानि अनेकानि वस्तूनि अदर्शयत् । स्तुतिपाठकोऽपि स्वेप्सितवस्तूनि (ट) रत्नानि च गृहीत्वा, परिपूर्णमनोरथः (ठ) राजसमीपमागत्य भणति,- भो राजन्! महेश्वरस्य ( ड) तव प्रसादात् अहं धनपतिः (ढ) जातोऽस्मि, तव निधयो (ण) मम हस्तं प्राप्ताः । इदानीं तव चरित्रं सादृश्यमतिक्रान्तम्; ( त) तव सादृश्यं हरि-हर-ब्रह्मादयोऽपि न बिभ्रति (थ) । तथाहि,-

वेधा वेदायनाविष्टो गोविन्दोऽपि गदाधरः ।

शम्भुः शूली विषादी च भवान् केनोपमीयते ?।। २८४।।.

एवं स्तुत्वा स्तुतिपाठकः -ब्रह्मायुः भवश्च (द) इत्याशिषमुक्त्वा निजस्थानं गतः ।

इति कथां कथयित्वा पुत्तलिका भोजमवदत् - भो राजन्! त्वयि एवमौदार्य्यं (ध) विद्यते चेत, तर्हिं अस्मिन् सिंहासने समुपविश ।

राजा तूष्णीमासीत्। ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे दारिद्र्यमोचनं नाम एकोनविंशोपाख्यानम ।। २९ ।।



अथ इन्द्रजालप्रदर्शनं नाम त्रिंशोपाख्यानम्

पुनरपि यावत् राजा सिंहासने समुपविशति, तावदन्या पुत्तलिका भणति,- भो राजन्! यस्तु विक्रम इव औदार्य्यादिगुणयुक्तः, सोऽस्मिन् सिंहासने उपवेष्टुं योग्यः, अन्यो न ।

राजाऽब्रवीत्-भोः पुत्तलिके! कथय तस्य विक्रमस्यौदार्य्य- वृत्तान्तम् ।

साऽब्रवीत्,- श्रूयतां राजन्! एकदा सकलसामन्त- राजकुमारादिभिरुपास्यमानो राजा सिंहासने समुपविष्टो- ऽभूत् । तस्मिन् समये ऐन्द्रजालिकः ( न) कश्चित् समागत्य, ब्रह्मायुर्भव इत्याशिषमुक्त्वा भणति,- भो देव! त्वं सकलकलाऽभिज्ञः, तव समीपमागत्य अनेकैः महैन्द्रजालिकैर्लाघवानि ( प) दर्शितानि; अद्य ममापि एकं लाघवं सुप्रसन्नेन निरीक्षणीयम् ।

राज्ञोक्तं- नेदानीमवसरोऽस्माकं, स्नानभोजनवेला जाता, प्रभाते द्रक्ष्यामः इति ।

ततः प्रभाते कश्चित् महाकायः, महाश्मश्रुभिर्देदीप्यमानवपुः, विपुलकन्धरः, ( फ) देदीप्यमानं खड्गं धृत्वा, अतिमनोहरया स्त्रिया कयाचिद्युक्तः समागत्य सभायां समुपविष्टे राज्ञि नमयकार । तदा तत्रत्यैरधिकारिभिः तदकार्य्यं (व) दृष्ट्वा सविस्मयैर्भणितं - भो नायक! ( भ) भवान् कुतः समागतः?

तेनोक्तम्,- अहं महेन्द्रस्य (म) सेवकः । कदाचित् स्वामिना शप्तः अधुना भूमण्डले तिष्ठामि । इयं मम भार्य्या । अद्यैव देवदैत्ययोः महत् युद्धं प्रारब्धं, तर्हि अहं तत्र गच्छामि । अयं विक्रमादित्यः जितेन्द्रियः ( य) इति विचार्य्य, अस्य समीपे भार्य्यां निक्षिप्य, युद्धार्थं गमिष्यामि । तत् श्रुत्वा राजा परं विस्मयं गतः ।

ततः स राज्ञः समीपे भार्य्यां निक्षिप्य, राजानं निवेद्य, (र) खड्गेन यावत् गगने उत्पतति,(ल) तावदाकाशे महान् भैरवरवो जातः । रे! रे! मारय मारय घातय घातय इति । सभायाम् उपविष्टाः सर्वेऽपि लोकाः ऊर्द्ध्वमुखाः सकौतुकं पश्यन्ति स्म ।

तदनन्तरं मुहूर्ते ( व) गते राजसभामध्ये गगनात् खड्गो रक्त लिप्तः, तथैको बाहुः पतितः । एवं सर्वैरवलोक्य भणितम्,- अहो! एतस्याः स्त्रिया वीरः पतिः सङ्ग्रामे प्रतिभटैः ( श) हतः, तस्यैको बाहुः, खड्गश्च पतितः । एवं वदति सभाजने (ष) पुनः शिरश्च पतितं, ततः कबन्धोऽपि (स) पतितः । एतत् सर्व्वं दृष्ट्वा वीरस्य स्त्रिया भणितं,- भो देव! मम भर्त्ता रणाङ्गणे युद्धं विधाय शत्रुभिर्निहतः, तस्येदं शिरः, सखड्गो बाहुः, कबन्धोऽपि पतितः । तर्हि स मे प्रियो भर्त्ता दिव्याङ्गनाभिः व्रियते ( ह) । यन्निमित्तमेतत् शरीरं स्थितं, स मम स्वामी रणाङ्गणे प्रतिभटैर्हतः; इदानीम् एतच्छरीरं कस्य कृते ( क) रक्षामि? प्रमदाः पतिमार्गगाः ( ख) इति विचेतनैरपि ज्ञातम् । तथा हि,-

शशिना कह याति कौमुदी सह मेघेन तडित् प्रलीयते ।

प्रमदाः प्रतिमार्गगा इति प्रतिपन्नं हि विचेतनैरपि ।। २८५ ।।

किञ्च-

या राका शशि-शोभना गतघना सा यामिनी यामिनी,

या सौन्दर्यगुणान्विता पतिरता सा कामिनी कामिनी ।

यो गोविन्द-रसप्रमोदमधुरा सा माधुरी माधुरी,

या लोकद्वयसाधनी तनुभृतां सा चातुरी चातुरी ।। २८६ ।।

तथा च स्मृतिः,-

मृते भर्त्तरि या नारी समारोहेद् हुताशनम् ।

साऽरुन्धतीव पूज्या स्यात् स्वर्गलोके निरन्तरम् ।। २८७ ।।

यावच्चाग्नौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत ।

तावन्न मुच्यते सा हि नरकाद्धि कथञ्चन ।। २८८ ।।

मातृकं पैतृकं चाऽपि श्वशुरस्य कुलं तथा ।

कुलत्रयं तारयेद्धि भर्त्तारं याऽनुगच्छति ।। २८९ ।।

तथा च्,-

तिस्रः कोट्योऽर्द्धकोटी च यानि रोमाणि मानवे ।

तावत्कालं वसेत् स्वर्गे भर्त्तारं याऽनुगच्छति ।। २९० ।।

व्यालग्राही यथा व्यालं बलादुद्धरते बिलात्। ।

तथा स्त्री पतिमुद्धृत्य सह तेनैव मोदते ।। २९१ ।।

दुर्वृत्तं वा सुवृत्तं वा सर्व्वपापरतं तथा ।

भर्त्तारं तारयत्येषा भार्य्या धर्मेषु निष्ठिता ।। २९२ ।।

अन्यच्च-

जीवितं पतिहीनाया निष्फलञ्च भवेत् ध्रुवम् ।

दीनायाः पतिहीनायाः किं नार्य्या जीवितैः फलमः।।२९३।।

मितं ददाति हि पिता मितं भ्राता मितं सुतः ।

अमितस्य च दातारं भर्त्तारं का न पूजयेत्? ।। २९४ ।। किञ्च,-

अपि बन्धुशता नारी बहुपुत्रैश्च संयुता ।

शोच्या भवति सा नारी पतिहीना ?प्रस्विनी ।। २९५ ।। तथा च,-

गन्धैर्माल्यैस्तथा धूपैर्विविधैर्भूषणैरपि ।

वासोभिः शयनैश्चैव विधवा किं करिष्यति? ।। २९६ ।। तथा च-

नाऽतन्त्री विद्यते वीणा नाऽचक्री वर्त्तते रथः ।

नाऽपतिः सुखमाप्नोति नारी बन्धुशतैरपि ।।२९७।।

दरिद्रो व्यसनी वृद्धो व्याधितो विकलस्तथा ।

पतितः कृपणो वाऽपि स्त्रीणां भर्त्ता परा गतिः ।। २९८।।

नास्ति भर्त्तृसमो बन्धुर्नास्ति भर्त्तृसमा गतिः ।

वैधव्यसदृशं दुःखं स्त्रीणामन्यत् न विद्यते ।

धन्या मा योषितां मध्ये भर्त्रग्रे म्रियते हि या ।। २९९।।

इत्युक्त्वा अग्निप्रवेशार्थं राज्ञः पादयोः पपात । राजा तस्या वचनं श्रुत्वा करुणार्द्ररससिक्तकर्णः? ( ग) सन् - --श्रीखण्डादिभिः चितां विरचय्य, ( घ) तस्यै अनुज्ञां ददौ साऽपि राज्ञः सकाशात् अनुज्ञां लब्ध्वा, भर्त्तुः शरीरेण समम् (ङ) अग्निं विवेश । ततः सूर्य्योऽस्तमगात ।

प्रभाते राजा सन्ध्यादिकं कर्म्म समनुष्ठाय, सिंहासने समुपविष्टो यावत् सकलसामन्त- राजकुमारादिभिरुपास्यते, तावत स एव नायकः पूर्ववत् खड्गहस्तः, अतिदीर्घाकारो देदीप्यमानवपुः समागत्य, राज्ञः कण्ठे कल्पतरुकमलग्रथितां मालां परिमल लुब्ध मुग्ध मधुकरनिकुरम्ब निरन्तरां ( च) निधाय, तस्मै नानाविधयुद्धगोष्ठीं ( छ) वक्तुं प्रवृत्तः । तं समागतं दृष्ट्वा सर्वोऽपि सभा विस्मयं गता ।

पुनस्तेन भणितं- भो राजन्! मयि अस्मात् स्थानात् स्वर्गं गते, तत्र महेन्द्रस्य दैत्यानाञ्च महान् सङ्ग्रामोऽभूत् । तस्मिन् समये बहवो राक्षसा दैत्याश्च निपातिताः, केचन पलाय्य गताः । युद्धावसाने देवेन्द्रेण सप्रसादम् (ज) अहं भणितः,- भो नायक! त्वया अद्य प्रभृति भूलोकं प्रति न गन्तव्यम्; तव शापस्यावसानं जातम् । तवाहं प्रसन्नोऽस्मि, गृहाणेदं वलयम् इति रत्नखचितं स्वकरात् मुक्तावलयं मम हस्ते अदात । पुनर्मया भणितं,- भोः स्वामिन्! अत्राऽऽगमनसमये मया भार्य्या विक्रमार्कसमीपे निक्षिप्ता । तां गृहीत्वा झटिति पुनरागमिष्यामि, इति पुरन्दरम् उक्त्वा समागतोऽस्मि । त्वं धार्म्मिकचूडामणिः, सा मम भार्य्या दातव्या, तया सह पुनः स्वर्लोकं गमिष्यामि इति ।

तद्वचनं श्रुत्वा राजा सर्वैः सह सभायां तटस्थो ( झ) जातः, परं विस्मयं गत्वा तूष्णीञ्च स्थितः ।

पुनस्तेन गदितं,- भोः राजन्! किमिति जोषम् (ञ) आस्यते? राज्ञः समीपस्थैर्भणित--तव भार्य्या अग्निं प्रविष्टा।

तेनोक्तं -किमर्थम् ? ते तु निरुत्तरीभूताः आसन् ।

तदा तेन भणितं- राजशिरोमणे! परनारीसहोदर! लोककल्पद्रुम! ( ट) विक्रम- भूमिपाल! किमिदम् अकार्य्यम् अनुष्ठीयते? देहि मे मत्पत्नीम् ।

ततो राज्ञोक्तं भो नायक! खड्गबाहुभ्यां पतितं भवच्छिरः कलेवरञ्च दृष्ट्वा भवन्तं युद्धनिहतं मत्वा सभासदां मम च अनुमतिं गृहीत्वा भवच्छरीरैः सह तव पत्नी अनलं प्रविष्टवती ।

नायकेनोक्तं --राजन्! सुरूपां युवतीञ्च परललनाम् अपि लोलुपदृशा (ठ) दृष्ट्वा भवतैव गृहान्तरे गोपायिता सा; यतः मयि मृते अनलम् अप्रविश्य तया स्वर्गं एव तच्छरीरेण गन्तव्यः इति नियमः (ड) आसीत ।

तदा सकलसभासदै- रुक्तं-भोः सत्यमेव अस्माकं समक्षं सा अनलं प्रविष्टा ।

ततः - न हि न हि इत्युक्त्वा नायकः त्वरितमुत्थाय, सिंहासन- पश्चाद्वर्त्तिगृहाभ्यन्तरात् तामेव नायिकां करे धृत्वा राजसभा- मध्यमानीय, तद्वक्त्रावरणञ्च उन्मोच्य प्रदर्शितवान् । ततः सर्वे एव लज्जानम्राननाः परं विस्मयं जग्मुः ।

अथ स सहासं राजानं गदितवान्- महाराज! सकलगुणगणैकभाजन । ब्रह्मायुर्भव; अहं स महैन्द्रजालिकः, तव पुरतः मया इन्द्रजालविद्यालाघवं दर्शितम् ।

राजाऽपि विस्मयं गतः प्रसन्नोऽभूत् ।

तस्मिन्नवसरे भाण्डारिकेणाऽऽगत्य उक्तं,- भो महाराज । पाण्ड्यराजेन स्वामिने करः प्रेषितः । राज्ञोक्तं -किं किं प्रेषितम् ? तेनोक्तं -स्वामिन्! अवहितं (ढ) शृणु,-

अष्टो हाटककोटयः, त्रिनवतिमुक्ताफलानां तुलाः

पञ्चाशन्मधुगन्धलुब्धमधुपैः संशोभिताः सिन्धुराः ।

अश्वानां त्रिशतञ्च वै सुचतुरं पण्याङ्गनानां शतं

श्रीमद्विक्रमभूमिपाल! भवतः श्रीपाण्ड्यराट्प्रेषितम् ।। ३०० ।।

ततो राज्ञा भणितम्-एतत्सर्वम् ऐन्द्रजालिकाय देहि ।

ततो भाण्डारिकेण तत्सर्वं तस्मै दत्तम् ।

इमां कथां कथयित्वा पुत्तलिका भोजराजमवदत्- भो राजन्! त्वयि एवम् औदार्य्यं विद्यते चेत्, तर्हि अस्मिन् सिंहासने समुपविश । राजा अधोमुखो बभूव ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सराभोजसंवादे इन्द्रजाल प्रदर्शनं नाम त्रिंशोपाख्यानम् ।। ३० ।।


अथ वेतालसिद्धिलाभो नाम एकत्रिंशोपाख्यानम्

अथ राजा सिंहासने पुनः यावत् समुपविशति, तावदन्या पुत्तलिका वदति स्म-भो राजन्! सिंहासने स एव उपवेष्टुं क्षमः, यस्य विक्रमस्येव औदार्य्यादयो गुणा भवन्ति ।

राज्ञोक्तं,-भोः पुत्तलिके! कथय तस्य विक्रमस्यौदार्य्यवृत्तान्तम् ।

सा कथयति,-भो राजन्! श्रूयताम्-विक्रमार्के राज्यं कुर्वति, एकदा कश्चिद्दिगम्बरः ( ण) समागत्य, राज्ञो हस्ते फलं दत्त्वा आशिषं प्रयुज्य भणति-भो राजन्! अहं मार्गशीर्षे कृष्णचतुर्दशीदिवसे महाश्मशाने हवनं करिष्यामि । भवान् परोपकारी सत्त्वाधिकः इति मे विदितं, तत्र ममोत्तरसाधकेन (त) त्वया भवितव्यम् । तस्य महाश्मशानस्य नातिदूरे शमीपादपः अस्ति, तत्र कश्चिद्वेतालः ( थ) लग्नस्तिष्ठति, स त्वया मौनेन एव नेतव्यः, अन्यथा मे कार्य्यसिद्धिः न भविष्वति ।

राज्ञा तथा करिष्यामि इति प्रतिज्ञातम् ।

अथ क्षपणकः सहःकृष्णचतुर्दशीदिवसे (द) महाश्मशाने होमसाधनद्रव्याणि गृहीत्वा स्थितः । चय तेन दर्शितं शमीपादपस्थितं वेतालं दृष्ट्वा, स्कन्धे गृहीत्वा राजा यावत् मार्गे आगच्छति, तावत् वेतालेनोक्तं,- भो राजन्! मार्गश्रमापनोदनाय ( ध) कामपि कथां कथय।

राजा मौनभङ्गभयात् (न) तूष्णीं स्थितः ।

पुनर्वेतालेनोक्तं - त्वं मौनभङ्गभयात् कथां न कथयसि, अहं तावत् कथयिष्यामि । कथाऽवसाने मौनभङ्गभयान्न कथयिष्यसि चेत्, तव शिरः सहस्रधा भविष्यति इति भणित्वा कथाम् आरभते,-

'राजन्! श्रूयतां- हिमवतो दक्षिणपार्श्वे विन्ध्यवती नाम्नी नगरी आसात् । तत्र सुविचारको नाम राजा प्रतिवसति स्म । तस्य पुत्रः मयसेनः । स एकदा आखेटनार्धं (प) वनं गतः, वने हरिणमेकं दृष्ट्वा तदनुगतो महारण्यं प्रविष्टः । ततः कञ्चिन्नगरमार्गमासाद्य ( फ) एकाकी यावदागच्छति, तावन्मध्ये एका नदी दृष्ट्वा । तत्र नदीतटे कश्चिद् ब्राह्मणः अनुष्ठानं करोति । राजपुत्रः तस्य समीपं गत्वा तमवदत्-भो ब्राह्मण! यावत जलं पास्यामि, तावत् मम अश्वं गृहाण ।

ब्राह्मणेनोक्तम्,- अहं किं तव प्रेष्यः?,(भ) यदश्वं धारयिष्यामि ?

ततस्तेन कशया (म) ताडितः ब्राह्मणः रुदन् राजसमीपमागत्य तं वृत्तान्तं निवेदयामास । तच्छ्रुत्वा राजा क्रोधात् अरुणलोचनः (य) सन्. पुत्रं स्वदेशात् निर्वासयितुम् (र) आदिदेश । तस्मिन्नवसरे मन्त्रिणा भणितम्,- अयं राज्यभोगे योग्यः कुमारो हि स्वदेशात् न निर्वासनीयः । एतदुचितं ( ल) न भवति। राज्ञोक्तं,-भो मन्त्रिन्! एतदुचितम् एव, यतः अनेन ब्राह्मणशरीरं कशया ताडितं, तस्मादयं समीचीनदण्डः, (व) हस्तच्छेदश्च करणीयः । बुद्धिमता ब्रह्मद्वेषो न कर्त्तव्यः ।

भो मन्त्रिन्! किं त्वया पुराणानि न श्रुतानि? पुरा ब्राह्मणस्य शापात् ईश्वरस्य लिङ्गपातः (श)जातः, मृगस्य कृकलासत्वम्, इन्द्रस्य दारिद्र्ययोगः, नहुषस्य महोरगत्वम्, ( ष) स्वयं सम्पन्नोऽपि पूज्यान् न तिरस्कुर्य्यात् (स) । उक्तञ्च,--

अत्युन्नतपदं प्राप्तः पूज्यान् नैवावमानयेत् ।

नहुषः सर्पतां प्राप्तस्श्च्युतोऽगस्त्यावमाननात् ।।

अतस्ते ब्राह्मणाः सर्वे पूजनीयाश्च सर्वदा ।। ३०१ ।।

तथा च,-

यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः ।

क्षयैश्चाऽध्यासितश्चन्द्रः को न नश्येत् प्रकोप्य तान्? ।।३०२।। किञ्च,-

यद्हस्तेन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः ।

कव्यानि चैव पितरः को भवेदधिकस्ततः ? ।। ३०३ ।।

तथा च,-

ये पूजिताः सुरैः सर्वैर्मनुष्यैश्चैव भारत! ।

तपोव्रतधरा ये च तांस्तान् विप्रान् समर्चयेत् ।।३०४ ।।

तथा च, द्वारावत्यां स्वयं कृष्णेनाप्युक्तम्,--

शतं शपन्तं परुषं वदन्तं

यो ब्राह्मणं नाऽर्चयते यथाऽहम् ।

स पापकृत् ब्रह्मदवाग्निमध्ये

वध्यश्च दण्ड्यश्च सदाऽस्मदीयः ।। ३०५ ।।

किञ्च,-

यश्च मां परया भक्त्या आराधयितुमिच्छति ।

तेन विप्राः सदा पूज्या एवं तुष्टो भवाम्यहम् ।। ३०६ ।।

भो मन्त्रिन्! येन हस्तेन ताडितो ब्राह्मणः, तस्य हस्तस्य छेदः कार्य्यः इत्युक्त्वा यावत् तस्य हस्तं छेदयति, तावत् स ब्राह्मणः समागत्य भणतिः-भो राजन्! तदा अज्ञानवशात्(ह) तथा कृतम्. अद्य प्रभृति एवमनुचितमयं न करिष्यति । मम अनुरोधात् राजपुत्रो रक्षणीयः, अहं प्रसन्नो जातोऽस्मि । राजा च तस्य वचनं श्रुत्वा स्वपुत्रं विससर्ज्ज (क) । ब्राह्मणोऽपि निज- निलयम् अगात् (ख) ।

इमां कथां कथयित्वा वेतालो वदति- भो राजन्! एतयोः मध्ये गुणाधिकः क ?

राज्ञा विक्रमेण भणितं,- राजा एव गुणाधिकः ।

तत् श्रुत्वा, मौनभङ्गात् वेतालः शमीपादपं जगाम । राजापि पुनस्तत्र गत्वा तं स्कन्धे समारोप्य यावत् आगच्छति, तावत् स पुनरपि कथां कथयति । एवं कथानां पञ्चविंशतिः कथिता वेतालेन । राजाऽपि सर्व्वासामेव यथायथं प्रत्युत्तरमदात् (ग) ।

तस्य सूक्ष्मबुद्धिवैदग्ध्येन ( घ) वेतालः प्रसन्नो जातः, विक्रमं जगाद,- भो राजन्! अयं दिगम्बरः त्वां निहन्तुं प्रयत्नं करोति । राज्ञोक्तं,- तत् कथम् ? वेतालेनोक्तं,- त्वया मयि तत्र उपस्थापिते, त्वं श्रान्तोऽसि, इदानीमग्निकुण्ड प्रदक्षिणीकृत्य, दण्डवत् प्रणम्य निजस्थानं गच्छ इति दिगम्बरवचनमाकर्ण्य त्वयि, दण्डवत् प्रणते सति, सः खड्गेन त्वां निहत्य तव मांसेन होमं करिष्यति । एवं क्रियमाणे अणिमादयोऽष्टौ सिद्धयः तस्य वशीभूता भवेयुः ।

विक्रमेणोक्तम्,- अधुना किं क्रियते ?

वेतानोक्तं- त्वमेवं कुरु,-- दिगम्बरेण त्वं दण्डवत्प्रणम्य निजस्थानं गच्छ इति उक्ते सति, त्वया एवं वक्तव्यम्,- अहं सार्वभौमः, ( ङ) सर्व्वे राजानः मामेव प्रणामं कुर्व्वन्ति, मया कदाऽपि कस्याऽपि प्रणामो न कृतः; अतोऽहं प्रणामं कर्त्तुं न जानामि, त्यं प्रथमं प्रणामं कृत्वा दर्शय, तद् दृष्ट्वा पश्चादहं नंस्यामि । ततः स यदा प्रणामं कर्तुं नम्रो भविष्यति, तदा त्वं तस्य शिरः छिन्धि (च) । तेन तवैव अष्टौ सिद्धयः करतलगता भविष्यन्ति ।

एवं वेतालेन उपदिष्टे राजा विक्रमस्तथैव अकरोत्। । राज्ञोऽष्टौ महासिद्धयः जाताः ।

अथ वेतालेनोक्तं-भोः राजन्! तवाऽहं प्रसन्नोऽस्मि, वरं वृणीष्व ।

राज्ञोक्तं-- यदि मम प्रसन्नोऽसि, तर्हि यदाऽहं स्मरिष्यामि. तदा त्वया मत्समीपे आगन्तव्यम्। स तथाऽस्तु इति प्रतिज्ञाय (छ) निज- स्थानं गतः । राजाऽपि निजनगरीं विवेश ।

इमां कथां कथयित्वा पुत्तलिका अवदत्,-भो राजन्! त्वयि एवमौदार्य्यादयो गुणा विद्यन्ते चेत् तर्हि अस्मिन् सिंहासने समुपविश । राजा तूष्णीमासीत् ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे वेताल- सिद्धिलाभो नाम एकत्रिंशोपाख्यानम् ।।३१।।


अथ पुत्तलिका शापमोचनं नाम द्वात्रिंशोपाख्यानम्

पुनरपि राजा सिंहासने यावदुपविशति, तावदन्या पुत्तलिका भणति,-भो राजन्! अस्मिन् सिंहासने विक्रमार्क एव उपवेष्टुं क्षमः, नान्यः; तस्य विक्रमस्य सदृशो राजा भूमण्डले नास्ति । यः काष्ठमयेन (ज) खड्गेन पृथिवीमध्ये भ्रमन्, सर्वान् पृथ्वीधरान् विजित्य एकच्छत्रेण ( झ) राज्यमकरोत्; यो हि अन्येषां शङ्कां निराकृत्य, आत्मनः शङ्कां प्रावर्तयत् । ( ञ) भूमण्डले यावन्तो राजानः सन्ति, तेषां सर्वेषां वशीकरणमन्त्रः (ट) प्रयुक्तः । समस्तान् दुर्जनजनान् निष्काश्य ( ठ) याचकानां दारिद्र्यं मोचयित्वा, दुर्भिक्षदुःखादीन् निवार्य्य च, विक्रमेण पृथिवी पालिता?। । अतो विक्रमसदृशो राजा नास्ति । एवम् औदार्य्यादयो गुणास्त्वयि विद्यन्ते यदि, तर्हि अस्मिन् सिंहासने समुपविश;

तत् श्रुत्वा राजा भोजस्तूष्णीमासीत् ।

पुनरपि द्वात्रिंशत्पुत्तलिका भोजराजमब्रवीत्-भो भोजराज! विक्रमादित्यो राजा तथाविधः, त्वमपि सामान्यो न. युवां द्वौ नरनारायणावतारधारिणौ ( ड) । तस्मात् त्वत्तः ( ढ) यरमपवित्रचरित्रः, सकलकलाप्रवीणः, औदार्य्यगुणविशिष्टो राजा वर्त्तमानसमये नास्ति । तव प्रसादात् अस्माकं द्वात्रिंशत्पुत्तलिकानां पापक्षयो जातः, शापाद् विमुक्तिरपि जाता ।

भोजेनोक्तं,- तत् कथम्? कथय शापस्य वृत्तान्तम् ।

पुत्तलिका अवदत्- श्रूयतां राजन्! द्वात्रिंशत् सुराङ्गनाः पार्वत्याः नर्त्तक्यः, तस्याः परमप्रेमास्पदीभूताश्च ( ण) आसन् । प्रत्येकं नामधेयानि श्रूयन्ताम् ;-मिश्रकेशी १, प्रभावती २, सुप्रभा ३, इन्द्रसेना ४, सुदती ५, अनङ्गनयना ६, कुरङ्ग- नयना ७, लावण्यवती ८, कामकलिका ९, चण्डिका १०, विद्याधरी ११, प्रज्ञावती १२, जनमोहिनी १३, विद्यावती १४, निरुपमा १५, हरिमध्या १६, मदनसुन्दरी १७, विलास- रसिका १८, शृङ्गारकलिका १९, मन्मथसञ्जीवनी २०, रति- लीला २१, मदनवती २२, चित्ररेखा २३, सुरतगह्वरा २४, प्रियदर्शना २५, कामोन्मादिनी २६, सुखसागरा २७, शशिकला २८, चन्द्ररेखा २९, हंसगामिनी ३०, कामरसिका ३१, उन्मादिनी ३२ च ।

एकदा परमप्रेम्णा विलासेन ( त) च अन्योऽन्यम् ईक्षमाणौ(थ) विहारमन्दिरस्थौ शङ्करौ दुर्बुद्धिवशात् नारीजनसुलभ कौतुकाभिः अस्माभिः दृष्टा ।

तत् दृढा देवी पार्वती सकोपमस्मान् अशपत्-भवत्यो. निर्जीवाः पुत्तलिका भूत्वा, इन्द्रस्य सिंहासने लगन्तु । ततोऽस्माभिश्च सप्रणिपातं शापावसानं (द) याचितम् ।

अथ सा देवी समवदत्,--यदा तत सिंहासनं विक्रमेण अधिष्ठितं भूत्वा, पुनः भोजस्य हस्तगतं भविष्यति, यदा च विक्रमचरितं भोजराजा युष्मत् श्रोष्यति, तदैव शापावसानं भविष्यति इति ।

सुचिरकालादनन्तरम् अद्य भवत्प्रसादात् वयं पार्व्वतीशचरणौ दृष्ट्वा मोदिष्यामः(ध) । त्वमपि एतत्सिंहासनस्योपरि देवालयं कारयित्वा, तत्र अष्टदले ( न) उमा- महेश्वरमूर्त्तिं प्रतिष्ठाप्य. प्रतिदिनं षोडशोपचारैः पूजां कारयतु, वर्णाश्रमधर्म्मनिरतान् ( प) लोकांश्च परिपालयन् उर्वीं ( फ) भुनक्तु, तेन तौ तवोपरि प्रसन्नौ भूत्वा सर्वाभीष्टं पूरयिष्यतः इति ।

इति विक्रमार्कचरित्रे सिंहासनोपाख्याने अप्सरा भोजसंवादे पुत्तलिका- शापमोचनं नाम द्वात्रिंशोपाख्यानम् ।। ३२ ।।


उपसंहारः

एवमवसिते पुत्तलिकाऽऽख्याने तव नर्त्तक्यस्ताः राज्ञः सकाशादनुज्ञां गृहीत्वा अत्रैव आगच्छन्ति, पश्य पश्य ।।

पार्व्वत्यै एवमुक्त्वा विरत एव परमेश्वरे, ताः द्वात्रिंशत् कैलासशिखरं समागत्य, उमामहेश्वरयोः चरणौ प्रणेमुः ।

देवी अपि ताः दृष्ट्वा सहर्षम् आशिषा सम्वर्द्ध्य, परमेशं प्राह, भो नाथ! तदा क्रोधवेगं निरोद्धुमक्षमया मया यः शापः आभ्यः (व) दत्तः, तन्मू लिका ( भ) सकललोकचित्तचमत्कारिणौ, दयापरोपकारादिगुणेषु च प्रवृत्तिविधायिनी, तव मुखविनिर्गता इयं विक्रमकथा, सर्वप्राणिनां परोपकारादिषु उत्सववर्द्धिनी भूत्वा जगद्धिताय वर्त्तताम्; इमा अपि भवदनुग्रहात् नृत्यगीतादिकलासु सर्वत्रैव विजयन्ताम् (म) ।

देवोऽपि सस्मितमाह,-

तथोम्