स्कन्दपुराणम्/खण्डः २ (वैष्णवखण्डः)/वेङ्कटाचलमाहात्म्यम्/अध्यायः ३१

विकिस्रोतः तः

।। अथ सुवर्णमुखरीप्रभावशुश्रूषया भरद्वाजं प्रत्यर्जुनप्रश्रः ।।
।। श्रीसूत उवाच ।। ।।
कृतसायन्तनविधिं हुताशनसमद्युतिम् ।।
सुखासीनं मुनिपतिं प्रणम्य भरतर्षभः ।। १ ।।
तदीयशीतलामोदसुधापूरानुमोदितः ।।
गम्भीरं प्रश्रयोपेतमिदं वचनमब्रवीत् ।। २ ।। ।।
।। अर्जुन उवाच ।। ।।
मुनिपुंगव लोकेऽस्मिन्धन्य एकोऽहमेव हि ।।
पुत्राविशेषं भवता यदेवं सम्यगादृतः ।। ३ ।।
भवदादरसञ्जातकौतुकं मम मानसम् ।।
भवद्वाक्यामृतं दिव्यं पातुं त्वरयतीव माम् ।।४।।
कस्माच्छैलादियं जाता केनानीता महानदी ।।
किं पुण्यं स्नानदानाद्यैः कृतैस्तत्रोपलभ्यते ।।५।।
अस्याः प्रभावं प्रभवं प्रह्वस्य मम सन्मुने ।।
वक्तुमर्हसि कार्यो हि भक्तानुग्रह एव ते ।।६।।
अर्जुनस्य वचः श्रुत्वा भरद्वाजो द्विजोत्तमः ।।
तदाननं समालोक्य वाक्यं वाक्यविदब्रवीत् ।। ७ ।।
।। भरद्वाज उवाच ।। ।।
त्वमर्जुन महाबाहो कौरवान्वयपावनः ।।
विशेषान्मम मान्योऽसि धर्मपुत्रानुजो यतः ।। ८ ।।
अनेके भूमिपा दृष्टा न ते त्वमिव फाल्गुन ।।
लीलार्जवदयौदार्यधैर्यगाम्भीर्यशालिनः ।। ९ ।।
कुलं विद्या धनं चैव बलिनां मदकारणम् ।।
भवादृशानां भव्यानां तानि प्रश्रयकारणम् ।। 2.1.31.१० ।।
प्राज्येषु राज्यभोगेषु विद्यमानेषु कौरव ।।
ऋते भवन्तं को वान्यो नोपैति विकृतेर्वशम् ।। ११ ।।
परवानस्मि कौन्तेय गुणैलाकोत्तरैस्तव ।।
किमस्त्यकथनीयं ते कौतुकोपेतमानस ।। १२ ।।
शृणु राजन्कथां दिव्यां मया मुनिमुखाच्छुताम् ।।
यां श्रुत्वा पातकातङ्कान्मुच्यन्ते सर्वजन्तवः ।। १३ ।।
।। अथ भरद्वाजकथित शंकरविवाहप्रक्रिया ।। ।।
पूर्वं दाक्षायणी देवी जनकेनावमानिता ।।
त्यक्त्वा तनुं तां नीहारगिरेरभवदात्मजा ।। १४ ।।
सप्तर्षिभिरुपागम्य प्रार्थितो धरणीधरः ।।
मृत्युंजयाय स्वां पुत्रीं विवाहे दातुमुद्यतः ।। १५ ।।
वृषभांको जगत्स्वामी विवोढुं सर्वमंगलाम् ।।
प्राप्तो हिमवदावासमोषधीप्रस्थनामकम् ।। १६ ।।
तच्छासनात्समाजग्मुः स्थावराणि चराणि च ।।
भूतानि भूतनाथस्य कल्याणमभिनंदितुम् ।। १७ ।।
तद्भूरिभारसंभग्ना भूमिरुत्तरसंश्रया ।।
निम्नतामाययौ तावद्यावत्पातालमास्थिता ।।१८।।
निर्भारलाघवादस्माद्भृशं दक्षिणगामिनी ।
ऊर्ध्वं गता च तं दृष्ट्वा सर्वेषामभवद्भयम् ।।१९।।
ज्ञात्वा तां विकृतिं भूमेर्दृष्ट्वागस्त्यंमहेश्वरः ।।
इत एहि महाप्राज्ञेत्युक्त्वा वचनमब्रवीत् ।। 2.1.31.२० ।।
आगतेषु समस्तेषु भूतेष्वत्र वसुन्धरा ।।
तद्भारेण समाक्रान्ता विकृतिं समुपागता ।। २१ ।।
तद्भुवः साम्यकरणे त्वमर्हसि महामते ।।
ऋते त्वामत्र हि त्वत्तः परेणैतत्कथं भवेत् ।। २२ ।।
मत्तेजःसंभवो हि त्वं लोकसंरक्षणोद्यतः ।।
तस्मान्मद्वचनाद्वत्स भुवमेतां समीकुरु ।। २३ ।।
मत्पाणिग्रहणाल्लोककौतुकायत्तबुद्धिषु ।।
आगतेषु समस्तेषु स्थातव्यं भवताऽपि च ।। २४ ।।
त्वं न तिष्ठसि चेदत्र न कश्चिद्विकृतिं भुवः ।।
अपनेतुं हि शक्नोति तद्गन्तव्यं त्वयानघ ।। २५ ।।
इमां गिरिसुतापाणिग्रहकल्याणभासुराम् ।।
मूर्तिं प्रदर्शयिष्यामि यत्र तिष्ठसि तत्र ते ।। २६ ।।
।। अथ भूसाम्यकरणायागस्त्यस्य हिमाद्रेर्दक्षिणदिग्गमनम् ।। ।।
इत्युक्त्वा तं परिष्वज्य विससर्ज महेश्वरः ।।
तथेति प्रणम्यासौ ययौ याम्यां दिशं मुनिः ।। २७ ।।
विन्ध्याद्रिं समतिक्रम्य दक्षिणामागते दिशम् ।।
अगस्त्ये मुनिशार्दूले मही साम्यमुपाययौ ।। २८ ।।
भुवोऽपनीय विकृतिं स्थितं कलशजं मुनिम् ।।
तुष्टुवुर्हर्षतरलाः सुरगन्धर्वकिन्नराः ।। २९ ।।
स ददर्श ततो गत्वा कश्चिच्छैलं समुन्नतम् ।।
विततैर्धरणीं पादैर्धृत्वा संस्थितमग्रतः ।। 2.1.31.३० ।।
महौषधीनां रत्नानामशेषाणां स्वयंभुवा ।।
अखण्डतेजोदीप्तानां विनिर्मितमिवाकरम् ।। ३१ ।।
समुन्नतैर्यः शिखरैर्निपतद्व्योमभूतले ।।
उदारधारासंपन्नैर्दधातीव निरन्तरम् ।। ३२ ।।
शनैरारुह्य तं शैलमगस्त्यो मुनिपुंगवः ।।
निवासाय मतिं चक्रे रम्ये तच्छिखरस्थले ।। ३३ ।।
तस्यामृतोपमेयस्य पद्मोत्पलकुलश्रियः ।।
नानाद्रुमपरीतस्य कासारस्योत्तरे तटे ।। ३४ ।।
मनोहरे महीभागे विधायाश्रममुत्तमम् ।।
आराध्य पितृदेवर्षीन्विधिवद्वास्तुदेवताम् ।। ३५ ।।
उवास सुचिरं तत्र मुनिसङ्घसमन्वितः ।।
देवतासिद्धगन्धर्वाप्सरोजुष्टमहीधरे ।। ३६ ।।
तपः समावेशितवित्तवृत्तौ तपोवने तिष्ठति कुम्भजाते ।।
प्रशस्तसौभाग्यसमन्वितोऽद्रिरगस्त्यशैलाह्वयमाससाद ।। ३७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वेंकटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायामर्जुनभरद्वाजसंवादे शंकरविवाहागस्त्यदक्षिणदिग्गमनवर्णननामैकत्रिंशोऽध्यायः ।। ३१ ।।