अष्टाङ्गहृदयम्/सूत्रस्थानम्/अध्यायः ५

विकिस्रोतः तः
← अध्यायः ४ अष्टाङ्गहृदयम्
सूत्रस्थानम्
अध्यायः ६ →

अध्यायः २ जीवनं तर्पणं हृद्यं ह्लादि बुद्धि-प्रबोधनम् ।
तन्व् अ-व्यक्त-रसं मृष्टं शीतं लघ्व् अमृतोपमम् ॥ १ ॥

गङ्गाम्बु नभसो भ्रष्टं स्पृष्टं त्व् अर्केन्दु-मारुतैः ।
हिता-हित-त्वे तद् भूयो देश-कालाव् अपेक्षते ॥ २ ॥

येनाभिवृष्टम् अ-मलं शाल्य्-अन्नं राजते स्थितम् ।
अ-क्लिन्नम् अ-वि-वर्णं च तत् पेयं गाङ्गम् अन्य-था ॥ ३ ॥

५.३bv शाल्य्-अन्नं राजत-स्थितम् ५.३cv अ-क्लिन्नम् अ-वि-वर्णं स्यात् ५.३cv अ-क्लिन्नम् अ-विवर्णं वा ५.३dv तत् तोयं गाङ्गम् अन्य-था सामुद्रं तन् न पातव्यं मासाद् आश्वयुजाद् विना ।
ऐन्द्रम् अम्बु सु-पात्र-स्थम् अ-विपन्नं सदा पिबेत् ॥ ४ ॥

तद्-अ-भावे च भूमि-ष्ठम् आन्तरिक्षानुकारि यत् ।
शुचि-पृथ्व्-असित-श्वेते देशे ऽर्क-पवनाहतम् ॥ ५ ॥

५.५av तद्-अ-भावे च भूयिष्ठम् ५.५av तद्-अ-भावे पिबेद् भौमम् न पिबेत् पङ्क-शैवाल-तृण-पर्णाविलास्तृतम् ।
सूर्येन्दु-पवना-दृष्टम् अभिवृष्टं घनं गुरु ॥ ६ ॥

फेनिलं जन्तु-मत् तप्तं दन्त-ग्राह्य् अति-शैत्यतः ।
अन्-आर्तवं च यद् दिव्यम् आर्तवं प्रथमं च यत् ॥ ७ ॥

लूतादि-तन्तु-विण्-मूत्र-विष-संश्लेष-दूषितम् ।
पश्चिमोद-धि-गाः शीघ्र-वहा याश् चा-मलोदकाः ॥ ८ ॥

पथ्याः समासात् ता नद्यो विपरीतास् त्व् अतो ऽन्य-था ।
उपलास्फालनाक्षेप-विच्छेदैः खेदितोदकाः ॥ ९ ॥

५.९av पथ्याः समासतो नद्यो हिमवन्-मलयोद्भूताः पथ्यास् ता एव च स्थिराः ।
कृमि-श्लीपद-हृत्-कण्थ-शिरो-रोगान् प्रकुर्वते ॥ १० ॥

प्राच्यावन्त्य्-अपरान्तोत्था दुर्-नामानि महेन्द्र-जाः ।
उदर-श्लीपदातङ्कान् सह्य-विन्ध्योद्भवाः पुनः ॥ ११ ॥

५.११bv सह्य-विन्ध्य-भवाः पुनः कुष्ठ-पाण्डु-शिरो-रोगान् दोष-घ्न्यः पारियात्र-जाः ।
बल-पौरुष-कारिण्यः सागराम्भस् त्रि-दोष-कृत् ॥ १२ ॥

५.१२dv सागराम्बु त्रि-दोष-कृत् आविलं स-मलं नीलं घनं पीतम् अथापि च ।
स-क्षारं पिच्छिलं चैव सामुद्रं तन् निगद्यते ॥ १२+१ ॥

विद्यात् कूप-तडागादीन् जाङ्गलानूप-शैलतः ।
नाम्बु पेयम् अ-शक्त्या वा स्व्-अल्पम् अल्पाग्नि-गुल्मिभिः ॥ १३ ॥

पाण्डूदरातिसारार्शो-ग्रहणी-शोष-शोथिभिः ।
ऋते शरन्-निदाघाभ्यां पिबेत् स्वस्थो ऽपि चाल्प-शः ॥ १४ ॥

५.१४bv -ग्रहणी-दोष-शोथिभिः सम-स्थूल-कृशा भुक्त-मध्यान्त-प्रथमाम्बु-पाः ।
शीतं मदात्यय-ग्लानि-मूर्छा-छर्दि-श्रम-भ्रमान् ॥ १५ ॥

५.१५av सम-स्थूल-कृशा भक्त- तृष्णोष्ण-दाह-पित्तास्र-विषाण्य् अम्बु नियच्छति ।
दीपनं पाचनं कण्ठ्यं लघूष्णं वस्ति-शोधनम् ॥ १६ ॥

५.१६av तृष्णोष्म-दाह-पित्तास्र- हिध्माध्मानानिल-श्लेष्म-सद्यः-शुद्धि-नव-ज्वरे ।
कासाम-पीनस-श्वास-पार्श्व-रुक्षु च शस्यते ॥ १७ ॥

५.१७bv -सद्यः-शुद्धे नव-ज्वरे अन्-अभिष्यन्दि लघु च तोयं क्वथित-शीतलम् ।
पित्त-युक्ते हितं दोषे व्युषितं तत् त्रि-दोष-कृत् ॥ १८ ॥

५.१८av रूक्षम् अन्-अभिष्यन्दि ५.१८bv लघु क्वथित-शीतलम् ५.१८cv ऽध्युषितं तत् त्रि-दोष-कृत् नारिकेलोदकं स्निग्धं स्वादु वृष्यं हिमं लघु ।
तृष्णा-पित्तानिल-हरं दीपनं वस्ति-शोधनम् ॥ १९ ॥

वर्षासु दिव्य-नादेये परं तोये वरावरे ।
स्वादु-पाक-रसं स्निग्धम् ओजस्यं धातु-वर्धनम् ॥ २० ॥

वात-पित्त-हरं वृष्यं श्लेष्मलं गुरु शीतलम् ।
प्रायः पयो ऽत्र गव्यं तु जीवनीयं रसायनम् ॥ २१ ॥

क्षत-क्षीण-हितं मेध्यं बल्यं स्तन्य-करं सरम् ।
श्रम-भ्रम-मदा-लक्ष्मी-श्वास-कासाति-तृट्-क्षुधः ॥ २२ ॥

५.२२dv -श्वास-कासार्ति-तृट्-क्षुधः ५ .२२dv -श्वास-कासाधि-तृट्-क्षुधः जीर्ण-ज्वरं मूत्र-कृच्छ्रं रक्त-पित्तं च नाशयेत् ।
हितम् अत्य्-अग्न्य्-अ-निद्रेभ्यो गरीयो माहिषं हिमम् ॥ २३ ॥

अल्पाम्बु-पान-व्यायाम-कटु-तिक्ताशनैर् लघु ।
आजं शोष-ज्वर-श्वास-रक्त-पित्तातिसार-जित् ॥ २४ ॥

ईषद्-रूक्षोष्ण-लवणम् औष्ट्राकम् दीपनं लघु ।
शस्तं वात-कफानाह-कृमि-शोफोदरार्शसाम् ॥ २५ ॥

मानुषं वात-पित्तासृग्-अभिघाताक्षि-रोग-जित् ।
तर्पणाश्च्योतनैर् नस्यैर् अ-हृद्यं तूष्णम् आविकम् ॥ २६ ॥

वात-व्याधि-हरं हिध्मा-श्वास-पित्त-कफ-प्रदम् ।
हस्तिन्याः स्थैर्य-कृद् बाढम् उष्णं त्व् ऐकशफं लघु ॥ २७ ॥

शाखा-वात-हरं साम्ल-लवणं जड-ता-करम् ।
पयो ऽभिष्यन्दि गुर्व् आमं युक्त्या शृतम् अतो ऽन्य-था ॥ २८ ॥

विना तु वनिता-स्तन्यम् आमम् एव हितं हि तत् ॥ २८+१अब् ॥
भवेद् गरीयो ऽति-शृतं धारोष्णम् अमृतोपमम् ।
अम्ल-पाक-रसं ग्राहि गुरूष्णं दधि वात-जित् ॥ २९ ॥

मेदः-शुक्र-बल-श्लेष्म-पित्त-रक्ताग्नि-शोफ-कृत् ।
रोचिष्णु शस्तम् अ-रुचौ शीतके विषम-ज्वरे ॥ ३० ॥

पीनसे मूत्र-कृच्छ्रे च रूक्षं तु ग्रहणी-गदे ।
नैवाद्यान् निशि नैवोष्णं वसन्तोष्ण-शरत्सु न ॥ ३१ ॥

५.३१cv शरद्-ग्रीष्म-वसन्तेषु ५.३१dv नाद्यान् नोष्णं न रात्रिषु ना-मुद्ग-सूपं ना-क्षौद्रं तन् ना-घृत-सितोपलम् ।
न चान्-आमलकं नापि नित्यं नो मन्दम् अन्य-था ॥ ३२ ॥

ज्वरासृक्-पित्त-वीसर्प-कुष्ठ-पाण्डु-भ्रम-प्रदम् ।
तक्रं लघु कषायाम्लं दीपनं कफ-वात-जित् ॥ ३३ ॥

शोफोदरार्शो-ग्रहणी-दोष-मूत्र-ग्रहा-रुचीः ।
प्लीह-गुल्म-घृत-व्यापद्-गर-पाण्ड्व्-आमयाञ् जयेत् ॥ ३४ ॥

तद्-वन् मस्तु सरं स्रोतः-शोधि विष्टम्भ-जिल् लघु ।
नव-नीतं नवं वृष्यं शीतं वर्ण-बलाग्नि-कृत् ॥ ३५ ॥

संग्राहि वात-पित्तासृक्-क्षयार्शो-ऽर्दित-कास-जित् ।
क्षीरोद्भवं तु संग्राहि रक्त-पित्ताक्षि-रोग-जित् ॥ ३६ ॥

शस्तं धी-स्मृति-मेधाग्नि-बलायुः-शुक्र-चक्षुषाम् ।
बाल-वृद्ध-प्रजा-कान्ति-सौकुमार्य-स्वरार्थिनाम् ॥ ३७ ॥

क्षत-क्षीण-परीसर्प-शस्त्राग्नि-ग्लपितात्मनाम् ।
वात-पित्त-विषोन्माद-शोषा-लक्ष्मी-ज्वरापहम् ॥ ३८ ॥

स्नेहानाम् उत्तमं शीतं वयसः स्थापनं परम् ।
सहस्र-वीर्यं विधिभिर् घृतं कर्म-सहस्र-कृत् ॥ ३९ ॥

५.३९cv सहस्र-वीर्यं विधि-वद् मदापस्मार-मूर्छाय-शिरः-कर्णाक्षि-योनि-जान् ।
पुराणं जयति व्याधीन् व्रण-शोधन-रोपणम् ॥ ४० ॥

बल्याः किलाट-पीयूष-कूर्चिका-मोरणादयः ।
शुक्र-निद्रा-कफ-करा विष्टम्भि-गुरु-दोषलाः ॥ ४१ ॥

५.४१bv -कूचिका-मोरणादयः गव्ये क्षीर-घृते श्रेष्ठे निन्दिते चावि-संभवे ।
इक्षोः सरो गुरुः स्निग्धो बृंहणः कफ-मूत्र-कृत् ॥ ४२ ॥

वृष्यः शीतो ऽस्र-पित्त-घ्नः स्वादु-पाक-रसो रसः ।
सो ऽग्रे स-लवणो दन्त-पीडितः शर्करा-समः ॥ ४३ ॥

मूलाग्र-जन्तु-जग्धादि-पीडनान् मल-संकरात् ।
किञ्-चित्-कालं विधृत्या च विकृतिं याति यान्त्रिकः ॥ ४४ ॥

५.४४cv किञ्-चित्-काल-विधृत्या च विदाही गुरु-विष्टम्भी तेनासौ तत्र पौण्ड्रकः ।
शैत्य-प्रसाद-माधुर्यैर् वरस् तम् अनु वांशिकः ॥ ४५ ॥

५.४५av गुरुर् विदाही विष्टम्भी शतपर्वक-कान्तार-नैपालाद्यास् ततः क्रमात् ।
स-क्षाराः स-कषायाश् च सोष्णाः किञ्-चिद्-विदाहिनः ॥ ४६ ॥

५.४६av शातपर्वक-कान्तार- ५.४६bv -नेपालाद्यास् ततः क्रमात् फाणितं गुर्व् अभिष्यन्दि चय-कृन् मूत्र-शोधनम् ।
नाति-श्लेष्म-करो धौतः सृष्ट-मूत्र-शकृद् गुडः ॥ ४७ ॥

प्रभूत-कृमि-मज्जासृङ्-मेदो-मांस-कफो ऽपरः ।
हृद्यः पुराणः पथ्यश् च नवः श्लेष्माग्नि-साद-कृत् ॥ ४८ ॥

वृष्याः क्षीण-क्षत-हिता रक्त-पित्तानिलापहाः ।
मत्स्यण्डिका-खण्ड-सिताः क्रमेण गुण-वत्-तमाः ॥ ४९ ॥

तद्-गुणा तिक्त-मधुरा कषाया यास-शर्करा ।
दाह-तृट्-छर्दि-मूर्छासृक्-पित्त-घ्न्यः सर्व-शर्कराः ॥ ५० ॥

शर्करेक्षु-विकाराणां फाणितं च वरावरे ।
चक्षुष्यं छेदि तृट्-श्लेष्म-विष-हिध्मास्र-पित्त-नुत् ॥ ५१ ॥

मेह-कुष्ठ-कृमि-च्छर्दि-श्वास-कासातिसार-जित् ।
व्रण-शोधन-संधान-रोपणं वातलं मधु ॥ ५२ ॥

रूक्षं कषाय-मधुरं तत्-तुल्या मधु-शर्करा ।
उष्णम् उष्णार्तम् उष्णे च युक्तं चोष्णैर् निहन्ति तत् ॥ ५३ ॥

यक्ष्मार्शो-ऽर्दित-पित्तासृङ्-नाशनं ग्राहि दीपनम् ॥ ५३.१+१ ॥

प्रच्छर्दने निरूहे च मधूष्णं न निवार्यते ।
अ-लब्ध-पाकम् आश्व् एव तयोर् यस्मान् निवर्तते ॥ ५४ ॥

५.५४cv अ-लब्ध-पाकम् एवाशु तैलं स्व-योनि-वत् तत्र मुख्यं तीक्ष्णं व्यवायि च ।
त्वग्-दोष-कृद् अ-चक्षुष्यं सूक्ष्मोष्णं कफ-कृन् न च ॥ ५५ ॥

कृशानां बृंहणायालं स्थूलानां कर्शनाय च ।
बद्ध-विट्कं कृमि-घ्नं च संस्कारात् सर्व-रोग-जित् ॥ ५६ ॥

५.५६dv संस्कारात् सर्व-दोष-जित् स-तिक्तोषणम् ऐरण्डं तैलं स्वादु सरं गुरु ।
वर्ध्म-गुल्मानिल-कफान् उदरं विषम-ज्वरम् ॥ ५७ ॥

रुक्-शोफौ च कटी-गुह्य-कोष्ठ-पृष्ठाश्रयौ जयेत् ।
तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवं त्व् अति ॥ ५८ ॥

कटूष्णं सार्षपं तीक्ष्णं कफ-शुक्रानिलापहम् ।
लघु पित्तास्र-कृत् कोठ-कुष्ठार्शो-व्रण-जन्तु-जित् ॥ ५९ ॥

आक्षं स्वादु हिमं केश्यं गुरु पित्तानिलापहम् ।
नात्य्-उष्णं निम्ब-जं तिक्तं कृमि-कुष्ठ-कफ-प्रणुत् ॥ ६० ॥

उमा-कुसुम्भ-जं चोष्णं त्वग्-दोष-कफ-पित्त-कृत् ।
वसा मज्जा च वात-घ्नौ बल-पित्त-कफ-प्रदौ ॥ ६१ ॥

कषाय-तिक्त-कटुकं कारञ्जं व्रण-शोधनम् ॥ ६१.१+१ ॥

मांसानुग-स्व-रूपौ च विद्यान् मेदो ऽपि ताव् इव ।
दीपनं रोचनं मध्यं तीक्ष्णोष्णं तुष्टि-पुष्टि-दम् ॥ ६२ ॥

स-स्वादु-तिक्त-कटुकम् अम्ल-पाक-रसं सरम् ।
स-कषायं स्वरारोग्य-प्रतिभा-वर्ण-कृल् लघु ॥ ६३ ॥

नष्ट-निद्राति-निद्रेभ्यो हितं पित्तास्र-दूषणम् ।
कृश-स्थूल-हितं रूक्षं सूक्ष्मं स्रोतो-विशोधनम् ॥ ६४ ॥

वात-श्लेष्म-हरं युक्त्या पीतं विष-वद् अन्य-था ।
गुरु तद्-दोष-जननं नवं जीर्णम् अतो ऽन्य-था ॥ ६५ ॥

द्राक्षेक्षवः स-खर्जूराः शालि-पिष्टम् यवस्य च ।
पञ्च मद्याकाराः श्रेष्ठा द्राक्षा तेषां विशिष्यते ॥ ६५.१+१ ॥

५.६५.१+१bv शालेः पिष्टम् यवस्य च पेयं नोष्णोपचारेण न विरिक्त-क्षुधातुरैः ।
नात्य्-अर्थ-तीक्ष्ण-मृद्व्-अल्प-संभारं कलुषं न च ॥ ६६ ॥

गुल्मोदरार्शो-ग्रहणी-शोष-हृत् स्नेहनी गुरुः ।
सुरानिल-घ्नी मेदो-ऽसृक्-स्तन्य-मूत्र-कफावहा ॥ ६७ ॥

तद्-गुणा वारुणी हृद्या लघुस् तीक्ष्णा निहन्ति च ।
शूल-कास-वमि-श्वास-विबन्धाध्मान-पीनसान् ॥ ६८ ॥

नाति-तीव्र-मदा लघ्वी पथ्या वैभीतकी सुरा ।
व्रणे पाण्ड्व्-आमये कुष्ठे न चात्य्-अर्थं विरुध्यते ॥ ६९ ॥

विष्टम्भिनी यव-सुरा गुर्वी रूक्षा त्रि-दोषला ।
यथा-द्रव्य-गुणो ऽरिष्टः सर्व-मद्य-गुणाधिकः ॥ ७० ॥

ग्रहणी-पाण्डु-कुष्ठार्शः-शोफ-शोषोदर-ज्वरान् ।
हन्ति गुल्म-कृमि-प्लीह्नः कषाय-कटु-वातलः ॥ ७१ ॥

५.७१dv कषायः कटु-वातलः मार्द्वीकं लेखनं हृद्यं नात्य्-उष्णं मधुरं सरम् ।
अल्प-पित्तानिलं पाण्डु-मेहार्शः-कृमि-नाशनम् ॥ ७२ ॥

अस्माद् अल्पान्तर-गुणं खार्जूरं वातलं गुरु ।
शार्करः सुरभिः स्वादु-हृद्यो नाति-मदो लघुः ॥ ७३ ॥

५.७३cv शार्करं सुरभि स्वादु ५.७३dv हृद्यं नाति-मदं लघु सृष्ट-मूत्र-शकृद्-वातो गौडस् तर्पण-दीपनः ।
वात-पित्त-करः सीधुः स्नेह-श्लेष्म-विकार-हा ॥ ७४ ॥

मेदः-शोफोदरार्शो-घ्नस् तत्र पक्व-रसो वरः ।
छेदी मध्व्-आसवस् तीक्ष्णो मेह-पीनस-कास-जित् ॥ ७५ ॥

रक्त-पित्त-कफोत्क्लेदि शुक्तं वातानुलोमनम् ।
भृशोष्ण-तीक्ष्ण-रूक्षाम्लं हृद्यं रुचि-करं सरम् ॥ ७६ ॥

५.७६dv हृद्यं रुचि-करं परम् दीपनं शिशिर-स्पर्शं पाण्डु-दृक्-कृमि-नाशनम् ।
गुडेक्षु-मद्य-मार्द्वीक-शुक्तं लघु यथोत्तरम् ॥ ७७ ॥

५.७७bv पाण्डु-हृत् कृमि-नाशनम् ५.७७cv गुडेक्षु-मद्य-माध्वीक- कन्द-मूल-फलाद्यं च तद्-वद् विद्यात् तद्-आसुतम् ।
शाण्डाकी चासुतं चान्यत् कालाम्लं रोचनं लघु ॥ ७८ ॥

धान्याम्लं भेदि तीक्ष्णोष्णं पित्त-कृत् स्पर्श-शीतलम् ।
श्रम-क्लम-हरं रुच्यं दीपनं वस्ति-शूल-नुत् ॥ ७९ ॥

शस्तम् आस्थापने हृद्यं लघु वात-कफापहम् ।
एभिर् एव गुणैर् युक्ते सौवीरक-तुषोदके ॥ ८० ॥

गण्डूष-धारणाद् वक्त्र-मल-दौर्गन्ध्य-शोष-जित् ॥ ८०.१+१ ॥

कृमि-हृद्-रोग-गुल्मार्शः-पाण्डु-रोग-निबर्हणे ।
ते क्रमाद् वि-तुषैर् विद्यात् स-तुषैश् च यवैः कृते ॥ ८१ ॥

५.८१av कृमि-हृद्-रोग-गुल्मार्शो- ५.८१bv -ग्रहणी-पाण्डु-नाशने मूत्रं गो-ऽजावि-महिषी-गजाश्वोष्ट्र-खरोद्भवम् ।
पित्तलं रूक्ष-तीक्ष्णोष्णं लवणानु-रसं कटु ॥ ८२ ॥

कृमि-शोफोदरानाह-शूल-पाण्डु-कफानिलान् ।
गुल्मा-रुचि-विष-श्वित्र-कुष्ठार्शांसि जयेल् लघु ॥ ८३ ॥

५.८३bv -शूल-पाण्डु-कफामयान् तोय-क्षीरेक्षु-तैलानां वर्गैर् मद्यस्य च क्रमात् ।
इति द्रवैक-देशो ऽयं यथा-स्थूलम् उदाहृतः ॥ ८४ ॥