स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ५८

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
उमामाहेश्वरं गच्छेत्ततो राजन्सुपुण्यदम्॥
स्थापितं भक्तियुक्तेन धुन्धुमारेण यत्पुरा ॥ १ ॥
दांपत्यं पूजयेद्भक्त्या यस्तत्र मनुजाधिप ॥
सप्त जन्मांतराण्येव न स दौर्भाग्यमाप्नुयात ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्ड उमामाहेश्वरतीर्थमाहात्म्यवर्णनंनामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥