स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ४८

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
कुलसंतारणं गच्छेत्तत्र तीर्थमनुत्तमम् ॥
यत्र स्नातो नरः सम्यक्कुलं तारयतेऽखिलम्॥ १ ॥
दश पूर्वान्भविष्यांश्च तथात्मानं नृपोत्तम ॥
उद्धरेच्छ्रद्धयायुक्तस्तत्र दानेन मानवः ॥ २ ॥
आसीदप्रस्तुतो नाम राजा पूर्वं स पापकृत् ॥
नापि दानं तथा ज्ञानं न ध्यानं न च सत्क्रिया ॥ ३ ॥
तस्मिञ्छासति लोकानां नासीत्सौख्यं कदाचन ॥
परदार रुचिर्नित्यं महादण्डपरश्च सः ॥ ४ ॥
न्यायतोऽन्यायतो वापि करोति धनसंग्रहम् ॥
स घातयति लोकांश्च निर्दोषान्पापकृत्तमः ॥ ५ ॥
ततो वार्धक्यमापन्नस्तथापि न शमं गतः ॥
कस्यचित्त्वथ कालस्य पितृभिः प्रतिबोधितः ॥
तं प्रसुप्तं समासाद्य नारकेयैः सुदुःखितैः ॥ ६॥
॥ पितर ऊचुः ॥ ॥
वयं शुद्धसमाचारा नित्यं धर्मपरायणाः ॥
दानयज्ञतपःशीलाः स्वदारनिरतास्तथा ॥ ७ ॥
स्वकर्मभिः कुलांगार दिवं प्राप्ता यथार्हतः ॥
कुपुत्रं त्वां समासाद्य नरकं समुपस्थिताः ॥
तस्मादुद्धर नः सर्वान्कृत्वा किंचिच्छुभार्चनम् ॥ ८ ॥
कर्मभिस्तव पापात्मन्वयं नरकमाश्रिताः ॥
नरकं दश यास्यंति भविष्याश्च तथा भवान् ॥ ९ ॥
एवमुक्त्वा च ते सर्वे पितरस्तु सुदुःखिताः ॥
याताश्च नरकं भूयः प्रबुद्धः सोऽपि पार्थिवः ॥ 7.3.48.१० ॥
ततो दुःखमनुप्राप्तः पितृवाक्यानि संस्मरन् ॥
रुरोद प्रातरुत्थाय तं भार्या प्रत्यभाषत ॥ ११ ॥
॥ इन्दुमत्युवाच ॥ ॥
किमर्थं राजशार्दूल त्वं रोदिषि महास्वनम् ॥
कथं ते कुशलं राज्ये शरीरे वा पुरेऽथवा ॥ १२ ॥ ॥
॥ राजोवाच ॥ ॥
मया दृष्टोऽद्य स्वप्नांते पिता ह्यथ पितामहः ॥
अपश्यं दुःखितान्देवि ताभ्यामथाग्रजान्पितॄन् ॥ १३ ॥
उपालब्धोऽस्मि तैः सर्वैस्तव कर्मभिरीदृशैः ॥
दारुणे नरके प्राप्ता अधर्मादिविचेष्टितैः ॥ १४ ॥
अथान्ये दश यास्यन्ति भविष्याश्च भवानपि ॥
तस्मात्कृत्वा शुभं कर्म दुर्गतेश्चोद्धरस्व नः ॥ १५ ॥
एवमुक्तः प्रबुद्धोऽहं पितृभिर्वरवर्णिनि ॥
तेनाहं दुःखमापन्नस्तद्वाक्यं हृदि संस्मरन् ॥ १६ ॥ ॥
॥ इन्दुमत्युवाच ॥ ॥
सत्यमेतन्महाराज यदुक्तोऽसि पितामहैः ॥
न त्वया सुकृतं कर्म संस्मरेऽहं कृतं पुरा ॥ १७ ॥
यथा सुपुत्रमासाद्य तरंति पितरो नृप ॥
कुपुत्रेण तथा यांति नरकं नात्र संशयः ॥ १८ ॥
स त्वमाहूय विप्रेंद्रान्धर्मशास्त्रविचक्षणान् ॥
पृष्ट्वा तान्कुरु यच्छ्रेयः पितॄणामात्मना सह ॥ १९ ॥
आनयामास राजाऽसौ ततो विप्राननेकशः ॥
वेदवेदांगतत्त्वज्ञान्धर्मशास्त्रविचक्षणान् ॥
उवाच विनयोपेतो भार्यया सहितो हितान्॥ 7.3.48.२० ॥
॥ राजोवाच ॥ ॥
कर्मणा केन पितरो निरयस्था द्विजोत्तमाः ॥
स्वर्गं यांति सुपुत्रेण तारिताः प्रोच्यतां स्फुटम् ॥ ॥ २१ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
पितृमेधेन राजेंद्र कृतेन विधिपूर्वकम् ॥
निरयस्था दिवं यांति यद्यपि स्युः सुपापिनः ॥ २२ ॥
॥ राजोवाच ॥ ॥
दीक्षयंतु द्विजाः सर्वे तदर्थं मां धृतव्रतम् ॥
यत्किंचिदत्र कर्त्तव्यं प्रोच्यतामखिलं हि तत् ॥ २३ ॥
तथोक्तास्ते नृपेंद्रेण ब्राह्मणाः सत्यवादिनः ॥
समग्राः पार्थिवं प्रोचुर्यदुक्तं यज्ञकर्मणि ॥ २४ ॥
दीक्षा ग्राह्या नृपश्रेष्ठ पुरश्चरणमादितः ॥
कृत्वा कायविशुद्ध्यर्थं ततः श्रेयस्करी भवेत् ॥ २५ ॥
स त्वं पापसमाचारो बाल्यात्प्रभृति पार्थिव ॥
असंख्यं पातकं तस्मात्तीर्थयात्रां समाचर ॥ २६ ॥
सर्वतीर्थाभिषिक्तस्त्वं यदा स्यान्नृपसत्तम ॥
प्रायश्चित्तेन योग्यः स्यास्ततो यज्ञस्य नान्यथा ॥ २७ ॥
प्रभासादीनि तीर्थानि यानि संति धरातले ॥
गंतव्यं तेषु सर्वेषु स्नानं कुरु समाहितः ॥ २८ ॥
मनसा गच्छ दुर्गाणि ददद्दानमनुत्तमम् ॥
नश्येत्तेनाशुभं किंचिदपि ब्रह्मवधोद्भवम् ॥
यन्न याति नृणां राजंस्तीर्थस्नानादिना भुवि ॥ २९ ॥
॥ पुलस्त्य उवाच ॥ ॥
विप्राणां वचनं श्रुत्वा स राजा श्रद्धयाऽन्वितः ॥
तीर्थयात्रापरो भूत्वा परिबभ्राम मेदिनीम्॥ ॥ 7.3.48.३० ॥
नियतो नियताहारो ददद्दानानि भूरिशः ॥
राज्ये पुत्रं प्रतिष्ठाप्य वसुं सत्यपराक्रमम् ॥ ३१ ॥
कस्यचित्त्वथ कालस्य तीर्थयात्रानुषंगतः ॥
यातोऽसौ नृपतिश्चैव ह्यर्बुदे निर्मलोदकम् ॥ ३२ ॥
स स्नानमकरोत्तत्र श्रद्धापूतेन चेतसा ॥
स्नातमात्रस्य तस्याथ तस्मिन्नेव जलाशये ॥ ॥ ३३ ॥
विमुक्ताः पितरो रौद्रान्नरकात्सुप्रहर्षिताः ॥
ततो दिव्यविमानस्था दिव्यमाल्यांबरान्विताः ॥ ३४ ॥
तमूचुस्तारिताः सर्वे वयं पुत्र त्वयाऽधुना ॥
तीर्थस्यास्य प्रभावेण भविष्याश्च तथा दश ॥ ३५ ॥
आत्मा च पार्थिवश्रेष्ठ स्नानाच्च जलतर्पणात् ॥
यस्मात्कुलं त्वया पुत्र तीर्थेऽस्मिंस्तारितं ततः ॥ ३६ ॥
कुलसंतारणंनाम तीर्थमेतद्भविष्यति ॥
तस्मात्त्वमपि राजेंद्र सहाऽस्माभिर्दिवं प्रति ॥
आगच्छानेन देहेन तीर्थस्यास्य प्रभावतः ॥ ३७ ॥
॥ पुलस्त्य उवाच ॥ ॥
एवमुक्तः स राजेंद्रो दिव्यकांतिवपुस्तदा ॥
तं विमानमथारुह्य गतः स्वर्गं च तैः सह ॥ ३८ ॥
एष प्रभावो राजर्षे कुलसंतारणस्य च ॥
मया ते वर्णितः सम्यग्भूयः किं परिपृच्छसि ॥ ३९ ॥
॥ ययातिरुवाच ॥ ॥
स किंप्रभावो राजा स तथा पापसमन्वितः ॥
स्वदेहेन गतः स्वर्गमेतन्मे कौतुकं महत् ॥ 7.3.48.४० ॥
॥ पुलस्त्य उवाच ॥ ॥
राकासोमव्यतीपात समकाले नृपोत्तम ॥
स स्नातो यत्र भूपालस्तन्महच्छ्रेयसे परम् ॥ ४१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे तृतीयेऽर्बुदखंडे कुलसंतारणतीर्थमाहात्म्यवर्णनंनामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥