स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ३५८

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि तीर्थं नारायणाभिधम् ॥
तस्यैवेशानदिग्भागे वापी शांडिल्यकीर्तिता ॥ १ ॥
स्नात्वा तत्रैव विधिवच्छांडिल्यं यः प्रपूजयेत् ॥
ऋषिपंचम्यां विधिना नारी चैव पतिव्रता ॥
स्पृष्ट्वास्पृष्ट्वा विमुच्येत रजोदोषभयाद्ध्रुवम् ॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये नारायणतीर्थमाहात्म्यवर्णनंनामा ष्टापंचाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५८ ॥