स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २९३

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तस्माद्वैश्रवण स्थानान्नैर्ऋत्यां वरवर्णिनि ॥
स्वयं स्थितः कुबेरस्तु सर्वदारिद्र्यनाशनः ॥ १ ॥
मकरादिनिधानैस्तु अष्टाभिः परिभूषितः ॥
पञ्चम्यां पूजयेद्भक्त्या गन्धपुष्पानुलेपनैः ॥
निधानप्राप्तिरतुला निर्विघ्ना तस्य जायते ॥ २ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभामक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये कुबेरस्थानोत्पत्तौ कुबेरमाहात्म्यवर्णनंनाम त्रिनवत्युत्तरद्विशततमोऽध्यायः ॥ २९३ ॥