स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २८६

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि बालार्कं पापनाशनम् ॥
अगस्त्याश्रमतो देवि उत्तरे नातिदूरतः ॥ १ ॥
बाल एव तु यत्रार्कस्तपस्तेपे पुरा प्रिये ॥
तेन बालार्क इत्येतन्नाम ख्यातं धरातले ॥ २ ॥
तं दृष्ट्वा रविवारेण न कुष्ठी जायते नरः ॥
बालानां रोगजा पीडा न संभूयात्कदाचन ॥ ३ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये बालार्कमाहात्म्यवर्णनंनाम षडशीत्युत्तरद्विशततमोऽध्यायः ॥ २८६ ॥