स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २५४

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तत्रैव संस्थितं पश्येत्सर्वपातकनाशनम् ॥
घण्टेश्वरमिति ख्यातं देवदानववन्दितम् ॥
पूजितं ह्यृषिभिः सिद्धैर्वांछितार्थफलप्रदम् ॥ १ ॥
वारे सोमस्य चाष्टम्यां यस्तं पूजयते नरः ॥
स लभेद्वांछितान्कामान्मुक्तः स्यात्पातकेन हि ॥२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये घंटेश्वरमाहारत्म्यवर्णनंनाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५४ ॥