स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः १८१

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि क्षेत्रपेश्वरमुत्तमम् ॥
सिद्धेश्वर समीपस्थं पूर्वस्मिन्नातिदूरतः ॥ १ ॥
तं दृष्ट्वा शुक्लपञ्चम्यां न च नागैः स दश्यते ॥ २ ॥
पूजयेत्तं विधानेन गन्धपुष्पादिभिः क्रमात् ॥
भोजयेद्ब्राह्मणाञ्छक्त्या भक्ष्यभोज्यैरनेकशः ॥ ३ ॥
इतिश्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये क्षेत्रपालेश्वरमाहात्म्यवर्णनंनामैकाशीत्युत्तरशततमोऽध्यायः ॥ १८१ ॥ ॥