शतपथब्राह्मणम्/काण्डम् १०/अध्यायः २/ब्राह्मण १

विकिस्रोतः तः
← अध्यायः १/ब्राह्मण ५ शतपथब्राह्मणम्/काण्डम् १०/अध्यायः २/ब्राह्मण १
[[लेखकः :|]]
ब्राह्मण २ →

चित्याग्निविषयकविचारः

१०.२.१.१

प्रजापतिः स्वर्गं लोकमजिगांसत् । सर्वे वै पशवः प्रजापतिः पुरुषोऽश्वोगौरविरजः स एतै रूपैर्नाशक्नोत्स एतं वयोविधमात्मानमपश्यदग्निं तं व्यधत्त सोऽनुपसमुह्यानुपाधायोदपिपतिषत्स नाशक्नोत्स उपसमुह्योपधायोदपतत्तस्मादप्येतर्हि वयांसि यदैव पक्षा उपसमूहन्ते यदा पत्राणि विसृजन्तेऽथोत्पतितुं शक्नुवन्ति - १०.२.१.१

तं वा अङ्गुलिभिर्मिमीते पुरुषो वै यज्ञस्तेनेदं सर्वं मितं तस्यैषाऽवमा मात्रा यदङ्गुलयस्तद्यास्यावमा मात्रा तामस्य तदाप्नोति तयैनं तन्मिमीते - १०.२.१.२

चतुर्विंशत्याङ्गुलिभिर्मिमीते चतुर्विंशत्यक्षरा वै गायत्री गायत्रोऽग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवैनं तन्मिमीते - १०.२.१.३

स चतुरङ्गुलमेवोभयतोऽन्तरत उपसमूहति चतुरङ्गुलमुभयतो बाह्यतो व्युदूहति तद्यावदेवोपसमूहति तावद्व्युदूहति तन्नाहैवातिरेचयति नो कनीयः करोति तथा पुच्छस्य तथोत्तरस्य पक्षस्य - १०.२.१.४

अथ निर्णामौ पक्षयोः करोति निर्णामौ हि वयसः पक्षयोर्भवतो वितृतीये वितृतीये हि वयसः पक्षयोर्निर्णामौ भवतोऽन्तरे वितृतीयेऽन्तरे हि वितृतीये वयसः पक्षयोर्निर्णामौ भवतः स चतुरङ्गुलमेव पुरस्तादुदूहति चतुरङ्गुलं पश्चादुपसमूहति तद्यावदेवोदूहति तावदुपसमूहति तन्नाहैवातिरेचयति नो कनीयः करोति - १०.२.१.५

स तस्मिन्निर्णामे एकामिष्टकामुपदधाति तद्येयं वयसः पततो निर्णामादेका नाड्युपशेते तां तत्करोत्यथो इदम् - १०.२.१.६

अथ वक्रौ करोति वक्रौ हि वयसः पक्षौ भवतः स चतुरङ्गुलमेव पश्चादुदूहति चतुरङ्गुलं पुरस्तादुपसमूहति तद्यावदेवोदूहति तावदुपसमूहति तन्नाहैवातिरेचयति नो कनीयः करोति - १०.२.१.७

अथ रूपमुत्तमं करोति अत्रैष सर्वोऽग्निः संस्कृतस्तस्मिन्देवा एतद्रूपमुत्तममदधुस्तथैवास्मिन्नयमेतद्रूपमुत्तमं दधाति स सहस्रमृज्वालिखिता इष्टकाः करोति सहस्रमित्यालिखिताः सहस्रमित्यालिखिताः - १०.२.१.८

अथ पञ्चमीं चितिमुपधाय त्रेधाग्निं विमिमीते स मध्यमे वितृतीये सहस्रमृज्वालिखिता इष्टका उपदधाति तद्यानीमानि वयसः प्रत्यञ्चि शीर्ष्ण आ पुच्छादृजूनि लोमानि तानि तत्करोति - १०.२.१.९

अथ सहस्रमित्यालिखिता दक्षिणत उपदधाति तद्यानीमानि वयसो दक्षिणतो वक्राणि लोमानि तानि तत्करोति - १०.२.१.१०

अथ सहस्रमित्यालिखिता उत्तरत उपदधाति तद्यानीमानि वयस उत्तरतो वक्राणि लोमानि तानि तत्करोति सहस्रेण सर्वं वै सहस्रं सर्वेणैवास्मिन्नेतद्रूपमुत्तमं दधाति त्रिभिः सहस्रैस्त्रिवृदग्निर्यावानग्निर्यावत्यस्य मात्रा तावतैवास्मिन्नेतद्रूपमुत्तमं दधाति - १०.२.१.११