स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः १०२

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
संप्रस्थितस्य रामस्य स्वकीयं सदनं प्रति ॥
यदाश्चर्यमभून्मार्गे श्रूयतां द्विजसत्तमाः ॥ १ ॥
नभोमार्गेण गच्छत्तद्विमानं पुष्पकं द्विजाः ॥
अकस्मादेव सञ्जातं निश्चलं चित्रकृन्नृणाम् ॥ २ ॥
अथ तन्निश्चलं दृष्ट्वा पुष्पकं गगनांगणे ॥
रामो वायुसुतस्येदं वचनं प्राह विस्मयात् ॥ ३
त्वं गत्वा मारुते शीघ्रं भूमिं जानीहि कारणम् ॥
किमेतत्पुष्पकं व्योम्नि निश्चलत्वमुपागतम् ॥ ४ ॥
कदाचिद्धार्यते नास्य गतिः कुत्रापि केनचित् ॥
ब्रह्मदृष्टिप्रसूतस्य पुष्पकस्य महात्मनः ॥ ५ ॥
बाढमित्येव स प्रोच्य हनूमान्धरणीतलम् ॥
गत्वा शीघ्रं पुनः प्राह प्रणिपत्य रघूत्तमम् ॥ ६ ॥
अत्रास्याधः शुभं क्षेत्रं हाटकेश्वर संज्ञितम् ॥
यत्र साक्षाज्जगत्कर्ता स्वयं ब्रह्मा व्यवस्थितः ॥ ७ ॥
आदित्या वसवो रुद्रा देववैद्यौ तथाश्विनौ ॥
तत्र तिष्ठन्ति ते सर्वे तथान्ये सिद्धकिन्नराः ॥ ८ ॥
एतस्मात्कारणान्नैतदतिक्रामति पुष्पकम् ॥
तत्क्षेत्रं निश्चलीभूतं सत्यमेतन्मयोदितम् ॥ ९ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा कौतूहलसमवितः ॥
पुष्पकं प्रेरयामास तत्क्षेत्रं प्रति राघवः ॥६.१०२.॥॥
सर्वैस्तैर्वानरैः सार्धं राक्षसैश्च पृथग्विधैः ॥
अवतीर्य ततो हृष्टस्तस्मिन्क्षेत्रे समन्ततः ॥ ११ ॥
तीर्थमालोकयामास पुण्यान्यायतनानि च ॥
ततो विलोकयामास पितामहविनिर्मिताम् ॥
चामुण्डां तत्र च स्नात्वा कुण्डे कामप्रदायिनि ॥ १२ ॥
ततो विलोकयामास पित्रा तस्य विनिर्मितम्॥
रामः स्वमिव देवेशं दृष्ट्वा देवं चतुर्भुजम्॥ ॥ १३ ॥
राजवाप्यां शुचिर्भूत्वा स्नात्वा तर्प्य निजान्पितॄन् ॥
ततश्च चिन्तयामास क्षेत्रे त्र बहुपुण्यदे ॥ १४ ॥
लिंगं संस्थापयाम्येव यद्वत्तातेन केशवः ॥
तथा मे दयितो भ्राता लक्ष्मणो दिवमाश्रितः ॥ १५ ॥
यस्तस्य नामनिर्दिष्टं लिंगं संस्थापयाम्यहम् ॥
तं चापि मूर्तिमंतं च सीतया सहितं शुभम् ॥
क्षेत्रे मेध्यतमे चात्र तथात्मानं दृषन्मयम् ॥ १६ ॥
एवं स निश्चयं कृत्वा प्रासादानां च पंचकम् ॥
स्थापयामास सद्भक्त्या रामः शस्त्रभृतां वरः ॥ १७ ॥
ततस्ते वानराः सर्वे राक्षसाश्च विशेषतः ॥
लिंगानि स्थापयामासुः स्वानिस्वानि पृथक्पृथक् ॥ १८ ॥
तत्रैव सुचिरं कालं स्थितास्ते श्रद्धयाऽन्विताः ॥
ततो जग्मुरयोध्यायां विमानवरमाश्रिताः ॥ १९ ॥
एतद्वः सर्वमाख्यातं यथा रामेश्वरो महान् ॥
लक्ष्मणेश्वरसंयुक्तस्तस्मिंस्तीर्थे सुशोभने ॥ ६.१०२.२० ॥
यस्तौ प्रातः समुत्थाय सदा पश्यति मानवः ॥
स कृत्स्नं फलमाप्नोति श्रुते रामायणेऽत्र यत् ॥ २१ ॥
अथाष्टम्यां चतुर्दश्यां यो रामचरितं पठेत् ॥
तदग्रे वाजिमेधस्य स कृत्स्नं लभते फलम् ॥ २२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये श्रीरामचन्द्रेण हाटकेश्वरक्षेत्रे लक्ष्मणादिप्रासादपञ्चकनिर्माणप्रतिष्ठापनवर्णनंनाम द्व्युत्तरशततमोऽध्यायः ॥ १०२ ॥