स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०६५

विकिस्रोतः तः


अध्याय ६५

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र आनन्देश्वरमुत्तमम् ।
तत्तीर्थं कथयिष्यामि सर्वपापक्षयंकरम् ॥ ६५.१ ॥

युधिष्ठिर उवाच -
आनन्दश्चैव संजातो रुद्रस्य द्विजसत्तम ।
कथ्यतां मे च तत्सर्वं संक्षेपात्सह बान्धवैः ॥ ६५.२ ॥

श्रीमार्कण्डेय उवाच -
कथयामि नृपश्रेष्ठ आनन्देश्वरमुत्तमम् ।
दानवानां वधं कृत्वा देवदेवो महेश्वरः ॥ ६५.३ ॥
पूजितो दैवतैः सर्वैः किन्नरैर्यक्षपन्नगैः ।
आनन्दसंयुतो देवो ननर्त वृषवाहनः ॥ ६५.४ ॥
भैरवं रूपमास्थाय गौर्या चार्द्धाङ्गसंस्थितः ।
भूतवेतालकङ्कालैर्भैरवैर्भैरवो वृतः ॥ ६५.५ ॥
ननर्त नर्मदातीरे दक्षिणे पाण्डुनन्दन ।
तुष्टैर्मरुद्गणैः सर्वैः स्थापितः कमलासनः ॥ ६५.६ ॥
तदाप्रभृति तत्तीर्थमानन्देश्वरमुच्यते ।
अष्टम्यां च चतुर्दश्यां पौर्णमास्यां नराधिप ॥ ६५.७ ॥
विधिवच्चार्चयेद्देवं सुगन्धेन विलेपयेत् ।
ब्राह्मणान्पूजयेत्तत्र यथाशक्त्या युधिष्ठिर ॥ ६५.८ ॥
गोदानं तत्र कर्तव्यं वस्त्रदानं शुभावहम् ।
वसन्तस्य त्रयोदश्यां श्राद्धं तत्रैव कारयेत् ॥ ६५.९ ॥
इङ्गुदैर्बदरैर्बिल्वैरक्षतैश्च जलेन वा ।
प्रेतानां कारयेच्छ्राद्धमानन्देश्वर उत्तमे ॥ ६५.१० ॥
आनन्दिता भवेयुस्ते यावदाभूतसम्प्लवम् ।
सन्ततेर्वै न विच्छेदः सप्तजन्मसु जायते ।
आनन्दो हि भवत्तेषां प्रतिजन्मनि भारत ॥ ६५.११ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आनन्देश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्टितमोऽध्यायः ॥