स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०५०

विकिस्रोतः तः
← अध्यायः ०४९ स्कन्दपुराणम् - नागरखण्डः
अध्यायः ५०
[[लेखकः :|]]
अध्यायः ०५१ →


एवं तस्य नरेन्द्रस्य व्याघ्ररूपस्य कानने ॥
जगाम सुमहान्कालो निघ्नतो विविधान्द्विज ॥ १ ॥
कस्यचित्त्वथ कालस्य तस्मिन्देशे द्विजोत्तमाः ॥
आ यातं गोकुलं रम्यं गोपगोपीसमाकुलम् ॥ २ ॥
तत्रास्ति नन्दिनीनाम धेनुः पीनपयोधरा ॥
विस्तीर्णजघनाभोगा हंसवर्णा घटस्रवा ॥ ३ ॥
अथ सा निजयूथस्य सदाग्रे तृणवांछया ॥
भ्रममाणा निकुञ्जांते लिंगं देवस्य शूलिनः ॥ ४ ॥
अपश्यत्तेजसा युक्तं स्वयमेव व्यवस्थितम् ॥
द्वादशार्कप्रतीकाशं चित्ताह्लादकरं परम् ॥ ५ ॥
ततस्तस्योपरि स्थित्वा सुस्राव सुमहत्पयः ॥
श्रद्धया परया युक्ता तस्य स्नानकृते द्विजाः ॥ ६ ॥
एवं तां स्नपनं तस्य सदा लिंगस्य कुर्वतीम् ॥
न जानाति जनः कश्चिद्वने वृक्षसमाकुले ॥ ७ ॥
अन्यस्मिन्दिवसे तत्र स्थाने व्याघ्रः समागतः ॥
तीक्ष्णदंष्ट्रो महाकायः सर्वजन्तुभयावहः ॥ ८ ॥
अथ सा तत्र आयाता पतिता दृष्टिगोचरे ॥
नन्दिनी द्वीपिनस्तस्य दैवयोगाद्द्विजोत्तमाः ॥ ९ ॥
ततः सा गोकुले बद्धं स्मृत्वा स्वं लघुवत्सकम् ॥
अतृणादं पयोवृत्तिं करुणं पर्यदेवयत् ॥ ६.५०.१० ॥
अद्यैकाहं च संप्राप्ता कानने जनवर्जिते ॥
पुत्रं बालं परित्यज्य गोपैर्गोष्ठे नियंत्रितम् ॥ ११ ॥
येन सत्येन भक्त्याद्य स्नपनायाहमागता ॥
शिवस्य तेन सत्येन भूयान्मे सुतसंगमः ॥ १२ ॥
एवं सा करुणं यावन्नन्दिनी विलपत्यलम्॥
तावद्व्याघ्रः स्मितं कृत्वा प्रोवाच परुषाक्षरम् ॥ १३ ॥
॥ व्याघ्र उवाच ॥ ॥
प्रलापान्किं मुधा धेनो करोषि वशगा मम ॥
तस्मादिष्टतमं देवं स्मर स्वर्गकृते शुभे ॥ १४ ॥
॥ धेनुरुवाच ॥ ॥
नाहमात्मकृते व्याघ्र विलपामि सुदुः खिता ॥
शिवार्चनकृते मृत्युर्मम जातः शुभावहः ॥ १५ ॥
वत्सो मे गोकुले बद्धः स्मरमाणो ममागमम् ॥
सन्तिष्ठते पयोवृत्तिः कथं स्यात्स मया विना ॥ १६ ॥
एतस्मात्कारणाद्व्याघ्र विलपामि सुदुःखिता ॥
न चात्मजीवनार्थाय सत्येनात्मानमालभे ॥ १७ ॥
तस्मान्मुंच महाव्याघ्र मां सद्यः सुतवत्सलाम् ॥
सखीजनस्य तं दत्त्वा समागच्छामि तेंतिकम् ॥ १८ ॥
॥ व्याघ्र उवाच ॥ ॥
कथं मृत्युमुखं प्राप्य निष्क्रम्य च कथञ्चन ॥
भूयस्तत्रैव निर्यासि तस्मात्त्वां भक्षयाम्यहम् ॥ १९ ॥
॥ नन्दिन्युवाच ॥ ॥
शपथैरागमिष्यामि यैः पुनर्व्याघ्र तेंऽतिकम् ॥
तानाकर्णय मे वक्त्रात्ततो युक्तं समाचर ॥ ६.५०.२० ॥
यत्पापं ब्रह्महत्यायां मातापित्रोश्च वंचने ॥
तेन पापेन लिप्येहं नागच्छामि पुनर्यदि ॥ २१ ॥
विवस्त्रं स्नानसक्तानां दिवामैथुनगामिनाम् ॥
यत्पापं तेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ २२ ॥
रजस्वलानुसक्तानां यत्पापं नग्नशायिनाम् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ २३ ॥
विश्वासघातकानां च कृतघ्नानां च यद्भवेत् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ ॥ २४ ॥
गोकन्याब्राह्मणानां च दूषकानां च यद्भवेत् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ २५ ॥
वृथापाकप्रकर्तृणां वृथामांसाशिनां च यत् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ २६ ॥
व्रतभंगप्रकर्तृणामनृतौ गामिनां च यत् ॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ ॥ २७ ॥
पैशुन्यसूचकानां च यत्पापं शस्त्रकर्मणाम्॥
तेन पापेन लिप्येऽहं नागच्छामि पुनर्यदि ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहरस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये कलशेश्वरमाहात्म्ये गोव्याघ्रसंवादवर्णनंनाम पञ्चाशत्तमोऽध्यायः॥ ५० ॥छ॥