स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/१६

विकिस्रोतः तः

पूर्ववर्ती पृष्ठः (अध्यायाः १४१ - १५०) | आगामी पृष्ठः (अध्यायाः १६१ - १७०)



सनत्कुमार उवाच
वर्तमानेन्धके युद्धे विद्रवत्सु गणेषु च ।
त्रिदशाधिपतिं शक्रमित्युवाच पितामहः । । १ ।।
विमुखान्पश्य भद्रन्ते प्रमथानमरधिप ।
काल्यमानान् रणे घोरैर्दानवैरन्धकेन१ ।।२ ।।
निहतान्निहतानेष प्रथमैर्दानवान् युधि ।
शुक्र उज्जीवयन्नास्ते सस्यानि२ जलदो३ यथा । ।३ । ।
असौ विकृष्टचापश्च सेन्द्रायुधघनोपमः ।
सृजतीषुमयं वर्षमन्धकः क्षपयन् रिपून् ।।४। ।
- - -- - - -- - -
१ घोरे दानवैरन्धकेन (?) । २ सस्यं हि - ख., सस्यं ह्य - क. । ३ तोयदो - ख., म्बुमुचो - क. ।
- - -- - - -- - -

785
प्रमथाभ्यर्दनं ह्येतदहितं ह्ययशस्करम् ।
क्षममाणा ह्यतिष्ठध्वं कस्मादेतत् पराजयम् । । ५। ।
जित्वा ह्येष गणन्सर्वानन्धको दानवेश्वरः४ ।
अस्माकमपि५ मूलानि निर्मूलानि करिष्यति । । ६। ।
तद्यावदेष नो बाणैः प्रमथान्नयति क्षयम् ।
तावदेव वयं पार्ष्णिं गृह्णाम कृत्तिवाससः । ।७।।
एवं तव च कार्यार्थः सेत्स्यते देवताधिप ।
रुद्रस्य च कृतं ह्येवं भविष्यति महत् प्रियम् । ।८। ।
स्वयम्भुवचनं श्रुत्वा बलवृत्रनिबर्हणः ।
युक्तमेतदिति प्रोच्य सुरान् सुरपतिर्जगौ । । ९। ।
गृहीतवर्मशस्त्रास्त्राः शीघ्रं शीघ्रपराक्रमाः ।
साहाय्यं करवामाद्य६ गणानां युध्यतां रणे । । 8.151.१० । ।
ततो नारायणानन्तौ७ नरेन्द्रौ चन्द्र८ एव च ।
स्वयम्भुरनलो वायुः सूर्यो धनद एव च । । ११ । ।
पूषार्यमा भगो मित्रो यमश्च रविनन्दनः ।
अंश९स्त्वष्टा जयश्चैव जयन्तश्चैव शक्रजः । । १ २। ।
मरुतो वसवः साध्यास्तथाश्विगरुडोरगाः ।
तुषिताश्चैव लेखाश्च विश्वेदेवाश्च गुह्यकाः । । १३ ।।
गन्धर्वाश्चैव यक्षाश्च१० ये चान्ये देवपक्षिणः ।
ते सर्वे वातरन् युद्धे११ हन्तुकामास्तथान्धकम्।।१४।।
अथ दुन्दुभिशब्दाश्च सिंहनादाश्च भैरवाः ।
बभूवुर्देवसैन्येषु प्रमथानां प्रियंकराः । । १ ५।।
देवैः पतद्भिस्तत्सैन्यं दानवानां विलोडितम् ।
प्रभूतमीनं क्षीणाम्बु राजहंसैर्यथा सरः ।।१ ६। ।
- - - -- - - - - - -- - - - -- - - -
४ दानवैस्सह - क. ख. । ५ युष्माकमपि - ख. । ६ कुर्म देवस्य - क. ख । ७ नारायणोनन्तो (?) । ८ नरेन्द्रचन्द्र (?) । ९ अंशु - ख. । १० योद्धुकामाश्च - ख. । ११ .. वतरन् युद्धे - क. ख. ।
- - - -- - - - - - -- - - - -- - - -
786
ततो हलहलाशब्दः संजज्ञेतीवभैरवः ।
देवताध्युषिते सैन्ये दानवानां समाकुले । । १७। ।
सामुद्रमम्भस्तिमिभिर्घनैरिव यथा नभः ।
कफपित्तैर्यथा देहो गरुडैर्भोगिनो यथा । ।१ ८। ।
तथा तदन्धकबलं बलेन त्रिदिवौकसाम् ।
मुहूर्तेन कृतं सर्वं विहस्तकवचध्वजम्१२ ।। १ ९। ।
एकतः सेन्द्रकै१३ र्देवैरेकतश्च गणेश्वरैः ।
हन्यते दानवानीकमजा१४ वृकशतैरिव । ।8.151.२ ० ।।
वज्रोद्यतकरो देवो देवानां देवपुङ्गवः ।
ओङ्कार इव वेदानां१५ तेषामासीत् पुरस्सरः । ।२ १ । ।
वज्रास्त्रपावकेनेन्द्रो ददाह समरे रिपून् ।
दुरितानि तु सर्वाणि प्रायश्चित्तानलो यथा । ।२२।।
देवैश्च प्रमथैश्चैव हन्यमाने बलेन्धकः ।
उवाच क्रोधरागान्धो दानवान्दानवाधिपः । ।२ ३ ।।
उत्पाद्य वैरं रुद्रेण सर्वलोकाभिरक्षिणा ।
न शक्यं प्रमथान् जेतुमनिर्विण्णैः सहामरान्१६ ।।२४।।
मरणाच्च न१७ भेतव्यं युध्यध्वं दैत्यदानवाः।
भार्गवस्तिष्ठति ह्येष यो नः संजीवयिष्यति ।।२५।।
तत् प्राणेष्वदयन्तो वै यूयं देवगणेश्वरान् ।
यथाबलं यथोत्साहं वारयध्वमशङ्किताः । ।२६। ।
मायाभिरेतान् बह्वीभिर्गूढाभिर्गूढरूपिणः ।
निवारयत युद्धेन सर्वान् देवान् समागतान् ।।२७। ।
इत्युक्ता१८ - - - - - - - - - - - - - ।
- - - चक्रुर्घोराणि कल्पान्ते नीरदा इव । ।२८।।
- - - -- - - - - - -- - - - -- - - -
१२ विध्वस्तकवचध्वजम् (?) । १३ सैन्यकै - ख । १८ शतानीकमाजं (?) । १५ देवानां - क. ख.. । १६ सहामराः सहामरारे ( ?) - क. । १७ मरणान्न च - ख । १८ इत्युक्त्वा - क. ख. ।
- - - -- - - - - - -- - - - -- - - -
787
धनुःशब्दान् प्रकुर्वाणाः सिंहनादरवांस्तथा१९ ।
दुद्रुवुर्दानवा देवानन्धकेन प्रचोदिताः ।।२९।।
विकृष्य तु महाचापं२० सागराम्बुदनर्दनः १ ।
रुद्रमुद्दिश्य वेगेन ससारान्धकदानवः ।।8.151.३ ० ।।
तं दानवेन्द्रं दुर्वारं धावमान - - - - ।
वारयामास शैलादिर्धर्मचित्तमिवाशुभम् ।
- - - - - - - - - - - - - - - - ।।३१।।
स' नन्दिनं त्रिभिर्बाणैर्ज्वलनादित्यसन्निभैः ।
निबिभेदान्धकः क्रोधाद् बाहुमध्ये निपीडयन् ।।३२।।
गाढं विदारितस्तेन दानवेन गणेश्वरः ।
सं२२ जुघूर्ण तदा नन्दी वायुनुन्नो यथा द्रुमः ।।३३।।
घूर्णमानो बभौ नन्दी मृष्टकुण्लभूषणः ।
चलत्पल्लवपुष्पाढ्यो यथाशोकतरुस्तथा ।।३४।।
ततश्चिरात्समाश्वस्य सुयशाः सुयशापतिः ।
वज्रमूर्जितमुत्क्षिप्य सोन्धकाय ससर्ज ह ।।३५।।
तत्पावकरविप्रख्यं वज्रमागतमूर्जितम् ।
व्यष्टम्भयत बाणौघैरन्धकः प्रजहास च । ।३६।।
हसतस्तस्य२३ नेत्राभ्यां सुभ्रूभ्यामश्रुबिन्दवः ।
न्यस्रवन्त यथार्कस्य किरणा दीप्तमण्डलात् ।।३७।।
भूतराज२५स्तस्तोत्पाट्य द्रुमं व्याकुलपल्लवम् ।
हतोसि हेन्धकेत्युक्त्वा ससर्ज च जगर्ज च ।।३८।।
तं धावमानमाकाशे तरुमारुतवीजिताः२६ ।
अनुव्रजन्ति भ्रमरा मित्रं व्यसनगं यथा ।।३९।।
- - - -- - - - - - -- - - - -- - - -
१९.. स्तदा - क. । २० महच्चापं - क । २१.. नर्दनं - क. ख.,.. वन्नदन् (?) । २२ स - क. । २३ हतस्य तस्य - ख. । २४ शुभ्राभ्यामश्रुबिन्दवः - क., शुभाभ्या.. - ख. । २५ भूतराज्य - क. । २६ मरुतजीवितम् - ख,, जीविताः - क. ।
- - - -- - - - - - -- - - - -- - - -
788
तमप्यस्यान्धको बाणैश्चारुकाञ्चनभूषणैः ।
चकर्त धर्ता२७ लोकानां दितिगर्भं यथाहिहा । ।8.151.४० ।।
वृक्षे कृते ततो नन्दी समृगव्यालपन्नगम् ।
मन्दराग्रं समुत्पाट्य दुद्रावान्धकमाहवे । ।४१ । ।
गिरिकूटं तु तं नन्दी गिरिकूटवनालयः ।
अपातयद्रथे तस्य विन्ध्ये वज्रमिवाहिहा । ।४२ । ।
स रथस्तेन शृङ्गेण नन्दिना दृढमाहतः ।
सचक्रकूबरहयः पांसुसायुज्यमागमत्२८ । ।४३ । ।
ततोन्धकरथं दृष्ट्वा सचक्राक्षं विचूर्णितम् ।
नेदुर्देवाः सगन्धर्वाः प्रमथाश्च सगुह्यकाः । ।४४। ।
ततोन्धकस्त्रिशूलेन नदित्वा कालमेघवत् ।
नन्दिनं ताडयामास गजेन्द्र इव पादपम् । ४५। ।
त्रिशूलिदयितस्तेन त्रिशूलेनाभिताडितः ।
नन्दी विह्वलसर्वाङ्गश्चकम्पेन्तर्जलेन्दुवत् ।।४६। ।
नन्दीश्वरे घूर्णमाने प्रहारेण भृशार्दिते ।
असुराणां बले जज्ञे सिंहनादरवो मुहुः । ।४७ । ।
सिंहनादेन शत्रूणां तेन नन्दी प्रबोधितः ।
परश्वधेनाभ्यहनदन्धकं भूतबान्धवः । ।४८। ।
परश्वधहतो रक्तं चक्षरान्धकदानवः ।
गजदन्ताहतो रक्तं स्वरसं चन्दनो यथा । ।४९ ।।
अन्धकं विरथं दृष्ट्वा ररक्षुरमरद्विषः ।
आशास्ववस्थिता२९ देवा यथा लोकमिमं तथा३० ।।8.151.५० । ।
अथ बाणो बलेः पुत्रो बाणपुष्पसमप्रभः
अन्धकं रथयानेन संपादयत दानवः३१ । । ५१ । ।
- - - -- - - - - - -- - - - -- - - -
२७ भर्ता (?)। २८ पांशुपा?योज्यमानयत् क.। २९ वस्था ख। ३० यदा क। ३१ दानवः सुमपादयत् (?) ।
- - - -- - - - - - -- - - - -- - - -
789
स तं रथं दानवेन्द्र आरुरोह तदान्धकः ।
यथोदयं३२ तु भगवान् दिनकृत् पूर्णमण्डलः३३ ।।५२ ।।
ततः पुनर्युज्यत देवदानवैः३४ प्रकर्तुकामैः कलहं सुदारुणम् ।
त्रिशूलवज्राशनिःसायकै रणे प्रधूपितोग्निर्ज्वलितस्तरां बभौ३५ ।।५३ ।।
इति स्कन्दपुराणे न्धकनन्दियुद्धे एकपञ्चाशदुत्तरशततमोध्यायः३६

सनत्कुमार उवाच
विष्णु१ मर्द्यमानं तु दानवान् दानवार्दनम् ।
जम्भोम्बुद इवारावं कृत्वा दुद्राव दानवः । ।१ । ।
तमापतन्तं दृष्ट्वा तु जम्भमम्बुदनिस्वनम् ।
न स संविविजे देवः सिंहो दृष्ट्वेव कुञ्जरम् । ।२ ।।
कुजम्भश्चैव जम्भश्च यवीयान दानवाचलः ।
अनन्तमन्तं शत्रूणामाववार ररास च । ।३ । ।
वृत्रोञ्जनगिरिप्रख्यः संवर्त्त कनिकाशदृक्२ ।
जिघृक्षुरभ्यगादिन्द्रं नदमानः३ पयोदवत् । ।४।।
तं धावन्तं नदन्तं च दानवं शतलोचनः ।
कुहरे गिरीसंकाश४ माजघान पुरन्दरः । ।५। ।
भावयत्यो (?) गदायोधी शतायुं वायुमाहवे ।
योद्धु कामोभ्ययात्तूर्णं जगर्ज च जहास च ।। ६ । ।
तुहुण्डहुण्डावश्विभ्यामयुध्येतां महासुरौ ।
प्रह्लादेन भगस्सार्धमंशेन च विरोचनः । ।७। ।
अर्यमाणं यमञ्चैवा७युद्धेतां विल्वकेल्वलौ८ ।
विप्रचित्तिमुखा ये च बलिष्वग्रा९ महासुराः ।।८ । ।
- - - -- - - - - - -- - - - -- - - -
३२ यथोदग्रं - क । ३३ पूर्णमण्डलं - क. । ३४... र्गणपतिदेवदानवैः - - क. । ३५ प्रधूपितज्वालितर बभौ रणम् - क. । ३६ आ २०० ख।

१ विष्णुं - क । २ पिनाकधृक् ख । ३ नर्दमानः ख। ४ गिरिसंकाशे क। ५ ररास ख ६ अर्यमन्तं - क, आर्य ख। ७ यमञ्चैव क. ख.। ८ युध्येतामित? केल्वलौ क । ग्राम - ख. ।
- - - -- - - - - - -- - - - -- - - -

790
गणेश्वराँस्ते देवाँश्च अयुध्यन्त सहस्रशः ।
अन्धकस्तु समागम्य नन्दिनं१० दानवर्षभः । ।९। ।
ततक्षे वत्सरदनैः११ शरैः कार्मुकनिःसृतैः ।
सोन्धकेन दृढं विद्धः शरैर्मर्मविदारणैः । । 8.152.१० ।।
चुकोप नन्दी क्रुद्धश्च ससारान्धकमहाहवे ।
सवज्रमुद्यम्य करं दिवाकरकरप्रभम् । ।१ १ । ।
ररास नन्दी संरब्धः पयोद इव संक्षये ।
वज्रेण शतधारेण सोन्धकस्य गणेश्वरः । । १२ ।।
चूर्णयामास तुरगान्नियन्तारं रथं तथा ।
ततोन्धकं कर्णमूले कुण्डलालकशोभिते । । १३ ।।
आजघान घनारावो वरदश्चारुकुण्डलः१२ ।
तेनाप्यपावृत्य हस्तो हस्तिहस्तनिभस्ततः । । १४।।
पातितो नन्दिनः क्रोडे कुञ्जरेणेव संयुगे ।
अपहस्ताहतस्तेन१३ दानवेन गणेश्वरः ।। १ ५। ।
अपासर्पत् पदान्यष्टौ तान्येवापतितः पुनः ।
साधु साध्विति वै दैत्यास्ततो ह्यन्धकमब्रुवन् । । १ ६।।
स तेन सुप्रहारेण दानवं प्रति रोषितः ।
क्रोधमाहारयन्तीव्रमभिदुद्राव चैव हि१४ । । १७। ।
तस्य गत्वा धनुश्चित्रं कवचं च महाप्रभम् ।
वज्रेण शतधारेण खण्डशः प्रचकार ह ।। १८।।
बाहुपाशेन चैवैनं बद्ध्वा भूतपतिः स्वयम् ।
इयेष भूमौ निष्पेष्टुमन्धकश्चावमोचयत् ।। १९। ।
स मोचयित्वा ह्यात्मानं मायामास्थाय मोहनीम् ।
अभिदुद्राव शैलादिं तिष्ठतिष्ठेति चोचिवान्१५ । ।8.152.२ ० ।।
- - - -- - - - - - -- - - - -- - - -
१० नन्दिना - क. ख. । ११ वस्त्रवदनै - क. । १२ कुण्डलं - क । १३ अपाहस्ताहतस्तेन - क., अपहस्ताद्धतस्तेन - ख. । १४ ह - ख. । १५ चाब्रवीत् - ख. ।
- - - -- - - - - - -- - - - -- - - -
791
तमापतन्तं वेगेन गणेश्वरमहत्तराः ।
सर्वे संक्रुद्धमनसो विविधायुधपाणयः । ।२ १ । ।
नन्दिषेणः सोमनन्दी शंकुकर्णो महोदरः ।
घण्टाकर्णो वीरभद्रः स च देवः प्रभामयः ।।२२ । ।
भर्त्तारमभिरक्षन्तस्तेषां पारिषदाग्रगाः१६ ।
अन्धकं योधयन्ति स्म सिंहाः१७ शक्रगजं१८ यथा ।।२३ ।।
तं नन्दिषेणः शूलेन सोमनन्दी च मुष्टिना ।
शरेण वीरभद्रश्च घण्टाकर्णोसिनापि च । ।२४। ।
शङ्कुकर्णो चलाग्रेण पादपेन प्रभामयः ।
अन्धकं चिच्छिदुर्देवा द्रमिडा१९ इव चन्दनम् । ।२५। ।
नन्दीश्वरस्तु गणपो गणपैर्विमुखीकृतम् ।
आजघानोत्तमाङ्गे तु अन्धकं दानवाधिपम् ।।२६। ।
दृष्ट्वासुरपतिं देवैर्गणपैः समभिद्रुतम् ।
असुराणां बले जज्ञे धाव गृह्णेति निस्वनः । ।२७। ।
ततोसुराः समाजग्मुः प्रह्लादप्रमुखा द्रुतम् ।
तान्युद्धायागतानेको विष्णुः सर्वानदीधरत् ।।२८। ।
चक्रहस्तं तु दृष्ट्वैवं विक्रान्तं रणमूर्धनि ।
चकार सुमहद्वेगमन्धकः क्रोधमूर्च्छितः । ।२९। ।
व्यायच्छमानं निश्चेष्टं प्रधावन्तं प्रगर्जितम् ।
यं यतः२० पश्यतेसौ वै२१ तन्तं विव्याध सायकैः ।। 8.152.३० ।।
पृथवः पीतनिशिता गरुडाङ्गरुहन्धराः२२ ।
अन्धकस्य शरा घोराश्च्यवन्ते२३ धनुषोक्षयाः ।।३ १ । ।
मुखेषु दन्तवेष्टेषु उदरेषु करेषु च ।
अन्धकेन गजा विद्धास्त्यजन्त्यतिमदा मदम् । ।३ २। ।
- - - -- - - - - - -- - - - -- - - -
१६ एते - क., एतेषां पार्षदाग्रगाः - ख । १७ सिंहः - क, सिंहाः - ख. । १८ गजान् - क., गजं - ख । १९ द्राविडा (?) । २० यन्तु (?) । २१ सोरि(म्) - क. । २२... स्वराः - क. । २३. श्चव्यन्ते - क. ।
- - - -- - - - - - -- - - - -- - - -
792
अन्ये श्रयन्ति देवेशमन्ये चेन्द्रं सुराधिपम् ।
देवं नारायणं चान्ये नन्दिनं चापरे गणाः । । ३३ ।।
अन्ये शाखं विशाखं च कुमारमपि चापरे ।
व्यपाश्रित्य स्थिता देवाः शकुन्ता इव पादपान् ।। ३४। ।
यथाशनिभयान्मर्त्या यथा सिंहभयान्मृगाः ।
यथा च गरुडान्नित्यं भुजगा भुजगाशिनः । । ३ ५। ।
तथान्धकस्य युद्धस्था देवा दैवतवैरिणः
वित्रेसुः शरजालार्त्ता२४ मूढा इव२५ च बभ्रमुः२६ ।।३ ६ । ।
बन्धुजीववनं यद्वद् भ्राजते पुष्पसन्नतम्२७ ।
तथा व्रणजसिक्ताङ्गं तद् बभौ२८ पार्षदं बलम् । । ३७। ।
कम्पन्ते पादपा यद्वत् काननेष्वनिलेरिताः ।
तथान्धकभयाद्देवाः सन्त्रस्ता रणमूर्धनि । ।३८। ।
ततो नारायणोनन्त२९ ऊर्जितः शक्र एव च ।
अश्विनौ वसवश्चाष्टावादित्या द्वादशैव तु३० । । ३ ९। ।
नन्दी विशाखः शाखश्च वीरभद्रः प्रभामयः ।
विट्पतिः शंकुकर्णश्च सोमनन्दी विनायकः ।।8.152.४० । ।
एते बले हन्यमाने अन्धकेन बलोर्मिभिः ।
दुद्रु वुस्सायुधा देवास्तं दानवगणाधिपम् ३१ । ।४१ । ।
गन्धर्वभवनाकारं तं तस्य रथसत्तमम् ।
परिवार्य बभंजुस्ते३२ जगर्जुश्च पयोदवत् ।।४२ ।।
भज्यमानः सुरैरासीदन्धकस्य महारथः ।
अधर्मे प्रकृतो३३ यद्वद् विघ्नैरिव मनोरथः । ।४३ । ।
चक्रायुधं स चक्रेण शक्रं वज्रेण दानवः ।
अनन्तमिषुणैकेन शूलेन च विनायकम् । ।४४।।
- - - -- - - - - - -- - - - -- - - -
२४ शरजालाङ्का - ख । २५ वै इव - क. । २६ विभ्रमुः - क., इव विबभ्रमुः - क. । २७ सन्ततं - ख. । २८ स बभौ - क । २९ नारायणोनन्तो - क. । ३० च - ख. । ३१ गणाधिपाः - क. । ३२.. श्च - क. ख. । ३३ अधर्मेषु कृतो - क. ।
- - - -- - - - - - -- - - - -- - - -
793
मुष्टिना नन्दिनं चैव पट्टिशेन३४ प्रभामयम् ।
भल्लेन चैव पूषाणं गदया यममेव च । ।४५। ।
आहत्य वैरिणस्तूर्णं३५ सर्वानेव रणेन्धकः ।
उत्पत्य चानदद् व्योम्नि जलमत्त इवाम्बुदः । ।४६ । ।
स कूटयोधी कूटानि गिरीणां गिरिसन्निभः ।
सवृक्षक्षुपसर्पाणि ससर्ज च जगर्ज च । ।४७ । ।
गिर्यग्रवर्षं३६ तद्३७ घोरं सवृक्षर्क्षमहोरगम् ।
पपात देवसैन्येषु शोतमम्बुरुहेष्विव३८ । ।४८ । ।
अविराममविश्रामं३९ निरुच्छ्वासं४० भयाकुलम् ।
 ' ' ' ' ' - ' - - - - - - - - - । ।४९ । ।
छिन्ननासाक्षिदन्तौष्ठा४१ भग्नपादकटीकराः ।
उत्त्रस्तोद्भ्रान्तचकिता दृश्यन्ते प्रमथामराः । ।8.152.५ ० । ।
सौधाग्रशृङ्गोपलशस्त्रवर्षी४२ मुहुः सृजन्भात्यसुरोम्बरस्थः ।
ता मे - - - - - - - - - - - - - - - - - - - ।।५१ । ।
 - - - - - - - - - - - - - - - - - - - शब्दम् ।
अब्जं महद्धूमलावृतञ्च खद्योततुल्यं च महाग्निचूर्णम् । ।५२ । ।
सोप्यायितोद्वृत्तसमुद्रनादो४३ नभोगतो दैवतसंघवैरी४४ ।
मुहुः सृजत्येव महाम्बुवर्षं यथान्तकालेम्बुमुगुग्रवर्षम् । ।५३ । ।
इति स्कन्दपुराणे अन्धकयुद्धे द्विपञ्चाशदुत्तरशततमोध्यायः४५
सनत्कुमार उवाच
ततोन्धको वियत्स्थितो महाम्बुदौघसन्निभः ।
विरज्य वर्षमौपलं१ यथैव वर्षमम्बुदः । । १ । ।
- - - -- - - - - - -- - - - -- - - -
३४ पट्टशेन - क. ख. । ३५ वैरिणं तूर्णं - ख. । ३६ गिर्यग्रपर्वत - क. । ३७ त - ख. । ३८ शीताम्त्वरु- रुहेष्विव - ख. - ख । ३९ अविरामञ्च विश्रामं - ख. । ४० चिरश्वासं - ख. । ४ । भिन्ननासाक्षिदन्तौष्ठा (?) । ४४ सौहार्यशृङ्गोपलशस्त्रवर्षी - क., सस्त्रवर्षं (?) । ४३ सोप्पायतोदवृत्तसमुद्रनादो - ख. । ४४ देवतसंधवैरी - क. ख. । ४५ २०१ - ख. ।
१ मौशलं - क. ।
- - - -- - - - - - -- - - - -- - - -
794
पुनः प्रगृह्य कार्मुकं महेन्द्रकार्मुकोपमम् ।
मुमोच बाणदुर्दिनं बभूव चातिदुर्दिनम् ।। २। ।
ततः सुपर्णपुंखिनां सुपर्णपत्रपत्रिणाम् ।
सुपर्णतुल्यपातिनां सुपर्णतुङ्गतुण्डिनाम्३ ।।३ ।।
शतं शरीरभेदिनां शरीरसारभोजिनाम् ।
ससर्ज दानवाधिपो जगर्ज चापि दर्पितः ।।४।।
धनुः प्रपूरितेरिता रणप्रचारितैवृताः ।
स्वमार्गयानदेशिका जवे मनोनिलोपमाः । । ५ । ।
महेषवोन्धकस्य ते पतन्ति देवतोपरि ।
यथा दिवाकरेरिताः करा महाचलेष्विव ।। ६। ।
शराहताश्च कुञ्जराः शराहताश्च वाजिनः ।
शराहताश्च देवता गणेश्वराश्च सर्वतः ।।७। ।
विनिर्गतान्त्रशेणिता४ विकीर्णहारभूषणाः ।
विमुक्तकेशबन्धनाः पतन्ति गाढवेदनाः । ।८ ।।
स्थितं चलन्तमुत्थितं प्रधावितं प्रवल्गितम् ।
हयं गजं सुरं यथा प्रपश्यते हि यं यतः । ।९। ।
तमन्धकस्तदा रिपुं शरैस्तमोरिविग्रहैः ।
बलान्निपात्य नर्द्दते जलागमे यथाम्बुदः ।।8.153.१ ० ।।
व्रणार्त्तमुक्तनिस्वनं५ समुद्भ्रमत्तुरङ्गमम् ।
बलं नदीनवद्बभौ६ प्रशान्ततूर्यनिस्वनम् । । ११ ।।
विभिन्नछिन्नदारितं प्रदग्धजग्धनिर्धुतम् ।
यथा मदान्धकुञ्जर७ प्रणष्टपादपं वनम् ।। १ २। ।
मुखेषु केचिदाहता निरीक्षणेषु चापरे ।
उरोदरेषु८ चापरे९ तथा हताश्च पृष्ठतः ।।१ ३ ।।
- - - -- - - - - - -- - - - -- - - -
२ सुवर्णपुंखिनां - क. । ३- तुण्डतुण्डिनाम् (?) .तुल्यतुण्डिनाम् (?) । ४ न्तषोशिता - ख. । ५ निस्वनिस्वनम् - ख. । ६ नदीनवद् बभौ - क. । ७ महामतङ्गज (?) । ८ उरूदरेपु - क, उरूत - ख. । ९ चार्पिताः - क. ।
- - - -- - - - - - -- - - - -- - - -
795
शतघ्नयो यथाचिताः शरैस्तथा मरुद्गणाः ।
गणाश्च भीमविक्रमा नभूमिमापुराहताः ।। १४।।
सुरासुरैः प्रवर्तिता ततो व्रणाम्बुवाहिनी ।
गजेन्द्रनक्रसंकुला रथाङ्गचारुकच्छपा । । १ ५। ।
निकृत्तहस्तपन्नगा धनुर्ध्वजोत्तमद्रुमा ।
किरीटकूटदर्दुरा धनुर्गुणाभितन्तुका१० । । १६ ।।
विकीर्णहारशर्करा सिताम्बरातिफेनिनी ।
सुरासुरैः प्रवर्तिता सुरासुरातिदुस्तरा । ।१७ ।।
ततोञ्जनास्तुदत्विषस्तडित्प्रहासहासिनः११ ।
पिशाचयक्षराक्षसाः पिपासयातिकर्षिताः । । १८। ।
सुरा यथा वरामृतं पपुस्तथैव शोणितम् ।
ततः पुनः समाकुलं बभूव युद्धमद्भुतम्१२ ।
तदान्धके१३ शराहते१४ महेषुणाथ नन्दिने ।। १ ९।।
इति स्कन्दपुराणे युद्धभूमिवर्णने त्रिपञ्चाशदुत्तरशततमोध्यायः१५

सनत्कुमार उवाच
हन्यमाने बले तस्मिन् देवैः सप्रमथेश्वरैः ।
चुक्रुधुर्दानवा१ घोराश्चतुर्विंशतिदर्पिताः ।। १ । ।
प्रह्रादश्चानुह्रादश्च संह्रादः शिनिबाष्कलौ ।
जम्भो विरोचनो वृत्रो बलिर्बाणोवनिञ्जयः । ।२। ।
तथा तुहुण्डो हुण्डश्च शम्भुः कार्तस्वनः कुभः२ ।
शम्बरो विप्रचित्तिश्च इल्वकः३ पिल्वकस्तथा ।। ३ । ।
मयस्तारस्तारकाक्षो विद्युन्माली प्रमोहनः ।
एतेमर्षवशं प्राप्ताश्चतुर्विंशतिदानवाः ।।४।।
- - - -- - - - - - -- - - - -- - - -
१० धनुर्गुणादितन्तुका - क.,.. .ति - (?) । ११ हासिताः - ख. । १२..? सुर्महाद्भुतम्-ख । १३ तदान्धकः - क. । १४ शराहतो त(?) । १५ २०२ - ख. ।
१ चुक्रशुर्दानवा - ख. । २ कुशः - क, । ३ इल्वलः - ख. ।
- - - -- - - - - - -- - - - -- - - -
796
दुद्रुवुः सायुधं देवं४ नन्दिनं समवस्थितम्५ ।
तेञ्जनाचलसंकाशाः काञ्चनाचलसन्निभम् । ।५ । ।
नन्दिनं ताडयामासुः शूलशक्त्यृष्टिपट्टिशैः ।
तथा तैररिभिः शस्त्रैस्ताडितो वारितश्च वै ।।६ । ।
नाक्षुभ्यत तदा नन्दी नार्त्तिमापन्न च व्यथाम् ।
ततो विकृष्य भगवानाततं कार्मुकं महत् । ।७।।
त्रिभिस्त्रिभिर्बिभेदाशु सर्वान्दानवसत्तमान ।
ते बाणमार्गनिस्रावै६ दानवाः शोणितक्षराः ।८।।
क्षरन्त इव शैलेन्द्रास्तपनीयरसान् बभुः ।
ततो रोषोद्धतो नन्दी शुक्रेणोज्जीवितं पुनः । ।९।।
कार्त्तस्वनं शरैर्घोरैरनयद्यमसादनम् ।
जीवितस्रंसनं प्राप्य स दानवमहाचलः७ । । 8.154.१० । ।
शीर्णोपलः पपाताशु वज्राहत इवाचलः ।
पतमाने क्षितौ८ तस्मिन्नन्दिबाणाहते हते । ।१ १ । ।
बलिरुत्पाट्य शैलाग्रं चिक्षेपोद्दिश्य नन्दिनम् ।
तत् सधातुमृगव्यालं सर्क्षवृक्षं गिरेस्तटम्९ । । १२ । ।
निर्भ्रान्तोपलवृक्षालमभ्यधावद् गणेश्वरम् ।
शृङ्गस्य बलिमुक्तस्य तस्य व्यालादयो जवात् ।।१ ३ ।।
अपक्रान्तानयार्त्तस्य पुरुषस्येव बान्धवाः ।
तदापतत् तद् गिर्यग्रं१० नन्दी बाणेन वीर्यवान् ।
मेघानिव महावायुर्बिभेद च ननाद च । ।१४।।
तद्विदार्य गिरेः शृङ्गं गिरिशृङ्गनिकेतनः ।
बलिं बिभेद बाणेन बलिर्विघ्नमिवोत्थितम्११ । ।१५।।
- - - -- - - - - - -- - - - -- - - -
४ देवा - ख. । ५ समुपस्थितम् (?) । ६ मार्त्तनिस्रावै - ख. । ७ बल्ल - क. दानवः स महाबलः (?) । ८ गिरौ (?),.. ह्यरौ - क. । ९... स्तदा - ख. । १० तदापतन्तं - क. । ११... च्छ्रितं - ख ।
- - - -- - - - - - -- - - - -- - - -
797
सोभ्याहतो गणेशेन प्राह्लादितनयोवशः१२।
पपात सहसा भूमौ वाताहत इव द्रुमः१३ । ।१ ६। ।
ततो बलौ निपतिते नन्दीषुवरताडिते१४ ।
जहुः समरमारात्तं१५ दानवाः शरपीडिताः ।। १७।।
प्रसृताम्बुदसंकाशाँ१६स्ततोम्बुदनिभाकृतिः१७ ।
अन्धकः खात् क्षितिं प्राप्य दानवानिदमब्रवीत् । । १८।।
अद्य दाक्षायणीपुत्रा निबोधध्वं वचो मम ।
मया चोक्तानि पथ्यानि कुरुध्वं यदि मन्यत ।। १ ९।।
कुलेषु जाता वीराश्च सर्वास्त्रकृतनिश्चयाः ।
द्रवध्वे१८ वै किमुद्दिश्य पटुनाराचवेजिताः । ।8.154.२ ० । ।
जल्पितानि क्व वस्तानि कथितानि च संसदि ।
क्व वस्तद्वैरबाहुल्यं१९ दैवतैस्सह२० सांप्रतम् ।।२ १ । ।
एकेन नन्दिना भग्नाः शतशोथ सहस्रशः ।
ह्रीः कथं वै न भवति जल्पतां२१ वो गृहाजिरे ।। २२ ।।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वै२२ ।
भवेन्न नो२३ यत्र मृत्युः सोवकाशो न विद्यते । ।२३ । ।
प्राश्निकाः२४ पार्श्वतः स्थित्वा निर्वैरा वीतमत्सराः ।
द्वैरथं नन्दिना सार्धमेतत् पश्यत साम्प्रतम् ।।२४। ।
इत्यन्धकवचः श्रुत्वा सर्वे ते दानवा रणे ।
पुनर्निवृत्ता युद्धाय प्रगृहीतवरायुधाः । । २ ५।।
ततोन्यं रथमास्थाय नल्वमात्रं पताकिनम् ।
अन्धकः सोभ्ययान्नन्दिं सार्धं दानवपुङ्गवैः ।। २६ । ।
शिताग्ररुक्मविकृताः पृथवः प्रियदर्शनाः ।
अन्धकस्य धनुःसृष्टा२६ निष्पतन्ति महेषवः । ।२७। ।
- - - -- - - - - - -- - - - -- - - -
१२ प्रह्रादतनयोवशः - क ख । १३ द्विपः?. ख । १४ नन्द्येषुवरताडिते ख. । समररागात्तं ः ख. । १६ संकाश - क. । १७ इवाकृतिः - क. । १८ द्रवध्वं - ७३. । १९ गतं वैरबाहुल्य - ख. । २० देवतैःसह - क. ख. । २१ जल्पितां - क. । २२ वः - क । २३ वो - ख । २४ प्राश्नीका - ख प्राणाः कः - क. । २५ सार्ध' मम - (?) । २६ धनुषोन्धक (केन) सृज्यन्तो (न्ते) - क, ख. ।
- - - -- - - - - - -- - - - -- - - -
798
शलभैरिव केदारा भ्रमरैरिव पादपाः ।
तोयदैरिव नागेन्द्राः सागरा मकरैरिव ।।२८। ।
महेषुभिर्विनिर्मुक्तैर्नागादित्यसमप्रभैः ।
अन्धकेन कृता देवाः शतघ्नय (?) इवोत्तमाः । । २९ । ।
वायवोप्रतिघा यद्वद् यथा मृत्युर्यथा जरा ।
यथा चाप्रतिघाः सूक्ता नियतं ब्राह्मणाशिषः ।।8.154.३ ० ।।
तथा ते निशिता ह्युग्रा ब्रह्मदण्डा इवोद्यताः ।
अनिवार्या ह्यमोघाश्च तेन्धकस्य महेषवः ।। ३१ । ।
यतो यतोसुरास्सर्वे सोन्धकश्च रणे रिपुः ।
ततस्ततः स्म दीर्यन्ते प्रमथा विबुधैस्सह । । ३२ । ।
सोपि नित्यायतधनुः परिवेषीव भास्करः ।
असृजद्बाणनिकरान्२७ किरणान् भास्करो यथा । ।३ ३ ।।
तस्य बाणरुजः२८ प्राप्य नदीतीर इव द्रुमाः ।
सीदन्ति गणपास्सर्वे देवाश्च सहवासवाः । ।३४। ।
स विष्णुमेकेन शरेण विद्ध्वा द्वाभ्यामनन्तं त्रिभिरेव शक्रम् ।
यमञ्च सोमञ्च जलाधिपञ्च वसूँश्च निर्दार्य२९ ररास घोरम् ।। ३५।।
अश्विद्वयञ्चापि शरद्वयेन विद्ध्वा भगांशार्यमचन्द्रपूष्णः३० (?) ।
ततोथ नन्दीश्वरमुग्रकर्मा गणेश्वराँश्चापि शरैस्ततक्ष । ।३ ६। ।
तथा दहत्यन्धक आततायी थथा पतङ्गान् भगवान् हुताशः३१ ।
निवारितास्ते शरदारिताश्च तदान्धकेनामरयोधमुख्याः३२ । ।३७। ।
न स्पन्दितुं३३ शेकुरुदीक्षितुं वा रणेन्धकं खे मनुजा इवार्कम् ।
यशांसि दीप्तानि ततः प्रहाय देवाः सनारायणदेवपालाः ।
शरार्दितास्तेन्धकदावेन प्रदुद्रुवुर्दानववेधखिन्नाः । । ३८।।
- - - -- - - - - - -- - - - -- - - -
२७ किरणान् - क. ख. । २८ रजः - क. ख. । २९ निर्वार्य - ख. । ३०.. श्चार्यमचन्द्रपूष्णः - क । ३१ हुताशनः - क. । ३२... वारिताश्ववदन्धकेनामरयोधमुख्याः - ख. । ३३ निस्पन्दितुं - ख. ।
- - - -- - - - - - -- - - - -- - - -
799
विष्णुः पितामहश्चैव अनन्तोथ शतक्रतुः ।
अन्धकेन रणे भग्नाः शरैरग्निशिखोपमैः । ।३ ९।।
आदित्या वसवः साध्या अश्विनौ च सुरोत्तमौ ।
अन्धकेन रणे भग्ना वज्राघातैः पतत्त्रिवत्३४ ।।8.154.४० । ।
तुषिताश्चैव विश्वाश्च देवाश्चैव स्वधाभुजः ।
अन्धकेन शरैर्भग्ना मारुतेन यथा द्रुमाः ।।४१ ।।
चन्द्रमा भगवान् वह्निर्वित्तपालश्च राक्षसः ।
अन्धकेन रणे३५ भग्नाः३६ शरैराशीविषोपमैः ।।४२। ।
गन्धर्वा गुह्यकाः सर्पा३७ गरुडाश्च महोरगाः३८ ।
अन्धकेन रणे भग्ना विद्धानलसमैः शरैः । ।४३ । ।
विट्पतिः शंकुकर्णश्च सोमनन्दी प्रभामयः ।
पिङ्गलो नन्दिषेणश्च घण्टाकर्णो महोदरः । ।४४।।
विद्युत्केशः सुकेशश्च३९ स च देवो विनायकः ।
अन्ये च प्रमथाः शूरा वीरभद्रपुरोगमाः ।।४५।।
अन्धकेन रणे भग्नाः शतशोथ सहस्रशः ।
त्रैलोक्यं प्रसभं सर्वमुद्युक्तं सचराचरम् ।।४६।।
अन्धकेन रणे भग्नं सनारायणदेवपम् ।
तस्मिन्सुरबले देवं विमुच्यैकं गणाधिपम् ।।४७।।
महामणिशिरोमौलिं न कश्चिदवतस्थिवान् ।
ततोसुरबले घोरस्सर्वप्राणिकृतो४० महान् ।
सिंहनादरवो जज्ञे सवादित्ररवोद्भुतः । ।४८ । ।
इति स्कन्दपुराणेन्धकविजये चतुष्पञ्चाशदुत्तरशततमोध्यायः ४१ ।
- - - -- - - - - - -- - - - -- - - -
३४ पतत्रिणः - क ख. । ३५ रणेन्धकेन वै - क. । ३६ निहताः - ख. । ३७ सर्वे - ख. । ३८ महाबलाः - ख. । ३९ सुनासश्च - क. । ४० प्राणाः - क. ख., भृतो - ख. । ४१ २०३ - ख. ।
- - - -- - - - - - -- - - - -- - - -
800
सनत्कुमार उवाच
एतस्मिन्नन्तरे देवाः सर्वे शक्रपुरोगमाः ।
ब्रह्मणा सहिता जग्मुः शरण्यं शूलपाणिनम् । ।१।।
ते प्रणम्य महादेवमिदमूचुर्भयार्दिताः ।
विजिताः सर्व एव स्मः १ किमन्धकमुपेक्षसे ।।२।।
देवदेवस्ततः प्राह देवान् ब्रह्मपुरोगमान् ।
मया दत्तवरो यस्मात् तस्माद् यूयं विनिर्जिताः ।
क्रीडार्थमेव च मया संगरे स उपेक्षितः२ ।
अधुना भवतामर्थे शामयिष्येहमन्धकम्३ ।।४।।
ततो देवः स्मितं कृत्वा पार्श्वस्थं शूलमैक्षत ।
देवाभिप्रायतत्त्वज्ञः शूलो जज्वाल तत्क्षणात् ।।५।।
अभिसृत्य द्रुतञ्चैवमन्धकं जितकाशिनम् ।
युद्धे विक्रम्य सहसा निर्बिभेद स्तनान्तरे । ।६।।
ततोन्धकं तदा भित्त्वा स शूलस्तं महाबलम् ।
दानवेन्द्रं महाकायमानिन्ये शङ्करान्तिकम् ।।७।।
तस्य भिन्नस्य शूलेन येक्षरन् रक्तबिन्दवः ।
पतिताः४ पुरुषा भूत्वा तेप्ययुध्यन्त दुस्सहाः ।।८।।
तस्यैव तुल्यरूपास्ते तस्य तुल्यपराक्रमाः ।
नानाशस्त्रप्रहरणास्तेप्ययुध्यन् गणेश्वरैः ।।९।।
- - - - - - - - - - - ो द्यतपाणयः ।
जघ्नुः केचिद् गणानेव द्रवतस्ते महाबलाः ।।8.155.१० ।।
न तेषां युध्यमानानां कश्चित्तस्थौ गणेश्वरः ।
संग्रामे दानवेन्द्राणां भयात् सर्वे प्रदुद्रुवुः ।।११
तान्दृष्ट्वा विद्रुतान् सर्वान् गणान् सह सुरेश्वरैः ।
महादेवोसृजत् - - - - - - - - - - ।।१ २।।
- - - -- - - - - - -- - - - -- - - -
१ एवास्म - क घ. । २ समुपेक्षितः - ख । ३ तमभ्धकम् (?) । ४ उत्थिताः (?) ।
- - - -- - - - - - -- - - - -- - - -
801
- - - - - - - - - - - - करन्तदा ।
- वा विज्ञापयामासु५राज्ञां नो दातुमर्हसि । । १३ । ।
देवदेवस्तदा प्राह सर्वाः प्रहरणोद्यताः ।
असृग्बिन्दुसमुद्भूतान् भक्षयध्वं महासुरान् । । १४।।
एवमुक्तास्तु तास्सर्वा योगेश्वर्यो महाबलाः ।
हत्वा हत्वासुरान् युद्धे चखादुश्च म । १५। ।
देवोपि ज्वलितं शूलमब्रवीदन्धकान्तकृत् ।
अन्धकं पच६ सूर्याग्नौ सहस्र शरदां७ शतम् । ।१ ६। ।
अन्धकोपि हि शूलाग्रे पच्यमानोर्कतेजसा ।
पूर्णे सहस्रे वर्षाणां सात्विकं भावमभ्यगात् । । १७। ।
सात्विकं भावमापन्नो विनिर्धूतरजस्तमः ।
लोकानां कारणं देवं बुबुधे गोवृषध्वजम् । । १८।।
तं बुद्ध्वा च ततो भक्त्या निर्मलेनान्तरात्मना ।
स्नाय्वस्थिशेषस्तुष्टाव देवं चंद्रार्धमौलिनम् । १ ९। ।
अन्धक उवाच
कृत्स्नस्य योस्य जगतः सचराचरस्य कर्ता कृतस्य च तथा सुखदुःखदाता ।
संहारहेतुरपि यः पुनरन्तकाले, तं शङ्करं शरणदं शरणं व्रजामि । ।8.155.२ ० । ।
यं योगिनो विगतमोहतमोरजस्का भक्त्यैकतानमनसो८ विनिवृत्तकामाः ।
ध्यायन्ति निश्चितधियामितदिव्यभावं, तं शङ्करं शरणदं शरणं व्रजामि ।।२१ ।।
यश्चन्द्रखण्डममलं विकसन्मयूखं बध्वासयं (?) प्रियतया शिरसा बिभर्ति ।
यश्चार्धदेहमददाद् गिरिराजपुत्र्यै, तं शङ्करं शरणदं शरणं व्रजामि ।।२ २ ।।
यः सिद्धचारणनिषेवितचारुतोयां गङ्गां महोर्मिरभसां गगनात्पतन्तीम् ।
मूर्ध्ना दधे स्रजमिवाप्रतिलोलपुष्यां, तं शङ्करं शरणदं शरणं व्रजामि । ।२३ ।।
कैलासशृङ्गशिखरं प्रविकम्प्यमानं कैलाशशृङ्गसदृशेन दशाननेन ।
यः पादपद्मपरिपीडनया दधार, तं शङ्करं शरणदं शरणं व्रजामि ।। २४। ।
- - - -- - - - - - -- - - - -- - - -
५ विज्ञापयामास - ख । ६ पञ्च - ख. । ७ शरदं - ख । ८ भक्त्येकतानमनसो (?) ।
- - - -- - - - - - -- - - - -- - - -
802
येनासकृद्दितिसुताश्च दनोः सुताश्च९ विद्याधरोरगगणाश्च वरैस्समग्राः ।
संयोजिता मुनिवराः फलमूलभक्षा,स्तं शङ्करं शरणदं१० शरणं व्रजामि ।।२५।।
दक्षाध्वरं च नयनञ्च तथा भगस्य पूष्णस्तदा दशनपंक्तिमशातयच्च११ ।
व्यष्टम्भयत् कुलिशयुक्तमहेन्द्रबाहुं, तं शङ्करं शरणदं शरणं व्रजामि । ।२ ६।।
- कृ - - त्रिविधबन्धविमोक्षभावा ज्ञानान्वयश्रुतगुणैरपि नैव युक्ताः ।
यं संश्रिताः सुखभुजः पुरुषा भवन्ति, तं शङ्करं शरणदं शरणं व्रजामि । ।२७।।
अग्रे मृतस्य रविकोटिसमानतेजः१२ सन्त्रासनं विबुधसत्तमदानवानाम्१३ ।
यः कालकूटमपिबत् समुदीर्णवेगं, तं शङ्करं शरणदं शरणं व्रजामि ।।२८ ।।
ब्रह्मेन्द्रविष्णुमरुतां च सषण्मुखानां योदाद् वरान् सुबहुशो भगवान्महेशः ।
नन्दिञ्च मृत्युवदनात्प्रभुरुज्जहार,१४ तं शङ्करं शरणदं शरणं व्रजामि ।।२९।।
कामश्च कार्मुकधरो भुवि पञ्चबाणो हास्यात्कृतो भगवता स तदा विदेहः ।
एकेषुणा त्रिपुरमेव पुरा जघान, तं शङ्करं शरणदं शरणं व्रजामि । ।8.155.३ ० ।।
आराधितः सुतपसा हिमवन्निकुञ्जे धूमव्रतेन मनसापि परैरगम्ये ।
सञ्जीवनीमदित यः परमार्थगम्य१५ स्तस्मै नमः शिवकराय शिवाय नित्यम् ।।३ १ । । नानाविधैर्गजविडालसमानवक्त्रैर्दक्षाध्वरप्रमथनैर्वलिभिर्गणैन्द्रैः१६ ।
योभ्यर्च्यतेमरगणः सहलोकपालै,स्तं शङ्करं शरणदं शरणं व्रजामि । ।३२।।
क्रीडार्थमेव भगवान् भुवनानि सप्त नानानदीविहगपादपमण्डितानि ।
सब्रह्मकानि ससृजे सुकृतेहितानि, तं शङ्करं शरणदं शरणं व्रजामि । ।३ ३ । ।
यस्याखिलं जगदिदं वशवर्ति नित्यं योष्टाभिरेव तनुभिर्भुवनानि भुंक्ते ।
यः कारणं सुमहतामपि कारणानां, तं शङ्करं शरणदं शरणं व्रजामि ।।३४। ।
- - - - - - - - - - - - - - आसज्य मां क्षितिधरेन्द्रसुतानुयात ।
- - - - - - - म विभूषणाङ्गं तं शङ्करं शरणदं१७ शरणं व्रजामि । ।३ ५।।
श्वेतं मुनिं यमनियोगपरायणैस्तैर्भीमैर्महोग्रपुरुषैः प्रतिनीयमानम् ।
बद्ध्वा - - - - - - - - - - - - तं शङ्करं शरणदं शरणं व्रजामि ।। ३६ ।।
- - - -- - - - - - -- - - - -- - - -
९ दनोश्च पुत्रा - ख । १० शरणजं - ख । ११ श्च - ख., मशातयद्य (?) । १२ समानतेजं - ख. । १३ विबुधदानवसत्तमानां (?) । १४.. त्पुनराजहार - ख. । १५ परमार्थगभ्यं - ख. । १६.. र्गजेन्द्रैः - ख. । १७ शरणजं - ख. ।
- - - -- - - - - - -- - - - -- - - -
803
                                             ?? ।
- -- - - - - - - - - - - - - - - - - - - - - - - - - - । । ३ ७।।
                                              ।
- - - - - - - - परिचिन्त्यमानं तं शङ्करं शरणदं शरणं व्रजामि । । ३८ । ।
- - - - - - - - - - - विमूढा, जानन्ति नास्य जगतो भवबन्धरूपाः ।
ऐश्वर्यदोषविषये - - - भिबद्धा, निर्यातमाद्यनुभवन्ति यथाहमेव । ।३ ९।। ।
                            - - - - प्रसादाद्धि - - - - - स्तदा ।
                 शुभकर्मा - - - - शिवलोकमकल्पयः१८ (?) ।।8.155.४० । ।
सनत्कुमार उवाच
तस्यैवं स्तुवतो देवः शूलपाणिर्वृषध्वजः ।
पूर्णे वर्षसहस्रे तु प्रीतः प्रोवाच शङ्करः । ।४१ । ।
पुत्र तुष्टोस्मि भद्रं ते जातस्त्वं निर्मलोधुना ।
दिव्यं ददामि ते चक्षुः पश्य मां दानवेश्वर । ।४२ । ।
- - - - - यत्किञ्चित् कांक्षितं फलमुत्तमम् ।
तत्सर्वमेव दास्यामि ब्रूहि दानवसत्तम । ।४३ । ।
ब्राह्मं वैष्णवमैन्द्रं वा पदं विबुधदुर्लभम् ।
अथवा सर्वलोकानां भव राजा यथा पुरा । ।४४। ।
अन्धक उवाच
ब्राह्मं वैष्णवमैन्द्रञ्च पदमावृत्तिलक्षणम् ।
विदितं मम तत्सर्वं मनसापि - - । ।४५। ।
यदि तुष्टोसि देवेश गाणपत्यं विधत्स्व मे ।
अविशेष्यं विशुद्धञ्च तदक्षय्यं च सर्वदा । ।४६ । ।
देवदेव उवाच
                              ।।
- - - - - - - - सर्वलोकनमस्कृतः । ।४७। ।
- - - -- - - - - - -- - - - -- - - -
१८.. मयम् - ख ।
- - - -- - - - - - -- - - - -- - - -
804
कामरूपी महायोगी सहासत्वो महाबलः ।
अणिमादिगुणैर्युक्तः प्रियः पुरुषसत्तमः । ।४८ । ।
सनत्कुमार उवाच
ततो - - - वरं दत्त्वा सुदुर्लभम् ।
महादेवः. भूत्वा तत्रैवान्तरधीयत । ।४९ । ।
                            ।
                             । । 8.155.५० । ।
वरेण्यं वरदं देवं ब्रह्मण्यममितौजसम् ।
आगत्य चैव - - - - - - - - - - - । । ५१ । ।
                             ।।
- - - - - - - - - - - - - - - - । । ५२ ।।
- - शूलं - - परमं विक्रमैः स्तम्भयित्वा ।
- - - - - ' - - - - - - - - - - । । ५३ । ।
- - - - - - - - - - - - - - - - - - - - - - - - - - - - ।
         -.. ' ' ' ' ' - - - - - - - - । । ५४। । ।
 ' ' ' ' - - - - - - - - - - - - - - वाङ्मनोभिः । । ५५। ।
येन्ये कुशास्त्रमलपङ्कविमग्नदेहा मोक्षेप्यतस्तव विभो चरणा - - - ।
ते वो - - - - .. - - - स्तुवन्ति मूढा मृगा इव वने मृगतृष्णिकाभिः । ।५६। ।
- - ङ्कुशङ्किततटे स्मृति - - - - - - - - - - - - - - - - - - ।
 - - - - - - - - - - प्यटेन पूषा१९ करोति विमलं किरणौघजालैः । । ५७।।
पक्षे तपश्चरति येन कलावशेषश्चन्द्रोपि ते हरतवोत्तमपादमूले ।
नक्तं तु शूलहसितै रजमीमुखानि सम्पूर्णमण्डलवपुर्धवलीकरोति ।। ५८। ।
- - - -- - - - - - -- - - - -- - - -
१९ करोकरो - ख. ।
- - - -- - - - - - -- - - - -- - - -
805
- ' - - - - - - - - - - - - - - - - - वसवो मरुतोश्विनौ च ।
भृग्वादयश्च ऋषयस्तत्र देव सिद्धाः२० सिद्धिं गताश्चरणपद्मवरप्रसादात् । । 8.155.६० । ।
 कैलास - - - - - - - - र्द्रवाय देवाय - - लयलाङ्कितमेखलाय२१ ।
बद्घ्वासनं परममुन्नतचारुमूर्तिं योगेश्वरं दिभुमहद् भुवनस्य भूत्यै । ।६१ । ।
- - - - - सासि पूर्व२२मदृष्टपूर्वा सा सा स्पृहां प्रकुरषे महतीं जनस्य ।
तस्माज्जटेन्दुरिवजा(?) र्धशरीरयोगाद् गङ्गां च२३ देव भजसे त्वमपूर्ववत्ताम् ।।६२।।
- - - - - - - - शीर्ण - - - संस्थैः सम्यग्वरेश्वररुषा सदसोग्रकण्ठ (?) ।
ते देव लोकविजयं तव देव यावद् दुष्टस्य वक्त्रकमलानि निवेदितानि । ।६३ । ।
कैलासमेरुमलयोदरमन्दरेषु विद्याधरैर्मुनिमहोरगकिन्नरैश्च ।
अभ्यर्च्यसे कुल - टायन - - - - - - - - - - - - मधुरैर्वचोभिः । । ६४। ।
- - - - - - ये - भक्त्या सर्व - - - - - - मजरं - - - मात्मवेद्यम् ।
पश्यन्ति सत्वमचलास्तव योगदृष्ट्या त्वामेव ते शिव विशन्त्यनिवर्तनाय ।।६५। ।
 विद्यावयो - स्य समेत्य शक्तास्तेजःसृजाशुगमित - - - - - - - - - ।
- - - - - - - - - - - - - - - - - - - - - - - - - - - -२ ४ ।। ६६। । ।।
- - ---..१--...- - - - - - - - - - - - - । । ६७। ।
- - -.२- -- - --- - - - - - - - ।
- - - - - - - - - - - - - - - - - - - र पा व - य - ।।६८। ।
 दक्षाध्वरस्सुरवरैः कृतसर्वरक्षो भृग्वादिभिर्मुनिवरैरुपगीतवेदः ।
क्रोधोद्भवेन तव देव हतस्सलीलमेकेन शूलवरचक्रभृता गणेन । । ६९। ।
लिङ्गस्य यो हर हरिः प्र - - ह्यधस्तादूर्ध्वन्त्वहं - - - - - - - ब्रुबाणः ।
- - - - - रवन्दतवादिमध्ये कोन्यः प्रवीण इह वक्ष्यति२५ तेल्पबुद्धिः । ।8.155.७० । ।
शर्वोसि सर्वगतससर्वफलप्रदोसि योगोसि योगधर योगविदां वरोसि ।
मातापितासि जगतः प्रभुरव्ययोसि शान्तः शिवोसि परमोसि शिवङ्करोसि । ।७१ । ।
- - - -- - - - - - -- - - - -- - - -
२० सिद्धिं - ख । २१ लाञ्छित (?) । : २२... य - ख । २३ य- ख. । २४
एतस्य पादटिप्पण्यां 'चामीकरोत्कर- समूहसमानवर्ण, इत्यादिका पंक्तिर्दृश्यते ।
सा च वृष्टःक्षरतया दुष्पठेति तथैवोपेक्षिता । २५ वक्ष्यसि - ख. ।
- - - -- - - - - - -- - - - -- - - -
806
स्तवमिमममलार्थ२६ ब्रह्मणा गीतमग्र्यं
द्विजसदसि पठेद्यः कल्यमुत्थाय शश्वत् ।
इह सुखमनुभूय प्रेत्य चाग्रे च तस्य
धनकनकसमृद्धे जायते जन्म वंशे ।।७२।।
इति स्कन्दपुराणे गणयुद्धेन्धकमथने ब्रह्मकृतस्तवकथने च पंचपचाशदुत्तरशततमोध्यायः२७

सनत्कुमार उवाच
एवं स्तुतस्स भगवान् ब्रह्मणायुग्मलोचनः ।
उवाच देवांस्तान् सर्वान् ब्रह्मणा सहिताँस्तदा ।।१ ।।
प्रीतोस्मि विबुधा यात नाशितो देवकण्टकः ।
किमन्यत् करवाण्यद्य प्रियं वो वरतानघाः ।।२। ।
इत्युक्ता देवदेवेन देवाः सर्वे बभाषिरे२
स्तुवन्तः प्रह्वमूर्धानो देवेशं हृष्टमानसाः । ।३ ।।
त्वमेव देव सर्वेषामस्माकं शरणं परम् ।
त्वं पिता सर्वलोकानां त्वयायं नाशितोन्धकः ।।४। ।
इत्युक्त्वा विबुधास्सर्वे प्रणिपत्य च शङ्करम् ।
ब्रह्मणा सहिता जग्मुर्यथास्थानं मुदा युताः ।।५।।
ततो गणानपीशानो युद्ध - - कृतश्रमान् ।
अर्चयित्वा यथावद्धि विससर्ज महामनाः४ । ।६।।
सनत्कुमार उवाच
एवं तमन्धकं जित्वा कृत्वा च गणनायकम् ।
विसृज्य च सुरान् देवो विजहार सुरार्तिहा ।।७।।
इमं यो ह्यन्धकवधं पठेत द्विजसंसदि ।
ब्राह्मणो लभते - - - यो रक्षां न संशयः ।।८। ।
- - - -- - - - - - -- - - - -- - - -
२६ स्तवमिदमगलार्थं - ख. । २७ २०४ - ख. ।
१ किमन्य द्वाकरोम्यद्य - ख. । २ बभासिरे - ख. । ३ पिदुः - ख. । ४ महात्मनाम् - ख. ।
- - - -- - - - - - -- - - - -- - - -
807
शरीर - - - योगं - रूपं धर्म विन्दति ।
यच्च- त्वा गाणपत्येन युज्यते देहपर्यये ।
इति स्कन्दपुराणे गणयुद्धे दैवतवरकीर्तने षट्पञ्चाशदुत्तरशततमोध्यायः५

व्यास उवाच
अनुगृह्यान्धकं देवो विसृज्य सगणान् सुरान् ।
चराचरेशो यच्चक्रे तन्ममाचक्ष्व तत्त्वतः । ।१ । ।
सनत्कुमार उवाच
दिवं देवेषु यातेषु गणपे चान्धके कृते ।
देवेशोन्धकनन्दिभ्यां सहदेव्या - - - - । ।२। ।
चिरस्य चन्द्रमौलिस्तु प्रमथाधिपतिर्गृहान् ।
प्रविश्य रञ्जयामास - - म्मेरुगृहानिव । ।३ ।।
सीमां सोमानुवदनां सोमार्धतिलको हरः ।
                              ।
सखीनां दृश्यते मध्ये ताराणामिव रोहिणी ।।४।।
दृष्टवा देव्यपि देवेशमुपायातं१ वृषध्वजम् ।
उत्तस्थावासनात्तूर्णं सखीभिः२ सहिता तदा । ।५। ।
शिरस्यञ्जलि३माधाय पद्मकुड्मलसन्निभम् ।
ववन्दे चरणौ तस्य प्रीयमाणेन चेतसा ।।६। ।
देवोपि तां समुत्थाप्य तयैव सहितः प्रभुः ।
निषसादासने रत्नमयूखपरिपिञ्जरे । ।७।।
अन्धकञ्च जितं युद्धे देव्याः प्रियचिकीर्षया ।
शङ्करः कथयामास पुनश्च प्रवरीकृतम् । ।८ ।।
अन्धकोयं तव सुतो ममैव नयनोद्भवः ।
आसुरं त्याजितो भावं त्वामवज्ञातवान्४ हि यः । ।९ । ।
- - - -- - - - - - -- - - - -- - - -
५ २०५ - ख. ।
१... मुपयातं - ख. । २ सखिभिः... । ३... मादायः - ख. । ४ तामवज्ञातवान् - ख. ।
- - - -- - - - - - -- - - - -- - - -
808
इत्युक्तवति देवेशे शङ्करेन्धकदानवः ।
प्रणतः प्राञ्जलिर्भूत्वा व्यज्ञापयत५ पार्वतीम् । । 8.157.१० । ।
देव्यन्धकोहं देवेन प्रकृतानुग्रहः शुभे ।
तव प्रेष्यत्वमायातः पश्य मां सौम्यचक्षुषा । ।१ १ ।।
अम्ब तन्मे व्यतिक्रान्तं यन्मे दानवजं तव (?) ।
देवेनानुगृहीतोहं तव हासश्च६ किङ्करः । । १२ ।।
क्षान्तं दान्तञ्च भक्तञ्च त्ददाश्रयपरायणम् ।
विद्धि मामम्ब शुद्धेन भावेन समवस्थितम् । । १३ । ।
इत्येवमुक्त्वा गिरिजां गिरिकूटनिभोन्धकः ।
वाग्भिराहवनीयाभिरस्तुवत् प्राञ्जलिर्नतः । । १४।।
विभावरी७ वारिचरी शर्वरी शर्ववल्लभा ।
धृतिर्मतिस्तथा कीर्तिर्दीप्तिः प्राप्तिः प्रमोहिनी । ।१ ५ । ।
मेधा सुधा तथा साध्वी स्वधा स्वाहा महाद्युतिः ।
पुष्टिरिष्टिस्तथा तुष्टिर्गृष्टिर्दृष्टिस्त्रुटिस्तडित् ।। १ ६। ।
स्मृतिः प्रीतिः स्पृहा हानिर्वाणी ग्लानिर्दया क्रिया ।
लक्ष्मीः श्रीः सन्नतिः श्रद्धा माया मायाधरार्चिता । ।१७।।
अदितिर्दितिस्तथा कद्रूः सिंहिका सुरसा८ दनुः९ ।
राका कुहूः सिनीवाली चर्षणी१० सुखदायिनी११ । । १८ ।।
दीक्षा दक्षावरा रक्षा शिक्षा कक्षनिकेतना ।
सुगन्धा१२ सुभगा भव्या भूतभव्यभवत्करी१३ । । १ ९। ।
धरणी धारणी धन्या वीरणी वै गुहारणी ।
ला गोला तथा चैव मङ्गलाविधा - तथा ।।8.157.२० ।।
- रोवृता सता - श्च - - सक्षत्रनन्दिनी (?) ।
नक्षत्रचित्रा द्यौः पृथ्वी क्रिया स्मृतिरलोलुपा । ।२ १ ।।
- - - -- - - - - - -- - - - -- - - -
५ विज्ञापयत - ख. । ६ ह्यासञ्च (?), दास (?) । ७ विभावरि - ख. । ८ सरमा - ख. । ९ कुः - ख. । १० वर्षणी - क. । ११ शुभदायिनी - क. । १२ सुसज्जा - ख. । १३ भवङ्करी (?) ।
- - - -- - - - - - -- - - - -- - - -
809
शुद्धा२५ शुद्धिः सुधीः कीर्तिः कृत्तिवासोधरप्रिया ।
धनुर्ज्या जयिनी पूज्या ईज्या व्रज्या जयप्रदा । ।२२ ।।
वरावरेण्या वरदा वरनारी१५ वचोरणि१६ ।
भूतिर्भूताधिजननी१७ सुकृतिः१८ सुमना रतिः । ।२ ३ ।।
भारती भासमायुक्ता युक्तरक्तवचोधरी ।
आज्ञा प्रज्ञा तथा संज्ञा उल्का नासासमुद्भवा ।
वेदमाता१९थ गायत्री दुर्गा सावित्र्यथापि च । । २४।।
धर्म्मिणी धर्मजननी तेजनी तेजसां वरा ।
रजनी रञ्जनी धीरा योनिर्वनजलोचना ।।२५ ।।
श्रदर्थिनी२० दनुनदी श्रुतार्था२१ श्रुतवत्तरा ।
बलयालातकधरा२२ मेखला मेखलाधरा । ।२६।।
प्रीयतां मे जगद्धात्री श्यामा श्यामाम्बरा२३ ह्युमा ।
इत्येवमन्धकेनेशा स्तुता स्तुतिशतस्तुता । ।२७।।
अन्धकस्य तुतोषाति तुष्टा चेदमुवाच तम् ।
प्रीतास्मि पुत्र यत् प्राप्तं गाणपत्यं त्वया शुभम् ।
प्रियोधुना वरस्तूर्णं व्रियतां२४ प्रवरोत्तम ।। २८ ।।
सनत्कुमार उवाच
भवानीं२५ वरदां दृष्टवा सोन्धको गणपोत्तमः ।
प्रणतः प्राञ्जलिः प्राह हिमवत्तनयामुमाम् । ।२९।।
यञ्च त्वं मे२६ वरं देवि ददासीशानबल्लभे ।
मम तेन समस्तेन त्वयि भक्तिः स्थिरा भवेत् ।।8.157.३ ० ।।
तस्य तद्वचनं श्रुत्वा भगवत्यपराजिता ।
उवाचान्धकमासाद्य२७ प्रीयमाणा पुनस्तदा ।।।३ १।।
ज्ञानेनानेन तुष्टास्मि तव पुत्र शुभेन वै ।
यन्मत्तोर्थितवानद्य त्वं भक्तिं प्रवरेश्वर२८ । । ३२ ।।
- - - -- - - - - - -- - - - -- - - -
१४ श्रद्धा- (?) । १५ नरनारी - क. । १६ रणी - क ख. । १७ भूताभूताभिजननी - ख । १८ सुगतिः - ख. । १९ वेदमाया - ख । २० सु (स) दर्थिनी - क. । २१ श्रुतार्थं - क. । २२.. लकधारा - ख. । २३ श्यामावरा - क., श्यामाचरा - ख । २४ वृयतां - क. । २५ भावनीं - क. । २६ तन्मे - क. । २७ सद्यः (?) । २८ प्रवरेश्वरः - क. ।
- - - -- - - - - - -- - - - -- - - -
810
मच्छन्दादेव चाप्येतद् गाणपत्यं तवानघ ।
दत्तं देवाधिदेवेन तेन चास्मि सुतोषिता ।।३ ३। ।
तस्माच्चादित्यपाकात्ते२९ सुयुद्धेन च पुत्रक ।
पापव्ययो महानासीत् तेनासि प्रवरीकृतः३ ।।३४।।
अमरो जरया त्यक्तो बली बलवतामपि ।
तपस्वी ह्यक्षयो जेता नन्दिवत्त्वं भविष्यसि ।।३५।।
मम देवस्य चापीष्टः किङ्करो मम चाप्यथ ।
भव३१ त्वमनघः श्रीमान् गणेश्वरगणेश्वरः । ।३६।।
ये च त्वां३२ कीर्त्तयिष्यन्ति दिवा रात्रावथापि३३ वा ।
तेषां कीर्त्तिर्यशः स्वर्गो धर्मश्चैव भविष्यति ।।३७।।
स त्वेवमुक्तः३४ पार्वत्या अन्धकोर्चितमानितः ।
अनुज्ञातश्च पार्वत्या मुमुदे हरपार्श्वगः ।।३८।।
इत्येवमन्धकं देवस्तमोरिकृतभूषणः ।
अनुगृह्य गिरौ तस्मिन् विजहार यथासुखम्३५ । ।३९।।
इति स्कन्दपुराणे अन्धकवरप्रदानं नाम सप्तपञ्चाशदुत्तरशततमोध्यायः३६

व्यास उवाच
अन्धकं गणपं कृत्वा देव्या सह महेश्वरः ।
किं चक्रेतः१ परं ब्रूहि नुद कौतूहलं मम ।।१।।
सनत्कुमार उवाच
जित्वान्धकं ततो व्यास कृत्वा च गणनायकम् ।
गिरीन्द्रसुतया सार्धं विजहार सुरार्त्तिहा । ।२।।
- - - -- - - - - - -- - - - -- - - -
२९.. .च्चादित्यपाकान्ते ? - क. । ३० प्रचरीकृतः - क. । ३१ मम - ख. । ३२ त्वा - ख. । ३३ रात्रौ तथापि - ख. । ३४ एवमुक्तः - ख. । ३५ रराम च - ख. । ३६ २०६ - ख. । १ नः - ख. ।
- - - -- - - - - - -- - - - -- - - -
811
अथ भूतेशजननी षडाननतनूकरी ।
अपृच्छत् पुत्रसम्बद्धं प्रश्नं प्रश्नविदां वरा । ।३ ।।
किमर्थं गीयते देव गाथेयं सद्भिरुत्तमा ।
वरं भूमिरुहाः३ पञ्च४ न च कोष्ठरुहा दश ।।४।।
षोडशेहाङ्गमङ्गानि भित्त्वा पुत्रोभिजायते ।
तस्मात्पुत्रात् कथं श्रेष्ठः कोष्ठजाद् भुविजः५ सुतः । ।५।।
इत्येवं वृच्छतीं पृच्छां शिक्षां दीक्षां क्रियां मतिम्७ ।
उमामनुपमां देव इदं वचनमब्रवीत् । ।६। ।
सूक्ष्मार्थं एष रम्भोरु यं पृच्छसि वरानने ।
अहं ते तं८ प्रवक्ष्यामि शैलेन्द्रतनयेव्यये । ।७। ।
कोष्ठजात्तनयाद्यस्माद् भूमिजस्तनयो वरः ।
शाल्मलौ वैतरण्यां च असिपत्रवनेषु च । ।८।।
कुम्भीपाके रौरवे च महारौरव एव च ।
एवमाद्येषु चान्येषु कुकृतैरनुवेष्टितान्१० ।
शास्यतो मृत्युवचनाद्राक्षसैः क्रूरकर्मभिः । ।९। ।
पितॄँस्तथाशुभै११र्घोरैर्वेष्टितान् राक्षासार्दितान् ।
सत्पुत्रस्त्रायते देवि नेतरः पापनिश्चयः । । 8.158.१० । ।
नरस्य न च१२ सत्पुत्राः सर्व एव भवन्त्युत ।
एक एवात्र भवति यः पितॄँस्त्रायते भयात् । ।१ १ । ।
तत्र ये दुष्टचारित्राः पुत्रसंख्यां१३ न ते गताः ।
शठो यद्वद्बलीवर्दः षण्ढो वापि नराधिपः१४ ।।१ २ । ।
तत्रापि चोद्यते१५ दुःखं दुःखं च नरकं विदुः ।
यत्१६ पितॄँस्त्रायते तस्मात्१७ सुतः पुत्रस्ततः स्मृतः । । १३ ।।
- - - -- - - - - - -- - - - -- - - -
२... रा - ख. । ३ भूमिरुहा - क., हां - क. । ४ तञ्च - क. । ५ भूमिजः (?) । ६ शिक्षाक्रियां - ख. । ७ पतिम् - ख., मतीं - क । ८ तत् - ख. । ९. व्यये - ख. । १०... ताः - क. । ११ सुरै - ख - १२ नरकस्य न - ख । १३ संज्ञां (?) । १४ नराधमः (?) । १५. प्यति चोस्युच्यते (?) - ख. । १६ यः - क. ख. । १७ यस्मात् - ख ।
- - - -- - - - - - -- - - - -- - - -
812
नान्यः सम्बद्धको देवि पितुः पुत्रस्य चोभयोः ।
पाति पुत्रं पिता तस्मात् पुत्रो यत् त्रायते भयात् ।। १४।।
इन्द्रियाणां तु प्राबल्यात् तत् पुत्रेष्वपि१८ पार्वति ।
पापकान्यपि कुर्वन्ति१९ ते सत्पुत्रा भवन्त्युत ।। १५। ।
इमे हि तरवो देवि दक्षशापाद् हतेन्द्रियाः ।
पापकानि न कुर्वन्ति संवृतैः करणैश्च ह । । १६ । ।
एतस्मात् कारणाद् देवि कोष्ठजानां शतादपि ।
एको भूमिरुहः पुत्रः शस्यते न तु कोष्ठजः । । १७।।
छेदं भेदं तथा त्रासं पाटनञ्च निशाचरैः ।
कुर्वद्भिस्तरवः पुत्राः पितॄणां - - - - । - - । । १८।।
उमोवाच
छेदं भेदं त्रासनं च राक्षसैर्निरयोपगैः ।
कथं पितॄणां तरवो वारयन्ति यमक्षये । । १ ९। ।
देवदेव उवाच
शृणुष्व छेदं भेदं च पितॄणां यमसादने ।
यथा वै२० पारयन्त्येते२१ तरवो नागनन्दिनि ।। 8.158.२० । ।
एते निरुद्यमा देवि विहीनाः करणैरुत ।
यज्ञेर्थितास्ते देवानां तरवो - - - - - - । । २१ । ।
 - - - - - - - - ।
दक्षशापेन भगवन् वयं ह्युपहतेन्द्रियाः ।।२२ ।।
तमोबाहुल्यतां प्राप्ता निष्क्रिया निष्परिक्रमाः ।
असुखाः करणैर्हीना महता तमसावृताः । ।२३ । ।
एतां दशामनुप्रप्ता धर्मयुक्तान् कुरुष्व नः ।
इत्येषां वचनं श्रुत्वा देवः सलिलसम्भवः । ।२४। ।
- - - -- - - - - - -- - - - -- - - -
१८ तत् - क ९०-. द् येषु त्रिष्वपि - थ । १९ कुर्वन्तः - (?) । २० ययैवं (व) क- । २१ तारयन्त्येते - क, ।
- - - -- - - - - - -- - - - -- - - -
813
यज्ञवृक्षार्थमाहेदं वृक्षान् वृक्षपतिर्वचः ।
स्थावराः स्वागतं वोस्तु तुष्यामि शरणैषिणाम ।
नाशयाम्येष वो वत्सा दक्षशापकृतं तमः । । २५ ।।
शाला बिल्वाः पलाशाश्च वरुणाः२२ किंशुकास्तथा ।
रोहीतकाश्च ये चान्ये यज्ञांगप्रभवा द्रुमाः । । २६ ।।
ते सूपयुक्ता यज्ञेषु त्वक्पत्रफलशाखिनः ।
मूर्त्तीः सुभास्वराः प्राप्य मम लोके निवत्स्यथ२३ ।। २७।।
एषां यज्ञियवृक्षाणां२४ यूयमप्यनुगामिनः ।
यज्ञोपयुक्ता गच्छध्वं तेषामेव सलोकताम् । ।२८। ।
स्थाणुलिङ्गोपयुक्ताश्च२५ जनैर्भक्तिपुरस्सरैः ।
धर्मेण शुद्धदेहाश्च गतिमिष्टामवाप्स्यथ२६ । । २९ । ।
उपयोगं च गच्छन्तो यज्ञायतनवस्तुषु२७ ।
दक्षशापतमोमुक्ता मम लोके चरिष्यथ । । 8.158.३० ।।
पुत्रहीनो नरो यश्च२८ पुत्रकान्वः२९ करिष्यति ।
तं भयात्३० त्रायतां चैव धर्मो वो भविता महान् ।।३ १ ।।
तरव ऊचुः
कथं वयं पुत्रकृतास्तान्३१ पितॄन्निरयोपगान् ।
' ' ' - ' - - - - - - - - - । । ३ २। ।
सोमविक्रयिणो ये च ये च विश्वस्तघातिनः ।
ये च प्राणिवधे युक्ताः पृष्ठमांसाशिनश्च ये । ।३ ३ । ।
राज्ञामाक्रोशका ये च ये च पिण्डापहारकाः ।
एते३२ स्वकर्मभिर्घोरैर्वेष्टिता लोमहर्षणैः ।।३४।।
पच्यन्ते निरये घोरे क्रोशन्तो भैरवान् रवान् ।
अहो भृशं३३ यातनाभिरशिवाभिरभिद्रुताः । ।३ ५ ।।
- - - -- - - - - - -- - - - -- - - -
२२ तरुणाः - ख । २३ निवत्स्यत - क, निवृक्ष्यथः - ख. । २८ याज्ञिय - ख., याज्ञिकवृक्षाणां - क. । २५ शृणु लिङ्गेप्रयुक्ताश्च - क. । २६ गमि .. - क । २७ वास्तुषु (?) । २८ यच्च - ख. । २९ पुत्रकार्थं - क ख. । ३० तद्भयात् - क ख. । च १ पुत्रकृतान् स्तान् - क., तान्स्वान् - ख.,... तस्तान् (?) । ३२ ये ते (?) । ३३ नृशम्स - क ख ।
- - - -- - - - - - -- - - - -- - - -
814
शास्यन्ते मृत्युवचनाद्राक्षसैर्भीमविक्रमैः ।
तानेव तुद्यमानाँश्च कुट्यमानाँश्च राक्षसैः ।
पितॄन्निरयसंमग्नानुद्धरिष्यामहे कथम् । ।२ ६। ।
ब्रह्मोवाच
ताँस्तथा३४ तुद्यमानांश्च कुट्यमानाँश्च राक्षसैः ।। ।
पितॄन्निरय संमग्नान् यूयमभ्युद्धरिष्यथ।।३७।।
निरयस्थान् यथा चैतान् पितॄन् निस्तारयिष्यथ३५ ।
तन्मे सुमनसो भूत्वा निशामयत पादपाः ।। ३८। ।
पुत्रप्रकृतका यूयं यस्य यस्य भविष्यथ ।
तस्य तस्य स्मृताः३६ शीघ्रं तं देशं यास्यथानघाः३७ ।।३९।।
- - - निरयप्राप्तान् पितॄन् क्लेशैरुपद्रुतान् ।
सुखाय धास्यथ यथा स्थावरास्तन्निबोधत३८ । ।8.158.४० । ।
मन्त्रवद् विधितश्चैव३९ यो वः संस्कारमन्तशः ।
गर्भाधानादिभिः कृत्वा पुत्रत्वे कल्पयेन्नरः । । ।४१ । ।
ये चापि४० पूर्वजातान् यो विधिना४१ निष्परिग्रहान् ।
पुत्रप्रकृतकान् कुर्य्युस्ताँश्च निस्तारयिष्यथ । ।४ २ । ।
सर्वकामाँश्च दास्यध्वं सुखञ्चैव तथोत्तमम् ।
कर्मक्षयं च सर्वेषां लोकाँश्चैव तथाक्षयान्४२ ।।४३ । ।
सनत्कुमार उवाच
ततः शैलसुता भूयोपृच्छत्तद्विधिमुत्तमम्४३ ।
तां पृच्छतीं महादेव इदं वचनमब्रवीत् । ।४४। ।
देवि नागेन्द्रनासोरु नागेन्द्रगतिगामिनि ।
शृणुष्व येन विधिना गृह्यतेवनिजः सुतः ।।४५। ।
- - - -- - - - - - -- - - - -- - - -
३४ तानेवं (?) । ३५ स्ताँस्तारयिष्यथ - ख. । ३६ मृताः - ख. । ३७. तानघाः - क. । ३८ स्तान्नि- बोधत - क. ख. । ३९ विधितच्चैव - ख. । ४० वापि - ख. । ४१ विविधां - क. । ४२... क्षयम् - क. । ४३ अपृच्छद्विधिमुत्तमम् - क ख. । ४४ च निज. - क ।
- - - -- - - - - - -- - - - -- - - -
815
श्वो भूतेहं४५ भुविरुहं ग्रहीष्यामीति४६ पार्वति ।
सोपवासा भवेन्नारी शुचिशीला शुचिव्रता । ।४६। ।
ततः शतसहस्रांशावस्तशृङ्गं गते रवौ ।
उदिते विमले चापि चन्द्रे चन्द्रनिभानने । ।४७। ।
आपद्भावेन सुभगे परेण परमात्मिके ।
विप्रानामन्त्रयेद्रात्रौ पावनान् वेदवादिनः । ।४८। ।
श्रुतीनामाकरा ह्येते रत्नानामिव सागराः ।
विप्रा विप्राधिपमुखि पूजनीयाः सहस्रशः ।।४९। ।
यत्र मन्त्रविदो विप्रा न प्राश्नन्त्युत्तमं हविः ।
न तत्र देवा४७ देवेशे हविर्भुञ्जन्ति कर्हिचित् ।।8.158.५० । ।
न स्कन्दते न व्यथते नैनमाक्रमते४८ तमः ।
वरिष्ठमेतद्दानानां यद् ब्राह्मणमुखे हुतम् । ।५१ ।।
ब्रह्मणत्वे४९ (?) महासत्वे अणधातुस्तु भक्षणे ।
ब्रह्म भक्षयते यस्माद् ब्राह्मणस्तेन स स्मृतः । ।५ २। ।
जायन्ते ये पुनर्जाता ह्युपनीता महात्मभिः ।
ततो देवि द्विजाख्येयं तेषु नित्यं निपात्यते ।।५३ । ।
वियदित्युच्यते व्योम प्रकारः५० प्रापणे स्मृतः ।
दिवं संप्रापयन्त्येते देवि५१ विप्रास्ततः स्मृता । ।५४।।
सत्य५२ सारमया ह्येते५३ विप्राः सृष्टाः स्वयंभुवा ।
सिद्धिर्न तेष्वतुष्टेषु५४ शक्या प्राप्तुं सुरैरपि । ।५५।।
अहं नारायणोनन्तो ब्रह्मा शक्रोनिलः शिखी५५ ।
तद्दानं नाभिनन्दामो विप्रा यत्र५६ न पूजिताः । ।५ ६। ।
येषां प्रसादात् सुलभा आयुर्धर्मो बलं सुखम् ।
श्रीर्यशः स्वर्गवासश्च तान्५७ विप्रानर्चयेद् बुधः । ।५७। ।
- - - -- - - - - - -- - - - -- - - -
४५ श्वो हि भूते - क. । ४६ गृहीष्यामीति - क., व्रहि.. - ख । ४७ देव - ख. । ४८ नैतमा- क्रमन्ते - क. ख. । ४९ ब्राह्मणत्वे - क. ख, महाहव्ये (?) । ५० पकारः - क. । ५१ दिवि - क ख. । ५२ साव्य ( ष्ठ्य) - ख. । ५३ सागर याह्येति - वा. । ५४ सिद्धिर्न तेष्वतुप्टेषु - ख. । ५५.. स्विति (?) । ५६ येन (?) - क । ५७ तद् - क. । क. ।
- - - -- - - - - - -- - - - -- - - -
816
विप्रानामन्त्रयित्वाथ५८ शुचिवस्त्रा शुचिस्मिता ।
शयीत सनमस्कारा सदर्भा५९ भूमिमाश्रिता ।।५८।।
गमयित्वा ततो रात्रिं सवितर्युत्थितेपि६० च ।
भक्ष्यभोज्यं समादाय व्रजेत् यत्र भवेत्तरुः ।।५९। ।
ततस्तं सपताकं च सातपत्रं सभूषणम् ।
तरुकं प्रमदा६१ कृत्वा तरुच्छायानुगामिनी ।।8.158.६०।।
यथोपपन्नमन्नं तु भोजयित्वा द्विजोत्तमान् ।
पुण्याहं कारयित्वाथ ऋत्विजा ह्यथवात्मना६२ ।।६१। ।
तृप्तानां ब्राह्मणानां च तत्त्वेनाकूत६३मात्मनः ।
निवेद्य परमुद्दिश्य सद्भावेन परेण ह ।।६२। ।
अपुत्रा भगवन्तोहं६४ पुत्रप्रकृतकं६५ तरुम् ।
ग्रहीष्ये तदनुज्ञां वै कर्तु६६ मर्हथ मेनघाः ।।६३।।
ततस्तैरभ्यनुज्ञातं तं तरुं तरुणं प्रिये ।
भूमिदेवसमक्षं वै गृह्णीयात्तनयं प्रिये ।।६४।।
अनेन विधिना देवि गृहीतस्तरुकः सुतः ।
पितॄणां निरयस्थानां मधु सोमञ्च वर्षति ।।६५।।
गृहीतो विधिनानेन सुभ्रु भूमिरुहात्मजः ।
शुभे६७ सुखाय भवति विपरीतेन दुःखदः ।।६६।।
सत्पुत्राणां६८ शताच्चापि देवि चन्द्रनिभानने ।
एको भूमिरुहः६९ श्रेष्ठः पुत्रत्वे कल्पितः सुतः ।।६७।।
इत्येतत्ते मया शिष्टं७० श्रिष्टम्लिष्ट७१ वचोरणि ।
यथा भूमिरुहः पुत्रो विशिष्टः कोष्ठजात् सुतात् ।।६८।।
ततः पुनर्देवदेवी७२ प्रणिपत्य महेश्वरम् ।
प्रणयात् कौतुकाच्चैव इदं वचनमब्रवीत् ।।६९।।
- - - -- - - - - - -- - - - -- - - -
५८ तु - ख । ५९ सदर्पा - ख. । ६० सवितर्युदितेपि (?) । ६१ प्रयता (?) । ६२ विप्रान्भोज्या- र्थनात्मना - घ । ६३ तत्तेनाक्षत - घ । ६४ हङ्हिभगवत् तेहं - क. ख. । ६५ पुत्रत्वेकृतकं - क. । ६६ वै दातु (?) । ६७ सुभगे - क ख. घ. । ६८ सपुत्राणां - ख. । ६९ एकोपि भूमिजः - ख. । ७० श्लिष्टं - ख । ७१ मृष्ट - ख. । ७२ ततो देवी पुनर्देवं - घ. ।
- - - -- - - - - - -- - - - -- - - -
817
प्रोषिते त्वयि देवेश भ्रमन्त्या मन्दरे मया७३ ।
अशोकतरुको दृष्टः कोमलः सुमनोरमः ।।8.158.७०।।
आसीच्च मे तदा भाव एष मे तरुपोतकः ।
भविष्यति सुतो रुद्रे निर्विघ्नं७४ पुनरागते ।।७१।।
आभ्यां च मे महादेव कुचाभ्यां द्विजपावन७५ ।
क्षीरमागात् सुधासारं पुत्रस्नेहात् सुखप्रदम्७६ । ।७२।।
तमहं देव गृहणीयां पुत्रप्रकृतकं तरुम् ।
यदि मे कुरुषेनुज्ञां तवाहं वशवर्तिनी ।।७३।।
देवैः पुत्रफले क्षिप्ते स हि मे तरुपोतकः ।
तुष्टिप्रदो ह्यपुत्रायाः पुत्रको भवितानघ७७ । ।७४।।
इत्येवं भाषमाणान्तु भवानीं७८ भगवान्७९ भवः ।
सद्भावान्निःसृतं८० वाक्यमवदत् परतापनः ।।७५।।।
देवि फुल्लारविन्दाक्षि कथं नाम न ते सुतः ।
भविष्यति तपस्विन्या ऐश्वर्यपरमे८१ मया८२ ।।७६ ।।
शक्ता जनयितुं पुत्रान् तपसा त्वमनिन्दिते ।
अहं च ते प्रदास्यामि पुत्रान् परमशोभनान् । ।७७।।
अथवायमनुग्राह्यस्तवाशोकतरुः प्रिये ।
अनुज्ञाता मया देवि कुर्वशोकतरुं सुतम् ।।७८।।
अनुकूलं पतिं ज्ञात्वा तं तामरसलोचना ।
प्रणिपत्याव्यया८३ तुष्टा८४ इदमाह महेश्वरम् ।।७९।।
देव जानाम्यहं धर्मं यथा स्त्रीणां न विद्यते ।
दैवतं पतिमुत्सृज्य पूजनीयं हि यद् भवेत् ।।8.158.८०।।
अनामन्त्र्य हि भर्त्तारं यद्ददाति यदर्चति ।
न फलं विन्दते तस्य नारी इत्येव नः श्रुतम् ।।८१ ।।
- - - -- - - - - - -- - - - -- - - -
७३ यथा - क. । ७४ निर्विघ्ने - म. । ७५ पावनः - क. । ७६ सुखप्रदः - क. । ७७.. नघः - ख. । ७८ भावनीं - क. । ७९ भवतां - ख. । ८.... न्निसृतं - क. ख. । ८१ मैश्वर्यपरमे - ख । ८२ यया - क, त्वया - ख., स्वयं (?) । ८३. भ्यया - ख । ८४.. त्तुष्टा - ख ।
- - - -- - - - - - -- - - - -- - - -
818
या तु भर्तारमामन्पय नारी धर्म समाचरेत् ।
तस्या देवाश्च तुष्यन्ति धर्मश्च सुमहान् विभो । ।८२। ।
अवमन्य तु या नारी भर्तारं दैवतं गुरुम् ।
स्वबुद्ध्या कुरुते पुण्यं निरयं सा प्रपद्यते । ।८३ । ।
अतीतमपि या नारी भर्तारं परिपृच्छति ।
अनुमान्य यथावद्धि जीवन्तमिव शोभना । ।८४। ।
अनुज्ञाता हि सा तेन प्रीयमाणेन चेतसा ।
धर्मकृत्येषु देवेश फलं प्राप्नोति पुष्कलम् । ।८ ५। ।
तपोपवासो दानं च आर्जवं सत्यमेव च ।
पतिशुश्रूषणस्यैते कलां नार्घन्ति८५ षोडशीम् । ।८६। ।
या ह्यन्यनरलोलापि८६ सद्भावाच्छयनासने ।
शुश्रूषां कुरुते भर्तुः सा सत्येव८७ विभाव्यते ।।८७।।
इत्येवं गिरितनया गिरीशमुक्त्वा गिर्यग्रे गिरितरुपुष्पपुञ्जचित्रे ।
तेनाग्य्रा सह विचचार चारुरूपा भानोर्भा इव सह८८ भानुना भवानी ।।८८।।
इति तौ सुरपूजितावपरस्परपूजितौ ।
सहितौ प्रविचेरतुः प्रवरेश्वरवन्दितौ । ।८९। ।
इति स्कन्दपुराणे भूमिजपुत्रवर्णने अष्टपंचाशदुत्तरशततमोध्यायः ८९
 
सनत्कुमार उवाच
पार्वत्या निश्चयं ज्ञात्वा भगवान् त्र्यम्बकस्तदा १ ।
सुमालिं२ पिङ्गल यक्षं प्राह वाक्यविदां वरः । । १ । ।
भक्तिमन्तं३ महायोगं पुरा लब्धवरं गणम् ।
पार्श्वस्थं नन्दिनं४ तत्र५ भगवान् शङ्करः स्वयम्६ ।।२। ।
- - - -- - - - - - -- - - - -- - - -
८५ नार्हन्ति (?) । ८६ ह्यन्यतरलोलापि - क., द्यतर?.. - ख.,.. लोकापि - घ. । ८७ तस्यैव - ख । ८८ स्सह इव - क ख. । ८९ २०७ - ख., १४८ - घ. ।
१. स्तथा - ख. । रे सुमालं - क. । ३ भक्तिवन्तं - क. । ४ दयितं - घ. । ५ न्तत्र - क. । ६ भगवान- ब्रवीदिदम्? - क ।
- - - -- - - - - - -- - - - -- - - -
819
पर्वतेन्द्रसुताशोकं तरुं पुत्रं ग्रहीष्यति ।
त्वय्यायत्तं च तत्सर्वं तस्मात् कुरु ममाज्ञया ।।।३।।
यत्राशोकतरुस्तत्र यथान्नमुपलक्षितम्७ ।
भवेत् सुप्रचुरं वीर तथा कुरु८ गणेश्वर ।।४।।?
प्रदेशश्च गिरेस्तस्य यथा रम्यो भविष्यति ।
तथा विधत्स्व यक्षेन्द्र यत्राशोकतरुः स्थितः ।।५।।
इत्युक्तः परमेशेन पिङ्गलः पिङ्गलेक्षणः ।
उवाच सोमया सार्धं त्रिदशानां पतिं पतिम् ।।६।।
गणाधिप यथाज्ञप्तं तत् करिष्यामि यज्ञहन् ।
यथा सोमः स नन्दी च प्रसन्नो मे भविष्यति९ ।।७।।
इत्युक्त्वा सोभ्यनुज्ञातो यक्षो लोकान्तदस्तदा ।
तस्याशोकतरोः पार्श्वे विदधावन्नमुत्तमम् ।।८।।
सुमालावथ निष्क्रान्ते सिंहक्रोधस्त्रिलोचनः ।
नन्दिनं तेजसां राशिर्दिण्डि१० चण्डेश्वरोब्रवीत्११ ।।९।।
ब्रह्मण्यान्१२ ब्रह्मणान्१३ नन्दिन् देवी यज्ञेन यक्ष्यति१४ ।
श्वः प्रभाते महाबुद्धे तत्र विप्रैः प्रयोजनम् ।।8.159.१० ।।
स त्वं मत्प्रहितो देव१५ यत्र यत्र१६ वदाम्यहम् ।
तत्र तत्र गतो विप्रान् निमन्त्रय पदत्रये ।।११।।
औदकायां विरूपास्य१७ ब्राह्मणा ब्रह्मसंभवाः१८ ।
उपासते ये वरुणं१९ पातालतलसंश्रयाः ।।१ २।।
ये सुरेव्यासुऽराद्याश्च२० रसावयवमुत्तम२१ ।
पिबन्ति फेनपा नाम तान्निमन्त्रय मा चिरम् ।।१३ ।।
संयमन्यां तथा चैव२२ ये यमं पर्युपासते ।
ब्राह्मणा ब्रह्मणा तुल्या२३स्तान्निमन्त्रय भूतप ।।१४।।
- - - -- - - - - - -- - - - -- - - -
७ यर्थार्थमुपलक्षितम् - घ. । ८ तथार्घन्तु - घ. । ९ भविष्यसि - घ. ।. १० दन्ति - घ. । ११ दण्डेश्वरोब्रवीत् - घ । १२ ब्राह्मण्या - क. टि । १३. न्ब्राह्मणान् - क. । १४ यं भोजयिष्यति - घ. । १५ प्रहितः शीघ्रं - घ. । १६ तत्र - क. । १७ वरुणस्य - घ. । १८ संगताः - क. , सत्तमाः - घ. । १९ वरुणं ये ह्युपासन्ति - क । २० सुरभ्याः सुराद्यञ्च (?) । २१ रसायनवरं शुभम् - घ. । २२ देव - ख. । २३ ब्रह्मणस्स्तुल्था - क. ।
- - - -- - - - - - -- - - - -- - - -
820
तथोदयगिरेः शृङ्गे सत्यो नाम महाह्रदः ।
राजहंसानुचरितः कान्ततामरसावृतः ।।१५।।
वसन्ति यत्र ते सत्याः२४ सत्यानाम तपोधनाः ।
सत्येन येषामादित्यो दिनं नयति नित्यशः ।।१ ६।।
तेषां निष्कल्मषस्तस्मिन् ह्रदे स्नातो दिवाकरः ।
प्रत्यहं कुरुते देवः प्रयाणं२५ शुभकर्मकृत् ।।१७।।
तेषां प्रणम्य शिरसा ह्यात्मानं सन्निवेद्य च ।
सद्भावं दर्शयन्नग्रे नन्दीश्वर निमन्त्रय ।।१८।।
ये चादित्यरथं शश्वत् परिवार्य व्रजन्त्युत ।
अथर्वाङ्गिरसस्तांश्च२६ निमन्त्रय गण द्विजान् ।।१ ९।।
ये च चक्रचराः सिद्धा ये कपोतोञ्छवृत्तयः ।
उपासते ये च शक्रं२७ तानामन्त्रय वै द्विजान् ।।8.159.२० ।।
ततो ब्रह्मसदो२८ गत्वा ब्रह्मण्यान्२९ ब्रह्मणः प्रियान् ।
ब्रह्माणं च सपत्नीकं ब्राह्मणांश्च निमन्त्रय ।।२१।।
क्षीरोदवेलानिलयास्तपोवननिवासिनः ।
ब्रह्मणो भवनादेत्य बालखिल्यान्३० निमन्त्रय ।।२२।।
ये मां सदाराः ससुताः साग्निहोत्रपरिच्छदाः ।
भक्ता येषामहं नित्यं प्रसादसुमुखोग्रणीः३१ ।।२३।।
तान् बालखिल्यान् वागीश व्यालानिव दुरासदान् ।
आमन्त्रय यतो भूत्वा सुयशाः३२ सुयशापते ।।२४।।
सञ्चरँश्च त्रिभुवनं वायुरव्याहतो३३ यथा ।
यान्यतः पश्यसे विप्रान् सर्वानेव निमन्त्रय ।।२५।।
ये चापि प्रमथाः केचिद् गोचरे ते सुरारिहन् ।
ते च सर्वे समायान्तु विप्राणां परिवेशकाः३४ ।।२६।।
- - - -- - - - - - -- - - - -- - - -
२५ तस्याः - ख । २५ प्रण मं - क. । २६ साधवोङ्गिरसस्ताँश्च - घ । २७ ये च शक्रमुपासन्ते - क. । चक्र - (?) । २८ ब्रह्मसदं - क. । २९ ब्र ( ब्रा) ह्मणाः - क. । ३० बालिखिल्यान् - क ख. । ३१ गणे - ख । ३२ सुयशः (?) । ३३ वायुरभ्याहतो - ख. । ३४ परिवेषकाः - क. ख, ।
- - - -- - - - - - -- - - - -- - - -
821
कपर्दिनैवमुक्तस्तु नन्दी सूर्यसमप्रभः ।
शूलं ज्वलन्तमुद्यम्य प्रययौ वरुणालयम् । ।२७। ।
सागरं सोम्बराकारं साम्बरोम्बगोचरः३५ ।
आससाद प्रवल्गन्तं रङ्गस्थमिव वारणम् । ।२८। ।
स तं तिमिशताकीर्णमर्णवं३६ प्रमथाग्रणीः ।
प्रविवेश प्रदीप्तोर्कः३७ पयोदनिचयं यथा३८ । । २९।।
सुतले३९ स तु पाताले गां गजेन्द्रेन्द्रविक्रमः४० ।
अपश्यत् क्षरतीं क्षीरं दिव्यं तदमृताकरम् । 8.159.३० ।।
सुरभीमभिवाद्यैव शङ्करानुचरोरिहा ।
विवेश नन्दी वरुणो यत्रास्ते सगणोर्चितः४१ । ।३ १ ।।
स दिव्यवस्त्राभरणं४२ पुत्रपौत्रगणान्वितम्४३ ।
अपश्यदम्बुगोप्तामादित्ययुतसन्निभम् ३२ । ।
वरुणं द्वारपालेन पूर्वमेव निवेदितः ।
प्रविवेश तदा नन्दी वरुणस्य निवेशनम् । ।३ ३ ।।
स चाप्यपात्तदा (?) राजा दूरादेव प्रहृष्टवत् ।
दृष्ट्वा नन्दिनमुत्तस्थौ पूजयन्मन्मथार्दनम् । ।३४। ।
तस्यार्घं गाञ्च पाद्यञ्च निवेद्य वरुणः स्वयम् ।
आसीनं तमपां गोप्ता पप्रच्छ वदतां वरः । । ३५ । ।
भगवन् किं चिरस्याद्य त्वया वयमपेक्षिताः४४ ।
दर्शनं देवदेवस्य मन्यामस्तव४५ दर्शनात् । । ३ ६। ।
विवक्षोरिव ते वक्त्रमिन्द्रगोपायतेनघ ।
वद सर्वानभिप्रायान् कर्ता तेहं न संशयः । ।३७।।
वरुणेनैवमुक्तस्तु तत्परेण शिलादजः ।
ततः स वरुणं प्राह दानवैरपराजितम् ।।३८ । ।
- - - -- - - - - - -- - - - -- - - -
३५ स्ता - क., सोम्बराम्बरगोचरः - घ । ३६ मार्णव - क. ख. । ३७ प्रदीर्णोकः - क., प्रदीपार्चिः - घ । ३८... धिमय - ख., पयोधिमिव भास्करः - घ. । ३९ सुतलं - घ. । ४० गत्वा नागेन्द्रविक्रमः - घ., गजेन्द्रेन्दुविक्रमः- क । ४१ सगणोर्चितः - क., सगणार्चितः ( ?), स्वगणार्चितः (?), सगणोर्चितम् - क । ४२ शस्त्राभरणं - क. ख. । ४३,.. वृताम् - ख. । ४४ मवेक्षिताः (?), मुपे.?. (7) । ५ तव - ख. ।
- - - -- - - - - - -- - - - -- - - -
822
अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति ।
क्रीडार्थमुमया सार्ध निमन्त्रयति ते हरः ।।३ ९। ।
तद्देव पुत्राभिवृतः सदारः सह फेनपैः ।
श्वो याहि मन्दरगिरिं प्रीतिं वर्द्धय शूलिनः । ।8.159.४० ।।
इत्युक्त्वा सोभ्युनुज्ञातो वरुणेन गणेश्वरः ।
निष्क्रान्तो वरुणावासाच्छ्वेताभ्रादिव भास्करः । ।४१ ।।
स पूज्यमानः सिद्धैश्च४६ चारणैश्च सुरैरपि ।
प्रापोदयगिरिं४७ नन्दी हरेषुस्त्रिपुरं४८ यथा । ।४२।।
सोथ तस्य गिरेः४९ शृङ्गे रञ्जिते तापनैः करैः ।
निलिल्ये गरुडः पक्षी प्रभञ्जनपथे यथा । ।४३ । ।
ह्रदं तत्रार्णवाकारं काञ्चनाम्बुजशोभितम् ।
शीर्णोत्पलतरङ्गाढ्य५०मपश्यत्सोप्सरोवृतम् । ।४४। ।
ह्रदस्य तस्य रोधस्सु साशोकेषु सहस्रशः ।
अपश्यत ऋषीन् सत्यानादित्यायुतसन्निभान् । ।४५। ।
स तान् तपोधनान् दृष्ट्वा तपनाभान् तपोधनान्५१ ।
नन्दी प्रह्वाञ्जलिपुटो ह्यासाद्यावन्दत द्विजान्५२ ।।४६। ।
ते सर्वे नियमान् हित्वा नियमस्थास्तपोधनाः ।
नन्दिनं समयुज्यन्त५३ वासद्रुममिवाण्डजाः५४ । ।४७। ।
तैः सूर्यकिरणापीतैः पीतचीराम्बरैरपि ।
संवृतः स बभौ५५ नन्दी जम्बुद्वीप इवाचलैः । ।४८। ।
स पूज्यमानो गणपः सत्यः सत्यैस्तपोधनैः ।
अतीव प्रबभौ व्यास तीर्थेष्विव५६ महेश्वरः । ।४९। ।
ते नन्दिनं५७ सुखासीनं सत्यं सत्यास्तपोधनाः ।
ऊचुर्हर्षाकुलैर्वाक्यै५८र्विस्मिताननलोचनाः५९ । ।8.159.५० ।।
- - - -- - - - - - -- - - - -- - - -
४६ वरुणं - क । ४७ प्राप्तोदयगिरि - क. ख । ४८ त्रिपुरं - क ख. । ४९ सोदयस्य गिरेः - क. । घातय - ख. । ५० शार्णोपलतरङ्गाक्ष्यं तल - क ख । ९ । ५१ तपोधन (?) । ५२ वन्दिनो द्विजान् - क, वन्द्य तान् द्विजान् - ख. । ५३ सममर्पन्त - घ. । ५४ इवाण्डजाः - क. ख. । ५५ प्रबभौ - क. । ५६ तिथिस्वि र (व - ख. क. । ५७ तन्नन्दिनं - क. ख । ५८ र्हर्षकरैर्वाक्यं - ख., हर्षफलै - क । र्बाह्यै - क. । ५९ . र्विस्तृताननुलोचनाः - क. ख ।
- - - -- - - - - - -- - - - -- - - -
823
नन्दीश्वर चिरस्याद्य ह्युदयो६० ह्युदयप्रभः६१ ।
समाक्रान्तस्त्वया तात धर्मेण निरयो यथा ।।५१ ।।
किमिहानघ देवेशस्त्रिनेत्रस्त्रिपुरार्दनः ।
विहर्तुमागतो देवो दृष्टोस्माभिस्ततो६२ भवान् । ।५२। ।
सत्यं सुचरितं शुद्धं तपोस्माभिर्गणेश्वर६३ ।
सहोमं६४ यत् त्वया सार्धं द्रक्ष्याम इह शङ्करम्६५ ।।५३ ।।
एवं कपीन्द्रवदनो वन्दमानाँस्तपोधनान् ।
स सत्यान्६६ सत्यवचन इदमाह६७ शिलादजः ।।५४। ।
- - -६८ मन्दरं शैलं न कथञ्चित्त्यजेदजः ।
अहन्तु कार्यवानागां युष्माकमिममाश्रमम्६९ ।।५५।।
अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति ।
निमन्त्रयति वस्तत्र सवाञ्छर्वो द्विजोत्तमान् ।।५६। ।
मानयन्तो भवं सर्वे साम्बमम्बापतिं द्रुतम् ।
श्वो गच्छत तपोनित्या मन्दरं धरणीधरम् ।।५७।।
तत्र शर्वममराधिपप्रभुं तारकाधिपविभूषणं शिवम् ।
द्रक्ष्यथेशमसुरप्रमर्दनं देवतार्तिनिखिलं हरं७१ हरम् । ।५८। ।
इति स्कन्दपुराणे तरुपुत्रकग्रहणे७२ ब्राह्मणामन्त्रणे ऊनषष्ट्युत्तरशततमोध्यायः

सनत्कुमार उवाच
आमन्त्र्य तानृषीन् सर्वान् सत्यवीर्ययशःश्रुतान् ।
नन्दी विसर्जितस्तैस्तु ययौ सूर्यरथं प्रति ।।१ ।।
स तं सप्तोत्तमहयं शकुन्तवरसारथिम् ।
हराज्ञया रविं देवमुपासर्पत भूतपः ।।२ ।।
- - - -- - - - - - -- - - - -- - - -
६० चिरस्यास्य उदयो - क- । ६१ त्प्रभः - ख., प्रहः - क. । ६२... र्यतो - ग. । ३ तपोस्माकं गणेश्वर (?) । ६४ ससोमं - क. । ६५ सह - क. ख. । ६६ सुसत्यान् - क. । ६७ मिदमाह - क. । ६८ दयितं (?) । ६९ मिदमाश्रमम् - क ख. । ७० द्रक्ष्यते - क. ख । ७१.. मर्तिनिखिलं - घ. । ७२ हिवाहे - ख. ।
- - - -- - - - - - -- - - - -- - - -
824
सूर्यरश्मिसहस्रेषु तापसान् स मरीचिपान् ।
अपश्यत् स१ सुखासीनान् छायास्विव विहङ्गमान् ।।३ ।।
ततः सूर्यरथं शीघ्रमुपेत्यारुणसारथिम ।
सोंशुमालिनमत्रिञ्च अथर्वाङ्गिरसावपि२ ।।४।।
देवानृषीन् भुजङ्गाँश्च अश्वाँश्चामन्त्रयच्छुभः३ ।
आदित्याश्वादिभिर्नन्दी रुद्रपिप्रीषुभिस्तदा । ५।।
तथेत्युक्तोपचक्राम सूर्यवाहा४दथ द्रुतम् ।
देवानृषीन् भुजङ्गाँश्च तत आमन्त्र्य भूतपः । ।६।।
स वायुरिव शीघ्रस्तु गरुडो वा यथाण्डजः ।
धनेशभवनं नन्दी कैलासं समुपागतः५ । ।७।।
स तं पाण्डरमेधाभं कुन्देन्दुरजतप्रभम् ।
पर्वतं धनदावासं पश्यमानः प्रहष्यत६ ।।८। ।
स भूतेशो धनेशस्य गिरोशवचनङ्करः ।
आससाद नगस्याग्रे७ भवनं काञ्चनं शुभम् । ।९। ।
कैलासाग्रे सन्निविष्टं८ कैलासाग्रसमत्विषम् ।
हर्म्यप्रासादसंपन्नं सम्पन्नमिव भासितम्९ ।। 8.160.१० । ।
पताकाभिर्ध्वजैश्चापि किङ्किणीजालमालिभिः१० ।
हासैश्च पुरघोषाणां सन्नादितमहर्निशम् । ।१ १ । ।
भेर्या परमघोराणां वादित्रशतनादितम् ।
इज्याध्ययनसंपन्नास्तिष्ठन्त्यत्र११ सभासदः । ।१ २।।
भाभिर्जुष्टां सभां तस्य ततो रुद्रसभासदः१२ ।
आससाद स यत्रास्ते मुनेर्विश्रवसः१३ सुतः ।। १३ । ।
तमृद्ध्या परया युक्तं सेव्यमानं श्रिया तथा१४ ।
अपश्यद् धनदं नन्दी दिव्यस्त्रीगणसेवितम ।।१४।।
- - - -- - - - - - -- - - - -- - - -
१ सु - क. । २.? सामपि - ख. । ३... च्छुभं - ख. । ४... द्रथाद् - ख. । ५ समुयागतं - क. । ६ पश्यमनोपहृष्यत -क. । ७ न चास्याग्रे - ख. । ८ सन्निविष्टः - ख, । ९ भाषितम् - ख. । १० किङ्कजीजालमःलिभिः - ख., हासिभि (?) । ११ स्तिठँन्स्त्यत्र - ख, तिष्ठन अतिष्ठन् (?) । १२ सभासतः - ख. । १३... र्विश्ववसः - ख. । १४ तया (?) ।
- - - -- - - - - - -- - - - -- - - -
825
शुक्तिकणं शुक्तिकर्णैर्यक्षेन्द्रैरभिसzवृतम्१५ ।
उपगीयमानz गन्धर्वै१६रेकपिङ्गायतेक्षणमू१७ ।।१५।।
महेश्वरसखत्वेन१८ वरदानमदेन च ।
माद्यन्तं१९ स्वर्णया२० नद्धमालयामललोलया२१ ।।१६।।
धनदश्चापि तं दृष्ट्वा शङ्करानुचरं वरम् ।
पूजयञ्छङ्करं सोम२२ मुत्पपातासनाद् द्रुतम् ।।१८।।
स्वर्णादुत्पतमानस्तु आसनाद् धनदो बभौ ।
साशोकादिव२३ पुष्पाढ्यादुदग्रात् पर्वताद्रविः ।।१८।।
तमुत्पतन्तमुत्पेतुर्यक्षा यक्षपतिं२४ द्रुतम् ।
ग्रहा यथा दीप्यमाना दिनहानौ ग्रहाधिपम् ।।१९।।
नन्दिने२५ स तदार्घञ्च२६ पाद्यञ्चावेद्य वित्तदः२७ ।
सपुत्रदारः सामात्यः२८ प्रणेमे मनसा हरम् ।।8.160.२०।।
ततः कथा बहुविधाः कृत्वोद्दिश्य महेश्वरम् ।
पप्रच्छ धनदो नन्दिं चिरस्यागमनं कृतम् ।।२१।। नन्द्युवाच
अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति ।
निमन्त्रयति तत्र त्वां द्रविणेश महेश्वरः ।।२२।।
श्वः सपुत्रः सदारश्च सानुगः साप्सरोगणः ।
मन्दरं याहि वित्तेश देवेशः प्रीयते२९ त्वया ।।२३ ।।
एवमामन्त्र्य धनदं धनदेन विसर्जितः ।
ययौ संयमनीं३० नन्दी यमस्य यमसन्निभः ।।२४।।
स यमं धर्मवक्तारं हर्तारं प्राणिनां प्रभुम् ।
साग्निं सधर्मं सव्याधिमपश्यद् गणनायकः ।।२५।।
- - - -- - - - - - -- - - - -- - - -
१५ सेवितम् - घ. । १६ गन्धर्वैरुपगीय (त?) न्तं - क. ख. । १७ ... रेकपिङ्गायतेक्षणः - क- ग. । १८ सखित्वेन - क ग. । १९ मान्यन्तं - ग., आप्यन्त - ख., साज्यन्तं - घ. । २० स्वर्णया - क. ख., स्वर्णनक्षत्रमालया - घ., नद्धं - क. ग. । २१ माल. - क. ग. मनतोयथा - घ. । २२ पूजां कर्तुं नन्दिनस्तु - घ. । २३ अशोकादिव - घ । २४ रक्षपतिं - ख. ।। २५ नन्दिनं - क. ग. । २६ तदार्घ्यस्य - क.,. र्घस्य - ग । २७ षः ( पः) - घ. । २८ सामान्यः - ग. । २९ प्रियते - ख. । ३० संयमनं - क. ख. ।
- - - -- - - - - - -- - - - -- - - -
826
आयांतं३१ नन्दिनं दृष्ट्वा यमो भूतशतावृतः३२ ।
पादाभ्यां नन्दिनः३३ सोथ निपपात तुतोष च ।।२६ । ।
रुद्रस्येव३४ यमस्तस्य पूजां कृत्वा ह्यनुत्तमाम् ।
पप्रच्छ नन्दिनं यत्नाच्चिरस्यागमनं कृतम् । । २७।।
नन्द्युवाच
अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति ।
तत्र त्वां३५ सानुगं देवो निमन्त्रयति शङ्करः ।।२८ । ।
ये चैव विषये३६ ह्यस्मिन् निवसन्ति द्विजातयः ।
ताँश्चामन्त्रयते देवः संमान्य बहुमानतः । । २९।।
कल्यं३७ स भगवान् कल्यः३८ कालः कालप्रियं गिरिम्३९
मानयन् प्रभुमीशानं गन्तुमर्हसि मन्दरम् । । 8.160.३० । ।
तथेत्युक्तो यमेनाथ तैश्चाग्निसदृशैर्द्विजैः४० ।
सूर्यात्मजगृहान्नन्दी शक्रलोकं ततो गतः४१ ।। ३१ । ।
सुकृतीनां तमावासं४२ वासवं लोकमद्भुतम्४३ ।
विवेश त्वरितं नन्दी४४ दितिगर्भं यथाहिहा । ।३ २।।
स सुधर्मा सुधर्मायां सुधर्मममरैर्वृतम् ।
गान्धर्वमुपशृण्वानं नन्दी शक्रमपश्यत ।।३ ३ । ।
शक्रश्च नन्दिनं देवं४५ देवदेवस्य किङ्करम् ।
हर्षान्नेत्रसहस्रस्थं कृत्वा सम्यगपश्यत ।। ३४।।
स पूजां रुद्रसदृशीमवाप्य त्रिदशेश्वरात् ।
उपाविशदमेयात्मा शक्राभ्यासे वरासने४६ । । ३५ । ।
तमासीनमुपासीनः४७ शतक्रतुररिन्दमः ।
पिबन्नेत्रसहस्रेण न तृप्तिं सोभ्यगच्छत४८ ।। ३६ । ।
- - - -- - - - - - -- - - - -- - - -
३१ आयात - क ग । ३२ भूतशतावृतः - घ । ३३ नन्दिनं - घ. । ३४ रुद्रस्यैव - क ख. ग. । ३५ ततस्त्वां - य. । ३६ ऋषयो - घ । ३७ काल्यं - क ख. ग. । ३८ काल्यः - ख । ३९ गिरिप्रियः -घ. । ४० सतैश्चाग्निसदृशैर्द्विजैः - क । ४१... गमत्-ख । ४२ तदावासं - क. ख. ग । ४३ वासवस्यामरावतीम् - घ. । ४४ नन्दी त्वरितं - क. ख. । ४५ देवो - ख । ४६ शक्रोद्यानवरासने - घ. । ४७ तमुपास्त - घ, उपसीनं - घ, त - क. । ४८ योभ्यगच्छत - ग. ।
- - - -- - - - - - -- - - - -- - - -
827
ततो वृत्रबलारिस्तं नन्दिनं दिनकृत्प्रभम्४९ ।
पर्यपृच्छत हर्षेण किं चिरादागतो भवान् । । ३७। ।
इत्युक्तः स तु देवेन देवः स्वर्गनिवासिना ।
मन्दारवासितोव्यग्रः५० प्रोवाच कुलिशाधरः५१ ।।३८। ।
अशोकतरुकं पुत्रं गिरिपुत्री ग्रहीष्यति५२ ।
तत्र त्वां सामरं देवो निमन्त्रयति भूतपः५३ ।३ ९।।
द्विजपूर्वं५४ द्विजा ये च तवालयनिवासिनः ।
सपुत्रदाराँस्ताँश्चापि निमन्त्रयति शङ्करः ।।8.160.४० ।।
श्वस्सपुत्रः सदारस्त्वं देवदेवस्य शासनात् ।
मन्दरं गच्छ देवेश गिरीशमभिनन्दय५५ । ।४१ । ।
त्वयि याते सुरश्रेष्ठ अशोकतरुकोत्सवे५६ ।
प्रीतिं यास्यति देवेशः५७ परां सुरनरार्त्तिहा ।।४२। ।
शितशूलधरं पिनाकिनं गिरिराजेन्द्रसुतापतिं प्रभुम् ।
प्रणिपत्य महेशमूर्जितं पुनरेवैष्यसि नाकसंसदम् । ।४३ ।।
इति स्कन्दपुराणे विप्रामन्त्रणे षष्ट्युत्तरशततमोध्यायः

- - - - -- - - - - - -- - - - -- - - -
४९ प्रभु - रव्र. । ५० मन्दरावासमव्यग्र - ग., मन्दरावासिनव्यग्रः - घ । ५१ धर? । ५२ ग्रहिष्यति - क ख. । ५३ भूमिपः (प) - क. ग. (ख) । । ५४ द्विजापूर्वं - ग. । ५५ मनन्दयन् - ग. । ५६ त्सवम् - क. ग । ५७ देवेश - क. ।