शतपथब्राह्मणम्/काण्डम् २/अध्यायः २

विकिस्रोतः तः

ब्राह्मण १ पूर्णाहुतिहोमः

१ सप्रयोजनं पूर्णाहुतिहोमः, पूर्णाहुतेः सकलकामावाप्तिहेतुत्वकथनम्, पवमानेष्टिकार्यस्य परोक्षतया पूर्णाहुत्यैव साधितत्वात्पूर्णाहुत्यन्ताधानपक्षं प्रतिपाद्य तनूहविषां पवमानेष्टीनां तु प्रत्यक्षतया प्राणान्नवीर्यधारणहेतुत्वान्नियमेन कर्तव्यतया विधानेन तदन्ताधानपक्षसिद्धान्तनिरूपणम्, पवमानेष्टीनां प्रशंसार्थमर्थवादः, तनूहविषां पवमानेष्टीनां मध्ये प्रथमस्य हविषः पृथक्तन्त्रमुत्तरयोर्हविषोः समानतन्त्रमिति विधानम् , पवमा- नेष्टिषु पुरोडाशसम्बन्धिकपालसंख्याया याज्यापुरोऽनुवाक्ययो- र्गायत्रीछन्दस्कत्वस्य च निधानम्, पक्षान्तरेण तृतीयायामिष्टावादित्यचरुविधानम्, स्विष्टकृत्संयाज्ययोर्विराट्छन्दस्कत्वविधानं, धेनुरूपदक्षिणावत्त्वप्रतिपादनं च, पक्षा- न्तरे तु पुनः केवलमाग्नेय्यदितीष्टिद्वयविधानं चेत्यादि.

ब्राह्मण २ दक्षिणाब्राह्मणम्

२ दक्षिणाब्राह्मणं, तत्र दक्षिणादानविधिः, आहुतिदृष्टांतेनैतद्दक्षिणादानप्रशंसनम्, आधानस्य भ्रातृव्यजयहेतुत्वप्रतिपादिनी आख्यायिका, आख्यायिकासिद्धस्य फलार्थवादस्य प्रकृते सङ्गमनम्, गार्हपत्याद्यायतने बहिराहितस्याग्नेरन्तर्धारणत्वोपपादनम्, आन्तरेऽअग्नावुद्दीपनसमिन्धनविधानम्, एवमन्तरग्निमादधानस्य व्यवायादिदोषोऽपि नास्तीति प्रतिपादनम्, आहिताग्नेः सत्यवदनव्रतविधानम्, सत्यवदनस्य चाग्नि- समिन्धनहेतुत्वकथनं चेति. इत्यग्न्याधानम् ।

ब्राह्मण ३ पुनराधानम्

३ तत्र प्रकृतिभूतस्याधानस्य राज्ययशोहेतुत्वेन प्रशंसनम्, पुनराधेय- विधायिन्याख्यायिका, पुनराधेयविधिः, पुनराधेयस्याग्निसम्बन्धोपजीवनेन प्रशंसनम्, पुनराधानस्य त्रैवर्णिकसाधारण्येनर्तुविशेषविधानम्, पुनराधानमहनि मध्याह्ने कर्तव्यतया विधातुमादित्यस्य सर्वर्तुरूपत्ववर्णनम्, प्रकारान्तरेण तन्मध्यन्दिना- धानप्रशंसनम्, पुनराधित्सितस्याग्नेः कुशैराधानविधानम्, सप्रयोजनं व्रीहियवमययोरपूपयोरर्कपर्णद्वयसंगृहीतयोर्गार्हपत्याहवनीयायतनयोर्निधानविधानम्, पवमानेष्टिस्थाने पञ्चकपालाग्नेयीष्टिविधानम्, अस्यां पञ्चकपालेष्टौ सर्वस्याप्याज्यभागादेर्यागस्याग्निदेवत्यत्वविधानम्, अस्या इष्टेः प्रागुत्तमादनुयाजादुपांशुत्व विधानम्, प्रयाजादिषु सर्वाग्नेयकरणत्वकथनम्, प्रयाजयाज्यास्वपि क्रमेणाग्निविभक्तियोजनं, पञ्चमप्रया- जानुयाजयोर्विशेषविधिः, प्रथमाज्यभागे बुधिधातुयुक्तामग्निदैवत्यां पुरोऽनुवाक्यां प्रदर्श्य द्वितीयाज्य- भागेऽग्निः पवमानोऽग्निरिन्दुभान्वेति देवताविकल्पपुरःसरं तत्तद्दैवत्य- याज्यानुवाक्याप्रदर्शनं, प्रधानस्विष्टकृतोरग्निसम्बन्धप्रदर्शनम्, द्वितीये. ऽनुयाजेऽग्निविभक्तियोजनम्, प्रयाजानुयाजेषूक्तविभक्तीनां संभूय प्रशंसनं, तासामेव पुनरक्षरसंख्यामुपजीव्य प्रशंसनम्, पुनराधेयस्य दक्षिणा- विधानश्चेत्यादि.

ब्राह्मण ४ अग्निहोत्रम्

४ अग्निहोत्रब्राह्मणं, तत्र-सायम्प्रातरनुष्ठेयाग्निहोत्रविधायिन्याख्यायिका, तस्यां च सायम्प्रातरग्निहोत्रदेवताहविर्द्रव्याणामुत्पत्तिकथनम्, साभिप्रायं वैकंकत्यग्निहोत्रहवणीस्रुगुत्पत्तिकथनम् गोरुत्पत्तिद्वारा पयउत्पत्तिकथनम्, गवां यज्ञस्य च नामसाधारण्येन प्रशंसनम, अग्निहोत्रदेवतानां मध्ये सायम्प्रातःकालविभागे नानुष्ठानक्रमनिर्धारणम्, देवानां दृष्टान्तेनाग्निहोत्रं जुह्वतो विदुषो यजमानस्य प्रजात्यादिफलप्राप्तिकथनञ्चेति.