सामग्री पर जाएँ

पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

सामान्यनीतिः
॥ १६६ ॥ उपभोक्तुं न जानाति श्रियं प्राप्यापि मानवः ।
अाकण्ठजलमग्नोsपि श्वा लिहत्येव जिह्वया ॥ १६७ ॥
अार्ता देवान्नमस्यन्ति तप कुर्वन्ति रोगिणः ।
निर्धना दानमिच्छन्ति वृद्धा नारी पतिव्रता ॥ १६८ ॥
जामाता जठर जाया जातवेदा जलाशयः । पूरिता
नैव पूर्यन्ते जकारा पञ्च दुर्भरा ॥ १६९ ॥
जननी जन्मभूमिश्च जाह्नवी च जनार्दन । जनकः
पञ्चमश्चैव जकाराः पञ्च दुर्लभाः ॥ १७० ॥ सा
श्रीयी न मद कुर्यात्स सुखी तृष्णयोज्झितः । तन्मित्रं
यत्र विश्वास, पुरुषः स जितेन्द्रियः ॥ १७१ ॥ सुलर्भे
वस्तु सर्वस्य न यात्यादरणीयताम् । खदारपरिहारेण पर-
दारार्थिनो जनाः ॥ १७२ ॥ एकस्य कर्म सर्वीक्ष्य करो-
त्यन्योऽपि गैर्हितम् । गतानुगतिको लोको न लोक,
पूारभार्थिक, ॥ १७३ ॥ कचिद्रुष्ट कचिच्तष्टो रुष्टस्तुष्टः
क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोऽपि भयंकरः
॥ १७४ ॥ गुरुपत्ल्या निशाधीशो ब्राह्मण्या पाकशासन. ।
गत पश्चषुलक्ष्यत्व का कथाऽन्यस्य देहिनः ॥ १७५ ॥
चस्मिन्कष्ट भयं नास्ति तुष्टे नैव धनागम. । निग्रहा-
नुग्रही न स्तः स रुष्ट, केि करिष्यति ॥ १७६ ॥
अालस्योपहता विद्या परहस्तगता. स्त्रियः । अल्पबीज
हत क्षेत्र हत सैन्यमनायकम् ॥ १७७ ॥ निर्विषेणापि |
मर्पेण कर्तव्या महती फटा । विषमस्तु न चाप्यस्तु
फटाटोपो भयकर. ॥ १७८ ॥ एक एव पदार्थस्तु
त्रिधा भवति वीक्षित. । कुंणपः कामिनी मास |
योगिभि कामिभि. श्वभि• ॥ १७९ ॥ नारी परमुख-
द्रष्ट्री कविरव्यवहारवित् । अपथ्यसेवी रोगी च क्रिय-
द्भिर्नोपहस्यते ॥ १८० ॥ अन्यदा भूषण पुंसां क्षमा
लजेव थेोषिताम् । पराक्रमः परिभवे वैयात्यं सुरतेष्विव |
॥ १८१ ॥ सास॒ारिकसुखासुत्तं , ब्रह्मज्ञेोऽसीति |
वैादिनम् । कर्मब्रह्मोभयभ्रष्ट तं त्यजेदन्त्यर्ज यथा
॥ १८२ ॥ शैले शैले न माणिक्य मैौक्तिकं न गजे गजे ।
साधवो नहि सर्वत्र चन्दन न वने वने ॥ १८३ ॥
धीतिर्लक्ष्मीव्र्यय. ङ्केश. सा केि सा किं स किं स क्रिम् l
था लोभाद्या परद्रोहात्परार्थे यः परार्थकृत् ॥ १८४ ll
मनो मधुकरो मेघो मानिनी मदनो मरुत् । मा मदो
मर्कटो मत्स्यो मकारा दश चश्चलः ll १८°५ ll
यावजीवं सुख जीवेदृणं कृत्वा घृतं पिबेत् । भसी-
भूतख जीवस्य पुनरागमनं कुतः ॥ १८६ ॥ असार
१ निन्द्यन्म् २ शव
|! तस्माच्च
१t६७
एष ससारः समर सारङ्गलोचनाः | तदचै श्चनमिच्छन्ति
तत्त्यागे तु धनेन किम् ॥ १८७ ॥ सत्यानुसारिणी
लक्ष्मी. कीर्तिस्त्यागानुसारिणी | अभ्याससारिणी विद्या
बुद्धि कर्मानुसारिणी ॥ १८८ ॥ उपाध्यायश्च वैद्यश्च
ऋतुकाले वरस्त्रियः । सूतिका दूतिका नौका कार्यान्ते
ते च शष्पवत् ॥ १८९ |॥ विशाखान्ता गता मेघा.
प्रसूतान्तं च यौवनम् । प्रणामान्त, सता कोपो याच-
नान्त हि गौरवम् ॥ १९० ॥ कृतान्तपाशबद्धाना दैवो-
पहतचेतसाम् । बुद्धय कुव्जगामिन्यो भवन्ति महतामपि
॥ १९१ ॥ सदय हृदयं यस्य भाषित सत्यभूपितम् ।
काय परहिते यस्य कलिस्तस्य करोति किम् |॥ १९२ ॥
अपल्यदर्शनस्यार्थे प्राणानपि च या त्यजेत् । त्यजन्ति
तामपि क्रूगा मातर दारहेतवे ॥ १९३ ॥ पुत्र॒सु:
पाककुशला' पवित्रा च पतिव्रता । पद्माक्षी पश्चपैर्नारी
मुवि सयाति गौरवम् ॥ १९४ ॥ दातुरुन्नतवित्तख गुण-
युक्तस्य चार्थिन. । दुलैभः खलु सयोग सद्वीजक्षेत्रयो-
रिव ॥ १९५ ॥ अाज्ञामात्रफलं राज्यं ब्रह्मचयैफलं तपः ।
परिज्ञानफलं विद्या दत्तभुक्तफलं धनम् ॥ १९६ ॥
अायुर्वित्तं गृहच्छिद्रं मघ्रर्मौषधमैथुने । दानं मानाप्-
मानैौ च नव गोप्यानि कारयेत् ॥ १९७ ॥ अौ
दग्धं जले मग्नं हृतं तस्करपार्थिवैः । तत्सर्व दान-
मित्याहुयैदि हैब्यं न भाषते ॥ १९८ ॥ सभ्रमः
| खेनहमाख्याति वपुराख्याति भोजनम् । विनयो वंशमा-
ख्याति देशमाख्याति भाषितम् |॥ १९९ ॥ केि
विद्यया कि तपसा कि योगेन श्रुतेन च । किं
| विवित्तेन मैौनेन स्त्रीभियैस्य मनो हृतम् ॥ २०० ॥
यश्च मूढतमो लोके यश्च बुद्धे. पर गत. । तावुमै
| सुखमेधेते ह्निश्यत्यन्तरितो जन. ॥ २०१ ॥ त्यजे-
त्स्वामिनमत्युग्रमत्युग्रात्कृपणं त्यजेत् । कृपणादविशेषज्ञे
कृतशासनम् ॥ २०२ ॥ पात्रापात्रविवेको-
sस्ति धेनुपन्नगयोरिव । तृणात्संजायते क्षीर क्षीरात्स-
जायते विषम् ॥ २०३ ॥ शनैर्विद्या शनैरर्थानारोहे-
त्पर्वतं शनैः । शनैरध्वसु वर्तेत योजनान्न पर व्रजेत्
॥ २०४ ॥ द्यूतं पुस्तकवाद्ये च नाटकेषु च सत्तता ।
स्त्रियस्तन्द्री च निद्रा च विद्याविघ्नकराणि षटू ॥ २०९ ॥
अतिथिर्बलकः पत्त्री जननी जनकस्तथा । पञ्चैते गृहिणः
पोष्या इतरे च स्वशक्तितः |॥ २०६ |॥ गाढं गुणवती
विद्या च मुदे विनयं विना । मूर्खतापि मुदे भूयान्महत्सु
विनयान्विता |il २०७ |॥ अहो साहजिकं प्रेम दूरादपि