पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

७ ८
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
स्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् | सुधा
विना न प्रययुर्विराम न निश्चितार्थाद्विरमन्ति घीराः ॥ १० ॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु
गच्छतु वा यथेच्छम् । अद्यैव वा मरणमस्तु युगान्तरे
वा न्यैीाय्यात्पथै' प्रविचलन्ति पद न धीरा ॥ ११ ॥
कान्ताकटाक्षैविशिखा न छैनन्ति यस्य चित्त न निर्दहति
कोपकृ॑शानुताप. । कर्षन्ति भूरि विषयाश्च न लोभपाशा
लोकत्रय जयति कॄत्स्रमिद स धीर, ॥ १२ ॥ अापत्समुद्ध
रणवीरधिय परेषा जाता महत्यपि कुले न भवन्ति सर्वे ।
विन्ध्याटवीषु विरलाः खलु पादपास्ते ये दन्तिदन्तमुसलो-
ल्लिखन सहन्ते ॥ १३ ॥ विरम विरसायासादस्माद्दुरध्यव-
सायतो विपदि महता धैयैध्वसं यर्दीक्षितुमीहसे । अयि
जड विधे कल्पापायव्यपेतनिजक्रमाः कुलशिखरिण, क्षुद्रा
नैते न वा जलगाशयः ॥ १४ ॥
वीरप्रशंसा
एकेनापि हि शूरेण पदाक्रान्तं महीतलम् । क्रियते
भास्करेणेव स्फारस्फुरिततेजसा ॥ १ ॥,बहवः पङ्गवोऽपीह
नराः शास्राण्यधीयते । विरला रिपुखङ्गाग्रधारापातसहि-
ष्णव' ॥ २ ॥ अनन्तोद्भूतभूतौघसकुले भूतलेऽखिले । शस्रे
शास्रे त्रिचतुराश्चतुरा यदि मादृशाः ॥ ३ ॥ महिम्नामन्तर
पश्य शेषाहे, साब्धिभूधरा । फणासहस्रस्रग्दाम्नि भ्रमरीव
विभाति भूः ॥ ४ ॥ स्पृहयति भुजयोरन्तरमायतकरवाल-
कररुहविर्दीर्णम्। विजयश्रीर्वीराणा व्युत्पन्नप्रैौढवनितेव॥५॥
भुजे विशाले विमलेऽसिपत्रे कोऽन्यस्य तेजस्खिकथा सहेत |
गतासुरप्याहवसीग्नि वीरो द्विधा विधत्ते रविमण्डल य. ॥ ६ ॥
लोकोत्तर चरितमर्पयति प्रतिष्ठा पुंसा कुलं नहि निमित्त-
मुदारतायाः । वातापितापनमुने' कलशात्प्रसुतिर्लॉलायितं
पुनरँमुद्रसमुद्रपानम् ॥ ७ ॥ नायाति वाडवशिखाकथनेन
ताप शैत्यं हिमाद्रिपयसा विशता च नाब्धिः । कश्चिद्भभीर-
मनसा सततं विषादकाले प्रमोदसमये च समोऽनु-
भावः ॥ ८ ॥ सप्रामुवन्ति ननु मण्डलमेकमेव क्ष्मापा
जये समरसीग्नि वपुस्तु हित्वा । चण्डाशुमण्डलमथाभि-
मतानि कामं प्रेमार्द्रनिर्जरवधूस्तनमण्डलानि ॥ ९ ॥
विनाप्यर्थैर्वीरः स्पृशति बहुमानोन्नतिपदं समायुक्तोऽप्यर्थेः
र्परिभवपदं याति कृपणः । खभावादुद्भूता गुणसमुदया-
१ न्यायादनपेतात् २ मागीँत् ३ कटाक्षा एव विशिखा बाणा
४ न छिन्दन्ति ५ कोप क्रोध स एव कृशानुरग्निस्तत्ताप
६ सपूर्णम् ७ अगाधसमुद्रप!|नम् ८ पराजयस्थानम्
वासिविषया र्युति *सैही कि श्चा र्धृतकनकमालोऽपि
लभते ॥ १० ॥ को वीरस्य मनस्विन' स्वविषयः को वा
विदेशैस्तथा यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम् ।
यद्दश्ट्रानखलाङ्गलप्रहरण सिहो वनं गैाहते तस्मिन्नेव
हतद्विपेन्द्ररुधिरैस्तृष्णा छिनत्त्यात्मन. ॥ ११ ॥ सामो-
पायनयप्रपञ्चपटव प्रायेण ये भीरव शूराणा व्यवसाय
एव हि पर ससिद्वये कारणम् । विस्फूजैद्विकटाटवीगज-
घटापीटैकसचूर्णनव्यापरैकरसस्य सन्ति विजये सिहस्य के
मन्त्रिण ॥| १२ ॥ काकुत्स्थस्य दशाननो न कृतवान्दारापहारं
यदि काम्भोधि* क च सेतुबन्धघटना कोत्तीयै लङ्काजय* ।
पार्थस्यापि पराभर्वे यदि रिपुनीधात्क तादृक्तपो नीयन्ते
रिपुभि समुन्नतिपदं प्रायः पर मानिन. ॥ १३ ॥ वह्नि
शीतयितुं हिमं ज्वलथितुं वातं निरोद्धुं पयो मूर्त व्योम
विधातुमुन्नमयितुं नेतुं नति वा महीम् । उद्धर्तुं किल भूभृतः
स्थलयितुं सिन्धुं च सभाव्यते शक्तिर्यस्य जनैः स एव नृपतिः
शेषा* पर पार्थिवाः |॥ १४ |॥ नास्मिन्सततवेष्टनोल्बण-
तमैस्तल्पैरुदेति व्यथा ग्रन्थिभ्यश्चलितैनै चालमसुभिर्मर्मव्यथा
जायते । क्रन्दद्वन्धुजनार्तनादचकितस्वान्तं न वा स्यीयते न
ह्येतन्मरणं सुखस्य सुभगा काप्येव सप्राप्तिभूः ॥ १५ ॥
तेजस्विप्रर्शसा
बालस्यापि रवेः र्पैौदाः पतन्त्युपरि भूभृताम् । तेजसा
सह जातानां वयः कुत्रोपयुज्यते ॥ १ ॥ एकः स एव
तेजस्वी सैहिकेयैः सुरद्विषाम् । शिरोमात्रावशेषेण जीयन्ते
येन शत्रवः ॥ २ ॥ मैोनी पादप्रहारेऽपि न क्षमी नीच एव
सः | अाकृष्टशस्रो मित्रेऽपि न तेजस्वी खलो हि सः ॥ ३ ॥
तुल्येऽपराधे स्र्वैर्मीँनुंर्भीँनुमन्तं चिरेण यत् । हिमार्शुमैाशु
ग्रसते तर्नैम्रैदिम्नः स्फुटं फर्लेम्॥ ४ .॥ खुयं प्रणमतेऽल्पेऽपि
परवायावुपेयुषि । निदर्शनैर्मेसाराणा लैघुबैहुंर्तृणं नर' ॥ ५ ॥
तेजखिमध्ये तेजखी 'र्दवीयानपि गण्यते । पञ्चमः पैश्चतपस-
S8\. f° (^
स्तपनो जातवेदसाम् ॥ ६ ॥ अकृत्वा हेलया पादमुचेर्मूर्धसु
१ कान्तिम् २ सिहसबन्धिनीम् ३ सुवर्णमालालकृतोsपि
४ परदेश ५ दष्ट्रानखलाङ्गलाश्च प्रहृरण यस्य नखा एव
लाङ्गलानि विदारकत्वात् इलानि इति रूपकम् *पान्तु वो नरसिंद्दस्य
नखलाङ्गलकोटय ? इति कस्यचित्प्रयोग ६ प्रविशति ७ किरणा ,
पक्षे,-चरणा . ८ पर्वतानाम् ः पक्षे,-राशाम् * राहु १° राङ्क
११ सूर्यम् १२ चन्द्रम् १३ मार्दवस्य १४ दृष्टान्त १५ दुर्बला-
नाम् १६ निष्पैारुष १७ तृणकल्पमिल्यथै १८ दूरस्थोऽपि•
१९ प श्चाशिसाध्य तपो यस्य