स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ०२

विकिस्रोतः तः

॥ प्रह्लाद उवाच ॥ ॥
सर्वेषामपि भूतानां दैत्यदानवरक्षसाम् ॥
भवन्तो वै पूज्यतमा देवादीनां तथैव च ॥१॥
अनुज्ञया तु युष्माकं प्रसादात्केशवस्य हि ॥
अधिष्ठानं भगवतः कथयामि निबोधत ॥ २ ॥
पश्चिमस्य समुद्रस्य तीरमाश्रित्य तिष्ठति ॥
कुशस्थलीति या पूर्वं कुशेन स्थापिता पुरी ॥ ३ ॥
वहते गोमती यत्र सागरेण समंततः ॥
द्वारावतीति सा विप्रा आनर्त्तेषु प्रकीर्त्तिता ॥ ४ ॥
तस्यां वसति विश्वात्मा सर्वकामप्रदो हरिः ॥
कला षोडशसंयुक्तो मूर्तिं द्वादशकान्वितः॥ ५ ॥
तदेव परमं धाम तदेव परमं पदम् ॥
द्वारका सा च वै धन्या यत्राऽऽस्ते मधुसूदनः ॥ ६ ॥
यत्र कृष्णश्चतुर्बाहुः शंखचक्रगदाधरः ॥
नरा मुक्तिं प्रयास्यंति तत्र गत्वा कलौ युगे ॥ ७ ॥
तच्छ्रुत्वा वचनं तस्य प्रह्लादस्य महात्मनः ॥
विस्मयाविष्टमनसस्त- मूचुर्मुनिसत्तमाः ॥ ८ ॥
॥ ऋषय ऊचुः ॥ ॥
क्षयं यदुकुले याते भारे चोपहृते भुवः ॥
प्रभासे यादवश्रेष्ठः स्वस्थानमगमद्धरिः ॥ ९ ॥
द्वारावत्या प्लावितायां समंतात्सागरेण हि ॥
कथं स भगवांस्तत्र कलौ दैत्य प्रकीर्त्यते ॥ 7.4.2.१० ॥
कथयस्व सुरश्रेष्ठ कथं विष्णुर्महीतले ॥
स्थितश्चानर्त्तविषय एतद्विस्तरतो वद॥ ११॥
उग्रसेने नरपतौ प्रशासति वसुन्धराम् ॥
कृष्णो यदुपुरीमेतां शोभयामास सर्वतः ॥१२॥
रममाणे रमानाथे रामाभिरमणे हरौ ॥
एकदा तु समासीने सभायां यदुसत्तमे १३ ॥
कथाभिः क्रियमाणाभिर्विचित्राभिरनेकधा ॥
उद्धवः कथयामास प्रचारं यदुनंदनम् ॥ १४ ॥
यात्रायामनुसंप्राप्तं दुर्वाससमकल्मषम् ॥
स्थितं तं गोमतीतीरे चक्रतीर्थसमीपतः ॥ १५ ॥
तच्छ्रुत्वा सहसोत्थाय भगवान्रुक्मिणीगृहम् ॥
जगाम हृष्टमनसा विश्वशक्तिरधोक्षजः ॥ १६ ॥
आगत्योवाच वैदर्भीं संप्राप्तमृषिसत्तमम् ॥
तपोनिर्धूत पाप्माऽयमत्रिपुत्रो महातपाः ॥ १७ ॥
आतिथ्येनार्चितो विप्रो दास्यते च महोदयम्॥
गृहिणी न गृहे यस्य सत्पात्रागमनं वृथा ॥ १८ ॥
तस्य देवा न गृह्णंति पितरश्च तथोदकम्॥
तदागच्छस्व गच्छामो निमंत्रयितुमत्रिजम् ॥ १९ ॥
तथेत्युक्त्वा तु सा देवी रथमारुरुहे सती ॥
रथमारुह्य देवेशो रुक्मिण्या सहितो हरिः ॥
जगाम तत्र यत्रास्ते दुर्वासा मुनिसत्तमः ॥ 7.4.2.२० ॥
दृष्ट्वा ज्वलंतं तपसा कूले नदनदीपतेः ॥
कापालिकस्य पुरतः सुस्नातं वरसीकरैः ॥ २१ ॥
प्रणम्य भगवान्भक्त्या पप्रच्छाऽनामयं ततः ॥
पश्चाद्विदर्भतनया रुक्मिणी प्रणनाम तम् ॥ २२ ॥
दुर्वासाश्चापि तौ दृष्ट्वा दर्शनार्थमुपागतौ ॥
पप्रच्छ कुशलं तत्र स्वागतेनाभिनंद्य च ॥२३॥
॥ दुर्वासा उवाच ॥ ॥
कुशलं कृष्ण सर्वत्र कुत्र वासस्तवाऽधुना ॥
कति दारा धनापत्यमेतद्विस्तरतो वद ॥ २४ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
समुद्रेण प्रदत्ता मे भूभिर्द्वादशयोजना ॥
तस्यां निवसतो ब्रह्मन्पुरी हेममयी मम ॥ २५ ॥
प्रासादास्तत्र सौवर्णा नवलक्षाणि संख्यया ॥
तस्यां वसामि संहृष्टस्त्वत्प्रसादात्सुनिर्भयः ॥ २६ ॥
तच्छुत्वा वचनं तस्य विस्मयाविष्टमानसः ॥
प्रत्युवाच स दुर्वासाः प्रहस्य मधुसूदनम्॥२७॥
वसंति तावका ये च तेषां संख्या वदस्व भोः ॥
यावत्यश्च महिष्यस्ते पुत्राः परिजनास्तथा ॥२८॥
॥ श्रीकृष्ण उवाच ॥ ॥
ब्रह्मन्षोडशसाहस्रं भार्य्याश्चाष्टाधिका मम॥
तासां मध्येऽभीष्टतमा विदर्भाधिपतेः सुता ॥ २९ ॥
एकैकस्या दश सुताः कन्या चैका तथा मुने ॥
षट्पंचाशद्यदूनां तु कोट्यः परिजनो मम॥ 7.4.2.३० ॥
शेषाः प्रकृतयो ब्रह्मंस्तेषां संख्या न विद्यते ॥
तच्छ्रुत्वा चिंतयामास किमेतदिति विस्मितः ॥ ३१ ॥
अहो ह्यनंतवीर्यस्य मायामाश्रित्य तिष्ठतः ॥
अनंता सर्वकर्तृत्वे प्रवृत्तिर्दृश्यतामिय म्॥३२॥
॥ दुर्वासा उवाच ॥ ॥
स्वागतं ते महाबाहो ब्रूहि किं करवाणि ते ॥
दर्शनेन त्वदीयेन प्रीतिमेति च मे मनः॥३३॥
॥ श्रीकृष्ण उवाच॥ ॥
यदि प्रसन्नो भगवांस्तदागच्छस्व मे गृहम्॥
शिरसा धार्य्य पादांबु प्रयास्यामि पवित्रताम्॥ ३४॥
दुर्वासा उवाच॥
अक्षमासारसर्वस्वं किं मां नयसि माधव॥
नय मां यदि मद्वाक्यं करोषि सह भार्यया॥३५॥
प्रह्लाद उवाच॥
एवमस्त्विति चोक्त्वा स प्रस्थितः स्वरथेन हि।
तं दृष्ट्वा प्रस्थितं विष्णुं प्रहस्योवाच भर्त्सयन्॥ ३६ ॥
॥ दुर्वासा उवाच ॥ ॥
दुर्वाससं न जानासि मुञ्चेमान्हयसत्तमान् ॥
त्वं च भार्या तथा चेयं वहतं स्वरथेन माम् ॥ ३७ ॥
॥श्रीकृष्ण उवाच ॥ ॥
भगवन्यथा प्रब्रवीषि विप्र कर्तास्मि तत्तथा ॥
त्वया कृपालुना ब्रह्मन्पारितोऽहं सबांधवः॥ ३८ ॥
॥ प्रह्लाद उवाच॥ ॥
तौ तथा ऋषिवर्य्योऽसौ युक्तां देवीं रथे स्वके ॥
तथैव पुण्डरीकाक्षं याहि याहीत्यभाषत॥ ३९ ॥
तं दृष्ट्वा देवताः सर्वा वहमानं रथं हरिम् ॥
साधुसाध्विति भाषंत ऊचुः सर्वे परस्परम् ॥ 7.4.2.४० ॥
अहो ब्रह्मण्यदेवस्य परां भक्तिं प्रपश्यत ॥
स्कन्धे कृत्वा धुरं यो हि वहते भार्य्यया सह ॥ ४१ ॥
विकीर्यमाणः कुसुमैः सुरसंघैर्जनार्दनः ॥
जगाम स रथं गृह्य सभार्यो द्वारकां प्रति ॥ ॥ ४२ ॥
उह्यमाने रथे तस्मिन्रुक्मिणी तृषिताऽभवत् ॥
उवाच कृष्णं वैदर्भी श्रमव्याकुललोचना ॥ ४३ ॥
श्रान्ता भारपरिक्लिष्टा वहती कोपनं द्विजम् ॥
पाययित्वोदकं कान्त नय मां मन्दिरं स्वकम् ॥ ४४ ॥
तच्छ्रुत्वा वचनं तस्याः पादाक्रान्त्या धरातलात् ॥
आनयामास भगवान्गगां त्रिपथगां शुभाम् ॥ ४५ ॥
तद्दृष्ट्वा निर्मलं शीतं सुगंधं पावनं तथा ॥
पपौ पिपासिता देवी रुक्मिणी जाह्नवीजलम् ॥ ४६॥
पीतं तया जलं दृष्ट्वा चुकोप ऋषिसत्तमः ॥
जज्वाल ज्वलनप्रख्यः शशाप परमेश्वरीम् ॥ ४७ ॥
॥ दुर्वासा उवाच ॥
मामपृष्ट्वा जलं यस्मात्पीतवत्यसि रुक्मिणी॥
तस्मात्पानरता नित्यं भविष्यसि न संशयः॥ ४८॥
अवियुक्ता रथाद्यस्मान्मामपृष्ट्वा जलं त्वया॥
पीतं तस्माच्च कृष्णेन वियुक्ता त्वं भविष्यसि ॥ ४९ ॥
॥ प्रह्लाद उवाच ॥ ॥
एतावदुक्त्वा वचनं क्रोधसंरक्तलोचनः ॥
परित्यज्य रथं विप्रो भूमावेवावतिष्ठति ॥ 7.4.2.५० ॥
एवं शप्ता तदा देवी रुदोदातीव विह्वला ॥
उवाच कृष्णं करुणं कथं स्थास्ये त्वया विना ॥ ५१ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
आयास्ये प्रत्यहं देवि द्विकालं भवनं तव ॥
यो मां पश्यति चात्रस्थं स त्वामेव प्रपश्यति ॥ ५२ ॥
मां हि दृष्ट्वा नरो यस्तु त्वां न पश्यति भक्तितः ॥
अर्द्ध्ं यात्रा फलं तस्य भविष्यति न संशयः ॥ ५३ ॥
आश्वास्य च प्रियामेवं ब्राह्मणं यदुनन्दनः ॥
ततः प्रसादयामास दुर्वाससमकल्मषम् ॥ ५४ ॥
बाह्यो पवनमध्ये तु पूजयामास तं तथा ॥
अवनिज्य स्वयं पादौ विप्रपादावनेजनम् ॥
धारयामास शिरसा जगतः पावनो हरिः ॥ ५५ ॥
दत्त्वार्घ्यं गां च विप्राय मधुपर्कं स भक्तितः ॥
विधिवद्भोजयामास षड्रसेन द्विजोत्तमम् ॥ ५६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये दुर्वासो द्वारकानयन दुर्वासोदत्त रुक्मिणीशापवृत्तान्तवर्णनं नाम द्वितीयोऽध्यायः॥२॥