पृष्ठम्:Ganaratnamahodadhi.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गणरत्नमहोदधौ


किंस्विदिति वितर्के । स्थाणुरयं किंस्वित् पुरुषः ॥ प्रत्युत । इत्युक्तवै- परीत्ये । न दोषः पुनरुक्तेऽपि प्रत्युतेयमलङ्क्रिया ॥ यच्च । इत्येतदनवकॢ- प्त्यमर्षगर्हाश्चर्येषु । नावकल्पयामि । न मर्षयामि । गर्हामहे । आश्चर्य्यं यच्च तत्रभवान् वृषलं याजयेदिति ॥ क्वचन । इति कामप्रवेदने । कच्चन जीवति ते माता ॥ न । इति निषेधोपमानयोः । आसवः प्रतिपदं प्रमदानां नैक- रूपरसतामिव भेजे ॥ मृगो न भीम इति । अयमुपमानवाची छन्दस्येव । स चोपमानयदात्पर एव ॥ कमित्यनर्थकः पादपूरणे(१) । शिशिरं जीवनाय कम् ॥ सत्रा । समम् । साकम् । सार्धमिति सहवत् (२) ॥ जातु । इति कदाचिदर्थे । न जातु कामः कामानामुपभोगेन शाम्यति ॥ कृतमिति निवारणनिषेधयोः । वत्स कृतं साहसेन ॥ कृतं पुरूषशब्देन जातिमात्रावलम्बिना ॥ यदा । इति हेतौ । यदा जनैः सर्वगतस्त्वमुच्यस हति ॥ वदि । इति कृष्णपक्षे ॥ वदिति वियोगपादपूरणयोः ॥ वडिति टान्तं प्रशंसायां श्रीभोजः ॥ ऊमिति स्त्रीणां विकारवचने । ऊं नाहमेवं वेद्मि ॥ आहो । इति वितर्के यद्यर्थे च । स्था- णरयमाहो पुरुष इति ॥

अब्धेरम्भः स्थगितभुवनाभोगपातालकुक्षेः,

पोतोपायादिह हि बहवो लङ्घनेऽपि क्रमनते ।

आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं,

को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्पः ॥

नवै । इति निषेधावधारणे विशेषनिपेधे च । नवै स्त्रैणानि सख्यानि सन्ति । नैव स्त्रीणां सौहार्दानीत्यर्थः ॥ नवा उं एतन्म्रियसे न रिप्यसीति ॥ यावदिति साकल्यावधिमानावधारण(३)कालावधिषु । यावत्कार्यं ताव- -त्कुरु । सकलं कुर्वित्यर्थः ॥ यावद्गन्ता तावत्तिष्ठ । यावदमत्रं ब्राह्मणाना- मन्त्रयस्य । यावद्दत्तं तावद्भुक्तम् (४) । यावद्गिरः खे मरुतां चरन्ति ॥ अन्य- त्रापि दृश्यते ।

यावद्भयत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥


(१) पादपूरणेऽपि (२) एकद्रव्यगुणकर्मयोग इति यावत् ( ३) नानावधा- रणानवधारणपफा० -इति पा० (४) कियद्दत्तं कियद्भुक्तमिति नावधारयति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Ganaratnamahodadhi.pdf/१२&oldid=156582" इत्यस्माद् प्रतिप्राप्तम्