नामगणाध्यायः १
स कस्य स्तोतव्यः कतिविधगणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥
हे देव यस्तव महिमा स वाङ्मनसयोः पन्थानं मार्गमतीत एव । उल्ल-
ङ्घितवानेवेत्यर्थः । ग्रामश्च गन्तव्यः शीतञ्च । शीतात् कथं गम्यत इत्यर्थः ॥
पादपूरणेऽमि । भीमः पार्थस्तथैव च ॥ वा विकल्पानवकॢप्त्युपमानद्वन्द्वस-
मुच्चयेषु ॥ यवैवौ व्रीहिभिर्वा यजेत ॥ शस्त्रवेदमधिगम्य तत्त्वतः कस्य वेह
भुजवीर्य्यशालिनः ॥ जातां मन्ये तुहिनमथितां पद्मिनीं वान्यरूपाम् ॥ सो
वा शम्भोस्तदीया वा मूर्त्तिर्जलमयी मम । न तृतीयेत्यर्थः ॥ वायुर्वा दहनो
वा ॥ ह । अह । इति विनियोगे । त्वं ह ग्रामं गच्छ । अयमहारण्यं गच्छत ॥
आचारातिक्रमेऽपि । स्वयं ह ओदनं भुङ्क्ते । उपाध्यायं सक्तून् पाययति ॥
स्वयमह रथेन याति । उपाध्यायं पदातिं गमयति ॥ हः पादपूरणेऽपि ।
इति ह स्माहुराचार्य्याः । अह शब्दः पूजायामपि भवति । यथा । अह मा-
णवको भुडःक्ते ।। क्षेमार्थेऽपि शाश्वतः ॥ एव । इति नियमानियमौपम्योत्प्रे-
क्षासु । अहमेव स्वयमिदं वदामि ॥ अद्येव ॥ इहेव ॥ श्रीस्तवैव मेऽस्तु ।। तवेव
मेनादुहितुः कथञ्चिद्विवाहदीक्षातिलकं चकार । तमेवेति मनोरथमिवेत्यर्थः ॥
क्वेव भोक्ष्यसे । इत्यनवकॢप्तावित्येके ॥ एवमिति प्रकृतपरामर्शप्रकारे वार्थो-
पदेशनिर्देशनिश्चयाङ्गीकारैवार्थेषु ॥ एवंवादिनि देवर्षौ ॥ एवं कुरु ॥ मैवं
मंस्थाः ॥ अग्निरेवं विप्रः ॥ एवं पठ ॥ एवं तावत् ॥ एवमेतत् कः सन्देहः ॥
एवं कुर्मः ।। आहार्यमेव मृगनाभिपत्त्रमियानशेषेण तयोर्विशेषः ॥ नह । इति
प्रत्यारम्भे । नह भोक्ष्यस इति ॥ नहि । नवा । नो । इति निषेधे ।। नहि नहि
महिमानं प्राप्य तृप्यन्ति भूपाः । यद्वा । अभ्यासो हि कर्मणां कौशलमाव-
इति । नहि सकृन्निपातमात्रेणोदविन्दुरपि ग्रावणि निम्नतामादधाति ॥ अ-
सकृदित्यर्थः ॥ नवा कुर्य्यात् ॥ व्यञ्जनमस्वरं परं वर्णं नयेत् । यद्वा । अविप्र
इव भाषसे । विप्रवन्न ब्रूष इत्यर्थः ॥ दददपि गिरमन्तर्बुध्यते नो मनुष्यः ॥
चनेति चिदर्थे । किमो विभक्तिप्रत्ययान्तात् परएव अस्य प्रयोगो भवति ।
तद्यथा । कश्चन । काचन । किंचन । केचन । क्वचन । कदाचन । कथंच-
नेति ॥ हि । इति स्फुटार्थनिश्चयहेतुषु । को ह्यबालिशो हस्तगतं पादगतं
कुर्य्यात् ॥ तार्क्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दानेरयुवा वनावलीम् ॥