पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)/अध्यायः ०९

विकिस्रोतः तः
← अध्यायः ०८ पद्मपुराणम्/खण्डः ७ (क्रियाखण्डः)
अध्यायः ०९
वेदव्यासः
अध्यायः १० →

जैमिनिरुवाच-
भूय एव गुरो ब्रूहि गङ्गामाहात्म्यमुत्तमम् ।
गङ्गाकथामृतं पातुं माधुर्यात्पुनरिष्यते १।
व्यास उवाच-
तदप्यहं ब्रवीमि त्वां गङ्गाभक्तो यतो भवान् ।
तौ पादौ सफलौ नॄणां जाह्नवीतटगामिनौ २।
गङ्गाकल्लोलनिनदश्राविणौ श्रवणौ च तौ ।
सा जिह्वा या च जानाति स्वादुभेदं तदंभसः ३।
ते नेत्रे जाह्नवी चारुतरंगदर्शने च ते ।
तल्ललाटमिति प्रोक्तं गङ्गामृत्पुण्ड्रधारि यत् ४।
तौ हस्तौ जाह्नवी तीरे हरि पूजापरायणौ ।
शरीरं सफलं तच्च विमले जाह्नवी जले ५।
पतितं तद्द्विजश्रेष्ठ चतुर्वर्गफलप्रदम् ।
स्वर्गस्थाः पितरः सर्वे गच्छंतो जाह्नवीतटे ६।
संदृश्य हृष्टाः शंसंति वदंत इति जैमिने ।
तत्पुण्यं कृतमस्माभिः सद्गतिप्राप्तये पुरा ७।
भविष्यत्यक्षयं तच्च यतः पुत्रोऽयमीदृशः ।
अनेन गाङ्गैः सलिलैर्वयं संप्रति तर्पिताः ८।
यास्यामः परमं धाम दुर्ल्लभं यत्सुरैरपि ।
गङ्गायां यानि द्रव्याणि दास्यत्यस्माकमात्मजः ९।
अस्मभ्यं तानि सर्वाणि भविष्यंत्यक्षयाणि वै ।
नरकस्थाश्च पितरः सर्वदुःखसमन्विताः १०।
वदंतीति सुतं दृष्ट्वा गच्छंतं जाह्नवीतटम् ।
कृतानि यानि पापानि नरकक्लेशदानि वै ११।
यास्यंति संक्षयं तानि पुत्रस्यापि प्रसादतः ।
विमुक्ता नरकक्लेशैर्वयं सर्वे सुदुःसहैः १२।
अथ पुत्रप्रसादेन यास्यामः परमां गतिम् ।
यात्रां विधाय यो मर्त्यो गृहं मोहान्निवर्तते १३।
निराशाः पितरस्तस्य यांति सर्वे यथा गताः ।
आमिषं मैथुनं चैव दोलामश्वं गजं तथा १४।
उपानहं चातपत्रं गंगायात्रासु वर्जयेत् ।
अध्वश्रमोद्भवं दुःखं दुष्करं न हि मन्यते १५।
गृहे पद्मसुखं तत्र गङ्गास्नाने स्मरेन्न च ।
असत्यभाषणं चैव पाखंडसंगमेव च १६।
द्विर्भोजनं च कलहं गंगायात्रासु वर्जयेत् ।
परनिंदां च लोभं च गर्वं च क्रोधमत्सरौ १७।
अत्यंतहास्यशोकं च गंगायात्रासु वर्जयेत् ।
मंचसुप्तमिवात्मानं चिंतयेद्भूमिशायिनम् १८।
गंगानाम सुनामानि वदेद्गच्छञ्जनः पथि ।
माहात्म्यं जाह्नवी देव्याः सर्वपापप्रणाशनम् १९।
सुखदं मोक्षदं चैव कथयन्पथि गच्छति ।
गङ्गे देवि जगन्मातर्देहि संदर्शनं मम २०।
वचोभिः कोमलैरेभिः कुर्याच्छ्रमनिवारणम् ।
हा कथं सदनं त्यक्तमागतं वा कथं मया २१।
श्रमैरिति वदेद्यस्तु संपूर्णं तत्फलं नहि ।
क्व पर्यंङ्कः क्व मे पत्नी क्व च मे च सुहृद्गृहम् २२।
स्वपामि प्रांतरे भूमौ कथं वाहं समागतः ।
धनधान्यादिवस्तूनां का गतिर्वा गृहे मम २३।
कियद्भिर्दिवसैर्भूयो गमिष्याम्यहमालयम् ।
इति चिंताकुला ये च पथि गच्छंति मानवाः २४।
गंगास्नानफलं तेषां संपूर्णं न भवेद्द्विज ।
गङ्गे गंतुं प्रतीतीरे यात्रेयं विहिता तव २५।
निर्विघ्नां सिद्धिमाप्नोमि त्वत्प्रसादात्सरिद्वरे ।
इमं मंत्रं समुच्चार्य यात्राकाले विशेषतः २६।
हर्षितो निलयाद्गच्छेद्वैष्णवैः सह जैमिने ।
नातिवेगेन गंतव्यं न तथा च शनैः शनैः २७।
गङ्गायात्रासु कर्त्तव्यं नान्यत्कर्म विचक्षणैः ।
गंगातीरे प्रयागे तु वाणिज्यप्रमुखानि च २८।
कार्याणि कुरुते यस्तु तत्पुण्यार्द्धं विनश्यति ।
जन्मजन्मार्जितं पापं स्वल्पं वा यदि वा बहु २९।
गंगादेवीप्रसादेन सर्वं मे यास्यति क्षयम् ।
इत्युक्त्वा परमप्रीतः प्राज्ञो गङ्गातटं व्रजेत् ३०।
दृष्ट्वा च मातरं गङ्गामिमं मंत्रमुदीरयेत् ।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ३१।
साक्षाद्ब्रह्मस्वरूपां त्वामपश्यमिति चक्षुषा ।
देवि त्वद्दर्शनादेव महापातकिनो मम ३२।
विनष्टमभवत्पापं जन्मकोटिसमुद्भवम् ।
इत्युक्त्वा सकलं देहं निपात्य पृथिवीतले ३३।
प्रणमेज्जाह्नवीं देवीं भक्तिभावसमन्वितः ।
ततः स्रोतःसमीपे च बद्धाञ्जलिरिमं पुनः ३४।
पठेन्मंत्रं भक्तिभावैः सुप्रीतो द्विजसत्तम ।
गंगे देवि जगद्धात्रि पादाभ्यां सलिलं तव ३५।
स्पृशामीत्यपराधं मे प्रसन्ना क्षंतुमर्हसि ।
स्वर्गारोहणसोपानं त्वदीयमुदकं शुभे ३६।
अतः स्पृशामि पादाभ्यां गंगे देवि नमो नमः ।
ततस्तु मस्तके धृत्वा गांगेयं वारि भक्तितः ३७।
स्नानार्थं प्रविशेत्स्रोतः प्राज्ञो गंगेति कीर्तयन् ।
त्वत्कर्दमैरतिस्निग्धैः सर्वपापप्रणाशनैः ३८।
मया संलिप्यते गात्रं मातर्मे हर पातकम् ।
गङ्गाकर्दमलिप्ताङ्गो गङ्गागङ्गेति कीर्तयन् ३९।
सर्वकल्मषनाशिन्यां गङ्गायां स्नानमाचरेत् ।
भूयः पूर्वोक्तमन्त्रेण गृहीत्वा मृत्तिकां ततः ४०।
वक्ष्यमाणेन मन्त्रेण गृहीत्वा मृत्तिकां पुनः ।
वक्ष्यमाणेन मंत्रेण भक्तितः स्नानमाचरेत् ४१।
ब्रह्मस्वरूपे हे गङ्गे स्नानमाचर्यते मया ।
त्वदीये निर्मले तोये यथोक्तफलदा भव ४२।
ततो निजेच्छया विप्र गङ्गायां लोकमातरि ।
स्नानं समाचरेत्प्राज्ञो गङ्गानारायणं स्मरन् ४३।
एवं स्नात्वा तु गङ्गायां गात्रं वस्त्रेण मार्जयेत् ।
परिधेयांबरांबूनि गङ्गास्रोतसि न त्यजेत् ४४।
न दंतधावनं कुर्याद्गङ्गागर्भे विचक्षणः ।
कुर्याच्चेन्मोहतः पुण्यं न गङ्गास्नानजं लभेत् ४५।
प्रभातेऽन्यत्र तां कृत्वा दंतकाष्ठादिकक्रियाम् ।
रात्रिवासं परित्यज्य गङ्गायां स्नानमाचरेत् ४६।
बाह्यभूमिमगत्वा यो गङ्गायां स्नानमाचरेत् ।
गङ्गास्नानफलं सोऽपि संपूर्णं च लभेन्नहि ४७।
स्नात्वा च गङ्गामृत्पुंड्रं स्थाने स्थाने नयेद्बुधः ।
ततः स्थिरमनाः कुर्याद्विधिना तर्पणादिकम् ४८।
गाङ्गेयैरुदकैर्यस्तु कुरुते पितृतर्पणम् ।
पितरस्तस्य तृप्यंति वर्षकोटिशतावधि ४९।
गङ्गायां कुरुते यस्तु पितृश्राद्धं द्विजोत्तम ।
पितरस्तस्य तिष्ठंति संतुष्टास्त्रिदशालयम् ५० 7.9.50।
समाप्य स्नानकर्माणि गङ्गायां समुपोषितः ।
दानं देवार्चनं चैव जयोऽन्याश्च क्रियास्तथा ।
कृतास्तु यास्तु गङ्गायां क्षयस्तासां न विद्यते ५१।
समाप्य स्नानकर्माणि गंगायां समुपोषितः ।
कृतपंचमहायज्ञो गंगापूजां समाचरेत् ५२।
गंगायाः प्रतिमां देव्याः श्रीविष्णोः प्रतिमां तथा ।
नालिकेरोदकैर्दिव्यैः स्नापयेद्भक्तितो बुधः ५३।
जाह्नवीप्रतिमाभावान्नालिकेरोदकानि वै ।
निक्षिपेज्जाह्नवीतोये जाह्नवीं हृदि संस्मरन् ५४।
दिव्यैर्गंधैश्च दीपैश्च घृतपूर्णसमुज्ज्वलैः ।
धूपैः सुवासितैश्चैव नानापुष्पमनोहरैः ५५।
नानाफलैः सुपक्वैश्च नैवेद्यैरुत्तमास्तथा ।
पाद्यार्घाचमनीयैश्च तांबूलैः खादिरान्वितैः ५६।
अन्यैरप्युपहारैश्च विशिष्टैर्निजभक्तितः ।
स्तवैर्नाना च नैवेद्यैर्गङ्गां विष्णुं च पूजयेत् ५७।
ततः संपूजितां देवीं विष्णुं च परमेश्वरम् ।
अंगप्रदक्षिणां कुर्याद्भक्त्या वारत्रयं बुधः ५८।
अथ स्थित्वा निराहारोऽपरेहनि सरिद्वरे ।
भोक्ष्यामि जह्नुतनये शरणं मे भवानघे ५९।
एवं संकल्प्य मतिमान्कर्मणा मनसा गिरा ।
रात्रौ जागरणं कुर्याज्जितनिद्रो ऽतिहर्षितः ६०।
अशक्त्या च द्विजश्रेष्ठ फलाहारो भवेदधः ।
अन्नमात्रं न भुंजीत न च कुर्याद्धि भोजनम् ६१।
प्रातर्गङ्गां च विष्णुं च पुनरभ्यर्च्य जैमिने ।
विप्राय दक्षिणां दद्याद्विभवस्यानुरूपतः ६२।
अर्चनं जागरं चैव यत्कृतं पुरतस्तव ।
अच्छिद्रमस्तु तत्सर्वं त्वत्प्रसादात्सरिद्वरे ६३।
इत्युक्त्वा तां नमस्कृत्य कृतनित्यक्रियो द्विजः ।
ततः सबंधुभिः सार्द्धं पारणं स्वयमाचरेत् ६४।
तीर्थोपवासमेवं यः कुरुते जाह्नवीतटे ।
तस्य पुण्यफलं वत्स वदतो मे निशामय ६५।
जन्मांतरार्जितैः पापैर्विमुक्तो विष्णुरूपधृक् ।
विष्णोः पुरं समासाद्य विष्णुना सह मोदते ६६।
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ।
स्थित्वा विष्णुपुरं सर्वं सुखं भुंक्ते सुदुर्ल्लभम् ६७।
ततो नारायणादेशाद्ब्रह्मलोकं स गच्छति ।
ब्रह्मलोके सुखं भुंक्ते दुर्ल्लभं यत्सुरैरपि ६८।
तावत्कालं ब्रह्मलोके स्थित्वा ब्रह्मक्षयात्ततः ।
महादेवं ततो गच्छेद्रथमारुह्य शोभनम् ६९।
सुखं नानाविधं तत्र भुङ्क्तेऽत्यन्तसुदुर्ल्लभम् ।
गाणपत्यमवाप्नोति किमन्यैर्बहुभाषितैः ७०।
तावत्कालं शिवपुरे स्थित्वा वै पुण्यवान्नरः ।
इन्द्रलोकं ततो गच्छेद्द्वितीय इव वासवः ७१।
तेन पुण्यात्मना सार्द्धं वसेदेकासने ततः ।
तत्र भुक्त्वाखिलान्कामान्कल्पकोटिशतावधि ७२।
सूर्यलोकं ततो गच्छेद्द्वितीय इव चन्द्रमाः ।
तत्रामृतानि भुक्त्वा वै चिरं चन्द्रस्य सन्निधौ ७३।
पुनरागत्य पृथिवीं चक्रवर्ती नृपो भवेत् ।
पालयित्वा चिरं पृथ्वीं जित्वा वै सकलान्रिपून् ७४।
आयुषोंऽते च गङ्गायां सुखं मृत्युमवाप्नुयात् ।
भूयः स एवमारुह्य विमानं सुमहायशाः ७५।
पुरं भगवतो याति दैवतैरपि दुर्ल्लभम् ।
तत्र भुक्त्वाखिलान्भोगान्मन्वंतरचतुष्टयम् ७६।
परमं ज्ञानमासाद्य दुर्ल्लभं मोक्षमाप्नुयात् ।
जाह्नवीतीरयात्रायां दैवाद्यस्य भवेत्पथि ७७।
पंचता सोऽपि परमं धाम गच्छेन्न संशयः ।
सत्यधर्मो नाम राजा धार्मिकश्च प्रियंवदः ७८।
त्रेताद्वापरसंधौ च बभूव क्षितिमण्डले ।
विजया नाम महिषी तस्य भूमिपतेरभूत् ७९।
सुंदरी शीलयुक्ता सा पतिसेवापरायणा ।
सप्तवर्षसहस्राणि भुक्त्वा वसुमतीमिमाम् ८०।
कदाचित्प्राप्तकालोऽसौ सदारः पंचतां गतः ।
ततो यमभटैर्बद्धौ दंपती तौ भयंकरौ ८१।
दुःखप्रदेन मार्गेण जग्मतुर्यममंदिरम् ।
तौ दृष्ट्वा धर्मराजोऽपि चित्रगुप्तमुवाच ह ८२।
एतयोः सर्वकर्माणि चित्रगुप्त विचारय ।
तेनाज्ञप्तश्चित्रगुप्तस्तयोः कर्माणि जैमिने ८३।
मूलाद्विचारयामास प्राह चेति कृताञ्जलि ।
चित्रगुप्त उवाच-
एतयोः सकलं कर्म शृणु राजन्वदाम्यहम् ८४।
शुभं वाप्यशुभं कर्म यदेताभ्यां कृतं भुवि ।
किंचिदस्या नयोपायं वदामि तदहं शृणु ८५।
एकादा त्रासितो व्याघ्रैः कश्चिदेको मृगः प्रभो ।
वनाज्जीवनरक्षार्थमागतोऽस्य सभां प्रति ८६।
तमायांतं समालोक्य भूयोऽयं प्राप्तकौतुकः ।
जघने स्वयमुत्थाय खड्गेन तरसा मृगम् ८७।
जघान ह मृगं राजा शरणागतमप्यमुम् ।
तस्मात्सदारोभूपोऽयं दंडनीयस्त्वया प्रभो ८८।
यावंति तस्य रोमाणि संस्थितानि कलेवरे ।
मन्वंतरसहस्राणि मन्वंतरशतानि च ८९।
कोटिकोटिकुलैर्युक्ता नारकी स्यान्न संशयः ।
शरणागतरक्षां यः प्राणैरपि धनैरपि ९०।
कुरुते यो नरो ज्ञानी तस्य पुण्यं निशामय ।
सर्वपापैर्विनिर्मुक्तो ब्रह्महत्यामुखैरपि ९१।
आयुषोऽन्ते व्रजेन्मोक्षं योगिनामपि दुर्ल्लभम् ।
यमाज्ञया ततो दूतैः सदारोऽसौ महीपतिः ९२।
असिपत्रवने घोरे स्थापितोऽत्यंतदुःखदे ।
असितुल्यानि पत्राणि यतस्तेषां च शाखिनाम् ९३।
असिपत्रवनं प्राहुरतस्तद्वै मनीषिणः ।
स्थित्वासिपत्रविपिने युगकोटिशतानि च ९४।
सदारो नरकं भेजे व्याघ्रभक्ष्याह्वयं ततः ।
निरयं तं प्रविशति सर्वोपद्रवसंयुतम् ९५।
भवेच्च भक्ष्यो व्याघ्रेण व्याघ्रभक्ष्यस्ततः स्मृतः ।
युगकोटिसहस्राणि स्थित्वा तत्र स भूपतिः ९६।
सदारोऽजनि पापांते भेकयोनिं गतः क्षितौ ।
जातिस्मरौ ततस्तौ तु भेकीभेकौ सुदुःखितौ ९७।
तीरे तस्थतुरेकस्मिन्सततं कीटभोजिनौ ।
अथैकदा तेन पथा पुण्याहं प्राप्य मानवाः ९८।
गच्छंति जाह्नवीतीरं तांस्तौ ददृशतुर्द्विज ।
भेक उवाच-
वर्षाभ्वि मोहाद्यत्सर्वं पापं कर्म कृतं मया ९९।
अद्यापि कर्मणा तेन दुःखमावां न मुंचति ।
त्यक्त्वा शरीरं गंगायां मुक्ताः स्युः पापिनोऽपि च १०० 7.9.100।
तथाप्येवं विधं दुःखमनुभूयावहे कथम् ।
गंगायां त्यक्तुमिच्छामि संप्रत्येतत्कलेवरम् १०१।
का युक्तिर्ब्रूहि तां कांते तितीर्षुर्दुःखसागरम् ।
वर्षाभ्वी तद्वचः श्रुत्वा प्राहेति विनयान्विता १०२।
वर्षाभ्व्युवाच-
दुःखं न शक्यते सोढुं स्वामिन्नेतद् द्रुतं कुरु ।
ततस्तौ दंपती विप्र स्मृत्वा गंगां शुभप्रदाम् १०३।
सहसा चक्रतुर्यात्रां मरणायोपहर्षितौ ।
अथैतौ पथि गच्छंतौ चिरकालं बुभुक्षितौ १०४।
अपश्यत्पापकृत्क्ष्वेडः कालसर्पो भयंकरः ।
कालसर्प्प उवाच-
दर्दुरौ पापिनौ येथाः प्राप्तकालौ युवां ततः १०५।
अथ नूनं भक्षितव्यौ क्षुधितेन मया युवाम् ।
ततस्तावतिसंत्रस्तौ दंपती दुःखभागिनौ १०६।
इत्यूचतुर्वचो भक्त्या कालसर्पं पुरोगतम् ।
नास्ति मृत्युभयं सर्प स्वल्पमप्यावयोर्हृदि १०७।
अहमासं पुरा राजा सत्यधर्माह्वयः क्षितौ ।
इयं च विजया नाम महिषी संस्थिता मम १०८।
मया दुरात्मना मोहान्नितः शरणं गतः ?।
तेनैव कर्मणा भुक्तं चिरं दुःखं यमालये १०९।
भोक्तुं स्वकर्मणः शेषं भेकयोनौ स्त्रिया सह ।
सोऽहं यातोऽस्मि पापेन कृतं कर्म न मुंचति ११०।
सत्यमावां जिगमिषू परमं धाम पन्नग ।
व्रजावो जाह्नवीतीरं शरीरत्यागहेतवे १११।
त्यजाविवेकतां सर्प नरकक्लेशदायिनीम् ।
आवां संखाद्य भवतो भविष्यति सुखं कियत् ११२।
आवयोर्हृदये विष्णुस्तवापि हृदये हरिः ।
अतएव त्वया सार्द्धं शत्रुता का भुजंगम ११३।
प्राणिहिंसा न कर्तव्या कदापि च विचक्षणैः ।
क्रियतेऽपि च तद्धिंसां विदधाति स्वयं विधिः ११४।
आयुः पुत्राश्च दाराश्च संपदश्च यशांसि च ।
हिंसां दत्वा मनुष्याणां हरेद्दुष्टो विधिः स्वयम् ११५।
किं जपैः किं तपोभिर्वा किं दानैः किमु चाध्वरैः ।
हिंसेति वर्णद्वितयं यस्यास्ति हृदये सदा ११६।
यः प्राणिहिंसको मर्त्यः स एव हरिहिंसकः ।
सर्वप्राणिशरीरस्थो भगवान्कमलापतिः ११७।
आत्मानं बहुधा सृष्ट्वा भगवान्भूतभावनः ।
संसारकौतुकागारे क्रीडेच्छिशुरिव स्वयम् ११८।
शरीरिणः शरीरं हि निलयः परमात्मनः ।
परमात्मा स्वयं विष्णुरतो हिंसां विवर्जयेत् ११९।
परप्राणविनाशेन चात्मतुष्टिर्विधीयते १२०।
क्षणं स्यादात्मनस्तुष्टिरन्यस्य प्राणसंक्षयः ।
चरित्रमेतल्लोकानामत्यद्भुतमिव क्षितौ १२१।
आत्मतृप्तिं प्रकुर्वंति परं हत्वातियत्नतः ।
धीमान्नात्मपरिज्ञानं कदाचित्कुरुते नहि १२२।
अहं विष्णुरसौविष्णुरिति चेतसि भावयेत् ।
परदुःखेन यो दुःखी सुखी यश्च परश्रिया १२३।
संसारेऽस्मिन्स विज्ञेयः साक्षादेव हरिः स्वयम् ।
धिगस्तु तत्सुखं नॄणां मोहवंचितचेतसाम् १२४।
परहिंसाविधानेन सुखं यत्स्याद्भुजंगम ।
सुखानि वापि दुःखानि दीयंते यानि जंतवे १२५।
अचिरेणैव तानि स्म लभंते भुवि मानवाः ।
तस्माद्धिंसां परित्यज्य भुजंगम सुखी भव १२६।
त्वयि प्रसन्ने गच्छावः पारं दुःखमहोदधेः ।
सर्प उवाच-
यदा स्यात्परहिंसायां नूनं मे नातिपातकम् १२७।
तदा कथमहो सृष्टै वेधसा भक्ष्यभक्षकौ ।
परहिंसा न कर्तव्या सत्यमेतत्त्वयोदितम् १२८।
किंतु सर्वेषु भक्ष्येषु हिंसा संभाव्यते नहि ।
नारायणो विश्वरूपः सत्यमेतन्न संशयः १२९।
भक्ष्यभक्षकसंयुक्तं स्वयमेव ससर्ज ह ।
सृजति स्वयमात्मानमात्मानं रक्षति स्वयम् १३०।
आत्मानं स्वयमेवात्ति सृष्टिरेवंविधा हरेः ।
शक्तोऽहं किं युवां हंतुं कालरूपी स्वयं विधिः १३१।
संप्रति प्रेषयामास कार्येस्मिन्मां स्वयं हरिः ।
युवां ससर्ज यो देवो यश्च रक्षति वां सदा १३२।
कालरूपी स एवाद्य हंति हेतुं विधाय माम् ।
व्यास उवाच-।
ततस्तेन भुजंगेन भक्षितौ तौ च दंपती १३३।
गङ्गा गंगेति जल्पंतौ महत्या क्षुधया पथि ।
जाह्नवीतीरयात्रायां पादेपादे जनाविमौ १३४।
अश्वमेधाख्य यज्ञानां प्राप्तवंतौ महाफलम् ।
तस्मादेनौ महात्मानौ बह्वश्वमेधधारिणौ १३५।
एतयोः सदृशो नास्ति शतक्रतुरहं यतः ।
निजाधिकारेणैवान्यमवलंब्य पुरंदरः १३६।
अर्घ्यहस्तः पादचारी वृतो देवैः समाययौ ।
अथ रम्भोर्वशी चैव सुंदर्योऽन्याश्च हर्षिताः १३७।
अन्योन्यं कथयामासुर्निजयौवनगर्विताः ।
अयं पुण्यात्मनां श्रेष्ठो रसज्ञोऽत्यंतसुन्दरः १३८।
आयातोऽमुं करिष्यामि स्ववशं सेवितैः स्वकैः ।
काचित्कांचिद्वदत्येतज्जानामि सकलां कलाम् १३९।
अतएव भविष्यामि कांताहमस्य भूपतेः ।
काचित्कांचिदिति ब्रूयात्ते शक्रोपि वशो मम १४०।
किमत्र चित्रं वशगो भूपालोऽयं भविष्यति १४१।
भर्त्ता ममायं च पतिर्ममायं स्वामी ममायं मम नाथ एषः ।
इतीव सर्वाः परमप्रमोदैर्वदंति नार्योखिलसद्गुणज्ञाः १४२।
उच्चावचं विप्र निशम्य तासां जगाद काचिद्गुणिनी रसज्ञा ।
सौदास्यकांतां नृपतिः स्वयं यां भजत्ययं किं कलहेन नार्यः १४३।
सुन्दर्य्यस्तास्ततः सर्वाः संत्यज्य कलहं द्विज ।
आजग्मुर्हृदयोत्साहैः सर्वाभरणभूषिताः १४४।
अथ तं नृपतिश्रेष्ठ सदारं गतकल्मषम् ।
पाद्याद्यैः पूजयामासुः प्राहेति च पुरंदरः १४५।
रथे निवेशयामास पुष्पके स्त्रीसमन्वितम् ।
भेरीमृदंगमधुरी डिंडिमानकनिःस्वनैः १४६।
करकं कणनादैश्च करतालस्वनैस्तथा ।
जयशब्दैश्च देवानां नाकः शब्दमयोऽभवत् १४७।
देवाङ्गना चारुहस्त श्वेतचामरमारुतैः ।
वीजितः सरथारूढः सदारस्त्रिदिवं ययौ १४८।
ततः शक्रः स्वयं तस्मै सत्यधर्माय भूभुजे ।
दत्तवान्निजासनार्द्धं शुभो वै क्षयशंकया १४९।
शक्रेण सह भूपोऽसौ वसन्नेकासने सदा ।
शक्रत्वमकरोत्स्वर्गे केशवस्यानुकंपया १५० 7.9.150।
युगकोटिसहस्राणि दिवि भुक्त्वाखिलं सुखम् ।
रथमारुह्यवैकुंठं ययौ भगवदाज्ञया १५१।
तत्र मन्वंतरं भुक्त्वा सर्वभोगमनोरमम् ।
परमं ज्ञानमासाद्या सदारो मोक्षमाप्तवान् १५२।
जाह्नवीतीरयात्रायां शरीरं त्यजतः पथि ।
फलमेवंविधं विप्र मया सर्वं प्रकीर्तितम् १५३।
जाह्नवीतीरगमने मुनिभिस्तत्वदर्शिभिः ।
न कालनियमः प्रोक्तो नारदाद्यैर्महर्षिभिः १५४।
यदायदा द्विजश्रेष्ठ गङ्गायां स्नानमाचरेत् ।
तदातदाऽक्षयं पुण्यं लभते मानवो ध्रुवम् १५५।
गंगा सर्वाणि पापानि नाशयंतीति निश्चयः ।
कुर्यात्पुनःपुनः पापं न च गंगा पुनाति तम् १५६।
पापबुद्धिं परित्यज्य गंगायां लोकमातरि ।
स्नानं कुरुत हे लोका यदि सद्गतिमिच्छथ १५७।
यत्पुण्यं गंगास्नानात्तु मानवानां भवेद्दिवज ।
तत्पुण्यं प्राप्यते विप्र कर्मभिः कैः सुदुस्तरैः १५८।
आसाराणां भूमिरेणोः संख्यां कर्तुं तु शक्यते ।
भागीरथीगुणास्ते न शक्या वक्तुं न च द्विज १५९।
विचार्य सर्वशास्त्राणि त्वदीयानि मयोच्यते ।
गंगांभसि सकृत्स्नात्वा मोक्षमाप्नोति मानवः १६०।
स्नानं कूपजलेऽपि यस्तु कुरुते गंगां विचिंत्य प्रभुं देवानां सकलार्त्तशोकदुरितत्रासौघविध्वंसिनीम् ।
मुक्तः सोऽपि समस्तपातकचयैर्गोविप्रहत्यादिभिर्गच्छेद्विष्णुपुरं समस्तसुखदं गंगाप्रसादाद्दिवज १६१।
इति श्रीपद्मपुराणे क्रियायोगसारे गंगामाहात्म्ये नवमोऽध्यायः ९ ।