निर्वाणोपनिषत्

विकिस्रोतः तः



॥ निर्वाणोपनिषत् ॥ (ऋग्वेदीय संन्यासोपनिषत्)


निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् ।
त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥


ॐ वाण्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् ।
आविरावीर्म एधि । वेदस्य मा आणीस्थः ।
श्रुतं मे मा प्रहासीः। अनेनाधीतेनाहोरात्रान्सन्दधामि ।
ऋतं वदिष्यामि । सत्यं वदिष्यामि ।
तन्मामवतु । तद्वक्तारमवतु । अवतु मामवतु वक्तारम्।
ॐ शान्तिः शान्तिः शान्तिः ॥


अथ निर्वाणोपनिषदं व्याख्यास्यामः । परमहंसः सोऽहम् ।
परिव्राजकाः पश्चिमलिण्गाः । मन्मथक्षेत्रपालाः । गगनसिद्धान्तः।
अमृतकल्लोलनदी । अक्षयं निरञ्जनम् । निःसंशय ऋषिः ।
निर्वाणो देवता । निष्कुलप्रवृत्तिः । निष्केवलङ्य़ानम् ॥१-११॥


ऊर्ध्वाम्नायः । निरालम्ब पीठः । संयोगदीक्षा ।
वियोगोपदेशः । दीक्षासन्तोषपानं च । द्वादशावदित्यावलोकनम् ।
विवेकरक्षा । करुणैव केलिः । आनन्दमाला ।
एकान्तगुहायां मुक्तासनसु-खगोष्टी । अकल्पितभिक्षाशी ।
हंसाचारः ।सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् ॥१२-२४॥


धैर्यकन्था । उदासीनकौपीनम् । विचारदण्डः ।
ब्रह्मावलोकयोगपट्टः । श्रियां पादुका । परेच्छाचरणम् ।
कुण्डलिनीबन्धः। परापवादमुक्तो जीवन्मुक्तः । शिवयोगनिद्रा च ।
खेचरीमुद्रा च । परमानन्दी । निर्गणगुणत्रयम् । विवेकलभ्यम्।
मनोवागगोचरम् । अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् ।
तथा देहादिसण्घातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् । विष्णुविध्यादिशताभिधानलक्ष्यम् ।
अण्कुशो मार्गः । शून्यं न संकेत: । परमेश्वरसत्ता ।
सत्यसिद्ध-योगो मठः । अमरपदं न तत्स्वरूपम् । आदिब्रह्मस्वसंवित् ।
अजपा गायत्री । विकारदण्डो ध्येयः॥


मनोनिरोधिनी कन्था । योगेन सदानन्दस्वरूपदर्शनम् ।
आनन्दभिक्षाशी । महाश्मशानेऽप्यानन्दवने वासः । एकान्तस्थानम् ।
आनन्दमठम् । उन्मन्यवस्था । शारदा चेष्टा । उन्मनी गतिः ।
निर्मलगात्रम् । निरालम्बपीठम् । अमृतकल्लोलानन्दक्रिया ।
पाण्डरगगनमहासिद्धान्तः । शमदमा-दिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता ।
परावरसंयोगः । तारकोपदेशाः । अद्वैतसदानन्दो देवता॥


नियमः स्वातरिन्द्रियनिग्रहः । भयमोहशोकक्रोधत्यागस्त्यागः ।
परावरैक्यरसास्वादनम् । अनियामकत्वनिर्मलशक्तिः।
स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसम्पुटित प्रपञ्चच्छेदनम् । तथा पत्राक्षाक्षिकमण्डलुः भवाभावदहनम् ।
बिभ्रत्याकाशाधारम् । शिवं तुरीयं यङ्य़ोपवीतम् । तन्मया शिखा ।
चिन्मयं चोत्सृष्टिरण्डम् । संततोक्षिकमण्डलुम् । कर्मनिर्मूलनं कन्था।
मायाममताहंका-रदहनम् । स्मशाने अनाहताण्गी । निस्त्रैगुण्यस्वरूपानुसन्धानं समयं ।
भ्रान्तिहननम् । कामादिवृत्ति-दहनम् । काठिन्यदृढकौपीनम् ।
चिराजिनवासः । अनाहतमन्त्रः । अक्रिययैव जुष्टम् । स्वेच्छाचार-स्वस्वभावो मोक्षः ।
परं ब्रह्म प्लववदाचरणम् । ब्रह्मचर्यशान्तिसंग्रहणम् ।
ब्रह्मचर्याश्रमेऽधीत्य वानप्रस्थाश्रमेऽधीत्या स सर्वसंविन्न्यासं संन्यासम् ।
अन्ते ब्रह्माखण्डाकारम् । नित्यं सर्वसन्देहनाशनम् ॥४९-६०॥


एतन्निर्वाणदर्शनं । शिष्यं पुत्रं विना न देयमित्युपनिषत् ॥६१॥


ॐ वाण्मे मनसीति शान्तिः ॥


इति निर्वाणोपनिषत्समाप्ता ।

अधिकाध्ययनाय[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=निर्वाणोपनिषत्&oldid=58194" इत्यस्माद् प्रतिप्राप्तम्