पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १४२

विकिस्रोतः तः
← अध्यायः १४१ पद्मपुराणम्
अध्यायः १४२
वेदव्यासः
अध्यायः १४३ →

श्रीमहादेव उवाच।
कंबुतीर्थे नरः स्नात्वा कृत्वा वा पितृतर्पणम् ।
अर्चयेद्देवदेवेशं नारायणमनामयम् १।
दत्त्वा दानानि विधिवद् ब्रह्मणेभ्यो विधानतः ।
विष्णुलोकमवाप्नोति तीर्थस्यास्य प्रभावतः २।
अत्र राजर्षिणा पूर्वं विश्वामित्रेण धीमता ।
तपस्तप्तं विशेषेण प्रजाकामेन सुंदरि ३।
वायुभक्षो निराहारो यत्रासीदनिलाशनः ।
विष्णुपूजापरो नित्यं विष्णुध्यानपरायणः ४।
तपसानेन संजातः प्रजाकाममवाप्तवान् ।
प्रजाकामो नरो यश्च कंबुतीर्थं हि गच्छति ५।
स प्रजां लभते नित्यं सत्यं सत्यं वरानने ६।
इति कंबुतीर्थमाहात्म्यम् ।
ततो गच्छेत्सुरश्रेष्ठे तीर्थं नाम कपीश्वरम् ।
संनिधौ रक्तसिंहस्य महापातकनाशनम् ७।
बध्यमाने पुरा सेतौ रामरावणविग्रहे ।
गृहीत्वा पर्वतश्रेष्ठं विशेषात्कपिभिः कृतम् ८।
नाम्ना कपीश्वरादित्यं चक्रुस्तीर्थमनुत्तमम् ।
यत्र तीर्थे नरः स्नात्वा कृत्वा वा पितृतर्पणम् ९।
दृष्ट्वा कपीश्वरादित्यं मुच्यते ब्रह्महत्यया ।
तत्र स्नानं प्रकर्तव्यं चैत्राष्टम्यां विशेषतः १०।
हनुमत्प्रमुखैस्तत्र स्नातं यत्र दिनत्रयम् ।
कपितीर्थप्रभावोऽयं भवत्यै समुदीरितः ११।
अस्मिंस्तीर्थे नरः स्नात्वा पूजयित्वा कपीश्वरम् ।
रूपवान्बहुभोगश्च जायते नात्र संशयः १२।
बलं वांछति यो लोको धर्मं वा पुत्रमेव च ।
सर्वं स तु लभेन्नित्यं कपितीर्थप्रभावतः १३।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वर।
संवादे कपितीर्थमाहात्म्यं नाम द्विचत्वारिंशदधिकशततमोऽध्यायः १४२।