वाचस्पत्यम्/दानु

विकिस्रोतः तः
पृष्ठ ३५४३

दानु त्रि० दा--दामे दो--खण्डने वा कर्त्त्सरि नि । १ दातरि

२ विक्रान्ते मेदि० । ३ वायौ ४ सुखे च संक्षिप्तसा० । उणा० ।
५ दानवे च । “दानुं शयानं स जनास रन्द्रः” ऋ०
२ । १२ । ११ । “दानुं दानवम्” माधवः भावे नु । ६ दाने
७ वर्षणे८ न० “यवं न वृष्टिर्दिव्येन दानुना” ऋ० १० ।
४३ । ७ “दानुना दानेन वर्षणेन वा” भा० “आदित्या दानु-
नस्पतो” ऋ० १ । १३६ । ३ । “दानुनः दानस्य” भा०
कर्मणि नु । ८ देये धने च । “करत्तिस्रोमघवा दानुचित्राः”
ऋ० १ । १७४ । ७ “दानुभिर्देयैर्धनैश्चित्राः” भा०

दान्त त्रि० दम--कर्त्तरि क्त । १ बहिरिन्द्रियनिग्रहकर्त्तरि

“शान्तोदान्त उपरतस्तितिक्षुः श्रद्धावान् समाहितो भूत्वा-
त्मन्यात्मानमवलोकयेत्” वेदान्तमारधृता श्रुतिः ।
दमणिच्--क्त नि० । २ दमिते ३ शिक्षिते वलीवर्दादौ त्रि०
४ दमनकवृक्षे पु० राजनि० ।

दान्ति स्त्री दम--क्तिन् । १ तपःक्लेशादिसहिष्णुतायां २ बाह्येन्द्रियनिग्रहे च ।

दापित त्रि० दा--णिच--कर्मणि क्त । २ साधिते २ दण्डिते

दापितघनके २ प्रतिवाद्यादौ च ।

दाप्य त्रि० दा--णिच्--कर्मणि यत् । १ दण्ड्ये २ दापनीये च ।

दाम न० दो--खण्डने बा० करणे मन् । १ पश्वादिबन्धनरज्ज्वो

“स्रगदाभैरिव चित्रिता” भा० भी० ५७ अ० । “सन्तानमा-
ल्यदामं च तैरेव कुसुमैः कृतम्” हरिवं० १४५ अ० ।
भावे मन् २ सन्धाने । दम्यते अनुशिष्यते दम--कर्मणि
घञ् बा० दीर्घः । लोके विश्वसंसारे दामोदरशब्दे दृश्यम् ।

दामकण्ठ पु० गोत्रप्रवर्त्तकर्षिभेदे तस्य गोत्रापत्यम् इञ् ।

दामकण्ठि तदीये यून्यपत्ये ततः उपका० द्वन्द्वे अद्वन्द्वे
च बहुषु युवप्रत्ययस्य लुक् । कलसीकण्ठदाभकण्ठाः
दामकण्ठा वा इत्येवम् ।

दामग्रन्थि पु० मत्स्यराजविराटस्य सेनापतिभेदे “अथ

मत्स्योऽब्रवीद्राजा शतानीक जघन्यजम् । कङ्कवक्कभगोपा-
लादामग्रन्थिश्च वीर्य्यवान् । युध्येयुरिति मे बुद्धिर्व-
र्त्तते नात्र संशयः” भा० वि० ३१ अ०

दामचन्द्र पु० द्रुपदनृपस्य पुत्रभेदे “धृष्टद्युम्नः शिखण्डी

च दौर्मुखिर्जनमेजयः । चन्द्रसेनो सदमेनः कीर्त्तिवर्मा
ध्रुवो धरः । वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुते-
जनः । द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रबित्” भा०
द्रो० १५८ अ०

दामन् न० स्त्री दो--खण्डने करणभावादौ मनिन् । दोहन

काले पश्वादिपादबन्धनरज्ज्वौ (छाँदनदड़ि) २ मालायां
३ रज्वुमात्रे अमरः बहुप्रग्रहयुक्ते एकस्मिन् यत्र पशबो-
बध्यन्ते (दोका) ख्याते ४ पदार्थे च “भाति स्म दामाप्रपदी-
नमस्य” माघः स्त्रियां नान्तत्वेऽपि मनन्तत्वात् न ङीप् ।
दामानौ दामानः किन्तु वा ङीप् । दामे दामा इत्यादि

दामनपर्वन् न० दमनस्येदमण दामन षर्वं यत्र ।

दमनभञ्जनतिथौ १ चैत्रशुक्लचतुर्दश्याम् २ तन्मासीयद्वादश्या-
दिषु च दमनशब्दे मूल दृश्यम् । “सत्तीर्थेऽर्कविषुग्रासे
तन्तुदामनपर्वणोः” नरसिंह पु० तन्तुपर्वशब्दे दृश्यम

दामनि पु० दमनस्यापत्यम् इञ् । १ दमनस्यापत्ये २ आयुध

जीविसंधभेदे च ततः स्वार्थे दामन्यादि० छ । दामनीय
तत्रार्थे बहुत्वे तु तद्राजत्वात्तस्य लुक् । दामनय इत्येव

दामनी स्त्री दामैव प्रज्ञा० स्वार्थे अण् अणि न नलोपः

ङीप् । पशुबन्धनरज्ज्वौ अमरः “दामनीदाभभार्सम्
केचित् कायावलम्बिभिः । कीलैरारोप्यमाणैश्च
दामनीपाशपाशितैः” हरिवं ६६ अ०

दामन्यादि पु० “दामन्यादित्रिगर्त्तषष्ठादेः” पा० छप्रत्यय-

निमित्ते पा० ग० सूत्रोक्ते शब्दगणे स च
गण“दामनि औलपि वैजवापि औदकि औदङ्कि आच्यु-
तन्ति आच्युतदन्ति शाकुन्तकि आकिदन्ति औड़वि
काकदन्तकिं शात्रुन्तपि सार्वसेनि विन्दुवैन्दवि तुलभ भौञ्जा-
यन काकन्दि सावित्रीपुत्र” ।

दामलिप्त न० तमोलिप्तनगरे (तमलुक) हेम०

दामलिह् पु० दाम--लेढि लिह--क्विप् । १ दामलेहके ।

तमात्मन इच्छति क्यच् दामलिह्यति ततः क्विप् । २ आत्मनो
दामलेहकेच्छौ “दादेर्धातोर्घः” पा० उपदेशे दादेरिति
विशेषणात् अस्य उपदेशे दादित्वाभावात् न घः सि० कौ० ।

दामाञ्जन न० दाम्नः अञ्जनम् । अश्वादेः पादबन्धन-

रज्ज्वौ (पिछाड़ि) हेमच० दामाञ्चलमप्यत्रार्थे हारावली
“दामाञ्चलस्खलितलोलपदं तुरङ्गाः” माघः ।

दामिनी स्त्री भीमो भीमसेनेनवत् दामा सुदामा नगः स

एकदेशत्वेनास्त्यस्य “संज्ञायां मन्माभ्याम्” पा० इनि
ङीप् । सौदामन्यां विद्युति ।

दामोदर पु० दाम वन्धनसाधनं उदरे यस्य । यशोदा-

नन्दने कृष्णे तत्कथा “ततो यशोदा संक्रुद्धा कृष्ण
कमललोचनम् । आनाय्य शकटीमूले भर्त्सयन्ती पुनः-
पुनः । दाम्ना चैवोदरे बद्ध्वा प्रत्यबध्नादुदूखले । यदि
शक्नोषि गच्छेति तमुक्त्वा कर्म साऽकरोत्” इत्युपक्रमे
“स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् । घोषे
दामोदर इति गोपिभिः परिगीयते” हरिव० ६४ अ०
“विदारो रोहितोमार्गो हेतुर्दामोदरः सहः” विष्णु० स० ।
शाङ्करभाष्ये तु अस्यान्यापि व्युत्पत्तिर्दर्शिता यथा
पृष्ठ ३५४४
“दमादिसाधनेनोदरा उत्कृष्टा गतिर्या तया गम्यत इति
दामोदरः । “दमाद्दाभोदरं विदुरिति” महाभारते
यशोदया दाम्नोदरे बद्ध इति वा “दामानि लोकनामानि-
तानि यस्योदरान्तरे । तेन दामोदरस्त्वेषः श्रीधरस्त्विट्स-
माश्रितः” इति व्यासवचनात् वा दामोदरः । “दमो
बहिरिन्द्रियनिग्रहः तज्जन्यो दामः तस्येदमित्यण्
ऋगताविति धातोर्भावे “ऋदोरप्” पा० अपि गुणे रपरत्वे
च अरः अवगतिः गत्यर्थानां ज्ञानार्थकत्वात्तस्य विशेषण-
मुदिति उत्कृष्ट इत्यर्थः तथा च दामो दमसाधकः उत्
उत्कृष्टः अरः अवगतिः साक्षात्काररूपास्येति दामोदरः ।
उत्कृष्टा च गतिः धूमादिगतिमपेक्ष्यार्चिरादिः दमादिसा-
धना अस्य सगुणस्येति दामोदरनामनिरुक्तिः । “तर्वोर्म-
ध्यगतं बद्ध दाम्ना गाढं तथोदरम् । ततश्च दामोदरतां स
ययौ दामबन्धनादिति” ब्रह्मपुराणम् इति आनन्दगिरिः ।
२ अतीते अर्हद्भेदे हेमच० । वर्द्धमानपुरसन्निकृष्टे ३ नदभेदे
च । ४ शालग्राममूर्त्तिभेदे तल्लक्षणं पद्मपुराणे यथा
“स्थूलो दामोदरो ज्ञेयः सूक्ष्मचक्रो भवेत्तु सः । चक्रे
तु मध्यदेशेऽस्य पूजितः सुखदः सदा” । ब्रह्माण्डपुराणे
“दामोदरस्तथा स्थूलो मध्यचक्रः प्रतिष्ठितः” प्रतिष्ठित
इत्यत्र प्रकीर्तित इति क्वचित् पाठः । “दूर्वाभं
द्वारसङ्कीर्णं पीतरेखायुतं शुभम्” । “पीतरेखा तथैव
चेति” ब्रह्मपुराणे पाठः । ब्रह्मपुराणे “उपर्य्यधश्च चक्रे
द्वे नातिदीर्घं मुखे बिलम् । मध्ये च रेखा लम्बैका
स च दामोदरः स्मृतः” । अन्यत्र “स्थूलो दामोदरो
ज्ञेयः सूक्ष्मरन्ध्रो भवेत्तु यः । चक्रे तन्मध्यदेशस्थे
पजितः शुभदः सदा” । ब्रह्मवै० प्रकृतिखण्डे “द्विचक्रं
स्फुटमत्यन्तं ज्ञेयं दामोदराभिधम्” । मत्स्यसूक्ते
“विश्वक्सेनमतिस्थूलं लघु दामोदरं स्मृतम्”

दामोष्णीष पु० गोत्रव्यावर्त्तकप्रवरर्षिभेदे “दामोष्णीषस्त्रै-

बलिश्च पर्णादो वरजानुकः” भा० स० ४ अ० । युधिष्ठिर-
मभासभ्योक्तौ । तस्यापत्यं कर्वा० ण्य । दामोष्णीष्य
तदपत्ये पुंस्त्री

दाम्पत्य न० दम्पत्योरिदं पत्यन्तत्वात् यक् । १ दम्पति

सम्बन्धिनि अग्निहोत्रादौ २ दम्पत्योरन्योन्यप्रीतौ च
“ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम्” इत्युपक्रमे
“विद्याकामस्तु गिरिशं दम्पत्यार्थमुमां सतीम्” भाग० २ । ३ । ८ ।

दाम्भिक त्रि० दम्भेन चरति धर्मं ठक् । लोकेषु कीर्त्त्यादि

ख्यापनार्थं धर्मचारिणि १ वैडास्वव्रतिनि, २ दुम्भयुक्ते
च । “पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी”
मनुना रसविक्रयकर्मविपाकः दाम्भिकत्वमित्युक्तम् ।
“दाम्भिको दुष्कृतः प्राज्ञः शूद्रेण सदृशो भवेत्” भा० व०
२१५ अ० । ३ वकपक्षिणि पुंस्त्री० राजनि० ।

दाय दाने भ्वा० आत्म० सक० सेट् । दायते अदायिष्ट

अदायिढ्वम् अदायिध्वम् । ऋदित् णिच् अददायत--त ।

दाय पु० दा--दाने भावे घञ् । १ दाने “मिथोदायः कृतो

येन गृहीतो मिथ एव वा । मिथ एव प्रदातव्यो यथा
दायस्तथा ग्रहः । अस्वामिना कृतो यस्तु दायो विक्रय
एव वा” मनुः । दीङ्ंक्षये भावे धञ् । २ लये अजयपालः
३ स्थाने मेदि० । दो--खण्डने भावे घञ् । ४ खण्डने शब्द-
रत्ना०५ सोल्लुण्ठनभाषणे मेदि० । तस्य परोक्तस्य खण्ड-
नरूपत्वात् तथात्वम् । दा--दाने कर्मणि घञ् । ६ देये
धनादौ “ते तत्र विविधान् दायान् विजयार्थं नरेश्वराः”
भा० आ० १८४ अ० । “संस्थाः स्युश्चारसंस्थित्यै दत्त-
दायाः शुभाशयाः” काम० नीति० “दायन्तु विविधं तस्मै
शृणु मे गदतोऽनघ! यज्ञार्थं राजभिर्द्दत्तं महान्तं धन
सञ्चयम्” भा० स० ५१ अ० । ७ विवाहकाले कन्यायै
दीयमाने यौतुकादिधने कन्यादानकाले जामात्रादिभ्यो ८ देये
धने व्रतान्तभिक्षादौ समावृत्तब्रह्मचारिभ्यो ९ दीयमाने
धने च १० विभागार्हपित्रादिधने च दायभागशब्दे
दृश्यम् ।

दायक त्रि० दा--दाने ण्वुल् । १ दातरि “तावतां गोसहस्राणां

फलं प्राप्नोति दायकः” भा० व० १९३ अ० “चौराणां भक्त-
दायकाः” मनुः । दो--खण्डने ण्वुल् । २ खण्डके च ।
दायेन धनेन कायति कै--क । ३ दायादे “गृह्या इति
समाख्याता यजमानस्य दायकाः” गृह्यम् दायका दायादा
इत्यर्थः ।

दायबन्धु पु० दाये बन्धुः । भ्रातरि शब्दरत्ना०

दायभाग पु० दायस्य सम्बन्धिभिर्भागो यत्र । अष्टादशविवादा-

न्तर्गते विवादपदभेदे तन्निरूपणं जीमूतवाहनकृते दायभागे
यथा “अथ दायमागो निरूप्यते तत्र नारदः “विभागो-
ऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते । दाथभाग इति प्रोक्तं
तद्विवादपदं बुधैः” । पितृत आगतं पित्र्यं तच्च पितृ
मरणोप्रजातस्वत्वमुच्यते । पित्र्यस्येति पुत्रैरिति च
द्वयमपि सम्बन्धिमात्रोपलक्षणं सम्बन्धिमात्रेण सम्ब-
न्धिमात्रधनविभागेऽपि दायभारपदप्रयोगात् अतएव
दायभागं विवादपदमुपक्रम्य नारदोऽपि मात्रादिधन-
पृष्ठ ३५४५
विभागमप्युपदर्शितवान् तथा मनुरपि पित्रादिपद-
मदत्त्वैव “एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः ।
आपद्यपत्यप्राप्तिश्च दायभागं निवोधत” इत्युपक्रम्य
यावत्सम्बन्धिधनविभागमुक्ततान् । दीयत इति
व्युत्पत्त्या दायशब्दो ददातिप्रयोगश्च गौणः
मृतप्रव्रजितादिस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पत्तिफलसाम्यात्
न तु मृतादीनां तत्र त्यागोऽस्ति । ततश्च पूर्वस्वामि-
सम्बन्धाधीनं तत्स्वाम्योपरमे यत्र द्रव्ये स्वत्वं तत्र
निरूढो दायशब्दः । ननु किं दायस्य विभागो विभक्ता
वयवत्वं? यद्वा दायेन सह विभागोऽसंयुक्तंत्वं? न तावत्
पूर्वः दायविनाशापत्तेः नापि द्वितीयः संयुक्तेऽपि न
ममेदं विभक्तं स्वं भ्रातुरिदमिति प्रयोगात् । न च
सम्बन्धविशेषात् सर्वेषां सर्वधनोत्पन्नस्य स्वत्वस्य द्रव्य-
विशेषे व्यवस्थापनं विभाग इति वाच्यं सम्बन्ध्यन्तर
सद्भावप्रतिपक्षस्य सम्बन्धस्यावयवेष्वेव विभागव्यङ्ग्य-
स्वत्वापादकत्वात् कृत्स्नपितृधनगतस्वत्वोत्पादविनाश
कल्पनागौरवात् यथेष्टविनियोगफलाभावेनानुपयो-
गाच्च । उच्यते एकदेशोपात्तस्यैव भूहिरण्यादावुत्प
न्नस्य विनिगमनाप्रमाणाभावेन वैशेषिकव्यवहारा
नर्हतया अव्यवस्थितस्य गुटिकापातादिना व्यञ्जनं
विभागः । विशेषेण भजनं स्वत्वज्ञापनं वा विभागः ।
यत्रापि चैकं दासीगवादिकं वहुसाधारणं तत्रापि
तत्तत्कालविशेषे वहनदोहनफलेन स्वत्वं व्यज्यते ।
तदाह वृहस्पतिः “एकां स्त्रीं कारयेत् कर्म यथां-
शेन गृहे गृहे । उद्धृत्य कूपवाप्यम्भस्त्वनुसारेण गृह्यते ।
युक्त्या विभजनीयं तदन्यथानर्थकं भवेत्” । इदं श्लोका-
र्द्धत्रयं नानास्थानस्थं न तु क्रमिकम् । ननु “पित-
र्य्यूर्द्धं गते पुत्रा विभजेयुर्द्धनं पितुरिति” नारदवच-
नात् पितुर्द्धनं विभजेयुरित्यन्वयात् विभागात् पूर्वं
न तत्र पुत्राणां स्वत्वं न च विभागस्य स्वत्वकारणता
असम्बन्धिधनेऽप्यतिप्रसङ्गात् । उच्यते पित्रादिनिध-
नानन्तरमेवास्मदीयं धनमिति प्रयोगात् एकपुत्रे च
विभागं विनैव स्वत्वस्वीकाराच्च सम्बन्धिनिधनमेव स्वत्व
कारणमतो नातिप्रसङ्गः । नन्वर्ज्जयितृव्यापारोऽर्जनम्
अर्जनाधीनस्वामिभावश्चार्जयिता तेन पुत्रव्यापारो-
जन्मैवार्जनं युक्तम् अतो जीवत्येव पितरि पुत्राणां
तत्र स्वत्वं न तु तन्निधनात् अतएवोक्तं “क्वचिज्जन्मनैव
यथा पित्र्ये धने” । नैतत् मन्वादिविरोधात् । यथा
मनुः “ऊर्द्धं वितुश्च मातुश्च समेत्य भ्रातरः समम् ।
भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः” जीवतोरपि
पित्रोः पुत्राणां कुतो न विभाग इत्याशङ्कायामिदमुत्तरं
तदानीमस्वामित्वादिति । न च भार्य्या पुत्रश्चेत्यादिवत्
अस्वातन्त्र्याभिप्रायमिति वाच्यं तदानीं स्वत्वे प्रमाणा-
भावात् भार्य्यादिषु तु यत्ते समधिगच्छन्ति अर्जयन्तीति
स्वत्वे सिद्धे युक्तमस्वातन्त्र्यवर्णनम् । किञ्च स्वोपात्ते-
ऽपि तेषामस्वामित्वे स्वधनसाध्यवैदिककर्मोच्छेदात् श्रुति
विरोधः स्यात् । देवलश्च पितृधने अस्वाम्यमेव स्पष्ट-
यति यथा “पितुर्य्युपरते पुत्रा विभजेयुर्द्धनं पितुः ।
अस्वाम्यं हि भवेद्देषां निर्दोषे पितरि स्थिते” । किञ्च
जीवत्यपि पितरि पितृधने पुत्राणां स्वामित्वे पितु-
रनिच्छयापि विभागः स्यात् जन्मनैव स्वत्वमित्यत्र
प्रमाणाभावाच्च अर्जनरूपतया जन्मनः स्मृतावनधि-
गमात् । क्वचिज्जन्मनैवेति च जन्मनिबन्धनत्वात् पिता
पुत्रसम्बन्धस्य पितृमरणस्य च स्वत्वकारणत्वात् परम्प-
रया वर्णनम्” ।
अस्य मते च पुत्राणां पित्राद्युपरमादावव तद्धने स्वत्वं
तच्चैकदेशनिष्ठम् ।
मिताक्षरादिप्राचीनमते जन्मनैव पुत्राणां पितृधने
स्वत्वं तच्च समुदितद्रव्यनिष्ठमिति भेदः ।
तदेतत् प्राचीनमतं वीरमित्रोदये जीमूतवाहनमत-
निराकरणेन परिष्कृष्य समर्थितं यथा
“यत्र मन्वादिवचनव्याख्यासु बहुधा बुधाः । विवदन्ते
दायभागः स प्रबन्धेन वर्ण्यते” । तल्लक्षणमाह नारदः
“विभागोऽर्थस्य पित्र्यस्य पुत्रैर्यत्र प्रकल्प्यते । दायभाग
इति प्रोक्तं तद्विवादपदं बुधैरिति” । पित्रोरयं पित्र्यम्
इति कृतैकशेषात्पितृशब्दाद्यत् अग्रे मातृधनस्यापि
विभागकथनात् । पित्र्यस्य पुत्रैरिति च द्वयमपि
सम्बन्धिमात्रोपलक्षणम् पत्नीत्यादिनान्येषामपि भर्त्रा-
दिधने तंन्निरूपणात् । अतएवोपक्रमे मनुना पित्रादि
पदन्नोपात्तम् । “एष स्त्रीपुंसयोरुक्तो धर्म्मो वो रति
संहितः । आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधतेति” ।
“दायधर्म्मोऽप्यत्र विभागरूपोऽभिप्रेतस्तस्यैवाग्रे लक्षण
कथनपूर्वकन्निरूपणात् उद्देशावसरेऽपि “स्त्रीपुन्धर्म्मो-
विभागश्चेति” तस्यैव विवादपदत्वेनोद्देशात् ।
अतएबाग्रे यावत्सम्बन्धिधनविभागमेव प्रदर्शितवान्मनुः ।
दायशब्दश्चायं स्वामिसम्बन्धमात्रंलब्धस्वत्ववद् द्रव्यं वदति ।
पृष्ठ ३५४६
तथा च निथण्टुकारः “विभक्तव्यं पितृद्रव्यं
दायभाहुर्मनीषिणः इत्याहः । अत्रापि पितृपदं सम्बन्धि-
मात्रोपलक्षणमन्यत्रापि दायशब्दप्रयोगात् । विभक्तव्य
विभागार्हमित्यर्थः अन्यथैकपुत्त्रादिस्वामिके विभा-
गाभावाद्दायशब्दवाच्यता न स्यात् । यत्तु जीमूत-
वाहनेन (दीयत इति व्युत्पत्त्या दायशब्दो ददातिप्रयो-
गश्च गौणः मृतप्रव्रजितादिस्वत्वनिवृत्तिपूर्वकपरस्वत्वो-
त्पत्तिफलसाम्यात् । नं तु मृतादीनां तत्र त्यागोऽस्ति ।
तच्च पूर्वस्वामिसम्बन्धाधीनं तत्स्वाम्योपरमे यत्र द्रव्ये-
ऽन्यस्य स्वत्वं तत्र निरूढोदायशब्द) इत्युक्त, तन्न सुन्द-
रम निरूढत्वाङ्गीकारे दायददातिशब्दयोर्गौणत्वो-
पन्यासानर्थक्यात् । सर्वथाऽवयवार्थराहित्ये हि निरू-
ढत्वम् । न च योगरूढ़त्वम् अवयवार्थबाधस्य स्वयमेवो-
पन्यासात् गौणमवयवार्थं परिकल्प्य तदङ्गीकारस्य
निष्प्रयोजनत्व मन्योन्याश्रयत्वमनुभवविरोधो व्याघातश्च ।
तत्स्वाम्योपरम इति च । जन्मनापि स्वत्वस्योपपादयिष्य-
माणत्वादव्यापकम् । विभागशब्दस्त्वनेकस्वाम्यानां
दव्यसमुदायविषयाणां तत्तदेकदेशे व्यवस्थापने शक्तः ।
अतएवैकपुत्रादीनां पित्रादिधनस्वाम्ये विभागशब्दा-
प्रयोगो दायोऽनेन लब्ध इत्येव च प्रयोगः । यत्रापि
चैकं दासीगवादि बहुसाधारणं तत्रापि तत्तत्काल विशेष-
नियतदास्यदोहनादिना तस्य तस्य स्वत्वव्यञ्जनादंस्त्वेक-
देशस्वाम्यव्यवस्थापनरूपो विभागशब्दार्थः ।
अतएव “एकां स्त्रीं कारयेत्कर्म यथांशेन गृहे गृहे” इति
“उद्धृत्य कूपवाप्यम्भस्त्वनुसारेण गृह्यते” । “युक्त्या
विभजनीयं तदन्यथानर्थकम्भवेदिति” च वृहस्पत्यादिवचनेषु
वक्ष्यमाणरीत्या तदुपपादयिष्यते । स च दायोद्विविधोऽ
ग्रतिवन्धः सप्रतिन्धश्च । पुत्त्रादीनां पित्रादिधने पुत्त्र-
त्वादिनैव सत्यपि स्वामिनि पित्रादौ जन्मनैब स्वत्वो-
त्पत्ते स तेषामप्रतिबन्धोदायः स्वामिसद्भावस्याप्रति-
बन्धकत्वात् । यस्तु विभक्तस्यासंसृष्टिनोऽपुत्त्रस्य मृतस्य
भ्रात्रादीनां तद्धनरूपोदायः स सप्रतिबन्धः स्वामि
सद्भावस्य प्रतिबन्धकन्यापगम एव तत्र स्वत्वोत्पत्तेः । ननु
सर्वोऽपि सप्रतिबन्ध एव दायः । स्वामिसद्भावे पुत्रा-
दीनामपि कन्ममात्रेण स्वत्वस्य वक्तुमशक्यत्वात् ।
तथाहि । यदि जन्मनैव पुत्रादीनां पित्रादिधने स्वत्वं
स्मात्तर्ह्युत्पन्नमात्रस्य पुत्त्रादेस्तत् साधारणमिति तदनु-
मति विना द्रव्यसाध्येष्वाधानादिषु पित्रादोनामनधि-
कारापत्तौ “जातपुत्रः कृष्णकेशीऽग्नीनादधीतेति” श्रुति-
विरोधः । किञ्च विभागात् प्राकपित्रादिपसाद-
लब्धस्याविभाज्यत्ववश्चनं व्यर्थं स्यात् । तद्धि पित्रा
पुत्रान्तरानुमत्या यदि दत्तं सर्वैरेव दत्तमिति विभाग
प्राप्त्यभावादेव प्रतिषेधोऽनर्थकः । अननुमत्या तु
साधारणद्रव्यस्य दानमेव न सम्भवतीति पित्रादि
प्रीतिदत्तत्वादिवचने युक्तिरयुक्ता । एवं पुत्त्राद्यनुमति
मन्तरेण स्त्यादीनामपि भर्त्त्रादिभिः प्रीतिदानस्यासम्भ-
वात्तदनुमतौ तु तैरपि दत्तत्वात् । “भर्त्रा प्रीतेन यद्दत्तं
स्त्रियै तस्मिन्मृतेऽपि तत् । मा यथाकाममश्नीयाद्द-
द्याद्वा स्थावरादृते इति” वचने यथाकाममश्री-
याद्दद्याद्बेत्यनेनाविभाज्यत्वं भर्त्तृप्रीतिलब्धस्य यदभिहितं
तदपि व्यर्थम् । न चेदमविभागावस्थायां प्रीतिदान
तस्य चाविभाज्यत्वन्न प्रतिपादयति किन्तु स्थावरादृते
यद्दत्तमित्यन्वयाद्विभागोत्तरमपि भर्त्रा स्त्रियै स्थावरन्न
प्रीत्या देयमज्ञानाद्दत्तमपि तेन पुत्रादिभिरपहृत्य
विभजनीयमस्थावरन्तु न प्रत्याहर्त्तव्यमित्यनुवादमात्रम्
स्थावरस्य स्त्रियै प्रीतिदानप्रतिषेधमात्रं तात्पर्य्येण
बोधयतीति शङ्कनीयम् । तथान्वयस्य व्यवहितयोजनाप्र-
सङ्गेनायुक्तत्वात् । स्थावरप्रीतिदानप्रतिषेधात्रता समर्प-
कत्वेऽन्यांशस्यानुवादमात्रं व्यर्थत्वापरपर्य्यायश्चापद्यते ।
अथ “मणिमुक्ताप्रवालानां सर्वस्यैव पिता प्रभुः ।
स्थावरस्व तु सर्वस्य न पिता न पितामहः” । तथा
“पितृप्रसादाद् भुज्यन्ते वस्त्राण्याभरणानि च । स्थाव-
रन्तु न भुज्येत प्रसादे सति पेवृक इति”
वचनमवश्यं विभागंप्राक्कालीनस्थावरप्रसाददानप्रतिषेध-
परं वाच्यं मणिमुक्तादिप्रसाददानानुमतिपुरःसरं
तत्प्रतिषेधाभिधानात् अन्यथा तय्यानुवादमात्रंत्वेन
वैयर्थ्यापत्तेः । तथा च जन्मना पुत्रांदीनां स्वत्वान्मणि-
मुक्तादिषु तदनुभतिमन्तरेणापि दाने पितुः स्वातन्त्र्यम् ।
स्थावरे तु तदनुमत्यैवेति विशेष इति वचनद्वयार्थस्य
वाच्यत्वाज्जन्मना स्वत्वमायातीति, मैवम् तस्य पितामहो-
पात्तस्थावरविषयत्वात् । अतीते पितामहे तत्स्वाम्य-
नाशात्पित्मपुत्रयोः साधारणे तदीयद्रव्यस्वत्वेऽपि
स्थावर एव पुत्रानुमत्यपेक्षा मणिमुक्तादौ तु नेति तदर्थात् ।
यत्तु गौतमवचनम् “उत्पत्त्यैवार्थस्वामित्वं लभते इत्या-
चार्य्याः” इति । जन्मनः स्वत्वहेतुत्वे मिताक्षराकृता
प्रमाणत्वेनीपन्यस्तन्तद्दायभागदायतत्त्वकृता व्याख्यातमेव ।
पृष्ठ ३५४७
पितृस्वत्वोपरमे तज्जन्यत्वस्य हेतुभूतेनोत्पत्तिमात्रसम्बन्धे-
नान्यसम्बन्धाधिकेन जनकधने पुत्राणां स्वामित्वात्तद्धनं
पुत्त्रोलभते नान्यः सम्बन्धीत्यार्य्या मन्यन्त इति । न
तु पितृस्वत्वे विद्यमानेऽपि तत्र पुत्रस्वत्वमिति तदर्थः ।
नारददेवलवचनबिरोधात् । “पितर्यूर्ध्वंगते पुत्त्रा
विभजेयुर्द्धनम्पितुरिति” नारदः पितुर्द्धनमित्याह ।
अन्यथा धनं विभजेयुरित्येवावक्ष्यत् । “पितर्य्युपरते
पुत्त्रा विभजेयुर्द्धनम्पितुः । अस्वाम्यं हि भवेदेषां
निर्दोषे पितरि स्थिते इति” । देवलोऽपि पितुर्द्धन-
मित्युक्त्वोत्तरार्द्धेनास्वाम्यं हीति स्पष्टमेव तेषामस्वत्व
न्तत्र हेतुत्वेनोक्तवान् । निर्दोषे पातित्यादिस्वत्वापग-
मकदोषरहिते । मनुरपि “ऊर्ध्वं पितुश्च मातुश्च समेत्य
भ्रातरः समम् । भजेरन् पैतृकं रिक्थमनीशास्ते हि
जीवतोरिति” जीवतोर्म्मातापित्रोस्तद्धने पुत्त्राणाम-
स्वाम्यं व्यक्तमेवाह । यत्तु शङ्खलिखितावाहतुः “न
जीवति पितरि पुत्त्रा रिक्थम्भजेरन् । यद्यपि स्वाम्य-
म्पश्चादधिगतन्तैरनर्हा एव पुत्त्रा अर्थधर्मयोरस्वातन्त्र्या-
दिति” स्मृतिचन्द्रिकाकारेण च व्याख्यातम् । यद्यपि
“तैः पुत्रैः स्वकीयजन्मनः पश्चादनन्तरमेव पितृधने स्वा-
म्यमधिगतं प्राप्तन्तथापि जीवति पितरि तद्धनं तदिच्छां
विना न विभजेरन्नर्थधर्मयीरस्वातन्त्र्यात्पितृपारतन्त्र्या-
द्विभागकरणऽनर्हाः पुत्त्रा” इति । तेनानेन वचनेन
जन्मना पुत्त्रादीना पित्रादिस्वामिकधने स्वत्वमिति” तदपि
न मन्वादिबचनानां बहूनामस्वाम्यप्रतिपादकानामनु-
रोधेनास्यान्यथार्थस्य वर्णनीयत्वात् । वर्णितञ्च कल्पतरौ
“यद्यपि पश्चादधिते पितृधनव्यापारनिरपेक्षैः पुत्रैर्विद्या-
दिभिरुपात्ते धने स्वाम्यन्तथापि तत्राप्यस्वाम्यञ्जीवति
पितरि, किमुत पितृधने अर्थधर्मयोस्तेषां पितरि
जीवत्यस्वातन्त्र्यादिति । किञ्च स्वत्वं शास्त्रैकसमधिगम्यं तत्र
च रिक्थक्रयादिवज्जन्मनः स्वत्वहेतुत्वेनानुक्तेर्ज्जन्मना
स्वत्वमप्रमाणकमेव । अतएव यथा भार्य्यादिवचनम्
“भार्य्या पुत्त्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते
समधिगच्छन्ति यस्यैते तस्य तद्धनमिति” । पारतन्त्व्य-
मात्रप्रतिपादनपरन्तथाऽस्वाम्यवचनान्यपीत्यपास्तम् ।
भार्य्यादिष्वध्यग्न्यादिवचनैः कर्त्तनादिसाधनकत्वेन स्वा-
मित्वे सिद्धे युक्तमस्वातन्त्र्यमात्रपरत्वमन्यथा श्रौतादिषु
धनसाध्येषु पुराणादिश्रुतन्तेषामधिकारित्वमपि विरु-
द्व्येत । अत्र तु प्रत्युत जन्मनः स्वत्वहेतुत्वे प्रमाणा-
भावाद्व्यर्थमेवान्थथानेकवचनवर्णनम् । किञ्च यदि स्वत्वं
लौकिकं स्यात्तर्हि तदुपायानामपि लौकिकत्वात् “स्वामी
रिक्थक्रयसंविभागपरिग्रहाधिगसेषु ब्राह्मणस्याधिकं
लब्धं, क्षत्रियस्य विजितम् निर्विष्टं वैश्यशूद्रयोरिति”
गौतमवचनं व्यर्थमेव स्यादनुवादमात्रत्वान्न हि पाकादो-
दनो भवतीत्यादि शास्त्रे निष्प्रयोजनमनुवादमात्र
मुच्यते । तस्य हि वचनस्यायमर्थः । रिक्थं दायः
क्रयः प्रसिद्धः । संविभागो दायस्यैवैकदेशनिष्ठस्वामित्व-
व्यञ्जकोविभागः । परिग्रहः पूर्वमपरेणास्वीकृतस्यारण्यादि
साधारणप्रदेशसम्बन्धिनस्तृणजलकाष्ठादेः स्वीकारः ।
अधिगमोऽज्ञातस्वामिकस्य निध्यादेः प्राप्तिः । एतेषु
स्वत्वहेतुषु सत्सु स्वामी भवति । जातेषु च जायते ।
ब्राह्मणस्य लब्धं प्रतिग्रहादिप्राप्तमधिकमसाधारणं-
रिक्थादयस्तु सर्वसाधारणाः । अधिकमित्युत्तरत्र सर्वत्र
सम्बध्यते । क्षत्रियस्य विजितं युद्धविजयदण्डादिप्राप्त-
मसाधारणम् । वैश्यस्य निर्विष्टं कृषिगोरक्षणादिभृति-
लब्धम् । शूद्रस्य द्विजशुश्रूषादिभृतिलब्धम् । निपूर्वस्य
विशेर्भृतिवाचकत्वम् “निर्वेशोभृतिभोगयोरिति”
त्रिकाण्डाभिधानात् । वैश्यशूद्रग्रहणस्योपलक्षणत्वा-
दन्येषामप्यनुलोमजप्रतिलोमजातानां “सूतानामश्व-
सारथ्यम्” इत्याद्यौशनसादिप्रतिपादितं वृत्तिजातं निर्वि-
ष्टशब्देन संगृह्यते सर्वस्य भृतिरूपत्वात् । किञ्च
“योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणोधनम् ।
याजनाध्यापनेनापि यथा स्तेनस्तथैव सः” । इत्यदत्ता-
दायिनश्चौरस्य हस्ताद्याजनादिस्ववृत्त्यापि धनमर्ज्ज-
यतो दण्डविधानमनुपपन्नं स्वत्वस्य लौकिकत्वे ।
स्ववृत्त्यार्ज्जयतोनिरपराधत्वात् मन्मते तु शास्त्रैक-
समधिगम्यत्वात् स्वत्वस्य चौरदातृकयाजनादावेतद्वचनादेव
स्वत्वानुत्पादकत्वात्तद्विधानमुपपन्नतरम् । अपि च मम
स्वमनेनापहृतमिति व्यपदेशो न स्यात् स्वत्वस्य लौकिकत्वे
अपहर्त्तुरेव तत्र स्वत्वात् । मन्मते त्वपहारस्य निषिद्ध-
त्वेन स्वत्वानुत्पादकत्वादुपपन्नोऽयं व्यपदेशः । यदि च
सुवर्णत्वादिकमिव तत्र स्वत्वमपि प्रत्यक्षप्रमाणकन्तर्हि
सुवर्णत्वादौ यथा न सन्देहस्तथास्य स्वमिदमस्य वेत्यपि
सन्देहो न स्यान्निर्णीतत्वात् । इदमेवोक्तं संग्रहकारेण ।
“वर्त्तते यस्य यद्धस्ते तस्य स्वामी स एव न । अन्य
स्वमन्यहस्तेषु चौर्य्याद्यैः किन्न दृश्यते । तस्माच्छास्त्रत
एव स्यात् स्वाम्यं नानुभवादपि । अस्यापहृतमेतेन न
पृष्ठ ३५४८
युक्तं वक्तुमन्यथा । विदितोऽर्थागमः शास्त्रे तथाऽवर्णि
पृथक् पृथगिति” । शास्त्रे “स्वामी रिक्थक्रयेत्यादौ” साधा-
रणासाधारणरूपोऽर्थागमः स्वत्वोपायः पृथक् पृथग्वर्णि-
तस्तथा विदितों लौकिकत्वे तच्छास्त्रानर्थक्यं स्याल्लो-
कविदितत्वादित्यर्थः । अन्यत् स्पष्टम् यथावर्णमिति स्मृति
चन्द्रिकायां पाठः । पूर्वपाठस्तु मदनरत्नलिखितः । अथ
यदयस्य यथेष्टं विनियोज्यं तत्तस्य स्वमिति लोकप्रसिद्धेर्य-
थेष्टबिनियोज्यत्वं स्वत्वमिति चौर्य्याद्यर्जितेनातिप्रसङ्गस्तत्र
चौरादेर्य्यथेष्टविनियोज्यत्वाभावाद्विनियोगकाले त्रासादि-
दर्शनात् । अतएव सन्देहोऽप्युपपन्नः सुवर्णत्वादितुल्य-
त्वाभावात् स्वत्वस्य । मैवम् असम्भवात् । शास्त्रेण सर्वस्य
कुटुम्बभरणादौ विनियोगविशेषनियमादैच्छिकविनियोग-
विषयत्वस्य कुत्राप्यप्रसिद्धेः । तदप्याह संग्रहकारः
शङ्कोपन्यासपुरःसरम् “न च स्वमुच्यते तद्यत् स्वेच्छया
विनियुज्यते । विनियीगोऽस्य सर्वस्य शास्त्रेणैव
नियम्यते इति” । अत्र पूर्वार्द्धे शङ्कोपन्यास उत्तरार्द्धे
तत्परिहारः । न च रिकथादिवदुत्प्रत्त्यैवार्थस्वामित्व-
मिति गौतमवचने उत्पत्तेरपि जन्मापरपर्य्यायायाः स्वत्व-
हेतुत्वोक्तेः सत्यपि स्वत्वस्य तदुपायानाञ्च शास्त्रैकसम-
धिगम्यत्वे जन्मना पुत्रादेः पित्रादिधने स्वत्वमक्षतमेवेति
वाच्यम् तस्यानेकदूषणैरन्यथा व्याख्यानस्य प्रागेवीक्त-
त्वात् । इदमेवाभिसन्धाय धारेश्वरेणापि शास्त्रैक-
समधिगम्यमेव स्वत्वमिति सिद्धान्तितम् । अपि च ।
जीवत्यपि पित्रादौ पुत्रादेस्तद्धने जन्मना स्वत्वे तदनिच्छाया-
मपि पुत्रादीच्छयैव विभागः स्यात् । अस्वातन्त्र्यवचना-
न्नैवमिति चेत् न तथा सति दृष्टादृष्टविरोधमात्रं
भवेद्व्यवहारस्तु सिद्ध्येदेव । यथा पित्रादिभिः सह
पुत्रादिभिश्चतुष्पाद्व्यवहारें प्रवर्त्त्यमाने तेषां दृष्टादृष्टयोः
श्रेयोविघातमात्रं शिष्ये पितुः पुत्र इत्यादि वचनार्थ
इति प्राकप्रपञ्चितं तथात्रापि स्यात् । अस्त्विति चेन्न
सकलनिबन्धविरोधात् । क्वचिज्जन्मनैवेति प्राचीनग्रन्थ
लिखनमपि जन्मनिबन्धनत्वात्पितापुत्रादिसम्बन्धस्य पितृ-
मरणस्य च तत्स्वत्वापगमहेतुत्वेन परम्परया वर्णनीयम् ।
किञ्च । ऊर्द्ध्वं पितुश्चेत्यादि मनुवचनं जन्मना पुत्राणां
स्वत्वपरं जीवति पितरि सत्यपि पुत्राणां स्वाम्ये
तदिच्छया विना न विभागः ऊर्ध्वन्तु स्वेच्छयेति विभागनिषे-
धार्थं तदिति वाच्यं तच्चान्याय्यम् अस्वाम्यपरत्वापत्तेः ।
न च पितुरुपरमकालविधानार्थमिति युक्तम् दृष्टार्थ-
त्वाद्विभागस्योमयस्याप्यनुपपत्तेः । नापि नियमविधि-
र्विभागस्य “एवं सह वसेयुर्वा पृथग् वा धर्मकाम्यया” इति
मनुना विकल्पाभिधानात् । कालविधौ च पित्रुपर-
मानन्तरकाल एव विभागो नैमित्तिकस्य निमित्तानन्तर्य्य-
वाधोऽयं स्यात् । जातेष्टिवज्जातप्राणवियोगापत्तिस्वरूप
विशेषविरोधस्यात्राभावात् । अतो जीवतोः पित्रोस्त-
द्धने स्वाम्यं नास्ति किन्तूपरतयोस्तयोरिति तत्कालीना-
स्वत्वज्ञापनार्थं मन्वादिवचनं विभागस्तु स्वातन्त्र्यात्त-
त्कालीन इच्छाप्राप्तौऽनूद्यते । तथा चैतद्वचनविरोधादपि
न जन्मना स्वत्वं वक्तुं शक्यम् । उपरमवत्पतितत्वादि-
कमपि पित्रादिस्वत्वनाशकारणं वक्ष्यते । तस्मात्
पित्रादिस्वत्वनाश एव तद्धने पुत्त्रादीनां स्वाम्यं न
तत्स्वत्वसमकालीनमिति स्वाम्यादिसद्भावस्य सर्वत्र प्रति-
बन्धकत्वात् सर्वोऽपि सप्रतिबन्ध एव दाय इति द्वैविध्य-
मनुपपन्नमिति । अत्रोच्यते । यदि स्वत्वापगम एव
पुत्रादीनां तद्धने स्वत्वं तर्हि निर्दोषे पित्रांदौ जीवति
तेषां धनसाध्यवैदिककर्मस्वनधिकारप्रसङ्गे “जातपुत्त्रः
कृष्णकेशोऽग्नीनादधीतेत्यादि श्रुतिविरोधस्तुल्यः
स्वकपोलकल्पितहेत्वाभाससमर्थितस्मृत्यर्थानुरोधेन श्रुति
सङ्कोचोऽयुक्तः । आहिताग्नाविष्टप्रथमयज्ञे पित्रादौ
जीवत्यपि पुत्रादीन् प्रति तत्प्रवृत्त्यविशेषात् ।
सकलयाज्ञिकशिष्टानां तदनुष्ठानदर्शनाच्च । जातपुत्रकृष्ण
केशपदाभ्यां वयोवृद्धानतिक्रमस्यैव विवक्षा न तु तयोर-
व्यवस्थितयोः स्वरूपेणेति विरोधाधिकरणे भाष्यवार्त्ति
कादौ स्थितत्वात् । न च यथा प्रुत्रानुमत्या पितुर्भव-
न्मते तदधिकारस्तथा मन्मतेऽपि पुत्रादीनामपि पित्रा-
द्यनुमत्येति वाच्यम् । यतो द्वयोरपि मते पितुः
स्वत्वस्य धने विद्यमानत्वात् खत्वत्यागरूपप्रधाननिष्प-
त्तिरविहता भवन्मते तु पुत्रादीनां स्वत्वस्यैवाभावादनु-
मतेश्च स्वत्वजनकत्वाद्यागादिप्रधाननिष्पत्तिरेव कथम् ।
वस्तुतस्तु पितुः पुत्त्रानुमतिरपि नापेक्षिता स्वात-
न्त्र्यात् । पित्राद्यनुमतिस्तु पुत्रादेरपेक्षिता पारतन्त्र्या-
दित्येतावान् विशेषो यथा स्त्रियाः स्वधनेनापीष्टा
पूर्त्तादिव्रतादौ भर्त्रादेरनुमतिस्तत्पारतन्त्र्यवचनात् ।
अननुमतौ तु स्वतन्त्रः प्रत्यवायो वैगुण्यं वा कर्मणि न
तु प्रधानस्वरूपानिष्पत्तिः । पित्राद्यनुमतेः स्वत्वीत्पाद-
कत्वञ्चैतदनुरोधात्कल्प्यमानमलौकिकभशास्त्रीयञ्च ।
तस्माच्छास्त्रैकसमधिगम्येऽपि स्वत्वे कथञ्चिज्जन्मनोऽपि
पृष्ठ ३५४९
रिक्थादिवचनादधिगमादिपदेन संग्रह आवश्यकः श्रुति
स्मृतिपुराणशिष्टाचारसिद्धस्य निर्दोषे जीवत्यपि पित्रादौ
पुत्रादियज्ञाद्यनुष्ठानाधिकारस्यानुरोधात् । वस्तुतस्तु
लौकिकमेव स्वत्वं लोके च जातमात्राणामेव पुत्रादीनां
पित्रादिधने स्वाम्यव्यवहारोऽन्येषामपीति साधयि-
ष्यामः । यच्च पित्रादीनामनुमत्ययोग्यपुत्रादिसाधारण-
स्वत्वे कथमनुमतिमन्तरेणाधानादिकं स्यादित्युक्तन्तदनु-
मतियोग्येष्वपि पुत्रादिषु स्वातन्त्र्यात्पित्रादीनां न
तदनुमत्यपेक्षा किमुतानुमत्ययोग्येष्विति परिहृतप्रायमेव
तद्विधिबलादेवाधिकारोऽवगम्यत इति तु विज्ञानेश्वरा-
चार्य्यः । अतश्चोत्मत्त्यैवार्थस्वामित्वमिति गौतमवन्वनस्य
यज्जीमूतवाहनरघुनन्दनाभ्याम्पारम्परिकोत्पत्तिस्वत्वहेतु-
त्वेन व्याख्यानं कृतन्तदपि व्यर्थमेव । यत्तु शङ्खवचन-
न्तस्यापि स्मृतिचन्द्रिकोक्तव्याख्यैव साधीयसी । कल्प-
तरूक्तव्याख्यायान्तु विद्याद्युपात्ताध्याहारेऽनुपस्थितभूयः-
पदाध्याहारः प्रसज्येत । जन्मपदाध्याहारस्तु पुत्रत्वा-
द्याक्षेपस्थितेरल्पाध्याहाराच्च नायुक्तः । तेन श्रुत्युपष्ट-
ब्धस्मृत्यनुरोधान्मनुनारददेवलादिवचनानामेवास्वातन्त्र्य-
परत्ववर्णनभुचिततरम् । यदप्युक्तं प्रीतिदत्तस्यावि-
भाज्यत्ववचनानि जन्मना स्वत्वाभ्युपगमेऽनुपपन्ना-
नीति । तदपि न अनुमत्यभिप्रायेण स्थावरप्रीति-
दानाभावस्थिरीकरणार्थतयोपपत्तेः । स्वातन्त्र्याद्वा
पितुरनुमतिमन्तरेणापि तेन दत्ते स्थावरव्यतिरिक्ते
पुत्राणामविभाज्यत्वमुच्यते । अतएव स्थावरे विशेष-
वचव्रम् “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम् ।
असम्भूय सुतान् सर्वान्न दानन्न च विक्रयः” इति ।
मणिमुक्ताप्रबालानामित्यादिवचनन्तु जन्मना स्वत्व-
पक्ष एवोपपन्नतरम् । न च पितामहोपात्तस्थावर-
मात्रविषयत्वमिति युक्तम् । न पिता न पितामह
इति द्वयग्रहणात् । पितामहस्य हि स्वार्जितमपि पुत्रे
पौत्रे च सत्यपि न देयमिति वचनं जन्मना स्वत्वङ्ग-
मयति । यथा परमते मणिमुक्ताप्रवालादीनां पैता-
महानामपि पितुरेव स्वत्वन्तत्स्मरणात्तथास्मिन्
मतेऽपि पुत्रादीनान्तत्र जन्मना स्वत्वे साधारणेऽपि पितु-
र्दानाधिकार इत्यविशेषः । तस्मात्पैतृके पैतामहे च
द्रव्ये पुत्रादीनां यद्यपि जन्मनैव स्वत्वं तथापि पितु-
रावश्यकेषु धर्मकृत्येषु वाचनिकेषु च प्रसाददानकुटुम्ब-
भरणापद्विमोक्षादिषु च स्थावरव्यतिरिक्तद्रव्यविनियोगे
स्वातन्त्र्यमिति ध्येयम् । स्थावरादौ तु स्वार्जितेऽपि
पित्रादिपरम्पराप्राप्ते च पुत्रादिपारतन्त्र्यं तुल्यमेव ।
“स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम् । असम्भूय
सुतान् सर्वान्न दानन्न च विक्रयः । ये जाता येऽप्य-
जाताश्च ये च गर्भे व्यवस्थिताः । वृत्तिञ्च तेऽभिका-
ङ्क्षन्ति न दानन्न च विक्रयः” इत्यादि वचनात् । अस्या-
प्यपवादो वक्ष्यते यच्च स्वत्वस्य शास्त्रैकसमधिगम्यत्वा-
च्छास्त्रे च जन्मनः क्वापि स्वत्वहेतुतानभिधानात्
कथञ्जन्मना पुत्रादीनाम्पित्रादिधने स्वत्वस्वीकार इत्यु-
क्तम् । तत्तु शास्त्रैकसमधिगम्यत्वमभ्युपेत्यापि गौतमा-
दिवचन उत्पत्तेरपि स्वत्वोक्तेः परिहृतमेव प्राक् । वस्तु-
तस्तु न स्वत्वस्य शास्त्रैकससधिगम्यत्वं युक्तियुक्तम् ।
सर्वथा शास्त्रज्ञानगन्धरहितानां प्रत्यन्तवासिनां म्लेच्छा-
दीनामपि मम स्वमिदं नान्यस्य स्वमिति व्यवपदेशस्तत्-
कृतश्च क्रयविक्रयादिव्यवहारो दृश्यते । तेनान्वयव्यति-
रेकाभ्यां क्रयाद्युपायकं स्वामित्वमपि तैर्यथेष्टविनि-
योगार्हत्वरूपं पदार्थान्तररूपं वा प्रत्यक्षादिप्रमाणा-
देवावगतमित्यवश्यं वाच्यम् । एतत्तर्कोपष्टब्धोऽनुमान-
वाक्यप्रयोगोऽपि विज्ञानयोगिनोक्तः “स्वत्वं लौकिकं
लौकिकार्थक्रियासाधनत्वाद्व्रीह्यादिवम् इत्यन्वयदृष्टान्तः ।
आहवनीयादीनां हि शास्त्रैकसमधिगम्यानां न लौकि-
कार्थक्रियासाधनत्वमस्तीति व्यतिरेकदृष्टान्तः । तेना-
न्वयव्यतिरेकौ हेतुः । यद्यप्याहवनीयादीनामपि यागा-
दिलौकिकक्रियासाधनत्वमप्यस्ति । तथापि तल्लोक-
प्रमाणकाग्न्यादिरूपेण नालौकिकाहवनीयादिरूपे-
णेति न व्यभिचारः । इह तु सुवर्ण्णादिरूपेण न
क्रयादिसाधनत्वमपि तु स्वत्वेनैवे ति सुवर्ण्णत्वादिना
भरणाद्यर्थक्रियासाधनत्वात्तद्यथालौकिकं रूपमेवं स्वत्व-
मपि सर्वानुगतं लौकिकमेव नह्यस्वत्वेन क्रयादि
क्रियानिर्वाहो लोके । न चैवं स्वामी रिक्थेत्यादि
स्मृतीनां लोकसिद्धार्थानुवादकत्वेनानर्थक्यापत्तिरिति
वाच्यम् । धर्माधर्मोपयोगितया व्याकरणस्मृतावना-
दिवाचकत्वतदभावरूपसाधुत्वासाधुत्वविवेकस्येव तस्यो-
पपत्तेः । साधुशब्दाधिकरणे ह्येतदवस्थितं यत्सङ्कीर्ण-
व्यवहारिणां लोकानामविविक्तं लौकिकमेव साधुत्वं
शास्त्रेण विविच्यते । नत्वलौकिकसाधुत्वं साधुभि-
र्भाषेतेत्यादिविधावन्योन्याश्रयप्रसङ्गादित्यादि । एवमत्रापि
तथा च नयविवेके भवनाथः “लीकसिद्धञ्चार्जलञ्ज-
पृष्ठ ३५५०
न्मादि अतएवानिन्द्यं प्रथमलोकधीविषयव्यवस्थितं
तन्निबन्धनार्था स्मृतिर्व्याकरणादिस्मृतिवदिति । जन्मा-
दीत्यादिपदेन क्रयादिग्रहणम् । व्याकरणादित्यादि-
पदेन सङ्गीतरत्नपरीक्षासामुद्रिकाणां ग्रहणम् ।
रागादीनामपि हि लोकसिद्धानामेवानभियुक्तान् प्रति
विवेकार्थमेव तल्लक्षणकथनमित्युक्तं स्मृत्यधिकरणे
आचार्य्यचरणैः । स्वामी रिक्थेत्यादिवचनन्तु प्रागेव
व्याख्यातम् । रिक्थशब्दस्तु निष्प्रतिबन्धदायपरः संवि-
भागशब्दश्च सप्रतिबन्धदायपर इति मिताक्षरायां
विज्ञानेश्वरेण व्याख्यातम् । स्मृतिचन्द्रिकाकृता तु
रिक्थं पित्रादिवने पुत्रादीनां स्वामित्वापादकं जन्मनै-
वेति व्याख्याय संविभागः पित्रादिधने विशेषनिष्ठ-
स्वामित्वसम्पादको विभाग इति संविभागशब्दो व्याख्या-
तस्तन्न स्वस्य सतो विभागात् स्वत्वहेतुत्वेन तत्प्रति-
पादनानौचित्यात् । एकदेशव्यवस्थापनमात्रं हि स्वत्वस्य
विभागेन क्रियते । मुख्यामुख्यहेतुत्वग्रहणे स्वामिपदे
वैरूप्यापत्तेः । अतएवाह मिताक्षरायां विज्ञानेश्वरा-
चार्य्यः ‘विभागशब्दश्चानेकस्वामिकधनविषयः प्रसिद्धो-
नान्यदीयविषयो न प्रहीणविषय इति’ । लोके पुत्रा-
दीनां जन्मनैव स्वत्वं प्रसिद्धतरमेव । यदपि पत्नी
दुहितरश्चेत्यादिवचनं तदपि स्वामिसम्बन्धनिबन्धना-
नेकदायहरप्राप्तौ लोकप्रसिद्धेऽपि स्वत्वे व्यामोह-
निरासार्थम् । प्रायेण व्यवहारस्मृतीनां लोकसिद्धा-
र्थानुवादकत्वमिति सकलनिवन्धृभिरभिधानात् । नियतौ-
षायिकं स्वत्वं लोकसिद्धमेवेति भगवतोगुरोरपि
संमतम् । लिप्सानये हि तृतीये वर्णके द्रव्यार्जननियमानां
क्रत्वर्थत्वे स्वत्वमेव न स्यात् स्वत्वस्यालौकिकत्वादिति
पूर्बपक्षासम्भवमाशङ्क्य द्रव्यार्जनप्रतिग्रहादीनां स्वत्वसाध-
नत्व लोकसिद्धमेवेति पूर्बपक्षः समर्थितस्तेन । न च
द्रव्यार्जनस्य क्रत्वर्थत्वे स्वमेव न भवतीति याग एव न
संवर्त्तेत । प्रलपितमिदङ्केनापि । अर्जनं स्वत्वं नापा-
दयतीति विप्रतिषिद्धमिति” ग्रन्थेन । अस्यार्थष्टीका
कृता विवृत एवम् । यदा द्रव्यार्जननियमानां क्रत्व-
र्थत्वन्तदा नियमानां स्वत्वोपायतामिदं शास्त्रं न
बोधयति क्रत्वर्थताबोधने व्यापृतत्वात् । तथा सति प्रति-
ग्रहादिप्राप्तस्य स्वत्वमित्यत्र प्रमाणाभावादस्वेन च
स्वत्वत्यागात्मकयागासम्भवात् कस्येह द्रव्यार्जननियमा
भवेयुरिति पूर्वपक्षासम्भव इति शङ्कार्थः । प्रलपित-
मित्याद्युत्तरस्तस्यार्थः । अर्जनप्रतिग्रहादेः स्वत्पहेतुताया
मोकसिद्धत्वेन शास्त्रस्य तत्राव्यापारान्नियमानां क्रत्वर्य-
तैव तेन गम्यत इति न यागासम्भवो नियमानर्थक्य-
ञ्चेति । सिद्धान्तेऽपि तेन स्वत्वस्य लौकिकत्वाभ्युपगमे-
नैव विचारप्रयोजनमुक्तम् ‘अतो नियमातिक्रमः
पुरुषस्य न क्रतोरिति’ । अस्याप्यर्थ एवं विवृतः । यदा
द्रव्यार्जननियमानां क्रत्वर्थत्वन्तदा नियमार्जितेनैव क्रतुर्न्न
नियमातिक्रमार्जितेन द्रव्येण । न तु पुरुषस्य
नियमातिक्रमदोषः पृर्वपक्षे । सिद्धान्ते अर्जननियमस्य क्रत्वर्थ-
त्वाभावात्केवलपुरुषार्थत्वात्नियमातिक्रमार्जितेनापि
द्रव्येणक्रतुसिद्धिरप्रत्यूहा पुरुषस्यैव तु नियमातिक्रमदोष
इति अनेन नियमातिक्रमार्जितस्यापि स्वत्वमभ्युपगत-
मन्यथा क्रतुसिद्ध्यभिधानविरोधात् । तत्रैवाधिकरणे
कुमारीस्वामिंनोऽप्यत्रभवतः स्वत्वं लौकिकमित्येवाभिमत-
मिति । तत्रत्यवार्त्तिकतन्त्ररत्नाभियोगभाजां सुलभमेव ।
अतएवाह शास्त्रदीपिकायां, पार्थसारथिः
रागप्राप्तं तावदर्जनन्न शास्त्रीयम् । रागतश्च पुरुषार्थतया
प्राप्तेः प्रत्यक्षेणैवार्जितं द्रव्यं पुरुषम्प्रीणयत् पुरुषार्थं
विज्ञायते न तदनुमाने क्रत्वेकशेषतया शक्यं विज्ञा-
तुम् । तस्मात् पुरुषार्थं द्रव्यं क्रतुरपि पुरुषकार्य्या-
णामन्यतम इति कार्य्यान्तरवत् क्रतावप्युपयुज्यत इत्ये-
तावान् विशेषः । नतु तस्यैवाङ्गं तथा सति जीवनलो-
पात् क्रतुरेव न प्रवर्त्तेतेति प्रधट्टकेन । अत्रार्जनस्य
शास्त्रीयत्वन्निरस्यता स्वत्वस्य तदुपायानाञ्च लीकसिद्धत्वं
स्पष्टतरमेवोक्तम् । अन्यदपि तेनैवोक्तम् । तस्मात् पुरु-
षार्थन्द्रव्यार्जनमेवञ्च दृष्टार्थम्भवति । नियमस्तु दृष्टा-
भावात्काममदृष्टार्थः स्यात् । अदृष्टमपि पुरुषार्थार्जन-
विषयत्वात् । नियमस्य पुरुषगतत्वमेव कल्प्यते । तेना-
सावुपायान्तरेणार्जयन् प्रत्यवेतीति गम्यत इति । ततश्च
स्वामी रिक्थेत्यादिवचसां लौकिकमेव रिक्थादीनां
स्वत्वोपायत्वमनूद्य तदतिरिक्तोपायनिवृत्तौ तात्पर्य्यन्निय-
मविधयेति नानर्थक्यशङ्कापि तृप्तिसाधनभोजनाश्रित-
दिङ्गियमवत् । द्रव्यार्जनमेव क्रत्वर्थपुरुषार्थत्वविचारो
दाहरणन्नियमस्तु पूर्बपक्षयुक्तितयोपन्यस्तः । स एव
तत्रोदाहरणभित्येव भट्टगुरुमतयोर्भेदः स्वत्वस्य लौकि-
कत्वं तूभयसम्मतमिति निष्कर्षः । तत्तद्दूषणभूषणादि
तु तन्त्राभियोगवतामाकरे एव व्यक्तं प्रस्तुतानुपयोगा-
दिह नोच्यते । एतेन चोर्य्यादिप्राप्तस्यापि स्वत्वं
पृष्ठ ३५५१
स्यादिति यत्संग्रहकारधारेश्वराभ्यां स्वत्वस्य लौकिकत्वे
दूषणमभिहितं तदपि परास्तम् । चौर्य्यादिषु स्वत्वो-
पायत्वस्य लोकएवाप्रसिद्धेरन्यस्य स्वमिदन्नास्येत्येवं व्यव-
हारात् । क्रयाद्युपायसन्देहादेव स्वत्वसन्देहोऽपीदमस्य
वान्यस्य वेत्याकारोनानुपपन्नः । मम स्वमनेनापहृतमिति
न ब्रूयादपहर्तुरेव स्वत्वादिति च यत्खत्वस्य लौकिकत्वे
दूषणमभिहितं तदप्येतेनामूलविशीर्णम् । यच्चोक्तं
संग्रहकृता “शास्त्रेण सर्वस्य तत्र बिनियोगनियन्त्रणा-
द्यथेष्टविनियोगार्हत्वरूपस्वत्वासम्भवः इच्छया क्वापि
नियोगासम्भवादिति । तदप्यापाततः न हि वयमै-
च्छिकविनियोगोपहितत्वं ब्रूमोऽपि तु तदर्हत्वमात्रम् ।
अन्यथा राजादिभयादिच्छाप्रतीघातेऽपि तत्र विनि-
योगेच्छानिच्छादशयोश्च स्वत्वतदभावौ विरुद्धौ प्रसज्ये-
याताम् राजादिनियन्त्रणादिव शात्रनियन्त्रणादन्य-
त्रैच्छिकविनियोगाभावेऽपि तदर्हत्वस्यानपायात् । अतएव
दुर्वृत्तेनाशास्त्रीयविनियोगे स्वव्यवहारो नास्ति ।
प्रत्यवायमात्रपरं शास्त्रातिक्रमात् । तदर्हत्वं च तद
र्जितत्वप्रयुक्तमस्त्र्येव । तथा च नयविवेकेऽप्युक्तम् ।
“तच्च तस्य तदर्हं यद्देनार्जितमिति” । तदर्हं यथेष्टवि-
नियोगार्हमित्यर्थः प्रतिबन्धादङ्कुरमजनयतोऽपि कुमू-
लस्थवीजस्य वीजत्वप्रयुक्तमङ्कुरोत्पादनार्हत्वमिव । वस्तु
तस्तु वीजत्वाङ्कुरार्हत्वयोरिव स्वत्वत्वयथेष्टविनियोगार्ह-
त्वयोरपि भेद एव । अन्यथार्हतावच्छेदकाऽपरिचयेऽर्ह-
ताया दुर्न्निरूपत्वात् । तेन ब्राह्मण्यमिव स्वत्वमपि
तदुपायज्ञानव्यङ्ग्यं पदार्थान्तरमेवोत्पत्तिविनाशशालि ।
ब्राह्मण्यन्तु जातिरूपं नित्यमित्येतावान् परं भेदः ।
इदञ्चाकरे व्यक्तं लीलावत्यादौ च । अत्र मिताक्षरायां
स्वत्वलौकिकालौकिकत्वविचारप्रयोजनमुक्तं शास्त्रैक-
समधिगम्ये स्वत्वे । मनुः “यद्गर्हितेनार्जयन्ति कर्मणा
व्राह्मणा घनम् । तस्योत्सर्गेण शुद्ध्यन्ति दानेन तपसैव
च” इत्यादिस्मरणादसत्प्रतिग्रहादि यस्य यदर्जनो-
पायत्वेन निषिद्धन्तदंर्जिते तस्य स्वत्वाभावाच्चौर्य्याद्यर्जित-
वत्तत्पुत्राणामपि तदविभाज्यमेव । लौकिकत्वे तु
स्वत्वस्य तदर्जितेऽपि पितुः स्वत्वात्तत्पुत्राणां पितृधन-
त्वेन तद्विभाज्यम् । अर्जयितुरेव प्रतिषेधातिक्रमनिमि-
त्तप्रत्यवायात् प्रायश्चित्तम् । तत्पुत्रादीनान्तु दायरूपधर्मो-
पायतस्तत्स्वमिति न प्रायश्चित्तमपि “सप्त वित्तागमा
धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च
सत्प्रतिग्रह एव चेति” मनुस्मरणात् । प्रयोगो
वृद्ध्यर्थन्द्रव्यप्रयोगः कर्मयोग आर्त्विज्यादिकरणम् ।
तत्र दायादीनां त्रयाणां वर्णचतुष्टयसाधारण्येन जयस्य
क्षत्रियं प्रति, योगस्य स्वयंकृतस्य वैश्यं शूद्रं च प्रति धर्म्य-
त्वम् अस्वयंकृतस्यापदि च स्वयंकृतस्यापि सर्वान्
प्रति । कर्मयोगस्य तु विप्रं प्रत्येवेति विशेष इति ।
अत्र मदनरत्नकरो दूषणमाह ‘स्वत्वस्य शास्त्रैकसम-
धिगम्यत्वेऽप्यसत्प्रतिग्रहादिनिषेधो न स्वत्वानुत्पादकता-
न्तेषां वदति किन्तु प्रत्यवायमात्रहेतुताम् ।
इतरथा “आपद्गतः सम्प्रगृह्णन् भुञ्जानो वा यतस्ततः ।
न लिप्येतैनसा विप्रो ज्वलनार्कसमो हि सः । कुसोदं
कृषिबाणिज्यं प्रकुर्वीतास्वयङकृतम् । आपत्काले स्वयं
कुर्य्यान्नैनसा युज्यते द्विजः” इति वचनैरेनसा न युज्यत
इत्यभिधानेनापदि प्रत्यवायाभावावगमेनानापदिप्रत्यवाय-
स्यैवावगमात् प्रतिषेधप्रतिप्रसवयोः समानविषयत्वौ-
चित्यात् । अतएवानापदि तत्र द्रव्यपरित्यागपूर्बकं
जपतपोरूपं प्रायश्चित्तमेव विदधाति । न चौर्य्यादिवद्राज-
दण्डमपि किञ्चिद्वचनमसत्प्रतिग्रहादौ । तेनासत्प्रति-
ग्रहादेः पूर्वपक्षसिद्धान्तयोर्द्वयोरपि तेषां स्वत्वोत्पाद-
कत्वाविशेषात्तदर्जितस्य पुत्रादिविभाज्यत्वमपि तुल्यमिति
नैतत्प्रयोजनं विचारस्यास्य युक्तमिति’ । अत्र वटामः ।
शास्त्रैकसमधिगम्यस्वत्ववादिनो मते यथा चौर्य्यादि-
निषेधस्य स्वत्वानुत्पादकत्वदण्डप्रयोजनं विचारस्यास्य
युक्तमिति अत्र कर्तुः प्रायश्चित्तार्हताप्रयोजकत्वप-
रता । तथाऽसत्प्रतिग्रहादिनिषेधस्याप्यस्तु यथा
चापदुपाधिना “तथैव सप्तमे भक्ते भक्तानि षडनश्नता ।
अश्वस्तनविधानेन हर्त्तव्यं हीनकर्मणः । आख्यातव्यश्च
तत्तस्मै पृच्छते यदि वृच्छतीत्यादि” प्रतिप्रसवबलाच्चौर्य्ये
तत्त्रितयाभावस्तथाऽसत्प्रतिग्रहादेरप्यस्तु । अन्यथोभयः
त्रापि ततः पञ्चमहायज्ञाद्यनिष्पत्तिप्रसङ्गः । शास्त्रीयत्वे
स्वत्वस्याप्रसक्तचौर्य्योपायकत्वनिषेधः कथमिति चेत् ।
अधिगमान्तर्भावेन कथञ्चित्तत्प्रसक्तेस्तेनावश्यवक्तव्य-
त्वात् अपरथा प्रतिषेधानुपपत्तेः । शास्त्रप्राप्तप्रतिषिधे
च विकल्पापत्तिभिया “दीक्षितो न जुहोतीत्यादिव-
द्भाष्यकारमतेन पर्य्युदासत्वं सामान्यविशेषभावेन विशेष-
निषेधसामान्यविध्योर्बाध्यंबाधकभावोऽपि वा मतान्तरे-
णेत्यपि स्वीकार्य्यमेवागत्या । प्रतिग्रहादेस्तु प्रसक्तिः
र्ब्राह्मणादेरस्त्येवेत्यापत्तदभावोपाधिकौ प्रतिप्रसवप्रति-
पृष्ठ ३५५२
षेधावप्युपपन्नतरौ । तर्ह्यसत्प्रतिग्रहस्वयंकृतबाणिज्या-
दावनापदि ब्राह्मणस्य राजदण्डोऽपि स्यादिति चेन्न
इष्टापत्तेः । न हि स्वधर्मत्यागिनो राजदण्डाभावः
कस्यापि सम्मतः । स च क्वचित् सामान्यरूपेणोक्त एव
गृह्यते क्वचिद्विशेषादाम्नात इत्यन्यदेतत् । अतएवालौ-
किकस्वत्ववादिन इदमप्यपरदूषणम् । चौर्य्यादिनिषेधस्य
त्रितयप्रयोजकतागौरवम् । पर्य्युदासत्वादिस्वीकारगौर-
वञ्च लौकिकस्वत्ववादिनस्तु दण्डप्रत्यबायमात्रपरत्वम् ।
तेषां स्वत्वानुपायत्वस्य लोकसिद्धत्वादिति रागप्राप्तनिषेधे
पर्य्युदासादिस्वीकारानापत्तिश्चेति लाधवमिति । तस्मा-
च्छास्त्रैकसमधिगम्ये स्वत्वेऽसत्प्रतिग्रहादेस्तदनुपायत्वात्त-
दर्जिते पितुः स्वत्वाभावः स्यादेवेति चौर्य्याद्यर्जितपि-
तृधनाविभागवदसत्प्रतिग्रहाद्यर्जितस्याप्यविभाज्यत्वम् ।
लौकिके तु तस्मिन् लोके तेषामपि तदुपायत्वात्
सिद्धं तद्विभाज्यमिति मिताक्षरोक्तं साध्वेव प्रयो-
जनम् । इदञ्चोपलक्षणम् । पूर्बपक्षे चौर्य्याद्यर्जित-
पितृधनस्वीकारे यथा पुत्त्रादीनामपि दण्डप्रायश्चित्तं
भवत्येव तथाऽसत्प्रतिग्रहाद्यर्जिततद्ग्रहणेऽपीत्यपि
प्रयोजनमवसेयम् अर्जयितुरेव प्रायश्चित्तमित्यभिधानेनो-
चितत्वात् । इदन्त्विह विचार्य्यम् । स्वत्बस्य लौकिकत्वे
चौर्य्यस्य लोके तदनुपायत्वे सिद्धे षड़्भक्तानशनाद्या-
पदि यच्चौर्य्यमनुमतन्तेन चोरिते स्वत्वमुत्पद्यते न वा ।
नाद्यः लोकेऽनुपायत्वेनावधारितत्वात्तदुत्पत्तेरभ्युपगन्तु-
मशक्यत्वात् । न हि प्रत्यक्षविरुद्धं शास्त्रसहस्रेणापि
जलादेर्दधिजनकत्वादि बोध्यते । न द्वितीयः अस्वेन
पञ्चमहायज्ञादिप्रधानानिष्पत्तेः । नच क्षुत्प्रतिघात-
मात्रमेव तेन क्रियतां नान्यदलौकिकमिति वाच्यम् ।
शिष्टाचारविरोधात् न हि “शिष्टाः पञ्चमहायज्ञाद्य-
कृत्वा तदुपयुज्यते “यदन्नः पुरुषो लोके तदन्नास्तस्य
देबताः” इतिं स्मरणाच्च । अतएव विश्वामित्रः
श्वजाबनीं श्वपचगृहात् हृत्वेन्द्रादिदेवोद्देशेन त्यक्त्वा
मोक्ष्यामीति मनसिकृत्य यदा यथादैवतन्तद्भागांस्त्र्यक्तुं
प्रवत्तस्तदा तुष्टैरिन्द्रादिभिर्वृष्टिः सृष्टा शस्यञ्च
तत्क्षणमेव पभूतमभूदित्याख्यायिका पुराणेषु स्मर्य्यते ।
णास्त्रैकसमधिगम्ये तु खत्वे यथाशास्त्रञ्चौर्य्यादेरपि
स्वत्वोत्पादकत्वतदभावौ न विरुद्धौ । लौकिकस्वत्वतदु-
पायवादिनस्तूपयतः पाशारज्जुरियमिति । अत्र प्रति-
विदध्मः । यद्यपि चौर्य्यस्य स्वत्वोत्पादकत्वन्न लोकसिद्धं
तथाप्यनेनैव सप्तभक्ताशनकाले षड्भक्तानशिनो
विधानाद् गम्यते । स्वत्वमात्रस्य हि शास्त्रीयत्वे विरु-
द्धत्वमतज्ज्ञानानां क्रयादिस्वत्वसाध्यव्यवहारानुप-
पत्तेः । अतश्चौर्य्यनिषेधोदण्डपापमात्रबोधक एव ।
चौर्यस्य स्वत्वोत्पादकत्वाप्रसक्तेर्न तदभावपरः । यथा
व्राह्मण्यस्य र्वत्र प्रत्यक्षत्वेऽपि जात्युत्कर्षस्थले शास्त्री-
यत्वमेव । पुरुषेयत्तानियमस्य शास्त्रैकगम्यत्वात् ।
यथाहुराचार्य्याः “एतावन्मात्रन्त्विहागमिकं प्रत्ये-
तव्यम् नह्ययं पुरुषेयत्तानियमोलोकप्रमाणगम्यं
इति” । तत्रापि तावत् पुरुषपरम्पराजन्यव्यक्तौ ब्राह्मण्य-
मभिव्यज्यत इति व्यङ्ग्यव्यञ्जकभाव एव परं शास्त्रीय
व्यञ्जके ज्ञानवतस्तादृशव्यक्तौ ब्राह्मण्यं प्रत्यक्षमेव
व्यक्तिप्रत्यक्षप्रमुखजातिप्रत्यक्षसामग्रीसम्भारादित्यपि
वदन्ति । इह तु चौर्य्यमात्रस्यैव स्वत्वानुत्पादकत्व-
ग्रहात्तादृशस्य तस्य स्वत्वोत्पादकतैव शास्त्रेण बोध्यते ।
न च प्रत्यक्षविरोधः । नहि प्रत्यक्षविरुद्धं शास्त्रसहस्रे-
णापि बोधयितुं ंशक्यमिति वाच्यम् नह्यनुत्पादकत्व-
मपि लोकात् । तादृशेन व्यवहाराभावादन्वयव्यतिरेक-
गम्या स्वत्वस्य चौर्य्योपायकता नावगम्यत इत्येतावत् ।
तथा च पुत्रेष्ट्याद्रीनां लोकानवगतपुत्त्रादिजनकता
यथा शास्त्रादवगम्गते तेषां दृष्टोपायान्तरजन्यतायामपि,
तथेहाप्यस्तु । स्वर्गाहवनीयादीनामलौकिकमात्ररूपाणां
दृष्टोपायाभावोऽप्यधिक इत्यन्यदेतत् । प्रतिबन्धकप्र-
तिबद्धदाहादिजनकता यथोत्तेजकमन्त्राणामथर्वादि
शास्त्रगम्या लोकप्रमाणगम्यत्वात् उत्तेजकतायाश्च प्रति-
बन्धकप्रतिबद्धकार्यजनकतातिरिक्ताया अनिर्वाच्यत्वात् ।
शक्तिनाशतदुत्पत्तिकल्पनायामतिगौरवात् । यत्तु जन्मना
स्वत्वन्निराकुर्वता जीमूतवाहनेन ‘क्वचिज्जन्मनैवेति
जन्मनिबन्धनत्वात्पितापुत्त्रस्य सम्बन्धस्य पितृमरणस्य
च कारणत्वात्परम्परया वर्णनसिति’ प्राचीनलिखनाभि-
प्रायमुक्त्वा कथमुत्पादनरूपेश पितृगतव्यापारेण पुत्रे
स्वत्वीद्वषत्तिरित्याशङ्क्योक्त अन्यव्यापारेणाप्यन्यस्य स्वत्वम-
विरुद्धं शास्तबलकत्वादस्य । दृष्टञ्च लोकेऽपि दाने हि
चेतनोद्देश्यकत्यागादेव दातृव्यापारात् सम्प्रदानस्य द्रव्ये
स्वामित्वम् । न च स्वीकारणात् स्वत्वं स्वीकर्त्तुरेव
दातृत्वापतेः । परस्वद्वापत्तिफलेन न्दि दानरूपता तच्च
फल सम्ब्रदानाधीनम् । यथा हि देवतोद्देशेन त्यागं
कुर्वचपि यजमानो त द्वोता किन्तु तस्यैव यागस्य
पृष्ठ ३५५३
होमाभिधाननिमित्तभूतम्प्रक्षेपं कुर्वन्नृत्विगेव होतेत्यु-
च्यते तद्वदत्रापि स्यात् । किञ्च । मनसा पात्रमुद्दि-
श्येत्यादिशास्त्रे स्वीकारात् प्रागेव दानपदं दृष्टम् ।
ननु ग्रहणं स्वीकारः अभूततद्भावे च्विप्रयोगादस्वं स्वं
कुर्वन् व्यापारः स्वीकारो भवति कथन्ततः प्रागेव स्वत्वम् ।
उच्यते । उत्पन्नमपि स्वत्वं सम्प्रदानव्यापारेण ममेद-
मिति ज्ञानेन यथेष्टव्यवहारार्हं क्रियते इति स्वीकार-
शब्दार्थः याजनाध्यापनसाहचर्याच्च प्रतिग्रहस्य स्वत्वमज-
नयतोऽप्यर्ज्जनरूपता न विरुद्धा याजनादौ दक्षिणा-
दानादेव स्वत्वात् । पितृनिधनकालीनञ्जीवनमेव वा
पुत्त्रस्यार्जनम्भविष्यति । किञ्च । भ्रात्रादिधने तन्मर-
णात्तन्मरणकालीनजीवनाद्वा भ्रात्रन्तरादेः स्वत्वम-
कामेनापि वाच्यन्तद्वदिहाप्यस्त्वितिं । तदेतदुत्तानमति
बिलसितम् । तथा हि शास्त्रमूलत्वादस्येति तावत्
स्वत्वस्य लौकिकत्वसाधनादेव निराकृतम् । यदपि दृष्टश्च
लोकेऽपीत्यादि तदप्यापातसुन्दरम् । न हि प्रतिग्रही-
तर्य्यस्वीकुर्वत्यपि तस्य स्वत्वमुत्पद्यते । पात्रविशेषोद्देशेन
त्यागे तेनास्वीकृतेऽपि तत्स्वत्वोत्पत्तौ परस्मै तस्य प्रति-
पादनासम्भवप्रसङ्गात् । यदपि स्वीकर्त्तुरेव दातृत्वापत्ते-
रिति तदप्ययुक्तम् । परस्वत्वापत्तिफलकव्यापारस्य
दानत्वात्सम्प्रदानस्वीकारानुकूलानुमानादिव्यापारस्य
दानपदार्थत्वात्तत्फलोपहितता तुं तस्य सम्प्रदानस्वीकार-
मन्तरेण न सम्भवतीति सम्प्रदानव्यापारस्तद्ध्वटकः । न तु
सएव दानशब्दार्थः । यदपि यथा हीत्यादि तदपि
न यजमानकर्त्तृकाग्निहोत्रहोमादौ तदविरोधात् ।
यत्रापि दर्शपूर्णमासादौ त्यागमात्रं यजमानेन क्रियते ।
चरुवत्तस्य प्रक्षेपोऽर्ध्वादिभिस्तत्रापि विविक्तकर्त्तृक-
त्वाद्यथास्वन्तद्व्यवहाराविरोधात् । अत्यक्तस्य प्रक्षेपपर
होमशब्दबाच्यता नास्ति । स तु त्यागः स्वकर्त्तृकोऽ-
न्यकर्त्तृको वाऽवच्छेदकोऽस्तु न तावता कश्चिद्दोषः ।
अतएव यागस्य न प्रक्षेपापेक्ष आत्मलाभो होमस्य तु
तदपेक्षएव । दानस्य तु प्रतिग्रहीतृव्यापारसापेक्षतैव
तदभावे दानपदार्थानिष्पत्तेः । यच्च किञ्चेत्यादि ।
तदपि यत्किञ्चित् उत्सर्गस्यैव तत्र विधानात् न तु
दानस्य । अतएव दाता तत् फलमाप्नोतीत्युक्तमन्यथा
तस्यानुवादत्वापत्तेः । दानत्वे हि तस्य तत्फलभावा-
प्रसक्तेस्तु तत् फलमाप्नोतीति व्यर्थमेश स्यात् ।
अतस्तत्र जलप्रक्षेपरूपः पात्रोद्देश्यक उद्यर्तएव ददातिना
विवक्षितोदानत्वनिष्पत्तिस्तु तस्य सम्प्रदानकर्त्तृकस्वीकारे
सत्येवेति परमार्थः । अतएवोत्सृजे इत्येव तत्र सङ्कल्प-
वाक्यं शिष्टानान्नतु दास्ये इति सम्प्रददे इति वा । अतः
प्रतिग्रहादेव दानस्य फलेऽपि सम्प्रदानस्य स्वत्वमिति
प्रतिग्रहस्यार्जनरूपत्वमविरुद्धम् । स्वत्वजनकोहि
व्याप्रारोऽर्जनशब्दार्थः । अतएवाह प्रभाकरः प्रल-
पितमिदं केनापि अर्जनं स्वत्वं नापादयतीति विप्र-
तिषिद्धमिति’ । अस्य ग्रन्थः प्रागेव विवृतः । किञ्च ।
प्रतिग्रहस्य ममेदमिति ज्ञानरूपस्य दातृव्यापारमा-
त्रोत्पन्नस्वत्वव्यवहारार्थतामात्रसम्पादकतायामर्जनशब्दस्थ
तत्र गौणता स्यात् । अन्यस्मै तत्प्रतिपादनानुपपत्तिश्च
पूर्वमुक्ता । तदस्वीकारे प्रागुत्पन्नतत्स्वत्वनाशश्च कल्प्यः
स्यात् । न च दातृव्यापारात्तत्स्वत्वनाशात्साधारण
सम्प्रदानस्वत्वोत्पत्तिरवश्याभ्युपेया त्वयापि । अपरथै-
तत्स्वत्वनाशेऽन्यस्य च स्वत्वानुत्पत्तेर्मध्यस्थस्य तस्य
परिग्रहादिनाऽन्यस्य यस्य कस्यापि वनगतास्वामिकतृण
काष्टादाविव तत्र स्वत्वं स्यात्परिपालनाप्रसक्तिश्च । तथा
मन्मतेऽपि पात्रविशेषोद्देश्यककत्यागे पात्रविशेषस्यो-
त्पन्नमपि स्वत्वन्तदस्वीकारे नश्यत्यन्यस्य स्वीकारात्तस्योत्प-
द्यत इति न कोऽपि विरोधः साधारणस्वत्वविनाशासा-
धारणस्वत्वीत्पत्तिरिति वाच्यम् । यतस्तत्र साधारण
स्वत्वव्यवहाराभावेन तदुत्पत्तिरप्रमाणिकी नैव स्वीक्रियते
गौरवाच्च । किन्तु दातुरेव यथेष्टविनियोगार्हस्वत्वाप-
गमेऽपि परस्वत्वापत्तिफलाभावे दानशब्दार्थानिष्यत्ते-
र्विधिशिरस्कफलार्थिनः प्रतिपादनावधिपरिपालनीयत्व-
रूपं स्वत्वमस्त्येव । यथा हुते हविषि भस्मसाद्भावा-
वधि अस्पृश्यस्पर्शादिनिषेधाश्रयणमित्तदोषश्रवणानु-
रोधेन, तथा चान्यस्वत्वानुत्पत्तावपि न मध्यस्थपरि-
ग्रहाद्यनिवारणादिदोषः । शिष्टाचारोऽप्युभयत्र
परिपालनरूपस्तन्मूलकएव । न चीत्सर्गमात्रस्य तत्र त्वया
वश्याभ्युपगमात्परस्वत्वापादनादरएव न स्यादिति वाच्यम् ।
तादृशोत्सर्गस्यैव विधितात्पर्यविषयत्वात् । होमस्थलेऽ-
प्यन्यथा भस्मसाद्भावानादरापत्तेः । यच्च याजनाध्यापन
साहचर्य्यात् प्रतिग्रहस्यापि स्वत्वाजनकत्वेऽपि गौणमे-
वार्जनत्वमिति । तदप्यबोधात् । तत्र हि ये ये द्विज
प्रभृतीनाम्भागास्तेषान्तेषान्तेभ्यों भृतिरूपेणैव दक्षिणा-
काले प्रतिपादनम् । परिक्रयव्यवहारोऽप्यतएव
“स्वामिकर्म परिक्रयः” इति जैमिनिसूत्रादौ विस्तरेण
पृष्ठ ३५५४
निर्णीतएव विस्तरस्तु तत्रैव द्रष्टव्यः । कर्म्मकरानतिज-
निका भृतिरेव हि परिक्रयः । एवमध्यापनेऽपि शिष्योऽ
ध्यापकाथाध्यापनभृतिमेव तत्सन्तीषजननीमध्ययनान्तेऽ-
र्पयन्ति । नियतभृतिकरणे तु भृतकाध्यापनमुपपातकम् ।
अतएव याजनाध्यापनयोः प्रतिग्रहाद्भृतिशब्दवाच्यनिर्वे-
शाच्च पृथगभिधानमुभयमिश्रितत्वात् । तेन तयोरपि
मुख्यमेवार्जनत्वम् । दक्षिणात्वव्यवहारोऽप्यतएव ऋत्वि-
गध्यापकदेये । यदपि भ्रात्रादिधने भ्रात्रन्तरादि स्वत्वो-
त्पादकत्वन्तन्निधनस्य तत्कालीनभ्रात्रन्तरादिजीवनस्य वा
कॢप्तमिति पुत्रादावपि पित्रादिनिधनन्तत्कालीनञ्जीवनं
वा स्वत्वोत्पादकमस्तु नत्वकॢप्तं पुत्त्रादिजन्मनैवेत्युक्तम् ।
तदपि जन्मनोऽपि स्वत्वोत्पादकत्वस्यावश्यकत्वोपपादनादेव
परिहृतम् । यच्चोक्तं ऊर्द्ध्वम्पितुश्चेत्यादि मनुवचनमपि
जन्मनः स्वत्वापादकत्वे न घटते प्राग्विघागनिषेधार्थत्वे
तस्यास्वार्थपरत्वापत्तेः विभागस्य दृष्टार्थत्वेन तद्विधान-
कालविधानयोरसम्भवात् । विभागस्य पक्षप्राप्तस्य
नियभार्थत्वे सहवासविधिविरोधाद्यापत्तेः । तस्मात्पितरि
सति मातरि च सत्यान्तद्धनस्वाम्याभाव उपरतयो-
रेव तयोः पुत्त्रादेस्तद्धनस्वाम्यमिति प्रतिप्रादनार्थमेव
तद्वाच्यभिति । तदत्युत्तानाभिधानम् अस्वार्थविधाना-
पत्तेस्तुल्यत्वात् । प्रागस्वातन्त्र्येण कालविधिपरत्वे-
बाधकाभावात् । इच्छाप्राप्तकालानुवादेऽपि व्यवहार-
शास्त्रत्वेनाविरोधात् । एतेन जातेष्टिवच्छेषिविरोधादि
निमित्तानन्तर्यबाधकाभावात्पित्रुपरमानन्तरक्षणएव विभागः
प्रसज्येतेत्यप्यपास्तम् । कालविधानेन पित्रुपरमस्यं
निमित्तत्वाबोधनाच्च । अन्यथा निमित्ते सति नैमित्तिक-
स्यावश्यकत्वात्पित्रोरूर्द्ध्वं विभागाकरणे प्रत्यवायोऽपि
प्रसज्येत । पतितत्वपारिव्राज्ययोः पितृस्वत्वनाशोऽप्य-
धिकः जन्मना स्वत्वन्तुल्यमेव । पातिन्ये तु प्रायश्चित्ताना-
चरण एव स्वत्वनाशो विभागानर्हता च । अन्यथा द्रव्य
साध्यं प्रायश्चित्तमपि पित्रोः स्वद्रव्येण न स्यात् ।
अतएव णातुर्निवृत्ते रजसीत्याद्यपि कालविधिपरमेव । न
तु पातित्यादिवत्तत्र स्वत्वाभावः । स तु लोकत एव
विभागनिषेधाच्च भ्रात्रादाविवेत्यादि वक्ष्यते । किञ्च ।
तदेवं पितृस्वत्वापगमएकः कालः अपरश्चानपगत एव
पितस्याम्ये पितुरिच्छयेति कालद्वयमित्युक्त्वा मध्ये मिता-
क्षरोक्तं विभागकालत्रयं दूषयित्वा तस्मात्पतितत्वनि-
स्मृहत्वोपरर्मः पितृस्वत्वापगम एकः काल, अपरश्च
सति स्वत्वे तदिच्छात इति कालद्वयमेव युक्तमित्युपसंह
ता जीमूतवाहनेनैव पितृस्वत्वानपगमेऽपि पुत्त्राण
विभागो स्वीकृतस्तत्र पुत्त्राणाम्पितृधने स्वत्वोत्पादः
कथम् । कथञ्च जीवतोः प्रित्रीरस्वाम्यप्रतिपादकवचनैः
सह न विरोधः । अस्वस्य विभागासम्भवात्कथन्तेषां
विभागः । पितृस्वत्वापगमएवोर्द्ध्वं पितुश्चेत्यनेन
विवक्षितोऽतएव मृतपदम्परित्यज्योर्द्ध्वमित्युक्तम् । पितृ-
स्वत्वापगमोर्द्ध्वमित्यर्थः पितृस्वत्वापगमश्च तन्निधनादिव-
त्तस्य पतितत्वनिस्पृहत्वाभ्यामपीत्यादि स्वग्रन्थे पूर्वापर-
विरोधश्च न कथम् । अत्राप्युपरतस्पृहत्वादिना पुत्राणां
स्वत्वम्पितृधने भवतीति ज्ञापनादयमेकःकाल इति उक्तम्
तत्राप्युपरतस्पृहत्वादिनेत्यनेन पितृस्वत्वापगमएव यदि
विवक्षितस्तर्ह्यनपगते पितृस्वत्वे तदिच्छाऽपरः काल इत्य-
भिधानं विरुद्धम् । पितृस्वत्वापगमकालीनपुत्रादिजीवन-
स्यैवार्जनस्य तदीयस्य स्वीकारात्पितृस्वत्वे सति पुत्त्राणा-
न्तद्धने स्वत्वस्वीकारः कथम् । नह्यनाश्रमित्वमातृरजोनि-
वृत्तिमात्रेण पितुः स्वत्वापगमे पूर्वद्रव्यस्वामिसम्बन्धाधीन-
न्तत्स्वाम्योपरमे यत्र द्रव्ये स्वत्वन्तत्र निरूढोदायशब्द
इति स्वीक्तदायशब्दार्थाभावात्पित्रस्वत्वानपगमे यत्र बिभाग
स्तत्र दायशब्दप्रयोगोऽपि दुस्थ इत्यादि बहु व्याकुली
स्यात् । जन्मना स्वत्वस्वीकारे तु सर्वमनाकुलमित्यादि-
सुधीभिरुन्नेयम् । अतएव मिताक्षरादौ पूर्वस्वामि-
सम्बन्धाधीनं स्वत्वमन्यस्य यत्र धने तदेव दायशब्दवाच्य-
मित्युक्तन्न तु पूर्वस्वाम्योपरमेऽपि तत्र प्रवेशितः । तत्सिद्धं
द्विविधो दाय इति” ।
यच्च जीमूतवाहनेनैव मिताक्षरोक्तम् विभागो-
नाम द्रव्यसमुदायविषयाणामनेकस्वाम्यानान्तदेकदेशेषु
व्यवस्थापनमिति विभागशब्दार्थः । न च सम्बन्धावि-
शेषात् सर्वेषां सर्वधनोत्पन्नस्य स्वत्वस्य द्रव्यविशेषे व्यवस्था-
पनं विभाग इति वाच्यमित्याशङ्क्य सम्बन्ध्यन्तरसद्भाव-
प्रतिपक्षस्य सम्बन्धस्यावयवेष्वेव विभागव्यङ्ग्यस्वत्वा-
पादकत्वात् । कृत्स्नपितृधनगतस्वत्वोत्पादविनाशकल्पना-
गौरवात् । यथेष्टविनियोगफलाभावेनानुपयोगाच्चेति
दूषयित्वा उच्यते । “एकदेशोपात्तस्यैव भूहिरण्या-
दावुत्पन्नस्य स्वत्वस्य विनिगमनाप्रमाणाभावेन वैशेषिक-
व्यवहारानर्हतया अव्यवस्थितस्य गुटिकापातादिना
व्यञ्जनं विभागः । विशेषेण भजनं स्वत्वज्ञापनं व
विभाग इति व्युत्पत्त्येत्युक्तम्” । तद्द्रायतत्वकृतोपन्यस्य
पृष्ठ ३५५५
दूषितम् “यत्रास्य स्वत्वन्तत्रैव गुटिकापात इति कथं
वचनाभाबान्निश्चेतव्यम् । यत्र हि पितुर्निधनानन्तरन्त-
दीयाश्वयोरेकमादाय भ्रात्रा यदर्जितन्तत्रार्जकस्य द्वौ
भागावपरस्यैकः सर्वसम्मतः । तत्र यदि प्राचीनधनवि-
भागकाले गुटिकापातादर्जकेन स एबाश्वः पश्चाल्लब्धस्तदा-
प्रादेशिकस्वत्ववादिमते प्रागर्जकस्यैव सोऽश्व इति
तेनार्जितधने कथं भ्रात्रन्तरस्य विभागः । तत्रैवा-
स्वत्वेन तदुत्पन्ने सुतरां स्वत्वाभावादश्वस्य चाविभाज्य-
त्वात् । यदि वार्जकेतरेण सोऽश्वोलब्धस्तदा तेनार्जित-
धनस्य समभाग एव युक्तः । एकस्य स्वायासेनापरस्या-
श्वायासेनार्जकत्वादिति । वस्तुतस्तु सम्बन्धाविशेषात्
सर्वसम्बन्धिनां सर्वधनोत्पन्नस्य स्वस्य गुटिकापाता-
दिना प्रादेशिकव्यवस्थापनं विभागः । कृत्स्नधनगतस्व-
त्वोत्पादविनाशावप्यगत्या कल्प्येते । संसृष्टतायां प्रादेशि-
कस्वत्वोत्पादकृत्स्नधनस्वत्वोत्पादविनाशाविव । तच्च
“विभक्तो यः पुनः षित्रा भ्रात्रा वैकत्र संस्थितः । पितृव्ये-
णाथ वा प्रीत्या स तु संसृष्ट उच्यते” इतिवृहस्पति-
वचने येषामेव हि पितृभ्रातृपितृव्यादीनां पितृपिता-
महोपार्जितद्रव्येणाविभक्तं स्वमुत्पत्तितः सम्भवति ।
तएव विभक्ताः सन्तः पुनः परस्परप्रीत्या पूर्वकृतविभागाः
एव यत्तव धनं तन्ममापि यन्मम धनन्तत्तवापीत्येकस्मिन्
कार्ये एकरूपतया स्थितास्ते संसृष्टाः नत्वनेवंरूपाणा-
न्धनसंसर्गमात्रेण सम्भूयकारिणां बणिजामपि संसर्गि-
त्वम् । नापि विभक्तानां द्रव्यसंसर्गमात्रेण । प्रीति
पूर्वकतादृगभिसन्धिं विनेत्यभिदधता दायभागकृतापि
स्वहस्तितम । साधारणस्वत्वादेव हि “बन्धूनामविभ-
क्तानाम्भोगन्नैव प्रदापयेत्” इति कांत्यायनवचनं यथा
श्रुतमेव सङ्गच्छते । यावद्भुक्तधनमात्रे स्वस्वत्वस्यापि
सत्त्वात् । अतएवात्र धने परस्परस्य चौर्यमपि नास्ति ।
एवञ्च ।
“साक्षित्वम्प्रातिभाव्यञ्च दानं ग्रहणमेव च ।
विभक्ताभ्रातरः कुर्य्युर्न्नाविभक्ताः प्ररस्परम्” इति नारद-
वचने परस्परनिरूपितदानादिनिषेधोऽपि न्यायमूलक्-
एव । दानादेःपूर्वमपि देयादौ प्रतिग्रहीत्रादेः स्वत्व-
सत्त्वाद्दानप्रतिग्रहादेरसम्भवात् । अविभक्तत्वादेव चावि-
भक्तद्रव्येण यत्कृत दृष्टादृष्टार्थ कर्म तत्र सर्वेषां
फलभागित्वम । तथा च नारदः “भ्रातॄणामविभक्तानामेको
धर्मः प्रवर्त्तते । विमागे सति धर्मोऽपि भवेत्तेषां पृथक्
पृथक्” । व्यासोऽपि “स्थावरस्य समस्तस्य गोत्रसाधार-
णस्य च । नैकः कुर्य्यात्क्रयन्दानं परस्परमतं विना” ।
अत्र समस्तस्येति विशेषणोपादानात् कृत्स्नधनगतमेव
प्रत्येकं स्वत्वं स्वीक्रियते । तस्मात्तुल्यधनसम्बन्ध्यन्तरसत्त्वेन
सम्बन्धिसकाशात् संक्रान्तन्धनं यत्तव ममापीति
सम्बन्धिनां प्रतीयते तद्विमतौ दानादिकं प्रतिषिद्धं
स्वार्थम् । अतो नैकदेशगतं स्वत्वमिति । इदञ्च द्रव्य-
समुदायविषयाणामनेकस्वाम्यानामेकदेशे व्यवस्थापनं
विभाग इति वदतो मिताक्षराकृतोऽप्यभिमतमिति
लक्ष्यते । इदन्त्विह विचार्यम् । द्रव्यसमुदायनिरूपितं
स्वामिगतं स्वाम्यम् स्वामिनिरूपितञ्च द्रव्यससुदाये
स्वत्वं व्यासज्यवृत्ति प्रत्येकवृत्ति वा । नाद्यः एकैक-
स्वामित्वस्वत्वाश्रयनाशे तन्नाशस्यावशिष्टसमुदायगततदु-
त्पत्तेश्च कल्पनायामतिगौरवापत्तेः प्रत्येकस्य प्रत्येक-
द्रव्ये दानक्रयादियथेष्टविनियोगानर्हत्वापत्तौ व्यवहा-
रविसंवादापत्तेश्च । न द्वितीयः विभागे सति तावता-
न्नाशोत्पादकल्पनापत्तेः । स्वस्य सतोविभागो न तु
विभागात् स्वत्वमिति ग्रन्थविरोधाच्च । अत्र ब्रूमः ।
प्रत्येकवृत्तीनि सम्बन्धाविशेषात् स्वाम्यानि च सन्त्येव ।
परस्परविभागागते परस्परस्यान्यान्यदीयद्रव्ये तानि
नश्यन्ति परमते मरणपारिव्रज्यादि नेवेति न काप्यनु-
पपत्तिः । व्यवस्थापनमपीदमेव अन्यथैकदेश उत्पादन-
गित्येव वदेत् । अतएव विनाशमात्रकल्पना न तु
स्वत्वान्तरोत्पादकल्पना । जीमूतबाहनमते च कुत्र
वास्तवं मम स्वत्वमिति विभागात् प्रागनिरूपणात्तदधी-
नश्रौतस्मार्त्तलौकिककर्मोच्छेदः । अनुमत्या विभागोत्तर
कृतया परस्परद्रव्ये परस्परस्वत्वान्तरोत्पत्तिस्वीकारे
तदुत्पादविनाशकल्पनागौरवं यत्त्वया मिताक्षरामतं
प्रत्यापादितं ततोऽपि तवाधिकमापन्नम् । व्यवहारा-
नुपयोगेन समुदायस्वत्वस्य निष्प्रयोजनता च योपन्यस्ता
साप्येकदेशगत स्वत्वाभ्युपगमे तुल्यैवेति कृतमतिदूरंगत्वा” ।
अनयोश्च मतयोर्युक्तायुक्तत्वं सुधीभिर्भाव्यम्
“देशानां जातिसंघस्य धर्म्मो ग्रामस्य यो भृगुः । उदितः
स्यात् स तेनैव दायभागं प्रकल्पयेत्” भृगुवचनम् भृगु-
राहेति शेषः । दायस्य भागः प्रतिपाद्यतयाऽस्त्यत्र अच् ।
२ जीमूतवाहनादिकते दायस्य विभागज्ञापके ग्रन्थे पु० ।
दायभागग्राहिक्रमश्च उत्तराधिकारिसब्दे १०९९ पृ०
उक्तः ।
पृष्ठ ३५५६

दायाद पु० दायं विभजनीयधनमादत्ते आ + दा--क ।

दायमत्ति अद--अण् उपपदसमासो वा । १ सपिण्डे २ पुत्रे च
अमरः । “न तं भजेरन् दायादाः” मनुः । “भुञ्जीता-
मरणात् क्षान्ता दायादा ऊर्द्ध्वमाप्नुयुः” कात्या० । ३ दाया-
धिकारिणि त्रि० “तेषां षट् बन्धुदायादाः” मनुः स्त्रियां
टाप् “पुमान् दायादोऽदायादा स्त्री” निरु० कप्रत्य-
तान्तस्यैवेदं रूपम् मुग्धबोधमते षणन्तात् ङीप् स्यात्
दायादीति भेदः । सा च ४ कन्यायाम् शब्दार्थकल्प० । पुत्रे
“त्वया दायादवानणि त्वं मेबंशकरः सुतः” भा० आ०
७५ अ० ।

दायाद्य न० दायादस्य भावः ब्राह्मणा० ष्यञ् । १ सापिण्ड्ये

दायरूपमाद्यम् । २ सापिण्ड्यनिबन्धने धने च
“दायाद्यस्य प्रदानञ्च” मनुः “स एष पाण्डोर्दायाद्यं यदि
प्राप्नोति पाण्डवः” भा० आ० १४१ अ० । “स्त्रीणां स्वपनि
दायाद्यमुपभोगफलं स्मृतम्” भा० अनु० ४७ अ०

दायित त्रि० दायं दानं करोति दायि--कर्मणि--क्त ।

कृतदाने दापिते भरतः एतन्मूलं मूल्यम् ।

दार पु० ब० व० । दारयति भ्रातॄन् दॄ--णिच् दारि--कर्त्तरि

अच् । भार्य्यायां “दारांश्च कुरु धर्मेण मा निमज्जीः
पितामहान्” भा० आ० १०३ अ० “दाराणां मुरवैरिणो
रतिपतेर्मातुस्त्रिलोकजितः” धनञ्जयवि० । “पाणिग्रह-
णिका मन्त्रा नियतं दारलक्षणम्” मनुः । “सदृशा-
नाहरेत् दारान्” यमः । करणे घञ् । २ औषधभेदे । भावे
घञ् । ३ विदारणे पु० ।

दारक त्रि० दॄ--ण्वुल् । १ विदारके २ बालके “चाण्डालदारके-

णानुगम्यमानम्” काद० “एकैव त्वमिहागच्छ तिष्ठन्त्व-
त्रैव दारकाः । तच्छ्रुत्वा वचनं तस्यास्तत्रैवाधाय
दारकान्” भा० आ० १२६ अ० । “मुद्गरांश्च महाघोरान्
समरे शत्रुदारकान्” मा० द्रो० १५६ अ० ३ पुत्रे “कुमारो
भर्त्तृदारकः” अमरः । ४ कन्यायां स्त्री “सन्तानसन्धिर्वि-
ज्ञेयः दारिकादानपूर्वकः” कामन्दकी० “पूतनां दैत्य-
दारिकाम्” हरिवं० ४२ अ० ५ ग्रामशूकरे पुंस्त्री राजनि० ।
तस्य भूमिविदारकत्वात् तथात्वम् ।

दारकर्म्मन न० दाराणां तद्भावस्य प्रतिपादकं कर्म । भार्य्यात्व

सम्पादके ज्ञानविशेषरूपे विवाहे त्रिका० “सा प्रशस्ता
द्विजातीनां दारकर्मणि मैथुने” । “सवर्णाग्रे द्विजातीनां
प्रशस्ता दारदर्मणि” मनुः । दारक्रियाऽप्यत्र स्त्री “पुन-
र्दारक्रियां कुर्य्यात् पुनराघानमेव च” मनुः “दारक्रिया
योग्यदशञ्च पुत्रम्” रघुः । “क्लीवे दारक्रिया यादृक्”
भा० स० ३६ अ० ।

दारग्रहण न० दाराणां दारत्वस्य सम्पादकं ग्रहणं ज्ञानम् ।

दारत्वसम्पादके ज्ञानरूपे विवाहे “तेन भार्य्यात्वसम्पा-
दकं ग्रहणं विवाहः । तस्य स्वीकाररूपज्ञानविशे-
षस्य समवायविषयतयोर्भेदात् वरकन्ययोर्विवाहकर्तृत्व
कर्मत्वे अतएव “कन्यापुत्रविबाहेष्विति” विष्णुपुराणोक्तं
संगच्छते । भार्यात्बस्य स्वरूपसद्विशेषेणत्वेन नेतरे-
तराश्रयदोष इति” उद्वा० रघु० । “तद्दारग्रहणे यत्नं
सन्तत्यां च मनः कुरु” भा० आ० १३ अ० । दारपरिग्रहा
दयोऽप्यत्र “अतःपरं समावृत्तः कुर्य्याद्दारपरिग्रहम्” मनुः

दारण न० दारयति जलमलम् दृ--णिच् युच् । १ कतकफले

शब्दर० । तस्य जलकालुष्य दारणात्तथात्वम् २ दारकमात्रे
त्रि० । “समाधत्तं शितं वाणं गिरीणामपि दारणम्” भा०
क० ४९ अ० करणे ल्युट् । ३ विदारणसाधने अस्त्रादौ त्रि०
स्त्रियां ङीप् । “नमस्ये शुम्भहननीं निशुम्भ ह्वदि
दारणीम्” हरिव० १६६ अ० । भावे ल्युट् । ४ विदारणे भेदने
“दारुदारणपथैः समाहतम्” “तद्दारुदारणपथेषु
चतुर्षु किं स्यात्” लीला० । द्वैधीकरणे व्रणादिस्फोटन-
साधके ५ औषधभेदे तच्च सुश्रुतेनोक्तं यथा
“चिरविल्वोऽग्निको दन्ती चित्रको हयमारकः । कपोत
गृध्रकङ्कानां पुरीषाणि च दारणम् । क्षारद्रव्याणि
वा यानि क्षारो वा दारणं परम्”

दारद न० दरदि देशभेदे भवः सनिग्ध्वा० अण् । १ विषभेदे अमरः

२ पारदे ३ हिङ्गुले च मेदि० । दरदो देशस्य सन्निकृष्टः
अण् । ४ समुद्रे हारा० ।

दारबलिभुज् पु० दारेण चञ्चुपुटेन विदारणेन बलिं भुङ्क्ते

भुज--क्विप् । वकपक्षिणि त्रिका० ।

दारव त्रि० दारुणः विकारः रजता० अञ् । दारुविकारे

काष्ठमये पदार्थे “दारवाणां च तक्षणम्” मनुः ।
“अभीष्टं पृथिवीगोलं कारयित्वा तु दारवम्” सू० सि०

दारि त्रि० दॄ--णिच्--इन् । १ दारके स्त्रियां वा ङीष् ।

दारिका स्त्री दारक + टाप् कापि अत इत्त्वम् । कन्यायाम्

जटाध० दारकशब्दे उदा० ।

दारिद्र्य न० दरिद्रस्य भावः ष्यञ् । दरिद्रतायां दुर्गती

धनादिराहित्ये “प्रणीय दारिद्र्यदरिद्रतां नृपः” नैष०
दारिद्र्यवर्णनं मृच्छकटिकायां यथा
“सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीप-
पृष्ठ ३५५७
दर्शनम् । सुखात्तु यो याति नरो दरिद्रतां धृतः
शरीरेण मृतः स जीवति । दारिद्र्यमनन्तकं दुःखम् ।
षयस्य! न ममार्थान् प्रति दैन्यम् । पश्य “एतत्तु मां
दहति यद्गृहमस्मदीयं क्षीणार्थमित्यतिथयः परिवर्ज-
यन्ति । संशुष्कसान्द्रमदलेखसिव भ्रमन्तः कालात्यये
मधुकराः करिणः कपोलम्” । सत्यं न मे विभवनाश-
कृतास्ति चिन्ता, भाग्यक्रमेण हि धनानि भवन्ति
यान्ति । एतत्तु मां दहति नष्टधनाश्रयस्य यत् सौहृ-
दादपि जनाः शिथिलोभवन्ति । दारिद्र्याद्ध्रियमेति
ह्रीपरिगतः प्रभ्रश्यते तेजसो, निस्तेजाः परिभू-
यते, परिभवार्न्निर्चेदमापद्यते । निर्विण्णः शुचमेति,
शोकपिहितो बुद्ध्या परित्यज्यते, निर्वुद्धिः क्षयमेत्यहो
निधनता सर्वापदामास्पदम् । दारिद्र्यं हि पुरुषस्य ।
निवासश्चिन्तायाः परपरिभवो वैरमपरं, जुगुप्सा
मित्राणां स्वजनजनविद्वेषकरणम् । वनं गन्तुं बुद्धि-
र्भवति च कलत्रात् परिभवो, हृदिस्थः शोकाग्निर्न च
दहति सन्तापयति च” । तत्रैव अन्यत्र स्थाने “दारि-
द्र्यात् पुरुषस्य बान्धवजनो वाक्ये न सन्तिष्ठते, सुस्निग्धा
विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः । सत्वं
ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते, पापं
कर्म च यत्परैरपि कृतं तत्तस्य सम्भाव्यते । सङ्गं नैव
हि कश्चिदस्य कुरुते सम्भाष्यते नादरात् सम्प्राप्तो
गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते । दूरादेव महाज-
नस्य विहरत्यल्पच्छदो लज्जया मन्ये निर्धनता प्रकाम-
मपरं षष्ठं महापातकम् । दारिद्र्य! शोचामि
भवन्तमेवमस्मच्छरीरे सुहृदित्युशित्वा । विपन्नदेहे मयि
श्रन्दभाग्ये, ममेति चिन्ता क्व गमिष्यसि त्वम्” ।
तत्सूचकयोगभेदा जातकपद्धतावुक्ता यथा “समस्तपाप-
खेचरैर्युतेक्षितं धनाभिधम् दरिद्रताविधायकं
विशेषतः कुशानुना” । “बुधगुरुकवयश्चेद्वित्तगा वित्तनाशं
विदधति यदि दृष्टाः सोमसौम्येन्दुपुत्रैः” “क्षोणः शशी
ज्ञेन विलोकितोऽर्थे पूर्वाजितार्थस्य विनाशदः स्यात्” ।
“नवीनवित्तागमरोधकोभवेत् रविर्धनेऽत्यष्टिमिते कुजोऽङ्के
षङ्गिंशके ज्ञेधननाशदः स्यात्” । नाभनयोगशब्दे वक्तव्य-
लक्षणशूलयुगगोलकयोगैर्दरिद्रताप्तिः वृहज्जा० उक्ता यथा
“विघनश्च शुले” “धनविरहितः पाषण्डी वा युगे त्वथ
गोलके विधनमलिन” इत्यादि “पुष्पवन्तार्कियोगे स्यान्मूर्खो
धूर्त्तो धनोज्झितः” । “तपनारार्कपुत्राणां योगे निःस्योऽति
दुःखितः” । “नृपतेर्वंशजातीऽपि केमद्रुमभवो नरः ।
मलिनो दुःखितो नीचो निःस्वोदासः खलो भवेत्” ।
अस्य अपवादः “लग्नाद्विधोर्वा वृद्धिस्थैः शुभैः सर्वैः शुभं
फलम् । द्वाभ्यां मध्यं तथैकेनाल्पं चेन्नास्ति दरिद्रता” ।
जातकपद्धतिः ।

दारित त्रि० दॄ--णिच्--क्त । विदारिते अमरः ।

दारी स्त्री दारयति दॄ--णिच्--इन्-ङीप् । क्षुद्ररोगभेदे ।

तल्लक्षणं सुश्रुते उक्तं यथा “परिक्रमणशीलस्य वायु-
रत्यर्थरूक्षयोः । पादयोः कुरुते दारीं सरुजां तल
संश्रिताम्” ।

दारु पु० न० दीर्य्यते दॄ--ऊण् । काष्ठे अमरः “प्रतिगृह्णन्न

विद्वांस्तु भस्मीभवति दारुवत्” । “वानस्पत्यं मूलफलं
दार्वग्न्यर्थं तथैव च” मनुः “शैक्यं कमण्डलुञ्चैव द्विदलं
दारुमेव च” हरिवं० २०१ अ० । १ पित्तले २ देवदारुणि
मेदि० । ३ शिल्पिनि ४ दारके त्रि० धरणिः । दा--दाने
दो--खण्डने वा रु । ५ दानशीले ६ खण्डनशीले च त्रि० ।

दारुक न० दारु + स्वार्थे क । १ देवदारुणि राजनिः । दारु +

संज्ञाया कन् । २ कृष्णस्य सारथौ पु० । “रथेष्वतिरथो
यन्ता दारुकः केशवस्य वै” हरिवं० ११६ अ० । “रैवतञ्च
गिरिं देवो गत्वा दारुकमब्रवीत् । मदीयं रथमेतं त्वं
ग्रहायेहैव दारुक!” १३२ अ० “उत्कन्धरं दारुक
इत्युवाच” माथः तस्यापत्यं फिञ् । दारुकि तदपत्ये
“शिक्षितो दारुकिस्तदा” भा० व० १८ अ०

दारुकच्छ पु० देशभेदे तत्र भवः कच्छान्तदेशवाचित्वात् वुञ् ।

दारकच्छक तद्भवे त्रि० ।

दारुकदली स्त्री दारु इव कठिना कदली । १ काष्ठकदल्यां २ वनकदल्यां च राजनिः ।

दारुका स्त्री दारुणा कायति कै--क । दारुणः प्रतिकृतिर्वा

इवार्थे क । काष्ठमयपुत्तलिकायाम् शब्दरत्ना०

दारुकावन न० वनभेदरूपे तीर्थभेदे शिवपु०

दारुकेश्वर पु० शिवलिङ्गभेदे शिवपु० ।

दारुगन्धा स्त्री दारुणि गन्धी यस्याः । (चीड़ा) गन्धद्रव्यभेदे राजनि० ।

दारुगर्भा स्त्री दारु तन्मयो गर्भोऽस्याः । काष्ठकदल्यां हारा०

दारुचिनी स्त्री स्वनामख्यातायां गुडत्वचि शब्दार्थचि० ।

दारुचीर्णक न० गुड़त्वचि शब्दार्थचि० ।

दारुज त्रि० दारुणो जायते जन--ड । १ काष्ठजाते २ मर्दले

वाद्यभेदे पु० शब्दर० ।
पृष्ठ ३५५८

दारुण पु० दारयति भीषयते चित्तं दृ--भये णिच् “कृतृदा

रिभ्य उनन्” उणा० उनन् । १ चित्रवृक्षे २ भयानकरमे
अमरः । ३ तद्वति भयानके दुःसहे भीषणे ४ भयहेतौ त्रि०
“हृदयकुसुमशोषी दारुणो दीर्घशीकः” सा० द० । उज्वल
दत्तस्तु दॄ--विदारे इत्यस्यैव णिजन्तस्य रूपमिदमित्याह ।
५ रौद्रसंज्ञकनक्षत्रगणे ज्यो० । “उपेन्द्र! बज्रादपि दारु-
णोऽसि” गीत० दारुणा कण्डुरा रूक्षा केशभूमिः
प्रजायते” सुश्रुतः । “वाचा दारुणया क्षिपन्” मनुः ।
६ विदारके त्रि० । ततः भृशा० अभूततद्भावेऽर्थे क्यङ् दारु-
णायते “वियोगिहृद्दारुणि दारुणायसे” नैष० ७ विष्णौ
पु० “सुधन्वाखण्डपरगुर्दारुणोद्रविणप्रदः” विष्णुस० ।
“सन्मार्गविरोधिनां दारुणत्वात् (खण्डकत्वात्) दारुणः”
भा० ।

दारुणक पु० सुश्रुतोक्ते क्षुद्ररोगभेदे क्षुद्ररोगशब्दे २३८३ पृ०

दृश्यम् । “सिरां दारुणके विद्ध्वा स्निग्धस्विन्नस्य मूर्द्धनि”
सुश्रु० ।

दारुणा स्त्री “तृतीयाऽक्षयसंज्ञा या दारुणा सा प्रकीर्तिता”

इत्युक्ते १ तिथिभेदे । २ नर्मदाखण्डाधिष्ठातृदेवीभेदे च
शब्दार्थचि० ।

दारुतीर्थ न० दारुवनभेदरूपे तीर्थभेदे शिवपु० ।

दारुनिशा स्त्री दारुप्रधाना निशा हरिद्रा । दारुहरिद्रा-

याम् रत्नमा० ।

दारुपत्री स्त्री दारुणः देवदारुणः पत्रमिव पत्रमस्याः ङीप् । हिङ्गुपत्र्याम् राजनि० ।

दारुपात्र न० दारुणः पात्रम् । काष्ठमये जलाधारादिपात्रे

“अलाबुं दारुपात्रञ्च मृण्मयं वैदलं तथा । एतानि
यतिपात्राणि मनुः स्वायम्भुवोऽब्रवीत्” मनुः ।

दारुपीता स्त्री दारुणा काष्ठेन पीता । दारुहरिद्रायां

राजनि० ।

दारुपुत्रिका स्त्री दारुमयी पुत्रिका । काष्ठपुत्तलिकायाम् । हारा० ।

दारुमुख्याह्वया स्त्री दारुमुख्यमाह्वयते आ + ह्वे--श ।

गोधायां राजनि० । आ + ह्वे--क । दारुमुख्याह्वाऽप्यत्र
शब्दार्थ० ।

दारुमूषा स्त्री दारुप्रधाना मूषा । (दारुमूषीति) ख्याते ओषधिभेदे शब्दार्थचि० ।

दारुयन्त्र दारुमयं यन्त्रम् । काष्ठनिर्मितयन्त्रभेदे “अस्वतन्त्री

हि पुरुषः कार्य्यते दारुयन्त्रवत् । केचिदीश्वरनिर्दिष्टाः
केचिदेव यदृच्छया” भा० उ० १५८ अ० ।

दारुवधू स्त्री दारुमयी वधूः वधूप्रतिमा दारुमयी वधूरिव वा ।

१ काष्ठपुत्तलिकायां २ काष्ठमयीस्त्रीप्रतिमायाञ्च ।
“जलविन्दुमिन्दुभणिदारुवधूम्” माघः । “इन्दुमणिः चन्द्र-
कान्तशिला सैव दारुवधूस्तन्मयी वधूः स्त्रीप्रतिमा”
मल्लि० दारुस्त्रीदारुपुत्रीदारुपुत्तलिकादयोऽप्यत्र ।

दारुवह न० दारु वहति वह--अच् “इको वहेऽपील्यादिभ्यः

पा० पील्वा० न पूर्वपददीर्घः । दारुवाहके जलादौ ।

दारुसार पु० दारुषु सारः श्रेष्ठः । चन्दने शब्दार्थचि० ।

दारुसिता स्त्री दारुणि सितेव (दारुचिनीति) ख्यातायां

गुडत्वचि । “ज्ञेया दारुसिता स्वाद्वी तिक्ता चानिलपित्त
हृत् । सुरभिः शुक्रलावल्यमुखशोषतृषापहा” भावप्र०
तद्गुणा उक्ताः ।

दारुहरिद्रा स्त्री दारुमयी हरिद्रा । स्वनामख्यातायाम् हरिद्रायाम् रत्नमाला ।

दारुहस्तक पु० दारुणोहस्त इव “इवे प्रतिकृतौ” पा०

कन् । काष्ठमयदर्वीभेदे अमरः ।

दार्घसत्र त्रि० दीर्घसत्रे भवः अण् “देविकाशिंशपेत्या” पा०

आद्यच आत् । दीर्घसत्रे भवे ।

दार्ढ्य न० दृढ़स्य भावः ष्यञ् । दृढ़त्वे “उत्साहो वाग्मिता

दार्द्यभापत्क्लेशसहिष्णुता” कामन्दकी० ।

दार्तेय त्रि० दृतौ भवादि ढञ् । १ दृतिभवे २ तत्रस्थे च ।

दार्दुर पु० दर्दुरः मृत्पात्रभेदस्तदाकारोऽस्त्यस्य प्रज्ञा०

ण । १ दक्षिणावर्त्तशङ्खभेदे शब्दार्थचि० । दर्दुर
स्येदम् अण् । २ दर्दुरसम्बन्धिनि त्रि० स्त्रियां
ङीप् । “चालितो गुरुपुत्रेण भार्गवोऽङ्गिरसेन वै ।
प्रविष्टो दार्दुरीं मायामनावृष्टिं चकार ह” हरिवं०
४१६१ अ० । दर्दुरश्चेह राक्षसः तेन दार्दुरी राक्षसी

दार्दुरिक त्रि० दर्दुरः मृत्पात्रभेदः शिल्पमस्य ठञ् । मृत्पात्र

भेदकारके (कुमार) कुलाले ।

दार्भ त्रि० दर्भस्येदम् अण् । कुशसम्बन्धिनि ।

दार्भि पुंस्त्री दर्भस्य गोत्रापत्यम् इञ् । दर्भर्षिगोत्रापत्ये

आग्रायणे तु तस्मिन् फक् । दर्भायण इत्येव ।

दार्भ्य त्रि० दर्भे भवः कुर्वा० ण्य । दर्भभवे ।

दार्व पु० देशभेदे स च देशः वृ० स० कूर्मविभागे १४ अ०

ऐशान्यामुक्तः “ऐशान्यां मेरुकनष्टराज्येत्युपक्रमे ब्रह्म-
पुरदार्वडामरवनराज्यकिरातचीनकौणिन्दाः” । “कोलि-
सर्पाः समहिषा दार्वाश्चोलाः सकेरलाः” हरिवं० १४
अ० । ३ तत्रस्थे २ नदीभेदे च तस्या इदम् नद्यादि० ढक् ।
दार्वेय तदीयजलादौ त्रि० दार्वेषु भवः बहुवचनार्थे
वुञ् । दार्वक दार्वजनपदेषु भवे त्रि० ।

दार्वट न० दारु इव निश्चलतया निरूपणीयविषयनिश्चयार्थ-

मटन्त्यत्र अट--घञर्थे क । १ चिन्तागृहे, २ मन्त्रगृहे च ।
हारा० ।
पृष्ठ ३५५९

दार्वण्ड पुंस्त्री दारु--इव कठिनोऽण्डोऽस्य । मयूरे शब्दार्थ-

कल्प० । स्त्रियां जातित्वात् ङीष् ।

दार्वाघाट पुंस्त्री दारु आहन्ति आ + हन--अण् “दारावा

हनोऽण् अन्तस्य च टः संज्ञायाम्” वार्त्ति० अण् नस्थाने
टः । (काटठोकरा) पक्षिभेदे अमरः स्त्रियां जातित्वात्
ङीष् । “पुरुषमृगश्चन्द्रमसो गोधा--कालका--दार्वा
घाटास्ते वनस्पतीनाम् यजु० २४ । ३५ । असंज्ञायां तु
न टान्तादेशः । दार्वाघात काष्ठाघातमात्रे त्रि० । स च
दार्वाघातखगे शब्दरत्ना० अत्रार्थे टान्तत्वमेव युक्तं
वार्त्तिके संज्ञायां टान्तत्वस्यैव साधनात् ।

दार्विका स्त्री दारयति दॄ + उल्वादित्वात् साधुः ङीप् दार्वी

दारुहरिद्रा तद्विकाराऽपि दार्वी अभेदोपचारात् स्वार्थे
क । १ दारुहरिद्राक्वाथोद्भवे तुत्थे अमरः २ गोजि-
ह्वौषधौ शब्दार्थचि० ।

दार्विपत्रिका स्त्री दार्व्या दारुहरिद्रायाः पत्रमिव पत्रम-

स्त्यस्याः ठन् संज्ञायां ह्रस्वः तत् तदाकारः पत्रेऽस्त्यस्या
वा ठन् । गोजिह्वायां रत्नमाला ।

दार्वी स्त्री दारयति दॄ--णिच् उन् स्त्रियां दारणस्य अवयव-

विभागरूपत्वेन गुणवचनत्वात् वा ङीष् दॄ + उल्वा० नि०
ङीप् वा । दारुहरिद्रायाम् ।

दार्वीक्वाथोद्भव न० दार्व्या दारुहरिद्रायाः क्वाथादुद्भवति उद् +

भू--अच् । १ रसाञ्जने राजनि० २ कृत्तिमरसाञ्जने रत्नमा० ।

दार्श त्रि० दर्श भवम् आर्षे ठञं बाधित्वा अण् । १ दर्शमवे

“दार्शमस्कन्दयन्पर्वपौर्णमासञ्च योगतः” मनुः । लोके तु
कालात् ठञ् । दार्शिक इत्येव । दृशि नेत्रे भवः अण् ।
२नेत्रभवे त्रि० ।

दार्शपौर्णमासिक त्रि० दर्शे पौर्णमास्यां च मवः ठञ् ।

दर्शपौर्णमासीभवे । “दार्शपौर्णमासिकेतिकर्त्तव्यता”
कात्या० श्रौ० ५ । ६ । ३१ । सूत्रे कर्कः ।

दार्षद त्रि० दृषदि पिष्टः शैषिकः अण् । दृषदि प्रस्तरे

पिष्टे सक्तुप्रभृतौ

दार्षद्वत न० द्वषदुत्या नद्यास्तीरे कर्त्तव्यम् अण् । सत्रभेदे

तद्विधानादि यथा “दार्षद्वतमृत्विगाचार्य्ययोरन्यतरस्य
गा रक्षेत् संवत्सरम्” कात्या० श्रौ० ४ । ६ । ३३ इत्या-
दिभिः “एत्य च दृषद्वतीतीरेण” इत्यन्तैः सूत्रैरुक्तः तस्याव
भृथविशेषस्तत उत्तरसूत्रेषु दृश्यः । “दार्षद्वतमेतत्संज्ञं
सत्रमभिधीयते” कर्कः ।

दार्ष्टान्तिक त्रि० दृष्टान्तेन युतः ठञ् । दृष्टान्तयुक्ते उपमेये

“स्वापस्य दार्ष्टान्तिकत्वेन विवक्षितम् वृ० उ० शङ्करमाष्यम

दाल न० दले सञ्चितम् अण् । पुष्पात् पतिते दलसाञ्चत

१ मधुभेदे भावप्र० उक्तलक्षणादि मधुशब्द रश्यम इन्द्रनी-
लदलाकारसूक्ष्ममक्षिकोत्पन्ने २ वृक्षकोठरान्तमके मतनि
च राजनि० । ३ कोद्रवे धान्यभेदे पु० हेमच० ।

दालन पु० दालयति दल--णिच्--ल्यु । दन्तगते रोगभेदे

रोमशब्दे ३४६६ पृ० दृश्यम् ।

दालव पु० दलति दल--उन् तस्यायम् अण् । स्थावरविषभेदे हेमच०

दाला स्त्री दल्यते दल--कर्मणि--घञ । महाकाले किमपाके

वृक्षे भावप्र० स्वार्थे क । दालिका तत्रार्थे

दालि स्त्री दल--इन् । (दाल) इति ख्याते दलिते १ शमीघान्ये

शब्दार्थचि० । दाडि डस्य लः । २ दाडिम्बशब्दार्थे च स्त्री
त्वात् वा ङीप् तत्रार्थे सा च ३ देवदालीलतायां राजनि० ।

दालिम पु० दाडिम + डस्य लः । दाडिमवृक्षे भरतः

दाल्भ पु० ब० व० । दालभ्यस्य दल्भगोत्रजस्य छात्राः अण्

यलोपः । दाल्भ्यस्य छात्रेषु

दाल्भ्य पुंस्त्री दलभस्य गोत्रापत्यम् गर्गा० यञ् । दल्मर्पि-

गोत्रापत्ये ववे मुनिभेदे । “वकोदाम्भ्यः स्थूलशिणः
कृष्णद्वैपायनः शुकः” भा० स० ४ अ० दलभशब्दे छान्द्रो०
वाक्यम् दृश्यम् । तस्य युवापत्यम् यूनि फिञ् । दाल्-
भ्यायनि दल्भ्यस्य यून्यपत्ये । २ पुण्याश्रमरूपे तीर्थभेदे ।
“दाल्भ्यघोषश्च दाल्भ्यश्च धरणीस्थो महात्मनः ।
कौन्तेयानन्तयशसः सुव्रतस्यामितौजसः । आश्रमः ख्या-
यते पुण्यस्त्रिषु लोकेषु विश्रुतः” भा० व० ९० अ०

दाल्मि पु० दल--णिच् बा० मि । इन्द्रे त्रिका० ।

दाव पु० दुनाति दु--कर्त्तरि ण । १ वने २ वनभवेऽनले च

अमरः । “ददर्श दावं दह्यन्तं महान्तं गहने वन”
भा० व० २६० श्लो० । “वनमिव दावपरीतम्” वृ० स० २४ अ० ।
“इदमिन्द्रः सदा दाव खाण्डवं परिरक्षति” भा० आ०
२२३ अ० “दावं दग्ध्वा यथा शान्तं पावकं शिशिरा-
त्यये” भा० द्रो० २९४२ श्लो० । “अधिज्यधम्बा विचचाण
दावम्” रघुः । भावे घञ् । ३ उपतापे च ।

दावन् पु० दा--कर्मभावादौ उणा० बनि । १ देये २ दाने च

“नियुत्वता रथेनायाहि दावने वायी मखस्य दावने”
ऋ० १ । १३४ । १ “दावने दातव्याय हविषे तत्स्वीकाराय
पुनः किमर्थं दावने अस्मभ्यमभिमतदानाय । उभयत्र
ददातेः कर्मणि भावे च क्रमेणौणादिको वनिः ।
छान्दसः नीपधालोपः” माधवः । लोके तु दाव्ने इत्यादि ।
पृष्ठ ३५६०
“अतो मनिन्क्वनिब्वनिपश्च” पा० सुप्युपसर्ग
उपपदे च वनिप् । भूरिदावा इत्यादि बहुदातरि । अयं
छन्दस्येव लोके तु न पाणिनिः मुग्धबोधे तु लोके-
ऽपीत्युक्तम् ।

दावप पु० दावं वनवह्निं पाति पा--क । पुरुषभेदे

“अरण्याय दावपम्” यजु० ३० । १६ पुरुषमेधे एकादशयूपे
आलभ्यपुरुषभेदोक्तौ ।

दावसु पु० अङ्गिरसो मुनौ पञ्चभाष्पब्रा०

दावाग्नि पु० ६ त० । वनानले दावानलादयोऽष्यत्र ।

“दावाग्निसदृशो मेऽद्य दन्दहीति शुभां तनुम्” हरिवं०
१५३ अ० “जज्वाल चाग्निमदनो दावाग्निरिव निर्दयः”
भा० वि० १४ अ० ।

दाविक त्रि० देविकायां नदीभेदे भवः अण् “दाविकाशिंशपे-

त्यादिना” आद्यच आत् । देविकानद्यां भवे । एवं
देविकाकूले भवः अण । दाविककूल तत्कूलभवे
शाल्यादौ ।

दाश(स) हिंसने स्वा० पर० सक० सेट् । दाश्नो(स्नो)ति

अदाशी(सी)त् अयं वैदिकः । “यस्ते दाश्नीति नम
उक्तिभिः” ऋ० ८ । ४ । ६ “दाशद्दाशुषे हन्ति वृत्रम्”
ऋ० २ । १ । ९४ “यस्मै त्वं सुद्रविणो ददाशो अनागास्त्व-
मदिते!” ऋ० १ । ९४ । १५

दाश दाने चु० उभ० सक० सेट् । दाशति--ते ऋदित् अदिदा-

शत्--त । “स वा एतेभ्यस्तत् पुरोऽदाशयत् तस्मात् पुरो-
डाशः” शत० ब्रा० १ । ६ । २ । ५

दाश दाने भ्वा० उभ० सक० सेट् । दाशति ते अदाशीत्

अदाशिष्ट ऋदित् णिच् अदिदाशत्--त । “यस्तुभ्यं दाशान्न तमं
हो अश्नवत्” ऋ० २ । २३ । ४ “तुभ्यं दाशतः स्यामः” ७ । १४ । ३

दाश(स) पुंस्त्री दाश्नो(स्नो)ति मत्स्यान् दस(श)ति मत्स्यान्

वा घञ् नि० नलोपः दाश(स्य)ते दीयते मत्स्यस्य मूल्य मस्मै
घञ वा । १ मत्स्योपजीविनि धीवरे स्त्रियां जातित्वात्
ङीष् । “दाशानां भुजवेगेन नद्याः स्रोतोजवेन च । वायुना
चानुकूलेन तूर्णं पारमवाप्नुयात्” भा० आ० ५८७५ श्लो०
“स्नेहात् संमोहमापन्नो नावि दाशो यथा तथा”
भा० आश्र० १३९५ श्लो० । “एष नौयायिनामुक्तो व्यव-
हारस्य निर्णयः । दाशापराधतस्तोये दैविके नास्ति
निग्रहः । यन्नावि किञ्चिद्दाशानां विशीर्येतापराघतः ।
तद्दाशैरेब दातव्यं समागम्य स्वतोऽंशतः” । “निषादो
भार्गवं सूते दा(शं)सं नौकर्मजीविनम् । कैवर्त्तमिति यं
प्राहुरार्यावर्तनिवासिनः” इति च मनुः स्वार्थे क ।
तत्रार्थे । ततः परं पुत्रशब्द आद्युदात्तस्तत्पुरुषे दाशक-
पुत्रः । दाश्यते भृतिरस्मै । २ भृत्ये (चाकर) पु० रमानाथः ।

दाशग्राम पु० दाशप्रधानो ग्रामः । धीवरप्रधाने ग्रामे ततः

चतुरर्य्यां कुमुदादि० ठञ् काश्यादि० ठञ्ञिठौ वा
दाशग्रामिक तस्य सन्निकृष्टदेशादौ त्रि० । स्त्रियां ठञि ङीप्
ञीठि टाप् इति भेदः ।

दाशतयी त्रि दश अवयवा यस्य तयप् दशतयः ततः

स्वार्थे प्रज्ञा० ण । दशावयवके ऋग्भेदसंहितायां स्त्री
तस्याः दशमण्डलात्मकत्वात्तथात्वम् ।

दाश(स)नदिनी स्त्री ६ त० । व्यासमातरि सत्यवत्यां धीवर

कन्यायाम् । कालीशब्दे २०२१ पृ० दृश्यम् ।

दाश(स)पु(पू)र न० दाशा(सा)न् कैवर्त्तान् पिपूर्त्ति पाल

यति पॄ--क । पूरयति पूर--अण् वा । कैवर्त्तीमुस्तके
क्षीरस्वामी

दाश(स)फली स्त्री दाश(स)प्रियं फलमस्याः ङीप् । औषधिभेदे शब्दार्थचि० ।

दाश(स)मेय पु० देशभेदे स च देशः वृ० स० १४ अ० उत्तरतः

कैलास इत्युपक्रमे “यौधेय दाश(स)मेय श्यामाकाःक्षे
मधूर्त्ताश्च” उत्तरस्यामुक्तः ।

दाशरथ पु० दशरथस्येदम् अण् । १ श्रीरामे “प्रदीयतां

दाशरथाय मैथिलीति” महानाटकम् । दाशरथेः श्रीरामस्ये-
दम् अण् । ३ दाशरथिसम्बन्धिनि त्रि० । “अजीगणद्दाशरथं
न वाक्यम्” भट्टिः ।

दाशरथि पु० दशरथस्यापत्यम् अत इञ् । दशरथस्यापत्येषु

श्रीरामादिषु चतुर्षु । “जलधिं विलङ्घ्य शशिदाशरथिः”
“एष दाशरथिभूयमेत्य च” “स्मरस्यदोदाशरथि-
र्भवन् भवान्” माघः । “सोऽहं दाशरथिर्भूत्वा रणभू-
मेर्बलिक्षमम्” रघुः ।

दाशराज्ञ त्रि० दशानां राज्ञामिदं तद्धितार्थद्विगोः अण् ।

उपधालोपः । दशानां राज्ञां सम्बन्धिनि ।

दाशरात्रिक त्रि० दशरात्रेण निर्वृत्तः ठञ् । दशरात्र-

साध्ये १ सत्रभेदे २ दशरात्रस्येदम् ठञ् । दशरात्रसम्बन्धिनि
“दाशरात्रिकाण्याहानि द्व्यहादिष्वेकोच्चयेन” कात्या० श्रौ०
२३ । १ । ५ “देवेभ्यो दशरात्रं दिग्भ्यो दाशरात्रिकं पृष्ठ्यम्”
शत० ब्रा० १२ । १ । २ । ३

दाशु त्रि० दाश--दाने उन् । १ दातरि २ दत्ते च “यं युवं

दाश्वध्वराय देवाः” ऋ० ६ । ६८ । ६ “दाश्वध्वराय दत्तहवि-
ष्काय” भा० ।
पृष्ठ ३५६१

दाशुरि त्रि० दाश हिंसने उरिन् । हिंसके । “स्वयं चित्स

मन्यते दाशुरिः” ऋ० ८ । ४ । १२ । “दाशुरिर्दाश्वान्” भा०

दाशेय पुंस्त्री दाश्या धीवर्य्या अपत्यम् ढक् । धीवर्य्या

अपत्ये । स्त्रियां ङीप् । सा च व्यासमातरि सत्य-
वत्यां शब्दर० “अभिगम्योपसंगृह्य दाशेयीमिदमब्रुवन्”
भा० उ० १७३ अ० ।

दाशेर पुंस्त्री दाश्या अपत्यम् क्षुद्रा० ढ्रक् । धीवर्य्या अपत्ये स्त्रियां टाप ।

दाशेरक पु० दाशेरप्रधानः देशः संज्ञायां कन् । १ मालवदेशे

२ तदधिपे नृपे पित्रादिक्रमेण ३ तद्देशवासिषु ब० व० ।
“दाशेरकगणैः सह” भा० भी० ५० अ० ।

दाशौदनिक पु० दश ओदना यत्र यज्ञे तस्य व्याख्यानो

ग्रन्थः ठञ् । १ दशौदनयज्ञव्याख्याने ग्रन्थे । दशोदन-
यज्ञस्य दक्षिणा यज्ञाख्यत्वात् ठञ् । २ तदाख्ययज्ञ-
दक्षिणायां स्त्री ङीप् ।

दाश्य त्रि० दश--क दशस्य दंशकस्यादूरदेशादि सग्काशा०

चतुरर्थ्यां ण्य । दंशकादूरदेशादौ ।

दाश्व त्रि० दाश--वन् बा० इडभावः । दातरि जटाघ० ।

तत्र दाश्वस् इत्येव पाठो न्याय्यः ।

दाश्वस् त्रि० दाश--दाने क्वसु “दाश्वान् साहानित्यादिना” पा० नि०

१ दत्तवति । दाश--हिंशने क्वसु । २ हिंसितवति । दाश
धातौ (दाशुषे) इत्युदाहरणम् । “पीपरो दाश्वांसम्” ऋ० ४ ।
२ । ८ “दाश्वांसं हविर्दत्तवन्तम्” भा० “तस्मै मुनिर्दोरद-
लिङ्गदर्शी दाश्वान् सुपुत्राशिषमित्युवाच” रधुः । “पुंसां
पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्य दाशुषे”
भाग० २ । ४ । १३

दास --दाने भ्वा० उभ० सक० सेट् । दासति ते अदासीत्

अदासिष्ट । ऋदित् णिच् अददासत् त । हनने च “यो नः
कदाचिदपि दासति द्रुहः” ऋ० ७ । १०४ । ७ । दासति हन्ति”
भा० “स्वादिगणीयोऽप्येष दाशधातौ दृश्यः ।

दास त्रि० दन्स--दशने “दंसेष्टटनौ नस्य आत्” उणा०

१ ज्ञातात्मनि २ शूद्रे ३ धीवरे च पुंस्त्री स्त्रियां ङीष् ।
दास्यते भृतिरस्मै दासति ददात्यङ्गं स्वामिने उपचा-
राय वा दास अच् वा । ४ भृत्ये (चाकर) । दास--दाने
सम्प्रदाने घञ ५ दानपात्रे सम्प्रदाने ६ शूद्राणां नामान्त
प्रयोज्योपाधिभेदे “शर्म्मान्त ब्राह्मणस्य स्यात् वर्म्मान्तं
क्षक्षियस्य तु । गुप्तदासान्तकं नाम प्रशस्तं बैश्यशूद्रयोः”
उद्वाह० त० । दासशब्दनिरुक्तिभेदादिक वीरमित्रोदये
दर्शितं यथा


“शिष्यान्तेवासिभृतकाधिकर्मकरेभ्यो दासानाम्भेद
न्दासशब्दव्युत्पत्तिप्रदर्शनमुखेनाह कात्यायनः “स्वतन्त्र
स्यात्मनोदानाद्दासत्वं दारवद्भृगुरिति” । “यथा भर्त्तुः
सम्भोगार्थं स्वशरीरदानाद्दारत्वम् । तथास्वतन्त्रस्यात्मनः
परार्थत्वेन दानाद्दासत्वमिति भृगुराचार्योमन्यत इत्यर्थः ।
“अनेनात्यन्तपारार्थ्यमासाद्य शुश्रूषका दासाः । पारा-
र्थ्यमात्रमासाद्य शुश्रूषकास्तु कर्मकरा इति भेदोऽप्युक्त
इत्यवगन्तव्यम् । अत्यन्तपारार्थ्यं तु तेषाम्भवति यैः
स्वपुरुषार्थवृत्तिनिरोधेन परार्थत्वमाश्रितमिति स्मृति
चन्द्रिका । दासत्वं ब्राह्मणव्यतिरिक्तेष्वेव “त्रित्यु
वर्णेषु विज्ञेयं दास्यं विप्रस्य न क्वचिदिति” तेनैवाभिधा-
नात् । अनेन दासानां जातितो भेद उक्तः । विप्रेतरे-
ष्वपि दास्यमानुलोम्येनैव भवति “वर्णानामानु-
लोम्येन दास्यन्न प्रतिलोमतः । राजन्यवैश्यश्रूद्राणान्त्य-
जताञ्च स्वतन्त्रतामिति” तेनैवोक्तत्वात् । स्वतन्त्रतां त्यज-
ताम् अत्यन्तपारार्थ्यम्भजतामित्यर्थः । न प्रतिलोमत
इति स्वधर्मपरित्यागिभ्योयतिभ्योऽप्यन्यत्र द्रष्टव्यम् ।
अतएव नारदः” “वर्णानां प्रातिलोम्येन दासत्वन्न विधी-
यते । स्वधर्भत्यागिनोऽन्यत्र दारवद्दासता मतेति” ।
“यथोत्तमवर्णं प्रति हीनवर्णा सवर्णावा भार्या भवति न
पुनर्हीनवर्णं प्रत्युत्तमवर्णा तथैव दासोऽपि भवेदित्यर्थः ।
एतच्च प्रव्रज्यावसितो हीनवर्णस्यापि दासोभवतीत्य-
भिधानं क्षत्रियवैश्यप्रव्रज्यावसितविषयन्न तु ब्राह्मण
प्रव्रज्यावसितविषयम् तस्य निर्वास्यत्वाभिधानेन दासत्वा-
भावात् । तस्य निर्वास्यत्वं दर्शितं कात्यायनेन” “प्रब-
ज्यावसिता यत्र त्रयो वर्णा द्विजातयः । निर्वासं कारये-
द्विप्रं दासत्वं क्षत्रविट् भृगुरिति” । “कारयेद्राजेति शेषः
क्षत्रञ्च विट्च क्षत्रविट् सर्वोद्वन्द्वोविभाषैकवद्भवतीति वचना
देकवद्भावः । निर्वासनञ्च श्वपदेनाङ्कयित्वा कर्त्तव्यमित्या-
हतुर्दक्षनारदौ” “पारिव्रज्यं गृहीत्वा तु यः स्वध-
र्मे न तिष्ठति । श्वपदेनाङ्कयित्वा तु राजा शीघ्रं प्रवा-
सवेदिति” । न चैवं सति “राज्ञ एव तु दासः स्यात्
पव्रज्यावसितो नरः । न तस्य प्रतिमोक्षोऽस्ति न विशुद्धः
कथञ्चनेति” नारदेन प्रव्रज्यावसितोराज्ञ एव दासो नान्य-
स्येत्यभिधानात् स्वधर्मत्यागिनोऽन्यत्रेति यत्तेनैबोक्तं
तन्निर्विषयमितीति वाच्यम् । यतोऽवेष्ट्यधिकरणन्यायेन
क्षत्रियमात्रवचनेनापि राजशब्देनात्र लक्षणया प्रजापा-
लस्य ग्रहणात् प्रजापालकत्वञ्च राज्याधिकृते वैश्यादावपि
पृष्ठ ३५६२
सम्भवाद यः क्षत्रियः प्रव्रज्यावसितः स हीनवर्णस्यापि
प्रजापालस्य वैश्यस्य दासो भवतीति प्रतिपादनार्थत्वात् ।
केचित्तु प्रव्रज्यावसितस्य ब्राह्मणस्य दासत्वनिर्बासनयो-
र्विकल्पमाहुः तन्न पूर्वोक्तप्रकारेण सम्भवन्त्याङ्गतौ अष्ट-
दोषदुष्टविकल्पाङ्गीकरणस्यान्याय्यत्वात् “दास्यं विप्रस्य
न क्वचिदिति” निषेधाच्च । दारवद्दासतेति वचनाद्ब्राह्म-
णस्य सवर्णं प्रति दासत्वं प्राप्तं तन्निषेधार्थमाह कात्या-
यनः” । “सवर्णोऽपि हि विप्रं तु दासत्वन्नैव कारयेदिति”
यदि ब्राह्मणः स्वेच्छया दास्यम्भजते तदाऽसावशुभङ्कर्म न
कुर्यादित्याह स एव “शीलाध्ययनम्पन्ने तदूनं कर्म-
कामतः । तत्रापि नाशुभं कर्म प्रकुर्वीत द्विजोत्तमः” इति ।
“यस्मात्परोपकारः कर्त्तव्य इति विधिः तत्तस्मादूनं
कर्ममध्यमोत्तमव्यतिरिक्तमपि कर्म कामतो वेतनमन्तरेण-
स्वेच्छया परोपकारार्थं कुर्यावित्यर्थः पूर्वार्द्ध्वस्य । तत्रापि
तेष्वपि हीनकर्मसु यदशुभङ्कर्म गृहद्वारशोधनादिक तन्न
कुर्यादित्युत्तरार्द्धार्थः । क्षत्रियवैश्यविषये स्वामिनः
कर्त्तव्यमाह मनुः” “क्षत्रियञ्चैव वैश्यञ्च ब्राह्मणो-
वृत्तिकर्षितौ । बिभृयादानृशंस्येन स्वामी कर्माणि कारय
न्निति” । आनृशंस्येन अक्रौर्येण । अयमर्थः ।
वृत्तिकर्षितं क्षत्रियं वैश्यञ्च दासीभूतमक्रौर्येण स्वानि
कर्माणि कारयन् स्वामी पोषयेदिति । अत्र स्वामीत्यनेन
न सम्बन्धिजनककर्माणि कारयेदित्याह कर्माणीति
सामान्याभिधानेन जघन्यकर्माण्येव कारयितव्यानीति
नियमो नास्तीति सूचयति । वृत्तिकर्षितावित्यनेन,
गत्यन्तराभावे एव क्षत्रियवैश्ययोर्दासत्वाङ्गीकारः कार्यो
न तु गत्यन्तरसम्भवे इति दर्शयति । बलाद्दासी-
करणे दण्डमाह मनुः” “दास्यन्तु कारयँल्लोभाद्-
ब्राह्मणः संस्कृतान् द्विजान् । अनिच्छतः प्रभावत्वाद्राज्ञा
दाप्यः शतानि षड़िति” । “प्रभोः भावः प्रभावम्
तस्मात् प्रभुत्वादित्यर्थः । साधारणादिभ्यः स्वार्थे
अञ्वक्तव्य इति वार्त्तिकादञ् । द्विजातिपदान्न दण्डः शूद्र-
विषय इति दर्शयति । अत एवाह “शूद्रन्तु कारये-
द्दास्यं क्रीतमक्रीतमेव वा । दास्यायैव हि सृष्टोऽसौ-
ब्राह्मणस्य स्वयम्भुवेति” । स च दासः पञ्चदशप्रकार
इत्याह नारदः “गृहजातस्तथा क्रीतो लब्धोदाया-
दुपागतः । अनाकालभृतश्चैव आहितः स्वामिना च यः ।
मोक्षितो महतश्चर्णात् युद्धप्राप्तः पणे जितः । तवाह-
मित्युपगतः प्रव्रज्यावसितः कृतः । भक्तदासश्च विज्ञेय-
स्थथैव बड़वाहृतः । विक्रेता चात्मनः शास्त्रे दासाः
पञ्चदश स्मृताः” इति । गृहजातः स्वगृहे दास्या-
ञ्जातः । क्रीतो मूल्येन स्वाम्यन्तरात् प्राप्तः । लब्धः तत
एव प्रातग्रहादिना । दायादुपागतः रिकथग्राहित्वेन
लब्धः । अनाकालभृतोदुःर्मिक्षे यो भरणाद्दासत्वाय
रक्षितः । आहितः स्वामिना ऋणदातर्याधितां नीतः ।
ऋणमोचनेन दासत्वमभ्युपगतः ऋणदासः । युद्धपाप्तः
समरे विजित्य गृहीतः । पणे जितः दासत्वपणके
द्यूतादौ जितः । तवाहमित्युपगतः तवाहन्दासोऽ-
स्मीति स्वयमेवोपगतः । प्रब्रज्यावसितः प्रव्रज्यातश्च्युतः ।
कृतः एतावन्तं तव दासोभबामीत्यभ्युपगतः । भक्तदासः
सर्वकालम्भक्तार्थमेव दासत्वमभ्युपगम्य यः प्रविष्टः ।
भक्षित यावत्ते मूल्यद्वारेण ददामि तावद्दास इत्यभ्युपगत
इति स्मृतिचन्द्रिका । बड़वाहृतः बड़वा
गृहदासी तया हृतस्तल्लोभेन तामुद्बाह्य दासत्वेन पविष्टः ।
यश्चात्मानं विक्रीणीते असावात्सविक्रेतेत्येवं धर्मशास्त्रे
दासभेदाः पञ्चदशप्रकाराः स्मृताइत्यर्थः । अत्राद्यानां
गृहजातक्रीतलब्धदायागतानाञ्चतुर्णां दासत्वापगमः
स्वामिप्रसादादेव नान्यथेत्याह स एव” “तत्र पूर्वश्चतुर्वर्गो
दासत्वान्न बिमुच्यते । प्रसादात् स्वामिनोऽन्यत्र दास्य
मेषां क्रमागतमिति” । आत्मविक्रेतुरपि दासत्वं स्वामि-
प्रसादादन्यतो नापैतीत्याह स एव “विक्रीणीते स्वतन्त्रः
सन् य आत्मानन्नराधमः । सजघन्यतमस्तेषां सोऽपि
दास्यान्न मुच्यत इति” अत्र प्रसादात् स्वामिनोऽन्यत्र
इत्यनुषज्यते । ततश्चायमर्थः । आत्मविक्रेतापि
गृहजातादिवत् स्वमिप्रसादं विना दास्यान्न विमुच्यत इति
एवञ्च गृहदासादयोऽप्यात्मविक्रेतृपञ्चमाः स्वामिप्रसा-
दादकालभृता इव दास्यन्मुच्यन्त इति वचीभङ्ग्या-
दर्शितमिति मन्तव्यम् । स्वामिप्राणरक्षणादगृहजाताद-
योऽकालभृताश्च सर्वेऽपिदास्यान् मुच्यन्ते इत्याह स एव
“यश्चैषां स्वामिनं कश्चिन्मोचयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं लभेत चेति” ।
एषामिति निर्द्धारणे षष्ठी पञ्चदशानां मध्ये अन्यतमैत्यर्थः ।
यत्तु “ध्वजाहृतोभक्तदासोगृहजः क्रीतदत्त्रिमौ । पैतृको
दण्डदासश्च सप्तैते दासयोनयः इति मनुवचने सप्त
विधत्वमुक्तत्तेषां दासत्वप्रतिपादनाय न परिसंख्यार्थम् ।
ध्वजा गृहदासी । एतच्च स्वामिप्रसादात् प्राणरक्षणात्
वा दास्यापगमनं प्रव्रज्यावसितभिन्नदासेषु द्रष्टव्यम् ।
पृष्ठ ३५६३
तस्य दासत्वोन्मोकाभावात् । अतएव याज्ञवल्क्यः
“प्रव्रज्यावसितोराज्ञोदास आमरणान्तिकम्” इति । राज्ञो-
दासः पार्थिवस्यैव दासो नान्यस्येत्यर्थः । अनाकाल
भृताटीनां प्रव्रज्यावसितात्मविक्रेतृव्यतिरिक्तानान्नवा-
नान्दास्यापनयनप्रकारमाह नारदः “अनाकाल
भृतोदास्यान्मुच्यते गोयुगन्ददत् । आहितोऽपि धनं
दत्त्वा स्वामी यद्येनमुद्धरेत् । ऋणं तु सोदयदत्त्वा ऋणी
दास्यात् प्रमुच्यते । तवाहमित्युपगतो युद्धपाप्तः
रणेजितः । प्रतिशीर्षप्रदानेन मुच्येरंस्तुल्यमर्मणा ।
कृतकालव्यपगमात् कृतदासो विमुच्यते । भक्तस्योत्-
क्षेपणात् सद्यो भक्तदासः प्रमुच्यते । निग्रहाद्बड़वायास्तु
मुच्यते बड़वाभृतः” इति । एतदुक्तं भवति दुर्भिक्षे
पोषणेन कारितो दासो गोयुग्मार्पणान्मुच्यते । आहित
दासस्तु स्वामिना गृहीते ऋणे प्रत्यर्पिते सति उत्तमर्ण-
दास्याद्विमुच्यते । ऋणदासस्तु स्वकृतमृणं येनोत्तमर्णाय
यावद्धनन्दत्त्वापाकृतं तस्मै तावद्धनं सवृद्धिकं दत्त्वा
विमुच्यये । तवाहमित्युपगतादयस्त्रयोदासाः
स्वनिर्वर्त्त्य स्वीयव्यापारनिर्वर्त्तकदासान्तरप्रदानाद्विमुच्यन्ते ।
कृतकालस्तु दासो दास्यावधित्वेन परिभाषितका-
लस्यातिक्रमणाद्विमुच्यते । भक्तदासस्तु भक्तस्योत्-
क्षेपणाद्भक्षितभक्तमूल्यसमर्पणाद्विमुच्यते । गृहदासीलो-
भेन दासत्वं प्राप्तस्तत्सम्भोगत्यागाद्विमुच्यत इति ।
बलात्दासीकृतानान्त्यागमाह याज्ञवल्क्यः “बलाद्दासी-
कृतश्चौरैर्विक्रीतश्चापि मुच्यते” इति । अपिशब्देन
दत्ताहितौ गृह्येते । ततश्चायमर्थः । बलात्कारेण यो
दासीकृतः यश्च चौरैरपहृत्य दासत्वेन बिक्रीत आहितो-
दत्तो वा स यस्य पार्श्वे दासभावेन तिष्ठति तेन प्रागुक्त
मोचनहेतुमन्तरेणैव शीघ्रं मोचनीय इत्यर्थः । यदि
तेन लोभादिवशादसौ न मुक्तस्तदा राज्ञा मोचयितव्य
इत्याह नारदः “चौरापहृतविक्रीता ये च दासीकृता
बलात् । राज्ञा मोचयितव्यास्ते दास्यन्तेषु हि नेष्यते”
इति । चौरेणापहृताश्च ते विक्रीताश्चेति कर्मधारयः ।
यस्त्वेकस्य दास्यं पूर्वमङ्गीकृत्यापरस्यापि दासत्वमङ्गीक-
रोति असावपरेणापि विवर्जनीय इति स एवाह ।
“तवाहमिति चात्मानं योऽस्वतन्त्रः प्रयच्छति । न स
तं प्राप्नुयात्कामं पूर्वस्वामी लभेत तमिति” । अस्वतन्त्रः
परदासत्वेनास्वतन्त्रः कामं नूतनस्वामिदास्यं काम्यमानम्
इतरदासीभवन्तं दासं पूर्वस्वामी गृह्णीयादित्यर्थः ।
एव यदेतद्दासमधिकृत्योक्तन्तत्सर्वं दास्यामपि समानन्याय-
त्वाद् योजनीयम् । दासीस्वामिनमधिकृत्य विशेषमाह
कात्यायनः “स्वां दासीं यस्तु सङ्गच्छेत् प्रसूता च
गवेत्ततः । अवेक्ष्य वीजं कार्य्या स्याददासी सान्वया तु
सेति” । स्वकृतगर्भाधानमनुसन्धाय सा दासी सन्तान
सहिता दासत्वविमोकविधिना स्वकृतगर्भादेर्दासत्वपरि-
हारार्थं अदासीत्वेन कार्य्या स्यादित्यर्थः । कः
पुनर्दासत्वविमोचकोविधिरित्याकाङ्क्षायामाह नारदः
“स्वन्दासमिच्छेद् यः कर्तुमदासं प्रीतमानसः । स्कन्धा-
दादाय तस्यासौ भिन्द्यात् कुम्भं सहाम्भसा । साक्षताभिः
सपुष्पाभिर्मूर्द्धन्यद्भिरवाकिरेत् । अदास इति चीक्त्वा
त्रिः प्राङ्मुखन्तमथोत्सृजेदिति” । अत्रापि दासशब्देन
दास्या अपि ग्रहणम् लिङ्गस्योद्देश्यविशेषणत्वेन
ग्रहाधिकरणन्यायेनाविवक्षितत्वात् । एवमुत्सर्गे सति
यद्भवति तदाह स एव “ततः प्रभृति वक्तव्यः स्वा-
म्यनुग्रहपालितः । भोज्यान्नोऽप्यप्रतिग्राह्यो भवत्यभि-
मतः सतामिति” । स्वाम्यनुग्रहेण दास्यापाकरणरूपेण
वक्तव्यः सम्भाषणार्हः । अदास्या अपि दासेन
परिणिताया दासीत्वमेव भवतीत्याह कात्यायनः
“दासेनोढा त्वदासी या सापि दासीत्वमाप्नुयात् ।
यस्माद्भर्त्ता प्रभुस्तस्याः स्वाम्यधीनः प्रभुर्यतः” इति ।
दासधनस्यापि तत्स्वामिधनत्वमित्याह स एव “दासस्य
तु धनं यत्स्यात् स्वामी तस्य प्रभुः स्मृतः” इति । ब्राह्म-
ण्यादिषु दासीकरणे दण्डमाह कात्यायनः “आदद्याद्
ब्रह्माणीं यस्तु विक्रीणीत तथैव च । राज्ञा तदकृतं
कार्यं दण्ड्याः स्युः सर्व एव ते । कामात्तु सश्रितां
यस्तु कुर्य्याद्दासीं कुलस्त्रियम् । संक्रामयन् तथान्यत्र
दण्ड्यास्तच्चाकृतम्भवेत् । बालधात्रीमदासीञ्च दासीमिव
भुनक्ति यः । परिचारकपत्नीं वा प्राप्नुयात्पूर्वसाहस-
मिति” । तत्कार्यं अकृत निवर्तनीयमित्यर्थः । तेन
राज्ञा दण्ड्याः स्युरिन्वयः । विष्णुरपि “यस्तूत्तमवर्णं
दास्ये नियोजयति तस्योत्तमसाहसोदण्ड” इति । क्वचि-
द्दासीविक्रयणे दण्डमाह कात्यायनः “विक्रोशमानां
यो भक्तां दासीं विक्रेतुमिच्छति । अनापदिस्थः शक्तः
सन् प्राप्नुयात् द्विशतं दममिति” । द्विशतं पणानामिति
शेषः । भक्तामित्यनेन दुष्टाया विक्रयणे दण्डाभाव
इति दर्शितमिति” ।
“चूड़ाद्या यदि संस्कारा निजगोत्रेण वै कृताः । दत्ता-
पृष्ठ ३५६४
द्यास्तनयास्ते स्युरन्यथा दास उच्यते” कालिकापुरा-
णोक्ते निजगोत्रेण संस्कारं विना गृहीते ७ दत्तकादौ
च तेषां च दासवद्भरणीयतया तथात्वम् दत्तकशब्दे मूलं
दृश्यम् । स्त्रियां ङीप् । दास--उपक्षेपे अच् । ८
उपक्षेपके त्रि० । ९ वृत्रासुरे पु० दासपत्नीशब्दे दृश्यम् । १० दस्यौ
च दासवेशशब्दे दृश्यम् । दासस्वापत्यं नडा० फक् ।
दासायन दासापत्ये पुंस्त्री० । दास + भृशा० अभूततद्भावे
क्यङ् । दासायते अदासो दासो भवतीत्यर्थः । अदासं
दासं करोत्यर्थे च्विकृञाद्यनु प्रयोगः अदासो दासो
भवति दासीभवति अदासं दासं करोति दासीकरोती-
त्यादि संज्ञायां कन् । दासक गोत्रप्रवर्त्तकर्षिभेदे तस्य
गोत्रापत्यम् अश्वा० फक । दासकायन तद्गोत्रापत्ये पुंस्त्री ।

दासपत्नी स्त्री ब० व० । दासयति दास--उपक्षेपे अच् दासीवृ-

त्तासुरः पतिर्यासाम् । १ अप्सु । “दासपत्नीरहिगोपा
अतिष्ठन्” ऋ० १ । ३२ । ११ “दासी विश्वोपक्षपणहेतुर्वृत्रः
पतिः स्वामी यासामपां ता दासपत्नीः । दासपत्नीः
दसु उपक्षये दासयतीतिं दासोवृत्रः पचाद्यच् ।
चित इत्यन्तोदात्तत्वम् । दासः पतिर्यासां “विभाषा
सपूर्वस्य” पा० ङीप् तत्संनियोगेनेकरिस्य नकारः बहुब्रीहौ
पूर्वपदप्रकृतिस्वरत्वम्” भा० । “अश्विनाविन्दुममृतं वृत्तभूयौ
तिरोधत्तामश्विनौ दासपत्नीः” भा० आ० ३ अ० । ६ त०
दासम्य पत्नीव दासस्त्रियाञ्च सर्ववचनम् ।

दासमित्र न० ६ त० । दासस्य मित्रे ततः अदूरदेशादौ

काश्या० ठञ् ञिठौ । दासमित्रिक तददूरदेशादौ त्रि० ।
स्त्रियां ठञि ङीष् ञिठि टाप् । दासमित्रस्यापत्यम्
इञ् । दासमित्रि तदपत्ये पुंस्त्री० । ततः ऐषुका० विषये
देशे भक्तल । दासमित्रिभक्त तदीये विषये देशे न० ।

दासमीय त्रि० दशमे देशभेदे भवः, दासं शूद्रं मिमते

मानयन्ति मैथुनार्थिन्यस्ताद्रासम्यस्तामु भवोवा छ । १ दशमदे-
शभवे २ गृहस्थशूद्राभिरतस्त्रीजाते च । “व्रात्यानां
दासमीयानां वाही कानामयज्वनाम्” भा० क० ४४ अ० ।
नीलकण्ठेनोक्तैव व्युत्प्रत्तिर्दर्शिता ।

दासवेश पु० दासस्य दस्योर्विशः । दस्युनाशे “पृक्षये च

दासवेशाय चावहः” ऋ० २ । १३ । ८ “द्रासवेशाय दासानां
दस्यूनां वेशाय नाशाय” भा०

दासी स्त्री दास + गौरा० ङीष् दासस्य पत्नीव, तज्जातिस्त्री वा

ङीष । १ परिचारिकायां कर्मकर्य्यां दासशब्दे दृश्यम् ।
“जातोऽपि दास्यां शूदूएण कामतोऽंशहरो भवेत् । मृते
पितरि कुर्य्यस्तं भ्रातरस्त्वर्द्धभागिकम्” याज्ञ्य २ शूद्रकैवर्त्त-
योर्भोर्य्यायां ३ तज्जातिस्त्रियाम् । ४ काकजङ्घायां
५ नीलाम्लाने ६ नीलझिण्ठ्याञ्च राजनि० । ७ पीतझिण्ठ्यां
रत्नमा० । ८ वेद्यां विश्वः । दास्याः पाद इव पादोऽस्य
हस्त्यादित्वान्नान्त्यलोपः । दासीपाद दासतुल्यपादयुक्तेत्रि० ।
स्त्रियां कुम्भपद्या० ङीष् पादस्य पद्भावश्च । दासीपदीत्येव
“पतितस्योदकं कार्यं सपिण्डैर्बान्धवा बहिः । निन्दि-
तेऽहनि सायाह्ने ज्ञात्यृत्विग्गुरुसन्निधौ । दासी
घटमपा पूर्णं पर्यस्येत् प्रेतवत् पदा” मनुः । अत्र शब्द-
कल्पद्रुमे दासीघटेत्वेकपदकल्पनं प्रामादिकं तत्र दास्याः
कर्त्तृत्वेन घटस्य च कार्यत्वेन भिन्नपदार्थत्वेन पदद्वयम्

दासीभारादि पु० पूर्वपदे प्रकृतिस्वरनिमित्ते शब्दगणे

स च पा० ग० सू० उक्तो यथा “दासीभारः देवहूतिः ।
देवभीतिः देवलातिः वसुनीतिः ओषधिचन्द्रमाः ।

दासीसभ न० दासीनां सभा संघातः “सभाऽराजमनुष्य पूर्वा”

“अशाला च” पा० क्लीवता । दासीसंघाते अमरः दास्या
मनुष्यत्वात् संघातार्थकत्वे एव अशालापरत्वे क्लीवता
शब्दकल्पद्रुमे विग्रहे दास्याः सभेत्येकवचनोक्तिः प्रामादिषी
एकस्याः संघातासम्भवात् शालार्थत्वे च क्लीवत्वाप्रसक्तेः ।

दासेर पुंस्त्री दास्याः अपत्यम् क्षुद्रत्वात् ढ्रक् । द्रास्या

अपत्ये १ शूद्रे २ कैवर्त्ते च । स्त्रियां जातित्वात् ङीष् ।
दास्यां भवे त्रि० । दास--बा० एरच् । ३ उष्ट्रे पुंस्त्री
मेदि० स्त्रियां जातित्वात् ङीष् । स्वार्थे क । दासेरक
उष्ट्व्रे राजनि० । दासीपुत्रादौ च हारा० ।

दास्य न० दासस्य भावः कर्म वा ष्यञ् । दासस्य १ कर्मणि

२ तस्य भावे च । “निवेदनं स्वस्व दास्यं नवधा भक्तिलक्ष-
णम्” ब्रह्मवै० प्रकृ० “पशूनां रक्षणं चैव दास्यं शूद्रे
द्विजन्मनाम्” मनुः । दासशब्दे उदा० दृश्यम् ।

दास्र न० दस्रौ देवते अस्य अण् । अश्विनीनक्षत्रे ।

दाह पु० दह--भावे घञ् । १ भस्मीकरणे “दाहशक्तिरिव

कृष्णवर्त्मनि” रघुः “दाहादूर्द्ध्वमशौचं स्यात् यस्यवैतानिको
विधिः” शु० त० स्मृतिः । “पांशुवर्षे निशां दाहे” मनुः ।
शवदाहप्रकारः छन्दोगपरिशिष्टे उक्तो यथा
“दुर्बलं स्नापयित्वा तं शुद्धचेलाभिसंवृतम् । दक्षिणा-
शिरसं भूमौ बर्हिष्मत्यां निवेशयेत् । वृतेनाभ्यक्तमा-
प्लाव्यं सुवस्त्रमुपवीतिनम् । चन्दनोक्षितसवाङ्ग
सुमनोभिर्विभूषयेत् । हिरण्यशकलान्यस्य क्षित्वा छिद्रेषु
सप्तसु । मुख्येव्यथ पिधायैन निर्हरेयुः सुतादयः ।
पृष्ठ ३५६५
आमपात्रेऽन्नमादाय प्रेतमग्निपुरःसरम् । एकोऽनु-
गच्छेत्तस्यार्द्धमर्द्धं षथ्युत्सृजेद्भवि । अर्द्धमादहनं
प्राप्त आसीनोदक्षिणामुखः । सव्यं जान्वाच्य शनकैः
सतिलं पिण्डदानवत्” । “अथ पुत्त्रादिराहृत्य
कुर्य्याद्दारुचयं महत् । भूप्रदेशे शुचौ देशे पश्चाच्चित्यादि
लक्षणम् । तत्रोत्तानं निपात्यैनं दक्षिणाशिरसं सूखे ।
आज्यपूर्णां स्रुचं दद्याद्दक्षिणाग्रं नसि स्रुवम्” ।
घृताक्तस्याल्पावने विशेपमाह वराहपुराणम् “दक्षिणा-
शिरसं कृत्वा सचेलन्तु शवं तथा । तीर्थस्वावाहनं
कृत्वा स्नपनं तत्र कारयेत् । गयादीनि च तीर्थानि
ये च पुण्याः शिलोच्चयाः । कुरुक्षेत्रञ्च गङ्गाञ्च यमुनाञ्च
सरिद्वराम् । कौशिकीं चन्द्रभागाञ्च सर्वपापप्रणा-
शिनीम् । भद्रावकाशां सरयूं गण्डकीं पनसां तथा ।
वैणवञ्च वराहञ्च तीर्थं पिण्डारकं तथा । पृठिव्यां
यानि तीर्थानि सरितः सागरांस्तथा । ध्यात्वा तु मनसा
सर्वे कृतस्नानं गतायुषम् । देवाश्चाग्निमुखाः सर्वे
गृहीत्वा तु हुताशनम् । गृहीत्वा पाणिना चैव
मन्त्रमेतमुदीरयेत्” । ओम् “कृत्वा तु दुष्कृतं कर्म्म
जानता वाप्यजानता । मृत्युकालवशं प्राप्य नरं पञ्च-
त्वमागतम् । धर्माधर्मसमायुक्तं लोभमोहसमावृतम् ।
दहेयं सर्वगात्राणि दिव्यान् लोकान् स गच्छतु ।
एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम् । ज्वलमानं
तथा वह्निं शिरःस्थाने प्रदापयेत् । चातुर्वर्ण्येषु संस्थान-
मेवं भवति पुत्त्रिके!” । साग्निकदाहप्रकारस्तु नारायण
भट्टकृतान्त्येष्टिपद्धतौ दृश्यः ।
२ कुपितपित्तेजदेहसन्तापभेदे यथाह पित्तकोपकारणमुक्त्वा
विदाहिलक्षणे भावप्र “विदाहि द्रव्यमुद्गारमम्लं
कुर्य्यात्तथा तृषाम् । हृदि दाहञ्च जनयेत् पाकङ्गच्छति
यच्चिरात्” । “असिद्धिमत्सु चैतेषु दाहः परम इष्यते” ।
“अतिदग्धे दाहपाकरागस्नावाङ्गमर्द्दक्लमपिपासामूर्च्छाः
स्युर्मरणं वा । पाकान्ते च गलताल्वोष्ठशोषदाह-
सन्तापान् जनयति” इति च सुश्रु०

दाहक त्रि० दहति दह--ण्वुल । १ दाहकर्त्तरि “क्षेत्रवेश्म

वनग्रामविवीतखलदाहकः” याज्ञ० स्त्रियां ङीपि अत
इत्वम् । दाहिका “शक्तिर्यथाग्नौ खलु दाहिका स्थिता”
ब्रह्म० वै० पु० । २ वह्नौ पु० ३ चित्रके वृक्षे च ४ रक्तचित्रकवृक्षे
पु० राजनि० । वह्नौ च दाहिका शक्तिरतिरिक्तेति मीमां-
सकाः । तन्मतं च अनुमानचिन्तामणौ अतिरिक्तशक्तिवाद-
निरासे उत्थाप्य दूषितं प्रसङ्गादत्र दिङ्मात्रं दर्श्यते यथा
“स्यादेतत् ईश्वरवत् कार्य्येणैव शक्तिरप्यनुमीयते तथा
हि यादृशादेव करानलसंयोगाद्दाहो जायते तादृशा-
देव सति प्रतिबन्धके न जायते अतो यदभावात् कार्या-
भावस्तद्वह्न्यादावम्युपेय तेन विना तदभावात् यत्तद्भा-
वानुपपत्तेर्व्यतिरेकमुखेन शक्तिसिद्धिः । न चादृष्टवैगुण्यं
दृष्टसाङ्गुण्ये तदभावात् तस्य तदर्थत्वात् अन्यथा दृढ़दण्ड-
द्वन्द्वमपि चक्रं न भ्राम्येत । अथादृष्टविलम्बादपि विलम्बो
यथा बन्ध्यास्त्रीप्रयोगे, परमाणुकर्मणि, अध्ययनतुल्यत्वे
एकत्र फलतारतम्यमिति चेन्न अदृष्टविलम्बे हि न तन्ना-
शानुत्पादौ मण्यपसारणानुपदं दाहाभावप्रसङ्गात् ।
किञ्च नियमतो मणिसद्भावे कार्याभावस्तदभावे कार्य्य-
मिति दृष्टत्वात् मण्याद्यभाव एव कारणम् अन्यथा
कदाचित् मण्याद्यभावेऽपि तदभावान्न कार्यं स्यात् बन्ध्या
संप्रयोगे तु दृष्टव्यभिचाराददृष्टविलम्बादेव विलम्बः ।
अदृष्टञ्च क्वचित् साक्षाज्जनकम् अन्यथा परम्परया हेतु
रपि न स्यात् । न च समप्रज्ञयोः समञ्च निरपवादमभ्य-
स्यतोरेकप्रगल्भते नापर इति दृश्यते । न च सर्वोत्पत्ति-
मतामदृष्टं निमित्तं कारणम् अगम्यागमनसाध्ये सुखे
तदभावात् तद्विनाऽधर्मात् सुखं स्यात् न धर्मात् । एतेन
सुगम्यागमनादुत्पाद्यं सुखमप्युक्तं तथा चागम्यागमन-
कारणत्वेन न स धर्मः श्येनापूर्ववन्निषिद्धफलकत्वेनान-
र्थत्वात् । दाहप्रतिकूलादृष्टादेव तदभाव इति चेन्न
तस्योत्तेजकाभावसहितमण्यजन्यत्व तत्र दाहार्थिनोऽ-
प्रवृत्तिप्रसङ्गात् तज्जन्यत्वे ततस्तदुत्पादकादेव दाहाभाव
इति नियमस्यादृष्टेन प्रथमोपस्थितीपजीव्यत्वाच्च ।
पतिबन्धकाभावहेतुत्वस्य तेनाभ्युपगमात् अदृष्टात् शौचाचम-
नादेश्च साधारणस्यात्राप्यन्वयः स्यात् । अशुचेरेव तदुत्-
पत्तौ, शौच सति तदभावापत्तेः प्रतिपक्षसन्निधापकस्य
तत्त्वे, अदृष्टे सति मण्यप्रयोगेऽपि दाहानापत्तिः अग्रि-
मकाल एव सन्निधिदर्शनेन तदसिद्ध्यभावात् । अस्तु
तर्ह्युत्तेजकाभावसहकृतप्रतिबन्धकाभावस्यान्वयव्यतिरेका-
भ्यां हेतुत्वम् एवं च केवलोत्तेजकसद्भावे उभयसत्त्ये
उभयाभावे च विशिष्टाभावोऽनुमितोहेतुः प्रतिबन्धकत्वञ्च
कारणीभूताभावप्रतियोगित्वं तच्च मण्याद्यभावत्वेन, न
तु पतिबन्धकाभावत्वेनेति नान्योन्याश्रयः । एवं प्रति-
बन्धकत्वाभिमतमण्यादीनामभावकूट् एव कारणं तेन
सणिसद्भावे मण्याद्यभावेऽपि न कार्यम् । अनतिरि-
पृष्ठ ३५६६
क्ताभाववादिमते च व्यवहारार्थं तत्स्थानाभिषिक्तस्य
हेतुत्वम् । न चाभावी न कारणं, भाववद्ग्राहकतौल्यात् ।
दृष्टञ्च कुड्यसंयोगाभावस्य गतौ, अनुपलम्भस्याभाववि-
ज्ञाने, विहिताकरणस्य प्रत्यवाये, निर्दोषत्वस्य वेदप्रा-
माण्ये जनकत्वमिति प्राञ्चः । मैवं विशिष्टं हि
नार्थान्तरं येन तदभावोऽनुगतः स्यात् किन्तु विशेषणविशे-
ष्यसम्बन्धा इति तेषां प्रत्येकाभावस्य हेतुत्वे क्वचित् विशे-
षणस्याभावः क्वचित् मण्यभावः क्वचिदुभयं कारणमिति
व्यभिचारान्नैकमपि हेतुः स्यात् । स्यादेतत् प्रतियोगिभे-
दादिव प्रतियोगितावच्छेदकविशेषणभेदेऽप्यभावो भिद्यते
अन्यथा पृथिव्यां प्रत्येकरूपाभावेऽवगतेऽपि वायौ
रूपसंशयो न स्यात् । एवञ्च यथा केवलदण्डसद्भावे,
दण्डपुरुषसद्भावे, द्वयाभावे च विशेषणविशेष्योभयाभाव-
प्रयुक्तः केवलपुरुषाभावोऽबाधितानुगतव्यवहारबलात्
प्रतीतिसिद्धः तथा विशेष्यस्य प्रतिबन्धकस्याभावे विशेषण-
स्योत्तेजकाभावस्याभावे द्वयाभावे च केवलप्रतिबन्धका-
भावो विशेष्यविशेषणोभयाभावव्यापकोऽनुगत एव
दाहकारणमस्तु । अथ विशेषणाद्यभावादेव केवलपुरुषा-
भावव्यवहार एकशक्तिमत्त्वादिति चेन्न अनुगतव्यव-
हारस्यानुगतज्ञानसाध्यत्वात् शक्तेश्चातीन्द्रियत्वात् ।
अथोत्तेजकप्रयोगकाले मणेः कोऽभावः? न तावत्
प्राग्ध्वंसाभावतु तयोः प्रतियोगिसमानकालत्वात् न च
श्यामोऽयमासीदित्यत्र यथा श्यामध्वंसप्रयुक्तश्यामघ-
टत्वेन पक्वघटस्य ध्वंसएव, तथोत्तेजकाभावध्वंसप्रयुक्त
उत्तेजकाभावत्वेन मणिध्वंस एवेति वाच्यं ध्वंसस्या-
नन्तत्वे उत्तेजकापनयेऽपि दाहप्रसङ्गाभावात् । नाप्यत्य-
न्ताभावः, तस्य कादाचित्कत्वाभावादिति चेत् यथा
दण्डोपनयापनयदशायां केवलपुरुषाभाव उत्पादवि-
नाशवान् अबाधितकेवलपुरुषाभावतदभावव्यवहारयो-
रुपपादयितुमन्यथाऽशक्यत्वात् तथोत्तेजकोपनयापनय-
शृङ्खलायां प्रतिबन्धकाभावोऽपि तथैव स्वीकरणीयः
तुल्य न्यायत्वात् । यदि च संसर्गाभावत्रयवैधर्म्यात्तत्र
नान्तर्भवति तदा तुरीय एव संसर्गाभावोऽस्तु न हि
कॢप्तविशेषबाधे सामान्यबाधो, विशेषान्तरमादायापि तस्य
सम्भवात् अन्यथा कॢप्तानादिसंसर्गाभाववैधर्म्येण ध्वं-
सीऽपि न सिद्ध्येत् व्यवहारानुपपत्तिश्च तुल्यैब सीऽय-
मस्माकं सगोत्रकलहो न तु शक्तिवादः । अस्तु वा
ध्वंसएवासौ संसर्गाभावविभागे जन्याभावत्वेन ध्वंसस्य
विभजनात् न चैवं विनाशवत्त्वेन प्रागभाव एव सः
परिभाषाया अपर्यनुयोज्यत्वात् । यद्वाऽत्यन्ताभाव
पवासौ तस्य नित्यत्वेऽपि कादाचित्कप्रतीतिकार्य्यानु-
दयौ प्रत्यासत्तिकादाचित्कत्वात् प्रत्यासत्तिश्च विशेषणा
भावो विशेष्याभाव उभयाभावश्च तथैव विशिष्टात्यन्ता-
भावसत्त्वादिति तन्न यदि प्रतीतविशेषणावच्छेदेन
विद्यमानस्यैव विशेषस्य ध्वंसः स्यात् तदा क्षणरूपाती-
तविशेषणावच्छिन्नत्वेनं प्रतिक्षणं घटस्य विनाशः स्यात्
इति क्षणभङ्गापत्तिः विद्यमानस्य विनष्टत्वे चाप्रतीतेः
शिखा विनष्टा पुरुषो न विनष्ट इति विपरीताबाधित
प्रत्ययाच्च न विशेषणाभावेऽपि विशेष्यध्वंसः श्यामोऽ-
यमासीत् पुरुष इत्यादौ सविशेषणे इति न्यायेन विशे-
ष्यवति श्यामकैवल्यध्वंस एव प्रतीयते ध्वंसस्य
ध्वसानुपपत्तेः न विद्यमानस्य ध्वंसः । एतेनोत्तेजकस-
द्भावे सत्युत्तेजकाभावविशिष्टमणेरुत्पन्नध्वंसस्य उत्तेज-
कापनयसमये ध्वंसो जातोऽध्वस्तश्च सः कारणमिति न
विफल उत्तेजकापनय इत्यपास्तं, विद्यमानध्वंसस्य ध्व
साभावात् । न च ध्वंसान्यः संसर्गाभावो विशिष्टाभाव
इति वाच्यम् उत्पन्नाभावस्य विशिष्टप्रत्ययहेतुतया
ततोऽपि विद्यमानस्य विनष्टत्वप्रत्ययापत्तेः । नापि
विशिष्टाभावोऽत्यन्ताभावः । तथा हि स एव क्वचित्विशेष-
णाभावसहितः क्वचिद्विशेष्याभावसहितो दाहकारण-
मिति अननुगमस्तदवस्थ एव विशेषणविशेष्याभावयोः
प्रत्यासत्तिव्यवच्छेदकानुगतधर्माभावात् । अथ विशिष्ट-
विरोधित्व विशेषणविशेष्याभावयोरनुगतं तदवच्छेद-
कमस्ति तयोश्च सत्त्व एव विशिष्टात्यन्तामावसत्त्वादिति
चेत्तर्हि विशिष्टविरोधित्वेनानुगतेन तयोरेव विशिष्टा-
भावत्येन दाहव्यवहारादौ जनकत्वमस्तु कृतं तदुप-
जीविनातिरिक्तविशिष्टाभावेन । अथोत्तेजककाले विद्य-
मानात्यन्ताभावानुवृत्तावप्युत्तेजकापनये उत्तेजकाभाव-
व्यक्तिर्या जाता तदवच्छिन्नमणेरभावो न तत्रेति तदा
न कार्योदयः तत्तदुत्तेजकाभावविशिष्टमणेरभावकूटस्य
जनकत्वादिति चेन्न तत्तदुत्तेजकाभावानामननुगतत्वे-
नानुगतविशिष्टाभावव्यवहारानुपपत्तेः उत्तेजकाभावत्वे-
नानुगमेऽतिप्रसङ्गः । अथ विशेष्यविशेषणाभावयोर्वि-
शिष्टविरोधित्वमनुगतं कारणतावच्छेदकं यत्र तदन्य-
तराभावस्तत्र न विशिष्टं यत्र विशिष्टं तत्र न तयोर-
भाव इति सहानवस्थाननियमस्य विरोधस्यानुभवसिद्ध-
पृष्ठ ३५६७
त्वादिति चेन्न सहानवस्थाननियमो न परस्परविरह-
रूपतया विशेषणविशेष्याभावस्य प्रत्येकं विशिष्टाभाव-
तया तत्प्रत्येकाभावाभावस्य विशिष्टत्वापत्तेः तथा च
विशेष्यविशेषणयोः प्रत्येकं विशिष्टत्वापत्तेः तदभावस्य
तत्त्वात् न चोभयाभाव उभयविशिष्ट एवं ह्यभावद्वयं
विशिष्टाभावो न तु प्रत्येकभावरूप इति प्रत्येकाभावा-
द्विशिष्टव्यवहारो न स्यात् । नापि परस्परविरहव्या-
यत्वं तदाक्षेपकत्वं वा विशेषणविशेष्याभावस्य विशिष्टा-
भावत्वेन तदव्याप्यत्वात् तदनाक्षेपकत्वाच्च अमेदे
तयीरभावात् । एतेनान्यदपि विशिष्टव्यवहारविरोधित्वा-
दिनानुगतत्वमपास्तं केनाप्यनुगतेन विशेषणविशेष्या-
भावस्य विशिष्टाभावत्वे प्रत्येकाभावस्य विशिष्टाभावत्वेन
तदव्याप्यत्वात् तदनाक्षेपकत्वाच्च अभेदे तयोरभावात् ।
विशेषणविशेष्यान्यतरमात्रस्य विशिष्टत्वापत्तेः तदभावा-
भावस्य तत्त्वादित्युक्तत्वात् तस्माद्विशेयणविशेष्याभावो
विशेषणावच्छिन्नविशेष्याभावो न विशिष्टाभाव इति ।
“अत्रोच्यते विशेषणविशेष्ययोः सम्बन्धाद्विशिष्ट-
व्यवहार इति तयोः सम्बन्धाभावाद्विशिष्टाभावव्यवहार
इति घटतदभावव्यवहाराविव घटसत्त्वासत्त्वाभ्याम् । न
हि तयोरसम्बन्धे विशिष्टव्यवहारः । न च तदभावे
सति न विशिष्टाभावव्यवहारः । यस्य च यत्र सम्बन्धः
स एव तत्र तस्य वैशिष्ट्यम् स च सम्बन्धाभावोविशेषणा-
भावाद्विशेष्याभावादुभयाभावात् सर्वत्राविशिष्ट एकस्तेषां
व्यापकोऽनुगतविशिष्टाभावव्यवहारकारणम् इह दण्डी
पुरुषो नास्तीत्यत्र तथा दर्शनात् । अतएव दण्डमात्र-
सद्भावे दण्डपुरुषसद्भावे च कैबल्यपुरुषयोः सम्बन्धाभावः
अर्वत्रास्तीत्यनुगतः केवलपुरुषतो व्यवहारः । एवञ्च प्रति-
बन्धकोत्तेजकाभावयोः सम्बन्धाभावो दाहकारणं स च
प्रतिबन्धकाभावे प्रतिबन्धकोत्तेजकसद्भावे उभयाभावे
चास्ति सर्वत्र प्रतिबन्धकोत्तेजकाभावयोः सम्बन्धो
नास्तीति प्रतितेः । नन्वेवं यत्र प्रतिबन्धकोत्तेजकाभावौ
तत्रापि दाहः स्यात् अधिकरणाभावयोरतिरिक्तसम्बन्धा-
भावादिति चेन्न तदभावेऽपि स्वरूपसम्बन्धास्याभावात् सर्वत्र
स्वरूपसम्बन्धादेवाधिकरणाभावयोर्वौशष्ट्यप्रतीतेः तथापि
प्रतिबन्धकोत्तेजकाभावावेव स्वरूपसम्बन्धः तयोरभावश्च
प्रतिबन्धकाभाव उत्तेजकञ्च दाहकारणं तथाचोभया-
भावे उत्तेजकसत्त्वे पर दाहः स्यात् उत्तेजकवति च
प्रतिबन्धके दाहो न स्यादिति चेन्न अधिकरणाभावावेव
खरूपसम्बन्धस्तयोर्घटबद्भूतलचत्वरीयतदभावयोर्विशिष्टप्र-
त्ययजननयोग्यत्वमस्ति घटवति कदापि घटाभावप्रत्यया-
नुदयात् तदिहापि प्रतिबन्धकोत्तेजकाभावयोर्विशिष्ट-
प्रत्ययजननयोग्यत्वं स्वरूपसम्बन्धः, अन्यथोत्तेजकवति
प्रतिबन्धके चत्वरीयोत्तेजकाभावविशिष्टप्रत्ययापत्तेः ।
तादृशस्वरूपसम्बन्धाभावश्च प्रतिबन्धकाभावे प्रतिबन्धकी-
त्तेजकसद्भावे उभयाभावे चाविशिष्ट एव । यद्वा अदण्ड-
पुरुषस्याभावे दण्डी पुरुषो न प्रतियोगी तस्य दण्डित्वा-
भावात् किन्तु तदन्यः, तस्य चाभावे दण्डिसद्भावेऽपि
दण्डमात्रसत्त्वे उभयासत्त्वे चाविशिष्ट इति । तस्मात्
केवलपुरुषाभावव्यवहारोऽनुगतः तदुक्तं न हि दण्डिनि
सति अदण्डानामन्येषां नाभावः किन्तु दण्डाभावस्यैवेति
युक्तम् अन्यथा तत्रान्येषामिति पदस्य व्यर्थत्वापत्तेः । तथा
केवलप्रतिबन्धकाभावे उत्तेजकसहकृतः प्रतिबन्धको न
तु प्रतियोगी तस्य केवलत्वाभावात् किन्तु तदन्यः,
तदन्यस्य च प्रतिबन्धकस्याभावे उत्तेजकसहितप्रतिबन्धक-
सत्त्वे उत्तेजकमात्रसत्त्वे उभयासत्त्वे विशिष्ट इति
नाननुगमः उत्तेजकापनये केवलप्रतिबन्धकोऽस्तीति न
तदभाव इति दाहो न भवति ! ननु न प्रतिबन्धका-
भावः कारणम् एकदण्डान्वये घटोत्पत्तिवत् प्रतिप्रति-
बन्धकसत्त्वेऽपि तदन्यप्रतिबन्धकाभावेऽपि कार्य्यानुदयात्
न हि यावत्कारणतावच्छेदकावच्छिन्नं तावदन्वयेऽपि
कार्य्यमिति चेन्न प्रतिबन्धकाभावत्वेत न हेतुत्वं अन्यो-
न्याश्रयात् किन्तु तत्तन्मण्याद्यभावत्वेनेत्युक्तत्वात् तत्त्वे-
ऽपि वा घटे दण्डसलिलादिकप्रतिबन्धकाभावकूटहेतु-
त्वात् । यद्वा प्रतिबन्धकतावच्छिन्नप्रतियोगिक एक
एवाभावः कारणं स च यावद्विशेषाभावनियत इति न
प्रतिबन्धकसत्त्वेऽपरप्रतिबन्धकाभावेऽपि कार्य्योदयः प्रति-
बन्धकस्य च संसर्गाभावो हेतुः तेन तत्सत्त्वे तदन्योन्या-
भावेऽपि न कार्य्यम् अन्वयव्यतिरेकाभ्यां व्याप्तकारण-
त्वयोर्ग्रहे संसर्गाभावस्य त्वयाऽपि हेतुत्वाङ्गीकारात्
अन्यथा सामग्रीव्यापकयोः सत्त्वे तदन्योन्याभावे च
कार्य्यव्याप्याभावापत्तौ कार्य्यकारणयोर्व्याप्यव्यापकभावा-
भावे व्याघातात् । किञ्च तवापि प्रतिवन्धकाभावे शक्ति-
रस्तीति तत्सत्त्वे तदन्योभावमादाय शक्तिसत्त्वप्रसङ्गः ।
न च स दुर्वचः न वा प्रागभावत्वादिनाननुगमव्यभिचारौ ।
प्रतियोग्यधिकरणयोः संसर्गमारोप्य यो निषेधः स
संसर्गाभावः भूतलं घटसंसर्गो नोयत्र भूतले घटसंसर्गस्य
पृष्ठ ३५६८
संसर्गो नारोप्यते किन्तु तादात्म्यम् । वयन्तु ब्रूमः यत्र
प्रतियोगिनमधिकरणे समारोप्य निषेधागमः स संसर्गा-
भावः यत्र चाधिकरणे प्रतियोगितावच्छेदकमारोप्य
निषेधावगमः सोऽन्योन्याभावः भूतलं न घट इत्यत्र
भूतलस्य घटत्वावगमात् घटत्वमेव च घटतादात्म्यम् ।
आरोपस्य हेतुत्वे किं मानमिति चेत् मा भूत्तावदन्यथा,
इदमिह, नेदमित्यबाधितविलक्षणव्यवहारस्यैव तत्र
मानत्वादिति । ननु प्रतिबन्धकात्यन्ताभावो न हेतुः
तस्मिन् सत्यपि संसर्गाभावात् न हि करादौ मण्य-
त्यन्ताभावः तत्संयोगात्यन्ताभावो वा मणेः स्वावयव-
वृत्तित्वात् संयोगस्य चाव्याप्यवृत्तित्वात् अतएव न
तत्प्रध्वंसप्रागभावौ हेतू तयोः करादाववृत्तेः गुणकर्मा-
देश्च प्रतिबन्धकत्वानापत्तेश्च तस्य जन्यधर्मानाश्रयत्वेन तत्र
तयोरभावात् न चान्यः संसर्गाभावोऽस्तीति चेन्न संसर्गा-
वच्छिन्नप्रतियोगिकस्याभावविशेषस्य प्रतिबन्धकेऽन्तर्भावात्
न च समयावच्छेदेन संसर्गितया अत्यन्ताभाव एव
तथैवान्वयव्यतिरेकावधारणात् । अथैवं प्रागभावप्रध्वंस-
स्थले समयविशेषावच्छिन्नात्यन्ताभावेनैवोपपत्तौ न तयोः
सिद्धिः अत्यन्ताभावोह्यव्याप्यवृत्तिः तस्य चैकत्र भावाभावे
क्वचिद्देशोऽवच्छेदकः क्वचित्काल इति चेन्न तत्र विद्य-
मानताविरोधित्वेनैव कपाले न घट इति प्रतीतिवैल-
क्षण्यात् नत्वेवं भूतले घटाभावप्रतीतिः । अन्ये तु
भविष्यति घटो घटो नष्ट इति विलक्षणप्रतीत्या अत्य-
न्ताभावेनैकेन समयितुमशक्यत्वात् अन्य एवायं संसर्गा-
भाव इत्यप्याहुः । एतेन विशेषणाभावविशेष्यभावतदु-
भयाभाववटितसामग्रीत्रयमेवास्तु हेतुः दाहे च जाति-
त्रयकल्पनमिति प्रत्युक्तं अनुगतहेतुसत्त्वात् ढ्यहवैजा-
त्यम्य याग्यानुपलब्धिबाधितत्वात् व्यक्तियोग्यतैव जाति-
याग्यत्वे मानं योग्येऽयोग्यजात्यभावात् । ननु प्रहर-
मा दहेत्यादौ सावधिमन्त्रपाठे मन्त्रविनाशे दाहः स्यात्
न च सकल्पविषयकालविशेष एव तत्र प्रतिबन्धकः
संकल्पनाशसमयस्य स्वतोऽविशेषात् । न च मन्त्रपाठजनि-
तमदृष्टमेव तत्र प्रतिबन्धक तत्कालदाहाप्राप्तिकफल
नाश्यत्बेनाग्रे दाहाप्रतिबन्धादिति वाच्यं प्रतिबन्धक-
स्याविहितत्वेनानिषिद्धत्वेनादृष्टाजनकत्वात् । तदाचार-
स्याविगोतत्वेन श्रुत्याद्यनुभावकत्वादिति चेत् मैवम् उद्दे-
श्यज्ञानाहितसंस्कारविषयकालस्य प्रतिवन्धकत्वात् प्रति-
बन्धमकुवतामप्रतिबन्धकत्वात् न शक्तिमनपकुर्वतां मन्त्रा-
दीनां प्रतिबन्धकत्वमतः शक्तिसिद्धिः । न च कार्यानु-
त्पाद एव प्रतिबन्धः तज्जनकमेव प्रतिबन्धकमिति वाच्यं
कार्यानुत्पादो हि तत्र न प्रागभावो न वा तदुत्तरकाल
संसर्गः तस्य मन्त्राद्यजन्यत्वात् इति चेन्न मन्त्रदीक्षाप्र-
तिवन्धकत्वात् तत्प्रयोक्तारस्तु प्रतिबन्धकाः ते च किञ्चि-
त्करा एव मन्त्रादौ कार्यकारणोपचारात् स्वार्थिकफल-
प्रत्ययात् वा तथा व्यपदेशः । प्रतिबन्धकश्च सामग्रीविरहः
मन्त्राद्यभाबघटितसामग्रीविरहः स च मन्त्रादिरेव तदभा-
वाभावस्य तत्त्वात् । नव्यास्तु प्रतिबन्धकाभावो न कारणं
न वा शक्तिः, किन्तु तत्तत्कालीनदाहविशेपं प्रति
तत्तत्कालप्रतिवन्धीत्तरवह्नेः कारणत्वमिति प्रतिबन्धका-
भावः कारणतावच्छेदको न तु कारणं दण्डत्ववत्
आकाशाद्येकव्यक्तिके न यथा कारणत्वं क्वचित् प्रतिबन्धे
ऽप्यन्यत्र शब्दोत्पत्तेः किन्तु भेर्य्यादेस्तथा कारणत्वमिति
तत्प्रतिबन्धे शब्दोत्पत्तिर्नेत्याहुः । तन्न वह्निप्रति-
बन्धकाभावयोरन्वयव्यतिरेकतौल्येनोभयस्यापि कारण-
त्वात् नत्वेकमवच्छेदककं विनिगमकाभावात् । किञ्च
यस्मिन् सत्यपि यदभावात् कार्य्याभावस्तस्य कारणत्व-
मायाति न तु तदवच्छेदकत्वं न हि कार्प्येऽयोगव्यव-
च्छेदः कारणत्वं किन्तु नियतपूर्वसत्त्वं तच्च सहकारि-
विरहप्रयुक्तकार्य्याभावेऽप्यक्षतम् । अन्यथा चक्रसहित-
दण्डत्वेन कारणत्वे सहकार्य्युच्छेदः । यस्य यद्धर्म्म-
मवगत्यैव नियतपूर्ववर्त्तित्वमवगम्यते तदवच्छेदकं दण्डत्व-
मिव । सहकारी तु न तथा । ननु मा भूत् अर्थापत्तिः
शक्तौ मानमनुमानन्तु स्यात् । तथाहि स्थिरोऽवयवी
जनकदशाविशिष्टबह्निरजनकदशाव्यावृत्तभावभूतधर्मवान्
जनकत्वात् कुण्ठकुठारात्तीक्ष्णकुठारवत् दाह्यासंयुक्तवह्ने-
र्दाह्यसंयुक्तवह्नित्वादेः प्रतिबन्धकसत्त्वं संयोगादेरजनकदशा-
व्यावृत्तत्वेन तदतिरिक्तातीन्द्रियभावभूतधर्मसिद्धिः । यद्यपि
शक्तेर्भावहेतुत्पेन नाजनकदशाव्यावृत्तत्वं तथाप्युक्त-
विशिष्टाया मुख्यत्वम् यद्वा धर्मेऽतीन्द्रियत्वं विशेषणं न
च दृष्टान्तासिद्धिः तुल्यधारत्वेऽपि लौहविशेषघटित-
कुठारे विलक्षणच्छिदाक्रियारूपकार्य्यबद्यादतीन्द्रियत्व-
सिद्धे० । अथ वा तथाभूत एव वह्निः कार्य्यानुकूल-
विशिष्टातीन्द्रियधर्मसमवायी जनकत्वात् आत्मवत् ।
अतीन्द्रियत्वञ्च यद्यपि न साक्षात्काराविषयत्वं अनित्य-
साक्षात्काराविषयत्वं योगजधर्मजन्यसाक्षात्कारविषयत्वं
वा परं स्वं वा प्रत्यसिद्धेः सयोगादिपञ्चकजन्यज्ञाना-
पृष्ठ ३५६९
विषयत्वमैन्द्रियकाणामपि । तथापि संयोगाद्यन्यतर-
प्रत्यासत्तिजन्यसाक्षात्काराविषयत्वमुभयवादिसिद्धम् अन्य-
तरच्च तदन्यान्यत्वं न चाभावातीन्द्रियत्वं तस्यासिद्धेः ।
न च वह्नौ स्थितिस्थापकेनार्थान्तरं तत्र तदभावात्
क्रियाया वेगेनादृष्टवदात्मसंयोगे वा उत्पत्तेः, नचात्मत्वं
नित्यत्वं वोपाधिः स्पर्शैकत्वादिमति द्व्यणुके साध्या-
व्यापकत्वात् यद्वा पिण्डीभूतोवह्निः दाहानुकूलाती-
न्द्रियभावभूतधर्मवान् दाहजनकत्वात् आत्मवत् ।
नचार्थत्वमुपाधिः अदृष्टस्य दाहानुकूलत्वेनादृष्टसाध्याव्यापक-
त्वात् । अथ वा करवह्निसंयोगः कार्य्यानुकूलातीन्द्रिय-
धर्मसमवायी जनकत्वात् आत्मवत् द्व्यणुकवच्च । न
चात्मत्वं द्रव्यत्वं वीपाधिः द्व्यणुकैकत्वस्पर्शादौ साध्या-
व्यांपकत्वात् । यद्वा प्रतिबन्धकदशायां प्रत्यक्षसकल-
दाहहेतुसमवहितोदाहाजनकोवह्निर्जनकदशावृत्तिकार्या-
नुकूलभावभूतधर्मशून्यः अजनकत्वात् तीक्ष्णात् कुण्ठवत्
यद्वा तथाभूतोवह्निः दाहजनकदशावृत्तिदाहानुकूल-
भावभूतधर्म्मशून्यः दाहाजनकत्वात् दाह्यासंयुक्तवह्नि-
वत् अनुकूलत्वञ्च कार्य्याभावव्याप्याभावप्रतियोगित्व
कारणतदवच्छेदकसाधारणं दृड़दण्डत्वेन कारणत्वदृढ़-
त्वाभावादपि कार्य्याभावदर्शनादिति । उच्यते । साध्यं
विनाप्युभयसिद्धप्रतिबन्धकाभावादेव जनकत्वादिहेतुसम्भ-
वात् विपक्षबाधकाभावेनानुमानानामप्रयोजकत्वं यदि च
सहचारदर्शनव्यभिचारादर्शनोपाध्यनुपलम्भमात्रादेव व्या-
प्तिग्रहस्तदा शक्तिसिद्ध्यनन्तरं तेनैव हेतुना शक्त्यति-
रिक्तत्वाक्षेपेण शक्त्यतिरिक्तदाहानुकूलातीन्द्रियधर्म्म-
मिद्धिः एवं तत्तदतिरिक्तत्वस्य प्रक्षेपात्तेनैव हेतुनाऽनन्त-
तादृशधर्म्मसिद्धिप्रसङ्गः । द्वितीयादितादृशधर्म्मं
विनापि प्रथमानुमितशक्त्यैव जनकत्वाद्युपपत्तेः न तादृशा-
नन्तसिद्धिरिति चेत् हन्तैवं शक्तिं विनापि तदर्थसिद्धेः
किं शक्त्या । यत्त्वीश्वरानन्त्यवन्न शक्त्यानन्त्यमित्युक्तं
तदबोधात् कार्य्यमात्रे हि कर्तृत्वेन कारणत्वं नत्वी-
श्वरत्वेन द्विकर्तृकत्वादिना वा गौरवात् घटे त्वार्थः
समाजः । एवञ्च जनकदशाव्यावृत्तत्वेनैव प्रयोजकत्वं
न तु भावभूतत्वेनेति गौरवात् । अपि च भावकार्य्य-
मात्रस्य समवायिकारणजन्यत्वेन शक्तेरपि तथात्वात्
शक्त्यनुकूला शक्तिरपरा समवायिकारणे मन्तव्या एवं
सापि समवायिक्वारणजन्येऽपि तदनुकूलशक्तिस्वीकारे
शक्त्यनवस्था । किञ्च प्रथमानुमाने जनकत्व न स्वरूप-
योग्यत्वं वह्नौ कुठारे च तदभावात् किन्तु कार्य्यानुप-
धानं तथा च तदुपधानदशायामपि वह्नौ शक्तिः कुठारे
तैक्ष्ण्यमिति बाधोदृष्टान्तासिद्धिश्च । लौहविशेषाणामेव
सातिशयच्छिदाजनकत्वमतोनातीन्द्रियतैक्ष्ण्यसिद्धिः ।
अग्निमचतुर्षु बहिरिन्द्रियाप्रत्यक्षत्वमुपाधिः तुल्ययोगक्षेम-
त्वेऽपि सन्दिग्धोपाधित्वेन दूषकत्वात् । अपिच
जनकत्वस्य केवलान्वयित्वेन व्यतिरेकाप्रसिद्ध्या नान्वयव्यतिरेकी
न च जनकत्वाभावस्य शक्तावेव प्रसिद्धिः अन्योन्याश्रयात्
न च गुरुवचनपरम्परातएव वाक्यार्थतया तत्मिद्धिः
अन्वये सिद्धार्थस्याप्रमाणत्वात् । न च परार्द्धसंख्यायां
साध्यजनकत्वव्यतिरेकयोः प्रसिद्धिः अप्रत्यक्षायाः शब्दैक-
वेद्यायास्तस्याः प्रत्यक्षेण साध्यहेतुव्यतिरेकयोर्ग्रहीतु-
मशक्यत्वात् । एतेन पण्डापूर्बेऽपि तत्प्रसिद्धिरपास्ता ।
स्यादेतत् तृणारणिमणीनां वह्नौ कारणत्वादेकशक्तिमत्त्व-
मुखेयमेकता एकजातीयकार्य्ये एकजातीयकरणत्वनिप्य-
भात् । वह्न्यवान्तरजातीये तेषां प्रत्येकं कारणत्वमिति
चेन्न वह्निजातीयत्वस्याकस्मिकतापत्तेः कारणगतैकरूप-
मपहाय कार्य्यगतबहुतररूपकल्पने गौरवात् तृणा-
रणिमणिप्रभववह्नित्वावान्तरजातेरनुपलब्धिबाधितत्वाच्च ।
यत्र च तत्तदिन्धनप्रयोज्यं प्रदीपदारुदहनादौ वैजात्य-
मनुभूयते तत्र कारणे त्वेकशक्तिसत्त्वमपि नास्ति, किञ्च
गोमयवृश्चिकप्रभववृश्चिकादिषु वैजात्यकल्पने तत्प्रभव-
वृश्चिकेऽपि वैजात्यं कल्प्यम् एवं तत्प्रभवत्वं तत्प्रभवे-
ष्वपीति वैजात्यानन्त्यं विजातीयकारणानां विजातीय-
कार्य्यजनकत्वनियमात् । न च तयोर्नैको वृश्चिको
बुद्धिव्यपदेशयोरविशेषात् । यदि विजातीयेष्वेककार्य्या
शक्तिः समवेयात् न कार्य्यविशेषात् कारणविशेषः
तदभावात्तदभावः क्वाप्यनुमीयेत तदभावेऽपि तज्जातिशक्ति-
मतोऽन्यस्मादपि तत्त्वापत्तिसम्भवादिति चेत् वह्निवृश्चि-
कादावेवमेतन्निरूपितनियतवह्न्यादिकारणत्वे धूमादौ
कुतो न तदनुमानम् अन्यथा कार्य्यवैजात्येऽपि तृणस्य
वह्निविशेष इव वह्नित्वेन धूमविशेष एव कारणत्वं न
तु धूममात्रे तृणादिप्रभवत्वग्रहानन्तरं वह्न्यवान्तर-
जातिग्रहवत् वह्नि--तदन्यजन्यत्वज्ञानानन्तरं धूमावान्तर-
जातिग्रहो भविष्यतीत्यप्याशङ्क्येत । बाधकं विना
धूमत्वेन वह्निकार्य्यतेति चेत्तर्हि बाधकं विना धूमं प्रति
वह्नित्वेन कारणतेत्यपि तुल्यम् । यत्तु तृणत्वेन
कारणत्वग्रहस्योपजीव्यत्वात्तद्रक्षार्थं वह्नौ जातिविशेष एव
पृष्ठ ३५७०
कल्प्यते इति तन्न वह्नित्वेन कार्य्यत्वग्रहात्तद्रक्षार्थं
तृणादौ शक्तिकल्पनौचित्यात् । यथा चान्वयव्यतिरेकाभ्यां
तृणफुत्कारयोः परस्परसहकारित्वं तथैव तच्छक्त्योरपि
परस्परसहकारित्वेन वह्न्यनुकूलत्वं तथैव कार्य्यदर्शनात
एवं तृणारणिमणिफुत्कारनिर्मन्थनतरणिकिरणाना
वह्न्यनुकूलशक्तिमत्त्वेन कारणत्वेऽपि फुत्कारेण तृणा-
देव, निर्मन्यनेनारणेरेव प्रतिफलिततरणिकिरणैर्मणे-
रेवाग्न्युत्पत्तिः न तु मणिफुत्कारादिभ्यो, मणिफुत्कार-
शक्त्योः परस्परसहकारित्वविरहात् । यत्तु तृणफुत्-
कारादिस्तोमत्रये विशिष्टे शक्तिरिति तन्न तृणत्वेन
ग्रहीतकारणताभङ्गप्रसङ्गादिति । उच्यते । तृणारणि
मणिफुत्कारादिव्यक्तीनामानन्त्येन प्रतिव्यक्ति भावहेतु-
जानन्तशक्तिस्वीकारे गौरवं तावदनन्तव्यक्तिजन्यावान्तर-
वह्निव्यक्तिषु जातित्रयकल्पने लाघवमिति तदेव कल्प्यते
न च जातौ योग्यानुपलब्धिवाधः गोमयप्रभववृश्चिक-
प्रभववृश्चिकयोर्वा पाटलत्वकपिलत्वव्यङ्ग्यवैजात्यस्य प्रत्य-
क्षसिद्धत्वात् तृणजन्यनानावह्निषु तृणजन्यत्वज्ञानान-
न्तरं मणिजन्यव्यावृत्त्याऽनुगतबुद्धिरस्ति । जातिविषया
तृणजन्यत्वेनोपाधिनाऽसाविति चेन्न बाधकं विनानुगत-
बुद्धेस्तद्व्यङ्ग्यजातिविषयत्वनियमात् न च । गोमयवृश्चिक-
प्रभववृश्चिकजातिपरम्परायामननुगतजात्यापत्तिः गोमय-
जन्यवृश्चिक--प्रभवत्वजातेः सत्त्वात् वह्निमात्रे च
दाहस्पर्शवानवयवः तत्संयोगः सेवनादिश्च कारणानि न तु
तृणादिकं विनापि, तदुत्पत्तिप्रसङ्गः विशेषसामग्रीमादा-
यैव सा, साध्यसामग्र्याजनकत्वात् । ननु तृणारणि-
मणीनां वह्नौ कारणत्वग्रहे शक्तिवैजात्ययोरन्यतरकल्पनं
तद्ग्रहश्च नान्वयव्यरिरेकाभ्यां व्यभिचारात् । अथारणि-
मण्यभाववति स्तोमविशेषे तृणं विना वह्निव्यतिरेकः
तृणान्वयवह्निरित्यन्वयव्यतिरेकाभ्यां तत्रैव स्तोमे
तदितरहेतुसकलसमवधाने तृणान्वयेऽवश्यं वह्निरिति नियता-
न्वयेन रासभादिव्यावृत्तेन तृणादिकारणत्वग्रह इति
चेन्न तृणं विनापि वह्निरिति ज्ञाने सति नियतपूर्ववर्त्ति-
त्वस्य कारणस्यग्रहीतुमशक्यत्वात् । तृणाजन्येवह्नौ मणेः
कारणत्वग्रह इति चेत् व्यभिचारेण वह्नौ तृणजन्यत्वाग्रहे
तदजन्यत्वस्याप्यग्रहात् वह्निमात्रस्यैव उपजन्यत्वाच्च । न च
मण्यजन्यत्वेन तृणजन्यत्वग्रह इति, अन्योऽन्याश्रयात् ।
यत्तु यत्र कारणताग्राहकं नास्ति तत्र व्यभिचारस्तद्-
ग्रहपरिपन्धीति तन्न अवाधितनियतपूर्ववर्त्तिताभावग्रहे
तद्ग्रहस्यासम्भवात् अभावप्रमायां भावज्ञानानुदयादति
उच्यते उक्तग्राहकैर्वह्निंनिष्ठकार्य्यतानिरूपितकारणताव-
च्छेदकरूपवत्त्वं तृणस्य तृणनिष्ठनिरूपितकार्य्यताव-
च्छेदकरूपवत्त्वं वह्नेर्वाऽकार्य्यकारणव्यावृत्तं परिच्छि-
द्यते । न तु तृणत्वेन कारणत्वं वह्नित्वेन वा कार्य्यत्वं
तच्चोभयथापि सम्भवति वह्नित्वेन कार्य्यतया तदनु-
कूलशक्तिमत्त्वेन तृणादीनां कारणतया वह्नित्वावान्तर-
जातिविशेषेण कार्य्यतया वा अत्र च विनिगमकमुक्तमेव ।
अथ तृणारणिमणीनामभावत्रयेण कार्य्यमित्यन्वयव्यति-
रेकाभ्याम् अभावत्रयाभावत्वेन तृणादीनां कारणत्थमिति
न व्यभिचारः अभावाभावत्वस्य भावपर्य्यवसन्नत्वादिति
चेत् अभावत्रयाणामभावः किं तृणदिप्रत्येकव्यापकेऽप्येक
एव उत तृणादि प्रत्येकमेव । आद्येऽभावस्य कारणत्व-
मिति किमायातं तृणादिकारणत्वे, द्वितीये तृणस्य
नारणिमण्यभावाभावत्वं भावाभावत्वतदुभयापत्तेः ।
एतेनाभावत्रये कार्य्यं न तदभावे कार्य्यमित्यन्वयव्यति-
रेकाभ्यां तृणादिप्रत्येकस्य कारणत्वग्रह इति परास्तम्” ।

दाहकाष्ठ न० दाहस्य दाहार्थं काष्ठमस्य । दाहागुरुणि

गन्धद्रव्यभेदे राजनि० ।

दाहघ्न न० दाहं हन्ति हन--टक् । देहदाहनाशके

औषधादिभेदे तच्च चक्नद० उक्तं यथा ।
“शतधौतघृताभ्यक्तं दिह्याद्वा यवसक्तुभिः । कोला-
मलकयुक्तैर्वा धान्याम्लैरपि बुद्धिमान् । छादयेत् तस्य
सर्वाङ्गमारनालार्द्रवाससा । लामज्जेनाथ शुक्तेन
चन्दनेनानुलेपयेत् । चन्दनाम्बुकणास्यन्दितालवृन्तोपवी-
जितः । सुप्याद्दाहार्दितोऽम्भोजकदलीदलसस्तरे ।
परिषेकावगाहेषु व्यजनानाञ्च सेवने । शस्यते शिशिरं तोयं
तृष्णादाहोपशान्तये । क्षीरैः क्षीरिकषायैश्च सुशीतै-
श्चन्दनान्वितैः । अन्तर्दाहं प्रशमयेदेतैश्चान्यैश्च शीतलैः ।
कुशादिशालपर्णीभिर्जीवकाद्येन साधितम् । तैलं घृतं
वा दाहघ्नं वातपित्तविनाशनम् । फलिनीलोध्रसेव्याम्बु-
हेमपत्रं कुटन्नटम् । कालीयकरसोपेतं दाहे शस्तं
प्रलेपनम् । ह्रीवेरपद्मकोशीरचन्दनक्षोदवारिणा ।
संपूर्णामवगाहेत द्रोणीं दाहार्दितो नरः” ।

दाहज्वर पु० दाहप्रधानो ज्वरः । देहज्वालाविशेष-

रूपदाहकारके ज्वरभेदे “पीतं वृश्चिकमूलन्तु पर्य्युषित
जलेन वै । सार्द्रं विनाशयेद्दाहज्वरञ्च परमेश्वर ।”
गारुड़े १९३ अ० ।
पृष्ठ ३५७१

दाहनागुरु न० दाहनस्य दाहनाय अगुरु । दाहागुरुणि

गन्धद्रव्यभेदे राजनि० ।

दाहमय त्रि० दाहेन प्रचुरः दाहप्रधाने ज्वरादौ । “तत्र

दाहमयत्वे भूमीच्छादयः” सा० द० ।

दाहसर पु० दाहार्थं स्रियतेऽसौ सृ--आधारे अप् । श्मशाने त्रिका० ।

दाहहरण न० दाहो ह्रियतेऽनेन ह--ल्युट् णिच्--कर्त्तरि ल्यु

वा । १ वीरणमूले (वेणारमूल) शब्दच० । २ दाहनाशके त्रि०

दाहागुरु न० दाहस्य दाहार्थमगुरु । स्वनामख्याते गन्ध-

द्रव्यभेदे राजनि० । तत्काष्ठस्य दाहेनैव गन्धोत्पादनात्
तस्य तथात्वम् ।

दाहिन त्रि० दहति दह--णिनि । दाहके “अगारदाही गरदः” मनुः । स्त्रियां ङीप् ।

दाहुक त्रि० दह--बा० उकञ् । दाहके “नास्याग्निर्दाहुको ।

भवतीति विज्ञायते” आश्व० गृ० २ । ८ । १०

दाह्य त्रि० दह--कर्म्मणि ण्यत् । १ दहनीये दग्धव्ये २ दाहार्हे

च । “अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च” गीता

दिक्क पु० दिक्षु कायते कै--क । विंशतिवर्षवयस्के करिशावके

करभे शब्दर० ।

दिक्कन्या स्त्री दिश एव कन्याः । १ दिग्रूपकन्यायाम् ।

“दिक्कन्याभिः पवनचमरैर्वीज्यमानः” भारतरत्नम् । दिश
एव कन्याः ब्रह्मकन्याः । व्रह्मणः कन्यारूपायां दिशि
तासां ब्रह्मकन्यात्वेनोतपत्तिकथा वराहपु० यथा
“शृणु राजन्नवहितः प्रजापाल! कथामिमाम् । यथा
दिशः समुत्पन्नाः श्रीत्रेभ्यः पृथिवीपते! । ब्रह्मणः
सृजतः सृष्टिमादिसर्गे समुत्थिते । चिन्ताभून्महती
को मे प्रजाः सृष्टिं करिष्यति । एवं चिन्तयतस्तस्य
अवकाशं ध्रजत्विह । प्रादुर्बभुवुः श्रोत्रेभ्यो दश कन्या
महाप्रभाः । पूर्वा च दक्षिणा चैव प्रतीची चोत्तरा
तथा । ऊर्द्धाध एव षण्मुख्याः कन्या ह्यासंस्तदा
नृप! । तासां मध्ये चतस्रस्तु कन्याः परमशोभनाः ।
याः पश्यन्त्यो महाभागा गाम्भीर्य्येण समन्विताः ।
ता ऊचुः प्रणयाद्देवं प्रजांपतिमकल्मषम् ।
अवकाशन्तु नो देहि देवदेव! प्रजापते! । यत्र तिष्ठामहे
सर्वा भर्त्तृभिः सहिताः सुखम् । पतयश्च महाभाग!
देहिं नोऽव्यक्तसम्भव! । ब्रह्मोवाच ब्रह्माण्डमेतत्
सुश्रोण्यः! शतकोटिप्रविस्तरम् । वस्यान्ते स्वेच्छया
तुष्टा उष्यतां मा विलम्बथ । भर्त्तॄंश्च वः प्रयच्छामि
सृष्ट्वा रूपस्विनोऽनघाः! । यथेष्टं गम्यतां देशो यस्या यो
रोचतेऽधना । एवमुक्ताश्च ताः सर्वा यथेष्टं प्रययुस्तदा ।
ब्रह्मा ससर्ज तूर्णं तान् लोकपालान् महाबलान् । दृष्ट्वा
तु लोकपालांस्तु ताः कन्याः पुनराह्वयन् । विवाहं
कारयामास ब्रह्मा लोकपितामहः । एकामिन्द्राय स
प्रादादग्नयेऽन्यां यमाय च । निरृताय च देवाय
वरुणाय महात्मने । वायवे धनदेशाय ईशानाय च
सुव्रतः । ऊर्द्ध्वं स्वयमधिष्ठाय शेषायाधो व्यवस्थि-
ताम् । एवं दत्त्वा पुनर्व्रह्मा तिथिं प्रादात् दिशां
पुनः । दशमीं भर्त्तृनाम्नस्तु अर्द्धनाम्नोद्धरन् प्रभुः ।
ततः प्रभृति ता देव्यः सेन्द्राद्याः परिकीर्त्तिताः” ।

दिक्कर पु० । दिशं स्त्रीमुखदंशनं करोति कृ--टच् । १ यूनि

त्रिका० २ शिवे च दिक्करवासिनीशब्दे दृश्यम् ।

दिक्करवासिनी स्त्री दिक्वरे शिवे वासिनी । देवीभेदे

“एवं दिक्करवासिन्याः कथितः पूर्ववत् क्रमः । यं श्रुत्वा
नाशुभं किञ्चिदाप्नोति श्रवणे रतः । दिक्करस्तरुणः
प्रोक्तस्तथा शम्भुश्च दिक्करः । तस्मिन्नध्युषिता देवी
तस्माद्दिक्करवासिनी” कालिका० पु० ८२ अ० ।

दिक्करिका स्त्री १ नदीविशेषे । तत् वा “अस्ति नाटकशैले तु

सरो मानससन्निभम् । यत्र सार्द्धं शैलपुत्र्या
जलक्रीड़ां सदा हरः । कुरुते नरशार्द्दूल! स्वर्णपङ्कज-
शोभिते । तस्य पश्चान्मध्यपूर्वभागेभ्यश्च सरित्त्रयम् ।
अवतीर्णं प्रयात्येव दक्षिणं सागरं प्रति । तस्य पश्चिम
भागे तु नदी दिक्करिकाह्वया । दिग्गजक्षेत्रसंजाता
तेन दिक्करिका स्मृता” कालि० पु० ८२ अ० । दिक्
दन्तदंशनं करिका नखक्षतरेखा च यस्याः । २ युवत्यां
स्त्री दिक्करिन्शब्दे उदा० ।

दिक्करिन् पु० दिक्षु स्थितः करी । ऐराव्तादौ दिग्गजे

“परिणतदिक्करिकास्तटीर्बिभर्त्ति” माघः । ते च पूर्वा-
दिक्रमेण स्थिताः अमरे दर्शिताः यथा “ऐरावतः
पुण्डरीको वामनः कुमुदोऽञ्जनः । पुष्पदन्तः सार्वभौभः
सुप्रतीकश्च दिग्गजाः” । दिक्षु स्थिताः गजाः दिग्गजाः
इत्यर्थः । तत्स्त्रियां स्त्री ङीप् । तेषां क्रमेण स्त्रियश्च
“करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् । ताम्र-
कर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती” अमरोक्ताः ।

दिक्करी स्त्री “दिग् दष्टे वर्त्तुलाकारे करिका नखरेखिका”

वैजयन्त्युक्तेः दिशः वर्त्तुलाकारा दन्तक्षतभेदा करी च
नखक्षतभेदा यस्याः संज्ञात्वात् न कप्, दिक्करः युवा
ततः “वयसि अचरमे” वा० तरुणवयोवाचित्वात् स्त्रियां
ङीष् वा । २ युवत्यां स्त्रियाम् हेमच० ।
पृष्ठ ३५७२

दिक्पति पु० ६ त० । दिशां पत्यौ १ इन्द्रादौ दिक्कन्या

शब्दे दृश्यम् । “पवनोदिक्पतिर्भौम आकाशः खचरा-
मराः” संकल्पप्रारम्भमन्त्रः “वितरसि दिक्षु रणे दिक्-
पतिकमनीयम्” गीतगो० । “सूर्यः सोमः क्षमापुत्रः
सैंहिकेयः शनिः शशी सीम्यस्त्रिदशमन्त्री च पूर्वादिदि-
गधीश्वराः” इत्युक्तेषु २ सूर्य्यादिग्रहेषु ।

दिक्पाल पु० दिशं पालयति पालि--अण् उप० स० । दिक्-

पतौ इन्द्रादौ “त्रार्च्चयन्ति विधिना दिक्पालांश्चैव
कर्मिणः” पद्मपु० । कलसशब्दे १७८१ पृ० उदा० ।

दिक्शब्द पु० दिशि दृष्टः शब्दः । दिग्वाचकशब्दे पूर्वाप-

रादौ तस्य देशकालादिपरत्वेऽपि भूतपूर्वं गत्या दिग्वा-
चकत्वात्तथात्वम् “अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदा-
जाहियुक्ते” पा० “दिशि दृष्टः शब्दो दिक्शब्दः तेन
सम्प्रति देशकालवृत्तिना योगेऽपि भवति” सि० कौ० ।

दिक्शूल न० दिशि दिग्भेदे गतौ शूलमिव । प्राच्यादिदिक्षु

गमने निषिद्धवारभेदे । “शुक्रादित्यदिने न वारुणदिशं
न ज्ञे कुजे चोत्तरां मन्देन्द्वोश्च दिने न शक्रककुभं
याम्यां गुरौ न व्रजेत् । शूलानीति विलङ्घा यान्ति
मनुजा ये वित्तलाभाशया भ्रष्टाशाः पुनरापतन्ति यदि
ते शक्रेण तुल्या अपि” ज्योतिःसारसंग्रहः ।
केषाञ्चिन्मते “बौधे गुरौ दक्षिणाम् । ईशाने ज्वलने
चीव नैरृते मारुते तथा । न गन्तव्यं सुराचार्ये
प्रतीच्यां रविशुक्रयोः” इति

दिक्साधन न० दिशः साध्यन्ते ज्ञानार्थम् अनेन । दिग्ज्ञान

साधने उपायभेदे तच्च कुण्डार्के दर्शितं यथा
“नृपाङ्गुलैः संमितकर्कटेन सूत्रेण वा वृत्तवरं
विलिख्य । रव्यङ्गुलं शङ्कुममुष्य मध्ये निवेशयेत् खाक्षि
मिताङ्गुलीभिः । चतुर्मिताभिश्च ऋजूत्तमाभिः संस्पृष्ट-
शीर्षं तु शलाकिकाभिः । तच्छङ्कुभा यत्र विशेदपेयाद्-
वृत्ते क्रमात् स्तो वरुणेन्द्रकाष्ठे” नृपाङ्गलैः परिमितेन
कर्कटेन सूत्रेण वा वृत्तं विलिख्य तन्मध्ये द्वादशाङ्गुलं
दृड़सूच्यग्रं स्थापयेत् कीदृशं विंशत्यङ्गुलमिताभिश्चतसृभिः
ऋजुभिः समानाभिः शलाकामिः कल्पितचतुर्दिग्गत-
वृत्तस्थाभिः संस्पृष्टमस्तकम् एवं शङ्कुसमत्वं साधयित्वा
तादृशस्य शङ्कोश्छाया पूर्वाह्णे यत्र यस्मिन् प्रदेशे
वृत्ते प्रविशति यत्र वापराह्णे वृत्ताद्बहिरपैति तत्र
चिह्नयोः क्रमात् प्रतीची प्राची च भवत इति
अत्र दिगज्ञानशब्दे वक्ष्यमाणम् “वृत्तेऽम्भः सुसमी-
कृतक्षितिगते इत्यादि सि० शि० वाक्यं प्रमाणम् । तत्र
असार्द्धश्लोकस्योपपत्तिः ग्रमि० उक्ता यथा “दोःकोट्योर्नाम
भेदो न स्वरूपभेद इति दोःकोटिवर्गयोगपद कर्णः १०
वृत्तपरिधिस्पृष्टदिगन्ताच्छङ्क्वग्रं यावन्नीयमानाश्चतस्रः
शलाकाः कर्णा भवन्ति समे देशे शङ्कुं निखाय शङ्कु
समितया रज्ज्वा मण्डलं परिलिख्य यत्र शङ्क्वग्रछाया
पतति सा प्राचीति” अत्र शङ्कुसंमितयेत्युपल-
क्षणं तेनाधिकयापि रज्ज्वा वृत्तं कार्य्यम् ।
अन्यथा यत्राक्षभा षड़ङ्गुला तत्र धनुःसंक्रान्तौ द्वादशा-
ङ्गुलशङ्कोश्छायाप्रवेशस्तादृशे वृत्ते न स्यादेव तस्माद-
स्माभिः षोड़शाङ्गुलसूत्रेण वृत्तं कारितं तथा वृत्ते
कृते लाघवं चैकेनैव वृत्तेन शङ्कुसमत्वमाधनं दिक्साधनं
च सिध्यति । अतएव रामवाजपेयी “शङ्कुमानाधिके
व्यासदले वृत्ते विशेद्यदि” इत्याह एवं स्थूलप्राचीसाघनं
कृत्वा सूक्ष्ममपि शालिन्याह । “कर्के कीटे गोमृगे यूकया
सा द्वाभ्यां चाल्पा सिंहकुम्भात्त्रिकेऽपि । यां वै काष्ठां
भानुमान् याति तस्यां चाल्पा द्वन्द्वे कार्मुके चालनं न ।”
सा प्राची कर्के कर्कसंक्रान्तौ कीटे वृश्चिकसंक्रान्तौ वृषभ-
मकरसंक्रान्तौ एकया यूकया चाल्पा सूर्यस्यायनवशात्
उत्तरायणे उत्तरतः दक्षिणायने दक्षिणतः एवं सिंह-
कुम्भात्त्रिके सिंहकन्यातुलासंक्रान्तौ कुम्भमीनमेषसंक्रान्तौ
च द्वाभ्यां यूकाभ्यां चालनीया अयनवशात् मिथुनधनुः-
संक्रान्तौ चालनं नास्तीति एवं प्राचीसाधनं कृत्वाथो-
त्तरदक्षिणयोः साधनं शालिन्याह “रज्ज्वुं द्विघ्नां
मध्यचिह्नां सपाशां प्राचीं शङ्कौ पश्चिमे चापि दत्त्वा ।
कर्षेद्धीमान् दक्षिणे चोत्तरे च तच्चिह्ने स्याद्दक्षिणा-
चोत्तरा दिक्” । कुण्डमण्डपयोर्यावान् विस्तारस्तद्द्वि-
गुणकृतमध्याङ्कादुभयतः पाशवती रज्ज्वुर्न्यस्या तां प्राची
प्रचीच्योर्दत्तशङ्क्वोर्विन्यसेत् ततो मध्याङ्के धृत्या
रज्ज्वुंदक्षिणे उत्तरे चाकर्षेत् विद्वान्, कर्षाङ्के दक्षिणा
उत्तरा च स्यादिति अत्र स्पष्टैव युक्तिरिति । अथ
रात्रौ दिक्साधनीपायं वसन्तमांलिकयाह “निशि
वा श्रवणोदये दिगैन्द्री गुरुभस्योदयनेऽथ वह्निभस्य ।
शरवर्द्धकिवायुभान्तरालेऽप्यमुतः साधय पूर्ववच्च याम्याम्”
अथवा रात्रौ श्रवणस्योदये प्राची अथ वा पुष्पस्योदये
प्राची अथवा कृत्तिकोदये प्राची अथ शरवर्द्धकिस्त्वष्टा
वायुस्तयोर्भे चित्रास्वात्यौ तयोरन्तराले प्राची । अमुतः
प्राचीतः पूर्बवत् पूर्वोक्तेन तथा याम्यां दक्षिणादिशं
पृष्ठ ३५७३
साधयेदिति “कृत्तिका श्रवणः पुष्यश्चित्रास्वात्यो-
र्शदन्तरम् । एतत् प्राच्या दिशो रूपं युगमात्रोदिते
पुरः” इति । अथ चित्रास्वात्योर्यदन्तरे प्राचोत्युक्तं
तन्मध्यस्य दुर्विज्ञेयत्वात्तदुपायमनष्टुभाह “चित्रां विद्ध्वै-
कया स्वातीमन्ययापि शलाकया । तिर्यक्स्थान्तरचिह्नात्
तु द्विमूलेऽन्या स्फुटेन्द्रदिक् । एकया ऋज्वा शलाकया
चित्रां विद्ध्वा अन्यया तादृशैव शलाकया स्वातीं विद्ध्वा-
तयोः शलाकयोरुपाग्रं दक्षिणोत्तरा मध्याङ्कात् द्वितीयां
शलाकां समतया दद्यात् प्रथमद्वितीययोः शलाकयोर्मूलम्
एकीकृत्य तृतीयां मध्याङ्कादुभयसंपातं यावच्चतुर्थी
शलाकां प्रान्ते रज्ज्वुप्रोतलम्बद्वयवतीं पूर्वापरायतां
दद्यात् यत्र लम्बकौ भूम्यां पतितौ तत्राङ्कयोः पूर्वापर-
सूत्रदानात् स्पष्टा प्राचीत्यत्र स्पष्टा युक्तिरिति ।
अथ प्रकारान्तरेण लघूपायेनोदीचीसाधनमाह,
दिनमानदले सप्ताङ्गुलच्छायाग्रतो हि यत् । शङ्कुमूले
नीयमागं सूत्रं स्यादुत्तरा दिशा” । तिथिपत्राद्गणिताद्वा
दिनमानमेतावदिति ज्ञात्वा ततो घटिकादिनां ज्ञाते
दिनार्द्धे मध्याह्ने सप्ताङ्गुलशङ्कोर्यत्र छायाग्रं लगति
तस्माच्छङ्कुमूलं यावन्नीयमानं सूत्रं दक्षिणोत्तरसूत्र-
मिति अथ वा सप्ताङ्गुलशङ्कोर्गणितागतमाध्याह्निक-
छायातुल्या तस्यैव छाया यदा स्यात्तदग्राच्छङ्कुमूले
नीयमानं सूत्रं दक्षिणोत्तरेति । अत्र युक्तिस्तस्मिन्
समये रविर्दक्षिणोत्तरवृत्ते भवतीति ततः पूर्ववत् पूर्वा-
परे साध्ये एवं दिक्साधनं विधाय मण्डपस्य चतुष्को-
णत्वाच्चतुष्कोणसाधनं विपरीताख्यानक्याह “दिगन्तशङ्कु-
द्वयगं द्विपाशं विस्तारतुल्यं तु गुणं द्रलाङ्के । कोणे प्रकर्षे
दिति वेदकोणेष्वेवं चतुःकोणमतीव साधु” । दिगन्तयोः
पूर्वदक्षिणयोः दक्षिणापरयोः अपरीत्तरयो उत्तरपूर्वयोः
शङ्कुद्वयगं द्वौ पाशौ यस्य तं विस्तारेण तुल्यगुणं
सूत्रं अर्द्धचिह्ने धृत्वा कोणे आकर्षयेत् । एवं
चतुर्ष्वपि कोणेष्विति कृते साधु चतुरस्रं स्यादिति”
तद्व्याख्या । अधिकं दिग्ज्ञानशब्दे दृश्यम् ।

दिक्स्रक्ति न० दिक्कोणे । “दिकस्रक्ति पुरुषमात्रं मीयते”

कात्या० श्रौ० २० । ३ । २ । ३८ । “दिक्स्रक्ति दिक्कोणम्”
संग्रह व्याख्या ।

दिगंश पु० ७ त० । सि० शि० उक्ते दिक्स्थे अंशभेदे यथा

“चक्रांशकाङ्के क्षितिजाख्यवृत्ते प्राक्स्वस्तिकाभीष्ट
दिशस्तु मध्ये । येऽंशाः स्थितास्तेऽत्र दिगंशकाख्यास्त-
ज्ज्यात्र दिग्ज्येत्यपरे विभागे” सि० शि० “कदाचिदप्य-
भीष्टदिने यस्मिन् काले प्रच्छकः पृच्छति तत्र कालेऽर्को-
परि न्यस्तस्य दिग्मण्डलस्य क्षितिजस्य च सम्पाते
याभीष्टा दिक् तस्याः प्राक् स्वस्तिकस्य चान्तरे क्षितिज-
वृत्ते येऽंशास्तेऽत्र दिगंशका ज्ञेयाः । तेषां ज्या दिग्-
ज्येति एवं पंश्चिममागेऽपि” प्र० मि०

दिगन्त पु० ६ त० । १ दिशामन्ते । दिगन्तविश्रान्तरथोहि

तत्सुतः “भुजार्जितानां च दिगन्तसम्पदाम्” रघुः ।
२ शास्त्रीयज्ञानकर्मयुतजनाधिष्ठितमध्यदेशादतिरिक्ते देशे च

दिगन्तर न० दिशामन्तरमवकाशः । १ दिशामवकाशे “सञ्चा-

रपूतानि दिगन्तराणि” रघुः । अन्या दिक् मयूर० ।
२ प्रकृतदिशोऽन्यस्यां दिशि च न० ।

दिगम्बर पु० दिक्शून्यमम्बरं यस्य । १ शिवे २ जैनभेदे पु०

तन्मतमर्हच्छब्दे उक्तप्रायं किञ्चिदत्राधिकमुच्यते ।
“दिगम्बरा मध्यमत्वमाहुरापादमस्तकम् । चैतन्यव्याप्तिसंदृष्टे-
रानखाग्रश्रुतेरपि” । अस्य भाषा प्राकृतान्तरभेदमिन्ना
मागधी । अस्य स्वरूपन्तु गलन्मलपङ्केन पिच्छिलबी-
भत्सदुष्प्रेक्ष्यदेहच्छविलुञ्चितचिकुरो मुक्तवसनो
वेशदुर्दर्शनः शिखिशिखण्डपिच्छिकाहस्तः इति । एतन्मत-
सिद्धं जीवस्य मध्यमपरिमाणत्वं शा० सू० भाष्ययोर्नि-
राकृतं यथा
“एवञ्चात्माऽकात्र्स्न्यम्” सू० । “शरीरपरिमाणो
हि जीव इत्यार्हता मन्यन्ते । शरीरपरिमाणतायां
च सत्यामकृत्स्नोऽसर्वगतः परिच्छिन्न आत्मेत्यतो घटादि-
वदनित्यत्वमात्मनः प्रसज्येत । शरीराणाञ्चानवस्थित-
परिमाणत्वान्मनुष्यजीवो मनुष्यशरीरपरिमाणो भूत्वा
पुनः केनचित् कर्मविपाकेण हस्तिजन्म प्राप्नुवन्न कृत्स्नं
हस्तिशरीरं व्याप्नुयात्, पुत्तिकाजन्म च प्राप्नुवन्न कृत्स्न
पुत्तिकाशरीरे सम्मीयेत । समान एष एकस्मिन्नपि
जन्मनि कौमारयौवनस्थाविरेषु दोषः । स्यादेतत्,
अनन्तावयवी जीवस्तस्य त एवावयवा अल्पे शरीरे सङ्कु-
चेयुर्महति च विकाशेयुरिति । तेषां पुनरनन्तानां
जीवावयवानां समानदेशत्वं प्रतिहन्येत वा न वेति
वक्तव्यम् । प्रतिघाते तावन्नानन्तावयवाः परिच्छिन्ने
देशे सम्मीयेरन् । अप्रतिघातेऽप्येकावयवदेशत्वोपपत्तेः
सर्वेषामवयवानां प्रथिमानुपपत्तेः जीवस्याणुमात्रत्वप्रसङ्गः
स्यात् । अपि च शरीरमात्रपरिच्छिन्नानां जीवावयवा-
नामानन्त्यं नोत्प्रेक्षितुमपि शक्यम् अथ पर्य्यायेण
पृष्ठ ३५७४
वृहच्छरीरप्रतिपत्तौ च केचिज्जीवावयवा उपगच्छन्ति
तनुशरीरप्रतिपत्तौ च केचिदपगच्छन्ति इत्युच्येत तत्रा-
प्युच्यते” भा० । “न च पर्य्यायादप्यविरोधी विकारा-
दिभ्यः” सू० । “न च पर्य्यायेणाप्यवयवोपगमापगमा-
भ्यामेतद्देहपरिमाणत्व जीवस्याविरोधेनोपपादयितुं
शक्यते कुतः विकारादिदोषप्रसङ्गात् । अवयवोपगमा-
पगमाभ्यां ह्यनिशमापूर्य्यमाणस्यापक्षीयमाणस्य च जीवस्य
विक्रियावत्त्वं तावदपरिहार्य्यं विक्रियावत्त्वे च चर्मा-
दिवदनित्यत्वं प्रसज्येत ततश्च बन्धमोक्षभ्युपगमो
बाध्येत, कर्माष्टकपरिवेष्टितस्य जीवस्यालाबूवत् संसार-
सागरे निमग्नस्य बन्धनोच्छेदादूर्द्ध्वगामित्वं भवतीति ।
किञ्चान्यदागच्छतामपगच्छताञ्चावयवानामागमोपाधिधर्म-
वत्त्वादेवानात्मत्वं शरीरादिवत् । ततश्चाव्यवस्थितः कश्चि-
दवयवी आत्मेति स्यात्, न च स निरूपयितुं शक्यते
अयमसाविति । किञ्चान्यदागच्छन्तश्चैते जीवावयवाः
कुतः प्रादुर्भवन्ति अपगच्छन्तश्च क्व वा लीयन्त इति
वक्तव्यम् । न हि भूतेभ्यः प्रादुर्भवेयुः भूतेषु च लीये-
रन् अभौतिकत्वाज्जीवस्य । नापि कश्चिदन्यः साधारणो-
ऽसाधारणो वा जीवानामवयवाधारो निरूप्यते प्रमाणा-
भावात् । किञ्चान्यदनवधृतस्वरूपश्चैवं सत्यात्मा स्यात्
आगच्छतामपगच्छताञ्चावयवानामनियतपरिमाणत्वात्,
अत एवमादिदोषप्रसङ्गात् न पर्य्यायेणाप्यवयवोपगमाप-
गमावात्मन आश्रयितुं शक्येते । अथ वा पूर्वेण सूत्रेण
शरीरपरिमाणस्यात्मन उपचितापचितशरीरान्तरप्रतिप-
त्तावकात्र्स्न्यप्रसञ्जनद्वारेणानित्यतायां चोदितायां पुनः
पर्य्यायेण परिमाणानवस्थानेऽपि स्रोतःसन्ताननित्यता
न्यायेनात्मनो नित्यता स्यात्, यथा रक्तपटादीनां विज्ञानान-
वस्थानेऽपि तत्सन्ताननित्यता तद्वद्विसिचानां (विवसनानाम्)
अपीत्याशङ्क्यानेन सूत्रेणोत्तरत्तच्यते । सन्तानस्य
तावदवस्तुत्वे नैरात्म्यवादप्रसङ्गः, वस्तुत्वेऽप्यात्मनो विका-
रादिदोषप्रसङ्गादस्य पक्षस्यानुपपत्तिरिति” ।
३नग्ने त्रि० “दिगम्बरत्वेन निवेदितं वसु” । कुमा०
स्त्रियां गौरा० ङीष् । “तथा चैव दिगम्बरी” काली-
ध्यानम् “ह्रीरूपाऽपि दिगम्बरी त्रिजगतां माताऽपि
सद्यौवना” कालीस्तवः । दिगेवाम्बरम् । ४ दिग्रूपे अम्बरे
दिक् च अम्बरञ्च समा० द्व० । ५ दिगाकाशसमहारे च
न० “आच्छादितायतदिगम्बरमुच्चकैर्गाम् माघः । ६ तमसि
न० मेदि० स्वार्थे क । दिगम्बरक क्षपणके हारा० ।

दिगादि पु० “दिगादिभ्योयत्” पा० विहितयत्त्ययनिमित्ते

शब्दगणभेदे स च गण पा० ग० सू० उक्तो यथा “दिक् वर्ग
पूग गण पक्ष धाय्य मित्र मेधा अन्तर पथिन् रहस्
अलीक उखा साक्षिन् देश आदि अन्त मुख जघन मेष
यूथ (उदकात्संज्ञायाम्) न्याय वंश वेश काल आकाश” ।

दिगीश्वर पु० ६ त० । १ इन्द्रादौ दिक्षाले २ सूर्य्यादिग्रहे च

“दिगीश्वरा भास्करशुक्रभौमा राह्वार्किचन्द्रज्ञसुरार्चिताः
स्युः” ज्यो० त० दिगीशादयोऽप्यत्र “दिगीशवृन्दांशविभूति
रीशिता” नैष०

दिगुपाधि पु० ६ त० दिशां प्राच्यादिव्यवहारोपाधौ उदयाचलादौ ।

दिग्गज पु० दिशि स्थितो गजः । दिक्षु स्थिते ऐरावतादौ

गजे दिक्करिन्शब्दे दृश्यम् । “नदत्याकाशगङ्गायाः
स्रोतस्युद्दामदिग्गजे” रघुः । “चिरस्य याथार्थ्यमलम्भि
दिग्गजैः” माघः ।

दिग्जय पु० दियां तत्स्यलोकमृपाणां जयः । जिगी-

षुकृते यद्धेन १ दिक्स्थितनृपजये विद्यया २ दिकस्थ-
लोकादिजये च । दिग्विजवादभोऽप्यत्र

दिग्ज्ञान न० ६ त० सि० शि० उक्ते दिशां प्राचीत्वादिज्ञान-

साधनी प्रकारभेदे स च तत्रोक्तो यथा
“वृत्तेऽम्भःसुसमीकृतक्षितिगते केन्द्रस्थशङ्कोः क्रमा-
ड्गाग्रंयत्र विशत्यपैति च यतस्तत्रापरैन्द्र्यौ दिशौ ।
तत्कालापमजीवयोस्तु विवराद्भाकर्णमित्या हताल्लम्बज्याप्त-
मिताङ्गुलेरयनदिश्यैन्दी स्फुटां चालिता । तन्मत्स्यादथ
याम्यसौम्यककुभौ सौम्या ध्रुवे वा भवेदेकस्मादपि भाग्रती-
भुजमितां कोटीमिमां शङ्कुतः । न्यस्येद्यष्टिमृजुं तथा
भुवि यथा यष्ट्यग्रयोः संयुतिः कोटिः प्राच्यपरा भवदिति
कृते बाहुश्च याम्योत्तरा” मू० “उदकेन समीकृतायां भूमा-
विष्टपमाणं वृत्तं विलिख्य तस्य केन्द्रे द्वादशाङ्गुलशङ्कु
निवश्य तस्य छाया तस्मिन् वृत्ते यत्र प्रविशति पूर्वाह्णे वा
अपराह्णे यतो निर्गच्छति तत्र पश्चिमपूर्वदिशौ किल
भवतः । परन्तु यस्मिन् काले छायाप्रवेशो जातो यस्मिन्
काले च निर्गमस्तात्कालिकयोरर्कयोः क्रान्तिज्ये साध्ये ।
तयोरन्तरात् तस्याश्छायायाः कर्णेन मुणिताल्लम्बज्यया
भक्ताद्यल्लब्धमङ्गुलादि फलं तेनैन्द्रो दिगुत्तरतश्चालिता
स्फुटा भवति यद्युत्तरेऽयने रविर्वर्त्तते तदा उत्तरतः यदि
दक्षिणे तदा दक्षिणतः । एवं स्फुटा प्राची । अन्यथा
स्थूलेत्यर्थः । तन्मत्स्याद्याम्यसौम्यो दिशौ । अथ प्रकारा-
न्तरेणाह । ध्रुवमवलम्बसूत्रेण विद्ध्वा ध्रुवाभिमुंखकी-
पृष्ठ ३५७५
लकः सौम्या । स्वस्थानकीलको याम्या । तन्मत्स्यात्
पूर्वापरे । प्रथमं भाच्छायाग्रदर्शने दिग्ज्ञानमुक्तम् ।
इदानीमथवैकस्मादपि भाग्रतः । तच्चैवम् । अभीष्ट-
काले शङ्कोर्भाग्रं चिह्नयित्वा तस्याश्छायाया वक्ष्यमाण-
प्रकारेण भुजं कोटिं चानीय भुजकोटिमिते शलाके
गृहीत्वा शङ्कुमूलाद्यथादिग्गतां कोटिशलाकां छाया-
ग्राद्व्यस्तदिग्गतां भुजशलाकां च तथा भुवि न्यसेद्यथा
शलकाग्रयोः संयुतिः स्यात् । एवं कृते सति कोटिः
प्राच्यपरा दिग्भवति । बाहुश्च याम्योत्तरा । अत्रो-
पपत्तिः । अहोरात्रवृत्ते इष्टानामुन्नतघटिकानामग्रे
पूर्वाह्णे समपण्डलेन यावदन्तरं तावदेवापराह्णे तावती-
नां घटीनामग्रे भवति । अतस्तच्छायाग्रबिन्दुभ्यां
दिग्ज्ञानमुपपद्यते । परं तत्कालान्तरेण यदर्कक्रान्त्यन्तरं
तेनान्तरितं भवति । अतस्तत् सन्धेयम् । तच्चैवम् ।
तस्मित् काले यानि कर्णवृत्ताग्राङ्गुलानि पूर्वाह्णे यानि
चापराह्णे तेषामन्तरं कार्यम् । तत्र लाघवार्थं तत्काल-
क्रान्त्योरेवान्तरं कृतम् । ततोऽग्राकरणायानुपातः ।
यदि लम्बज्याकोट्या त्रिज्या कर्णस्तदा क्रान्तिज्यान्तरेण
किमिति । अत्र लब्धमग्रान्तरम् । ततोऽन्योऽनुपातः ।
यदि त्रिज्याध्यासार्धे एतावदन्तरं तदा कर्णव्यासार्धे
किमिति । अत्र तुल्यत्वाद्गुणकभाजकयोस्त्रिज्यानाशे
कृते सत्युपपन्नं तत्कालापमजीवयोस्तु विवरादित्यादि ।
यद्युत्तरमयनं वर्तते उत्तरतोऽर्के चालिते शङ्कोर्भाग्रं
दक्षिणतो याति तदोत्तरतश्चालनीयम् । अत उपपन्न-
मैन्द्रीस्फुटा चालितेति । भुजकोटीनामुपपत्तिरग्रे ।
सन्निवेशमात्रेण दिग्ज्ञानमिव दर्शितम्” प्रमि० ।

दिग्ज्या स्त्री दिगंशशब्दे दर्शिते सि० शि० उक्ते दिशामंशभेदे ।

दिग्दर्शन न० दिशो दृश्यान्तेऽनेन दृश--करणे ल्युट् ।

१ दिग्ज्ञानसाधने यन्त्रभेदे (कम्पास) ६ त० । २ दिशां दर्शने च

दिग्दाह पु० दिशां दाहः । वृ० स० २१ अ० उक्ते उत्पातभेदे

तच्छुभाशुभादिकं तत्रोक्तं यथा
“दाहो दिशां राजभयाय पीतो देशस्य नाशाय
हुताशवर्णः । यश्चारुणः स्यादपसव्यकायुः शस्यस्य नाशं
स करीति दृष्टः । योऽतीव दीप्त्या कुरुते प्रकाशं छाया-
मपि व्यञ्जयतेऽर्कवत् यः । राज्ञो महद्वेदयते भयं सः
शस्त्रप्रकोपं क्षतजानुरूपः । प्राक् क्षत्रियाणां सनरेश्व-
राणां प्राग्दक्षिणे शिल्पिकुमारपीड़ा । याग्गे सहोग्रैः
पुरुषैस्तु वैश्या दूताः पुनर्भूप्रमदाश्च कोणे । पश्चानु
शूद्राः कृषिजीविनश्च चौरास्तुरङ्गैः सह वायुदिक्स्थे ।
पीड़ां व्रजन्त्युत्तरतश्च विप्राः पाषाण्डनो बाणिजकाण
शार्व्याम्(ऐशान्याम्) । नभः प्रसन्नं विमलानि भानि प्रद-
क्षिणं वाति संदामतिश्च । दिशां च दाहः कनका-
वदातो हिताय लोकस्य सपार्थिवस्य” ।

दिग्देवता स्त्री दिशां तन्मर्य्यादानां देवता साक्षिभूतेव ।

दिशां मर्य्यादासाक्षीभूतदेवतायाम् “दिग्देवता अतिर-
जस्वलमतिर्न विजानाति” भाग० ४ । १४ । ९

दिग्ध पु० दिह--क्त । १ विषाक्तवाणे अमरः “हृदये दिग्-

दशरैरिवाहतः” कुमा० । २ अग्नौ ३ स्नेहे च पु० हेमच० ।
४ प्रबन्धे अजयपालः । ५ लिप्ते त्रि० मेदि० ।

दिग्बल न० दिङ्निमित्तं ग्रहाणाम् बलम् । लग्नादौ

स्थितग्रहाणां दिग्भेदनियमिते बले यथाह ज्योतिषे
“लग्ने सौम्यसुराचार्य्यौ कुजार्कौ दशमे तथा । द्यूने
सौरिश्चतुर्थे तु सितेन्दू दिग्बलान्वितौ” । अत्र
कोणदिग्बलित्वनिरासाय लग्नदशमद्यूनचतुर्थपदैः
पूर्वदक्षिणपश्चिमोत्तरदिगुपादनम् । लग्ने स्थितौ
बुधगुरू पूर्वदिग्बलिनौ यती राशीनामुदयो लग्नं
उदयस्तु पूर्वदिश्येव भवति । लग्नात् दशमे स्थितौ
कुजार्कौ दक्षिणदिग्बलिनौ यतो लग्नाद्दशमराशिरेव
दक्षिणदिशि तिष्ठति । सप्तमे स्थितौ शनिः पश्चि-
मदिग्वली यतो लग्नात् सप्तमराशिरस्तमेति । अस्तञ्च
पश्चिमदिश्येव भवति । तथा लग्नाच्चतुर्थे स्थितौ शुक्र-
चन्द्रौ उत्तरदिग्बलिनौ यतो लग्नाच्चतुर्थराशिरेवोनर-
दिग्भगे तिष्ठति । तद्वलान्वितो ग्रहो दिग्बलीत्युच्यते”
एतच्चायुर्दायादिषु बलगणनोपयोगि । यात्रादिषु
यथास्थितपूर्वाद्यपेक्षयैव ग्रहाणां दिग्बलित्वं ज्यो० त०
उक्तं यथा० “प्राच्यां सौम्यसुराचार्यौ याम्यां भास्क-
रभूमिजौ । प्रत्यक् सौरिरुदीच्यान्तु सितेन्दू
दिनबलान्वितौ” ।

दिग्बलिन् पु० दिग्बलमस्त्यस्य इनि । १ दिङ्निमित्तबल-

युक्ते गृहे दिग्बलशब्दे दृश्यम् । २ तादृशे राशिमेदे च
“ऐन्द्र्यां मानुषराशयस्तु पशवोयाम्ये सवीर्य्या अलिर्वा-
रुण्यां बलयुक् तथैव बलिनः पानीयजाश्चोत्तरे” ज्यो० त०

दिग्वदन न० दिग्भेदे वदनं यस्य । प्राच्यादिदिग्भेदेन

तत्रस्थितमुखके राशिभेदे । “लग्ने दिग्वदनेऽतिदण्डग-
मनं प्राच्यादि शूलं विना” ज्यो० त० राशीनां
दिगभेदेन सुखमुक्तं तत्रैव । “मेषाद्यास्त्रिभ्रमात् ज्ञेयाः
पृष्ठ ३५७६
प्रागादिदिङ्मुखास्त्वमी” तथा च मेषः प्राग्वदनः, वृषो-
यामीवदनः, मिथुनः पश्चिमामुखः, कर्क उत्तरामुखः एवं
सिंहादयः धनुरादयश्च । दिद्वक्त्रदादयोऽप्यत्र ।

दिग्वस्त्र पु० दिग्रूपं वस्त्रमस्य । १ शिवे २ जैनभेदे च

३ नग्ने त्रि० “दिग्वस्त्रावद्धकाञ्चीमणिमयमुकुटाद्यैर्युता-
दीप्तजिह्वा” रक्षाकालीध्यानम् । दिग्वसनादयोऽप्यत्र ।

दिग्वारण पु० दिक्षु स्थितो वारणः । दिग्गजे ऐरावतादौ ।

“दिग्वारणमदाबिलम्” “प्रभिन्नदिग्वारणवाहनो वृषा”
कुमा० ।

दिग्विजय पु० दिशां तत्स्थनृपलोकानां विजयः ।

विद्ययायुद्धेन वा दिक्स्थ नृपलोकजये “पाण्डवदिग्वि-
जयः भीमदिग्विजयः शङ्करदिग्विजयः” इत्यादि ।

दिङ्क पु० दिङ् इति कायति शब्दायते कै--क । उत्कुणडिम्बे

शब्दकल्प० । तत्स्फोटने हि दिङ् इति शब्दो जायते
इति तस्य तथात्वम् ।

दिङ्नक्षत्र न० दिशि दिग्भेदेन स्थितं नक्षत्रम् । “कृत्ति-

काद्यास्तु पूर्वादौ सप्त सप्तोदिताः क्रमात् । यद्दिश्यं
यस्य नक्षत्रं तत्र तस्य शुमं गृहम्” ज्यो० त० उक्ते ऋक्षभेदे

दिङ्नाग पु० दिशि स्थितो नागः । दिग्गजे “दिङ्नागानां

पथि परिहरन् स्थूलहस्तावलेपान्” मेघदू० दिङ्नाग
मदगन्धिषु” कुमा० ।

दिङ्मण्डल त्रि० ६ त० । १ दिशां मण्डले २ मण्डलाकारे तत्समूहे

च । “उन्नादाम्बुदवर्द्धितान्धतमसप्रभ्रष्टदिङ्मण्डले”
उद्भटः ।

दिङ्मात्र न० दिशेव मात्रच् । एकदेशे शब्दार्थचिन्ता० ।

दिङ्मूढ़ त्रि० दिशि मूढः । दिग्भ्रान्तियुक्ते पूर्वादिदिशां

यथार्थतोऽपरिज्ञानम् दिग्ममः तद्युक्ते दिशामयथार्थ-
ज्ञानयुक्ते ।

दिण्डि पु० डिण्डि + पृषो० वाद्यभेदे ।

दिण्डिर पु० दिण्डिर + पृषो० । वाद्यभेदे अमरः ।

दित त्रि० दो--खण्डने क्त इत्त्वम् । छिन्ने द्वैधीकृते अमरः ।

दिति(ती) स्त्री दो--खण्डने क्तिच् वा ङीप् । १ दैत्य-

मातरिकश्यपपत्न्याम् । “प्रजज्ञिरे महाभागा दक्षकन्या-
स्त्रयोदश । अदितिर्दितिः दनुःकाला” भा० आ० ६५ अ० ।
ताश्च कश्यपस्य पत्न्यः “ददो स दश घर्माय कश्यपाय
त्रयोदश” हरिव० ६ अ० । भावे क्तिन् न ङीप् ।
२ सण्डने च ।

दितिज पु० दितेजायते जन--ड असुरे “द्रक्ष्य दितिज

संघानाम्” भा० अनु० १४ अ० । “दितिजसहस्रगणैर्निषेव्य-
माणम्” हरिवं० २३२ अ० “एकएव दितेः पुत्रो हिरण्यक-
शिपुः स्मृतः” भा० आ० ६५ अ० । उक्तेरेकस्यैव तत्सुतत्वेऽपि
तद्वंशजानानामप्युपचारात् तज्जन्यत्वं द्रष्टव्यम् ।

दितितनय पु० ६ त० । दैत्ये दितिनन्दनदितिसुतादयोऽ-

प्यत्र । “नखे दितिसुताधीशः पदे रोदसी” सा० द० ।

दित्य पु० दितौ भवः यत् । १ असुरे शब्दार्थकल्प० । दितिं

खण्डनमर्हति यत् । २ छेदनार्हे--धान्यादौ त्रि० ।

दित्यवाट् पु० दित्यं छेदनार्हं धाव्यादिकं वहति वह--ण्वि ।

द्विवर्षेवयस्के पशौ । “दित्यवाट्योविराट् छन्दः” यजु० १४
१४० । “दो अवस्वण्डने क्तिन् प्रत्ययः दितिं खण्डनमर्हति
दित्यं धान्यं वहति दित्यवाद् यद्वा द्विवर्षः पशुर्दित्यवाट्
विराट् छन्दो भूत्वोत्क्रान्तं दित्यवाहं पशुं बयसा
ग्रहीत् “दित्यवाहं वयसाप्नोद्विरात् छन्दः विराड्-
भूत्वा दित्यवाह उच्चक्रमुः” शत० ब्रा० ८ । २ । ४ । १२ । श्रुतेः,
वेददी० स्त्रियां ङीपि वाहऔः । दित्यौहीत्येव । “दित्यवाट्
न्व मे दित्यौही च मे” यजु० १८ । २६ । “द्विसंवत्सरो
वृषोदित्यवाट् तादृशी गौर्दित्यौही” वेददी० ।

दित्सा स्त्री दातुमिच्छा दा--सन् इस् अभ्यासलोपः भावे अ ।

दानेच्छायाम् ।

दित्सु त्रि० दातुमिच्छुः दा--सन्--उ । दानेच्छावति “दिव्युः

सुतां योधहरैस्तुरङ्गैः” भट्टिः क्वचित् आर्षे तु नाभ्या-
सलोपः “संप्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम्”
भा० उ० ७ अ० ।

दिदृक्षा स्त्री द्रष्टुमिच्छा दृश--सन्--भावे अ । दर्शनेच्छा-

याम् । “द्रौपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया” भा० आ०
१ अ० । “एकस्थसौदर्य्यदिदृक्षयेव” कुमा० ।

दिदृक्षु त्रि० द्रष्टुमिच्छुः दृश--सन्--उ । द्रष्टुमिच्छौ

“कोपितोह्यसि मया दिदृक्षुणा” रघुः । “व्यवहारान्
दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः” मनुः ।

दिदृक्षेण्य त्रि० द्रष्टुमेष्टव्यः दृश--सन् केन्य । “द्रष्टुमे-

ष्टव्ये । “दिदृक्षेण्यः परि काष्ठासु जेन्यः” ऋ० १ । १४६ । ५ ।

दिदृक्षेय त्रि० दिदृक्षामर्हति बा० ढक् । दर्शनीये “दिदृ-

क्षेयः सूनवे भाऋजीकः” ऋ० ३ । १ । १२ । “दिदृक्षेयः
सर्वैर्दर्शनीयः” भा०
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/दानु&oldid=57773" इत्यस्माद् प्रतिप्राप्तम्