वाचस्पत्यम्/गोत्रज

विकिस्रोतः तः
पृष्ठ २६९८

गोत्रज पुंस्त्री गोत्रे समाने वंशे जायते जन--ड ।

एकगोत्रोत्पन्ने “तत्सुतो गोत्रजौ बन्धुः” याज्ञ० ।
यद्यपि गोत्रोत्पन्नमात्रेऽस्य प्रवृत्तिस्तथापि अशौचग्रहणे
“दशाहेन सपिण्डास्तु शुध्यन्ति प्रेतसूतके । त्रिरा-
त्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति गोत्रजाः” व्यासवाक्ये
गोत्रजपदं पारिभाषिकं यथाह वृहन्मनुः “सपण्डिता
तु पुरुषे सप्तमे विनिवर्त्तते । समानोदकभावस्तु निवर्त्ते-
ताचतुर्दशात् । जन्मनाम्नां स्मृतेरेके तत्परं गोत्रजा-
मताः” इति “गोत्रजा निवृत्तसमानोदकभावाः शु० त० रघु० ।
वस्तुतः गोत्रजपदस्य गोत्रोत्पन्नमात्रार्थकत्वेऽपि सामा-
न्यविशेषन्यायेन सपिण्डादेर्विशेषाशौ चोक्तेस्तद्भिन्नपर-
त्वम् अत एव “तत्सुतो गोत्रजोबन्धुरित्यत्र याज्ञ० वचने
गोत्रजपदेन पितामह्यादेर्ग्रहणमिति तद्व्याख्याने च
मिता० “गोत्रजाः सपिण्डाः पितामह्यादयः समान-
गोत्राः” इत्युक्तम् ।

गोत्रभाग पु० गोत्राणामेकगोत्रजातानां भागः । गोत्र-

जातानां परस्परविभागे “गोत्रसाधारणं त्यक्त्वा
योऽन्यदेशं समाश्रितः । तद्वंश्यस्यागतस्यांशः प्रदातव्यो
न संशयः । तृतीयः पञ्चमश्चैव सप्तमोवापि यो भवेत् ।
जन्मनामपरिज्ञाने लभेतांशं क्रमागतम् । यं परम्प-
रया मौलाः सामन्ताः स्वामिनं विदुः । तदन्वयस्या
गतस्य दातव्या गोत्रजैर्मही । भुक्तिस्त्रैपुरुषी सिध्ये
दपरेषां न संशयः । अनिवृत्ते सपिण्डत्वे सकुल्यानां
न सिध्यति । अस्वामिना तु यद्भुक्तं गृहक्षेत्रापणा-
दिकम् । सुहृद्बन्धुसकुल्यस्य न तद्भोगेन हीयते ।
विवाह्यश्रोत्रियैर्भुक्तं राज्ञामात्यैस्तथैव च । सुदीर्घे-
णापि कालेन तेषां सिद्ध्यति तत्तु न” वृहस्पतिः गोत्र
साधारणं द्रव्यमिति शेषः विवाह्यो जामाता

गोत्रभिद् पु० गोत्रं पर्वतं मेघं वा भिनत्ति भिद--क्विप् ।

इन्द्रे इन्द्रस्य वृष्ट्यर्थं मेघभेदनात् पर्वतपक्षशातनाद्वा
तथात्वम् । “पुरन्दरो गोत्रभिद् बाहुरायात्” यजु०
२० । ३८ गौर्भूमिस्तां वृष्ट्या त्रायन्ते गोत्रा मेघाः तान्
वृष्ट्यर्थ भिनत्ति गोत्रान् गिरीन् वा भिनत्ति” वेददी० ।
तस्य गिरिपक्षभेदनकथा पौराणिकी अनुसन्धेया ।
यथा “ततोऽद्रयो जातपक्षा विष्णोश्चैव तु मायया ।
वस्थिता मेदिनीं त्यक्त्वा यथापूर्वं निवेशिताः । तत्स्थान-
मसुराणान्तु घात्रादिष्टं जलार्णवे । प्रतीच्यां पर्वताः सर्वे
निममज्जुर्यथा गजाः । तत्रासुरेभ्यः शंसुस्ते आधिपत्यं
सुराश्रयम् । तच्छ्रत्वैवासुराः सर्वे चक्रुरुद्योगमुत्तमम्”
इत्युपक्रमे “धरगबान्तु गिरीन् स्थाप्य स्वेषु स्थानेषु गोः
पतिः । चिच्छेद पविना पक्षान् सर्वेषां भुवि चारि-
णाम् । एकः सपक्षो मैनाकः सुरैस्तत्समये कृतः”
अग्निं पु० । “पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः”
इति तदनु रेण रघौ वर्णितम् । गोत्रे नाम भिनत्ति ।
२ नामभेदके एकनामोच्चारणकाले अन्यनामोच्चारके च ।
“तदयुक्तमङ्ग तव विश्वस्मृजा न कृतं यदीक्षणसहस्रत-
यम् । प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य
मयि गोत्रभिदा” माघः । “गोत्रभिदा पर्वतभिदा
नामभेदिना च” मल्लि० ।

गोत्रवृक्ष पु० गोत्रभवो नगजातो वृक्षः । धन्वनवृक्षे भावप्र० ।

गोत्रस्खलन न० गोत्रे नामनि स्खलनम् । अन्यस्य नामग्रह-

णाशया अन्यस्य नामग्रहणरूपे रागहेतुके स्खलने ।
“जगाद गोत्रस्खलने च का न तम्” (नलम्) नैष० ।
“गोत्रस्खलने भ्रान्तिं मानिनि! जानीहि केबलां मेऽत्र ।
आख्यानतोविशेषप्रतिपत्तिः पाणिनीय इव” उद्भटः ।
भावे क्त “गोत्रस्खलितमप्यत्र न० “उत गोत्रस्खलितेषु
वन्धनम्” कुमा०

गोत्रा स्त्री गवां समूहः त्र । १ गोसमूहे गां त्रायते शस्यादिपोषणेन त्रै--क । २ भूमौ अमरः ।

गोत्रादि पु० “तिङोगोत्रादीनि कृत्स्नाभीक्ष्ण्ययोः” पा०

तिङन्तात् परस्य अतदात्ततानिमित्ते शब्दगणे
तदुगणश्च पा० ग० सूत्रे उक्तो यथा “गोत्र ब्रुव प्रवचन
प्रहसन प्रकथन प्रत्यायन प्रपञ्च प्राय न्याय प्रचक्षण
विचक्षण अवचक्षण स्वाध्याय भूयिष्ठ वानाम” ।

गोत्व न० गोर्भावः त्व । गोशब्दप्रवृत्तिनिमित्ते गवेतरावृत्तौ

सकलगोव्यक्तिस्थे जातिभेदे । तल्लक्षणन्तु गवेतरावृत्तित्वे
सति सकलगोव्यक्तिवृत्तित्वम् । सत्ताद्रव्यत्वादिजातेः
सकलगोव्यक्तिवृत्तित्वात् तद्वारणाय सत्यन्तम् विशेषणं
गगनादेर्गवेतरावृत्तित्वात् विशेष्यदलम् । वृत्तिताद्वयञ्च
समवायेन ग्राह्यं तेन गवेतरघटादौ कालिकसम्बन्धेन
गोत्वस्य सत्त्वेऽपि नासम्भवः ब वा गवेतरासमवेतस्य
गगनादेः कालिकेन सकलगोव्यक्तिवृत्तित्वादतिव्याप्तिः ।
तस्याश्च जातेः गोपदप्रवृत्तिनिमित्तत्वमुक्तं काव्य० प्र०
वाक्यपदीये “गौः स्वरूपेण न गौर्नाप्यगौः गोत्वाभि-
सम्बन्धात्तु गौः” यतो गोत्वसम्बन्धादेव गोर्गोपद-
पृष्ठ २६९९
वाच्यता अतो गोत्वस्य गोपदप्रवृत्तिनिमित्तत्वम् ।
तद्व्यञ्जकञ्च गलकम्बलादिमत्त्वरूपआकारभेदः संस्था-
नविशेषस्यैव जातिव्यञ्जकत्वात् । तत्र गोपदं गोत्वे
शक्तं व्यक्तेर्भानमनुमानात् तुल्यवित्तिवेद्यत्वाद्वेति
मीमांसकामन्यन्ते अनुमानञ्च गामानयेत्यादौ गोत्वान-
यनमिति शाब्दबोधात् परम् गोत्वकर्मकानयनं गोकर्म-
कानयनं विनाऽनुपपन्नमिति व्यतिरेकव्याप्तिग्रहाधीनम् ।
गोत्वविशिष्टे शक्तमिति तु नैयायिकाः व्यक्तिमात्रस्य
शक्यत्वे व्यक्तीनामानन्त्यात् व्यभिचारः । अतद्व्यावृ-
त्तिरूपोऽपोहो वा गोपदशक्य इति तु बौद्धाः

गोद पु० गां नेत्रं दायति शोधयति दै--क । १ मस्तकस्थे

मस्तिष्के हेम० मस्तिष्कस्य नेत्रप्रकाशहेतुत्वात् तथात्वम् ।
गां ददाति दा--क । २ गोदातरि त्रि० । “अन्नदस्तु श्रियं
पुष्टां गोदोव्रध्नस्य पिष्टपम्” मनुः । गोदावर्य्या समीपस्थे
देशभेदे पु० ततः चतुरर्थ्याम् अण् । गौदः तद्देशादूरभ-
वादौ त्रि० जनपदे तु वरणा० तस्य लुप् । गोदो
जनपदः “विशेषणानाञ्चाजातेः” पा० । लुबर्थस्य विशे-
षणानामपि तल्लिङ्गवचने न तु जातेः । गोदौ
रमणीयौ” सि० कौ०

गोदत्र न० गोदं त्रायते त्रै--क । मस्तिष्करक्षके मुकुटादौ

गोदन्त न० गोर्दन्त इवावयवोऽस्य ६ त० । हरिताले राजनि०

गोदा स्त्री गां स्वर्गं ददाति स्नानेन दा--क । गोदावरी-

नद्याम् हेम० । “नेष्टोऽथ गोदोत्तरतश्च यावत्” मु० चि० ।

गोदान न० गावो केशालोमानि वा दीयन्ते खण्ड्यन्तेऽत्र ।

आधारे ल्युट् १ केशान्ताख्ये द्विजाति संस्कारभेदे केशान्त
शब्दे २२५० पृ० दृश्यम् । “अथास्य गोदानविधेरनन्तरम्”
रघुः । तच्च “एवेन गोदानम्” आश्व० गृ० १ । १८ । १ । इत्या-
दिसूत्रजा तेन निरूपितम् । “चूड़ोपनयनगोदानवि-
वाहाः” आश्व० गृ० । गवि पृथिव्यां दीयते निधीयते स्वाप-
काले दा--कर्म्मणि ल्युट् । २ दक्षिणकर्ण्णसमीपस्थे शिरः-
प्रदेशे । “अपरेण दक्षिणाग्निम् दक्षिणं गोदानमुन्दति”
कात्या० श्रौ० ५ । २ । १४ । “दक्षिणं गोदानं वितार्य्योन-
त्तीमामापः” कात्या० श्रौ० ७ । २ । ९ । “स्वपद्भिर्गवि पृथिव्यां
दीयते इति गोदानं शिरसोदक्षिणं प्रदेशं वितार्य्य
कङ्कतादिना तत्स्थाने केशान् विजटान् कृत्वा उन्दति
क्लेदयति अद्भिरार्द्रं करोति इमामापः इत्यादि मन्त्रेण”
कर्कः । ६ त० । गोः सुरभ्या वृषस्य वा ३ दाने । गोप्र-
शंसापूर्वकं तद्दानप्रकारो हेमाद्रि० दा० उक्तो यथा
भविष्यत् पुराणे । ब्रह्मोवाच “आदित्यदुहिता र्गौर्हि
पृथ्वीयं परिकीर्त्तिता । श्रेयोऽर्थे सर्वलोकानामुत्पन्ना
क्रतुसिद्धये । ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा
कृतम् । एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति ।
गोभ्यो यज्ञाः प्रवर्त्तन्ते गोभ्योदेवाः समुत्थिताः । गोभ्यो
वेदाः समुद्गीर्णाः सषड़ङ्गपदक्रमाः । शृङ्गमूलं गवां
नित्यं ब्रह्मविष्णू समाश्रितौ । शृङ्गाग्रे सर्वतीर्थानि
स्थावराणि चराणि च । शिरोमध्ये महादेवः सर्व-
भूतमयः स्थितः । ललाटाग्रे स्थिता देवी नासावंशे
च षण्मुखः । कम्बलाश्वतरौ नागौ नासापुटसुपालितौ ।
कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ । दन्तेषु
वायवः सर्वे जिह्वायां वरुणः स्थितः । सरस्वती च
हुङ्कारे यमयक्षौ च गण्डयोः । सन्ध्याद्वयं तथोष्ठाभ्यां
ग्रीवामिन्द्रः समाश्रितः । रक्षांसि कक्षदेशे तु साध्या-
श्चोरसि संस्थिताः । चतुष्पात् सकलो धर्मः स्वयं
जङ्घासु संस्थितः । खुरमध्ये तु गन्धर्वाः स्वुराग्रेषु च
पन्नगाः । खुराणां पश्चिमाग्रेषु गणाह्यप्सरसां स्थिताः ।
रुद्राश्चैकादश पृष्ठे वसवः सर्वसन्धिषु । श्रीणीतटस्थाः
पितरः सोमोलाङ्गूलमाश्रितः । आदित्यरश्मयोबाले
पिण्डीभूता व्यवस्थिताः । साक्षाद्गङ्गा च गोमूत्रे
गोमये यमुना स्थिता । क्षीरे सरस्वती देवी नर्मदा
दधिसंस्थिता । हुताशनः स्वयं सर्पिर्ब्राह्मणानां गुरुः
परः । अष्टाविंशतिदेबानां कोष्ट्योरोमसु संस्थिताः ।
उदरे पृथिवी ज्ञेया सशैलवनकानना । चत्वारः
सागराः पूर्णा गवाङ्गे तु पयोधराः । एतद्धि कथितं
सर्वं यथा गोषु प्रतिष्ठितम् । जगद्वै देवशार्दूल! स
देवासुरमानवम्” । स्कन्दपुराणे “तृणानि खादन्ति
वसन्त्यरण्ये पिबन्ति तोयान्यपरिग्रहाणि । दुह्यन्ति
वाह्यन्ति पुनन्ति पापं गवां रसैर्जीवति जीवलोकः ।
तुष्टास्तु गावः शमयन्ति पापं दत्तास्तु गावस्त्रिदिवन्न-
यन्ति । संरक्षिताश्चोपनयन्ति तित्तं गोभिर्न तुल्यं
धनमस्ति किञ्चित् । शष्पं समश्नाति ददाति नित्यं
पापक्षतिं मित्रविवर्द्धनं च । स एव चार्य्यैः परिभुज्यते च
गोभिर्न तुल्यं धनमस्ति किञ्चित् । तृणानि शुष्काणि
वने चरित्वा पीत्वापि तोयान्यमृतं स्रवन्ति । यद्गो-
मयाद्याश्च पुनन्ति लोकान् गोभिर्न तुल्यं धनमस्ति
किञ्चित्” । हारीतः “बहुक्षीराश्च यो गा वै ब्राह्मणायो
पपादयेत् । उत्तारयेत्स आत्मानं सप्त सप्त ता कुलानि च” ।
पृष्ठ २७००
देवलः “सुशीलां लक्षणवतीं युवतीं वत्ससंयुताम् ।
बहुदुग्धवतीं स्निग्धां धेनुं दद्याद्विचक्षणः” ।
वेदव्यासः “यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति ।
आत्मविक्रयतुल्यास्ताः शाश्वतीः वृद्धकौशिकः” । तथा
संग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति । यावतीः
स्पर्शयेद्गावः स तावत् फलमश्नुते” । तावदिति पूर्वोक्त
तावद्गोरोमसम्मितं संवत्सरं स्वर्गफलमित्यर्थः । “यो
वै द्यूते धनं जित्वा क्रीत्वा गाः संप्रयच्छति । स
दिव्यमयुतं शाक्रवर्षाणां फलमश्नुते” । “अन्तर्जाताः,
सुक्रयज्ञानलब्धाः पणक्रीता निर्जिताश्चौकजाश्च ।
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः
प्रशस्ताः” । अन्तर्जाता गर्भिण्य इति भारतपदप्रकाश-
कारः । सुक्रयलब्धाः यथामूल्यक्रयप्राप्ताः ज्ञानलब्धाः
प्रतिग्रहलब्धाः पणक्रीताः भृतिलब्धाः निर्जिता
युद्धादिना, ओकजाः गृहजाताः, कृच्छोत्सृष्टाः
पोषणाभ्यागता अतिव्याध्यादिकृच्छ्राक्रान्ताः सत्यः
स्वामिना यास्त्यक्ताः स्वयं च पोषणं कृत्वा लब्धाः ।
“रुष्टा दुष्टा दुर्बला व्याधिता च न दातव्या या च
मूल्यैरदत्तैः । क्लेशैर्विप्रं या फलैः संयुनक्ति तस्या-
वीर्याश्चाफलाश्चापि लोकाः” । मूल्यैरदत्तैः स्वीकृतेति
शेषः । तथा । “न कृशां पापवत्सां वा बन्ध्यां रोगा-
न्वितां तथा । न व्यङ्गामपरिश्रान्तां दद्याद्गां ब्रा-
ह्मणाय वै । योदद्यान्नोपयुक्तार्थां जीर्णान्धेनुञ्च निष्फ-
लाम् । तमः संप्रविशेद्दाता द्विजं क्लेशेन योजयन्” ।
ब्रह्मपुराणे “पीतोदकां जग्धतृणां दुग्धचोषां निरि-
न्द्रियाम् । उन्मत्तामङ्गहीनाञ्च मृतवत्सां महाशनाम् ।
केशबालपुरीषास्थिक्रव्यादां सन्धिनीं खलाम् । पुटधेनुं
थमलसून्नित्यं व्रणयितस्तनीम् । न दद्याब्ब्राह्मणेभ्यश्च
सदोषं वृषभन्तथा” । पोतोदकां जग्धतृणामिति,
वृद्धत्वोपलक्षणपरम् । दुग्धचोषां, स्वकीयस्तनपा-
यिनीं, महाशनाम् बहुभक्षां, पुटधेनुं बाल्यावस्थैव
या गर्भिणी । विश्वामित्रः “नैकशृङ्गाञ्च निःशृङ्गां
स्फुटिताक्षीं चन्तत्खुराम् । न दद्यात् त्रिस्तनीञ्चैव गां
शुभामेव दापयेत्” । महाभारते “अम्बरीषोगवां
दत्त्वा ब्राह्मणेभ्यो प्रतापवान् । अर्बुदानि दशैकञ्च
सराष्ट्रोऽभ्यपतद्दिवम् । दत्त्वा शतसहस्रन्तु गवां राजा
प्रसेनजित् । सवत्सानां महातेजा गतोलोकाननुत्तमान्” ।
तथा । “प्रासादा यत्र सौवर्ण्णाः शय्या रत्नोज्ज्वला-
स्तथा । वराश्चाप्सरसो यत्र तत्र गच्छन्ति गोप्रदाः ।
गोप्रदोनरकन्नैति पयः पीत्वाम्बुजञ्जलम् । विमाने-
नार्कवर्णेन दिवि राजन्! विराजते । तञ्चारुवेशाः
सुश्रोण्यः शतशोवरयोषितः । रमयन्ति विमानस्थं
दिव्याभरणभूषिताः । वेणूनां वल्लकीनाञ्च नूपुराणाञ्च
निःस्वनैः । हासैश्च हरिणाक्षीणां सुप्तः सन् प्रतिबु-
ध्यते । यावन्ति रोमाणि भवन्ति धेन्वास्तावन्ति
वर्षाणि महीयते स्वः । स्वर्गाच्च्युतश्चापि ततस्तु लोके
कुले समुत्पस्यति गोमतां सः” । विष्णुः “गोप्रदानेन
स्वर्माप्नोति दशधेनुप्रदीगोलोकं शतप्रदश्च ब्रह्मलोकम्” ।
जाबालः “होमार्थमग्निहोत्रस्य योगान्दद्यादया-
चिताम् । त्रिर्वित्तपूर्णा पृथिवी तेन दत्ता न संशयः” ।
याज्ञवल्क्यः “यथाकथञ्चिद्दत्त्वा गां धेनुं वाऽधेनुमेव
वा । अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते” ।
अङ्गिराः “गौरेकस्यैव दातव्या श्रोत्रियस्य विशेषतः ।
सा हि तारयते पूर्वान् सप्त सप्त च सप्त च” । नन्दिपु-
राणे “अपात्रे सा तु गौर्दत्ता दातारन्नरकं नयेत् ।
कुलैकविंशत्या युक्तं ग्रहीतारञ्च तारयेत् । विधिना च
यदा दत्ता पात्रे धेनुः सदक्षिणा । तदा तारयते
जन्तून् कुलानामयुतैः शतैः । पात्राण्याध्यात्मिका
मुख्याः सुशुद्धाश्चाग्निहोत्रिणः । देवताश्च तथा मुख्या
गोदानं ह्येतदुत्तमम्” । महाभारते “वृत्तिग्लाने
सीदति चातिमात्रम् कव्यार्थं च होमहेतोः प्रसुत्याम् ।
गुर्वर्थे वा बालसंवृद्धये वा धेनुन्दद्यदेष कालो विशिष्टः”
प्रसुत्यां सोमयागे । तथा “न बधार्थं प्रदातव्या न
कीनाशे न नास्तिके । गोजीवे न च दातव्या तथा
गौः पुरुषर्षभ!” । कीनाशो हलवाहकः । आत्रेयः
“सीदते बहुभृत्याय श्रोत्रियायाऽऽहितास्तये । अतिथि-
प्रियाय दान्ताय देया धेनुर्गुड़ान्विता । अकुलीनाय
मूर्खाय लुब्धाय पिशुनाय च । हव्यकव्यव्यपेताय गौर्नं
देया कथञ्चन” । अथ दानविधिः । विश्वामित्रः
“प्राङ्मुखीं गामवस्थाप्य सवत्सान्तां सुपूजिताम् ।
पुच्छदेशे तु दाता वै स्मातो बद्धशिखो भवेत् । उदङ्मु-
खस्तु विप्रः स्यात्पात्रलक्षणलक्षितः । आज्यपात्रं करे
कृत्वा कनकेन समन्वितम् । निक्षिप्य पुच्छं तस्मिंस्तु
घृतदिग्धं प्रगृह्य च । सतिलं विप्रपाणिन्तु प्रागग्रन्तु
निधापयेत् । सतिलं सकुशञ्चापि गृहीत्वा दानमा-
चरेत् । अनेनैव तु मन्त्रेण पात्रहस्ते जलं क्षि-
पृष्ठ २७०१
पेत् । यज्ञसाघनभूता या विश्वस्याघप्रणाशिनी । विश्व-
रूपः परो देवः प्रीयतामनया गवा । अनुब्रज्य तु तां
धेनुं ब्राह्मणेन समन्विताम् । गोमतीन्तु ततो विद्यां
जपेत प्रयतः शुचिः । उद्दिश्याथ वासुदेवं प्रीयतामिति
चानघ! । पात्रं मनसि सञ्चिन्त्य तोयमप्सु विनिक्षि-
पेत् । जलशायी व्रह्मपिता पद्मनाभः सनातनः । अनन्त-
भोगशयनः पीयतां परमः पिता” । गोमतीमाह यमः
“गावः सुरभयोनित्यं गावोगुग्गुलगन्धिकाः । गावः
प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् । अन्नमेव परं
गावो देवानां हविरुत्तमम् । पावनं सर्वभूतानां
रक्षन्ति च वहन्ति च । हविषा मन्त्रपूतेन तर्पयन्त्यम-
रान्दिवि । ऋषीणामग्निहोतॄणां गावो होमप्रति-
ष्ठिकाः । सर्वेपामेव भूतानां गावः शरणमुत्तमम् ।
गावः पवित्रं परमं गावो मङ्गलमुत्तमम् । गावः सर्वस्य
सोकस्य गाबोघन्याः शुभावहाः । नमोगोभ्यः श्रोन-
तोर्भ्यैः सौरभेयौभ्य एव च । नमो ब्रह्मसुताभ्यश्च
पवित्राभ्यो नमो नमः । ब्राह्मणाश्चैव गावश्च कुलमेकं
द्विधा कतस् । एकत्र मन्त्रास्तिष्ठन्ति हबिरेकत्र
तिष्ठति” । अन्यापि गोमती, महाभारतोक्ता तिलधेनु-
दाने दर्शिता । “ततश्चानयोर्विकल्पानुष्ठानमिति । सर्व-
गोदानसाधारणं मन्त्रमाह वशिष्ठः । “घृतक्षीरप्रदा
गावो घृतयोन्यो घृतोद्भवाः । घृतनद्यो घृतावर्त्तास्ता
मे सन्तु सदा गृहे । वृतं मे हृदवे नित्यं घृतं नाभ्यां
प्रतिष्ठितम् । घृतं मे सर्वतश्चैव वृतं मे मनसि स्थितम् ।
गावोममाग्रतोनित्थं गावः पृष्ठतः एव च । गावोमे
सर्वतश्चैव गवां मध्ये वसाम्यहम्” । “इत्याचस्य जपन्
सायं प्रातश्च पुरुषः सदा । यदह्ना कुरुते पापं तस्मात्
स परिमुच्यते” । दक्षिणा चात्र सुवर्णम् यदाह वशिष्ठः
“सुवर्णं दक्षिणामाहुर्गोप्रदाने महाफले । सुवर्णं
परमं ह्यायुर्दक्षिणार्थे न संशयः । गोप्रदानन्तारयते
सप्त पूर्वान् नरांस्तथा । सुवर्णं दक्षिणां दत्त्वा तावद्धि-
गुणमुच्यते । सुवर्णं परमं दानं सुवर्णं दक्षिणा परा ।
सुवर्णं पावनं प्राहुः परिमाणं परन्तथा” अत्र
सुवर्णशब्दस्य हिरण्यपर्य्यायत्वे यथाशक्त्यनुष्ठानम् ।
अपरे त्वाहुः सकृदुच्चरितसुवर्णशब्दावगतपरिमाणार्थपरित्या-
गानुपपत्तेः सुवर्णशब्दस्य प्राहुरित्यादिक्रियाकर्मभूत-
तया द्वितीयान्तत्वेन लिङ्गविशेषनिर्द्धारणाच्च परिमा-
णार्थतैव न्याय्येति । एवं च सत्यनियतानुष्ठानप्रसङ्ग-
भङ्गः तथा परिमाणपरन्तथेत्येतदपि समञ्जसं स्यात्” ।
वर्ण्णभेदेन गोदानफलादि तत्रोक्तं यथा
“कृष्णाङ्गान्ददते यस्तु पट्टच्छन्नां स्वलङ्कृताम् । घण्टा-
मालाकुलां कृत्वा पुष्पैश्चैवाप्यलङ्कृताम् । विधिवच्च
द्विजातिभ्यो यमलोकं न पश्यति । आयुरारोग्यमै-
श्वर्यं दाता कामांश्च मानसान् । श्वेताङ्गान्ददते यस्तु
दिव्यरत्नैरलङ्कृताम् । घण्टामालाकुलां कृत्वा पुष्पै-
श्चैवाप्यलङ्कृताम् । मुखे धूपः प्रदातव्यो घृतेनास्यञ्च
पूरयेत् । सुवर्णशृङ्गाभरणा तथा रौप्यखुरा शुभा । पट्ट-
च्छन्ना शुभा चैव दातव्या ध्यानयोगिने । यस्तु दद्याच्च
गां श्वेतां तस्य पुण्यफलं शृणु । जन्मप्रभृति यत् पापं
मातृकं पैतृकं च यत् । कुलोद्धतस्य धूर्त्तस्य तत्क्षणा
देव नश्यति । गान्ददानीह इत्येव वाचा पूयेत सर्वशः ।
पिता पितामहश्चैव तथैव प्रपितामहः । नरकस्थाः
प्रमुच्यन्ते सोमलोकं व्रजन्ति ते । गौरीं चैव प्रयच्छेत्तु
यस्तु गां वै नरः शुचिः । अहोरात्रोषितश्चैव कृतशौ-
चोनरः सदा । स्वर्णशृङ्गीं रौप्यखुरां सुक्तालाङ्गूल-
भूषिताम् । घण्टामालाकुलां चैव गन्धपुष्पैरलङ्कृताम् ।
कुतपञ्चास्तरेत् प्राज्ञो मुखे धूपं प्रदापयेत् । भक्ष्यभोज्या-
न्नपानेन ब्राह्मणान् भोजयेत् पुमान् । गान्ददानीह
इत्येव वाचा पूयेत सर्व्वशः । मातृकं पैतृकं चैव यच्चा-
न्यद्दुष्कृतं भवेत् । पापञ्च तस्य तत् सर्व्वं दहत्यग्नि-
रिवेन्धनम् । वर्षकोटिसहस्रन्तु पुमान् स दिवि मोदते ।
दासीदासैरलङ्कारैस्तूयते सर्व्वजन्तुभिः । अरोगश्चैव
जायेत तेजस्वी च भवेन्नरः । नीलबर्णाञ्च गान्दद्याद्दो-
ग्ध्रीं शीलगुणान्विताम् । स्वर्णशृङ्गीं रौप्यखुरां
मुक्तालाङ्गूलभूषिताम् । पट्टच्छन्नां शुभां सौम्यां घण्टा-
दामैरलङ्कृताम् । पञ्चरङ्गेण सूत्रेण गलवेष्टनशोभि-
ताम् । रुद्रस्य प्रमुखे देया विष्णोश्च ब्रह्मणश्च ह ।
गां ददानीह इत्येव वाचा पूयेत सर्व्वशः । पिता पिता-
महश्चैव तथैव प्रपितामहः । नरकस्थाः प्रमुच्यन्ते
नीलां गां ददते तु यः । वर्षकोटिसहस्राणि लोके
तिष्ठति वारुणे । दधिक्षीरवहा नद्यो वर्त्तन्ते सर्व्वतः
सदा । घृतशैलाः प्रपद्यन्ते नवनीतस्य पर्व्वताः । कृषि-
भागी बहुधनो दुर्भक्ष्यञ्च न पश्यति” ।
सवर्णवत्ससंहितायाः कपिलादिकायागोर्दानविधि-
स्तत्रैव महाभारते ।
“समानवत्सां कपिलां धेनुं दत्त्वा पयस्विनीम् ।
पृष्ठ २७०२
सुव्रतां वस्त्रसम्पन्नां ब्रह्मलोके महीयते” । समान-
वत्सां समानवर्णवत्साम् । “रोहिणीं तुल्यवत्सां च धेनुं
दद्यात्पयस्विनीम् । सुव्रतां वस्त्रसंवीतां इन्द्रलोके
महीयते । समानवत्सां शबलां धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतां सोमलोके महीयते” । शवलां
कर्वुराम् । “समानवत्सां कृष्णान्तु धेनुं दत्त्वा पयस्विनीम् ।
सुव्रतां वस्त्रसंवीतामग्निलोके महीयते । वातरेणुसव-
र्णान्तु सवत्सां कामदोहनाम् । प्रदाय वस्त्रसंवीतां
वायुलोके महीयते । समानवत्सां धूम्रान्तु घेनुं दत्त्वा
पयस्विनीम् । सुव्रतां वस्त्रसंयुक्तां यमलोके महीयते ।
अर्घ्यां हेमसवर्ण्णान्तु सवत्सां कामदोहनाम् । प्रदाय
वस्त्रसंवीतां वारुणं लोकमश्नुते । अर्घ्या, गौः ।
कामदोहनां अनायासदोहाम् । “हिरण्यवर्ण्णां पिङ्गाक्षीं
सवत्सां कामदोहनाम् । प्रदाय वस्त्रसंवीतां कौवेरं
लोकमाप्नुयात्” । पलालधूमवर्ण्णान्तु सवत्सां कामदोह-
नाम् । प्रदाय वस्त्रसंवीतां पितृलोके महीयते । सवत्सां
पीवरीन्दत्त्वा सितकण्ठीमलङ्कृताम् । वैश्वदेवमसम्बाधं
स्थानं श्रेष्ठं प्रपद्यते । सितकण्ठीं कृष्णगलाम् । “समान-
वत्सां गौरीन्तु धेनुन्दत्त्वा पयस्विनीम् । सुव्रतां वस्त्रसं-
वीतां वसूनां लोकमश्नुते । सुव्रता सुखदोह्या । “पाण्डु-
कम्बलवर्ण्णान्तु सवत्सां कामदोहनाम् । प्रदाय वस्त्रसंवीतां
साध्यानां लोकमश्नुते । वत्सोपपन्नान्नीलाङ्गीं सर्व्व-
रत्नसमन्विताम् । गन्धर्वाप्सरसां लोकान् दत्त्वा प्राप्नोति
मानबः । गोप्रदानरतोयाति भित्त्वा जलदसञ्चयान् ।
विमानेनार्कवर्णेन दिवि राजन्! विराजते । तञ्चारु-
येशाः सुश्रोण्यः सहस्रं वरयोषितः । रमयन्ति
नरश्रेष्ठं गोप्रदानरतन्नरम्” ।
देवतोद्देशेन गोदानविधिस्तत्रैव लिङ्गपुराणे
“देवदक्षिणदिग्भागे धेनुः कार्य्या उदङ्मुखी ।
प्राङ्मुखं वत्सलं कृत्वा ब्राह्मणं च उदङ्मु-
खम् । प्राङ्मुखो यजमानस्तु पूजयेद्ब्राह्मणं ततः ।
कोऽदादिति च मन्त्रेण गृह्णीयाद्बाह्मणः स्वयम्” ।
देवोऽत्र महेश्वरः । “एवंविधानतो दत्त्वा याति
दाता शिवालयम् । तत्र भुक्त्वाक्षयान् भोगानन्ते
ब्रह्मैति शाश्वतम्” । देवीपुराणे “नीलां वा यदि
वा श्वेतां पाटलां कपिलामपि । सदुग्धां बत्सलाञ्चैव
सुखदोहां सुगान्नृपः” । “आदाय विधिवद्देवीं पूजये-
च्छुभपङ्कजैः । धूपन्तु पञ्चनिर्य्यासन्तुरुष्कागुरुचन्दनम् ।
दत्त्वा तु मन्त्रपूर्व्वन्तु नैवेद्यमुपकल्पयेत् । पायसं
घृतसंयुक्तं क्षामयेच्च तथा तु ताम् । द्विजाय शिवभक्ताय
सवत्साङ्गां निवेदयेत् । सहेमवस्त्रकांस्याञ्च महापुण्यमवा-
प्नुयात् । यावत्तद्रोमसंख्यानं तावद्देव्याः पुरं वसेत् ।
इहैव गतपापोऽसौ जायते नृपसत्तम! ।” विष्णुधर्म्मे
“मान्धाता उवाच । व्रह्मणः प्रीणनार्थाय केशवस्य
शिवस्य च । यानि दानानि देयानि तान्याचक्ष्व द्विजो-
त्तम! । येन चैव विधानेन दानं पुंसः सुखावहम् ।
ऐहिकामुष्मिकाप्तिञ्च करोति न विहन्यते । वसिष्ठ
उवाच । गोदानमादौ वक्ष्यामि प्रत्यक्षक्रमयोगतः ।
“येन चैव विधानेन धेनुं नाधिकविस्तरम् । पुण्यन्दिनम-
थासाद्य स्नात्वाऽऽतर्प्य पितॄंस्तथा । कृतोपवासः सम्प्राश्य
पञ्चगव्यं नरेश्वर! । घृतक्षीराभिषेकञ्च कृत्वा विष्णोः
शिवस्य च । तमभ्यर्च्च्य यथान्यायं पुष्पादिभिरनुक्र-
मात् । उदङ्मुखीं प्राङ्मुखीं वा गॄष्टिं कृत्वा
पयस्विनीम्” । गृष्टिः सकृत्प्रसूतेत्यर्थः । “सपुत्रां वस्त्रसंवीतां
सितयज्ञोपवीतिनीम् । स्वर्णशृङ्गीं रौप्यखुरां सुवर्ण्णो-
परिसंस्थितान् । शक्तितोदक्षिणायुक्तां ब्राह्मणाय
निवेदयेत् । गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् । प्रदक्षिणं
ततः कृत्वा धेनुं द्विजवरञ्च तम् । इमां नः प्रतिग्रह्णीष्व
घेनुर्दत्ता मया तव । स मे पापापनोदाय गोविन्दः
प्रीयतामिति” । वह्निपुराणे तु अयमधिको मन्त्रः ।
“या धेनुः काश्यपस्यासीदत्रेर्वा गोतमस्य च । साभि-
कामफला देवी इह लोके परत्र चेति । एवमुच्चार्य्य
तं विप्रं गोविन्दं नृप । कल्पयेत् । अनुव्रजेत्तु गच्छन्तं
पदान्यष्टौ नराधिप! । अनेन विधिना धेनुं यो विप्राय
प्रयच्छति । सर्वकामसमृद्धात्मा विष्णुलोकं स गच्छति ।
सप्तावरान् सप्तपरानात्मानञ्चैव मानवः । सप्तजन्मकृतात्
पापान्मोचयत्यवनीपते! । पदेपदेऽश्वमेधस्य गोसवस्यं
च मानबः । फलमाप्नोति राजेन्द्र दक्षायैवञ्जगौ हरिः ।
सर्वकामदुघा सम्यक्सर्वकालेषु पार्थिव! । भवत्यथो
पापहरा यावदिन्द्राश्चतुर्द्दश । सर्वेषामेव पापानां कृता-
नामविजानता । प्रायश्चित्तमिदं प्रोक्तमनुतापोपवृंहि-
तम् । सर्वेषामेव देवानामेकजन्मानुगं फलम् ।
हाटकक्षितिगौरीणां सप्तजन्मानुगं फलम् । ब्रा-
ह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चान्यैश्च मानवैः । लोकाः
कामदुषाः प्राप्ता दत्त्वैतद्विधिना नृप! । गोभ्योऽ-
पृष्ठ २७०३
धिकं जगति नापरमस्ति किञ्चिद्दानम् पवित्रमिति
शास्त्रविदोवदन्ति । ताः सम्पदः सुरसदश्च समीह-
मानैर्देया मदैव विधिना द्विजपुङ्गवेभ्यः ।”
“अतः परन्तु गोदानं कीर्त्तयिष्यामि तेऽनघ! । गावो-
ऽधिकास्तपस्विभ्यो यस्मात् सर्वेभ्य एव च । तस्मान्महे-
श्वरो देवस्तपस्ताभिः सहास्थितः । ब्रह्मलोके
वसन्त्येताः सोमेन सह भारत! । यान्तां ब्रह्मर्षयः सिद्धाः
प्रार्थयन्ति परां गतिम् । पयसा हविषा दघ्ना शकृता
चाथ चर्मणा । अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्बालैश्च
भारत! । नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते ।
न वर्षविषयं वापि दुःखमासां भवत्युत । ब्राह्मणैः
सहिता यान्ति तस्मात् पारमकं पदम् । एकं गोब्रा-
ह्मणं तस्मात् प्रवदन्ति मनीषिणः । रन्तिदेवस्य
यज्ञे ताः पशुत्वेनोपकल्पिताः । अतश्चर्मण्वती राजन् ।
गोचर्मभ्यः प्रवर्त्तिता । पशुत्वाच्च विनिर्मुक्ताः प्रदाना-
योपकल्पिताः । ता इमा विप्रमुख्येभ्यो यो ददाति
महीपते! । निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि
पार्थिव! । गवां सहस्रदः प्रेत्य नरकं न प्रपद्यते ।
सर्वत्र विजयञ्चापि लभते मनुजाधिप! । अमृतं वै
गवां क्षीरमित्याह त्रिदशाधिपः । तस्माद्ददाति यो
धेनुममृतं स प्रयच्छति । अग्नीनामव्ययं ह्येतद्धौम्यं
वेदविदो विदुः । तस्माद्ददाति यो धेनुं स हौम्यं सम्प्र-
यच्छति । स्वर्गो वा मूर्त्तिमानेष, वृषभं यो गवां पतिम् ।
विप्रे गुणयुते दद्यात् स वै स्वर्गे महीयते । प्राणा
वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ! । तस्माद्ददाति यो
धेनुं प्राणानेष प्रयच्छति । गावः शरण्या भूतानामिति
वेदविदो विदुः । तस्माद्ददाति यो धेनुं शरणं स
प्रयच्छति । न बधार्थं प्रदातव्या न कीनाशे न नास्तिके ।
गोजीविने न दातव्या तथा गौर्भरतर्षभ! । ददत् स
तादृशानां वै नरो गां पापकर्मणाम् । अक्षयं नरकं
यातीत्येवमाहुर्मनीषिणः । न कृशां नापवत्सां वा
बन्ध्यां रोगान्वितां तथा । न व्यङ्गां न परिश्रान्तां
दद्याद्गां ब्राह्मणाय च । दशगोसहस्रदो हि शक्रेण
सह मोदते । अक्षयान् लभते लोकान्नरः शतसहस्रदः ॥
भा० आनु० ६६ अ०

गोदारण न० गां भूमिं दारयति वृ--णिच्--ल्यु । १

लाङ्गले अमरः । २ कुद्दाले हेमच० ।

गोदावरी गां स्वर्गं ददाति स्नानात् दा--वनिप् ङीप्

रश्चान्तादेशः । स्वगामख्याते नदीभेदे सा च नदी
दक्षिणस्तु दण्डकारण्यसमीपस्था यथाह “सतकृत्य
शरभङ्गं स दण्डकारण्यमाश्रितः । नदीं गोदावरीं रम्या-
माश्रित्य न्यवसत्तदा” भा० व० २७६ अ० । “ततो गोदा-
वरीं प्राप्य नित्यं सिद्धनिषेविताम् । गवामयमवाप्नोति
वासुकेर्लोकमुत्तमम् भा० व० ८५ अ० । “गङ्गे! च यमुने!
चैव गोदावरि! सरस्वति! । नर्म्मदे! सिन्धु! कावेरि!
जलेऽस्मिन् सन्निधिं कुरु” । जले तीर्थावाहनमन्त्रः ।

गोदुग्ध न० ६ त० । गोः क्षीरे । भावप्र० तद्गुणा उक्तास्तच्च

वाक्यं गोशब्दे दर्शितम् । वर्णभेदेन गोर्दुग्धस्य गुणास्त-
त्रैव “कृष्णाया गोर्भवं दुग्धं वातहारि गुणाधिकम् ।
पीताया हरते पित्तं तथा वातहरं भवेत् । श्लेष्मलं
गुरु शुक्लाया रक्तायाश्चापि वातहृत् । बालवत्सविव-
त्सानां गवां दुग्धं त्रिदोषकृत् । वष्कयिण्यास्त्रिदोषघ्नं
तर्पणं बलकृत् पयः । जाङ्गलानूपशैलेषु चरन्तीनां
यथोत्तरम् । पयो गुरुतरं स्नेहो यथाहारं प्रवर्त्तते ।
खल्यन्नभक्षणाज्जातं क्षीरं गुरु कफप्रदम् । तत्तु बल्यं
परं वृष्यं स्वस्थानां गुणदायकम् । पलालतृणका-
र्पासवीजजं रोगिणो हितम्” राजनि० तु “गवां प्रत्यूषसि-
क्षीरं गुरु विष्टम्भि दुर्जरम् । तस्मादभ्युदिते सूर्ये
यामं यामार्द्धमेव वा । समुत्तार्य पयोग्राह्यं
तत्पथ्यं दीपनं लघु । विवत्साबालवत्सानां पयो
दोषलमीरितम् । शस्तं वत्सैकवर्णायाघवलीकृष्णायोरपि”
इक्ष्वादा मासपर्णादा ऊर्द्धशृङ्गो च या भवेत् । तासां
गवां हितं क्षीरं शृतं वाऽशृतमेव वा । गवां सितानां
वातघ्नं कृष्णानां पित्तनाशनम् । श्लेष्मघ्नं रक्तवर्णानां
त्रीन् हन्ति कपिलापयः” राजनि० ।

गोदुग्धदा स्त्री गोर्दुग्धं ददाति सम्पादयति दा--क ।

चणिकातृणे राजनि० । तस्याभोजनाद्गोर्दुग्धवृद्धे-
स्तस्यास्तथात्वम् ।

गोदुह् त्रि० गां दोग्धि दुह--क्विप् ६ त० । १ गोदोहके (दोयाल)

“चिरं निदध्यौ दुहतः स गोदुहः” माघः । १ गोपे च
“चेतोऽस्माकं गुणवदगुणं गोदुहां देहमेतत्” उद्धवदू०
दुह--क । गोदुहोऽप्यत्र पु० ।

गोदोह पु० भावे घञ् । ६ त० । “१ गोर्दोहने ।” “रुद्रायतने

भूमौ गोदोहात् कोटिहोमाच्च” वृ० स० ३६ अ० । कर्मणि
घञ् । “अकर्मकधातुभिर्योगे देशः कालो भावो
गन्तव्योऽध्वा च कर्मसंज्ञ इति वाच्यम्” वार्त्ति० अस्यार्थः
पृष्ठ २७०४
मासमास्ते गोदोहमास्ते इत्यादौ सर्वत्राकर्मकधातूनां
व्याप्तिगर्भितस्वार्थपरतायां तात्पर्यग्राहकमिदं वार्त्तिकं
यथाह हरिः
“कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः । सर्वैरकर्भकै-
र्योगे कर्मत्वमुपजायते । अतस्तैः कर्मभिर्युक्तो धातुर्द्रव्यै-
रकर्मकः । लस्य कर्मणि भावे च निमित्तत्वाय कल्पते”
इति । अस्यायं भावः मासमास्ते गोदोहमास्ते
इत्यादौ धातोरेव सम्बन्धपूर्वकासनादौ आसनादिकरणक
सम्बन्धे वा निरूढलक्षणाया ज्ञापकमेतद्वार्त्तिकम् ।
तत्र धातोराद्यार्थलक्षणायां प्रधानक्रियाया अकर्मक-
त्वात् दुहादिषु पाठाभावाच्च गौणकर्मणि लकारास-
म्भवेनं भाव एव लकारस्तेन मासमास्यत इत्येव प्रयोगः ।
द्वितीयार्थलक्षणायान्तु प्रधानक्रियायाः सकर्मकतया
कालादेश्च तत्कर्मत्वेन मुख्यकर्मण्येव लकारस्तेन मास
आस्यते गोदोह आस्यते इति प्रयोग इति विवेकः । अत्र
लस्येत्यभिधानात् कृद्योगे न तेभ्यः षष्ठीति द्योतितमिति
मगोरमायां स्पष्टम् । २ गोदुग्धे च “ह्यो गोदोहोद्भवं
वृतम्” अमरः । आधारे घञ् । ३ गोदहनकाले च
तत्कालश्च मुहूर्त्ताष्टमभागात्मकः यथाह आ० त० विष्णु
पु० “ततो गोदोहमात्रं वै कालं तिष्ठेत् गृहाङ्गने ।
अतिथिग्रहयणार्थाय तदूर्द्ध्वं वा यथेच्छया” गोदोहन-
कालश्च मुहूर्त्ताष्टमभागात्मकः “आचम्य च ततः कुर्यात्
प्राज्ञो द्वारावलोकनम् । सुहूर्त्तस्याष्टमं भागमुद्वीक्ष्योह्य-
तिथिर्भवेत्” मार्क० पु० एक वाक्यत्वात्” आ० त० रघु० ।

गोदोहन न० भावे ल्युट् ६ त० । १ गोर्दोहने । आधारे ल्युट् ।

२ गोदोहनकाले । “न लक्ष्यतेऽह्यवस्थानमपि गोदोहनं
क्वचित्” भाग०१ । १९ । ३७ । आधारे ल्युट् ङीप् । गोदो-
हनी गोदोहनाधारपात्रे गार्य्याम् स्त्री जटाधरः ।

गोद्रव पु० द्रवति द्रु--अच् ५ त० । गोमूत्रे राजनि० ।

गोधन न० गवां धनं समूहः । १ गोसमूहे गौरेव धनमस्य ।

२ गोरूपधनवति त्रि० । गौरेव धनम् । ३ गोरूपे धने न० ।
“अद्यैव किं चिरेण स्म व्रजामः सह गोधनैः” हरिवं०
६६ अ० “गोधनेषु प्रतोलीषु वरद्वारमुखेषु च । अन्नसं-
स्कारदोषेषु पण्डितास्तत्र शोभनाः” भा० वि० ४७ अ०
धन--रवे भावे अच् गोर्वज्रस्य रव इव रवोऽस्य ।
४ स्थूलाग्रवाणे पु० शब्दक० हरिव० मूलं दृश्यम् ।

गोधर पु० गां पृथिवीं विष्टम्भकतया धरति धर--अच् ।

महीधरे पर्वते शब्दार्थचि०

गोधर्म्म पु० गोरिव धर्मः । मैथुनेऽविचाररूपे गोसदृशे धर्मे

“गोधर्मं सौरभेयाच्च सोऽधीत्य निखिलं मुनिः (वृह-
स्पतिः) भा० आ० १०४ अ० उतथ्यशब्दे १०७५ पृ० दृश्यम् ।

गोधा कौटिल्ये कण्ड्वादेराकृतिगणः नामधातुः पर० अक०

सेट् । गोधायति अगोधायीत् ।

गोधा स्त्री गुध्यते वेष्ट्यते बाहुरनया करणे घञ् । घनुर्गुणा

घातवारणाय प्रकोष्ठे १ बध्यमाने चर्मणि । “बद्ध-
गोधाङ्गुलित्रवान्” भा० व० १७ अ० “गोधाश्लिष्टभुजा
शाखैरभूद्भोमा रणाटवी” माघः । “ततश्चटचटाशब्दो
गोधाघातादभूत्तयोः” भा० द्रो० १३९ अ० । कर्त्तरि अच् ।
(गोसाप) इति ख्याते २ सर्पभेदे स्त्री अमरः “श्वाविधं
शल्लकं गोधां खड्गकूर्मशशांस्तथा । भक्ष्यान् पञ्चनखे-
ष्वेताननुष्ट्रांश्चैकतोदतः” मनुना तन्मांसं पञ्चनखेषु भक्ष्य-
तयाऽभिहितम् । तन्मांसपाकगुणादि भावप्र० उक्तं यथा
“गोधाञ्चोष्णजलैर्भूयः क्षालितां खण्डशः कृताम् ।
स्विन्नाञ्च तक्रतोयाभ्यां क्षालितां सूक्ष्मखण्डिताम् ।
तलयेद् वेसवाराम्लैः प्रलेहो वा विधानतः । विपाके मघुरा
गोधा वातपित्तप्रणाशिनी । कषाया कटुका प्रोक्ता
कफघ्नी बलवर्द्धिनी ।” सा तु स्थलजजलभेदाद्द्विधा ।
स्वार्थे क । अत्रैवार्थे । गोधायाः अपत्यम् वा ढ्रक् ।
गौधेर पक्षे शुभ्रा० ढक् । गौधेय उदीचा० मते आरक् ।
गौधार तदपत्ये पुंस्त्री ढकि स्त्रीत्वे ङीप् इति भेदः ।

गोधापदी स्त्री गोधाया इव पादी मूलमस्याः स्वाङ्गत्वात्

जातित्वाद्वा कुम्भपद्या० ङीषि पद्भावः । (गोयालिया)
लताभेदे । स्वार्थे क । अत्रैवार्थे रत्नमाला ।

गोधायम् त्रि० गां दधाति धा--बा० असुण् ६ त० । गोधारके

“गोधायसं वि धनसैरदर्दः” ऋ० १०६९ । ७ ।

गोधावीणाका स्त्री गोधायाश्चर्मणा नद्धा वीणा ह्रस्वा

सा कन् । ह्रस्वगोधाचर्मनद्धवीणायाम् । “गोधावीणाका
काण्डवीणाश्च पत्न्योवादयन्त्युपगायन्ति” कात्या० श्रौ०
१३ । ३ । १७

गोधास्कन्ध पु० गोधेव स्कन्धोऽस्य । विट्खदिरे । राजनि०

गोधि पु० गौर्नेत्रं धीयते यस्मिन् आधारे इन् । १ ललाटे

अमरः गुध--इन् । २ गोधायां सर्पभेदे शब्दचि० गोधि-
स्वार्थे क, गोधेव क अत इत्त्वं वा । गोधिका (गोसाप)
गोधायाम् अमरः ।

गोधिकापुत्र पु०६ त० । १ गोधाशावके सर्पात् गोधायामुत्पन्ने

(सोना गोसाप) इति ख्याते २ सर्पेभेदे पुंस्त्री शब्दार्थचि० ।
पृष्ठ २७०५

गोधिनी स्त्री गुध--णिनि । वृहतीभेदे राजनि० ।

गोधुम पु० गुध--बा० उम । गोधूमे शब्दच० ।

गोधूम त्रि० गुध--ऊम । १ नागरङ्गे २ व्रीहिभेदे च (गोहुम)

च मेदिनिः तद्भेदादि भावप्र० उक्तं यथा “गोधूमः
सुमनोऽपि स्यात् त्रिविधः स च कीर्त्तितः । महागोधूम
इत्याख्यः पश्चाद्देशात् समागतः । मधूली तु ततः
किञ्चिदल्पा सा मध्यदेशजा । निःशूको दीर्घगोधूमः
क्वचिन्नन्दोमुखाभिधः । गोधूमो मधुरः शीतो वातपित्त-
हरो गुरुः । कफशुक्रप्रदो बल्यः स्निग्धः सन्धानकृत्-
सरः । जीवनो वृंहणो वर्ण्योरुच्यो वीर्यस्थिरत्वकृत् ।
कफप्रदः नवीनो न च पुराणः पुराणयवगोघूम
क्षौद्रजाङ्गलशूल्यभुगिति” वाग्भटेन वसन्ते गृहीत-
त्वात् । मधूली शीतला स्निग्धा पित्तघ्नी मधुरा लघुः ।
शुक्रला वृंहणी पथ्या तद्वन्नन्दीमुखा स्मृता” तस्य
कृतान्नशब्दे २१८१ पृ० पाकविशेषो दृश्यः ।

गोधूमक पुंस्त्री गोधूम इव कं शिरोऽस्य । राजिमत् सर्प-

भेदे अहिशब्दे ५८१ पृ० सुश्रुतवाक्यं दृश्यम् ।

गोधूमचूर्ण ६ त० । (मयदा) इति ख्याते पदार्थे “शुष्कगो-

धूमचूर्णेन किञ्चित् पुष्टां तु रोटिकाम्” भाव० प्र० । कृता-
न्नशब्दे दृश्यम् ।

गोधूमसम्भव न० सम्भवत्यस्मात् सम् + भू--अपादाने अप्

गोधूमः सम्भवोऽस्य! सौवीरे काञ्जिकभेदे राजनि० ।

गोधूमसार पु० ६ त० । (गोहमेरपालो) इति ख्याते गोधूमस्य

सारांशे तत्करणप्रकारः पाकराजेश्वरे “निस्तुषान्
गोधूमानुदूखले कण्डयित्वा सायङ्काले मृत्तिकादिपात्रे
जले मग्नं कृत्वा परदिने प्रभातसमये उपरिस्थं जलं
क्रमेण दूरीकृत्याऽधःस्थं सारमातपे शुष्कं कृत्वा
पात्रान्तरे स्थापयेदिति” ।

गोधूमी स्त्री गां धूमयति धूम + णिच्--अण् गौरा० ङीष् । गोलोमिकायां राजनि० ।

गोधूलि स्त्री गवां खुरोत्थितो धूलिरत्र काले । गवां प्रचार-

देशात् गृहागमनकाले गोखुरोद्धृतधूलियुक्ते समयभेदे
सच कालो यथा “सन्ध्यातपारुणितपश्चिमदिग्विभागे
व्योम्नि स्फुरद्विरलतारकसन्निवेशे । रुद्धे गवां खुरपुटो-
द्गलितैरजोभिर्गोधूलिरेव कथितो भृगुजेन योगः” पी०
धा० धृतवाक्योक्तः उपयमशब्दे १२७५ । ७६ पृ० अस्य
विवृतिर्दृश्या “तिथ्यादिषु निषिद्धेषु चन्द्रताराविलोमतः ।
ऊषां गाधूलियोगं वा स्वीकृत्य गमनं चरेत् । प्राच्या-
मूषां प्रतीच्याञ्च गोधूलिं वर्जयेन्नृपुः । दक्षिणे चाभि-
जिच्चैवमुत्तरे च निशां तथा” । ज्यो० त० वराहः
गोरजमु शब्दोऽप्यत्र उपयमशब्दे २५७५ । ७६ पृ० उदा०

गोधेनु स्त्री गोर्धेनुः जात्या समासे परनिपातः । दुग्धव्रत्यां

सवत्सायां गवि

गोधेर त्रि० गुध--एरच् । गोप्तरि ऊणादिकोषः

गोध्र पु० गां भूमि धरति धृ--मूलवि० क । महीधरे पर्वते

गोनन्दी स्त्री गवि जले नन्दति नन्द--अच् गौरा० ङीष् ।

१ सारसपक्षिणि हारा० स्कन्दस्य २ गणभेदे पु० “प्रियक-
श्चैव नन्दश्च गोनन्दश्च प्रतापवान्” भा० शल्य०४६ अ०

गोनर्द्द पु० गवि जले नर्द्दति नर्द्द--अच् । १ सारसखगे मेदि०

गवा जलेन नर्दति । २ कैवर्त्तीमुस्तके न० मेदि० । गवा
वाचा नर्दते अच् । ३ देशभेदे पु० स च कूर्मविभागे
वृ० स० १४ अ० दक्षिणस्यामुक्तः “अथ दक्षिणेन लङ्का”
इत्युपक्रमे “दशपुरगोनर्दकेरलाः” । सोऽभिजनोऽस्य
अण् । गौनर्द तद्देशवासिनि बहुषु अणो लुक् ।
तद्देशवासिषु ब० व० । गोनर्दनीचशूद्रान् वैदेहां-
श्चानयः स्पृशति” वृ० स० ९ अ० ।
“तद्राजेऽपि अण् । गौनर्द तन्नृपे “काश्मीरराजो
गोनर्दोदरदाधिपतिर्नृपः” काश्मीर राजो गोनर्दः
करूषाधिपतिस्तथा” हरि० ९१ अ० बहुषु तस्य लुप् ।
गवि वृषे नर्दते नर्द--अच् । ४ महादेवे पु० “गोनर्दो
गोप्रभावश्च गोवृषेश्वरवाहनः” भा० शा० २८६ अ० । दक्षकृत
शिवस्तुतौ । गोनर्दे देशे भवः “एङ् प्राचां देशे” पा०
वृद्धसंज्ञत्वात् छः । गोनर्दीय तद्देशभवे त्रि० प्राचोऽन्यमते
अण् । गौनर्द तत्रार्थे त्रि० ।

गोनर्द्दीय पु० गोनर्द्दे देशे भवः एङादित्वेन वृद्धसंज्ञत्वात् छ ।

पतञ्जलिमुनौ हेमच० । तस्य गोनर्ददेशोद्भवकथा वृहत्
कथायां दृश्या सरलोपोद्घातेऽस्माभि दिङ्मात्रमुक्ता ।

गोन(ना)स पु० स्त्री० गोरिव नासा अस्य वा नसादेशः । मण्डलि

सर्पभेदे (गोखुरासाप) अमरः स्त्रियां जातित्वात् ङीष् ।
दीर्घमध्य इति हेमचन्द्रः । अहिशब्दे ५१८ पृ० सुश्रुतवाक्यं
दृश्यम् । गोनसस्तुदाकरोऽस्त्यास्या अच् गौरा० ङीष् ।
२ ओषधिभेदे स्त्री । सुश्रुते तल्लक्षणादि तच्च १५६३ पृ०
उक्तम् । दीर्घमध्यश्च ३ वैक्रान्तमणौ हेमच० ।

गोनाथ पु० ६ त० । १ वृषे राजनि० । २ भूमिनाथे ३ गोस्वामिनि च ।

गोनाय पु० गां नयति नी--अण् । १ गोपे शब्दार्थचि० ।

“तद्यथा गोनायोऽश्वनायः पुरुषनायः” इति छा० उप० ।
“गोनायः गोपालकः” भा० ।
पृष्ठ २७०६

गोनिष्यन्द पु० गोर्निष्यन्दते निस्यन्द--अच् ५ त० । गोसूत्रे

राजनि० । तस्य गोतोनिष्यन्दमानत्वात्तथात्वम् ।

गोप पु० स्त्री गां भूमिं वा पाति रक्षति पा--क । (गोयाणा)

१ जातिभेदे स्त्रियां ङीष् । “व्याधांच्छाकुनिकान्” गोपान्
मनुः । “मणिवन्द्यां तन्तुवायात् गोपजातेश्च सम्भवः”
पराशरः “सच्छूद्रौ गोपनापितौ” इत्युक्तेः तस्य
सच्छूद्रत्वम् २ ग्रामाधिकृते ३ भूरक्षके, च पु० ।
४ गोष्ठाध्यक्षे च मेदि० । गोरक्षकमात्रे च ।
“गोपः क्षीरभृतोयस्तु स दुह्याद्दशतो वराम् । गोस्वा-
प्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः” मनुः । “नन्द-
गोपगृहे जाता यशोदा गर्भसम्भवा” देवी भा० । “गोप-
वधूटी दुकूलचौराय” भाषां० “तद्वनं तापसानित्यं
गोपाश्च वनचारिणः” भा० व० १२ अ० ।
गोपयति गुप--अच् । ६ रक्षके । “सर्वे देवाभुवनस्यास्य
गोपाः” भा० आनु० १० अ० । कस्मिंचिकर्म्मण्युपपदे
गुप--अण् । भूगोपादि तत्तद्वस्तु पालके । “दिव्यास्त्र-
विन्महातेजाः कर्णो वैकर्तनो वृषः । सेनागोपश्च
स कथम्” भा० कर्ण० ८ अ० । “पृष्ठगोपे वृकोदरे”
भा० आ० २० । अ० । स्त्रियां पणन्तत्वात् ईप् । मुग्धबो०
गौरा० ङीष् पा० । “शालि गोप्योजगुर्गुणान्” रघुः ।
७ उपकारके त्रि० शब्दर० । गां जलं पिबौ पा--क ।
८ वोले शब्दार्थचि० ।

गोपक त्रि० गोप वा स्वार्थे क गुप--ण्वुल् । १ गोपे २ बहुग्रामा-

ध्यक्षे । ३ रक्षके टाप् स्त्रियां ङीष् । ततः शिवा० अपत्ये
अण् । गौपिक गोपिकापत्ये पु० स्त्री ।

गोपकन्या स्त्री गोपस्य कन्येव प्रियतया । १ शारि-

वोषधौ राजनि० । ६ त० । गोपजातिकन्यायां च
“वल्लवीर्गोपकन्याश्च रार्त्रा संकाल्य कालवित्” नाम
दामोदरेत्येवं गोपकन्यास्तुदाऽब्रुवन्” हरिव०७७ अ०

गोपकर्कटिका स्त्री गोपप्रिया कर्कटिका शाक० त० ।

(राखालशसा) ख्याते वृक्षे राजनि० ।

गोपघोण्टा स्त्री० गोपप्रिया घोण्टा शा० त० । “वदरी-

सदृशाकारो वृक्षः सूक्ष्मफलो भवेत् । अटव्यामेव सा
घोण्टा गोपघोण्टेति कीर्त्तिता” शब्दर० उक्ते १ वृक्षे ।
२ हस्तिकोलौ, रत्नमा० । ३ विकङ्कतवृक्षे (वैँची) राजनि० ।

गोपति पु० ६ त० । गवां पशूनां पत्यौ १ शिवे, २ वृषे, (सांड)

“रक्षसां वशमापन्नं सिंहानामिव गोपतिम्” रामा० ।
भूमिपतौ ३ नृपे ४ श्रीकृष्णे, किरणपतौ ५ सूर्य्ये, ६ स्वर्ग-
पतौ शक्रे, मेदिनिः । ७ ऋषभनामौषधौ राजनि० ।
“गोपालिर्गोपतिर्ग्रामो गोचर्म्मवसनो हरः” भा० आनु०
१७ अ० शिवसहनासोक्तौ । “उत्तरो गोपतिर्गोप्ता” विष्णुस०
“गवां पालनात् गोपवेशधारणात् गौर्महीतस्याः
पालनाद्वा गोपतिः” भा० “सिंहेन निहतं गोष्ठे गौः सवत्सेय
गोपतिम्” कि० ४ । २२ । गोस्वामिनि च हारा० । “ध्रुवा
अस्मिन् गोपतौ स्यात् वह्वीः” यजु० ९ । ११ “गोपतौ गवां
गत्यावस्मिन् यजमाने” वेददी० । सूर्य्यस्य किरणपतित्वात्
तथात्वम् “मार्त्तण्डो गोपतिः श्रीमान् कृतज्ञश्च प्रता-
पषान्” । आदित्यहृदयम् “तपसाराध्य वरदं देवं
गोपतिमीश्वरम्” भा० आ० १७३ अ० सूर्य्यकन्यातपती
विवाहोक्तौ” ९ असुरभेदे “गोपतिस्तालकेतुश्च निहतौ
शार्ङ्गधन्वना” हरिवं० १६१ अ० ।
तस्य भावः त्व--गोपतित्व पत्यन्तत्वात् यत् । गोपत्य
गोपतिभावे न० “येनांशेन हृता गावः कश्यपेन
महात्मना । स तेनांशेन जगतीं गत्वा गोपत्यमेष्यति”
हरिवं० ५६ अ० ।

गोपथ पु० अथर्ववेदीयब्राह्मणभेदे ।

गोप(ष्प)पद न० गोः पदं पदस्थानयोग्यस्थानम् ।

“गोष्पदं सेवितासेवितप्रमाणेषु पा० उक्तार्थे सुट्षत्वे ।
गवामसेविते वनादौ । १ गोसेविते गोर्गतिगोचरे स्थाने
२ गोपदमात्रप्रमाणे क्षेत्रे न० तद्भिन्नार्थे न सुट् ।
४ गोश्चरणे ।

गोपदल पु० गोपदं गोचरणन्थासयोग्यं स्थानं तदाकारं

वा लाति ला--क । गुवाकवृक्षे तस्य गोचरणन्थासयोग्य-
स्थानस्थत्वात् तदाकार मूसकाण्डत्वाद्वा तथात्वम् ।

गोपन न० गुप--गोपने रक्षणे भावे ल्युट् । १ अपह्नवे कृतस्य

कर्मणोऽप्रकाशने २ रक्षणे च “सैन्येन महता युक्तं
भरद्वाजस्य गोपने” भा० भी० ५३ अ० । “क्षान्त्या मह्या-
धारणे गोपने च” भा० आनु० २६ अ० । चु०
गुपदीप्तौ भावे ल्युट् । ३ दीप्तौ । गुप्य--ईर्ष्याकुलत्वयोः मावे
ल्युट् । ४ ईर्ष्यायाम् ६ आकुलत्वे च । चु० गुप दीप्तौ गावे
मुच् गोपना ६ दीप्तौ स्त्री ।

गोपनीय त्रि० गुप--गोपने रक्षणे वा कर्मणि अनीयर् ।

१ अप्रकाश्ये २ रक्षणीये च । “गोपनीयमिदं दुःखमिति मे
निश्चिता मतिः” भा० शान्ति० १४६ अ० । “गोपनीयं
प्रयत्नेन न वाच्यं यस्य कस्यचित्” तन्त्रसा०
पृष्ठ २७०७

गोपब(व)धू स्त्री ६ त० गोपस्य बधूरिव प्रियत्वात् ।

१ शारिवोषधौ भावप्र० २ गोपजातिस्त्रियां “गोपबधूटी
दुकूलचौराय” भाषा० । “प्रकृतिमगमन् किल यस्य गोपवध्वः”
भाग०१ । ९ । ३८ । अत्र मुकुटः बधूशब्दस्य वर्ग्यबादित्वमाह
स्म वध्नात्यविद्ययेति बन्धधातोरूप्रत्ययेन निष्पन्नत्वादिति ।
वस्तुतः ऊप्रत्ययस्याकित्त्वान्नलोपाभावप्रसङ्गः । किन्तु
“वहोधश्च” उणा० ऊप्रत्यये धश्चान्तादेशेन सिद्धस्तेन
अन्त्यस्थवादित्वमेव ज्यायः ।

गोपभद्र न० गोपे भद्रमिव । १ शालूके शब्दर० गोपे भद्रा ।

२ काश्मीरीवृक्षे स्त्री राजनि० । संज्ञायां कन् । ३ गम्भारीवृक्षे
रत्नमाला शालूकादीनां गोपप्रियत्वात् तथात्वम् ।

गोपरस पु० गां जलं पिबति पा--क गोपः रसोऽस्य ।

वौले शब्दरत्ना० ।

गोपराष्ट्र पु० ब० व० गोपप्रधानाः राष्ट्राः शा० त० । भारतवर्षस्थे

आभीरप्रधाने जनपदभेदे । “अत ऊर्द्ध्वं जनपदान्निबोध
गदतो मम” इत्युपक्रमे “अश्मकाः पांशुराष्ट्राश्च गोपराष्ट्राः
करीतयः” भा० आ० ९ अ० ।

गोपरिचर्य्या स्त्री ६ त० । गोसेवायां तत् प्रकारो हेमा० दा०

उक्तस्तत्रादौ ब्रह्मपुराणे
“वन्दनीयाश्च पूज्याश्च गावः सेव्यास्तु नित्यशः ।
तथा । “गवाङ्गोष्ठे स्थितानान्तु यः करोति प्रदक्षिणम् ।
प्रदक्षिणीकृतं तेन जगत् सदसदात्मकम् ।” विष्णुः “गावः
पवित्रा माङ्गल्या गवि लोकाः प्रतिष्ठिताः । गावो वितन्वते
यज्ञान् गावः सर्वाघसूदनाः । गोमूत्रं गोमयं सर्पिः
क्षीरं दधि च रोचना । षड़ङ्गमेतत्परमं माङ्गल्यं
सर्वदा गवाम् । शृङ्गोदकं गवां पुण्यं सर्वाघविनि-
सूदनम् । गवां कण्डूयनञ्चैव सर्वकल्मषनाशनम् ।
गवां ग्रासप्रदानेन स्वर्गलोके महीयते ।” पद्मपराणे
“सदा गावः प्रणम्यास्तु मन्त्रेणानेन पार्थिव! । नमो
गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च । नमो ब्रह्म-
सुताभ्यश्च भूयो भूयो नमो नमः । मन्त्रस्य स्मरणादेव
गोदानफलमाप्नुयात्” । आदित्यपुराणे “लवणं च
यथाशक्त्या गवां येंवै ददत्युत । तेषां पुण्यकृतां
लोका, गवां लोकं व्रजन्ति ते । योऽग्रं भक्त्या किञ्चि-
दप्राश्य दद्याद्गोभ्यो नित्यं गोव्रती सत्यवादो । शान्तो
बुद्धो गोसहस्रस्य पुण्यं संवत्सरेणाप्नुयाद्धर्मशीलः” ।
देवीपुराणे “गोपालको गवां गोष्ठे यस्तु धूमं न
कारयेत् । मक्षिकालीननरके मक्षिकाभिः स भक्ष्यते ।
मृतवतमान्त गां यस्तु दमित्वा पिबते नरः । वाहि-
ताऽस्याश्चिरं तिष्ठेत् क्षुधार्त्तो वै नराधमः” । महाभारते
“गोकुलस्य तृषार्त्तस्य जलान्ते वसुधाधिप! । उत्पाद-
यति यो विघ्नं तमाहुर्व्रह्मघातकम् । कृत्वा गवार्थे
शरणं शीत--वात--क्षमं महत् । आसप्तमन्तारयति कुलं
भरतसत्तम! । ब्रह्मपुराणे “सदोषा गौर्गृहे जाता
परिपाल्या सदा स्वयम् । दुःशीलोऽपि द्विजः पूज्यो
न तु शूद्रः सुसंयतः । अनाथानां गवां यत्नात्कार्यस्तु
शिशिरे मठः । पुण्यार्थं यत्र दीयन्ते तृण-तोये-न्धनानि
च” । हारीतः “द्वौ मासौ पाययेद्वत्सं तृतीये
द्विस्तनं दुहेत् । चतुर्थे त्रिस्तनञ्चैव यथान्यायं यथा
बलम्” । ब्रह्मपुराणे “आषाद्यामाश्वयुज्याञ्च पौष्यां
माध्यां च सर्वदा । न गृह्लीयाद्गवां क्षीरं सर्वं
वत्साय निक्षिपेत् । न षण्डान्वाहयेच्चैव न गां भारेण
पीडयेत् । युगादिषु युगान्तेषु षड़शीतिमुखेषु च ।
दक्षिणोत्तरगे सूर्ये तथा विषुवतोर्द्वयोः । संक्रान्तिषु
च सर्वासु ग्रहणे चन्द्रसूर्ययोः । पञ्चदश्याञ्चतुर्दश्यां
द्वादश्यामष्टमीषु च । उपचारो गवां कार्यो मासि
मासि यथाक्रमम् । लवणस्य तु चत्वारि पलान्यष्टौ
घृतस्य च । परकीयस्य दुग्धस्य तथा देयानि षोडश ।
द्वात्रिंशत् शीतलस्यापि जलस्य च पलानि च । आदौ
विचार्य पयसः परिमाणं बलं रुचि । आकस्मिकन्तु
दातव्यं पुण्यार्थन्तु गवाह्निकम् । प्रभाते लवणं यत्र
दीयते च ततो जलम् । ततस्तृणानि भोज्यञ्च
पोषणं मांसवर्जितम् । निशि दीपः सतन्त्रीको दिव्या
पौराणिकी कथा । एवं कृते महीं पूर्णां रत्नैर्दत्त्वा
भवेत् फलम् । गोप्रदानात्तु यत्पुण्यं गवां संरक्षणा-
द्भवेत् । मनुष्यैस्तृणतोयाद्यैर्गावः पाल्याः प्रयत्नतः ।
देयाः पूज्याश्च पोष्याश्च प्रतिपाल्याश्च सर्वदा” । तथा
“तृणोदकाद्येषु वनेषु मत्ताः क्रीडन्तु गावः सवृषाः
सवत्साः । क्षीरं प्रमुञ्चन्तु सुखं स्वपन्तु शीतातपव्याधि-
भयैर्विमुक्ताः । इमं मन्त्रं स शुद्धात्मा जपेन्नित्यं
समाहितः । गच्छन् तिष्ठन् जपन् जिघ्रन् भुञ्जन्
क्रीडन् समुत्सृजन् । महाभयेषु सर्वेषु समेषु विषमेषु
च । प्रयाणकाले च तथा श्रोतव्यमभयप्रदम्” । तथा
“घासग्रासादिकं देयं निशि दीपः सुमास्वरः ।
इतिहासपुराणानां व्याख्यानं सोपवीणनम् । अन्तस्तुष्ठैर्यया-
शक्त्या परिचर्या यथाक्रमम् । ताडनाक्रोशखेदाश्च
स्वप्नेऽपि न कदाचन । तासां मूत्रपुरीषे तु नोद्वेगः
पृष्ठ २७०८
क्रियते क्वचित् । शोधनीयश्च गोवाटः शुष्कक्षारा-
दिकैः सदा । ग्रीष्मे वृक्षाकुलं वेश्म शीते तप्तं विकर्दमम् ।
बर्षासु चाथ शिशिरे सुखोष्णं वातवर्जितम् । उच्छिष्टं
मूत्रविट्श्लेष्ममलं जह्यान्न तत्र च । रजस्वला न
प्रवेश्या नान्त्यजातिर्न पुंश्चली । न लङ्घयेद्वत्सतरीं न
क्रीडेद्गोष्ठसन्निधौ । न गन्तव्यं गवां मध्ये सोपानत्-
कः सपादुकैः । हस्त्यश्वरथयानैश्च सवितानैः कदाचन ।
दक्षिणोत्तरगैः प्रह्वैर्गन्तव्यञ्च पदातिभिः । गावःकृशा-
तुराः पाल्याः श्रद्धया पितृमातृवत् । गिरिप्रपातसिंह-
र्क्षशीतातपभयातुराः । महाकोलाहले घोरे दुर्दिने
देशविप्लवे । गवां तृणानि देयानि शीतलं च तथा
जलम्” । विष्णुधर्मोत्तरे “पुष्कर उवाच गवां
हि पालनं राज्ञा कर्त्तव्यं भृगुनन्दन । गावः षवित्रा
माङ्गल्या गोषु लोकाः प्रतिष्ठिताः । गावो वितन्वते
यज्ञं गावो विश्वस्य मातरः । शकृन्मूत्रं परं तासाम-
लक्ष्मीतापनं परम् । तद्धि मेध्यं प्रयत्नेन तत्र लक्ष्मीः
प्रतिष्ठिता । उद्वेगश्च न गन्तव्यः शकृष्मूत्रे विजानता ।
गवां मूत्रपुरीषे तु ष्ठीवनाद्यं न संत्यजेत् । गोरजः
परमं पुण्यमलक्ष्मीविघ्ननाशनम् । गवां कण्डूयनञ्चैव
सर्वकल्मषनाशनम् । गवां शृङ्गोदकं राम! जाह्नवीज-
लसन्निभम् । गोमूत्रं गोमयं क्षीरं दधि सर्पिः
कुशोदकम् । पवित्रं परमं ज्ञेयं स्नाने पाने च
भार्गव! । रक्षोघ्नमेतन्माङ्गल्यं कलिदुःस्वप्ननाशनम् ।
रोचना च तथा धन्या रक्षोगदगरापहा । यस्तु कल्यं
समुत्थाय मुखमाज्ये निरीक्षते । तस्याऽलक्ष्मीः क्षयं
याति वर्द्धते न च किल्विषम् । गवां ग्रासप्रदानेन
पुण्यं सुमहदश्नुते । यावतीः शक्नुयाद्गास्तु सुखं
धारयितुं गृहे । धारयेत्तावतीर्नित्यं क्षुधार्त्तास्ता न
धारयेत् । दुःखिता धेनवे । यत्र वसन्ति द्विजमन्दिरे ।
नरकं समवाप्नोति नात्र कार्या विचारणा । दत्त्वा
परगवे ग्रासं पुण्यं सुमहदश्नुते । शिशिरं सकलं
कालं ग्रासं परगवे तथा । दत्त्वा स्वर्गमवाप्नोति संवत्-
सरशतानि षट् । अग्रभक्तं नरो दत्त्वा नित्यमेव तथा
गवाम् । समाष्टकेन लभते नाकलोकं समायुतम् ।
सायं प्रातर्मनुष्याणामशनं वेदनिर्मितम् । तथैकमशनं
दत्त्वा गवां नित्यमतन्त्रितः । द्वितीयं यः समश्नाति
तेन संवत्सरान्नरः । गवां लोकमवाप्नोति यावन्मन्वन्तर
द्विज! । शीतत्राणं गवां कृत्वा गृहे पुरुषसत्तम! ।
गवां प्रपाणे पानीयं कृत्वा पुरुषसत्तम! । वारुणं
लोकमाप्नोति क्रीडत्यप्सरसां गणैः । गवां पानप्रवृत्तानां
यस्तु विघ्नं समाचरेत् । ब्रह्महत्या कृता तेन घोरा
भवति भार्गव! । परां तृप्तिं नचाप्नोति यत्र तत्राभिजा-
यते । गवां प्रचारभूमिन्तु वाहयित्वा हलादिना ।
नरकं महदाप्नोति यावदिन्द्राश्चतुर्दश । सिंहव्याध्र-
मयत्रस्तां पङ्कलग्नां जले गताम् । गामुद्धृत्य नरः स्वर्गे
कल्पमोगानुपाश्नुते । गवां लवणदानेन रूपवानभि-
जायते । सौभाग्यं महदाप्नोति लावण्यञ्च द्विजो-
त्तम! । औषधञ्च तथा दत्त्वा विरोगस्त्वभिजायते ।
औषधं लवणं तोयमाहारञ्च प्रयच्छति । तासाञ्चेदवरु-
द्धानाञ्चरन्तीनां मिथो वने । यामुत्प्लुत्य वृको हन्या-
न्न पालस्तत्र किल्विषी । गोबधेन नरो याति नरकाने-
कविंशतिम् । तस्मात्सर्वप्रयत्नेन कार्यं तासान्तु
पालनम् । विक्रयाच्च गवां राम! नरकं प्रतिपद्यते । तासान्तु
कीर्त्तनादेव नरः पापाग् प्रमुच्यते । तासां संस्पर्शनं
धन्यं सर्वकलमषनाशनम् । दानेन च तथा तासां
कुल्यान्यपि समुद्धरेत् । उदक्यासूतिकादोषो नैव तत्र
गृहे भवेत् । भूमिदोषस्तथान्योऽपि यत्रैका वसते च
गौः । गवां निःश्वासवातेन परा शान्तिर्गृहे भवेत् ।
नीराजनं तत्परमं सर्वस्थानेषु कीर्त्त्यते । गवां संस्प-
र्शनाद्राम! कल्मषं क्षोयते नृणाम् । गोमूत्रं गोमयं
क्षीर दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च
श्वपाकमपि शोधयेत् । पृथक् च प्रत्ययाभ्यस्तमिति सान्त-
पनं स्मृतम् । सर्वकामप्रदं राम! सर्वाशुभविनाशनम् ।
कृत्वातिकृच्छ्रं पयसा दिवसानेकविंशतिम् । निर्म-
लास्तेन चीर्णेन भवन्ति पुरुषोत्तमाः । त्र्यहमुष्णं
पिबेन्मूत्रं त्र्यहमुष्णं घृतं पिबेत् । त्र्यहमुष्णं पयः
पीत्वा वायुभक्षः परं त्र्यहम् । तप्तकृच्छ्रमिदं प्रोक्तं
सर्वाशुभविनाशनम् । शीतकृच्छ्रस्तथैवैष क्रमा-
च्छीतैः प्रकीर्त्तितः । सर्वाशुभविनाशाय निर्मितो
ब्रह्मणा स्वयम् । गोमूत्रेणाचरेत् स्नानं वृत्तिं कुर्याच्च
गोरसैः । उत्थितासूत्थितस्तिष्ठेदुपविष्टासु च स्थितः ।
अभुक्तवत्यां नाश्नोयादपीतासु च नो पिबेत् । त्रार्णं
चैवात्मना कार्यं भयार्त्ताश्च समुद्धरेत् । आत्मानमपि
सन्त्यज्य गोव्रतं तत् प्रकीर्त्तितम् । सर्वपापप्रशमन
मासेनैकेन भार्गव! । व्रतेनानेन पूर्णेन गोलोकं पुरुषो-
व्रजेत् । अभीष्टमथ वा राम! यावदिन्द्राश्चतुर्दश । शवा
पृष्ठ २७०९
माहारनिर्मुक्तानश्नन् प्रतिदिनं यवान् । मासेन
तदवाप्नोति यत्किञ्चिन्मनसेच्छति । गोमतीञ्च तथा विद्यां
सायं प्रातस्तथा जपेत् । गोलोकमाप्नोति नरोनात्र
कार्या विचारणा । उपर्युपरि सर्वेषां गवां लोकः प्रकी-
र्त्तितः । निवसन्ति सदा यत्र गावस्त्वाकाशगा दिवि ।
विमानेषु विचित्रेषु वृतेष्वप्सरसाङ्गणैः । किङ्किणी-
जालचित्रेषु वीणासु रचनादिषु । सदा कामफला
नद्यः क्षीरपायसकर्दमाः । शीतलामलपानीयाः
सुवर्णसिकतास्तथा । पुंष्करिण्यः शुभास्तत्र वैदूर्यकमलो-
त्पलाः । मानसी च तथा सिद्धिस्तत्र लोके भृगूत्तम! ।
तन्तु लोकं नरा यान्ति गवां भक्त्या न संशयः ।
गोमतीं कीर्त्तयिष्यामि सर्वपापप्रणाशिनीम् । तान्तु मे
गदतो विप्र! शृणुष्व सुसमाहितः । गावः सुरभयो
नित्यं गावो गुम्गुलुगन्धिकाः । गावः प्रतिष्ठा भूतानां
गावः स्वस्त्ययनं परम् । अन्नमेव परं गावो देवानां
हविरुत्तमम् । पावनं सर्वदेवानां रक्षन्ति च वहन्ति च ।
हविषा मन्त्रपूतेन तर्पयन्त्यमरान् दिवि । ऋषीणाम-
ग्निहोत्रेषु गावो होमनियोजिताः । सर्वेषामेव
भूतानां गावः शरणमुत्तमम् । गावः पवित्रं परमं गावो
मङ्गलमुत्तमम् । गावः स्वर्गस्य सोपानं गावोधन्याः
सनातनाः । नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव
च । नमो व्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः ।
ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा कृतम् । एकत्र
मन्त्रास्तिष्ठन्ति हबिरेकत्र तिष्ठति । देवब्राह्मणगो-
साधुसाध्वीभिः सकलं जगत् । धार्यते वै सदा तस्मात्
सर्वे पूज्यतमा मताः । यत्र तीर्थे सदा गावः पिवन्ति
तृषिता जलम् । उत्तरन्त्यथ वा येन, स्थिता तत्र
सरस्वती । गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथासां
रजसि प्रवृद्धा । लक्ष्मीः करीषे प्रणतौ च घर्मस्तासां
प्रणामं सततञ्च कुर्यात्” । भविष्यत्पुराणे “व्रह्मोवाच
गामालभ्य नमस्तृत्य कुर्याद्यस्तु प्रदक्षिणम् । प्रदक्षिणी
कृता तेन सप्तद्वीपा वसुन्धरा । गवां हुङ्कारशब्देन
दृष्टिपातेन सत्तम! । पापं प्रणश्यते यस्मात्तस्मात्पश्येत्
स्पृशेच्च ताः । कुतस्तस्य भवेत्पापं गृहं यस्य विभूषि-
तम् । सततं बालवत्साभिरर्जुनीभिरलङ्कृतम् ।
यावत्तीर्थानि मेदिन्यामासमुद्रं सरांसि च । गवां शृङ्गो-
दकस्नानकलां नार्हन्ति षोडशीम् । गवामस्थि न
लङ्गेत मृते गन्धं न वर्जयेत् । यावदाघ्राति तद्गन्धं
तावत् पुण्येन यज्यते । गवां कण्डूयनं धन्यं गोप्रदा-
नफलप्रदम् । तुल्यं गोशतदानस्य भयरोगादिपाल-
नम् । तृणोदकादिसंयुक्तं यः प्रदद्याद्गवाह्निकम् ।
कपिलाशतदानस्य फलं विद्यान्न संशयः । पञ्चभूते! शिवे!
पुण्ये! पवित्रे! सूर्यसम्भवे! । प्रतीच्छेदं मया दत्तं
सौरभेयि! नमोऽस्तु ते । बहुना च किमुक्तेन गावः
पाल्याः प्रयत्नतः । गावोदेयास्तथा रक्ष्याः पूज्या ग्रा-
ह्याश्च सर्वशः । गां वै ये ताडयन्तीह सर्वलोकस्य मातरम् ।
ते यान्ति रौरवं नाम नरकं नात्र संशयः । ताडये-
द्यस्तु वै मोहात् यो वा कश्चिन्नराधमः । स गच्छेन्न-
रकं घोरं सम्पीडकमिति श्रुतिः । आयान्तीं हन्तु-
कामां यः सौरभेयीं विभावरीम् । क्षम मातरिति
ब्रूयात् स याति परमं पदम्” । वराहपुराणे
“यमउवाच गावः पवित्रं मङ्गल्या देवानामपि देवता ।
यस्ताः शुश्रूषते भक्त्या स पापेभ्यः प्रमुच्यते ।
यावज्जीवं कृतं पापं तत्क्षणादेव नश्यति । लाङ्गूलेनो-
द्धृतं तोयं मूर्ध्ना गृह्णाति यो नरः । शरत्सु ह्युप-
जातेभ्यः स पापेभ्यः प्रमुच्यते । प्रस्नवे यो गवां स्नायात्
रोहिण्यां मानवो भुवि । सर्वपापकृतान् दोषान्
दहत्याशु न संशयः । घेनोस्तनाद्विनिष्क्रान्तां धारां क्षीरस्य
यो नरः । शिरसा प्रतिगृह्णीयात्स पापेभ्यः प्रमु-
च्यते” । आधिकं कृषिशब्दे २२०१ । २ पृ० दर्शिते वृहत्-
पराशरवाक्ये दृश्यम् ।

गोपवन न० गोपप्रधानं वनं शाक० त० । गोपभूयिष्ठे

वने तत्र भवः विदा० अञ् । गौपवन तत्र भवे त्रि०
“सकृच्छेषमहालेयमबालेयमकाद्रवेयमशौभ्रेयमवामरथ्यम-
गौपवनम्” कात्या० १० । २ । २१ सोऽभिजनोऽस्य विदा०
अञ् । गौपवन पित्रादिक्रमेण तत्र वासिजने तस्य
गोत्रापत्यम् अनृष्यानन्तर्य्ये विदा० अञ् । तद्गोत्रापत्ये
बहुषु तस्य लुक् । गोपवना गोपवनस्थपुरुषापत्येषु ।

गोपवनादि बहुत्वे गोत्रप्रत्ययस्य लुग्निमित्ते शब्द-

गणे स च गणः पा० ग० उक्तो यथा ।
गोपवन शिग्रु विन्दु भाजन अश्वावतान श्यामाक श्या-
मक श्यापर्ण विदाद्यन्तर्गणोऽयम् । गोपवन शिग्रु विन्दु
भोगक भाजन शमिक अश्वावतान श्यामाक श्यामक
श्यावलि श्यापर्ण हरितादिश्च ।
हरित किन्दास वह्यस्क अर्कलूष बध्योग विष्णु वृद्ध
प्रतिबोध रथीतर रथन्तर । गविष्ठिर निषाद शवर
अलस मठर मृडाकु सृपाकु मृदु पुनर्भू पुत्र दुहितृ
ननान्दृ परस्त्री परशु च” ।
पृष्ठ २७१०

गोपवल्ली स्त्री गां पाति पा--क कर्म० । १ मूर्वालतायां

राजनि० । २ श्यामालतायां (श्यामाघास) । शब्दर० ।

गोपस् त्रि० गुप--असुन् आर्द्धधातुकत्वाद्वाऽऽयाभावः । १ गोप्तरि

२ रक्षितरि । “स जगार भुवनस्य गोपास्त कापेयं
नाभिपश्यन्ति” छा० उ० ‘गोपाः रक्षिता’ भाष्यम् । अस्य
गोपाशब्दोदाहरणतया कस्यचिदुक्तिः ग्रामादिकी । गोपूर्य्य
कक्विबन्तपाधातुसिद्धगोपाशब्दस्य पोपालनकर्त्रर्थकत्वेन
तत्र भुवनस्येतिकर्म्मणोनन्वयापत्तेः आयपक्षे गोपायस्
गोप्तरि त्रि० ।

गोपा स्त्री गां पाति पा--क टाप् । १ श्यामालतायाम्

शब्दरत्ना० । गां पाति पा--क्विप् । २ गोरक्षके च ।
“गोपा विश्वपावत्” मुग्ध०

गोपाध्यक्ष पु० ६ त० । गोरक्षकपतौ “गोपाध्यक्षो

भयत्रस्तो रथमास्थाय सत्वरः” भा० वि० ३५ अ० ।

गोपानसी स्त्री० गवां किरणानां पानं शोषणं गोपानं

तत् स्यति सो--क गौरा० ङीष् । कुड्येषु
छादनार्थं बद्धे १ वक्रकाष्ठे (मुदनी) २ बन्धनाधारे पटलाधारे
वंशपञ्जरे च अमरः । “गोपानसीषु क्षणमास्थितानाम्”
माघः ।

गोपायक त्रि० गोपयति गुप--आय + ण्वुल् । रक्षके “गोपायकानां भुवनत्रयस्य” किरा० ।

गोपायन न० गुप--आय--भावे ल्युट् । १ गोपने “गोपायनं

प्रकुरुते जगतः सार्वलौकिकम्” हरिवं० ४ अ० । कर्त्तरि
ल्यु । २ रक्षके । “गोपानां बहुसाहस्रैबलैर्गोपायनैर्वृतः”
भा० भी० ७ अ० ।

गोपायित त्रि० गुप--आय--कर्मणि क्त । १ रक्षिते अमरः ।

भावे क्त । २ अतीतगोपने न० ।

गोपाल पु० गां भूमिं पशुभेदं वा पालयति पालि--अण्

उप० स० । १ नृपे २ गोरक्षके च । “क्षत्रियात् शूद्रकन्यायां
समुत्पन्नस्तु यः सुतः । स गोपाल इति ज्ञेयो भोज्योवि-
प्रैर्न संशयः” पराशरोक्ते ३ सङ्कीर्णजातिभेदे । “आर्द्धिकः
कुलमित्रश्च गोपालोदासनापितौ । एते शूद्रेषु भोज्यान्ना
यश्चात्मानं निवेदयेत्” मनुना तस्य भोज्यान्नतोक्ता ।
नन्दनन्दने ४ विष्णीरवतारभेदे तद्रूपञ्च पद्मपु० पाताल
ख० “त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन!” ।
श्रीकृष्णं प्रति व्यासप्रार्थने भगवदुक्ति व्यासवाक्ये यथा
“पश्याद्य दर्शयिष्यामि स्वरूपं वेदगोपितम् । ततोऽ
पश्यमहं भूप! बालं बालाम्बुद प्रभम् । गोपकन्यावृत
गोपं हसन्तं गोपबालकैः । कदम्बमूलमासीनं पीतवासः
समुज्ज्वलम् । वनं वृन्दावनं नाम नवपल्लवमण्डितम् ।
कोकिलभ्रमरारावमनोभवमनोहरम् । नदीमपश्यं
कालिन्दीमिन्दीवरदलप्रभाम् । गोवर्द्धनं तथाऽपश्यं
कृष्णवामकरोद्धृतम् । महेन्द्रदर्पनाशाय गोगोपालसुखा-
वहम् । दृष्ट्वा विहृष्टो ह्यभवं सर्व्वभूषणभूषणम् ।
गोपालमबलासङ्गमुदितं वेणुनादिनम्, ।
तस्य ध्यानमन्त्रयन्त्रादिकं तन्त्रसारे दृश्यम् ।

गोपालक पु० गां पालयति पालि--ण्वुल् ६ त० ।

१ गोरक्षके २ भूमिरक्षके च ३ शिवे त्रिका० गोपाल + स्वार्थे
क । उक्तार्थे ४ नन्दनन्दने ।

गोपालकक्षा स्त्री गोपालप्रधाना कक्षा । भारतवर्षस्थे

प्राच्ये देशभेदे “अत ऊर्द्ध्वं जनपदान्निबोध गदतो मम”
इत्युपक्रमे “कक्षा गोपालकक्षाश्च जाङ्गलाः कुरुवर्वराः” ।
भा० भी०९ अ० । तस्य राजनि अण् । गौपालकक्षः
तन्नृपे बहुत्वे तस्य लुक् । गोपालकक्षास्तन्नृपेषु “ततो
गोपालकक्षांश्च सोत्तरानपि कोसलान् । मल्लानामधिप-
श्चैव पार्थिवांश्चाजयत् प्रभुः” (भीमः) भा० स० २९ अ० ।
भीमप्राचीविजयोक्तौ ।

गोपालकर्कटी स्त्री । गोपालस्य गोरक्षकस्य प्रिया कर्कटी ।

राजनि० । क्षुद्रकर्कट्याम् (राखालशसा) ।

गोपालतापनीय न० गोपालस्तापनीय सेव्यो यत्र ।

उपनिषद्भेदे उपनिषच्छब्दे १२२२ पृ० दृश्यम् । गोपाल-
तापनमप्यत्र न० ।

गोपालधानी त्रि० गोपालोधीयतेऽत्र धा--आधारे ल्युट्

ङीप् ६ त० । गोष्ठे । तस्य पूलासेन समासे राजद०
पूर्वनि० समाहारैकत्वं च गोपालधानीपूलासम् ।

गोपालव पु० गोपालं तद्धर्मं वाति वा--क उप० स० ।

गोपतिधर्मयुक्ते आयुधजीविनि राजन्यभेदे । तस्य ब्राह्म-
णत्वे आयुधजीवित्वेऽपि स्वार्थे न ष्यञ् । “अब्राह्म-
णेति किं गोपालवाः” सि० कौ० ।

गोपालि पु० गां वृषभं पालयति पालि--इन् । “शिवे

“गोपालिर्गोपतिर्ग्रामः” भा० आनु० १७ अ०
शिवसहस्रनामोक्तौ २ प्रवरभेदे प्रवराध्वायः ।

गोपालिका स्त्री गोपालकस्य पत्नी पालकान्तित्वात् न ङीष्

टापि अत इत्त्वम् । १ आभीरपत्न्याम् २ शारिवोषधौ
च शब्दार्थचि० । गवां रक्षणात्तस्यास्तथात्वम ३ कीटभेदे हेमच० ।
पृष्ठ २७११

गोपाली स्त्री गोपालस्तदादरोऽस्त्यत्र अच् गौरा० ङीष् ।

१ गोपालकर्कट्याम् राजनि० । गोपालस्य पत्नी ङीष् ।
२ गोपपत्न्याम् । गां पालयति पालि--षण् ईप् मुग्ध० ।
३ गोपालयित्र्यां ४ कुमारानुचरे मातृभेदे च “अब्जजाता
च गोपाली वृहदम्बालिका तथा” भा० श० ४७ अ० ।

गोपाष्टमी स्त्री गोपप्रियाष्टमी । कार्त्तिकस्य शुक्लाष्टम्याम् ।

“शुक्लाष्टमी कार्त्तिके तु स्मृता गोपाष्टमी बुधैः । तद्दिने
वासुदेवोऽभूत् गोपः पूर्वं स वत्सपः । तत्र कुर्य्यात् गवां
पूजां गोग्रासं गोप्रदक्षिणम् । गवानुगमनं कार्य्यं सर्वान्
कामानभीप्सता” कूर्मपु० ।

गोपिका स्त्री गोपायति गुप--ण्वुल् । १ गोपालयित्र्याम्

गोप्येव स्वार्थे क ह्रस्वः । २ गोपपत्न्याम् ।

गोपित्त न० गोः पित्तमिव । गोरोचरनाख्ये गन्धद्रव्यभेदे त्रिका० ।

गोपिन् स्त्री गोपायति गुप--णिनि । १ रक्षितरि स्त्रियां ङीप्

सा च २ श्यामालतायाम् शब्दच० । अतिशयेन गोपी इष्ठन्
टिलोपः । गोपिष्ठ गोप्तृतमे त्रि० । “कामचारस्य वा
कामायायं गोपिष्ठो गोपायादिति वा” शत० ब्रा०
२ । २ । ३ । २ “गोपिष्ठः गोपायितृतमः” भाष्यम् ।

गोपिल त्रि० गुप--इलच् । गोप्तरि ततश्चतुरर्थ्यां घञ् ।

गौपलेय गुपिलनिर्वृत्तादौ त्रि० ।

गोपी स्त्री गोपजातिः स्त्री जातौ ङीष् । १ गोपजातिस्त्रि-

याम् । वृन्दावनस्थगोप्यश्च श्रुतिदेवमुनिकन्यारूपा यथा
पद्मपु० पाता० “गोप्यस्तु श्रुतयो ज्ञेयाः स्वधिका
गोपकन्यकाः । देवकन्याश्च राजेन्द्र! न मानुष्यः
कथञ्चन” । तत्र श्रेष्ठा राधाचन्द्रावलीविशाखाललितादयः ।
मूलम् उज्ज्वलमणौ दृश्यम् । “इत्येवं दर्शयन्त्यस्ताश्चैवं
गोप्योविचेतसः” भाग० १० । ३ । ३२ । स्क० प्रभा० ख० तु
चन्द्ररूपक्रष्णस्य कलारूपता तासामुक्ता यथा । “ततो गोप्यो
महादेवि! आद्यायाः षोड़श स्मृताः । तासां नामानि
ते वक्ष्ये तानि ह्येकमनाः शृणु । लम्बिनी चन्द्रिका
कान्ता कूठा शान्ता महोदया । भीषणी नन्दनी शोका
सुपुर्ण्णा विमलाऽक्षया । शुभदा शोभना पुण्या हंस
सुताः कलाः क्रमात् । हंसएव मनः कृष्णः परमात्मा-
जनार्द्दनः । तस्यैताः शक्तयो देवि! षोड़शैव प्रकीर्त्तिताः
चन्द्र रूपी ततः कृष्णः कलारूपास्तु ताः स्मृताः संपूर्ण
मण्डला तासां मालिनी षोड़शी कला । प्रतिपत्तिथि
मारभ्य विहरत्याशु चन्द्रमाः । षौडशैव कला यास्तु
गोपीरूपा वरानने! एकैकशस्ताः संभिन्नाः सहस्रेण
पृथक् पृथक्” । गोपायति गुप--अच् गोस्त्र० ङीष् ।
२ रक्षिकायां स्त्रियाम् “गीतानि गोप्याः कलमं
मृगव्रजः” माघः । स्वार्थे क । गोपिका तत्रार्थे “सहा-
समालोकयति ख गोपिका” माघः ।

गोपीगीता स्त्री भाग० १० स्क० उक्तार्या गोपीभिः

कृतकृष्णस्तुतौ सा च “जयति तेऽधिकं जन्मनाम व्रजे-
त्याद्येकत्रिंशत्तमाध्यायस्था ।

गोपीजनवल्लभ पु० गोप्येव जनस्तस्य बल्लभः । श्रीकृष्णे

“गोपोजनवल्लभाय स्वाहा” तन्त्रसारे तन्मन्त्रः । गोपी-
भर्त्त्रादयोऽप्यत्र “गोपीभर्त्तुर्विरहविधुरा काचिदिन्दी-
वराक्षी” पदाङ्कदूतम् ।

गोपीत पु० स्त्री गौर्गोरोचनेव पीतः । खञ्जनभेदे । वृ० स०

४५ अ० “पीतो गोपीत इति क्लेशकरः खञ्जनोदृष्टः”
तस्य दर्शने क्लेशकारितोक्ता ।

गोपीथ न० पा--भावे थक्--“गोपीथेत्यादि” पा० नि० गोः

सोमस्य पीथः । सोमपाने । “प्रति त्वं चारुमध्वरं
गोपीथाय प्रहूयसे” ऋ०१ । १९ । १ । “गोपीथाय
सोमपानाय” भा० । गावः पिबन्त्यस्मिन् आधारे थक् ।
२ तीर्थे गोर्जलावतरणे सोपाने तीर्थस्य जलावतरण-
सोपानत्वात्तथात्वम् । “गोपीथं तीर्थमाख्यातम्”
उणादि वृ० । गुप--भावे थक् नि० । ३ रक्षणे पु०
“गोपीथाय जगत्सृष्टेः काले त्वस्याच्युतात्मकः”
भाग० ४ । २२ । ५० । “जगत्सृष्टेर्गोपीथाय रक्षणाय”
श्रीधरः । “अजातशत्रुः पृतनां गोपीथाय मधुद्विषः”
भाग० १ । १० । ३६ । “गोपीथाय रक्षणाय” श्रीधरः ।
गोपीयाय हितं यत् । गोपीथ्य तत्र हिते त्रि० “जज्ञिष
इत्था गोपीथ्याय हि दधाथ तत् पुरूरवो यओजः”
ऋ० १० । ९५ । ११ ।

गोपुच्छ पु० गोः पुच्छ इव पुच्छो यस्य । १ गोलाङ्गूलाख्ये-

वानरे हेमच० “सर्ववानरगोपुच्छा यमृक्षाद्या भजन्ति वै”
(यं सुग्रीवम्) भा० व० २८१ अ० । “गोपुच्छैर्हरिभिमर्कैर्न-
कुलैर्नाभिभिर्वृतम्” (आश्रमम्) भाग० ३ । २१ । ४३ ।
“गोपुच्छशालावृकमर्कटाश्च” भाग० ८ । २ । १७ ।
गोपुच्छाकारत्वात् २ हारभेदे अमरः । ६ त० । ३ गोर्लाङ्गूले
न० । “गोपुच्छस्थे वल्मीकगेऽथ वा दर्शनं
भुजङ्गस्य” वृ० स० ९५ अ० । ततः शर्करा० स्यार्थे अण् ।
गोपुच्छ तत्रार्थे त्रि० ।

गोपुटा स्त्री गोरिव पुटमस्याः । स्थूलैलायाम् राजनि० ।

पृष्ठ २७१२

गोपुटिक न० गोः शिववृषस्य पुटिकं पुटयुक्तं मस्तकम् ।

शिववृषस्य मस्तके त्रिका० ।

गोपुर न० पुर--अग्रगमने क गवां पुरम्, गवा जलेन पूर्य्यते

पॄ--वञर्थे क वा । १ पुरद्वारे २ श्रेष्ठद्वारे अमरः । तत्र
गवामग्रगमनात्तथात्वम् । ३ कैवर्त्तीमुस्तके मेदि० तस्य
जलेन पूरणात्तथात्वम् “गुप्तवप्रचयप्रख्यैर्गोपुरैर्नन्दनो-
पमैः” भा० आ० २०६० श्लो० । “गोपुराट्टालकोपेतं चतुर्द्वारं
दुरासदम्” भा० व० १७३ अ० । “पुरगोपुरं प्रति ससैन्य-
सागरम्” माघः । “पीडा पुरस्यैव च गोपुरस्थे”
(शुनि) वृ० स० ८९ अ० ।

गोपुरक पु० पुर--क ६ त० गोपुर + स्वार्थे क । १ गवां पूरके

त्रिका० २ गोपुरशब्दार्थे च गां भूमिं पिपर्त्ति पॄ--क
संज्ञायां कन् । ३ कुन्दूरकवृक्षे राजनि० ।

गोपुरीष न० ६ त० । गोमये राजनि० ।

गोपेन्द्र पु० गोप इन्द्र इव । १ श्रीकृष्णे हेमच० । “गोपे-

न्द्रस्यानुजे ज्येष्ठे नन्दगोपकुलोद्भवे” भा० भी० २३ अ० ।
६ त० । २ गोपेश्वरे नन्दे च गोपेश्वरादयोऽप्यत्र ।

गोपेश पु० ६ त० । १ नन्दघोषे “गोपेशं परितः परे” मुग्ध०

२ शाक्यमुनौ त्रिका० ।

गोप्तव्य त्रि० गुप--कर्मणि तव्य वा आयाभावः । १ अप्रकाश्ये

२ रक्षणीये च “पौरजानपदाश्चैव गोप्तव्यास्ते यथा
सुखम्” भा० क० ९५ अ० । इट्पक्षे गोपितव्य
आयपक्षे गोपायितव्य तत्रार्थे त्रि० ।

गोप्तृ पु० गुप--वृच । रक्षके । “तस्मै सभ्याःसभार्य्याय गोप्त्रे-

गुप्ततमेन्द्रियाः” रघुः । “तस्यार्थे सर्वभूतानां गोप्तारं धर्म्य-
मात्मजम्” । “मुच्यते व्रह्महत्यायाः गोप्ता गोब्राह्मणस्य च”
मनुः २ संवरके च । ३ विष्णौ पु० “उत्तरो गोपतिर्गोप्ता” विष्णु
स० “सकलभूतपालनात् गोप्ता” भा० । “गोहितो गोपति-
र्गोप्ता” विष्णुस० । “स्वात्मानं स्वमायया गोपायति
संवृणोति गोप्ता” भा० । स्त्रियां ङीप् । “गुह्याति-
गुह्यगीप्त्री त्वम्” देवीजपसमापनमन्त्रः । इट्पक्षे
गोपितृ आयपक्षे गोपायितृ तत्रार्थे त्रि० स्त्रियां ङीप् ।

गोप्य त्रि० गुप--कर्मणि यत् । १ रक्षणीये २ गोपनीये

अपकाशतीये च । आयुर्वित्तं गृहच्छिद्रं मन्त्रमैथुन
मेषजम् । तपोदानापमानं च नब गोप्यानि यत्नतः”
काशीख० । ३ दासीपुत्रे पु० मेदि० ।

गोप्यादित्य पु० प्रमासतीर्थस्थे गोपीस्थापितरविमूर्त्तिभेदे

तत्कथा स्क० प्रभा० ख० यथा
“ततोगच्छेन्महादेवि! गोप्यादित्यमनुत्तमम् । भूते-
शाद्वायवे भागे धनुर्भिस्त्रिशतान्तरे । बलातिबल-
दैत्यघ्नी दक्षिणाग्नेयसंस्थितम् । धनुषां दशके देवि!
संस्थितं पापनाशनम् । तस्योत्पत्तिं प्रवक्ष्यामि
महापापहरां शुभाम्” इत्युपक्रमे “अथ तत्र कृतान् ज्ञात्वा
प्रासादान् यादवैः पृथक् । तेतो गोप्योऽपि ताः सर्वाः
सहस्राणि च षोडश । कृष्णमाज्ञाप्य भावेन स्थापयाञ्च-
क्रिरे रविम् ऋषिभिर्नारदाद्यैस्तु तथा क्षेत्रनिवासिभिः
तत् प्रतिष्ठापयामासुः प्रतिष्ठाविधिना रविम् । प्रति-
ष्ठिते ततः सूर्य्येददुर्दानानि भूरिशः । ततः क्षेत्र निवा-
सिभ्यस्तीर्थ देवरतेषु वै! ततस्ते ऋषयः सर्वे सन्तुष्टा
हृष्टमानसाः । चक्रुर्नाम रवेस्तत्र गोप्यादित्येति
विश्रुतम्” ।

गोप्याधि पु० कर्म्म० । आधिभेदे आधिशब्दे ७११ पृ०

दृश्यम् । “गोप्याधिभोगे नो वृद्धिः” याज्ञ० ।

गोप्रकाण्ड न० प्रशस्तो गौः (जातिः) “प्रशंसावचनैश्च” पा०

नित्यस० परनि० । श्रेष्ठे गवि अमरः । नियतलिङ्गत्वात्
क्लीवत्वमेव “प्रकाण्डमुद्घतल्लजौ” अमरोक्तेः । शब्दक०
पुंस्त्वोक्तिश्चिन्त्या । यदपि तत्र गोषु मध्ये प्रकाण्ड
इत्युक्तं तदपि प्रामादिकं “प्रशंसावचनैश्चेति सूत्रस्य
कर्म्मधारयसमासमात्रविषयत्वात् ।

गोप्रचार पु० प्रचरत्यस्मिन् प्र + चर--आधारे घञ् ६ त० ।

१ गोचारणस्थाने । “ग्रामेच्छया गोचारो भूमिगुजवशेन
वा” याज्ञ० “गवादीनां चारणाय कियानपि भूभागोऽ-
कृष्टः कल्पनीयः” मिता० । स्कन्दपु० प्रभा० खण्डोक्ते
२ तीर्थभेदे । “गोप्रचारकथा पुण्या गोपीनां द्वारका
गमः” वृहन्ना० तत्प्रतिपाद्योक्तौ ।

गोप्रतार पु० गवां प्रतारः प्रतरणतुल्यः संमदाऽत्र । रामस्य

वैकुण्ठगमनकाले तदनुगामिनां पुरवासिनां गोप्रतरण-
तुल्यसम्मर्दयुते सरयूस्थे १ तीर्थ भेदे । “गोप्रतारं ततो
गच्छेत् सरय्यास्तीर्थमुत्तमम् । यत्र रामो गतः स्वर्गं
सभृत्यबलवाहनः । देहं त्यक्त्वा महाराज! तस्य
तीर्थेस्य तेजसा । रामस्य च प्रसादेन व्यवसायाच्च
भारत! । तस्मिंस्त्रीर्थे नरः स्नात्वा गोप्रतारे नराधिप! ।
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते” भा० व० ८४ अ० ।
ऋदोरप्” पा० अप् । गोप्रतरोऽप्यत्र “यद्गोप्रतरकल्पाऽभूत्
संमर्दस्तत्र मज्जताम् । अतस्तदाख्यया तीर्थं पावनं भुवि
पप्रथे” रघुः । अत्रापि दीर्घमध्यता इत्यन्ये ।
पृष्ठ २७१३
गवा वृषभेन प्रतारो गमनमस्य । २ शिवे पु० । “गोनर्दो
गोप्रतारश्च गोवृषेश्वरवाहनः” भा० आनु० २८६ अ० ।
शिवसहस्रनामोक्तौ । अप् ६ त० । ३ गोःप्रतारे पु०
अनुपदम् उक्तं रघुवाक्यम् उदा० ।

गोप्रवेश पु० ६ त० । १ गोर्वनादितो गृहप्रवेशे “गोप्रवेशसमयेऽ-

ग्रतोवृषोयाति कृष्णपशुरेव वा पुरः” वृ० स० २५ अ० ।
आधारे ल्युट् । २ तत्काले । स च कालः सूर्य्या-
स्तमयात् प्राक्कालः तथा च वर्ण्णितम् रघौ “सञ्चार-
पूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः” ।

गोफणा स्त्री सुश्रुतोक्ते व्रणबन्धनभेदे तत्र कोषदामेत्या-

द्युपक्रसे “वितानगोफणा पञ्चाङ्गी चेति चतुर्दश
बन्धविशेषास्तेषां नामभिराकृतयः प्रायेण व्याख्याताः”
सुश्रुतः “चिवुकनासौष्ठांसवस्तिषु गोफणाम्” ।
(निदध्यात्) सुश्रुत० ।

गोबाल पु० ६ त० । १ गोकेशे २ तल्लोमनि च स च सीमा-

ज्ञानाय भूमौ निधेयः यथाह मनुः “अश्मनोऽस्थीनि
गोबालांस्तुषान् भस्म कपालिकाः । करीषमिष्टकाक्षार
शर्कराः बालुकास्तथा । यानि चैवं प्रकाराणि काला-
द्भूमिर्न भक्षयेत् । तानि सर्वाणि सीमायामप्रकाशानि
कारयेत्” । गोर्बाल इव बालोऽस्याः “पाककर्णेत्यादि”
पा० ङीप् । ओषधिभेदे स्त्री सि० कौ० ।

गोभण्डीर पु० स्त्री भट--भाषणे बा० ईरन् गवि जले

भण्डीरः । जलकुक्कुभखगे त्रिका० । स्त्रियां जाति-
त्वात् ङीष् ।

गोभानु पु० तुर्वसुनृपपौत्रे “तुर्वसोस्तु सुतो वह्निर्गोभानुस्तस्य चात्मजः” हरिवं० ३२ अ० ।

गोभिल पु० छन्दोपगृह्यकारके ऋषिभेदे ।

गोभृत् पु० गां भूमिं बिभर्त्ति भृ--क्विप् ६ त० । पर्वते

“नादेन गोभृच्छिखरेषु मत्ताः नृत्यन्ति गोकर्णशरीर
भक्ष्याः” चौरः । तेन निर्वृत्तम् सङ्गला० अञ् । गौभूत
पर्वतनिर्वृत्ते त्रि० स्त्रियां ङीप् ।

गोम लेपने अद० चुरा० उभ० सक० सेट । गोमयति--ते अजुगोमत् त ।

गोमक्षिका स्त्री गोः क्लेशदायिका नक्षिका । (डाँस)

ख्याते मक्षिकाभेदे शब्दर० ।

गोमघ त्रि० गां मंहति ददाति महि--अच् छन्दसि नि नलोपः

हस्य घश्च ६ त० । गोदातरि । “कदा गोमघा
हवनानि गच्छाः, ऋ० ६ । २५ । ३ “मंहतेर्दानार्थस्य रूपमुत्तर-
पदम्” भा० “सं गोमघा जरित्रे” ६ । ३५ । ४ । “गोमघा
गोदात्री” भा० “अश्वामघा गोमघा वा हुयेम” ऋ० ७ । ७१ । १ ।

गोमण्डल न० ६ त० । १ गोसमूहे २ भूमण्डले । “मग्नां

च तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चक र”
माघः । ३ किरणसंघे च ।

गोमत् त्रि० गौरस्त्यस्य मतुप् । १ गोस्वामिनि २ गोयुक्ते च

“इन्द्र! गोमन्निहायाहि” यजु० २६ । ४ “गावः स्तुतिरूपा
वाचः किरणा वा विद्यन्तेऽस्य गोमान्” वेददी० स्त्रियां
ङीप् । सा च ३ नदीभेदे स्त्री “गोमतीं धूतपापां च
गण्डकीञ्च महानदीम्” भा० भी० ९ अ० । स्कन्धपु०
प्रभा० तन्माहात्म्यम् “गोमत्युत्पत्तिकथनं तस्यां स्नाना-
दिजं फलम् । चक्रतीर्थस्य माहात्म्यं गोमत्युदधि-
सङ्गमः” वृहन्ना० तत्खण्डप्रतिपाद्ये । अत्र उदधि
सङ्गम इत्युक्तेः “गङ्गा सरस्वती पुण्या यमुना च
“महानदी । गोदावरी गोमती च नदी तापी च नर्म्मदा”
इत्युपक्रमे “नद्यः समुद्रसंयोगात् सर्वाः पुण्याः शुभा-
वहाः” प्रभा० खण्डोक्तेश्च सा समुद्रगा अन्या तु गोमती
काशीतोऽनतिदूरे उत्तरस्यां गङ्गासङ्गता यथाह” भा०
व० ८४ अ० यथा “गोमतीगङ्गयोश्चैव सङ्गमे
लोकविश्रुते । अग्निष्टोममबाप्नोति कुलञ्चैव समुद्धरेत्”
गोमतीस्नान फलं तत्रैव “रामतीर्थे नरः स्नात्वा गोमत्यां
कुरुनन्दन! । अश्वमेधमवाप्नोति पुनाति च कुलं नरः ।
शतसाहसकं तीर्थं तत्रैव भरतर्षभ! । तत्रोपस्पर्शनं
कृत्वा नियतो नियताशनः । गोसहस्रफलं पुण्यं
प्राप्नोति भरतर्षभ!” गौः गोपदमाधिक्येन विद्यतेऽस्यां
विद्यायां मतुप् ङीप् । ५ विद्याभेदे सा च गोदानशब्दे
२६९९ पृ० दर्शिता अन्या तिलधेनुशब्दे वक्ष्यते “गोमत्या
विद्यया धेनुं तिलानामभिमन्त्र्य च” भा० आनु० ७८ अ० ।
“पञ्चगव्येन गोघाती मासेनैकेन शुध्यति । गोमतीं च
जपेद्विद्यां गवां गोष्ठे च संबसेत्” शाता० । गोमत्यां
भवः पलद्या० अण् । गौमत तत्रभवे त्रि० स्त्रियां
ङीप् । गोमत्या अदूरभवो देशः अण । गौमत तत्सन्नि-
कृष्टदेशादौ त्रि० स्त्रियां ङीप् । बहुत्वे तस्य वरणा०
लुप् । गोमत्यः । उक्तगोमच्छब्दस्य सर्वनामस्थाने नुम्
गोमान् गोमन्तावित्यादि रूपम् । गोमानिवाचरति
गोमत् + क्किप् गोमतीति ततः क्विप् गोमत् । ४ गोस्वामि-
तुल्ये अत्र सर्व्वनामस्थाने धातुत्वात् न नुम् । गोमत्
गोमतौ इत्येव । षष्ठीतत्पुरुषे गोमतीशब्दस्य “वैदेहि
बन्धोर्हृदयं विदद्रे” इत्यत्रेव “ङ्यापोः संज्ञाच्छन्दसोः”
पृष्ठ २७१४
पा० आर्षे प्रयेगे वा ह्रस्वः । “सा लतेव महासालं
फुल्लं गोमतितीरजम्” भा० वि० २७ अ० । न तु
ह्रस्वान्तं शब्दान्तरम् केषाञ्चित् तथा कल्पनं तु प्रामा-
दिकम् । गौस्तदस्थि अत्रास्ति मतुप् ङीप् (भागाड़)
ख्यातायां ५ भूमौ “भोजनं यत्र तत्रापि शयनं हट्ट-
मन्दिरे । मरणं गोमतीतीरे” उद्भटः ।

गोमतल्लिका स्त्री प्रशस्ता गौः (जातिः) “प्रशंसाव

चनैश्च” पा० नित्यस० परनि० । प्रशस्ते गवि पुंस्यपि
स्त्रीत्वमेव । “प्रंशसावचनैश्चेति” पा० सूत्रे वचनग्रहणं
रूढमात्रशब्दपरिग्रहार्थं तेन ये यौगिकाः शस्तशोभना-
दयः ये च विशेषवचनाः शुचिसाध्वादयः ये च
गौणवृत्त्या सिंहोमाणवक इत्यादौ प्रशंसां बोधयन्ति ते
सर्व्वे व्युदस्यन्ते” मनो० । प्रशंसावचनरूढ़शब्दाश्चामरे
पठिता यथा “मतल्लिका मचर्चिका प्रकाण्ड मुद्ध्वतल्लजौ ।
प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः” ।
गोमचर्चिकाप्यत्रार्थे स्त्री ।

गोमत न० गवां मतम् । गव्यूतौ शब्दार्थ० ।

गोमत्स्य पु० गौरिव स्थूलोमत्स्यः । सुश्रुतोक्ते नादेये

मत्स्यभेदे । “तत्र नादेयाः रोहितपाठीनपाटला-
राजीबवर्म्मिगोमत्स्यकृष्णमत्स्यवागुञ्जारभूरणसहस्रदंष्ट्रा-
प्रभृतयः”

गोमथ त्रि० गां दुग्धं मथति मथ--अच् ६ त० । गोदुहे

गोपे । ततः चतुरर्थ्यां कुमुदा० ठक् । गौमथिक
तन्निर्वृत्तादौ त्रि० ।

गोमन्त पु० सह्यपर्व्वं तविवरस्थे पर्व्वतभेदे । “ततश्च्युताः

गमिष्यामः सह्यस्य विवरं गिरिम् । गोमन्तमिति
विख्यातं नैकशृङ्गविभूषितम्” हरिवं० ९६ अ० । तद्वर्ण्णनञ्च
“एवं वयं जरासन्धादभितः कृतकिल्यिषाः । सामर्थ्य-
वन्तः सम्बन्धाद् गोमन्तं समुपाश्रिताः । त्रियोजनायतं
सप्तत्रस्कन्धं योजनादधि । योजनान्ते शतद्वारं वीर
विक्रमतोरणम्” भा० स० १३ अ० ।
“तदगच्छ कृष्ण! शैलेन्द्रं गोमन्तं तु नगोत्तमम्”
तत्रैव । जरासन्धेन तत्र कृष्णयुद्धकथा तत्पर्वतदाहकथा
च हशिवं० ९९ अ० दृश्या । “मथुरापूर्वार्द्धं हिमवद्गोमन्त-
चित्रकूटस्थाः” वृ० स० १६ अ० ।

गोमन्द पु० पर्वतभेदे । “क्रौञ्चद्वीपे महाक्रौञ्चो गिरीरत्न-

चयाकरः । सम्पूज्यते महाराज! चातुर्वर्ण्येन
नित्यदा । गोमन्दः पर्वतो राजन्! सुमहान् सर्वधातुकः ।
यत्र नित्यं निवसति श्रीमान् कमललोचनः” भा०
भी० १२ अ० ।

गोमय पुंन० गोः पुरीषं गो + मयट् अर्द्धर्चादि । (गोवर)

१ गोः पुरीषे तद्गुणादिगोशब्दे २६८१ पृ० दृश्यम् । “अत्यन्त
जीर्णदेहाया बन्ध्यायाश्च विशेषतः । रोगार्त्तायाः
प्रसूताया न गोर्गोमयमाहरेत्” शब्दार्थचि० स्मृतिः ।
गोमयस्य श्रेष्ठताकारणम् ।
“शतं वर्षं सहस्राणां तपस्तप्तं सुदुष्करम् । गोभिः पूर्व
विसृष्टाभिर्गच्छेम श्रेष्ठतामिति । अस्मत्पुरीषस्नानेन
जनः पूयेत सर्वदा । शकृता च पवित्रार्थं कुर्वीरन् देव
मानुषाः । ताभ्यो वरं ददौ व्रह्मा तपसोऽन्ते स्वयं
प्रभुः । एवं भवत्विति विभुर्लोकांस्तारयतेति च” । तत्र
लक्ष्म्या वासो यथा गोलक्ष्मीसंवादे “अवश्यं
माननां कार्य्या तवास्माभिर्यशस्विनि! । शकृन्मूत्रे
निवस त्वं पुण्यमेतद्धि नः शुभे! । श्रीरुवाच । दिष्ठ्या
प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः । एवं भवतु
भद्रं वः पूजितास्मि सुखप्रदाः!” इति भा० शा०
दानधर्मे उक्तम् । “गोमयं यमुना साक्षात् गोमूत्रं च
सरस्वती” काशीख० । “गोमयाच्च वृश्चिको जायते”
शास्त्रकारप्रवादः “मुग्धाङ्गना गोमयगोमुखानि” माघः ।
“शुचिं देशं विविक्तं च गोमयेनोपलेपयेत्” मनुः ।
२ तदात्मके त्रि० स्त्रियां ङीप ।

गोमयच्छत्र न० गोमये तदाधारस्याने छत्रमिव । शिलीन्धे

(छातिया) । त्रि० स्वल्पार्थे ङीप् स्वार्थे क । गोमय-
च्छत्रिकापि तत्रार्थे स्त्री हारा० ।

गोमयप्रिय न० गोमयं प्रियमस्य साधनत्वात् । भूतृणे

शिलीन्ध्रे रत्नमाला ।

गोमयोत्था स्त्री गोमयादुत्तिष्ठति उद् + स्था--क टाप् ।

(गुवरियापोका) कीटभेदे हेमच० ।

गोमयोद्भव त्रि० गोमयादुद्भवति उद् + भू--अच् । १ गोमयजाते

२ आरग्बधे (स्ॐदाल) वृक्षे च पु० शब्दर० ।

गोमहिषदा स्त्री कुमारानुचरे मातृभेदे । “शृणु मातृ-

गणान् राजन्! कुमारानुचरानिमान्” इत्युपक्रमे “पयोदा
गोमहिषदा गोविषाणी च गारत!” भा० श० ४७ अ० ।

गोमांस न० ६ त० । गवां मांसे तद्गुणादि गोशब्दे २६८१ पृ०

उक्तं “गोमांसभक्षणे प्राजापत्यं चरेत्” सुमन्तुः तच्चा-
ज्ञानतः, ज्ञानतस्तद्भक्षणे चान्द्रायणं यथाह शातातर्पः
“अगम्यागमने चैव मद्यगोमांसभक्षणे । शुद्ध्यै चान्द्राः
पृष्ठ २७१५
यणं कुर्य्यान्नदीं गत्वा समुद्रगाम्” विष्णुना तु
द्विजातीनां तत्र पुनरुपनयनमुक्तं यथा “विड्वराह
ग्रासकुक्कुटनरगोमांसभक्षणे सर्वेष्वेव द्विजातीनां प्रयि-
श्चित्तान्ते भूयः संस्कार’ कुर्य्यात् ।”

गोमातृ स्त्री ६ त० । गवां मातरि सुरभौ कश्यपपत्नीभेदे ।

“गोमातरः सुशीलाद्यास्तत्र सन्ति शिवप्रियाः” काशीख०
२ अ० ।

गोमायु पु० स्त्री गां विकृतां वाचं मिनोति मा--उण् ।

१ शृगाले, अमरः “अनु हुङ्गुरुते घनध्वनिं नहि गोमा-
युरुतानि केशरी” किरा० । “पांशुवर्षे दिशां दाहे गोमा-
युविरुते तथा” मनुः । तन्मूत्रादिभक्षणनिषेधमाह
मनुः “विडवराहनरोष्ट्राश्वगोमायोः कपिकाकयोः ।
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।”
तद्रुतादिशुभाशुभफलं वृ० स० उक्तं यथा
“श्वभिः शृगालाः सदृशाः फलेन विशेष एषां शिशिरे
मदाप्तिः । हूहरुतास्ते परतश्च टाटा पूर्णः खरोऽन्ये
कथिताः प्रदीप्ताः । लोमाशिकायाः खलु कक्कशब्दः
पूर्णः स्वभावप्रभवः स तस्याः । येऽन्ये स्वरास्ते प्रकृते-
रपेताः सर्वे च दीप्ता इति सम्प्रदिष्टाः । पूर्वोदीच्योः
शिबा शस्ता शान्ता सर्वत्र पूजिता । धूमिताभिमुखी
हन्ति स्वरदीप्ता दिगीश्वरान् । सर्वदिक्ष्वशुभा दीप्ता
विशेषेणाह्न्यशोभना । पुरे सैन्येऽपसव्या च कष्टा
सूर्य्योन्मुखी शिवा । याहीत्यग्निभयं शास्ति टाटेति
मृतवेदिका । धिग्धिग् दुष्कृतमाचष्टे सज्वाला
देशनाशिनी । नैव दारुणतामेके नज्वालायाः प्रचक्षते ।
अर्काद्यनलवत्तस्या वक्त्रं लालास्वयावतः । अन्यप्रतिरुता
याम्या सोद्बन्धमृतशंसिनी । वारुण्यनुरुता म्सव शंसते
सलिले मृतिम् । अक्षोभः श्रवणं चेष्टं घनप्राप्तिः प्रिया-
गमः । क्षोभप्रधानभेदश्च वाहनानां च सम्पदाम् । फलमा-
सप्तमादेतदग्राह्यं परतो रुतम् । याम्यायां तद्विपर्यस्तं
फलं षटपञ्चमादृते । या रोमाञ्चं मनुष्याणां शकृन्मूत्रं
च वाजिनाम् । रावात् त्रासं च जनयेत्सा शिवा न
शिवप्रदा । मौनं गता प्रतिरुते नरद्विरदवाजिनाम् । या
शिबा सा शिवं सैन्ये पुरे वा सम्प्रयच्छति । भेभे इति
शिबा भयङ्करी भो भो व्यापदमादिशेच्च सा । मृतबन्ध
निवेदनी फिफी हुहु चात्महिता शिवा स्वरे । शान्ता
त्ववर्णात् परमं रुवन्ती टाटामुदीर्णमिति वाश्यमाना ।
टे टे च पूर्वं परतश्च थे थे तस्याः स्वतुष्टिप्रभवं
रुतं तत् । उच्चेर्घोरं वर्णमुच्चार्य्य पूर्वं पश्चात् क्रोशत्
क्रोष्टुकस्यानुरूपम् । या सा क्षेमं प्राह वित्तस्य चाप्तिं
संयोगं वा प्रोषितेन प्रियेण” । श्वरुतादिफलं श्वशब्दे
वक्ष्यंमाणं तत्तुल्यफलमेतस्येत्यतिदिष्टम्! २ गन्धर्वभेदे
जटाधरः । “बहुभिः सह गन्धर्वैः प्रागायत च
तुम्बुरुः” इत्युपक्रमे “गोमायुः सूर्य्यवर्चाश्च सोमवर्चाश्च
सप्तमः” हरिवं० २६ अ० ।

गोमायुभक्ष पु० गोमायुं भक्षयति भक्ष--अण् उप० स० ।

नीचजातिभेदे अर्कपुत्रस्येत्युपक्रमे “गोमायुभक्षशूलिक
वोक्काणाश्वमुखविकलाङ्गाः” वृ० स० १६ अ० तस्य शनि
बिभागे उक्तिः ।

गोमिन् त्रि० गौरस्त्यस्य मिनि । १ गोस्वामिनि अमरः स्त्रियां

ङीप् । “यदन्यगोषु वृषभो वत्सानां जनयेच्छतम् ।
गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम्” मनुः ।
२ उपासके ३ शृगाले पु० मेदि० । ४ बुद्धभिक्षुशिष्ये
पु० त्रिका० । शालागब्दे परे समासे छात्र्यादि० ।
“छात्र्यादयः शालायाम्” पा० अस्थ उदात्तता ।

गोमीन पु० स्त्री गौरिव स्थूलो मीनः । गोमत्स्याख्ये

मीनभेदे “न दद्यात् तिक्तकमठं पशुशृङ्गिणमेव ।
गोमीनं चक्रशकुलं वडालराघवं तथा” मत्स्यसूक्तम् ।

गोमुख पु० गोर्मुखमिव मुखमस्य । १ नक्रे २ यक्षभेदे च

हेमच० । ३ मातलिपुत्रे “बहुशोमातल त्वञ्च तव पुत्रश्च
गोमुखः” भा० क० ९९ अ० । ४ बाद्यभेदे ५ कुटिलाकारे लेपने
च न० मेदि० वाद्यभेदे पुंस्त्वमपि यथा “आडम्बरान्
गोमुखांश्च डिण्डिमांश्च महास्वंनान्” भा० श० ४७ अ० ।
मृदङ्गाझर्झराभेर्य्यः पणवाणकगोमुखाः” भा० द्रो० ८२
अ० । “पणवाणकगोमुखाः सहसैवाप्यभ्यहन्यन्त” गीता ।
लेपनञ्च तदाकारेण भित्तौ लेखनम् “मुग्धाङ्गनागोमय-
गोमुखानि” माघः । ६ तदाकारे सन्धिभेदे (सुरङ्ग)
तन्त्रोक्ते जपमालारक्षणाय पट्टवस्त्रादिनिर्भिते स्वनाम-
ख्याते ७ पदार्थे स० । तस्य लक्षणं मुण्डभालात०
उक्तं यथा ।
“चतुर्तिंशाङ्गुलमितं पट्टवस्त्रादिसम्भवम् । निर्माया-
ष्टाङ्गुलिमुखं ग्रीवायां षड्दणाङ्गुलम् । ज्ञेय
गोमुखयन्त्रञ्च सवतन्त्रषु गोपितम् । तन्युखे स्थाप-
येन्मालां ग्रीवामध्यगते करे । प्रजपेद्विधिना गुह्यं
वर्णमालाधिकं प्रिये! निधाय गोमुखे मालां
गोपयेन्मातृजारवत्” (गोमुड़) ख्याते ८ नदीभेदे स्त्री गोमु-
खाकारत्वात् ९ हिमालयात् भूमौ गङ्गापतनगुहायां
स्त्री ङीष् ।
पृष्ठ २७१६

गोमूत्र न० ६ त० । (चोना) इति ख्याते गोर्मूत्रे गोशब्दे

२६८१ पृ० तद्गुणाद्युक्तम् । “शुद्धिर्विजानता कार्य्या
गोमूत्रेणोदकेन वा ।” “गोमूत्रमग्निवर्णं वा पिबेदुद-
कमेव वा” “गोमूत्रेण चरेत् स्नानं द्वौ मासौ नियते-
न्द्रियः” मनुः ।

गोमूत्रिका स्त्री गोर्मूत्रस्येव गतिरस्त्यत्र ठन् । चित्राल

ङ्कारभेदे तल्लक्षणमलङ्कारशब्दे ३९२ पृ० दृश्यम् ।
सा च पादार्द्धश्लोकविपरीतभेदाच्चतुर्विधा । दिङ्-
मात्रमुदाह्रियते”
प्र । वृ । त्ते । वि । क । स । द्द्वा । नं । सा । ध । ने । प्य । वि । षा । दि । भिः ।
व । वृ । षे । वि । क । स । द्दा । नं । यु । ध । मा । प्य । वि । षा । णि । भिः ।
माघे १९ स० ४६ श्लोके तल्लक्षणान्तरं मल्लिनाथोक्तं
यथा “वर्णानामेकरूपत्वं यद्येकान्तरमर्द्धयोः । गोमू-
त्रिकेति तत् प्राहुर्दुर्ष्करं तद्विदो विदुः” ।
षोडशकोष्ठद्वये पङ्क्तिद्वये द्वयं द्वयं क्रमेण बिलिख्य
एकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिरिति तदुद्धारः ।
गोमूत्रप्रकारः प्रकारे स्थूला० कन् टापि अत इत्त्वम् ।
गोमूत्रतुल्ये बक्रसरलप्राये ३ प्रचारादौ । “गोमूत्रिका-
प्रचारेषु” दशकु० “गोमूत्रतुल्यवक्रसरलप्रचारेषु”
(ताम्बुडु) ख्याते ४ तृणभेदे स्त्री राजनि० ।

गोमृग पु० स्त्री गवाकृतिर्मृगः! गवये तस्य गवाकृतित्वात्

तथात्वम् । “अश्वस्तूपरो गोमृगस्ते प्राजापत्याः”
यजु० २४ । १ । स्त्रियां जातित्वात् ङीष् ।

गोमेद पु० गौरिव मेद्यति मिद--अच् । १ मणिभेदे २ द्वीप-

भेदे तन्नामनिरुक्तिर्यथा “गोमेदे गोपतिर्नाम राजा-
भूद्गोसवोद्यतः । याज्योऽभूद्वह्निकल्पानामौतथ्यानां
मनोः कुले । स तेषु हरियज्ञाय प्रवृत्तेषु भृगून्
गुरून् । वव्रे, तं गोतमः कोपादशपत् सोऽगमत् क्षयम् ।
यज्ञवाटेऽस्य तागावो दग्धाः कोपाग्निना मनेः । तन्मे-
दसा महीच्छन्ना गोमेदः स ततोऽभवदिति” युक्तिकल्प-
तरुः । ३ प्लक्षद्वीपस्थे वर्षाचलभेदे तद्वर्षोपक्रमे” मर्य्यादा-
कारकास्तेषां तथान्ये वर्षपर्वताः । सप्तैव तेषां नामानी-
त्यभिधाय “गोमेदश्चैव चन्द्रश्च नारदो दुन्दभिस्तथा ।
सोमकः सुमनाः शैलो वैभ्राजश्चैव सप्तमः” विष्णु पु० ।
स्वार्थे क । मणिभेदे तस्य परीक्षादियुक्तिकल्पतरावृक्तं
यथा “हिमालय वा सिन्धौ वा गोमेदमणिसुम्भवः ।
स्वच्छकान्तिर्गुरुः स्निग्धो वर्णाढ्यो दीप्तिमानपि । वलक्षः
पिञ्जरो धन्यो गोमेद इति कीर्त्तितः । चतुर्द्धा जाति
भेदस्तु गोमेदेऽपि प्रकाश्यते । ब्राह्मणः शुक्लवर्ण
स्यात् क्षत्रियो रक्त उच्यते । आपीतो वैश्यजातिस्तु
शूद्रस्त्वानील उच्यते । छाया चतुर्विधा श्वेता रक्ता
पीताऽसिता तथा । गुरुप्रभाढ्यः सितवर्णरूपः स्निग्धो
मृदुर्वातिमहापुराणः । स्वच्छस्तु गोमेदमणिर्धृतोऽयं
करोति लक्ष्मीं धनधान्यवृद्धिम् । लघुर्विरूपोऽतिखरो-
ऽन्यमानः स्नेहोपलिप्तो मलिनः खरोऽपि । करोति
गोमेदमणिर्विनाशं सम्पत्तिभोगे बलवीर्य्यराशेः । ये
दोषा हीरके ज्ञेयास्ते गोमेदमणावपि । परीक्षा
वह्नितः कार्य्या शाणे वा रत्नकोविदैः ॥ स्फटिकेनैव
कुर्वन्ति गोमेदप्रतिरूपकम् । शुद्धस्य गोमेदमणेस्तु
मूल्यं सुवर्णतो द्वैगुणमाहुरेके । अन्ये तथा विद्रुमतुल्य
मूल्यं तथा परे चामरतुल्यमाहुः । चतुर्बिध्रानामेषान्तु
धारणं परिसम्मतम्” । सच जलकालुष्यशोधकः यथाह
सुश्रुतः “तत्र (जले) सप्त कालुष्यप्रसाधनानि भवन्ति तद्यथा
कतकगोमेदकविसग्रन्थिसैबालमूलवस्त्राणि मुक्तामणि-
श्चेति” । स्वार्थे क । द्वीपभेदे । “शाकं ततः शाल्स-
लमत्र कौशं क्रौञ्चं च गोमेदकपुष्करे च । द्वयोर्द्वयो-
रन्तरमेकमेकं समुद्रयोर्द्वीपसुदाहरन्ति” सि० शि० ।

गोमेदसन्निभ पु० गोमेदेन तुल्यः नित्यस० । दुग्धपाषाणे

राजनि० ।

गोमेध पु० मेध--बधे आधारे घञ् ६ त० । गोसवाख्ये यज्ञ-

भेदे गोसवशब्दे विवृतिः “गवां मेधमवाप्नोति अप्सरो-
भिश्च मोदते” भा० आनु० १०९ अ० ।

गोऽम्भस् न० ६ त० । गोमूत्रे राजनि० ।

गोयज्ञ पु० गवा कृतो यज्ञः । १ गोसवयज्ञे तच्छब्दे विवृतिः ।

गा उद्दिश्य यज्ञः । श्रीकृष्णेन गोपानां हितार्थं
वृन्दावने प्रवर्त्तिते गोवर्द्धनगिरियज्ञसहिते गवां महोत्-
सवकारके २ व्यापारभेदे तत्तथा हरिवं० ७३ अ० ।
“शरद्येवं सुशस्यायां प्राप्तायां प्रावृषः क्षये ।
नीलचन्द्रार्कवर्णैश्च रचितं बहुभिर्द्विजैः । फलैः प्रबालेन
घनमिन्द्रचापघनोपमम् । भवनाकारविटपं लतापरम
मण्डितम् । विशालमूलविततं पवनाभोगधारिणम् ।
अर्चयामागिरिं देवं गाश्चैब सविशेषतः । सावत-
सैर्विषाणैश्च बर्हापीडैश्च दंशिर्तेः । घण्टाभिश्च प्रल-
म्बाभिः पुष्पैः शारदिकैस्तथा । शिवाय गावः पूज्यन्तां
पृष्ठ २७१७
गिरियज्ञः प्रवर्त्यताम् । पूज्यतां त्रिदशैः शक्रो गिरि-
रस्माभिरिज्यताम् । गोयज्ञं कारयिष्यामि बलादेव न
संशयः” । एवं श्रीकृष्णेनोक्ते गोपवाक्यं यथा
“यत्त्वया ऽभिहितं वाक्यं गिरियज्ञं प्रति प्रभो ।
कस्तल्लङ्घयितुं शक्तो वेलामिव महोदधेः । स्थितः
शक्रमहस्तात! श्रीमान् गिरिमहस्त्वयम् । त्वत्प्रणी-
तोऽद्य गोपानां गवां हेतोः प्रवर्त्यताम् । भाजनान्युप
कल्प्यन्तां पयसः पेशलानि च । कुम्भाश्च विनिवेश्यन्ता
मुदपानेषु शोभनाः । पूर्य्यन्तां पयसा नद्यो द्रोण्यश्च
विपुलायताः । भक्ष्यं भोज्यञ्च पेयञ्च तत्सर्व्वमुपनीयताम् ।
भाजनानि च मांसस्य न्यस्यन्तामोदनस्य च । त्रिरात्र-
ञ्चैव सन्दोहः सर्ब्बघोषस्य गृह्यताम् । विशस्यन्ताञ्च पशवो
भोज्या ये महिषादयः । प्रवर्त्यताञ्च यज्ञोऽयं सर्वगोपसु-
सङ्गुलः । आनन्दजननो घोषो महान् मुदितगोकुलः ।
तूर्य्यप्रणादघोषैश्च वृषभाणाञ्च गर्ज्जितैः । हम्भा-
रवैश्च वत्सानां गोपानां हर्षवर्द्धनः । दधिह्रदः
शरावर्त्तः पयःकुल्यासमावृतः । मांसराशिप्रकॢप्ताद्यः
प्रकाशौदनपर्वतः । सं प्रावर्तत यज्ञः स गिरेर्गोभिः
समाकुलः । तुष्टगोपगणाकीर्णो गोपनारीमनोहरः ।
अथाधिशृतपर्य्यन्ते पर्य्याप्ते यज्ञसंविधौ । यज्ञं
गिरेस्तिथौ सौम्ये चक्रुर्गोपा द्विजैः सह । यजनान्ते
तदन्नन्तु तत्पयो दधि चोत्तमम् । मांसञ्च मायया कृष्णो
गिरिर्भूत्वा समश्नुते । तर्पिताश्चापि विप्राग्र्यास्तुष्टाः
सम्पूर्णभोजनाः । उत्तस्थुः प्रीतमनसः स्वस्ति वाच्य
यथासुखम् । भुक्त्वा चावभृथे कृष्णः पयः पीत्वा च
कामतः । संतृप्तोऽस्मीति दिव्येन रूपेण प्रजहास वै । तं
गोपाः पर्वताकारं दिव्यस्रगनुलेपनम् । गिरिमूर्द्ध्नि
स्थितं दृष्ट्वा कृष्णं जग्मुः प्रधानतः । भगवानपि तेनैव
रूपेणाच्छादितः प्रभुः । सह तैः प्रणतो गोपैर्ववन्दा-
त्मानमात्मना । तमूचुर्विस्मिता गोपा देवं गिरिवरे
स्थितम् । भगवंस्त्वद्वशे युक्ता दासाः किं कुर्म? किङ्कराः ।
स उवाच ततो गोपान् गिरिप्रभवया गिरा । अद्य प्रभृति
याज्योऽहं गोषु यद्यस्ति वो दया । अहं वः प्रथमो
देवः सर्वकामकरः शुभः । सम प्रभावाच्च गवामयुता-
न्युपभोक्ष्यथ । शिवश्च वो मविष्यामि मद्भक्तानां
वने वने । रंस्येऽहं सह युष्माभिर्यथा दिवि गतस्तथा ।
ये चेमे प्रथिता गोपा नन्दगोपपुरोगमाः । एषां
प्रीतः प्रयच्छामि गोपानां विपुलं धनम् । पर्य्याप्नुवन्तु
क्षिप्रं मां गावो वत्ससमाकुलाः । एवं मम परा
प्रीतिर्भविष्यति न संशयः” ७४ अ० ।

गोयान न० गवा कृष्टं यानम् । गवाकृष्टे याने (शगड)

“गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः” सुश्रुतः
गोयाने मैथुननिषेधमाह मनुः “मैथुनन्तु समासेव्य
पुंसि योषिति वा द्विजः । गोयानेऽप्सु दिवा चैव
सवासाः स्नानमाचरेत्” ।

गोयूति स्त्री “गोर्यूतौ छन्दसि” पा० अध्वपरिमाणे” वार्त्ति०

छन्दोध्वपरिमाणभिन्ने न वान्तादेशः । गोर्गतौ ।

गोरक्ष पु० गां रक्षति सेवनात् रक्ष--अण् उप० स०

(चाकुलिया) १ लताभेदे २ नागरङ्गे मेदि० । ३ ऋषभनामौ-
षधौ हेम० । ३ गोपालके त्रि० । भावे घञ् । ५ गोः
रक्षणे च । “कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीवि-
काम्” मनुः ।

गोरक्षक त्रि० गां रक्षति रक्ष--ण्वुल् ६ त० । (राखाल)

गोपालके “गोरक्षकान् बाणिजकान् तथा कारुकुशी-
लवान् । प्रेष्यान् वार्द्धुषिकांश्चैव विप्रान् शूद्रवदा-
चरेत्” मनुः ।

गोरक्षकर्कटी स्त्री कर्म्म० । क्षुद्रकर्कट्याम् (राखालकाकुड)

भावप्र० ।

गोरक्षजम्बू स्त्री गोरक्षे गोपे जम्बूरिव । १ घोण्टाफले २ मोधूमे च जटा० ।

गोरक्षतण्डुली स्त्री गोरक्षः तण्डुलो वीजं यस्याः ।

(गोरक्षचाकुलिया) क्षुपभेदे रत्नमाला ।

गोरक्षतुम्बी स्त्री गोरक्षी तुम्बी । कुम्भाकारतुम्ब्वाम्राजनि०

गोरक्षदुग्धा स्त्री गोरक्षं गोपोषकं दुग्धं निर्यासोऽस्याः ।

मालवप्रसिद्धे क्षुपभेदे गोरक्षीक्षुपे राजनि० ।

गोरक्षी स्त्री० गां रक्षति रक्ष--षण् ईष् मुग्ध० । मालव-

प्रसिद्धे क्षुपभेदे राजनि० ।

गोरङ्कु पु० स्त्री गवा वाचा रङ्कुरिव । पक्षिभेदे लग्नके मेदि० ।

गोरट पु० गवि रटति रट--अच् । दुष्खदिरे राजनि०

तस्व गोः पोषणाय रटनात् तथात्वम् ।

गोरण न० गुर--भावे ल्युट् । उत्तोलने उद्यमे अमरः ।

गोरथ पु० मगधदेशस्थे पर्वतभेदे । “अतीत्य गङ्गां शोणञ्च त्रयस्ते

प्राङ्मुखास्तदा । कुशचीरच्छदा जग्मुर्मागधं क्षेत्र-
मच्युताः । ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् ।
गोरथं गिरिमासाद्य ददृशुर्मागधं (जरासन्धपुरम्)
पुरम्” । भा० स० १९ अ० ।
पृष्ठ २७१८

गोरस पु० ६ त० । १ गोर्दुग्धे २ दध्नि ३ तक्रे च हेम० । “आ-

द्यानां मांसपरमं मध्यानां गोरसोत्तरम् । तैलोत्तरं
दरिद्राणां भोजनं भरतर्षभ!” भा० उ० ३३ अ० । “शालाः
शालीक्षुगोरसैः” भा० आश्व० ८५ अ० । गोरसानुप-
भुञ्जान उपभोगांश्च भारत!” । भा० व० २३९ अ० ।
“अन्नं प्रर्य्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् ।
अस्नेहा अपि गोधूमयवगोरसविक्रियाः” याज्ञ०
अस्नेहस्य चिरस्थितस्य तद्विकारस्य भोज्यतामाह ।
“हरिद्रा गोरसो धान्यं पुनः पाकेन शुध्यति” स्मृतिः ।
४ वाक्यरसे च “कोरसो गोरसं विना” उद्भटः ।

गोरसज न० गोरसात् दध्नो जायते जन--ड ५ त० । तक्रे

राजनि० ।

गोराज पु० ६ त० टच् समा० । श्रेष्ठवृषे शब्दर० ।

गोराटिका गोरिव रटति रट + ण्वुल् । शारिकापक्षिणि

राजनि० । अच् गौरा० ङीष् । गोराटीत्यपि तत्रैव
हेमच० ।

गोरिका स्त्री गोराटिका पृषो० । शारिकाखगे राजनि० ।

गोरुत न० ६ त० १ गवां शब्दे तद्रुतशुभाशुभफलं गवेङ्गितशब्दे

२५ ६७ पृ० उक्तम् । गोरुतं तच्छब्दः श्रुतिगोचर-
त्वेन अस्त्यस्य अच् । गोरवश्रवणयोग्ये २ क्रोशद्वयात्मके
देशे हेमच० ।

गोरूप न० ६ त० । १ गोः रूपे “जुगोप गोरूपधरा-

मिवोर्वीम्” रघुः । गोः रूपमिव रूपमस्य । ३
महादेवे पु० । “गारूपश्च महादेवो हस्त्यश्वोष्ट्रखराकृतिः”
भा० आनु० १४ अ० ।

गोरोच न० गवा किरणेन रोचते रोच--अच् । हरिताले राजनि० ।

गोरोचना स्त्री गोभ्यो जाता रोचना हरिद्रा । स्वनाम-

ख्याते गन्धद्रव्ये भावप्र० ।
“गोरोचना हिमा तिक्ता वश्या मङ्गलकान्तिदा ।
विषाऽलक्ष्मोग्रहोन्मादगर्भस्रावक्षतास्रहृत्” भावप्र० ।
“गोरोचनापत्रविभक्तरम्याः” “गोरोचनाक्षेपनितान्त
गौरे” कुमा० । सा च यन्त्रलेखनदव्यं “गोरोचनालक्तक-
कुङ्कुमेन” तन्त्रसारोक्तेः ।

गोर्द न० गुर । अब्दादित्वात् नि० । मस्तिष्के मस्तकस्थे घृते अमरः ।

गोल पु० गुड--अच् डस्य लः । १ सर्ववर्त्तुले २ मदनवृक्षे

रत्नमा० । ३ जारात् जाते विधवायाः सुते धरणी । ४ वोले
जटाधरः । गोलः विषतयाऽस्त्यस्य अच् । खगोलभूगो-
लज्ञापके भास्करीये गोलाध्यायाख्ये ५ ग्रन्थे च ।
“तं तां च प्रणिपत्य गोलममलं यालावबोधं ब्रुवे ।
मध्याद्यं द्युसदां यदत्र गणितं तस्योपपत्तिं विना प्रौटिं
प्रौढसभासु नैति गणको निःसंशयो न स्वयम् ।
भोज्यं यथा सर्वरसं विनाज्यं राज्यं यथा राजविव-
र्जितं च । सभा न भातीव मुवक्तृहीना गोलान-
भिज्ञो गणकस्तथात्र” । “गोलः स्मृतः क्षेत्रविशेष
एष प्राज्ञैरतः स्याद्गणितेन गम्यः” सि० शि० उक्ते
६ क्षेत्रभेदे ७ मण्डले न० मेदि० ८ ज्योतिषोक्ते-
ग्रहयोगभेदे पु० । “ग्रहाणामेकस्मिन् यदि
भवति षण्णां निवसतिस्तदा गोलोयोग, प्रलयपद-
मिन्द्रोऽपि लभते । भवेल्लोको रक्षः, परिहरतिं पुत्रञ्च
जननी नृपाणां नाशः स्यात् ज्वलति वसुधा शुष्यति
नदी” प्रश्नकौमुदी “सप्त ग्रहा यदैकस्था गोलयोग-
स्तदा भवेत् । दुर्भिक्ष्यं राष्ट्रपीड़ा च तस्मिन् काले
नृपक्षयः” मयूरचित्रकम् । “एकादिगृहोपेतैरुक्तान्
योगान् विहायसंख्याख्यान् । गोलयुकशूलकेदार
पाशदामाख्यवीणाः स्युः । दुःखितदरिद्रघातुककृषि-
कर दुःशील पशुपनिपुणानाम् । जन्म क्रमेण दुःखिनः
परभाग्यैः सर्व एवैते” दीपिका ।

गोलक पु० गुड--ण्वुल् डस्य लः । १ मणिके अलिञ्जरे (जाला)

२ गुड़े च हेमच० । ३ गन्धरसे रत्नमाला ३ कलाये (मटर)
ख्याते शब्दच० तस्य गोलाकृतित्वात् तथात्वम् । गोल +
स्वार्थे क । ४ गोलशब्दार्थे ५ पिण्डे च “तेजसां गोलकः
सूर्य्यः ग्रहर्क्षाण्यम्बुगोलकाः । प्रभावन्तोहि दृश्यन्ते
सूर्य्यरश्मिप्रदोपिताः” सू० सि० । ६ गोलोके न० “यद्रूपं
गोलकं धाम तद्रूपं नास्ति मामके” तन्त्रसा० । जारज-
गोलकस्य संस्कारार्हता कुण्डशब्दे २०८७ पृ० उक्ता ।
७ इन्द्रियाधिष्ठानभेदे न० । चक्षुर्गोलकम् ।

गोलक्षण न० ६ त० । गोः शुभाशुभसूचके चिह्नभेदे वृ०

स० तल्लक्षणाद्युक्तं यथा
“पराशरः प्राह वृहद्रथाय गोलक्षणं यत् क्रियते
ततोऽयम् । मया समासः शुभलक्षणास्ता सर्वास्तथा-
प्यागमतो ऽभिधास्ये । सास्राबिलरूक्षाक्ष्यो मूषक
नयनाश्च न शुभदा गावः । प्रचलच्चिपिटविषाणाः
करटाः खरसदृशवर्णाः । दशसप्तचतुर्दन्त्यः प्रलम्ब
मुण्डानना विनतपृष्ठाः । ह्रस्वस्थूलग्रीवा यवमध्या
दारितखुराश्च । श्यावातिदीर्घजिह्वागुल्फेरतितनु-
भिरतिवृहद्भिर्वा । अतिककुदाः कृशदेहा नेष्टा
हीनाधिकाङ्ग्यश्च । वृषभोऽप्येवं स्थुलातिलम्ब-
पृष्ठ २७१९
वृषणः सिराततक्रोड़ः । स्थूलसिराचितगण्डस्त्रि-
स्थानं मेहते यश्च । मार्जाराक्षः कपिलः करटो
वा न शुभदो द्विजस्येष्टः । कृष्णोष्ठतालुजिह्वः श्वसनो
यूथस्य घातकरः । स्थूलशकृष्मणिशृङ्गः सितोदरः
कृष्णसारवर्णश्च । गृहजातोऽपि त्याज्यो यूथविना-
शावहो वृषभः । श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो
विड़ाल्यक्षः । विप्राणामपि न शुभं करोति वृषभः
परिगृहीतः । ये चोद्धरन्ति पादान् पङ्कादिव योजिताः
कृशग्रीवाः । कातरनयना हीनाश्च पृष्ठतस्ते न
भारसहाः । मृदुसंहततास्वोष्ठास्तनुस्फिजस्ताम्रतालुजिह्वाश्च ।
तनुह्रस्वीञ्चश्रवणाः सुकुक्षयः स्पष्टजङ्घाश्च । आताम्र
संहतखुरा व्यूढोरस्का वृहत्ककुदयुक्ताः । स्निग्ध
श्लक्ष्णतनुत्वग्रोमाणस्ताम्रतनुशृङ्गाः । तनुभूस्पृग्बालधयो
रक्तान्तविलोचना महोच्छासाः । सिंहस्कन्धास्तन्वल्प
कम्बलाः पूजिताः सुगताः । वामावर्तैर्वामे दक्षिणपार्श्वे
च दक्षिणावर्त्तैः । शुभदा भवन्त्यनडुहो जङ्घाभिश्चै-
णकनिभाभिः । वैदूर्य्यमल्लिकाबुद्बुदेक्षणाः स्थूलनेत्र-
वर्माणः । पार्ष्णिभिरस्फुटिताभिः शस्ताः सर्वेऽपि
भारवहाः । घ्राणोद्देशे शवलो मार्जारमुखः सितश्च
दक्षिणतः । कमलोत्पलताक्षाभः सुबालधिर्वाजितुल्य
जवः । लम्बैर्वृषणैर्मेषोदरश्च सङ्क्षिप्तवङ्क्षणक्रोड़ः ।
ज्ञेयो भाराध्वसहो जवेऽश्वतुल्यश्च शस्तफलः ।
सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महावक्त्रः । हंसो-
नाम शुमफलो यूथस्य विवर्धनः प्रोक्तः । भूस्पृग्बाल-
धिराताम्रवङ्क्षणो रक्तदृक् ककुद्मी च । कल्माषश्च
स्वामिनमचिरात् कुरुते पतिं लक्ष्म्याः । यो वा
सितैकचरणो यथेष्टवर्णश्च सोऽपि शस्तफलः । मिश्र-
फलोऽपि ग्राह्यो यदि नैकान्तप्रशस्तोऽस्ति” ६१ अ० ।

गोलत्तिका स्त्री गवि भूमौ लत्तिकेव । वनचरपशुस्त्रीभदे

“रोहित् कण्डणाची गोलत्तिका तेऽप्सरसाम्” यजु०
२४ । ३७ । “रोहित् ऋष्यः, कुण्डृणाची, वनत्तरी गोलत्ति
कापि” वेददी० ।

गोलन्द पु० ऋषिभेदे तस्यापत्यं गर्गा० यञ् । गौलन्द तदपत्ये पु० स्त्री ।

गोलयन्त्र न० सि० शि० उक्ते यन्त्रभेदे ।

“अपवृत्तगरविचिह्न क्षितिजे धृत्वा कुजेन संसक्ते ।
नाडोवृत्ते विन्दुं कृत्वा धृत्वाथ जलसमं क्षितिजम् ।
रविचिह्नस्य च्छाया पतति कुमध्ये यथा तथा विधते ।
उडुगोले कुजविन्द्वोर्मध्ये नाड्यो द्युजाताः स्युः” ।
“यथोक्तविधिना खगोलान्तर्भगोलं वद्ध्वा तत्र क्रान्तिवृत्ते
मेषादेरारभ्य रविभुक्तं राशिभागाद्यं दत्त्वा तदग्रे
तच्चिह्नं तदपवृत्तग--रविचिह्न मुच्यते । भगोलं चालयित्वा-
रविचिह्नं क्षितिजे धार्य्यम् । तथा धृते सति क्षितिजं
प्राच्यां विषुवन्मण्डले यत्र लग्नं तत्र खटिकया
विन्दुः कार्य्यः । ततः क्षितिजवृत्तं जलसमं यथा भवति
तथा गोलयन्त्रं स्थिरं कृत्वा भगोलस्तथा चाल्यो यथा
रविचिह्नस्य च्छाया भूगर्भे पतति । तथा कृते सति
विषुवद्वृत्ते क्षितिजविन्द्वोर्मध्ये यावत्यो घटिका
स्तावत्यस्तस्मिन् काले दिनगता ज्ञेयाः । अपवृत्ते
मेषादेरारभ्य प्राक् क्षितिजपर्य्यन्तं यद्राशिभागाद्यं
तल्लग्नं ज्ञेयम्” प्रमिताक्षरा ।

गोलवण न० गवे देयं परिमितं लवणम् । याबद्गवे लवणं

दीयते तावन्मिते लवणे । “गाधलवणयोः” पा० प्रमाणे
गम्ये एतयोः परतः पूर्वं तत्पुरुषे प्रकृतिस्वरता ।

गोला स्त्री गां बहुभूमिम् आधारत्वेन लाति ला--क ।

१ गोदावरीनद्याम् । गां वाचं लाति । २ सख्या, ३ कुनट्याम् ।
गां दीप्तिं जल बा लाति । ४ पत्राञ्जने, ५ सणिके,
६ मण्डले, ७ वालक्रीडनके ८ दुर्गायाञ्च मेदि० ।

गोलाक्ष पु० ऋषिभेदे तस्य गोत्रापत्यम् अश्वा० फञ् ।

गौलाक्षायण तद्गोत्रापत्ये पु० स्त्री ।

गोलाङ्गूल पु० स्त्री गोर्लाङ्गूलमिव लाङ्गूलमस्य । १ वानर-

भेदे त्रिका० सच कश्यपपत्न्याः क्रोधायाः कन्यायांहरि-
नाम्न्यां जातः यथाह भा० आ० ६६ अ० “नव क्रोधवशा
नारीः प्रजज्ञे क्रोधसम्भवा । मृगी च मृगमन्दा च
हरी भद्रजनो अपि” इत्युपक्रमे “हर्य्याश्च हरयोऽपत्यं
वानराश्च तरस्विनः । गोलाङ्गुलांश्च भद्रं ते हर्य्याः
षुत्रान् प्रचक्षते” । २ कृष्णवानरे राजनि० । तल्लक्षणञ्चं
काशी ख० ३ अ० । “गोलाङ्गूला रक्तमुखा नीलाङ्गा
यूथनायकाः ।”

गोलाध्याय पु० गोलस्वरूंपादिप्रतिपादके भास्करीये ग्रन्थभेदे ।

गोलास पु० गां भूमिं लासयति प्रकाशयति लस--णिच् अण्

उप० स० । शिलीन्ध्रे हारा० ।

गोलिह पु० गोभिर्लिह्यते लिह--घञर्थे क । १ छत्रिकायां २ घण्टा-

पाटलौ (घण्टापारुलि) च जटा० ।

गोलीढ पु० गोभिर्लिह्यते लिह--क्त । घण्टापाटलौ (घण्टापारुलि) अमरः ।

पृष्ठ २७२०

गोलोक पु० वैकुण्ठोर्द्धस्थे स्थानभेदे तत्स्थानमानादि व्रह्मवै०

पु० उक्तं यथा
“निराधारश्च वैकुण्ठो ब्रह्माण्डानां परोवरः । तत्पर-
श्चापि गोलोकः पञ्चाशत्कोटियोजनात् । ऊर्द्धे
निराश्रयश्चापि रत्नसारविनिर्म्मितः । सप्तद्वारः सप्त-
सारः परिखासप्तसंयुतः । लक्षप्राकारयुक्तश्च नद्या
विरजया युतः । वेष्टितो रत्नशैलेन शतशृङ्गेण
चारुणा । योजनायुतमानञ्च यस्यैकं शृङ्गमुज्ज्वलम् ।
शतकोटियोजनश्च शैलौच्छ्रित एव च । दैर्घ्यं तस्य
शतगुणं प्रस्थे च लक्षयोजनम् । योजनायुत
विस्तीर्णस्तत्रैव रासमण्डलः । अमूल्यरत्ननिर्म्माणो
वर्त्तुलश्चन्द्रविम्बवत् । पारिजातवनेनैव पुष्पितेन च
वेष्टितः । कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन च ।
नानाविधैः पुष्पवृक्षैः पुष्पितेन च चारुणा । त्रिकोटि
रत्नाभरणैर्गोपीलक्षैश्च रक्षितः । रत्नप्रदीपयुक्तश्च
रत्नतल्पसमन्वितः । नानाभोगसमायुक्तो मधुवापी-
शतैर्वृतः । पीयूषवापीयुक्तश्च कामभोगसमन्वितः ।
गोलोकगृहसंख्यानं वर्णनं वा विशारदः । न कोपि
वेद विद्वान् वा वेदविद्वान् व्रजेश्वर!” ।

गोलोमिका स्त्री गोः लोमेव लोमास्य ङीप् ततः

स्वार्थे के अणो ह्रस्वः । (पाथुरी) (गोधूमा) इति
च ख्यातायां १ प्रस्तरिण्याम् । २ क्रोष्टुकपुच्छायाञ्च ।
राजनि० ।

गोलोमी स्त्री गोर्लोमेव लोम लोमसदृशं दलादिकमस्या

ङीप् । १ श्वेतदूर्वायाम् । गोलोमेव जाता अण् ङीप् ।
२ बचायाम् । गवा वाचा लोमयति अनुकूलयति
लोमन् + नामधातु--अच् गौरा० ङीष् । ३ वेश्यायां
हेमच० । ३ गोलोमिकावृक्षे राजनि० ।

गोवतस पु० ६ त० । गवां वत्से तन्नामद्वादशीव्रतम् व्रत

शब्दे दृश्यम् ।

गोवत्सादिन् पु० गोवत्समत्ति अद--णिनि६ त० । वृके (नेकडेवाव) राजनि० ।

गोवन्दनी स्त्री गवि भूमौ वन्द्यते वन्द--कर्म्मणि ल्युट्

ङीप् । १ प्रियङ्गौ, अमरः २ पीतदण्डोत्पले रत्नमाला ।

गोवर न० गोषु व्रियते वृ--बा० अ । “गोष्ठान्तर्गोखुरक्षुण्णशुष्क-

चूर्ण्णितगोमयम् । गोवरं तत्समाख्यातं वरिष्ठं
रससाधने” भावप्र० उक्ते शुष्कगोमयचूर्ण्णे(गेटा)

गोवर्द्धन न० वृध--णिच् भावे ल्युट् ६ त० । १ गवां वर्द्धने ।

करणे ल्युट् । २ गिरियज्ञभेदे तत्प्रकारो गोयज्ञशब्दे दृश्यः
वृधि--णिच्--कर्त्तरि ल्यु ६ त० । ३ वृन्दावनस्थे पर्व्वत-
भेदे पु० तस्य पूजाकालो हरिभक्तिविलासे १६ वि० उक्ते
यथा “प्रातर्गोवर्द्धनं पूज्य द्यूतञ्चैव समाचरेत् ।
भूषणीयास्तथा गावः पूज्याश्च दोहवाहनाः । श्री०
कृष्णदासवर्य्योऽयं श्रीगोवर्द्धनभूधरः । शुक्लप्रतिपदि प्रातः
कार्त्तिकेऽर्च्च्योऽत्र वैष्णवैः” । “प्रातर्गोवर्द्धनं पूज्य
रात्रौ जागरणं चरेत्” इति क्वचित् पाठः । तस्मा-
त्तदिदं कर्म गोवर्द्धनप्राधान्येन गोप्रधान्येन च ख्यात-
मप्येकमेव ज्ञेयम् । तत्र दिननिर्णयमाह देवलः
“प्रतिपद्दर्शसंयोगे क्रीडनैस्तु गवां मतम् । परविद्धान्तु
यः कुर्य्यात् पुत्त्रदारधनक्षयः” । निर्णयामृतधृतं पुरा-
णान्तरवचनम् “या कुहूः प्रतिपन्मिश्रा तत्र गाः
पूजयेन्नृप! । पूजामात्रेण वर्द्धन्ते प्रजा गावो
महीपते! । ततः प्रातर्गोवर्द्धनं पूज्येति पूर्वाह्णतात्पर्य्यके
द्वितीयासर्गंस्तु सर्वथा निषिद्धः तद्यथा “नन्दायां
दर्शने रक्षाबलिदानदशासु च । भद्रायां गोकुलक्रीड़ा
देशनाशाय जायते” । पुराणसमुच्चये तु सम्भावितचन्द्रो-
दयो द्वितीयासंयोग एव निषिध्यते “गवां क्रीडा दिने
यत्र रात्रौ दृश्येत चन्द्रमाः । सोमोराजा पशून् हन्ति
सुरभी पूजकांस्तथा” । तदुदयसम्भावनञ्च निर्णयामृते
निर्णीतं यथा “प्रतिपद्यापराह्णिकत्रिमूहूर्त्तव्यापिन्यां
द्वितीयायां चन्द्रदर्शनं सम्भाव्यते तदुक्तमग्न्याधान-
विषये वृद्धशातातपेन” द्वितीया त्रिमुहूर्त्ता चेत् प्रति-
पद्यापराह्णिकी । अग्न्याधानञ्चतुर्द्दश्यां परतः
सोमदर्शनादिति” । अपराह्णश्च पञ्चधा विभक्तस्याह्नश्चतुर्थोभागः
ततश्च यत्र प्रतिपदि पराह्णत्रिमूहूर्त्तव्यापिनी द्वितीया
तत्र चन्द्रदर्शनसम्भावनमिति । अन्यदा तूत्तरैव प्रतिपत्तत्र
गृहीता तथैवोक्तं पुराणसमुच्चये “वर्द्धमानतिथौ नन्दा
यदा सार्द्धत्रियामिका । द्वितीया वृद्धिगामित्वादुत्तरा
तत्र चोच्यते” । किञ्च । यदा पूर्णप्रतिपत् परत्र निष्-
क्रामति तदाप्युत्तरैव कार्य्या यथोक्तं भविष्योत्तरे “यथा
द्वादशभिर्मासैर्मासो वृद्धो मलिम्लुचः । तथैवाहोरात्र-
वृद्ध्या तिथिः प्रोक्तो मलिम्लुचः । यथा मलिम्लुचः पूर्व-
स्त्याज्योग्राह्य स्तथा परः । त्याज्या तिथिस्तथा पूर्वा ग्राह्या
चैव तथोत्तरेति” निर्णयामृतमतम् किन्तु वञ्जुलीन्यायेन
पूर्वैव मन्तुं शक्यते । तद्वदत्रापि देवलादिवचनप्रामाण्य-
मस्तीति । अथ गोवर्द्धनपूजाविधिः । तत्रैव पाद्मे
“मथुरायास्तथान्यत्र कृत्वा गोवर्द्धनं गिरिम् । गोमयेन
महास्थूलं तत्र पूज्यो गिरिर्यथा । मथुरायां तथा
साक्षात् कृत्वा चैव प्रदक्षिणम् । वैष्णवं धाम संप्राप्य
पृष्ठ २७२१
मोदते हरिसन्निधौ” । पूजामन्त्रः । “गोवर्द्धन! धराधार!
गोकुलत्राणकारक! । विष्णुवाहुकृतोच्छ्रायो गवां कोटि
प्रदो भव” गोपूजामन्त्रः स्कान्दे तत्रैव “लक्ष्मी-
र्या लोकपालानां धेनुरूपेण संस्थिता । घृतं वहति
यज्ञार्थ यमपाशं व्यपोहतु । अग्रतः सन्तु मे गावो
गावो मे सन्तु पृष्ठतः । गावो मे पार्श्वतः सन्तु गवां
मध्ये वसाम्यहम्” । अथ तत्र गोक्रीड़ा तत्रैव “क्रोधा-
पयेद्धावयेच्च गोमहिष्यादिकं ततः । वृषान् कर्षापयेद्गोपै-
रुक्तिप्रत्युक्तिवादनात्” । पाद्मे च तत्रैव “महि-
षादेस्तथा भूषा क्रीडनं वारणन्तथा” । तन्माहात्म्यञ्च
तत्रैव “एवं गोवर्द्धनो गाश्च पूजनीया विधानतः ।
गोवर्द्धनमखोरम्यः कृष्णसन्तोषकारकेः” । “गोवर्द्धनस्या-
कृतिरन्वकारि” माघः ।

गोवर्द्धनधर पु० गोवर्द्धनं वृन्दावनस्थपर्वतभेदं धरति

धर--अच् ६ त० । श्रीकृष्णे नन्दनन्दने तस्य तद्धारण-
कथा हरि० ७५ अ० यथा
“गवां तत् कदनं दृष्ट्वा दुर्द्दिनागमजं महत् । गोपांश्चा
सन्ननिधनान् कृष्णः कोपं समादधे । स चिन्तयित्वा
संरब्धो दृष्टोपायो मयेति च । आत्मानमात्मना वाक्यमिद
मूचे प्रियंवदः । अथाहमिममुत्पाढ्य सकाननवनं
गिरिम् । कल्पयेयं गवां स्थानं वर्षत्राणाय दुर्द्धरम् ।
अयं धृतो मया शैलः पृथ्वीगृहमिवापरम् । त्रास्यन्ते
सव्रजा गावो मद्वश्यञ्च भविष्यति । एवं सञ्चितयित्वा तु
कृष्णः सत्यपराक्रमः । बाहोर्बलं दर्शयिष्यन् समीपे तं
महीधरम् । दोर्भ्यामुत्पाटयामास कृष्णो गिरिरिवा-
परः । स धृतः सङ्गतो मेधैर्गिरिः सव्येन पाणिना ।
गृहभावङ्गतस्तत्र गृहाकारेण वर्ष्मणा” । “धृतं
गोवर्द्धनं दृष्ट्वा परित्रातञ्च गोकुलम् । कृष्णस्य दर्शनं
शक्रो रोचयामास विस्मितः” हरि० ७६ अ० ।

गोवर्द्धनधारिन् पु० गोवर्द्धनं नगं धारयति धारि--णिनि ।

नन्दनन्दने श्रीकृष्णे ।

गोवशा स्त्री वशा बन्ध्या गौः जात्या समासे परनि० । बन्ध्यायां गवि ।

गोवाट न० ६ त० । गोशालायां गोष्ठे “सार्गलद्वारगोवाटं

मध्ये गोस्थानसङ्कुलम्” हरिव० ६१ । “गोवाटेषु च ये
वृक्षाः परिवृत्तार्गलेषु च । सर्ब्बे गोष्ठाग्निषु गताः
क्षयमक्षयवर्चसः हरिब० ६५ अ० ।

गोवास पु० बस आधारे घञ् । ६ त० । गवां वासस्थाने

गोष्ठे “निवेशनमथा जग्मुर्जरासन्ध्यस्य धीमतः ।
गोवासमिव वीक्षन्तः सिंहा हैमवता यथा” भा०
स० २० अ० ।

गोवासदासन पु० प्राच्ये देशभेदे तत्र भवः “एङ् प्राचां

देशे” पा० एङादेर्वृद्धसंज्ञत्वात् छ । गोवासदासनीय तत्र
मवे त्रि० तद्राजे पु० “गोवासदासनीयानां वशातीनाञ्च
भारत! । प्राच्यानां वाटधानानां भोजानाञ्चाभिमानि-
नाम्” भा० व० २३ अ० ।

गोवासन पु० गां वासयति वस--णिच्--ल्यु ६ त० । गवां

वासयितरि ब्राह्मणभेदे । “गोवासना ब्राह्मणाश्च
दासनीयाश्च सर्वतः । प्रीत्यर्थं ते महाराज । धर्म्मराज्ञो
महात्मनः” भा० स० ५१ अ० ।

गोविकर्त्त पु० गां विकृन्तति वि + कृत--अण् उप० स० ।

१ गोघातके २ कर्षके हालिके च । “रौद्रोयजमानस्या-
क्षावापगोविकर्त्तगृहेभ्यो गवेधुकाम्” कात्या० श्रौ०
१५ । ३ । १२ । अप्रहतां गां भूमिं विकृन्तति गोवि-
कर्त्तः कर्षुकः गोहिंसको व्याधो वा । “अक्षावापस्य
गृहेभ्यो गोविकर्त्तस्य च गवेधुकां सम्भृत्य” शत०
ब्रा० ५ । ३ । १ । १० । “गोविकर्त्तः मृगयासहायभूतो
गोहिंसको व्याधः” भा० ।

गोविकर्त्तृ पु० त्रि० गां विकृन्तति वि + कृत--तृच् ६ त० ।

पाकाद्यर्थं गोघातके । “आरालिको गोविकर्त्ता
सूपकर्त्ता नियोधकः । आसं युंधिष्ठिरस्याहम्” भा० वि०
२ अ० । “नियोधकः बाहुयुद्धकारी ।

गोवितत पु० गावो वितता अत्र । गोभूयिष्ठे अश्वमेधयज्ञे

“याजयामास तं कण्वो विधिवद्भूरिदक्षिणम् ।
श्रीमान् गोविततं नाम वाजिमेधमवाप सः” भा०
आ० ७४ अ० । गोविनतोऽप्यत्र । “गोविनतेन शतानीकः”
शत० ब्रा० १३ । ५ । ४१ । ९ । “आदाय सह्वा दशमास्यमश्वं
शतानीको गोविनतेन” शत० ब्रा० १३ । ५ । ४ । २ । “गोविनतो
नाम वक्ष्यमाणस्तोमविशेषोऽश्वमेधः” भा० । तत्स्तोमभेदाः ।
“चतुर्विंशा पवमानाः, त्रिवृदभ्यावर्तं चतुश्चत्वारिंशाः
पवमाना एकविंशान्याज्यानि त्रिणवान्युक्थान्थेक-
विंशानि पृष्ठानि षट्त्रिंशाः पवमानास्त्रयस्त्रिंशमभ्या-
वर्तमग्निष्टोमसामादेकविंशान्युक्थान्येकविंशः षोड़शी
पञ्चदशी रात्रिस्त्रिवृत्सन्धिः” ता० व्रा० उक्ताः ।

गोविदांपति पु० गां वेदवाणीं विदन्ति गोविदः वेदज्ञास्तेषां

पतिः अलुक्स० । परमेश्वरे “अनिरुद्धः सुरानन्दो
गोविन्दो गोविदांपतिः” विष्णुस० ।
पृष्ठ २७२२

गोविन्द पु० गां वेदमयीं वाणीं गां भुवं धेनुं स्वर्गं वा

विन्दति “गवादिषु संज्ञायाम्” पा० श, ६ त० । विष्णौ वराह-
रूपेण भुव ऐश्वर्य्यप्राप्तेः इन्द्रेण स्वर्गस्य निवेदनात् मत्स्य-
रूपेण वेदस्योद्धारणात् गोभिर्वेदान्तवाक्यैः विद्यते इति वा
तस्य तथात्वम् “गोभिरेव यतो वेद्यो गोविन्दः समुदाहृतः”
विष्णु सहस्र० भाष्यधृतवाक्यम्” “नष्टां तु धरणीं
पूर्व्वमविन्दत् यत् गुहागताम् । गोविन्द इति तेनाहं
वेदैर्वाग्भिरभिष्टुतः” भा० शा० ३४४ अ० । “गौरेषा भवतो
वाणी ताञ्च वेदयते भवान् । गोविन्दस्तु ततोदेवमुनिभिः
कथ्यते भवान् ।” तद्भाष्यधृतहरिव० वाक्यम् । “अहं
किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः । गोविन्द इति
लोकास्त्वां स्तोष्यन्ति भुबि शाश्वतम्” हरिव० ७६ अ० ।
गोभिश्च गोविन्दस्याभिषेककथा हरिव० ७६ अ० यथा
“ततः शक्रस्तु तान् गृह्य घटान् दिव्यपयोधरान् ।
अभिषेकेण गोविन्दं योजयामास योगबित् । दृष्ट्वाभि-
षेच्यमानं च गावस्तम् सह यूथपैः । स्तनैः प्रस्नवसंयुक्तैः
सिषिचुः कृष्णमव्ययम् ।” अभिषिक्तं तु तं गोभिः
शक्रो गोविन्दमव्ययम्” इति च।

गोविन्दद्वादशी स्त्री गोविन्दप्रिया द्वादशी । फाल्गुन

शुक्लद्वादश्याम् तत्स्वरूपविधानादि ब्रह्म पु० यथा
“फाल्गुनामलपक्षे तु पुष्यर्क्षे द्वादशी यदि । गोविन्द
द्वादशी नाम महापातकनाशिनी । तस्यामुपोष्य
विधिवन्नरः संक्षीणकल्मषः । प्राप्नोत्यनुत्तमां सिद्धिं
पुनरावृत्तिदुर्लभामिति” । “आमर्दकी द्वादशीति लोके
ख्यातेयमेव हि । यत्र आमर्द्दकीपूजा व्रतमस्यां
विशेषतः” । तदुक्तं व्राह्मे पापनाशिनीमाहात्म्य
प्रसङ्गे “फाल्गुने तु विशेषेण विशेषः कथितो नृप!
आमर्दक्याव्रतं पुण्यं विष्णुलोकप्रदं नृणाम्” । प्रभास
खण्डे च देवीमहेश संवादे “फाल्गुनस्य सिते
पक्षे एकादश्यामुपोषितः । स्नात्वा नद्यां तडागे वा
वाप्यां कूपे गृहेऽपि वा । गत्वा गिरौ वने वापि यत्र
सा प्राप्यते शिवा । क्षीरोदे मथ्यमाने तु यदा वृक्षः
समुत्थितः । आमर्दाच्चैव दैत्यानां तेन साऽऽमर्दकी
स्मृता । शिवा लक्ष्मीः स्मृतो वृक्षः सेव्यते सुरसत्तमैः ।
देवैर्व्रह्मादिभिः सर्वैर्वृक्षोऽसौ वैष्णवः स्मृतः । तंत्र
गत्वा हरिः पूज्यो वृक्षमूलेऽथ वा शिवा । पूज्या पुष्पैः
शुभैरात्रौ कार्य्यं जागरणं हरेः । करकं जलपूर्णन्तु
कर्त्तव्य पात्रसंयुतम् । हविष्यान्नन्तु कर्त्तव्यं दीपः
कार्य्यो विधानतः । एवं जागरणं कार्य्यं कथाश्रवण
तत्परैः । मुच्यन्ते देहिनः पापैः कलिजैः कायसम्भवैः ।
देहान्ते च नराः सर्वे पूज्यन्ते हरिमन्दिरे” ।

गोविष् स्त्री ६ त० । गोमये अमरः ।

गोविषाण न० ६ त० । गोः शृङ्गे (सिग्) “अनर्थक

मनायुष्यं गोविषाणस्य भक्षणम् । दन्ताश्च परिमृज्यन्ते
रसश्च न च लभ्यते” भा० शा० १४० अ० । “नैपालं वा
गोविषाणोद्भवं वा” सुश्रुतः । गोविषाणं साधनतयाऽ-
स्त्यस्य ठन् । गोविषाणिक गोविषाणनिर्मिते वाद्यभेदे
पु० । “पटहान् झर्झरांश्चैव क्रकचान् गोविषाणिकान्”
भा० शल्य० ४७ अ० ।

गोविष्ठा स्त्री ६ त० । गोमये राजनि० ।

गोवीथि स्त्री गगनस्थे नक्षत्रभेदत्रयरूपे मार्गभेदे । “नाग-

गजैरावतवृषभगोजरद्गवमृगाजदहनाख्याः । अश्विन्याद्याः
कैश्चित्त्रिभाः क्रमाद्वीथयः कथिताः” । “पैतामहात्
त्रिभास्तिस्रो गोवीथ्यामश्विन्यः पौष्णं द्वे चापि भद्रपदे”
वृ० स० ९ अ० ।

गोवीर्य्य न० ६ त० । गवां वीर्य्ये “भृतावनिश्चितायां तु

दशमं भागमाप्नुयुः । लाभगोवीर्य्यशस्यानां बणिग्
गोपकृषीवलाः” नारद स० ।

गोवृन्द न० ६ त० । गोसमूहे हला० ।

गोवृन्दारक न० गौर्वृन्दारकमिव उपमितसमासे व्याध्रादे

राकृतिगणत्वेन सिद्धेऽपि “वृन्दारकनागकुञ्जरैः पूज्य-
मानम्” पा० सामान्यप्रयोगेऽपि अस्य समासार्थं
पुनर्ग्रहणभिति सि० कौ० । श्रेष्ठे गवि ।

गोवृष पु० गवि वर्षति रेतः वृष--क । श्रेष्ठे वृषे । “मणिः

सूत्र इव प्रोतो नस्योत इव गोवृषः” भा० व० ३० अ० ।
“गोवृषं वत्सकं वापि यथेच्छं विनिवेदयेत्” आ० त०
भविष्यपु० । गोवृषं श्रेष्ठवृषम्” रत्नाकरः । “भगवान्
गोवृषध्वजः” भा० अनु०८४ अ० । “ग्राम्याणां गोवृषश्चासि
भवां ल्लोकप्रपूजितः” भा० आनु० १४ अ० ।
“मृगाणामथ शार्द्दूलं गोवृषन्तु गवामपि” हरिवंशे० ४ अ० ।
गौश्च वृषश्च तौ सादृश्येनास्त्यत्र अच् । सामान्यविशेष-
द्योतके गोवलीवर्द्दन्याये, गोवलीवर्दन्यायोऽप्यत्र

गोव्याघ्र न० गौश्च व्याघ्रश्च सदाविरोधित्वात् समाहा० द्व० ।

गोव्याघ्रसमाहारे ।

गोव्याधिन पु० गोत्रप्रवर्त्तके ऋषिभेदे प्रवराध्याये मूलं दृश्यम्

पृष्ठ २७२३

गोव्रज पु० ६ त० । १ गोसमूहे । गाबोत्रजन्त्यत्र व्रज--आधारे

क । २ गोगतिस्थाने ३ गोष्ठे च पु० “न मूत्रं पथि
कुर्व्वीत न भस्मनि न गोव्रजे” “नाधीयीत स्मशानान्ते
ग्रामान्ते गोव्रजेऽपि वा” । “कृतवाप्रनो निवसेद्
ग्रामान्ते गोव्रजेऽपि वा” मनुः ।

गोव्रत न० गोहत्यानिमित्तं गोषु व्रतम् । १ गोहत्यानिमित्ते

गोषु व्रतभेदे तच्च व्रतं विष्णुनोक्तं यथा ।
“मासमेकं कृतवापनो गवानुगमनं कुर्य्यात् आसीना-
स्वासीत स्थितासु स्थितः स्यात् अवसन्नाञ्चोद्धरेत्
भयेभ्यश्च रक्षेत् तासां शीतादित्राणमकृत्वा नात्मनः कुर्य्यात्
गोमूत्रेण स्नायात् गौरसैश्च वर्त्तेत एतद् गोव्रतं
गोबधे कुर्य्यात्” पराशरस्तु सापवादं तत्र विशेषमाह
“गवां संरक्षणार्थाय न दुष्येद्रोधबन्धयोः । तद्बधन्तु
न तं विद्यात् कामाकामकृतन्तथा । अङ्गुष्ठमात्र-
स्थूलोवा बाहुमात्रः प्रमाणतः । आर्द्रस्तु सपलाशश्च
दण्डैत्यभिधीयते । दण्डादूर्द्ध्वं यदन्येन प्रहरेद्वा
निपातयेत् । प्रायश्चित्तं चरेत् प्रोक्तं द्विगुणं गोब्र-
तञ्चरेत् । रोधबन्धनयोक्त्राणि धातनञ्च चतुर्विधम् ।
एकपादञ्चरेद्रोधे द्विपादं बन्धने चरेत् । योक्त्रेषु
पादहीनं स्याच्चरेत् सर्वं निपातने । गोचारे च गृहे
वापि दुर्गेष्वपि समेष्वपि । नदीष्वपि समुद्रेषु खाते-
ऽप्यथ दरीमुखे । दग्धदेशे स्थिताः गावस्तम्भनाद्रोध
उच्यते । योक्त्रदामकडोरैश्च घण्टाभरणभूषणैः ।
गृहे वापि वने वापि बद्धा स्याद्गौर्मृता यदि ।
तदेव बन्धनं विद्यात् कामाकामकृतञ्च तत् । मृल्लेखे
शकटे पङ्क्तौ भारे वा पीडितोनरैः । गोपतिर्मृत्यु-
माप्नोति योक्त्रे भवति तद्बधः । मत्तः प्रमत्तौन्मत्तश्चे-
तनोवाप्यचेतनः । कामाकामकृतक्रोधाद्दण्डैर्हन्यादथो-
पलैः । प्रहता वा मृता वापि तद्धि हेतुर्निपातने ।
मूर्च्छितः पतितोवापि दण्डेनाभिहतः स तु । उत्थि
तस्तु यदा गच्छेत् पञ्च सप्त दशैव वा (पदानि) । ग्रामं वा
यदि गृह्णीयात्तोयं वापि पिबेद् यदि । पूर्वव्याध्युप-
सृष्टश्चेत् प्रायश्चित्तं न विद्यते । पिण्डस्थे पादमेकन्तु
द्वौ पादौ गर्भसम्मिते । पादोनं व्रतमुद्दिष्टं हत्वा
गर्भमचेतनम् । पादेऽङ्गरोमवपनं द्विपादे श्मश्रुणोऽपि च ।
त्रिपादे तु शिखावर्जं सशिखन्तु निपातने । पादे वस्त्रयुग-
ञ्चैब द्विपादे कांस्यभाजनम् । पादोने गोवृषं दद्याच्च-
तुर्थे गोद्वयं स्मृतम् । निष्पन्नसर्वगात्रन्तु दृश्यते वा
सचेतनम् । अङ्गप्रत्यङ्गसम्पन्ने द्विगुणं गाव्रतं चरेत् ।
पाषाणेनैव दण्डेन गावोयेनाभिघातिताः । शृङ्गभ
चरेत् पादं द्वौ पादौ तेन पातने । लाङ्गूले कृच्छ्रपा
दन्तु द्वौ पादावस्थिभञ्जने । त्रिपादञ्चैव कर्णे तु चरेत्
सर्वं निपातने । शृङ्गभङ्गेऽस्थिभङ्गे च कटिभङ्गे तथैव
च । यदि जीवति षण्मासान् प्रायश्चित्तं न विद्यते ।
व्रणभङ्गे च कर्त्तव्यः स्नेहाभ्यङ्गस्तु पाणिना ।
यवसश्चापहर्त्तव्योयावद्दृढ़बलोभवेत् । यावत्सम्पूर्णसर्वाङ्ग-
स्तावत्तं पोषयेन्नरः । गामेवं ब्राह्मणस्याग्रे नमस्कृत्य
विसर्जयेत् । यद्यसम्पूर्णसर्वाङ्गोहीनदेहोभवेत्तदा ।
गोघातकस्य तस्यार्द्धं प्रायश्चित्तं विनिर्द्दिशेत् । काष्ठलोष्ट्रक-
प्राषाणैः शस्त्रेणोपहतो बलात् । व्यापादयति यो गान्तु
तस्य शुद्धिं विनिर्दिशेत् । चरेत् सान्तपनं काष्ठे, प्राजा-
पत्यन्तु लोष्ट्रके । तप्तकृच्छ्रन्तु पाषाणे शस्त्रे चैवाति-
कृच्छ्रकम् । पञ्च सान्तपने गावः प्राजाप्रत्ये तथा त्रयः ।
तप्तकृच्छ्रे भवन्त्यष्टावतिकृच्छ्रे त्रयोदश । प्रमापणे प्रा-
णभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा
दद्यादित्यब्रवीन्मनुः । अन्यत्राङ्कनलक्ष्मभ्यां वाहने
दाहने तथा । सायं संयमनार्थन्तु न दुष्येद्रोधबन्धयोः ।
अतिदाहेऽतिवाहे च नासिकाभेदने तथा । नदीपर्व-
तसञ्चारे प्रायश्चित्तं बिनिर्द्दिशेत् । अतिदाहे चरेत्
पादं द्वौ पादौ वाहने चरेत् । नासिके पादहीनन्तु
चरेत् सर्वं निपातने । दहनाच्च बिपद्येत अबद्धो-
वापि यन्त्रितः । उक्तं पराशरेणैव ह्येकपादं
यथाविधि । रोधबन्धनयोक्त्रञ्च भारः प्रहरणं तथा ।
दुर्गप्रतरयोक्त्रञ्च निमित्तानि बधस्य षट् । बन्धपाश-
सुगुप्ताङ्गोम्रियते यदि गोपशुः । भवने तस्य नाशस्य
पापे कृच्छ्रार्द्धमर्हति । न नारिकेलैर्नच शाणबालैर्न-
चापिं मौञ्जैर्नच बद्धशृङ्खलैः । एतैस्तु गावोन निबन्ध-
नीयाबद्ध्वा तु तिष्ठेत् परशुं गृहीत्वा । कुशैः काशैश्च
बध्नीयाद्गोपशुं दक्षिणामुखम् । पाशलग्नाग्निदग्धेषु
प्रायश्चित्तं न विद्यते । यदि तत्र भवेत् मृत्युः प्रायश्चित्तं
कथं भवेत्? । जपित्वा पावनीं देवीं मुच्यते तत्र किल्वि-
षात् । प्रेरयन् कूपवापीषु वृक्षच्छेदेषु पातयन् । गवाश-
नेषु विक्रीणंस्ततः प्राप्नोति गोबधम् । आराधितस्तु यः
कश्चिद्भिन्नकक्षोयदा भवेत् । श्रवणं हृदयं भिन्नं मग्नोवा
कूपसङ्कटे । कूपादुत्क्रमणे चैव भग्नोवा ग्रीवापादयोः ।
स एवं म्रियते, तत्र त्रीन् पादांस्तु समाचरेत् । कूपखाते
तटीबन्धे नदीबन्धे प्रपासु च । पानीयेषु विपन्नानां पाय-
पृष्ठ २७२४
श्चित्तं न विद्यते । कूपखाते तटीखाते दीर्घखाते तथैव च ।
अन्येषु धर्मखातेषु प्रायश्चित्तं न विद्यते । वेश्मद्वार
निवासेषु योनरः खातमिच्छति । स्वकार्य्यगृहखातेषु
प्रायश्चित्तं विनिर्द्दिशेत् । निशि बन्धनिरुद्धेषु सर्पव्याघ्र-
हतेषु च । अग्निविद्युद्विपन्नानां प्रायश्चित्तं न विद्यते ।
ग्रामघाते शरौघेण वेश्मबन्धनिपातने । अतिवृष्टिहता-
नाञ्च प्रायश्चित्तं न विद्यते । संग्रामे प्रहतानाञ्च ये
दग्धा वेश्मकेषु च । दावाग्नौ ग्रामघाते वा प्रायश्चित्तं न
विद्यते । यन्त्रिता गौश्चिकित्सार्थं मूढगर्भविमोचने ।
यत्ने कृते विपद्येत प्रायश्चित्तं न विद्यते । व्यापन्नानां
बहूनाञ्च बन्धने रोधनेऽपि वा । भिषग्मिथ्योपचारे च
प्रायश्चित्तं विनिर्द्दिशेत् । गोवृषाणां विपत्तौ च यावन्तः
प्रेक्षकाजनाः । न वारयन्ति तां तेषां सर्वेषां पातकं भवेत् ।
एकोहतोयैर्बहुभिः समस्तैर्न ज्ञायते कस्य हतोऽभिथाता-
त् । दिव्येन तेषामुपलभ्य हन्ता निर्वर्त्तनीयोनृपमन्नि-
युक्तैः । एका चेद्बहुभिः क्वापि दैवाद्व्यापादिता भवेत् ।
पादं पादञ्च हत्यायाश्चरेयुस्तं पृथक् पृथक् । हतेषु रुधिरं
दृश्यं व्याधिग्रस्तः कृशोभवेत् । नाना मवति दृष्टेषु
एवमन्वेषणं भवेत् । मनुना चैवमेकेन सर्वशास्त्राणि
जानता । प्रायश्चित्तन्तु तेनोक्तं गोषु चान्द्रायणं चरेत् । केशानां
रक्षणार्थाय द्बिगुणं गोव्रतं चरेत् । द्विगुणे व्रतआदिष्टे
दक्षिणा द्विगुणा भवेत् । राजा वा राजपुत्रोवा ब्राह्म-
णोवो बहुश्रुतः । अकृत्वा वपनं तस्य प्रायश्चित्तं विनि-
र्दिशेत् । यस्य न द्विगुणं दानं केशश्च परिरक्षितः ।
तत्पापं तस्य तिष्ठेत वक्ता च नरकं व्रजेत । यत्कि-
ञ्चित् क्रियते पापं सवं केशेषु तिष्ठति । सर्वान् केशान्
समुद्धृत्य च्छेदयेदङ्गुलिद्वयम् । एवं नारीकुमारीणां
शिरसोमुण्डनं स्मृतम् । न स्त्रियाः केशवपनं न दूरे
शथनासनम् । न च गोष्ठेवसेद्रात्रौ न दिवा गाअनुव्रजेत् ।
नंदीषु सङ्गमे चैव अरण्येषु विशेषतः । न स्त्रीणामजिनं
वा सोव्रतमेवं समाचरेत् । त्रिसन्ध्य स्नानमित्युक्तं सुरा-
णामर्च्चनं तथा । बन्धुमध्ये व्रतं तासां कृच्छ्रचान्द्रायणा-
दिकम् । गृहेषु नियतं तिष्ठच्छ चिर्नियममाचरेत् । इह
योगाबधं कृत्वा प्रच्छादयितुमिच्छति । स याति नरकं घोरं
कालसूत्रमसंशयम् । विमुक्तानरकात्तस्मान्मर्त्त्यलाके प्रजा-
यते । क्लीवोदुःखी च कुष्ठी च सप्त जन्मानि वै नरः ।
तस्मात् प्रकाशयेत् पापं स्वधर्मं सततं चरेत् । स्त्रीबाल-
भृयगोविप्रेष्वतिकोपं विवर्जयेत” । अधिकं गोहत्याशब्द
दृश्यम् । गोहितं व्रतम् । २ गोसेवारूपे व्रते गोशब्दे
तत्परिचर्य्याप्रकरणे उदा० तत्प्रकारश्च तत्र दृश्यः ।

गोशकृत् न० ६ त० । गोमये जटा० । “उदकुम्भं सुमनसो

गोशकृन्मृत्तिकाः कुशान् । पयोघृतं वाऽऽमरणाद्गोशकृद्र-
समेव वा” मनुः ।

गोशर्य्य त्रि० शॄ--कर्त्तरि बा० यत् गौः शर्य्या शीर्ण्णा यस्य ।

शीर्णगौ शयौ” “याभिर्गोशर्य्यमावतम्” ऋ० ८ । ८२० ।
“गोशर्य्यः शयुः भा० ।

गोशाल(ला) स्त्री न० । गवां शाला “विभाषा सेनेत्यादिना”

वा क्लीवता । गवां शालायाम् । तत्रजातः एङादित्वे
प्राचां मते वृद्धसंज्ञत्वाच् छ, अन्यमते अण्, तस्य स्थाना-
न्तगोशालेत्यादि पा० लुक् । गोशाल तत्र जाते त्रि० ।
स्त्रीत्वपक्षे तु न लुक् । गोशालीय गौशाल वा तत्र-
जाते त्रि० इति भेदः ।

गोशीर्ष पु० गोः शीर्षमिव शीर्षं यस्य । १ ऋषभपर्व्वते तस्य

गोशीर्षाकारशृङ्गत्वात् तथात्वम् । स आकरत्वेनास्त्यस्य
अच् । २ चन्दनभेदे । गोशीर्षाद्युत्पत्तिकथा रामा० कि०
का० ४१ स० ३९ । ४० श्लो० । “तञ्च देशमतिक्रम्य महान्यषभ
संस्थितिः । सर्व्वरत्नमयः श्रीमानृषभो नाम पर्व्वतः ।
गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम् । दिव्य-
मुत्पद्यते तत्र तच्चैवाग्निसमप्रभम्” । तदाकारे ३ अस्त्र
भेदे च “अयोगुडैर्भिन्दिपालैर्गोशीर्षोलुखलैरपि” भा
द्रो० १७९ अ० । ६ त० । ४ गोमुण्डे न० ।

गोशीर्षक पु० गोः शीर्षभिव कायति कै--क १ । दिव्य-

पुष्पीदृक्ष रत्नमा० स्वार्थे क । २ चन्दनभेदे गोशीर्ष-
शब्दे उदा० ।

गोशृङ्ग पु० गोः शृङ्गमिव शृङ्गमस्य । ऋषिभेदे “हिमवद्

वनमध्यस्थो गोशृङ्ग ऋषिसत्तमः” “गोशृङ्गस्य ऋषस्तत्र
ददृशाते तथाश्रमम्” स्क० पु० प्रभा० ख० । २ दक्षिण-
देशस्थे पर्व्वतभेदे च । “तथैव सहदेवोऽपि प्रययौ
दक्षिणां दिशम्” इत्युपक्रमे “निषादभूमिं गोशृङ्गं
पर्व्वतप्रवरं तथा । तरसैवाजयचश्रीमान्” भा० स०
१० अ० । ६ त० । ३ गोर्विषाणे न० । तदाकारोऽस्त्यस्य
अच् । ४ वर्वर वृक्षे पु० राजनि० ।

गोश्रुति पु० व्याघ्रपदगोत्रापत्ये ऋषिभेदे “तद्धैतत् सत्य-

कामोजावालो गोश्रुतये वैयाध्रपद्यायोबाच” छा० उ० ।

गोश्व पु० द्वि० व० । इतरे० द्व० पररूपम् “गवाश्वप्रभृतीनि

च” पा० “यथोच्चारितानि तथैव साधूनि स्युः सि०
कौ० । पक्षे नैकवद्भावः न क्लीवता च । गवि अश्वे
च । पक्षे एकवद्भावः अवङ् च । तत्रार्थे न० ।
पृष्ठ २७२५

गोष(म)खि पु० गौः सखाऽस्य वेदे वा षत्वम् । १ गोसहायके

“स्तोता मे गोषखा स्यात्” ऋ० ८ । १४ । १ । “यस्मिन्निन्द्रः
सोमं पिबति गोसखायम्” ऋ० ५ । ३७ । ४ । ६ त० अच्
समा० न षत्वम् । २ गोः सहाये

गोषड्गव न० गवां षट्कम् गो + षड्गबच् । गोषट्के

एवं छागषङ्गवादयश्छागादिषट्के न० ।

गोषणि(सनि) त्रि० गां सनोति ददाति सन--दाने इन्

सवनादिषु पाठात् न नित्यं षत्वम् किन्तु पूर्ब्बपदात्
वा षत्वम् । १ गोदातरि “यस्ते अश्वसनिर्भक्षोयोगोसनि-
स्तस्य” यजु० ८ । १२ । पक्षे षत्वम् । “गोषणिं धियमश्वं
वाजसासुत” ऋ० ६ । ५३ । १० ।

गोषद् त्रि० गवि वाचि सीदन्ति सद--क्विप् पूर्व्वपदात् षत्वम् ।

स्खलद्वाक्ये । गोषदितिशब्दोऽस्त्यत्राध्यायेऽनुवाके वा
गोषदा० वुन् । गोषत्क गोषच्छब्दयुक्ते अध्याये
अनुवाके च पु० । अच् । गोषद तत्रार्थे त्रि० ।

गोषदादि पु० अध्यायानुवाकयोः “गोषदादिभ्यो वुन्”

पा० मत्वर्थे वुन्प्रत्यय निमित्ते शब्दगणे । स च
गणः पा० ग० सू० उक्तो यथा गोषद् इषेत्वा मातरिश्वन्
देवस्यत्वा दैवीरापः कृष्णास्या खरेष्ठा देवीधियः रक्षो-
हण युञ्जान अञ्जन प्रभूत प्रतूर्त्त कुशानु गोषद” ।

गोषन् त्रि० गां सनोति सन--विच् ६ त० “सनोतेरनः”

पा० नान्तस्य नित्यषत्वनिषेधेऽपि पूर्बपदात् वा षत्वम् ।
गोदातरि “शंसामि गोषणो नपात्” ऋ० ४ । ३२ । २२ ।

गोषा त्रि० गां सनोति सन--विट् ङा । सनोतेरनः” पा०

षत्वम् । गोदातरि “गोषा इन्द्रीनृषामसि” सि० कौ०
धृता श्रुतिः “इत्था गृणन्तो महिनस्य शर्म्मन् दिविष्याम
पार्य्ये गोषतमाः” ऋ० ६ । ३३ । ५ । अत्र “घरूपेत्यादि”
पा० सू० गोषाशब्दस्य तमपि परे ह्रस्वः ।

गोषा(सा)ति स्त्री सो--भावे--क्तिन् ऊतियूतीत्यादिना

नि०, सन--भावे क्तिन् ङा वा ६ त० षत्वम् । १ गोलाभे
२ गोदाने च “गोषाता यस्य ते गिरः” ऋ० ८ । ८४ । ७ ।
“गोषातौ गवां लाभे” मा० सप्तस्या डाच् एव मुत्तरत्र ।
गवां सातिर्णाभोऽस्य । ३ लब्धगौ लब्धपशुके त्रि०
“यत्र गोषाता ऋषितेषु खादिषु” ऋ० १० । ३८ । १ ।
गोषातौ लब्धपशुके” भा०

गोषादी स्त्री गां सादयति सद--णिच्--अण् उ० स०

षत्वं गौरा० ङीष् । पक्षिभेदे । “गेषादी देवानां
पत्नीभ्यः” यजु० २४ । २४ । ।

गोषेधा स्त्रीं गोरिव सेध उत्सेधोयस्याः पूर्बपदात् षत्वम् ।

दुर्लक्षणायां स्त्रियाम् । “विश्वपदीं वृषदतीं गोषेधां
विधमामुत” अथ० १ । १८ । ४ ।

गोष्ट संघाते भ्वा० आत्म० अक० सेट् । गोष्टते अगोष्टिष्ट । जुगाष्टे ।

गोष्टोम पु० गोसंज्ञः स्तोमोऽत्र । उक्थसंस्थे बहुमन्त्रा-

त्मके १ स्तोमभेदे । २ तदुपलक्षिते एकाहसाध्ये यागभेदे च
“स एतान् स्तोमानपश्यत् ज्योतिर्गौरायुरितीमे वै लोका
एतें स्तोमा अयमेव ज्योतिरयम्भध्यमो गौरसा-
वुत्तम आयुः” ता० व्रा० ४ । १ । ७ ।
“स पूर्व्वोक्तः प्रजापतिः एतान् स्तोमान् स्तोम-
शब्देन त्रिवृदादिस्तोमवन्त्यहानि लक्ष्यन्ते । तानि
ज्योनिर्गौरायुरिति एतन्नामकान्यपश्यत् । तत्र ज्योति-
रग्निष्टोमसंस्थः, गौरायुश्चैते उक्थसंस्थे० ज्योतिष इयं
स्तोमकॢप्तिः । त्रिवृद्बहिष्पवमानं पञ्चदशान्याजानि
पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठ्यानि सप्त-
दश आर्भव एकविंशोग्निष्टोमसामेति । अथ गोष्टोमस्य,
पञ्चदशोबहिष्पवमानः त्रिवृदाज्यानि सप्तदशम्माध्यन्दिनं
सवनमेकविंशं तृतीयसवनम् । अथायुष्टोमस्य त्रिवृ-
द्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशम्माध्यन्दिनं
सवनमेकविंशं तृतीयसवनमिति । एते उक्ताः स्तोमा
इमे लोका वै भूरादिकाः खलु, कः कतमोलोक इति
बुभुत्सायामाह अयमेव लोकोज्योतिः, अयम्मध्यमो-
ऽन्तरिक्षलोको वै असावुत्तमस्तृतीयः स्वर्लोक आयुः,
स्तोमत्रयस्य लोकत्रयेण सह संख्यासाम्यात् तच्छब्दता
एतैः त्रिभिः स्तोमैः साधनैस्त्रीन् लोकान् प्राजनयदिति
शेषःअथैतान् विधत्ते” भा० ।
“यदेते स्तोमा भवन्तीमानेव लोकान् प्रजनय-
न्त्येषु लोकेषु प्रतितिष्ठन्ति” ता० व्रा० ८ । “यदेषोऽति-
रात्रो भवतीति वाक्यवदेतत्सर्वं व्याख्येयम् ।
अभिप्लवषडहस्योत्तरं त्र्यहं विधातुमाह” भा० “स एत
न्त्र्यहं पुनः प्रायुङ्क्त तेन षड़हेन षट्क्रतून् प्राज-
नयत्” ता० व्रा०९ । “स प्रजापतिरेतं पूर्व्वोक्तं त्र्यहं पुनः
प्रयुक्तवान् । गौरायुर्ज्योतिरिति क्रमोऽत्रावगन्तव्यः । तथा
चापस्तम्बः “ज्योतिष्टोममग्निष्टोमं रथन्तरसामानङ्गा-
मुक्थं वृहत्सामानमायुषमुक्थं रथन्तरसामानं ज्योति-
ष्टोमं वृहत्सामानमिति । नन षडहेन षट् क्रतून् वसन्ता-
पृष्ठ २७२६
दीन् प्राजनयत् सृष्टवान् । अथार्थवादानुगुण्याय पूर्व्व-
विहितेन त्र्यहेन संयुज्य इममुत्तरं त्र्यहं विधत्ते”
भा० । “तदेष षडहो भवति ऋतूनेव प्रजनयन्ति ऋतुषु
प्रतितिष्ठन्ति” ता० व्रा० १० ।

गोष्ठ न० गावस्तिष्ठन्त्यत्र घञर्थे क षत्वम् । गवां स्थाने

अमरः । “गोष्ठेषु गोष्ठीकृतमण्डलासनान्” माघः ।
गोष्ठी वहुजनाः कर्त्तृतयास्त्यस्य अच् । २ गोष्ठीकर्त्तव्ये
श्राद्धभेदे न० “पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु
सुश्रुतम्” मनुः “गोष्ठे गोष्ठीश्राद्धे “गोष्ठ्यां शुद्ध्यर्थ-
मष्टमम्” इति विश्वामित्रेण द्वादशविधश्राद्धगणनायां
गोष्ठश्राद्धस्य विधानात्” कुल्लू० ।

गोष्ठपति पु० ६० । गोः स्थानाध्यक्षे अमरः ।

गोष्ठश्व पु० गोष्ठे श्वा अचतुरेत्यादि अच् समा० । १ गोष्ठस्थे

शुनि तत्तुल्ये परहिंसके स्वगृहे स्थित्वा २ परद्वेष्टरि च
त्रिका० । षष्ठीसमासे तु न अच् समा० । गोष्ठश्वा इत्येव

गोष्ठागार न० ६ त० । गोष्ठस्य सभाया बहुजनस्थानस्या-

गारम् । बहुजनागारे गञ्जे हारा० ।

गोष्ठाध्यक्ष पु० ६० । गोष्ठपतौ ।

गोष्ठान न० गोः स्थानं वेदे पूर्बपदात् षत्वम् । १ गवां स्थाने

गोष्ठे । “व्रजं गच्छ गोष्ठानम्” यजु० १ । ३५ । लोके
तु गोस्थानमित्येव । “गोष्ठं गोस्थानकम्” अमरः ।

गोष्ठा(पा)ष्टमी स्त्री “कार्त्तिके शुक्लपक्षे तु स्मृता गोष्ठा-

(पा)ष्टमी वुधैः । तद्दिने वासुदेवोऽभूत् गोपः पूर्वन्तु
वत्सपः” इत्युक्तायामष्टम्याम् गोपाष्टमीशब्दे दृश्यम् ।

गोष्ठि स्त्री गाबो वाग्विशेषास्तिष्ठन्त्यत्र स्था--बा० कि ६ त०

षत्वम् । १ गोष्ठीशब्दार्थे २ परस्परसंलापे च । “आलस्यं
मदमोहौ च चापलं गोष्ठिरेव च । स्तब्धता चाभिमा-
नित्वं तथाऽत्यागित्वमेव च । तएते सप्त दोषाः स्युः
सदा विद्यार्थिनां मताः” भा० उ० १५६३ श्लो० ।

गोष्ठी स्त्री गावोऽनेकावाचस्तिष्ठन्ति अत्र स्था--घञर्थे क ।

६ त० अम्बाम्बेति षत्वम्” गौरा० ङीष् । १ सभायां
परिषदि । “तत्र गोष्ठीषु रथ्यासु सिद्धप्रव्रजितेषु च ।
भा० वि० ६ । २ परस्परालापे “गोष्ठीसुखमनुभवन्त-
स्तिष्ठन्ति” हितो० । ३ पोष्यवर्गे च” । “विषं गोष्ठी
दरिद्रस्य” चाणक्यः । ४ समूहे गोष्ठशब्दे उदा० ।
सभायाम् अस्य पुंस्त्वमपि । “समुच्छ्रयान् पर्वतसन्नि-
राधान् गोष्ठान् हरीणां गिरिसेतुमालाः । भा० व०
१७७ अ० ।

गोष्ठीपति पु० ६ त० १ बहुपोष्यवर्गपालके २ सभापतौ च ।

गोष्ठेक्ष्वेड़िन् पु० गोष्ठे क्ष्वेडते क्ष्विड--स्नेहे णिनि पात्रे

समि० नि० । प्रगल्भे । युक्तारोह्या० आद्युदात्ततास्य ।
एवं गोष्ठेगल्भ गोष्ठेपटु गोष्ठेपण्डितः गोष्ठेशूरः
गोष्ठेविजित इत्येतेऽपि पात्रेसमिता नि० । सभाप्रगल्मे
सभाकुशले । पूर्ब्बवत् आद्युदात्तताचैषाम् ।

गोष्ठेशय पु० गोष्ठे गोस्थाने शेते शी--अच् अलुक् स० ।

गोव्रतार्थं गोष्ठशयनकारके । “पञ्चगव्यं पिबेत् गोघ्नो
मासमासीत संयतः । गोष्ठेशयो गोऽनुगामी गोप्रदानेन
शुध्यति” याज्ञ० ।

गोष्ठ्य त्रि० गोष्ठे भवः यत । १ गोष्ठे भवे । २ रुद्रभेदे पु० ।

“नमोव्रज्याय च गोष्ठ्याय च” यजु० १६ । ४४ ।

गोष्पद न० गोः पदम्, गावः पद्यते यस्मिन् देशे वा

“गोष्पदं सेवितासेवितप्रमाणेषु” पा० सेवितादौ षुट् ।
गोः पदजाते १ गर्त्ते, २ गोपदप्रमाणे च । ३ गोभि सेवि-
तदेशे ४ तदसेविते वनादौ च । “बाहुभ्या सागरं
तीर्त्त्वा लङ्घितुं गोष्पदं लघु” रामा० ल० ६९ स० । “भीष्म-
द्रोणार्ण्णवं तीर्त्वा कर्णपाताल (बडवानल) सम्भवम ।
मा निमज्जस्व सगणः शल्यमासाद्य गोष्पदम्” भा० श०
७ अ० । ५ प्रभांसक्षेत्रस्थे तीर्थभेदे । तत्स्थानादि स्क० पु०
प्रभा० “इयं सरस्वती पुण्या सर्वदैव हि विद्यते । पञ्चस्रोताः
प्रभासे तु दुष्प्रापा त्रिदशैरपि । तस्या यत्पञ्चमं स्रोतो
न्यङ्कुमत्यास्तटानि च । तम्य मध्ये स्थितं तीर्थं गोष्प-
देति च विश्रुतम्” “पापिनां मुक्तिदं तीर्थमाद्या रुद्र
गया स्मता । तदास्मिन् गोष्पदं नाम कलौ ख्यातं
धरातले । यदा क्षीरोदमथनात् प्रसूता लोकमातरः ।
तदा देवि! समन्तात्तु ता गतास्तीर्थसन्निधौ । पदं
तत्र निमग्नं च नन्दिन्याश्च शिलांतले । शिलां खुरा-
ङ्कितां दृष्ट्वा जानुदेशाङ्कितां तथा” इत्युपक्रमे देवान् प्रति
नन्दिनीवाक्यम् । “इदं मम पदं देवाः! शिला-
संस्थं विराजते । गगनाङ्गणभूमिस्थं चन्द्रविम्बमिवा
परम् । अद्य प्रभृति भो देवा! स्त्रैलोक्ये सचराचरे ।
गोष्पदं नाम विख्यातं लोके ख्यातिं गमिष्य ति” ।

गोस पु० गां जल स्यति सो--क । १ बोले २ उष्णकाले ३

विभाते मेदि० ।

गोसङ्ख्य पु० गाः संचष्टे सम् + चक्ष--अच् । गोपे । अमरः

“गोसङ्ख्य आसं कुरुपुङ्गवानाम” । “तेषां गोसङ्ख्य आर
वै तन्त्रिपालेति मां विदुः” इति च भा० वि० १० अ० ।
पृष्ठ २७२७

गोसत्र पु० गोभिः कृतं सत्रम् । गवामयनाख्ये सत्रभेदे

“गावो वा एतत् सत्रगासत” ता० व्रा० ४, १, १, गवामयन
शब्दे विवृतिः ।

गोसदृक्ष पुंस्त्री गोः सदृक्षः । गोतुल्ये गवये हेम० ।

२ जात्यादिना गोतुल्ये त्रि० । गोसदृशादयोऽपि तत्रार्थे ।

गोसनि पु० गां सनोति सन--इण् ६ त० पूर्व्वपदात् वा

षत्वे पाप्ते सवना० न षत्वम् । गोदातरि गोषणिशब्दे
उदा० दृश्यम् । “गोसनिं वाचमुदेयम्” अथ ३ । २० । १० ।

गोसम्प्रदाय त्रि० गां सम्प्रददाति सम् + प्र + दा--“आतोऽनु-

पसर्गे” पा० अनुपसर्गैत्युक्तेः न कः किन्तु अण् ।
गोसंप्रदातरि ।

गोसम्भवा स्त्री गोरिव सम्भवो लोमादिरूपाकारो यस्याः ।

१ श्वेतदूर्वायां राजनि० । २ गोजाते त्रि० ।

गोसर्ग पु० गावःसृज्यन्तेऽत्र काले सृज--आधारे घञ् ।

गवां वनगमाय मोचन काले सूर्य्येण किरणानां त्याग-
काले १ प्रातःकाले “गोसर्गे चार्द्धरात्रे च तथा मध्य-
न्दिनेषु च” सुश्रु० ।

गोसर्प पुंस्त्री गोरिव चतुश्चरणवत्त्वात् सर्पः । (गोसाप्र) ख्याते गोधाख्ये जन्तौ ।

गोसव पु० गौः सूवते हिंस्यतेऽत्र सू--हिंसायाम् आधारे

अप् पूर्ब्बपदात् वा न षत्वम् । गोसत्राख्ये यज्ञभेदे
“स्वर्जिता गोसवेन वा” हेमा० दा० लिङ्गपु० । तत्कर्त्त-
व्यता च कात्या० श्रौ० २२, ११, ३ सूत्रादौ उक्तं यथा
“ऋषभगोसवौ” १ सू० “ऋषभोगोसवश्च क्रतू भवतः”
कर्कः “पूर्वो राज्ञः” २ सू० “पूर्वः ऋषभसंज्ञको राज्ञः”
कर्कः “दक्षिणा ऋषभसहस्रं द्वादशं वा शतम्” ५ सू०
“विकल्पेन ऋषभसंज्ञक ऋषभाणां सहस्रं, द्वादशाधिकं
शतं वा” (दक्षिणा) कर्कः । “उक्थ्यो गोसवोऽयुत
दक्षिणः” ६ सू० । गोसवसंज्ञः क्रतुरुक्थसंस्थो भवति
अयुतदक्षिणश्च कर्कः । “वैश्ययज्ञ इत्येके” ७ सू०
मन्यन्ते । “सर्वेषामित्यपरे” ८ सू० । सराजानो विशो
यं पुरस्कुर्वीरन् स एतेन यजेत” ९ सू० । “राज्ञा सहिता
विशः प्रजाः सर्थे पुरुषा यं पुरस्कुर्वीरन् मुख्यत्वे-
नाङ्गीकुर्वीरन् स गोसवेन यजेत” । आस्थ-
ण्डिलेऽमिषिच्यते” १० सू० । “प्रतिदुराहवनीयस्य दक्षि-
णतः” १ सू० । “स्थितः आगान्तुकत्वादन्ते । आहवनीयात्
दक्षिणस्यां स्थण्डिले उपविष्टो यजमानः प्रतिदुहा-
धारोष्णेन दुग्धेनाभिषिच्यते “संस्थपतिरित्येनं ब्रूयुः
“गोसबयाजिनं जनाः” कर्कः । “वैश्यस्तीम दक्षिणा-
लिङ्गो मरुत्स्तोमोगणयज्ञो भ्रातॄणां सखीनां वा
२२ सू० । वैश्यस्तोमदक्षिणायां यानि लिङ्गानि तान्यत्रापि
भवन्ति” कर्कः । गां स्वर्गं सुनोति अच् षत्वम्
“दातुः स्वर्गदातरि” “तिलोऽसि सोमदैवत्यो गोषवो
देवनिर्म्मितः” तिलदानमन्त्रः ।

गोशशस् पु० गवि जले शशति शश--बा० असच् ७ त० ।

वोले रायमुकुटः ।

गोसहस्र न० गवां सहस्रं दातव्यतया यत्र । तुलापुरु-

षादिषोडशमहादानान्तगते पञ्चमे महादानभेदे “अथातः
संप्रवक्ष्यामि महादानानुकीर्त्तनम्” । “यत्तत् षोडशधा
प्रोक्त’ वासुदेवेन भूतले” इति चोपक्रम्य “कल्पपाद
पदानञ्च गोसहस्रं च पञ्चमम्” इत्युक्त्वा तद्दान प्रकारः
हेमा० दा० मत्स्य पु० उक्तो यथा
“मत्स्य उवाच । अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।
गोसहस्रप्रदानाख्यं सर्वपापहरं परम् । पुण्यं तिथि-
मथासाद्य युगमन्वन्तरादिकम् । पयोव्रतस्त्रिरात्रं स्यादे-
करात्रमथापि वा । लोकेशावाहनं कुर्य्यात् तुलापुरुष-
दानवत् । पुण्याहवाचनं कुर्य्याद्धोमः कार्य्यस्तथैव च ।
ऋत्विग्मण्डपसम्भारभूषणाच्छादनादिकम् । वृपं लक्षण
संयुक्तं वेदिमध्ये ऽधिवासयेत् । गोसहस्राद्विनिष्कृष्य
गवां दशकमेव” । पयोव्रतस्त्रिरात्रमिति दोनदिनात्
पूर्वं त्रिरात्रं पयोव्रतः स्यादित्यर्थः, अत्रादिशब्देन
देशकाल--वृद्धिश्राद्ध--शिवादिपूजा--गुर्वृत्विग्वरण--मधुपर्क-
दान--कुण्डवेदिवितान--चक्रलेखनपताकादीनि मत्स्य-
पुराणोक्ततुलापुरुषदाने विहितानि गृह्यन्ते । वृषं लक्षण
संयुक्तं, वृषलक्षणानि, “उन्नतस्कन्धककुदम् उज्ज्वलायत
कम्बलम्” इत्यादीनि वृषोत्सर्गप्रकरणे मत्स्यपुराणोक्तान्येव
वेदितव्यानि, गोसहस्राद्विनिष्कृष्येति दशोत्तरगोसह
स्रादिति वेदितव्यम्, अग्रे दशाधिकगोसहम्रविनियोगदर्श-
नात् । यद्यपि गवां दशकमित्यत्र गोमात्रप्रतीतिः तथापि
उत्तस्त्र “ऋत्विग्भ्यो धेनुमेकैकां दशकाद्विनिवेदयेदिति”
धेनुसंशब्दनात्, पुराणान्तरे “गोसहस्राद्विनिष्कृष्य सवत्सं
दशकं गबामिति” श्रवणाच्चधेनुदशकमेवाधिवासनीयम् ।
इतरत्र पुनर्नावश्यं धेनुरूपत्वादरः । “गोसहस्रं बहिः
कुर्य्याद्वस्त्रमाल्यविभूषितम । सुवणशृङ्गाभरण रौप्यपाद-
समन्वितम् । अतः प्रवेश्य दशक वस्त्रमाल्यैस्तु पूजयेत् ।
सुवर्ण--वण्टिकायुक्तं ताम्रदोहनिकान्वितम् । सुवर्णति-
लकोपेतं हमपट्टैरलङ्कृतम् । कौशेयवस्त्रसंवीतं मात्यगन्ध-
पृष्ठ २७२८
समन्वितम् । हेमरत्नयुतैः शृङ्गैश्चामरैश्चापि शोभितम् ।
पादुकोपानहच्छत्रभाजनासनसयुतम् । “दशसौवर्णिके
शृङ्गे, खुराः, पञ्चपलास्तथा” । पञ्चाशत्पलमितोदोहनकः
अन्यत्र तथाभिधानात् षण्टिकादौ सुवर्णशब्दोऽत्र षोडश-
माषपरिमितहिरण्यवचनः, सकृदुच्चरितसुवर्णशब्दावगत-
परिमाणपरित्यागानुपपत्तेः । पादुके काष्ठमय्यौ, चर्म्मकृते
उपानहाविति भेदः । “गवां दशकमध्ये स्यात् काञ्च-
नो नन्दिकेश्वरः । कौशेयबस्त्रसंवीतो नानाभरणभूषितः ।
लवणद्रोणशिखरं-माल्येक्षुफलसंयुतः । कुर्य्यात् पलशता-
दूर्द्धं सर्वमेतदशेषतः । शक्तितः फलसाहस्रत्रितयं
यावदेव तु । गोशते वै दशांशेन सर्वमेतत् प्रकल्ययेत्” ।
लवणद्रोणशिखरे, लवणद्रोणोपरीत्यर्थः । नन्दिकेश्वरलक्षणं
ललितविजयात् “ऊर्द्धस्त्रिनेत्रो द्विभुजः सौम्यास्योन-
न्दिकेश्वरः । वामे तु शूलभृद्दक्षे चाक्षमालासमन्वितः” इति
ऊर्द्ध इति, अशयानानुपविष्ट इत्यर्थः । पलशतादूर्द्धं
पलसहस्रत्रितयं यावदिति, साभरणनन्दिकेश्वरविषयमेतत्
आनन्तर्य्यात् । गोशते वै दशांशेनेति गोशते देये गामेका-
मेकञ्च वृषभं वेदिमध्येऽधिवासयेत् । पलशतादूर्द्धं
पलशतत्रयं यावदिति साभरणनन्दिकेश्वररचनादिकं कुर्य्यादि-
त्यर्थः । “पुण्यं कालमथासाद्य गीतिमङ्गलनिःस्वनैः । सर्वो-
षध्युदकस्नानस्नापितो वेदिपुङ्गवैः । इममुच्चारयेन्मन्त्रं
गृहीतकुसुमाञ्जलिः” । अत्रापि पूर्ववत् पूर्वेद्युरधि-
वासनं विधाय द्वितीयदिवसे व्राह्मणवाचनानन्तरमग्नि-
कुण्डेषु ऋत्विगुपवेशनादिपूर्णाहुतिपर्य्यन्तं कर्मशेषं
गुरुः समापयेत् । ततः पुण्यकालम् आत्मानुकूललग्नमुहू-
र्त्तादिलक्षणमासाद्य कुण्डसमीपस्थितकलसोदकेन ब्रा-
ह्मणैः स्नापितः शुक्लमाल्याम्बरधरो यजमानो वक्ष्यमाण-
मन्त्रानुदीरयेत् । “नमो वो विश्वमूर्त्तिभ्यो विश्वमातृभ्य
एव च । लोकाधिवासिनीभ्यश्च रोहिणीभ्यो नमो
नमः । गवामङ्गेषु तिष्ठन्ति भुवनान्येकविंशतिः ।
ब्रह्मादयस्तथा देवा रोहिण्यः पान्तु मातरः । गावो
मे अग्रतः सन्तु गावो मे सन्तु पृष्ठतः । गावः शिरसि
मे नित्यं गवां मध्ये वसाम्यहम् । यस्मात् त्वं
वृपरूपेण धर्म एव सनातनः । अष्टमूर्त्तेरधिष्ठानमतः
पाहि सनातनः । इत्यामन्त्र्य तु यो दद्याद्गुरवे
नन्द्रिकेश्वरम् । सर्वोपकरणोपेतं गोयुगञ्च विचक्षणः ।
ऋत्विग्भ्यो धेनुमेकैकां दशकाद्विनिवेदयेत् । गवां च
शतमथैकैकं तदर्द्धं चाथ विंशतिम्” । दश पञ्चाथवा दद्यादन्ये-
भ्यस्तदनुज्ञया” । दानवाक्यमत्र तुलापुरुषवद्वेदितव्यम्, एते
च शतप्रभृति पञ्चपर्य्यन्ता विकल्पा ऋत्विग्विषया
नदानन्तर्य्यात् ततश्चायमर्थः सिद्धो भवति गोदशकमध्यान्न-
न्दिकेश्वरयुतं गोयगं गुरवे प्रतिपाद्य शेषाणामष्टानाङ्ग-
वामेकैकामेकैकस्मै ऋत्विज दद्यात्, तथा गोसहस्रम-
ध्यात् शतद्वयं गुरवे प्रदाय एकैकं शतमृत्विग्भ्यो दद्यात्,
अथ वा शतं गुरवे पञ्चाशतं पञ्चशतमृत्विग्भ्यः, अथ
वा चत्वारिंशतं गुरवे विंशतिं विंशतिमृत्विग्भ्यः ।
विंशतिं, वा गुरवे दश दशर्त्विग्भ्यः, दश वा गुरवे
पञ्च पञ्चर्त्विग्भ्यो दद्यात् शेषा गास्तदनुज्ञया अन्ये-
भ्योऽपि दद्यात् । दक्षिणाञ्चात्र पूर्ववदेव दद्यात् अनुक्त-
दक्षिणासु सुबर्ण्णः दक्षिणेति वचनात् यथाशक्ति सुवर्णं
वा । ततः पूर्ववदेव पुण्याहवाचन--देवतापूजन--विसर्जनादि
कुर्य्यात् । “नैका बहुभ्यो दातव्या यतो दोषकरी भवेत् ।
बह्व्यश्चैकस्य दातव्या श्रीमतारोग्यवृद्धय । पयाव्रतः
पुनस्तिष्ठेदेकाहं गोसहस्रदः” । इदञ्च पयोव्रतानुष्ठानं,
शक्त्यपेक्षम् “अशक्तौ नक्तमिष्यते” इति वचनात् ।
“श्रावयेत् शृणुयाद्वापि महादानानुकीर्त्तनम् । तद्दिनं
ब्रह्मचारीस्याद्यदीच्छेद्विपुलां श्रियम्” । आथर्वणगोपथ-
ब्राह्मणे “अथातो गोसहस्रविधिर्गोष्ठ उदकान्ते शुचौ
देशे प्राञ्चमिध्ममुपसमाधाय अन्वालभ्याथ जुहुयात्,
आ गावसूक्तेनाद्यं जुहुयात्, महाव्रीहीणामैन्द्रञ्चरु
सौम्यञ्च सहस्रं तस्याः पयसि श्रपयित्वा गाव इति,
एवमुभय इत्येतेन जुहुयात् पश्चादग्नेस्तीर्थोदकपूर्ण-
कलसमवस्थाप्याहिसंवोगोष्ठेनेति दश गाः स्नापयेत् त्वर-
माणोऽन्याः समभ्युक्ष्य सहस्रं, तस्याः स्नानोदकेनेम-
मिन्द्रं वर्द्धय क्षत्रियं म इति, राजानममिमिच्येमा
आप इति, षड्भिर्यथोक्तमञ्जनाभ्यञ्जनानुलेपनं कृत्वा
सहस्रतमीं प्रथमामलंकृत्य गावो मामुपतिष्ठत प्रजावती
सूयवासादिति च पर्य्यासयेत् प्रियमशनन्दत्त्वा द्विवृण-
मघ्न्य इति सहस्रतमीमालभ्य जपेत् मया गावः पतिना
सबद्धमिति मन्त्रेणानेनार्धं दत्त्वा सहस्रतमीं पुनरुप
संगृह्य भूमिष्ट्वा प्रतिगृह्णात्विति जपेत् सहस्रं, तस्याः
पृष्ठतो व्रजन् सर्वाः प्रदक्षिणीकृत्य नमस्कृत्य स्वस्ति
वाच्य व्राह्मणेभ्यो निवेद्य दश गा दक्षिणाः कर्त्रे सहस्र
तमीं वस्त्रयुग्मञ्च तदपि । सप्तजन्मानुगं पापं पुरुषै
सप्तभिः कृतम् । तत्क्षणात् विधिनानेन नाशयेद्गोप्रदो
नरः । सर्वेषामिह दानानां फलं यत् परिकीर्त्तितम् ।
पृष्ठ २७२९
तदवाप्नोति विप्रेभ्यो गोसहस्रप्रदोनरः । अश्वमेधं
वृषोत्सर्गं गोसहस्रत्रयन्तु यः । दद्यान्मोक्षाय इत्याहुः
पितरस्तर्पयन्ति हि । तस्मादनेन विधिना गोसहस्रन्तु
योनरः । प्रदद्यात् स विशुद्धात्मा याति तत् परमं
पदमिति” । मत्स्यपुराणे “अनेन विधिना यस्तु
गोसहस्प्रदोभवेत् । सर्वषापविनिर्मुक्तः सिद्धचारण-
सेवितः विमानेनार्कवर्णेन किङ्किणीजालमालिना ।
सर्वेषां लोकपालानां लोके संपूज्यते सुरैः । प्रतिमत्व-
न्तरं तिष्ठेद्राजराजो भवेत् पुनः । अश्वमेधशतं कुर्व्या-
च्छिवध्यानपरायणः । वैष्णवं लोकमास्थाय ततो
मुच्येत बन्धनात् । पितरश्चाभिनन्दन्ति गोसहस्रपदं
शुभम् । अपि स्यात्स कुलेऽस्माकं पुत्रोदौहित्र एव च ।
गोसहस्रप्रदो भूत्वा नरकादुद्धरिष्यति । स यस्तत्कर्मकरो
वा स्यादपि द्रष्टा तथैव च । संसारसागरादस्मा-
दस्मान् सन्तारयिष्यति । इति पठति य एतद्गो--सहस्र-
प्रदानं सुरभुवनमुपेयात्संस्मरेद्वापि पश्येत् । अनुभवति
सुखं वा बाच्यमानो निकामम् प्रहतकलुषदेहः सोऽपि
यातीन्द्रलोकम्” ।
अन्यपुराणोक्तस्तद्विधिस्तत्रैव दृश्यः । ६ त० । २ गवां
सहस्रे च । गोसहस्रं तद्दानफलं विद्यतेऽत्र अच् ।
गौरा० ङीष् । ३ सोमवारयुतायाम् ४ मङ्गलवारयुतायां वा ।
अमाख्यायाम् स्त्री । जाह्नवीस्नाने तस्यास्तथापुण्य-
जनकत्वमुक्तं ति० त० व्यासेन “अमावास्यां भवेद्वारी
यदि भूमिसुतस्य च । गोसहस्रफलं दद्यात् स्नानमात्रेण
जाह्नवी । सिनीवानी कुहूर्वापि यदि सोमदिने भवेत् ।
गोसहस्रफलं दद्यात् स्नानं यन्मौनिना कृतम” ।

गोसाद त्रि० गां सादयति सद--णिच् अण् उप० स० ।

गोचालके गोसारथौ “गौः सदसादिसारथिषु” पा०
पूर्ब्बपदप्रकृतिस्वरः ।

गोसादिन् त्रि० गां सादयति सद--णिच्--णिनि ६ त० ।

गोसारथौ । गोसादवत् पूर्व्वपदे प्रकृतिस्वरः ।

गोसारथि पु० ६ त० । गोचामके सारथौ गोसादवत्

पूर्ब्बपदे प्रकृतिस्वरः ।

गोस्तन पु० गोः स्तन इव गुच्छो यस्य । १ चतुर्यष्टिकहारे

अमरः । ६ त० । २ गोःस्तने च “करीरपनसास्थि गोस्तना-
काराणि” “सुवृत्तं गोस्तनाकारं सर्वभूतगुणोद्भवम्” सुश्रु० ।

गोस्तना(नी) स्त्री गोः स्तनैव फलमस्याः स्वाङ्गत्वात् वा

ङीष् । १ कपिलद्राक्षायामसर टावन्तः गोः स्तनाइव स्तना
अस्याः ङीष् । २ कुमारानुचरमातृभेदे । “शृणु मातृगणान्
राजन्! कुमारानुचरानिमान्” इत्युपक्रमे” प्रभावती
विशालाक्षी पालिता गोस्तनी तथा” भा० श० ४७ अ० ।

गोस्तोम पु० गोनामकः स्तोमः पूर्व्वपदात् वा षत्वाभावः ।

एकाहसाध्ये अग्निष्टोमाङ्गे यज्ञभेदे । “गोस्तोमभृमि-
स्तोमवतस्पतिसवानाम्” आश्व० श्रौ० ९ । ५ । २ । “गोस्तोमो
भूमिस्तोमोवनस्पतिसव इति त्रयः एकाहाः कर्त्तव्याः”
नारा० दृ० । गोष्टोमशब्दे विवृतिः ।

गोस्थान न० ६ त० । गोष्ठे अमरः “मध्ये गोस्थानसङ्कु-

लम्” हरिवं० ६१ अ० । स्वार्थे क । तत्रार्थे ।

गोस्वामिन् ६ त० । गवां स्वामिनि । “तावत् भूयो वा गोस्वा-

मिने दत्त्वा” कात्या० श्रौ० । १५ । ६ । १२ । “गोस्वाम्यनुमते
भृत्यः सा स्यात् पालेऽभृते भृतिः” मनुः । “प्राजापत्यं
चरेत् कृच्छ्रं गोस्वामी व्रतमुत्तमम्” पराशरः ।
गवामिन्द्रियाणां स्वामी । ३ जितेन्द्रिये यतीनामुपाधिभेदे ।
वोपदेवगोस्वामी रूपगोस्वामी ।

गोह पु० गुह्यतेऽत्र गुह--घञ् बा० ऊत्त्वाभावः । गेहे

“अद्रिमौशिजस्य गोहे” ऋ० ४, २१, ६ । “गुहा यदीमौ-
शिजस्य गोहे” ७ “विदद् गौरस्य गवयश्च गोहे” ८
“गोहे गृहे” भाष्यम् । तस्यादूरभवोदेशः सुवास्त्वा०
अण् । गौह गेहाद्ररभवे त्रि० स्त्रियां ङीप् ।

गोहत्या स्त्री ६ त० । गोहनने । प्राणवियोगफलक-

व्यापारोहननम् यथाह वह्निपु० “स्यात् प्राणवियोग-
फलकव्यापारोहननं स्मृतम् । रागात् द्वेषात् प्रमा-
दाद्वा स्वतः परत एव वा” । हत्याया ज्ञानाज्ञान
कृतत्वं च प्रा० त० न्यरूपि यथा
“अथ ज्ञानकृतादिनिरूपणम् । तत्र गोबधस्य बुद्धिपूर्व-
कत्वं तदा भवति, यदि गां ज्ञात्वा एतां हन्मीति इच्छया
हन्ति, तदा कामनाद्वारैव ज्ञानस्य प्रवृत्त्यङ्गत्वात्, तद
भावे त्ववुद्धिपूर्बकत्वम् । अतएव प्रवृत्त्यङ्गज्ञानस्य
कामनाव्यभिचाराभावादेव “कृच्छांस्तु चतुरः कुर्य्यात्
गोबधे बुद्धिगूर्वके । अमत्या च द्वयं कार्य्यम्, इति विश्वामि-
त्रवचने ज्ञानाज्ञानाभ्यां द्वैविध्यमुक्तम् अन्यत्र कामाका-
माभ्यामित्युक्तम् यथा वृहस्पतिः “कामाकामकृ
तं त्वेवं महापाप द्विधा मतम् । पुरुषापेक्षंया चैव
निष्कृतिर्द्विविधा स्मृता” । इत्थञ्च गवयादिभ्रमेण
योगोबधस्तत्र बधस्य न ज्ञानकृतत्व गोत्वेनाज्ञानात् ।
गोत्वेन गां जानन्नप्यन्योद्देशक्षिप्तनाराचादिना यदि हन्ति
पृष्ठ २७३०
तदापि न ज्ञानकृतत्वं तद्विषयकहननेच्छारूपद्वाराभावात्” ।
तत्र साक्षात् परम्पराकृतव्यापारभेदः मिता० उक्तो यथा
“साक्षात्कर्वृ निमित्तिनोश्च भेदस्तेनैव दर्शितः “पाषाणै-
र्लगुड़ैर्वापि शस्त्रेणान्येन वा बलात् । निपातयन्ति
येगास्तु कृत्स्नं कुर्युर्व्रतंहि ते । तथैव बाहुजङ्घांसपार्श्व-
ग्रीवादिमोटनैरिति” । एतदुक्तम्भवति । पाषाणल-
गुडादिभिर्ग्रीवादिमोटनादिना वा ये गां निपातयन्ति ।
ते साक्षाद्धन्तारस्तेष्वेव कृत्स्नं प्रायश्चितम् । ये तु व्यव-
हित रोधबन्धादिव्यापारयोगिनस्ते निमित्तिन स्तेषां
न कृत्स्नव्रतसम्बन्धः किन्तु तदवयवैरेव पादद्विपादा-
दिभिरिति तत्रावरोधादीनां व्यवहितव्यापारत्वाविशे-
षेऽपि वचनात् क्वचित्पादः क्वचिद्द्विपादः पादोनं
क्वचिदिति” युक्तम् ।
तस्याः शोधकं प्रायश्चित्तं खामिभेदाद्भिन्नं प्रा० त० उक्तं
यथा तत्र ब्राह्मणस्यामिकस्य गोर्वधे मानवं प्रायश्चित्तं
तच्च गोघ्नशब्दे दर्शितं तत्र सप्तदश धेनवः तन्मूल्यं वा ।
क्षत्रियस्वामिकस्य गोर्बधे देवलोक्तं तच्च तत्रैवोक्तं यथा
“गोघ्नः षण्मासान् तच्चर्मणा परिवृतो गोग्रासाहारो
गोव्रती यवाशी गोभिरभिसञ्चरन् विप्रमुच्यते” । गोग्रासा-
हारो गोग्रासाहर्त्ता “कर्मण्यण्” इति साधुः । षण्मास-
यावकभक्षणं द्वादशप्राजापत्यतुल्यंदक्षिणा च विशेषानुप-
देशाद् यथाशक्ति देयेति । एतज्ज्ञानादज्ञानात्तदर्द्धं
स्त्रीशूद्रवालवृद्धानामर्द्धम् एकस्योभयपरत्वे पादः ।
वैश्यसम्बन्धिनो गोर्बधे तु शातातपः “पञ्चगव्येन
गोघाती मासैकेन विशुध्यति । गोमतीञ्च जपेद्विद्यां
गवां गोष्ठे च संवसेत्” । पञ्चगव्यमाह शातातपः
“गोशकृत् द्विगुणं, सूत्रं सर्पिर्विद्याच्चतुर्गुणम् । क्षीर-
मष्टगुणञ्चैव पञ्चगव्ये तथा दधि” तथाऽष्टगुणम् । यमः
“आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च । प्रणवेन
समालोड्य प्रणवेनैव तत्पिबेत्” । उत्थाष्य मिश्रीकृत्य ।
“मन्त्राज्ञाने मिताक्षरायां षट्त्रिंशन्मतम् “जपहोमादि
यत्किञ्चित् कृच्छ्रोक्तं सम्भवेन्न चेत् । सर्वं व्याहृतिभिः
कुर्य्यात् गायत्र्या प्रणवेन च” । गवां गोष्ठ इति श्रव-
णकुण्डलबत् तातकालिकगोसत्त्वावबोधाय । गोमती
जपसहितमासपञ्चगव्यपानं प्राजापत्यपञ्चकतुल्यम् ।
एतदज्ञानकृते ज्ञानकृते तु द्वैगुण्यम् । स्त्रीशूद्रबालवृद्धा-
नामर्द्धम् एकस्योभयधर्मपरत्व पादः ।
शूद्रसम्बन्धिनोगोर्वधे तु विश्वामित्रः “कृच्छ्रास्तु चतुरः
कुर्य्यात् गोबधे बुद्धिपूर्वके । अमत्या च द्वयं कार्य्यं तदर्द्धं बाल
वृद्धयोः । स्त्रीशूद्रयोरेवमेतद्बधे चैव न संशयः” । कृच्छ्रा-
न् प्राजापत्यानि । तच्चतुष्टयाशक्तौ चतस्रोधेनवः द्वादश
कार्षापणा वा । एतज्ज्ञानकृते अज्ञाने तदर्द्धंस्त्रीशूद्रबाल-
वृद्धानामर्द्धम् । एकस्योभयधर्म्मपरत्वे पादः । प्रा० त० रघु० ।
स्वामिकृतविशेषस्तु प्रायश्चित्तविवेकानुसारादुक्तः ।
गर्भिण्यादौ तु विशेषमाह वृहस्पतिः “गर्भिणीं कपिलां
दीग्ध्रीं होमधेनुञ्च सुव्रताम् । रोधादिना घातयित्वा
द्विगुणं गोव्रतञ्चरेत्” । गर्भिणीवधे तु विशेषमाह
वृद्धयमः “गवां निपतने चैव गर्भनाशोयदा भवेत् ।
एकेकत्र चरेत् कृच्छ्रं यथापूर्वं तथा परम्” । कृच्छ्रपदं
व्रतपरम् द्विगुणं गोव्रतमित्येकवाक्यत्वात् “पादमुत्-
पन्नमात्रे तु द्वौ पादौ गात्रसम्मिते । पादोनं व्रतमाचष्टे
हत्वा गर्ममचेतनम् । अङ्गप्रत्यङ्गसम्पन्ने गर्भे चेतःसम-
न्विते । द्विगुणं गोव्रतं कुर्य्यात् प्रायश्चित्तं विशुद्धये” ।
मध्यमवचनं भवदेवेन व्याख्यातम् यथा “यदि लगुड़ाद्यभि-
घातेन गौर्जीवति गर्भमात्रपातो भवति तदोत्पन्नगर्भमात्र-
पाते यथोक्तप्रायश्चित्तपादाचरणम् । गात्रावयवात्पत्तौ
प्रायश्चित्तपादद्वयं सकलगात्रसम्पत्तौ चैतन्याभावे प्रायश्चि-
त्तमूहनीयम्” । मिताक्षरायान्तु गर्गीणीबधे यदा गर्भोऽपि
निहतोभवति तदा प्रतिनिमित्तं नैमित्तिकमावर्त्तत इति
न्यायादविशेषेण द्विगुणव्रतप्राप्तौ षटत्रिंशन्मते विंशेषोक्तेः
“पादौत्पन्नमात्रे तु द्वौ पादौ दृढ़तां गते । पादोनं
व्रतमुद्दिष्टं हत्वा गर्भमचेतनम् । अङ्गप्रत्यङ्गसम्पन्ने गर्भे
चेतःसमन्विते । द्विगुणं गोब्रतं कुर्य्याद्देषा गोघ्नस्य
निष्कृतिः” । दोग्धीं बहुक्षीराम् । वृहस्पतिः
“अतिवृद्धामतिकृशामतिबालाञ्च रोगिणीम् । हत्वा पूवी-
विधानेन चरेदर्द्धं व्रतं द्विजः” । पूर्वविधानेन मन्वाद्युक्त-
त्रैमासिकादिना अतिवृद्धा तृणच्छेदनासमर्था अतिकृशा
कृशत्वेन दोहनवाहनायोग्या अतिबाला वर्षपर्य्यन्तं
बाला तदतिक्रान्ता द्विवर्षीया । तथा च वृहदङ्गिराः
“वर्षमात्रा तु बाला स्यादतिबाला द्विवार्षिकी ।
अतःपरन्तु सा गौः स्यात्तरुणी दन्तजन्मनि” । अतएव वक्ष्यते
द्विपादस्तु द्विहायने” इति संवर्त्तः । “व्यापन्नानां
बहूनाञ्च बन्धने रोधनेऽपिवा । मिषङिमथ्योपचारे च
द्विगुणं गोव्रतञ्चरेत् । एकप्रयत्ने निष्पन्ने बहूनां गवा
वधे प्रायश्चित्तगौरवमुक्तं न तु तन्त्रता पापभेदाभावात्
पृष्ठ २७३१
एकप्रयत्नजन्यत्वेनैकमेव गुरुतरं पापमिति प्रायश्चित्तमपि
तथा । बहूनामित्येकाधिकपरम् । तद्विवक्षायामपि
गोद्वयबधे प्रयत्नाभेदेऽपि विशेषवचनाभावात् प्रायश्चित्तद्वैगु-
ण्यं युक्तम् । अपिशब्दात् गृहदाहादिना । क्रमकृते तु
प्रायश्चित्तावृत्तिः । यथोपपातकानुवृत्तौ यमः “गोघ्नवद्वि-
हितः कल्पश्चान्द्रायणमथापि वा । अभ्यासे तु तयोर्भूय-
स्ततःशुद्धिमवाप्नुयात्” । तयोर्गोबधतदन्योपपातकयोः ।
संवर्त्तापस्तम्बौ “एका चेद्बहुभिः क्वापि दैवाद्व्यापादिता
भवेत् । पादं पादञ्च हत्यायाश्चरेयुस्ते पृथक् पृथक्” ।
हत्याया यत्र यद्विहित व्रतं तत्र तस्यैव पादं प्रत्येकं
कुर्य्युः । एकेत्युपलक्षणम् अतोबहुभिर्द्वयोर्बहूनाञ्च
हनने प्रतिपुरुषं पादद्वयं त्रयं वा कल्पनीयमिति
मिताक्षरा । वस्तुतस्तु एकाधिकानामेकैकपुरुषस्यैकप्रयत्न
जन्यवधे “व्यापन्नानां बहूनामिति” पूर्वोक्तवचनात् एकैक-
पुरुषस्य द्विपादं प्रायश्चित्तम् प्रयत्नभेदे तु गोघ्नव-
दित्यनेन तन्त्रताया अभावात् प्रत्येकं प्रतिपुरुषं द्वि-
पादावृत्तिरिति । एतच्चाकामतोबधे द्रष्टव्यम् दैवादिति
विशेषोपादानात् कामकृते तु बहूनामपि प्रत्येकं कृत्स्न-
दोषसम्बन्धात् पूर्णप्रायश्चित्तं युक्तं सत्रिणां फलमिव
प्रतिपुरुषं कृत्स्नव्यापारसमवायात् । “एकं घ्नतां
बहूनाञ्च यथोक्ताद्घिगुणोदमः” इति प्रत्येकं दण्डद्वैगुण्य-
दर्शनाच्चेति मिताक्षरा । वस्तुतस्तु सर्वत्र पापे “स्यात्त्व-
कामकृते यत्तु द्विगुणं बुद्धिपूर्वके” इत्यङ्गिरोचनेनाज्ञा-
नात् ज्ञाने द्वैगुण्यदर्शनादत्रापि ज्ञाने द्विपादएव युक्तः ।
सत्रे तु “सप्तदशावराऋद्धिकामाः सत्रमुपासीरन्निति”
श्रवणात्तथेति । एकं घ्नतामिति परवचनन्तु गोबधाति-
रिक्तविषयम् गोबधे एका चेदित्युपदेशेन दण्डवत्
प्रायश्चित्तानि भवन्तीत्यतिदेशानवसरात् । तदवसरत्वे
प्रत्येकं पूर्णप्रायश्चित्तद्वैगुण्यं स्यात् न पूर्णप्रायश्चित्तमात्रम्
अतएव प्रायश्चित्तविवेके “एकं घ्नतां वहूनामिति”
मनुष्यवधे उक्तम् । बहुभिरित्युपादानात् द्वाभ्यां हनने तु
प्रत्येकं सम्पूंर्णप्रायश्चित्तम्” ।
अथैकहायनादिगोबधप्रायश्चित्तम् वृद्धप्रचेताः “एकवर्षे
गवि हते कृच्छ्रपादो विधीयते । अबुद्धिपूर्वं पुंसः स्यात्
द्विपादस्तु द्विहायने । त्रिहायणे त्रिपादः स्यात् प्राजा-
पत्यमतःपरम्” । इदमपि प्रायश्चित्तलाघवेन अबुद्धिपूर्वका-
धमशूद्रस्वामिकब्रधविषयमिति प्रायश्चित्तविवेकः । तेन
यत् स्वामिकबधे यत् प्रायश्चित्तं तस्यैव तत्र प्रादादिकमू-
हनीयमतएवातिबालामित्यत्र तथैवोक्तम् । अतःपरं
चतुर्हायणे इत्यर्थः । बुद्धिपूर्वे एतदेव द्विगुणमित्यर्थः”
प्रा० त० रघुः ।
अपालननिमित्तगोबधप्रायश्चित्तम् प्रा० त० उक्तं, यथा
पराशरः “शीतानिलहता चैव उद्बन्धनमृतापि वा ।
शून्यागाराद्युपेक्षायां प्राजापत्यं विनिर्दिशेत् ।
अपालनात् प्रणश्येत्तु गौश्चरन्ती कथञ्चन । जलौघपल्वले
मग्ना नागविद्युद्धतापि वा । श्वभ्रे वा पतिताऽकस्मात्
श्वापदैर्वापि भक्षिता । प्राजापत्यं चरेत् कृच्छ्रं
गोस्वामी व्रतमुत्तमम् । सशिखं वपनं कार्यं त्रिसन्ध्यमव-
गाहनम् । शृङ्गैर्वापि खुरैर्युक्तं लाङ्गूलश्रवणादिभिः ।
आर्द्रमेव हि तच्चर्म परिधाय स गां व्रजेत् । तासां
मध्ये वसेद्रात्रौ दिवा ताभिः समं व्रजेत् । ब्राह्मणस्य
विशेषेण तथा राजन्यवैश्ययोः । प्रायश्चित्ते ततश्चीर्णे
कुर्याद्ब्राह्मणभोजनम् । अनडुत्सहितां गाञ्चदद्याद्विप्राय
दक्षिणाम्” । अत्र गोस्वामीत्यभिधानात् उत्सृष्टवृषवत्-
सतरीषु स्वत्वाभावादपालननिमित्तकतद्बधे तदुत्स्रष्टु-
र्दोषोनास्तीति प्रतीयते । तत्स्वत्वाभावेनान्येषां स
म्भाव्यमानमौपादानिकस्वत्वं निराकरोति कल्पतरुधृ-
तव्रह्मपुराणम् “अथ वृत्ते वृषोत्सर्गे दाता वक्रो-
क्तिभिः पदैः । ब्राह्मणानाह, यत् किञ्चित् मयोत्सृष्टन्तु
निर्जने । तत् कश्चिदन्योन नयेद्विभाज्यञ्च यथाक्रमम् ।
न वाह्यं न च तत्क्षीरं पातव्यं केनचित् क्वचित्” ।
बक्रोक्तिभिः काकूक्तिभिः स्वाम्यभावेनोत्सृष्टपशोः
पालननियमाभावाद्धान्यादिभक्षणे मोच्यत्वमप्याह याज्ञवल्क्यः
“महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः । पालो-
येषाञ्च ते मोच्या दैवराजपरिप्लुताः” । महोक्षोऽनि-
र्वाय्यः महावलीवर्द्दः । उत्सृष्टपशवः देवतोद्देशेन
पित्रादिनिष्ठफलोद्देशेन वा चक्राद्यङ्कितास्त्यक्तपशवः ।
सूतिका अनिर्गतदशाहाः । आगन्तुका ग्रामान्तरादा-
गताः । आदिशब्दात् उशनसोक्ताश्च यथा “अदण्ड्या
हस्तिनोऽश्वाश्च प्रजापाला हि ते स्मृताः । अदण्ड्याः
काणकुण्ठाश्च वृषभः कृतलक्षणः” कुण्ठः खञ्जः । अत्र
काणकुण्ठशब्दाभ्यामत्यन्ताक्षम उच्यते । वृषभःकृतलक्षणः
प्रागुक्तोत्सृष्टपशुः एते सपालां विपाला वा सर्वथा
मोच्याः तथा च मनुः “अनिर्दशाहां गां सूतां
वृषान् देवपशूंस्तथा । सपालान् वा विपालान् वा
अदण्ड्यान् मनुरव्रबीत्” । एतद्भिन्नानां येषाञ्च पालोऽस्ति
पृष्ठ २७३२
तेऽपि मोच्याः । अर्थात्तत्र पालोदण्डनीयः । दैवराज-
परिप्लुताः गजादिद्रावणात् सेनादिदर्शनाद्वा
पलायिताः पशवो यदि क्षेत्रे चरन्ति तदा न दोष इत्यर्थः ।
पलकान्तरसत्त्वे तु मनुः “दिवा वक्तव्यता पाले
रात्रौ स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेत्तु पालोव-
क्तव्यतामियात्” । “दिवा पशूनां पालहस्तन्यस्तानां
योगक्षेमविषये दोषे जाते पालकस्य गर्हणीयता रात्रौ
पुनः पालप्रत्यर्पितानां स्वामिनां दोषः । अन्यथा यदि
रात्रावपि पालहस्तगता भवन्ति तदा दोषे उत्पन्ने
पाल एव गर्हणीयतां प्राप्नोति” इति कुल्लूकभट्टः ।
स्मृतिसागरे वृहदङ्गिराः “अनागतस्य चानेता
आगतस्य च रक्षकः । रात्रावपि यदान्योऽस्ति तदा स्वा-
मी न दोषभाक्” । ननु दण्डप्रकरणोक्तमनुवचनं प्राय-
श्चित्ते कथमिति चेन्न । “दण्डवत् प्रायश्चित्तानि
भवन्तीति” श्रुतेः तथा व्यवहाराच्च । एवञ्च “यत्रापवर्त्तते
युग्यं वैगुण्यं प्राजकस्य च । तत्र स्वामी भवेद्दण्ड्यो
हिंसायां द्विशतं दमः” इति मनुवचने “यत्र सारथे-
रकौशलात् यानमन्यथा गच्छति तत्र हिंसायामसु-
शिक्षितसारथिनियोगात् स्वामी द्विशतं दण्डं दाप्यः
स्यादिति” कुल्लूकभटृव्याख्यानदर्शनात् अयोग्यपालक-
समर्पणे स्वामिनो दोषात्तस्यैव प्रायश्चित्तमुक्तम् । “यावत्
शस्यं विनश्येत्तु क्षेत्री तावत् फलं लभेत् । पालस्ता-
ड्योऽथ गोस्वामी पूर्वोक्तं दण्डमर्हति” याज्ञबल्क्यवचने
गवादिदोषेण यावत् शस्यं विनश्यति तावदेव
पालकात् प्राप्तव्यं पालकाशक्तौ पालकस्ताड्यः स्वामी पूर्वोक्तं
दण्डादिमर्हतीति दर्शनाच्च । गोबधप्रायश्चित्ते पालकद्र-
व्यासम्भवे स्वामिना द्रव्यं दत्त्वा प्रायश्चित्तं कारयि-
तव्यं कर्त्तव्यं वा । म्लेच्छपालके स्वयं कर्त्तव्यम् ।
सशिखवपनमित्यत्र नैंमित्तिकेन सशिखवपनेन “सदा
वद्धशिखेन तु” इत्यस्य “गायत्र्या तु शिखां बद्ध्वा नैरृत्यां
व्रह्मरन्ध्रवः । जुटिकान्तु ततोबद्ध्वा ततः कर्म समाच-
रेत्” इति ब्रह्मपुराणोक्तस्य च नित्यस्य बाधोन
दोषाय फलचमसेन सोमस्य बाधवत् गोदोहेन चमसस्य
बाधवच्च । “सशिखं वपनं कार्यमास्नानात् ब्रह्मचारिणा ।
इति कात्यायनकृतछन्दोगपरिशिष्टेऽप्येवम् । एतदेकश्रु-
तिमूलकत्वात् तद्धृतपारस्करीये पर्युप्तशिरसमिति
सूत्रेऽपि तथैवार्थः तद्भाष्यकृता हरिशर्मणापि परिसर्वगो-
भावेनोप्तशिरसं मुण्डितशिरसमिति व्याख्यातम् । न च
“एते लूनशिखास्तस्य दशनैरचिरोद्गतैः । कुशाः काशा
विराजन्ते वटवः सामगा इव” इति विष्णुपुराणी-
ये सामगा इति विशेषणान्नान्येषां लूनशिखत्वमिति
वाच्यं प्रागुक्तवचनात् सर्वेषां सशिखवपनप्राप्तेः विध्य-
न्तरकल्पनापत्तेश्च । तृणसागरयोरौपम्यन्तु हरिणसु-
खहेतुत्वेनाप्युक्तं तयोः सुखहेतुत्वञ्च भक्ष्यत्वेन
गायकत्वेनेति शेषः । एवं प्राचीनावीतित्वादिना “सदोपवी-
तिना भाव्यम्” इत्यस्यापि बाध इति प्रसङ्गादुक्तम् । ब्रा-
ह्मणस्य विशेषेणेति ब्राह्मणस्य गवानुगमनं मुख्यम् ।
एतेनापालनकृतगोबधे पजापत्यं करणीयमिति अत्रेतिकर्त्त-
व्यतापि प्रजापत्यतुल्येति पण्डितसर्व्वस्वे हलायुधः ।
वृषभो गौश्च दक्षिणा । ब्राह्मणभोजनं विशेषयति यज्ञ-
पार्श्वः “गर्माषानादिकृत्येषु ब्राह्मणान् भोजयेद्दश” ।
प्राजापत्यद्वयाशक्तौ धेनुद्वयं तदशक्तौ षट् कार्षापणाः ।
एवञ्च वृषमूल्यं पञ्च कार्षापणाः गोमूल्यमेकः कार्षापणः ।
शूलपाणिप्रभृतिभिस्तु इतिकर्त्तव्यतायां विशेषो नादृतः ।
एतच्च शूद्रस्वामिकेतरबधविषयम् शूद्रस्वामिकस्याज्ञानात्
साक्षाद्बधे यत्किञ्चिद्दक्षिणककृच्छ्रद्वयस्य निबन्धृभिर्व्य-
वस्थापित्वेनापालनकृतबधे तदधिकस्यायुक्तत्वात् वरं
तत्तुल्यं कृच्छ्रद्बयं युक्तमुत्पश्यामः । अतएव एतद्विषय-
एव स्मृतिसागरसारे वृहदङ्गिराः “अरक्षिते तु
कूपादौ हते व्याघ्रादिभक्षिते । ब्रतार्द्धमाचरेत् स्वामी
रक्षिते नास्ति दूषणम्” । व्रतार्द्धं कामकृतव्रतार्द्धं
नास्ति दूषणमिति यदि प्रमत्ता गौर्निवारयन्तं पालम-
तिक्रम्य गर्त्तकान्तारादौ म्रियते तदा नेत्यर्थः । अन्यत्र
सत्येव पालके सम्यक्पालनाभावेन श्वभ्रादौ पाताद्गोर्म-
रणे प्रायश्चित्तमाह विष्णुः “पल्वलौघवृकव्याघ्रश्वापदादि-
निपातने । श्वभ्रोद्बन्धनसर्पाद्यैर्मृते पादोनमाचरेत् ।
अपालने तु कृच्छ्रं स्यात् शून्यागाराद्युपप्लवे” । पादो-
नं प्राजापत्यमेव उत्तरवचने कृच्छ्रश्रवणात् । तथा
“पादश्चाप्राप्तके देयोवत्से स्वामिन्यरक्षिते” । अप्राप्तके
अप्राप्तदम्यावस्थे त्रिहायणपर्य्यन्ते इति यावत् ।
एवम्भूते वत्से ऽरक्षिते श्वभ्रपातादिना मृते सति स्वामिना
प्राजापत्यपादः करणीयः । अत्र पादमात्रप्रायश्चित्तत्वात्
बालत्वादिना नानुग्रहः । ततश्चाप्राप्तदम्यावस्थवत्सापाल-
ननिमित्तकवधजन्यपापक्षयकाम इति प्रयोज्यम्”
आतिदेशिकी गोहत्या बहुविधा यथा “सावित्र्युवाच ।
विप्रहत्याञ्च गोहत्यां किंविधामातिदेशिकीम् । का
पृष्ठ २७३३
वा नृणामगम्या वा को वा सन्ध्याविहीनकः । एतेषां
लक्षणं सर्वं वद वेदविदांवर! । यम उवाच, गामाहारं
प्रकुर्वन्तं पिबन्तं यो निवारयेत् । याति गोविप्रयोर्मध्ये
गोहत्याञ्च लभेत्तु स । दण्डैर्गान्ताडयन् मूढो यो विप्रो
वृषवाहकः । दिने दिने गवां हत्यां लभते नात्र संशयः ।
ददाति गोभ्य उच्छिष्टं भोजयेद्वृषवाहकम् । भोजये-
द्वृषवाहान्नं स गाहत्यां लभत्ध्रुवम् । वृषलीपतिं
याजयेद्योभुङ्क्तेऽन्नं तस्य यो नरः । गोहत्याश-
तकं सोऽपि लभते नात्र संशयः । पादं ददाति वह्नौ यो
गाञ्च पादेन ताड़येत् । गृहं विशेदधौताङ्घ्रिः स्नात्वा
गोबधमालभेत् । यो भुङ्क्ते स्निग्धपादेन शेते स्निग्धा-
ङिघ्ररेव च । सूर्य्योदये च द्विर्भोजी स गोहत्यां लभेत्
ध्रुवम् । अवीरान्नञ्च योभुङ्क्ते योनिजीवी च ब्राह्मणः ।
यस्त्रिसन्ध्याविहीनश्च स गोहत्यां लभेद्ध्रुवम् । पितॄंश्च
पर्वकाले च तिथिकाले च देवताः । न सेवतेऽतिथिं
योहि स गोहत्यां लभेत्ध्रुवम् । स्वभर्त्तरि च कृष्णे
वा भेदबुद्धिं करोति या । कटूक्त्या ताड़येत् कान्तं
सा गोहत्यां लभेद्ध्रुवम् । गोमार्गखननं कृत्वा
ददाति शस्यमेव च । तड़ागे च तदूर्द्ध्वे वा स गोहत्यां
लभेद् ध्रुवम् । प्रायश्चित्तं गोबधस्य यः करोति व्यति-
क्रमः । अर्थलोभादथाज्ञानं स गोहत्यां लभेत्ध्रुवम् ।
राजके दैवके यत्नात् गोस्वामी गां न पालयेत् । दुःखं
ददाति यो मूढ़ो गोहत्यां लभते ध्रुवम् । प्राणिनं
लङ्घयेत् यो दि देवार्च्चामनलं जलम् । नैषेद्यं पुष्प-
मन्नञ्च स गोहत्यां लभेद्ध्रुवम् । शश्वन्नास्तीति यो वादी
मिथ्यावादी प्रतारकः । देवद्वेषी गुरुद्वेषी स गोहत्यां
लभेत्ध्रुवम् । देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं
सति! । न सम्भ्रमान्नमेत् यो हि स गोहत्यां
लभेत्ध्रुवम् । न ददात्याशिषं कोपात् प्रणताय च यो
द्विजः । विद्यार्थिने च विद्याञ्च स गोहत्यां लभेत्ध्रुवम्”
ब्रह्म वैव० पु० प्रकृतिख०, ३७ अ० । “मुष्कमोषकरो-
विप्रो गोवधस्व व्रतं चरेत्” प्रा० त० उक्तेः मुष्कमोषो-
ऽपि आदेशिकः गोबधः ।

गोहन् त्रि० गां हन्ति हन--विच् ६ त० । १ गोहन्तरि मेघस्थ

जलभेदके २ इन्द्रे पु० । “आ रे गोहा मृहा बधोवः”
ऋ० ७ । ५६ । १७ । “गोहा गवां मेघस्थसलिलानां
भेदकः” भा० ।

गोहन त्रि० गुहू--संवरणे ल्यु ऊत्वाभावःच्छान्दसः । सं

वरके “समाने अहन् त्रिरवद्य गोहनाः” ऋ०१ । ३४ । ३
“गुहू सवरणे नन्द्यादित्वात् ल्युः “ऊदुपाधायाः गोहः”
पा० प्राप्तस्य ऊत्त्वस्याभावश्छान्दसः” भा० ।

गोहमुख पु० भारतवर्षस्ये पर्वतभेदे । भागवतोक्तगोकामुख

पर्वतस्य विष्णु पु० गोहमुखेति नाम । गोकामुखशब्दे
दृश्यम् ।

गोहरितकी स्त्री गोः हरितकीव हितकारित्वात् । विल्ववृक्षे त्रिका० ।

गोहल्ल न० हल--बिलेखे क्विप् तं लाति ला--क गोर्हल्लः ।

गोमये हारा० ।

गोहालिया स्त्री गवां हाले बिलेखे साधु बा० घ ।

(गोयालिया) ख्याते लताभेदे “पीतं गोयालियामूलं
तिलदध्याज्यसंयुतम् । निबद्धमूत्रं कथितं प्रवर्त्तयति
शङ्कर!” इति गारुड़े १९० अ० ।

गोहित पु० गवां हितं यस्मात् ५ ब० । १ विल्वे, २ घोषालता-

याञ्च । ३ गोहितकारके त्रि० । ४ विष्णौ पु०
“गोहितो गोपतिर्गोप्ता” विष्णुसह० । “गोभ्यो हितो
गोहितः, गोर्भूमेर्भारावतारणेच्छया शरीरग्रहणं
कुर्वन् गोहितोवा” भाष्यम् ।

गोहिर न० गुह--बा० इरच् पृषो० ऊत्त्वाभावः । पादमूले हेमच० ।

गोह्य त्रि० गुह--वा ण्यत् अच्येव ऊत्त्वस्य नियमनात्

नोत्त्वम् । १ गुह्ये २ अप्रकाश्ये ३ संवरणीये च ।

गौकक्ष्य पुंस्त्री गोकक्षर्षेर्गोत्रापत्यं गर्गा० यञ् ।

गोकक्षर्षिगोत्रापत्ये । तस्य छात्रः कण्वा० अण् यलोपः ।
गौकक्ष तच्छात्रे गौकक्ष्यस्यापत्यं तिका० फिञ् ।
गौकक्ष्यायनि तदपत्ये पुंस्त्री । स्त्रियां क्रौद्ध्यादि०
ष्यञ् । गौकक्ष्या गोकक्षगोत्रस्त्रियाम् । बहुत्वे
“यञञोश्च” पा० यञो लुक् । गोकक्षास्तद्गोत्रापत्येषु ।

गौग्गुलव त्रि० गुग्गुलौ भवः अण् । गुग्गुलुभवे धूपादौ

स्त्रियां शार्ङ्गरवा० ङीन् ।

गौच्य पु० गोच्याः हिमालयपत्न्याः अपत्यम् ढकि प्राप्त

बा० यत् । हिमालयपुत्रे मैनाके शब्दार्थचि० ।

गौञ्जिक पु० गुञ्जा तुलामानभेदः तद्ग्रहणं शीलमस्य

ठक् । स्वर्ण्णकारे त्रिका० ।

गौड़ पु० “वङ्गदेशं समारभ्य भुवनेशान्तगं शिवे! ।

गौडदेशः समाख्यातः सर्वविद्याविशारदः” स्कन्दपु० उक्ते
१ देशे २ तद्देशस्थे जने ब० व० । “सारस्वताः
कान्यकुब्जा गौडमैथिलकोत्कलाः । पञ्च गौडा इति
ख्याताविन्ध्यस्वोत्तरवासिनः” स्कन्दपु० इत्युक्तेषु विन्ध्यप-
पृष्ठ २७३४
र्व्वतोत्तरभागवासिषु ३ ब्राह्मणभेदेषु च । स्वार्थे क
तत्रार्थे । “अथ पूर्ब्बस्याम्” इत्युपक्रमे “उदयगिरि
भद्रगौडकपौण्ड्रोत्कलकाशिमेकलाम्बष्ठाः” वृ० स० १४ अ०
कूर्म्मविभागे पूर्व्वस्थदेशीक्तौ । “अस्ति गौडविषये
कौशाम्बी नाम नगरी” हितो० । “गौडोराष्ट्रमनु-
त्तमं निरूपमा तत्रापि राढा पुरी” प्रबोधच० “सर्व
सिंहगुंरुर्वर्ज्यः कलिङ्गे गोडगुर्जरे” मुहु० चि० ।
गुडस्य विकारः अण् । ४ गुडविकारे खण्डासवादौ त्रि०
“गुडस्य तृप्तामद्यस्य पीत्वा गौडं सुरासवम्” भा०
व० ४४ अ० । “नानास्वादरसानाञ्च खाण्डवानां तथैव
च । भोजनानि सुपूर्णानि गौडानि च सहस्रशः”
रामा० बा० ५३ श्लो० । “गौडमम्लमनम्लं वा पानकं
गुरु मूत्रलम्” सुश्रुतः । ५ मदिराभेदे स्त्री “गौडी
पैष्टी तथा माध्वी विज्ञेया त्रिविधा सुरा ।
यथैवैका तथा सर्व्वा न पातव्या द्विजोत्तमैः” मनुः ।
“गौडीं माध्वीं सुरां पैष्टीं पीत्वा विप्रः समाचरेत् ।
तप्तकृच्छ्रं पराकं च चान्द्रायणमनुक्रमात्”
वृहस्पतिः । ६ काव्यरीतिभेदे स्त्री “पदसंघटना रीति
रङ्गसंस्थाविशेषवत् । उपकर्त्त्री रसादीनां सा पुनः
स्यात्चतुर्विधा । वैदर्मी चाथ गौडी च पाञ्चाली
लाटिका तथा” विभज्य “ओजःप्रकाशकैर्वर्णैर्बन्ध आड़म्बरः
पुनः । समासबहुला गौडी” सा० द० तल्लक्षणमुक्तं
यथा “चञ्चद्भुजभ्रमितचण्डगदाभिघात--संचूर्णितोरु-
युगलस्य सुयोधनस्य । स्त्यानावनद्धवनशोणितशोण-
पाणिरुत्तंसयिष्यति कचांस्तव देवि! भीमः” वेणीसं० ।
एषा च गौडजनप्रियत्रात् गौडैः प्रयुज्यमानत्वाच्च
गौडीसंज्ञां लभते । गौड + छ । गौडीया अत्रार्थे । “बहु-
तरसमासयुक्तामहाप्राणाक्षरा च गौडीया । रीति-
रनुप्रासमहिमपरतन्त्राऽस्तोभवाक्या च” पुरुषोत्तमः ।
७ रागिणीभेदे स्त्री संगीतदा० । पुरशब्देपरे समासेअस्य
“अरिष्टगौड़पूर्वम्” पा० अन्तोदात्तता । गौड़पुरम् ।

गौड़पाद पु० माण्डुक्योपनिषदि तदर्थकश्लोककारके वेदान्ति

पण्डितभेदे । ते च “बहिःप्रज्ञो विभुर्विश्वोह्यन्तः-
प्रज्ञस्तु तैजसः” इत्यादयः “दुर्द्दर्शमतिगम्भीरमजं साम्यं
विशारदम् । बुद्ध्वा पदमनानात्वं नमस्कुर्म्मो यथाबलम्”
इत्यन्ताः शतं श्लोकाः ।

गौड़वास्तुक पुंन० “तदेव च वृहत्पत्रं रक्तं चेत् गौड़वा-

स्तुकम्” इत्युक्तलक्षणे वास्तुकभेदे । (चिल्लीशाक) राजनि० ।

गौड़िक त्रि० गुडे साधु गुड़ा० ठक् । १ इक्षौ । गौड़ः गूड़वि-

कारः साधनतयाऽस्त्यस्य ठन् । २ गुडविकारसाध्ये भक्ष्य
भेदे । “वृंहणा गौड़िका भक्ष्या गुरवोऽनिलनाशनाः”
“मधुमांसोपदंशं वा पिबेद्वाप्यथ गौड़िकम्” इति च सुश्रु०

गौण त्रि० गुणमधिकृत्य प्रवृत्ता गौणी तत आगतः

अण् । १ सादृश्यलक्षणलक्ष्यसम्बन्धरूपया गौण्या
लक्षणया प्रवृत्ते शब्दे “गौणश्चेन्नात्मशब्दात्”
शा० सू० । २ अमुख्ये च । “यद्वाऽऽगामिक्रियामुख्य
कालस्याप्यन्तरालवत् । गौणकालत्वमिच्छन्ति केचित् प्राक्त-
नकर्म्मणि” उद्वा० त० हरिहरपद्धतिः । “एवमागामिया-
गीय मुख्य कालादधस्तनः । स्वकालादुत्तरो गौणः कालः
र्वस्य कर्म्मणः” छन्दोग० । “तदा गौणमनन्तस्य नामा-
नन्तेति विश्रुतम्” भा० शा० १८२ अ० । “बहूनि मम
नामानि कीर्त्तितानि महर्षिभिः । गौणानि तत्र
नामानि कर्म्मजानि च कानि चित्” ३४३ अ० ।
स्त्रियां ङीप् । “गौण्यश्रुतेः” शा० सू० । (गौणी-
उत्पत्तिः) गुणं सादृश्यमधिकृत्य प्रवृत्ता अण् ङीप् ।
३ सादृश्यमूलकलक्षणाभेदे स्त्री । “सादृश्यात्तु मता गौण्य-
स्ताश्च षोड़शभेदिताः” सा० द० । “सादृश्येतरसम्बन्धे-
ऽपि वृत्तेर्गौणत्वमिच्छन्ति । “अभिधेयाविनाभूतप्रतीति
र्लक्षणोच्यते । लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टा तु
गौणता” काव्य प्र० ।
गुणोऽप्रधानमेव स्वार्थे प्रज्ञा० अण् । ४ अप्रधाने कर्मादौ ।
“गौणे कर्म्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम्” व्या०
का० । गौणस्य भावः ष्यञ् गौण्य न०, त्व गौणत्व न०,
तल् गोणता स्त्री, अप्रधानत्वे “गवाबादेः स्वोऽन्ते
गौण्येऽनीयसः” सुग्ध० । “वृत्तेरिष्टा तु गौणता”
काव्यप्र० गौणत्वञ्च प्रसिद्धवस्तुभेदस्यैव यथाह शा० भा०
“प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेः । यस्य हि
प्रसिद्धो वस्तुभेदः यथा केशरादिमानाकृतिविशेषोऽन्वयः
व्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्योऽन्यः प्रसिद्धः ।
ततश्चान्यःपुरुषः प्रायिकैः क्रौर्य्यशौर्य्यादिभिः सिंहगुणैः
सम्पन्नः प्रसिद्धः तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ
भवतः नाप्रसिद्धवस्तुभेदस्य” ।

गौणचान्द्र पु० । “चान्द्रोऽपि द्विविधः प्रोक्तो गौणमुख्य-

प्रभेदतः । गौणः कृष्णप्रतिपदः पौर्णमास्यन्तईरितः”
शब्दर० उक्ते कृष्णपदादिपौर्णस्यान्ते चान्द्रे मासे अत्र
व्यवस्था नि० सि० उक्ता यथा
पृष्ठ २७३५
त्रिकाण्डमण्डनः “चान्द्रोऽपि शुक्लपक्षादिः कृष्णा-
दिर्वति च द्विधा” इत्युक्त्वा देशभेदेन तद्व्यवस्थामाह
“कृष्णपक्षादिकं मासं नाङ्गीकुर्वन्ति केचन । येऽपीच्छन्ति
न तेषाञ्च देशे विन्ध्यस्य दक्षिणे” इति विन्ध्यस्य दक्षिणे
कृष्णादिनिषेधाद् उत्तरतोद्वयोरभ्यनुज्ञा गम्यते तत्रापि
शुक्लादिर्मुख्यः कृष्णादिर्गौणः शास्त्रेषु चैत्रशुक्लप्रतिप-
द्येव चान्द्रसंवत्सरारम्भोक्तेः तदुक्तं दीपिकायां “चान्द्रो
ऽव्दोमधुशुक्लगप्रतिपदारम्भः” इति न हि ये कृष्णादिं मन्य-
न्ते तेषां वत्सरारम्भोभिद्यते अतः शुक्लादिर्मुख्यः कृष्णा-
दिना मलमासासम्भवाच्च चान्द्रस्य सर्वनक्षत्रभोगेन नाक्ष-
त्रमासः । सावनादीनां व्यवस्थोक्ता हेमाद्रौ ब्रह्मसिद्धान्ते
“अमावास्यापरिच्छिन्नोमासः स्याद्व्राह्मणस्य तु । संक्रा-
न्तिपौर्णमासीभ्यां तथैव नृपवैश्ययोः” अत्र ब्राह्मणा-
दीनां यत्र कर्मविशेषे वचनान्तरेण “वसन्ते ब्राह्मणोऽ-
ग्निमादधीत” इत्यादिवन्मास उक्तस्तत्र दर्शान्तत्वमात्रं
नियम्यते न तु सर्वकमसु दर्शान्तएवेति वृष्ट्याद्यर्थसौभरेया-
दिनिधननियमवद्विधिलाघवात् त्रैवर्णिकानां सर्वकर्मसु
मासविशेषबिधेः सावनादीनां शूद्रानुलोमादिपरत्वा-
पत्तेश्चेति गुरुचरणाः । ज्योतिर्गर्गः “सौरमासो विवा-
हादौ यज्ञादौ सावनः स्मृतः । आव्दिके पितृकार्ये
च चान्द्रोमासः प्रशस्यते” । ऋष्यशृङ्गः “विवाहव्रतयज्ञेषु
सौरं मामस्यचक्षते । पार्वणे त्वष्टकाश्राद्धे चान्द्रमिष्टन्तथा-
वदिके” स्मृत्यन्तरे “एकोद्दिष्टविवाहादौ ऋणादौ
सौरसावनौ” ज्योतिर्गर्गः “आयुर्दायविभागश्च प्रायश्चित्तक्रि-
या तथा । सावनेनैव कर्त्तव्या शत्रूणां चाप्युपासना”
विष्णुधर्मे “नक्षत्रसत्राण्ययनानि चेन्दोर्मासेन कुर्य्याद्भगणा-
त्मकेनेति” ब्राह्मे “तिथिकृत्ये च कृष्णादिं व्रते शुक्लादि
मेव च । विवाहादौच सौरादिंमासंकृत्ये विनिर्दिशेत्”

गौणिक त्रि० गुणे रूपादौ साधु कथा० ठक् । १ गुणसाधने ।

गुणं वेत्ति तत्प्रतिपादकं ग्रन्थमधीते वा उक्था० ठक् ।
वसन्ता० ठक् वा । २ गुणवेत्तरि ३ तद्ग्रन्थपाठके च
त्रि० गुणैः सत्त्वादिभिः निर्वृत्तः ठञ् । सत्वादिनिर्वृत्ते
४ पदार्थे स्त्रियां ङीप् । तत्र वृणभेदेन गतिभेदो
मनुना दर्शितो यथा
“येन यांस्तु गुणेनैषां संसारान् प्रतिपद्यते । तान्
समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् । देवत्वं सात्वि-
का यान्ति मनुष्यत्वञ्च राजसाः । तिर्य्यक्त्वं तामसा
नित्यमित्येषा त्रिविधा गतिः । त्रिविधा त्रिविधैषा तु
विज्ञेया गौणिकी गतिः । अधमा मध्यमाऽग्र्य्या च
कर्कविद्याविशेषतः । स्थावरा कृमिकीटाश्च मत्स्याः सर्प्राः
सकच्छपाः । पशवश्च मृगाश्चैव जघन्या तामसी गतिः ।
हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः । सिंहा
व्याघ्रा वराहाश्च मध्यमा तामसी गतिः । चारणाश्च
सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः । रक्षांसि च पिशाचाश्च
तामसीषूत्तमा गतिः । झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्र-
वृत्तयः । द्यूतपानप्रसक्ताश्च जवन्या राजसी गतिः ।
राजानः क्षत्रियाश्चैव राज्ञश्चैव पुरोहिताः । वादयुद्ध-
प्रधानाश्च मध्यमा राजसी गतिः । गन्धर्वा गुह्यका
यक्षा विबुधानुचराश्च ये । तथैवाप्सरसः सर्वा
राजसीषूत्तमा गतिः । तापसा यतयो विप्रा ये च वैमानिका-
गणाः । नक्षत्राणि च दैत्याश्च प्रथमा सात्विकी गतिः ।
यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः ।
पितरश्चैव साध्याश्च द्वियीया सात्विकी गतिः । ब्रह्मा विश्व
सृजोधर्मो महानव्यक्तमेव च । उत्तमां सात्विकीमेतां
गतिमाहुर्मनीषिणः । एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य
कर्मणः । त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौमिकः” ।
गुणएव अङ्गुल्या० स्वार्थे ठक् । ५ गुणशब्दार्थे पु०

गौतम पु० गोतमस्यर्षेर्गोत्रापत्यम् ऋष्यण् । १ गोतमर्षिगोत्रा-

पत्ये २ भरद्वाजमुनौ पु० । स च वैवस्वते मन्वन्तरे सप्तर्षि
मध्यवर्त्ती यथाह हरिवं० ७ अ० “अत्रिर्वसिष्ठोभग-
वान् कश्यपश्च महानृषिः । गौतमश्च भरद्वाजो विश्वा-
मित्रस्तथैव च । तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
सप्तमो जमदग्निश्च ऋषयः साम्प्रता दिवि”
शतानन्दपिता अहल्यापतिश्च गौतमस्ततोभिन्न एव ।
तत्कथा च” रा० बा० ४८ । ४९ अ० “गौतमस्याश्रमं श्रेष्ठं
पूर्व्वमासीन्महात्मनः इत्यादौ दृश्या
अहल्यापुत्रे ३ शतानन्दे “गौतमश्च शतानन्दः” वीरच० ।
गोतमगोत्रस्य शरद्वतोऽपत्ये ४ कृपाचार्य्ये ५ तस्य भगिन्यां
द्रोणपत्न्यां कृप्यां स्त्री ङीप् । “कृपः स्मृतः स वै तस्मात्
गौतमी च कृपी मता । एते शारद्वताः प्रोक्ता एते ते
गौतमाः स्मृताः” हरिवं ३२ अ० । कृपशब्दे २१९२ पृ०
विवृतिः । “तत आसाद्य तरसा दारुणं गौतमीसुतम्”
(अश्वत्थामानम्) भाग० १ । ७ । ४७ श्लो० । ६ मायादेवीसुते
शाक्यमुनौ अमरः । एकतादीनां मुनीनां ७ पितरि ।
“आसन् पूर्वयुगे राजन्! मुनयोभ्रातरस्त्रयः । एकतश्च
द्वितश्चैव त्रितश्चादित्यसन्निभाः” इत्य पक्रमे “तेषाञ्च
पृष्ठ २७३६
तपसा प्रीतो नियमेन दमेन च । अभवद् गौतमोनित्यं
पिता धर्म्मरतः सदा” भा० श० ३७ अ० । ८ दुर्गायां
स्त्री मेदि० “गै तमीं कंसभयदां यशोदानन्दवर्द्धिनीम्”
हरिवं०१७ अ० । ९ राक्षसोभेदे स्त्री शब्दर० । तस्येदमि-
त्यण् ङीप् । १० गोदावरीनद्यां स्त्री गौरा० ङीष् । “गौत-
मस्याघनाशिनी” इति गोदावरीस्नानमन्त्रलिङ्गादघनाशाय
तस्यास्तत्सेवितत्वाद्वा तथात्वम्” “ताम्रारुणा वेत्रवती
पर्णाशा गौतमी तु सा । गोदावरी च वेणा च” भा०
आ० १६५ अ० । ११ गोरोचनायाञ्च स्त्री राजनि० । १२
शाक्यमुनिप्रणीतविद्यायाम् १३ गौतमप्रणीतायां षोड़शप-
दार्थविद्यायाञ्च स्त्री । “अधीत्य गौतमीं विद्यां शृगाल-
त्वमवाप्नुयात् । पुराणान्तरे तद्विद्याध्ययननिषेधः ।

गौतमसम्भवा स्त्री गौतमाय तदवनाशाय सम्भवतीति

अच् । गौतमगङ्गायां गोदावरीनद्याम् राजनि० ।
ब्रह्मपु० गौतमं प्रति त्र्यम्बकवाक्यम् । “इयन्तु गौतमी
पुत्र! यत्र क्वापि ममाज्ञया । सर्वेषां सर्वदा नॄणां
स्नानान्मुक्तिं प्रदास्यति । क्वचित् काले पुण्यतसं किञ्चि-
त्तीर्थं सुसङ्गमे । सर्वेषां सर्वदा तीर्थं गौतमी नात्र
संशयः । इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च ।
ब्राह्मी गोदावरी नन्दा सुनन्दा कामदायिनी । ब्रह्म
तेजःसमानीता सर्वपापप्रणाशिनी” “एवमेषाऽपि ते
प्रोक्ता गङ्गाख्याता महामते! । माहेश्वरी वैष्णवी च
सैव ब्राह्मी च पावनी । भागीरथी देवनदी हिमवच्छि-
खराश्रया । महेश्वरजटाभारैरेवं द्वैविध्यमागतम् ।
बिन्ध्यस्य दक्षिणे गङ्गा गौतमी सा निगद्यते । उत्तरे
सापि बिन्ध्यस्य भागीरथ्यभिधीयते”

गौत्तम पु० गच्छतिति गं गात्रमुत्तायति उद् + तम--अच्

स्वार्थे अण् । स्थावरविषभेदे हेमच० ।

गौदन्तेय त्रि० गोदन्तस्येदम् शुभ्रा० ढक् । गोदन्तचन्दन सम्बन्धिनि ।

गौदानिक त्रि० गादानं कर्म्मास्य ब्रह्मचर्य्यस्य

महानाम्न्यादिभ्यः षष्ठ्यर्थे उपसंख्यानम्” वार्ति० ठक् ।
१ गोदानाख्यब्रह्मचर्य्य सम्बन्धिनि । गोदाने उक्तं ठक् ।
२ गोदानोक्ते कर्म्मणि । “उपरि समिधं कृत्वा गामन्नञ्च
ब्राह्मणेभ्यः प्रदाय गौदानिकं कर्मः कुर्व्वीत” आश्व०
गृ० ३ । ८ । ६ । “ततो गोदानोक्तं कर्म्मेहापि कुर्य्यात्”
नारा० वृत्तिः ।

गौधार पु० गोधायाः अपत्यम् आरक् । गोधापुत्रे । गौधेयः गौधेरोऽप्यत्र गोधाशब्दे दृश्यम् ।

गौधूम त्रि० गोधूमस्य विकारः बिल्वा० अण । गोधूम-

विकारे रोटिकादौ स्त्रियां ङीप् । “गोधूमं चषालं
भवति” श त० व्रा० ५ । २ । १ । ६ । “उत्कीर्ण्णसमाग्रो
गोधूमचषालः” कात्या० श्रौ० १४ । १ । २२ । “गोधूमपिष्टमय-
श्चषालो भवतीत्यर्थः ।

गौधूमीन न० गोधूमस्य भवनं क्षेत्रम् गीधूम--खञ् । गोधूमभवनयोग्ये क्षेत्रे ।

गौधेरकायणि पुंस्त्री गोधेरस्यापत्यं वाकिना० फिञ्

कुक्च् । गौधेरापत्ये । पक्षे अत इञ् न कुक् । गौधेरि
तदपत्ये पुंस्त्री ।

गौनर्द्द त्रि० गोनर्द्ददेशे भवः प्राचोभिन्नमते एङादित्वेऽपि

वृद्धत्वाभावात् न छ, किन्तु अण् । १ गोनर्द्ददेशभवे २
पातञ्जलमुनौ पु०

गौपत्य न० गोपतेर्भावः पत्यन्तत्वात् यक् । गोपतिभावे

गोस्वामित्वे । “विश्वरूप्यूर्जा मा विश गौपत्येन” यजु०
३ । २२ । “रायस्पोषं गौपत्यन्” । ४१ । ५८ ।

गौपवन पु० गोपवनशब्दे व्युत्पत्तिः । ऋषिभेदे स च

मधुकाण्डस्य वंशस्थोमुनिभेदः “अथ वंशः पौतिमाष्यात्
गौपबनात् गौपपनः” वृ० उ० ४ । ६ । १ ।

गौपिक पु० स्त्री गोपिकाया अपत्यम् ढकोबाधकः शिवा०

अण् । गोपिकाऽपत्ये स्त्रियां ङीप् ।

गौपिलेय त्रि० गोपिल + चतुरर्थ्यां सख्या० ढक् गोपिल

निर्वृत्तादौ ।

गौपुच्छ त्रि० गोपुच्छमिव शर्करा० इवार्थे अण् । गोपुच्छसदृशे ।

गौपुच्छिक त्रि० गोपुच्छेन क्रीतम् ठञ् । १ गोपुच्छक्रीते ।

गोपुच्छेन तरति ठञ् । २ गोपुच्छेन तारके च ।

गौप्तेय पु० स्त्री गुप्ता वैश्यजातिस्त्री तस्या अपत्यम्

शुभ्रा० ढक् तन्नामिकाणोऽपवादः । गुप्ताया अपत्ये ।

गौभूत त्रि० गोभृता निर्वृत्तं सङ्कला० अण् । गोभृता निर्वृत्ते

गौमत त्रि० गोमत्यां भवः पलद्या० अण् । गोमतीनदीभवे

मत्स्यादौ ।

गौमतायन पु० स्त्री गोमत्यां भवादि बा० फञ् । गोमती

भवादौ । ततः अरीहणा० चतुरर्थ्यां वुञ् ।
गौमतायनक० तन्निर्वृत्तादौ त्रि० ।

गौमयिक त्रि० गोमयेन निर्वृत्तादि कुमुदा० ठञ् । गोमय र्निवृत्तादौ ।

गौमायन पु० स्त्री गोमिनोगोत्रापत्यम् अश्वा० फञ् टिलोपः ।

गोस्वामिगोत्रापत्ये ।
"https://sa.wikisource.org/w/index.php?title=वाचस्पत्यम्/गोत्रज&oldid=57721" इत्यस्माद् प्रतिप्राप्तम्