छिन्नमस्तासहस्रनामस्तोत्रम्

विकिस्रोतः तः


श्रीगणेशाय नमः ।

श्रीदेव्युवाच ।

देवदेव महादेव सर्वशास्त्रविदांवर ।
कृपां कुरु जगन्नाथ कथयस्व मम प्रभो ॥ १॥

प्रचण्डचण्डिका देवी सर्वलोकहितैषिणी ।
तस्याश्च कथितं सर्वं स्तवं च कवचादिकम् ॥ २॥

इदानीं छिन्नमस्ताया नाम्नां साहस्रकं शुभम् ।
त्वं प्रकाशय मे देव कृपया भक्तवत्सल ॥ ३॥

श्रीशिव उवाच ।
श्रृणु देवि प्रवक्ष्यामि च्छिन्नायाः सुमनोहरम् ।
गोपनीयं प्रयत्नेन यदीच्छेदात्मनो हितम् ॥ ४॥

न वक्तव्यं च कुत्रापि प्राणैः कण्ठगतैरपि ।
तच्छृणुष्व महेशानि सर्वं तत्कथयामि ते ॥ ५॥

विना पूजां विना ध्यानं विना जाप्येन सिद्ध्यति ।
विना ध्यानं तथा देवि विना भूतादिशोधनम् ॥ ६॥

पठनादेव सिद्धिः स्यात्सत्यं सत्यं वरानने ।
पुरा कैलासशिखरे सर्वदेवसभालये ॥ ७॥

परिपप्रच्छ कथितं तथा श्रृणु वरानने ।
ॐ अस्य श्रीप्रचण्डचण्डिकासहस्रनामस्तोत्रस्य भैरव ऋषिः ,
सम्राट् छन्दः , प्रचण्डचण्डिका देवता ,
धर्मार्थकाममोक्षार्थे पाठे विनियोगः ॥ ८॥

ॐ प्रचण्डचण्डिका चण्डा चण्डदैत्यविनाशिनी ।
चामुण्डा च सचण्डा च चपला चारुदेहिनी ॥ ९॥

ललजिह्वा चलद्रक्ता चारुचन्द्रनिभानना ।
चकोराक्षी चण्डनादा चञ्चला च मनोन्मदा ॥ १०॥

चेतना चितिसंस्था च चित्कला ज्ञानरूपिणी ।
महाभयङ्करी देवी वरदाभयधारिणी ॥ ११॥

भवाढ्या भवरूपा च भवबन्धविमोचिनी ।
भवानी भुवनेशी च भवसंसारतारिणी ॥ १२॥

भवाब्धिर्भवमोक्षा च भवबन्धविघातिनी ।
भागीरथी भगस्था च भाग्यभोगप्रदायिनी ॥ १३॥

कमला कामदा दुर्गा दुर्गबन्धविमोचिनी ।
दुर्द्दर्शना दुर्गरूपा दुर्ज्ञेया दुर्गनाशिनी ॥ १४॥

दीनदुःखहरा नित्या नित्यशोकविनाशिनी ।
नित्यानन्दमया देवी नित्यं कल्याणकारिणी ॥ १५॥

सर्वार्थसाधनकरी सर्वसिद्धिस्वरूपिणी ।
सर्वक्षोभणशक्तिश्च सर्वविद्राविणी परा ॥ १६॥

सर्वरञ्जनशक्तिश्च सर्वोन्मादस्वरूपिणी ।
सर्वदा सिद्धिदात्री च सिद्धविद्यास्वरूपिणी ॥ १७॥

सकला निष्कला सिद्धा कलातीता कलामयी ।
कुलज्ञा कुलरूपा च चक्षुरानन्ददायिनी ॥ १८॥

कुलीना सामरूपा च कामरूपा मनोहरा ।
कमलस्था कञ्जमुखी कुञ्जरेश्वरगामिनी ॥ १९॥

कुलरूपा कोटराक्षी कमलैश्वर्यदायिनी ।
कुन्ती ककुद्मिनी कुल्ला कुरुकुल्ला करालिका ॥ २०॥

कामेश्वरी काममाता कामतापविमोचिनी ।
कामरूपा कामसत्वा कामकौतुककारिणी ॥ २१॥

कारुण्यहृदया क्रीङ्क्रींमन्त्ररूपा च कोटरा ।
कौमोदकी कुमुदिनी कैवल्या कुलवासिनी ॥ २२॥

केशवी केशवाराध्या केशिदैत्यनिषूदिनी ।
क्लेशहा क्लेशरहिता क्लेशसङ्घविनाशिनी ॥ २३॥

कराली च करालास्या करालासुरनाशिनी ।
करालचर्मासिधरा करालकलनाशिनी ॥ २४॥

कङ्किनी कङ्कनिरता कपालवरधारिणी ।
खड्गहस्ता त्रिनेत्रा च खण्डमुण्डासिधारिणी ॥ २५॥

खलहा खलहन्त्री च क्षरन्ती खगता सदा ।
गङ्गागौतमपूज्या च गौरी गन्धर्ववासिनी ॥ २६॥

गन्धर्वा गगणाराध्या गणा गन्धर्वसेविता ।
गणत्कारगणा देवी निर्गुणा च गुणात्मिका ॥ २७॥

गुणता गुणदात्री च गुणगौरवदायिनी ।
गणेशमाता गम्भीरा गगणा ज्योतिकारिणी ॥ २८॥

गौराङ्गी च गया गम्या गौतमस्थानवासिनी ।
गदाधरप्रिया ज्ञेया ज्ञानगम्या गुहेश्वरी ॥ २९॥

गायत्री च गुणवती गुणातीता गुणेश्वरी ।
गणेशजननी देवी गणेशवरदायिनी ॥ ३०॥

गणाध्यक्षनुता नित्या गणाध्यक्षप्रपूजिता ।
गिरीशरमणी देवी गिरीशपरिवन्दिता ॥ ३१॥

गतिदा गतिहा गीता गौतमी गुरुसेविता ।
गुरुपूज्या गुरुयुता गुरुसेवनतत्परा ॥ ३२॥

गन्धद्वारा च गन्धाढ्या गन्धात्मा गन्धकारिणी ।
गीर्वाणपतिसम्पूज्या गीर्वाणपतितुष्टिदा ॥ ३३॥

गीर्वाणाधिशरमणी गीर्वाणाधिशवन्दिता ।
गीर्वाणाधिशसंसेव्या गीर्वाणाधिशहर्षदा ॥ ३४॥

गानशक्तिर्गानगम्या गानशक्तिप्रदायिनी ।
गानविद्या गानसिद्धा गानसन्तुष्टमानसा ॥ ३५॥

गानातीता गानगीता गानहर्षप्रपूरिता ।
गन्धर्वपतिसंहृष्टा गन्धर्वगुणमण्डिता ॥ ३६॥

गन्धर्वगणसंसेव्या गन्धर्वगणमध्यगा ।
गन्धर्वगणकुशला गन्धर्वगणपूजिता ॥ ३७॥

गन्धर्वगणनिरता गन्धर्वगणभूषिता ।
घर्घरा घोररूपा च घोरघुर्घुरनादिनी ॥ ३८॥

घर्मबिन्दुसमुद्भूता घर्मबिन्दुस्वरूपिणी ।
घण्टारवा घनरवा घनरूपा घनोदरी ॥ ३९॥

घोरसत्वा च घनदा घण्टानादविनोदनी ।
घोरचाण्डालिनी घोरा घोरचण्डविनाशिनी ॥ ४०॥

घोरदानवदमनी घोरदानवनाशिनी ।
घोरकर्मादिरहिता घोरकर्मनिषेविता ॥ ४१॥

घोरतत्वमयी देवी घोरतत्वविमोचनी ।
घोरकर्मादिरहिता घोरकर्मादिपूरिता ॥ ४२॥

घोरकर्मादिनिरता घोरकर्मप्रवर्द्धिनी ।
घोरभूतप्रमथिनी घोरवेतालनाशिनी ॥ ४३॥

घोरदावाग्निदमनी घोरशत्रुनिषूदिनी ।
घोरमन्त्रयुता चैव घोरमन्त्रप्रपूजिता ॥ ४४॥

घोरमन्त्रमनोभिज्ञा घोरमन्त्रफलप्रदा ।
घोरमन्त्रनिधिश्चैव घोरमन्त्रकृतास्पदा ॥ ४५॥

घोरमन्त्रेश्वरी देवी घोरमन्त्रार्थमानसा ।
घोरमन्त्रार्थतत्वज्ञा घोरमन्त्रार्थपारगा ॥ ४६॥

घोरमन्त्रार्थविभवा घोरमन्त्रार्थबोधिनी ।
घोरमन्त्रार्थनिचया घोरमन्त्रार्थजन्मभूः ॥ ४७॥

घोरमन्त्रजपरता घोरमन्त्रजपोद्यता ।
ङकारवर्णानिलया ङकाराक्षरमण्डिता ॥ ४८॥

ङकारापररूपा ङकाराक्षररूपिणी ।
चित्ररूपा चित्रनाडी चारुकेशी चयप्रभा ॥ ४९॥

चञ्चला चञ्चलाकारा चारुरूपा च चण्डिका ।
चतुर्वेदमयी चण्डा चण्डालगणमण्डिता ॥ ५०॥

चाण्डालच्छेदिनी चण्डतपोनिर्मूलकारिणी ।
चतुर्भूजा चण्डरूपा चण्डमुण्डविनाशिनी ॥ ५१॥

चन्द्रिका चन्द्रकीर्तिश्च चन्द्रकान्तिस्तथैव च ।
चन्द्रास्या चन्द्ररूपा च चन्द्रमौलिस्वरूपिणी ॥ ५२॥

चन्द्रमौलिप्रिया चन्द्रमौलिसन्तुष्टमानसा ।
चकोरबन्धुरमणी चकोरबन्धुपूजिता ॥ ५३॥

चक्र‍रूपा चक्रमयी चक्राकारस्वरूपिणी ।
चक्रपाणिप्रिया चक्रपाणिप्रीतिदायिनी ॥ ५४॥

चक्रपाणिरसाभिज्ञा चक्रपाणिवरप्रदा ।
चक्रपाणिवरोन्मत्ता चक्रपाणिस्वरूपिणी ॥ ५५॥

चक्रपाणिश्वरी नित्यं चक्रपाणिनमस्कृता ।
चक्रपाणिसमुद्भूता चक्रपाणिगुणास्पदा ॥ ५६॥

चन्द्रावली चन्द्रवती चन्द्रकोटिसमप्रभा ।
चन्दनार्चितपादाब्जा चन्दनान्वितमस्तका ॥ ५७॥

चारुकीर्तिश्चारुनेत्रा चारुचन्द्रविभूषणा ।
चारुभूषा चारुवेषा चारुवेषप्रदायिनी ॥ ५८॥

चारुभूषाभूषिताङ्गी चतुर्वक्त्रवरप्रदा ।
चतुर्वक्त्रसमाराध्या चतुर्वक्त्रसमाश्रिता ॥ ५९॥

चतुर्वक्त्रचतुर्वाहा चतुर्थी च चतुर्दशी ।
चित्रा चर्मण्वती चैत्री चन्द्रभागा च चम्पका ॥ ६०॥

चतुर्द्दशयमाकारा चतुर्दशयमानुगा ।
चतुर्दशयमप्रीता चतुर्दशयमप्रिया ॥ ६१॥

छलस्था च्छिद्ररूपा च च्छद्मदा च्छद्मराजिका ।
छिन्नमस्ता तथा च्छिन्ना च्छिन्नमुण्डविधारिणी ॥ ६२॥

जयदा जयरूपा च जयन्ती जयमोहिनी ।
जया जीवनसंस्था च जालन्धरनिवासिनी ॥ ६३॥

ज्वालामुखी ज्वालदात्री जाज्वल्यदहनोपमा ।
जगद्वन्द्या जगत्पूज्या जगत्त्राणपरायणा ॥ ६४॥

जगती जगताधारा जन्ममृत्युजरापहा ।
जननी जन्मभूमिश्चजन्मदा जयशालिनी ॥ ६५॥

ज्वररोगहरा ज्वाला ज्वालामालाप्रपूरिता ।
जम्भारातीश्वरी जम्भारातिवैभवकारिणी ॥ ६६॥

जम्भारातिस्तुता जम्भारातिशत्रुनिषूदिनी ।
जयदुर्गा जयाराध्या जयकाली जयेश्वरी ॥ ६७॥

जयतारा जयातीता जयशङ्करवल्लभा ।
जयदा जह्नुतनया जलधित्रासकारिणी ॥ ६८॥

जलधिव्याधिदमनी जलधिज्वरनाशिनी ।
जङ्गमेशी जाड्यहरा जाड्यसङ्घनिवारिणी ॥ ६९॥

जाड्यग्रस्तजनातीता जाड्यरोगनिवारिणी ।
जन्मदात्री जन्महर्त्री जयघोषसमन्विता ॥ ७०॥

जपयोगसमायुक्ता जपयोगविनोदिनी ।
जपयोगप्रिया जाप्या जपातीता जयस्वना ॥ ७१॥

जायाभावस्थिता जाया जायाभावप्रपूरणी ।
जपाकुसुमसङ्काशा जपाकुसुमपूजिता ॥ ७२॥

जपाकुसुमसम्प्रीता जपाकुसुममण्डिता ।
जपाकुसुमवद्भासा जपाकुसुमरूपिणी ॥ ७३॥

जमदग्निस्वरूपा च जानकी जनकात्मजा ।
झञ्झावातप्रमुक्ताङ्गी झोरझङ्कारवासिनी ॥ ७४॥

झङ्कारकारिणी झञ्झावातरूपा च झङ्करी ।
ञकाराणुस्वरूपा च टनटङ्कारनादिनी ॥ ७५॥

टङ्कारी टकुवाणी च ठकाराक्षररूपिणी ।
डिण्डिमा च तथा डिम्भा डिण्डुडिण्डिमनादिनी ॥ ७६॥

ढक्कामयी ढिलमयी नृत्यशब्दा विलासिनी ।
ढक्का ढक्केश्वरी ढक्काशब्दरूपा तथैव च ॥ ७७॥

ढक्कानादप्रिया ढक्कानादसन्तुष्टमानसा ।
णङ्कारा णाक्षरमयी णाक्षरादिस्वरूपिणी ॥ ७८॥

त्रिपुरा त्रिपुरमयी चैव त्रिशक्तिस्त्रिगुणात्मिका ।
तामसी च त्रिलोकेशी त्रिपुरा च त्रयीश्वरी ॥ ७९॥

त्रिविद्या च त्रिरूपा च त्रिनेत्रा च त्रिरूपिणी ।
तारिणी तरला तारा तारकारिप्रपूजिता ॥ ८०॥

तारकारिसमाराध्या तारकारिवरप्रदा ।
तारकारिप्रसूस्तन्वी तरुणी तरलप्रभा ॥ ८१॥

त्रिरूपा च त्रिपुरगा त्रिशूलवरधारिणी ।
त्रिशूलिनी तन्त्रमयी तन्त्रशास्त्रविशारदा ॥ ८२॥

तन्त्ररूपा तपोमूर्तिस्तन्त्रमन्त्रस्वरूपिणी ।
तडित्तडिल्लताकारा तत्वज्ञानप्रदायिनी ॥ ८३॥

तत्वज्ञानेश्वरी देवी तत्वज्ञानप्रबोधिनी ।
त्रयीमयी त्रयीसेव्या त्र्यक्षरी त्र्यक्षरेश्वरी ॥ ८४॥

तापविध्वंसिनी तापसङ्घनिर्मूलकारिणी ।
त्रासकर्त्री त्रासहर्त्री त्रासदात्री च त्रासहा ॥ ८५॥

तिथीशा तिथिरूपा च तिथिस्था तिथिपूजिता ।
तिलोत्तमा च तिलदा तिलप्रिता तिलेश्वरी ॥ ८६॥

त्रिगुणा त्रिगुणाकारा त्रिपुरी त्रिपुरात्मिका ।
त्रिकुटा त्रिकुटाकारा त्रिकुटाचलमध्यगा ॥ ८७॥

त्रिजटा च त्रिनेत्रा च त्रिनेत्रवरसुन्दरी ।
तृतीया च त्रिवर्षा च त्रिविधा त्रिमतेश्वरी ॥ ८८॥

त्रिकोणस्था त्रिकोणेशी त्रिकोणयन्त्रमध्यगा ।
त्रिसन्ध्या च त्रिसन्ध्यार्च्या त्रिपदा त्रिपदास्पदा ॥ ८९॥

स्थानस्थिता स्थलस्था च धन्यस्थलनिवासिनी ।
थकाराक्षररूपा च स्थलरूपा तथैव च ॥ ९०॥

स्थूलहस्ता तथा स्थूला स्थैर्यरूपप्रकाशिनी ।
दुर्गा दुर्गार्तिहन्त्री च दुर्गबन्धविमोचिनी ॥ ९१॥

देवी दानवसंहन्त्री दनुज्येष्ठनिषूदिनी ।
दारापत्यप्रदा नित्या शङ्करार्द्धाङ्गधारिणी ॥ ९२॥

दिव्याङ्गी देवमाता च देवदुष्टविनाशिनी ।
दीनदुःखहरा दीनतापनिर्मूलकारिणी ॥ ९३॥

दीनमाता दीनसेव्या दीनदम्भविनाशिनी ।
दनुजध्वंसिनी देवी देवकी देववल्लभा ॥ ९४॥

दानवारिप्रिया दीर्घा दानवारिप्रपूजिता ।
दीर्घस्वरा दीर्घतनुर्द्दीर्घदुर्गतिनाशिनी ॥ ९५॥

दीर्घनेत्रा दीर्घचक्षुर्द्दीर्घकेशी दिगम्बरा ।
दिगम्बरप्रिया दान्ता दिगम्बरस्वरूपिणी ॥ ९६॥

दुःखहीना दुःखहरा दुःखसागरतारिणी ।
दुःखदारिद्र्यशमनी दुःखदारिद्र्यकारिणी ॥ ९७॥

दुःखदा दुस्सहा दुष्टखण्डनैकस्वरूपिणी ।
देववामा देवसेव्या देवशक्तिप्रदायिनी ॥ ९८॥

दामिनी दामिनीप्रीता दामिनीशतसुन्दरी ।
दामिनीशतसंसेव्या दामिनीदामभूषिता ॥ ९९॥

देवताभावसन्तुष्टा देवताशतमध्यगा ।
दयार्द्दरा च दयारूपा दयादानपरायणा ॥ १००॥

दयाशीला दयासारा दयासागरसंस्थिता ।
दशविद्यात्मिका देवी दशविद्यास्वरूपिणी ॥ १०१॥

धरणी धनदा धात्री धन्या धन्यपरा शिवा ।
धर्म्मरूपा धनिष्ठा च धेया च धीरगोचरा ॥ १०२॥

धर्म्मराजेश्वरी धर्म्मकर्म्मरूपा धनेश्वरी ।
धनुर्विद्या धनुर्गम्या धनुर्द्धरवरप्रदा ॥ १०३॥

धर्म्मशीला धर्म्मलीला धर्म्मकर्म्मविवर्जिता ।
धर्म्मदा धर्म्मनिरता धर्म्मपाखण्डखण्डिनी ॥ १०४॥

धर्म्मेशी धर्म्मरूपा च धर्म्मराजवरप्रदा ।
धर्म्मिणी धर्म्मगेहस्था धर्म्माधर्म्मस्वरूपिणी ॥ १०५॥

धनदा धनदप्रीता धनधान्यसमृद्धिदा ।
धनधान्यसमृद्धिस्था धनधान्यविनाशिनी ॥ १०६॥

धर्म्मनिष्ठा धर्म्मधीरा धर्म्ममार्गरता सदा ।
धर्म्मबीजकृतस्थाना धर्म्मबीजसुरक्षिणी ॥ १०७॥

धर्म्मबीजेश्वरी धर्म्मबीजरूपा च धर्म्मगा ।
धर्म्मबीजसमुद्भूता धर्म्मबीजसमाश्रिता ॥ १०८॥

धराधरपतिप्राणा धराधरपतिस्तुता ।
धराधरेन्द्रतनुजा धराधरेन्द्रवन्दिता ॥ १०९॥

धराधरेन्द्रगेहस्था धराधरेन्द्रपालिनी ।
धराधरेन्द्रसर्वार्तिनाशिनी धर्म्मपालिनी ॥ ११०॥

नवीना निर्म्मला नित्या नागराजप्रपूजिता ।
नागेश्वरी नागमाता नागकन्या च नग्निका ॥ १११॥

निर्लेपा निर्विकल्पा च निर्लोमा निरुपद्रवा ।
निराहारा निराकारा निरञ्जनस्वरूपिणी ॥ ११२॥

नागिनी नागविभवा नागराजपरिस्तुता ।
नागराजगुणज्ञा च नागराजसुखप्रदा ॥ ११३॥

नागलोकगता नित्यं नागलोकनिवासिनी ।
नागलोकेश्वरी नागभागिनी नागपूजिता ॥ ११४॥

नागमध्यस्थिता नागमोहसङ्क्षोभदायिनी ।
नृत्यप्रिया नृत्यवती नृत्यगीतपरायणा ॥ ११५॥

नृत्येश्वरी नर्तकी च नृत्यरूपा निराश्रया ।
नारायणी नरेन्द्रस्था नरमुण्डास्थिमालिनी ॥ ११६॥

नरमांसप्रिया नित्या नररक्तप्रिया सदा ।
नरराजेश्वरी नारीरूपा नारीस्वरूपिणी ॥ ११७॥

नारीगणार्चिता नारीमध्यगा नूतनाम्बरा ।
नर्मदा च नदीरूपा नदीसङ्गमसंस्थिता ॥ ११८॥

नर्मदेश्वरसम्प्रीता नर्मदेश्वररूपिणी ।
पद्मावती पद्ममुखी पद्मकिञ्जल्कवासिनी ॥ ११९॥

पट्टवस्त्रपरीधाना पद्मरागविभूषिता ।
परमा प्रीतिदा नित्यं प्रेतासननिवासिनी ॥ १२०॥

परिपूर्णरसोन्मत्ता प्रेमविह्वलवल्लभा ।
पवित्रासवनिष्पूता प्रेयसी परमात्मिका ॥ १२१॥

प्रियव्रतपरा नित्यं परमप्रेमदायिनी ।
पुष्पप्रिया पद्मकोशा पद्मधर्म्मनिवासिनी ॥ १२२॥

फेत्कारिणी तन्त्ररूपा फेरुफेरवनादिनी ।
वंशिनी वंशरूपा च बगला वामरूपिणी ॥ १२३॥

वाङ्मयी वसुधा धृष्या वाग्भवाख्या वरा नरा ।
बुद्धिदा बुद्धिरूपा च विद्या वादस्वरूपिणी ॥ १२४॥

बाला वृद्धमयीरूपा वाणी वाक्यनिवासिनी ।
वरुणा वाग्वती वीरा वीरभूषणभूषिता ॥ १२५॥

वीरभद्रार्चितपदा वीरभद्रप्रसूरपि ।
वेदमार्गरता वेदमन्त्ररूपा वषट् प्रिया ॥ १२६॥

वीणावाद्यसमायुक्ता वीणावाद्यपरायणा ।
वीणारवा तथा वीणाशब्दरूपा च वैष्णवी ॥ १२७॥

वैष्णवाचारनिरता वैष्णवाचारतत्परा ।
विष्णुसेव्या विष्णुपत्नी विष्णुरूपा वरानना ॥ १२८॥

विश्वेश्वरी विश्वमाता विश्वनिर्माणकारिणी ।
विश्वरूपा च विश्वेशी विश्वसंहारकारिणी ॥ १२९॥

भैरवी भैरवाराध्या भूतभैरवसेविता ।
भैरवेशी तथा भीमा भैरवेश्वरतुष्टिदा ॥ १३०॥

भैरवाधिशरमणी भैरवाधिशपालिनी ।
भीमेश्वरी भीममाता भीमशब्दपरायणा ॥ १३१॥

भीमरूपा च भीमेशी भीमा भीमवरप्रदा ।
भीमपूजितपादाब्जा भीमभैरवपालिनी ॥ १३२॥

भीमासुरध्वंसकरी भीमदुष्टविनाशिनी ।
भुवना भुवनाराध्या भवानी भूतिदा सदा ॥ १३३॥

भयदा भयहन्त्री च अभया भयरूपिणी ।
भीमनादा विह्वला च भयभीतिविनाशिनी ॥ १३४॥

मत्ता प्रमत्तरूपा च मदोन्मत्तस्वरूपिणी ।
मान्या मनोज्ञा माना च मङ्गला च मनोहरा ॥ १३५॥

माननीया महापूज्या महामहिषमर्द्दिनी ।
महिषासुरहन्त्री च मातङ्गी मयवासिनी ॥ १३६॥

माध्वी मधुमयी मुद्रा मुद्रिका मन्त्ररूपिणी ।
महाविश्वेश्वरी दूती मौलिचन्द्रप्रकाशिनी ॥ १३७॥

यशःस्वरूपिणी देवी योगमार्गप्रदायिनी ।
योगिनी योगगम्या च याम्येशी योगरूपिणी ॥ १३८॥

यज्ञाङ्गी च योगमयी जपरूपा जपात्मिका ।
युगाख्या च युगान्ता च योनिमण्डलवासिनी ॥ १३९॥

अयोनिजा योगनिद्रा योगानन्दप्रदायिनी ।
रमा रतिप्रिया नित्यं रतिरागविवर्द्धिनी ॥ १४०॥

रमणी राससम्भूता रम्या रासप्रिया रसा ।
रणोत्कण्ठा रणस्था च वरा रङ्गप्रदायिनी ॥ १४१॥

रेवती रणजैत्री च रसोद्भूता रणोत्सवा ।
लता लावण्यरूपा च लवणाब्धिस्वरूपिणी ॥ १४२॥

लवङ्गकुसुमाराध्या लोलजिह्वा च लेलिहा ।
वशिनी वनसंस्था च वनपुष्पप्रिया वरा ॥ १४३॥

प्राणेश्वरी बुद्धिरूपा बुद्धिदात्री बुधात्मिका ।
शमनी श्वेतवर्णा च शाङ्करी शिवभाषिणी ॥ १४४॥

श्याम्यरूपा शक्तिरूपा शक्तिबिन्दुनिवासिनी ।
सर्वेश्वरी सर्वदात्री सर्वमाता च शर्वरी ॥ १४५॥

शाम्भवी सिद्धिदा सिद्धा सुषुम्ना सुरभासिनी ।
सहस्रदलमध्यस्था सहस्रदलवर्त्तिनी ॥ १४६॥

हरप्रिया हरध्येया हूँकारबीजरूपिणी ।
लङ्केश्वरी च तरला लोममांसप्रपूजिता ॥ १४७॥

क्षेम्या क्षेमकरी क्षामा क्षीरबिन्दुस्वरूपिणी ।
क्षिप्तचित्तप्रदा नित्यं क्षौमवस्त्रविलासिनी ॥ १४८॥

छिन्ना च च्छिन्नरूपा च क्षुधा क्षौत्काररूपिणी ।
सर्ववर्णमयी देवी सर्वसम्पत्प्रदायिनी ॥ १४९॥

सर्वसम्पत्प्रदात्री च सम्पदापद्विभूषिता ।
सत्त्वरूपा च सर्वार्था सर्वदेवप्रपूजिता ॥ १५०॥

सर्वेश्वरी सर्वमाता सर्वज्ञा सुरसृत्मिका ।
सिन्धुर्मन्दाकिनी गङ्गा नदीसागररूपिणी ॥ १५१॥

सुकेशी मुक्तकेशी च डाकिनी वरवर्णिनी ।
ज्ञानदा ज्ञानगगना सोममण्डलवासिनी ॥ १५२॥

आकाशनिलया नित्या परमाकाशरूपिणी ।
अन्नपूर्णा महानित्या महादेवरसोद्भवा ॥ १५३॥

मङ्गला कालिका चण्डा चण्डनादातिभीषणा ।
चण्डासुरस्य मथिनी चामुण्डा चपलात्मिका ॥ १५४॥

चण्डी चामरकेशी च चलत्कुण्डलधारिणी ।
मुण्डमालाधरा नित्या खण्डमुण्डविलासिनी ॥ १५५॥

खड्गहस्ता मुण्डहस्ता वरहस्ता वरप्रदा ।
असिचर्मधरा नित्या पाशाङ्कुशधरा परा ॥ १५६॥

शूलहस्ता शिवहस्ता घण्टानादविलासिनी ।
धनुर्बाणधराऽऽदित्या नागहस्ता नगात्मजा ॥ १५७॥

महिषासुरहन्त्री च रक्तबीजविनाशिनी ।
रक्तरूपा रक्तगा च रक्तहस्ता भयप्रदा ॥ १५८॥

असिता च धर्म्मधरा पाशाङ्कुशधरा परा ।
धनुर्बाणधरा नित्या धूम्रलोचननाशिनी ॥ १५९॥

परस्था देवतामूर्तिः शर्वाणी शारदा परा ।
नानावर्णविभूषाङ्गी नानारागसमापिनी ॥ १६०॥

पशुवस्त्रपरीधाना पुष्पायुधधरा परा ।
मुक्तरञ्जितमालाढ्या मुक्ताहारविलासिनी ॥ १६१॥

स्वर्णकुण्डलभूषा च स्वर्णसिंहासनस्थिता ।
सुन्दराङ्गी सुवर्णाभा शाम्भवी शकटात्मिका ॥ १६२॥

सर्वलोकेशविद्या च मोहसम्मोहकारिणी ।
श्रेयसी सृष्टिरूपा च च्छिन्नच्छद्ममयी च्छला ॥ १६३॥

छिन्नमुण्डधरा नित्या नित्यानन्दविधायिनी ।
नन्दा पूर्णा च रिक्ता च तिथयः पूर्णषोडशी ॥ १६४॥

कुहूः सङ्क्रान्तिरूपा च पञ्चपर्वविलासिनी ।
पञ्चबाणधरा नित्या पञ्चमप्रीतिदा परा ॥ १६५॥

पञ्चपत्राभिलाषा च पञ्चामृतविलासिनी ।
पञ्चाली पञ्चमी देवी पञ्चरक्तप्रसारिणी ॥ १६६॥

पञ्चबाणधरा नित्या नित्यदात्री दयापरा ।
पललादिप्रिया नित्याऽपशुगम्या परेशिता ॥ १६७॥

परा पररहस्या च परमप्रेमविह्वला ।
कुलिना केशिमार्गस्था कुलमार्गप्रकाशिनी ॥ १६८॥

कुलाकुलस्वरूपा च कुलार्णवमयी कुला ।
रुक्मा च कालरूपा च कालकम्पनकारिणी ॥ १६९॥

विलासरूपिणी भद्रा कुलाकुलनमस्कृता ।
कुबेरवित्तधात्री च कुमारजननी परा ॥ १७०॥

कुमारीरूपसंस्था च कुमारीपूजनाम्बिका ।
कुरङ्गनयना देवी दिनेशास्याऽपराजिता ॥ १७१॥

कुण्डलीकदली सेना कुमार्गरहिता वरा ।
अनतरूपाऽनन्तस्था आनन्दसिन्धुवासिनी ॥ १७२॥

इलास्वरूपिणी देवी इईभेदभयङ्करी ।
इडा च पिङ्गला नाडी इकाराक्षररूपिणी ॥ १७३॥

उमा चोत्पत्तिरूपा च उच्चभावविनाशिनी ।
ऋग्वेदा च निराराध्या यजुर्वेदप्रपूजिता ॥ १७४॥

सामवेदेन सङ्गीता अथर्ववेदभाषिणी ।
ऋकाररूपिणी ऋक्षा निरक्षरस्वरूपिणी ॥ १७५॥

अहिदुर्गासमाचारा इकारार्णस्वरूपिणी ।
ॐकारा प्रणवस्था च ॐकारादिस्वरूपिणी ॥ १७६॥

अनुलोमविलोमस्था थकारवर्णसम्भवा ।
पञ्चाशद्वर्णबीजाढ्या पञ्चाशन्मुण्डमालिका ॥ १७७॥

प्रत्येका दशसङ्ख्या च षोडशी च्छिन्नमस्तका ।
षडङ्गयुवतीपूज्या षडङ्गरूपवर्जिता ॥ १७८॥

षड्वक्त्रसंश्रिता नित्या विश्वेशी खड्गदालया ।
मालामन्त्रमयी मन्त्रजपमाता मदालसा ॥ १७९॥

सर्वविश्वेश्वरी शक्तिः सर्वानन्दप्रदायिनी ।
इति श्रीच्छिन्नमस्ताया नामसहस्रमुत्तमम् ॥ १८०॥

पूजाक्रमेण कथितं साधकानां सुखावहम् ।
गोपनीयं गोपनीयं गोपनीयं न संशयः ॥ १८१॥

अर्द्धरात्रे मुक्तकेशो भक्तियुक्तो भवेन्नरः ।
जपित्वा पूजयित्वा च पठेन्नामसहस्रकम् ॥ १८२॥

विद्यासिद्धिर्भवेत्तस्य षण्मासाभ्यासयोगतः ।
येन केन प्रकारेण देवीभक्तिपरो भवेत् ॥ १८३॥

अखिलान्स्तम्भयेल्लोकांराज्ञोऽपि मोहयेत्सदा ।
आकर्षयेद्देवशक्तिं मारयेद्देवि विद्विषम् ॥ १८४॥

शत्रवो दासतां यान्ति यान्ति पापानि सङ्क्षयम् ।
मृत्युश्च क्षयतां याति पठनाद्भाषणात्प्रिये ॥ १८५॥

प्रशस्तायाः प्रसादेन किं न सिद्ध्यति भूतले ।
इदं रहस्यं परमं परं स्वस्त्ययनं महत् ॥ १८६॥

धृत्वा बाहौ महासिद्धिः प्राप्यते नात्र संशयः ।
अनया सदृशी विद्या विद्यते न महेश्वरि ॥ १८७॥

वारमेकं तु योऽधीते सर्वसिद्धीश्वरो भवेत् ।
कुलवारे कुलाष्टम्यां कुहूसङ्क्रान्तिपर्वसु ॥ १८८॥

यश्चेमं पठते विद्यां तस्य सम्यक्फलं श्रृणु ।
अष्टोत्तरशतं जप्त्वा पठेन्नामसहस्रकम् ॥ १८९॥

भक्त्या स्तुत्वा महादेवि सर्वपापात्प्रमुच्यते ।
सर्वपापैर्विनिर्मुक्तः सर्वसिद्धीश्वरो भवेत् ॥ १९०॥

अष्टम्यां वा निशीथे च चतुष्पथगतो नरः ।
माषभक्तबलिं दत्वा पठेन्नामसहस्रकम् ॥ १९१॥

सुदर्शवामवेद्यां तु मासत्रयविधानतः ।
दुर्जयः कामरूपश्च महाबलपराक्रमः ॥ १९२॥

कुमारीपूजनं नाम मन्त्रमात्रं पठेन्नरः ।
एतन्मन्त्रस्य पठनात्सर्वसिद्धीश्वरो भवेत् ॥ १९३॥

इति ते कथितं देवि सर्वसिद्धिपरं नरः ।
जप्त्वा स्तुत्वा महादेवीं सर्वपापैः प्रमुच्यते ॥ १९४॥

न प्रकाश्यमिदं देवि सर्वदेवनमस्कृतम् ।
इदं रहस्यं परमं गोप्तव्यं पशुसङ्कटे ॥ १९५॥

इति सकलविभूतेर्हेतुभूतं प्रशस्तं पठति
य इह मर्त्त्यश्छिन्नमस्तास्तवं च ।
धनद इव धनाढ्यो माननीयो नृपाणां स भवति
च जनानामाश्रयः सिद्धिवेत्ता ॥ १९६॥

॥ इति श्रीविश्वसारतन्त्रे शिवपार्वतीसंवादे
श्रीच्छिन्नमस्तासहस्रनामस्तोत्रं सम्पूर्णम् ॥