स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २२५

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततोगच्छेन्महादेवि देवं चाऽनरकेश्वरम्॥
तस्मादुत्तरदिग्भागे सर्वपातकनाशनम् ॥
तन्माहात्म्यं प्रवक्ष्यामि शृणु ह्येकमनाः प्रिये ॥ १॥
मथुरानाम विख्याता नगरी धरणीतले॥
तत्र विप्रोऽभवत्पूर्वं देवशर्मेति विश्रुतः ॥
अगस्त्यगोत्रो विद्वान्वै स तु दारिद्र्यपीडितः ॥ २ ॥
अथापरोऽभवत्तत्र तादृग्रूपवयोऽन्वितः ॥
तन्नाम गोत्रो देवेशि ब्राह्मणो वेदपारगः ॥ ३ ॥
अथ प्राह यमो दूतं रौद्रमूर्धशिरोरुहम् ॥
गच्छ भो मथुरां शीघ्रं देवशर्माणमानय ॥ ४ ॥
अथागत्य ततो दूतो गृहीत्वा तत्र वै गतः ॥
तं दृष्ट्वाथ यमो नत्वा प्राह दूतं क्रुधान्वितः ॥ ५ ॥
नायमानेतुमादिष्टो देवशर्मां मया तव ॥
अन्योस्ति देवशर्मा यस्त मानय गतायुषम् ॥
एनं विप्रं च दीर्घायुं नय तत्राविलंबितम् ॥ ६ ॥
॥ ईश्वर उवाच ॥ ॥
अथाब्रवीद्ब्राह्मणो वै नाहं यास्ये गृहं विभो ॥
दारिद्र्येणातिनिर्विण्णो यावज्जीवं सुरेश्वर ॥
इहैव क्षपयिष्यामि शेषमायुस्तवांतिके ॥ ७ ॥
॥ यम उवाच ॥ ॥
अकाले नात्र चायाति कश्चिद्ब्राह्मणसत्तम ॥
मुहूर्तमपि नो जीवेत्पूर्णकालेन वै भुवि ॥ ८ ॥
अत एव हि मे नाम धर्मराजेति विश्रुतम् ॥ ९ ॥
न मे सुहृन्न मे द्वेष्यः कश्चिदस्ति धरातले ॥
विद्धः शरशतेनापि नाऽकाले म्रियते यतः ॥ 7.1.225.१० ॥
कुशाग्रेणापि विद्धः सन्काले पूर्णे न जीवति ॥
तस्माद्गच्छ द्विजश्रेष्ठ यावद्गात्रं न दह्यते ॥ ११ ॥
अथाब्रवीद्ब्राह्मणोऽसौ यदि प्रेषयसे प्रभो ॥
प्रश्नमेकं मया पृष्टो यथावद्वक्तुमर्हसि ॥ १२ ॥
न वृथा जायते देव साधूनां दर्शनं क्वचित् ॥
युष्माकं च विशेषेण तस्मादेतद्ब्रवीम्यहम् ॥ १३ ॥
एते ये नरका रौद्रा दृश्यन्ते च सुदारुणाः ॥
कर्मणा केन कं गच्छेन्मानवो नरकं यम ॥ १४ ॥
कति संख्याः स्युरेते च नरकाः किंप्रमाणतः ॥
एतत्सर्वं सुरश्रेष्ठ यथावद्वक्तुमर्हसि ॥ १५ ॥
॥ यम उवाच ॥ ॥
शृणु देव प्रवक्ष्यामि यावन्तो नरकाः स्थिताः ॥
कर्मणा येन गच्छेत मानवो द्विजसत्तम ॥
एकविंशत्समाख्याता नरका मम मन्दिरे ॥ १६ ॥
यानेतान्प्रेक्षसे विप्र यंत्र मध्ये व्यवस्थितान् ॥
पीड्यमानान्किंकरैर्मे कृतघ्नान्पा पसंयुतान् ॥ १७ ॥
लोहास्यवायसा येषां नेत्रोद्धारं प्रकुर्वते ॥
एतैर्निरीक्षितान्येव कलत्राणि दुरात्मभिः ॥ १८ ॥
परेषां द्विजशार्दूल सरागैः पापि भिः सदा ॥
कुम्भीपाकगतानेतानथ पश्यसि पापिनः ॥ १९ ॥
कूटसाक्ष्यरता ह्येते कटुवाङ्निरतास्तथा ॥
एते लोहमयास्तम्भान्संतप्तान्पावकप्र भान् ॥ 7.1.225.२० ॥
आलिंगंति दुरात्मानः परदाररतास्तु ये ॥
एते वैतरणीमध्ये पूयशोणितसंकुले ॥ २१ ॥
ये तिष्ठंति द्विजश्रेष्ठ सर्वे विश्वासघातकाः ॥
असिपत्रवने घोरे भिद्यन्ते ये तु खण्डशः ॥
ते नष्टाः स्वामिनं त्यक्त्वा संग्रामे समुपस्थिते ॥ २२ ॥
अंगारराशीन्वै दीप्तान्ये गाहन्ते नराधमाः ॥
स्वामिद्रोहरता ह्येते तथा हेतुप्रवादकाः ॥ २३ ॥
लोहशंकुभिराकीर्णमाक्रमन्ति नराधमाः ॥
क्रन्दमाना द्विजश्रेष्ठ उपानद्दानवर्जिताः ॥ २४ ॥
अधोमुखा निबद्धा ये वृक्षाग्रे पावकोपरि ॥
ब्रह्महत्यान्विताः सर्व एते चैव नराधमाः ॥ २५ ॥
मशकैर्मत्कुणैः काकैर्ये भक्ष्यंते विहंगमैः ॥
व्रतभंगरता ह्येते व्रतिना चैव हिंसकाः ॥ २६ ॥
कुठारकण्ठिता ह्येते भूयः संति तथाविधाः ॥
गोहन्तारो दुरात्मानो देवब्राह्मणानिंदका ॥ २७ ॥
ये भक्ष्यंते शृगालैश्च वृकैर्लोहमयैर्मुखैः ॥
परस्वानां च हर्तारः परस्त्रीणां च हर्तृकाः ॥
आत्ममांसानि ये पापा भक्षयंति बुभुक्षिताः ॥ ॥ २८ ॥
न दत्तमन्नमेतैस्तु कदाचिद्वै द्विजोत्तम ॥
रुधिरं ये पिबंत्येते वसापूयपरिप्लुतम् ॥
ब्राह्मणानां विनाशाय गवामेते सदा स्थिताः ॥ ॥ २९ ॥
कूटशाल्मलिबद्धाश्च तीक्ष्णकण्टकपीडिताः ॥
छिद्रान्वेषणसंयुक्ताः परेषां नित्यसंस्थिताः ॥ 7.1.225.३० ॥
क्रकचेन तु छिद्यन्ते य इमे द्विजसत्तम ॥
अभक्ष्यनिरता ह्येते स्वधर्मस्य विदूषकाः ॥ ३१ ॥
कन्याविक्रयकर्त्तारः कन्यानां जीवभंजकाः ॥
पुरीषमध्यगा ह्येते पच्यंते मम किंकरैः ॥ ३२ ॥
संदेशैर्दारुणैर्जिह्वा येषामुत्पाट्यते मुहुः ॥
वाग्लोपनिरता ह्येते मृषावादपरायणाः ॥ ३३ ॥
ये शीतेन प्रबाध्यंते वेप माना मुहुर्मुहुः ॥
देवस्वानां च हर्तारो ब्राह्मणानां विशेषतः ॥ ३४ ॥
तेषां शिरसि निक्षिप्तो भूरिभारो द्विजोत्तम ॥
अतोऽमी ब्राह्मणश्रेष्ठ पूत्का रयन्ति भैरवम् ॥ ३५ ॥
॥ यम उवाच ॥ ॥
एवमेतत्समाख्यातं तव सर्वं द्विजोत्तम ॥
नरकाणां स्वरूपं तु कर्मणां वै यथाक्रमम् ॥ ३६ ॥
गच्छ शीघ्रं महाभाग यावत्कायो न दह्यते ॥ ३७ ॥
॥ ब्राह्मण उवाच ॥ ॥
कथय त्वं सुरश्रेष्ठ मम सर्वं समाहितः ॥
न गच्छेत्कर्मणा येन नरकं मानवः क्वचित् ॥ ३८ ॥
सतां सप्तपदं मैत्रमित्याहुर्बुद्धिकोविदाः ॥
मित्रतां च पुरस्कृत्य समासाद्वक्तुमर्हसि ॥ ३९ ॥
॥ यम उवाच ॥ ॥
प्रभासं क्षेत्रमासाद्या नरकेश्वरमुत्तमम् ॥
यः पश्यति नरो भक्त्या नरकं स न पश्यति ॥ 7.1.225.४० ॥
स्थापितं यन्मया लिंगं शिवभक्त्या युतेन च ॥
एतद्गुह्यं मया प्रोक्तं तव प्रीत्यै द्विजोत्तम ॥ ४१ ॥
गोपनीयं प्रयत्नेन मम वाक्यादसंशयम् ॥
एवमुक्तस्तदा विप्रः स्वयमेवावनिं ययौ ॥ ४२ ॥
लब्ध्वा कलेवरं सोऽथ विस्मयं परमं गतः ॥
तत्स्मृत्वा वचनं सर्वं धर्मराजस्य धीमतः ॥ ४३ ॥
गत्वा तत्र स नित्यं वै पूजयामास तं प्रभुम् ॥
यावज्जीवं वरारोहे ततः सिद्धिं परां गतः ॥ ४४ ॥
तस्मात्सर्वप्रयत्नेन भक्त्या तमवलोकयन् ॥
अपि पातकयुक्तोऽपि न याति नरके नरः ॥ ४५ ॥
आश्वयुक्कृष्णपक्षे तु चतुर्दश्यां विधानतः ॥
यस्तत्र कुरुते श्राद्धं सोऽश्वमेधफलं लभेत् ॥ ४६ ॥
कृष्णाजिनं तत्र देयं ब्राह्मणे वेदपारगे ॥
यावत्तिलानां संख्यानं तावत्स्वर्गे महीयते ॥ ४७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये ऽनरकेश्वरमाहात्म्यवर्णनंनाम पञ्चविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२५ ॥ ॥ छ ॥