शब्दकल्पद्रुमः/सर्पसत्रं

विकिस्रोतः तः
पृष्ठ ५/३०२

सर्पसत्रं, क्ली, (सर्पनाशकं सत्रम् ।) सर्पनाशक-

यज्ञविशेषः । यथा, श्रीभागवते । १२ । ६ । १६-२८ ।
“जनमेजयः स्वपितरं श्रुत्वा तक्षकभक्षितम् ।
यथा जुहाव संक्रद्धः सर्पान् सत्रे सह द्विजैः ॥
सर्पसत्रे समिद्धाग्नौ दह्यमानान् महोरगान् ।
दृष्टेन्द्रं भयसंविग्नस्तक्षकः शरणं ययौ ॥
अपश्यंस्तक्षकं तत्र राजा पारीक्षितो द्बिजान् ।
उवाच तक्षकः कस्मान्न दह्येतोरगाधमः ॥
तं गोपायति राजेन्द्र शक्रः शरणमागतम् ।
तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ ॥
पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः ।
सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते ॥
तच्छ्रुत्वा जुहुवुर्व्विप्राः सहेन्द्रं तक्षकं मखे ।
तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥
इति ब्रह्मोदिताक्षेपैः स्थानादिन्द्रः प्रचालितः ।
बभूव संभ्रान्तमतिः सविमानः सतक्षकः ॥
तं पतन्तं विमानेन सह तक्षकमम्बरात् ।
विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥
नैष त्वया मनुष्येन्द्र वधमर्हति सर्पराट् ।
अनेन पीतममृतमथवा अजरामरः ॥
जीवितं मरणं जन्तोर्गतिः स्वेनैव कर्म्मणा ।
राजंस्ततोऽन्यो नास्त्यस्य प्रदाता सुखदुःखयोः ।
सर्पचौरारिवह्न्यम्बुक्षुत्तृड्व्याध्यादिभिर्नृप ।
पञ्चत्वमिच्छते जन्तुर्भुङक्त आरब्धकर्म्म तत् ॥
तस्मात् सत्रमिदं राजन् संस्थीयेताभिचारिकम् ॥
सर्पा अनागसो दग्धा जनैर्दृष्टं हि भुज्यते ॥
इत्युक्तः स तथेत्याह महर्षेर्मानयन् वचः ।
सर्पसत्रादुपरतः पूजयामास वाक्पतिम् ॥”
(जरत्कारुपुत्त्रस्यास्तीकस्य वचनादेव जनमेजयः
सर्पसत्रात् विररामेति पुराणान्तरमतम् ॥)

सर्पसत्री, [न्] पुं, (सर्पसत्रमस्यास्तीति । इनिः ।)

जनमेजयराजः । इति शब्दरत्नावली ॥

सर्पसहा, स्त्री, (सर्पं सहते इति । सह + अच् ।)

सर्पकङ्कालीभेदः । इति रत्नमाला ॥

सर्पहा, [न्] पुं, (सर्पं हन्तीति । हन् + क्विप् ।)

नकुलः । इति हेमचन्द्रः ॥

सर्पाक्षं, क्ली, (सर्पस्य अक्षीव अङ्गं यस्य । षच् ।)

रुद्राक्षम् । इति राजनिर्घण्टः ॥

सर्पाक्षी, स्त्री, (सर्पस्य अक्षीव पुष्पं यस्याः । षच् ।

ङीप् ।) गन्धनाकुली । इति राजनिर्घण्टः ॥
वृक्षविशेषः । सहचरी इति गण्डिनी इति च
हिन्दी भाषा । तत्पर्य्यायः । गण्डाली २ नाडी-
कलापकः ३ । अस्य गुणाः । कटुत्वम् । तिक्त-
त्वम् । उष्णत्वम् । कृमिनाशित्वम् । वृश्चिको-
न्दुरुसर्पाणां विषनाशित्वम् । व्रणरोपणत्वञ्च ।
इति भावप्रकाशः ॥

सर्पाख्यः, पुं, (सर्पस्य आख्या आख्या यस्य ।)

महिषकन्दभेदः । इति राजनिर्घण्टः । नाग-
केशरः । इति रत्नमाला ॥ सर्पनामके, त्रि ॥

सर्पाङ्गी, स्त्री, (सर्पस्येव अङ्गं यस्याः । ङीष् ।)

सर्पकङ्कालीभेदः । इति रत्नमाला ॥ सैं हली ।
इति राजनिर्घण्टः ॥

सर्पादनी, स्त्री, (सर्पस्य तद्विषस्य अदनं भक्षणं

यस्याः । ङीप् ।) नाकुली । इति राजनिर्घण्टः ॥

सर्पारातिः, पुं, (सर्पस्य अरातिः ।) गरुडः । इति

हेमचन्द्रः ॥

सर्पारिः, पुं, (सर्पस्य अरिः ।) नकुलः । इति

राजनिर्घण्टः ॥ गरुडश्च ॥ (यथा, हरिवंशे ।
६८ । ३७ ।
“तं दृष्ट्वा पञ्चमूर्द्धानं सर्पं सर्पारिकेतनः ।
अक्रुद्ध एव भगवान् प्रत्युवाचोरगेश्वरम् ॥”)

सर्पावासं, क्ली, (सर्पस्य आवासो यत्र ।) चन्दनम् ।

इति राजनिर्घण्टः ॥ सर्पस्थाने, पुं, ॥ (यथा,
हरिवंशे । ६८ । २५ ।
“यशोदामनुगच्छन्त्यः सर्पावासमिमं ह्रदम् ।
प्रविशामो न यास्यामो विना दामोदरं
व्रजम् ॥”)

सर्पाशनः, पुं, (सर्पमश्नातीति । अश + ल्युः ।)

मयूरः । इति हलायुधः ॥ गरुडश्च ॥

सर्पिः, [स्] क्ली, (सर्पतीति । सृप गतौ + “अर्चि-

शुचिहुसृपीति ।” उणा० २ । १०९ । इति
इसिः ।) घृतम् । इत्यमरः । २ । ९ । ५२ ॥
(यथा, मनुः । ३ । २७४ ।
“अपि नः स कुले जायात् यो नो दद्यात् त्रयो-
दशीम् ।
पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च ॥”
उदकम् । इति निघण्टुः । १ । १२ ॥)

सर्पिणी, स्त्री, (सर्पतीति । सृप् + णिनिः ।

ङीप् ।) सर्पभार्य्या । सापिनी इति भाषा ॥
यथा, शब्दरत्नावल्याम् ।
“आशीराशी सर्पदंष्ट्रा तत्स्त्री सर्पी च
सर्पिणी ॥”
क्षुद्रक्षुपभेदः । तत्पर्य्यायः । भुजगी २ भोगी ३
कुण्डली ४ पन्नगी ५ फणी ६ । तस्या गुणौ ।
विषघ्नत्वम् । कुचवर्द्धनत्वञ्च । इति राज-
निर्घण्टः ॥

सर्पी, स्त्री, (सर्प + जातौ ङीष् ।) सर्पिणी ।

इति शब्दरत्नावली ॥

सर्पी, [न्] त्रि, गमनकर्त्ता । सृपधातोर्निण्-

प्रत्ययेन निष्पन्नः ॥ (यथा, किराते । ५ । ३५ ।
“स एष कैलास उपान्तसर्पिणः
करोत्यकालेऽस्तमयं विवस्वतः ॥”)

सर्पीष्टं, क्ली, (सर्पीणां सर्पभार्य्याणामिष्टम् ।)

श्रीखण्डचन्दनम् । इति रत्नमाला ॥

सर्पेष्टं, क्ली, (सर्पाणामिष्टम् ।) श्रीखण्डचन्दनम् ।

इति जटाधरः ॥

सर्व्व, सर्पणे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) दन्त्यादिः । ओष्ठ्यवर्गशेषोपधः ।
सर्व्वति सिसर्व्वयिषति । इति दुर्गादासः ॥

सर्व्वः, पुं, (सर्व्वस्मिन् सर्व्वतीति । सर्व्व गतौ + पचा-

द्यच् । यद्वा, सृ गतौ + “सर्व्वनिघृष्वेति ।”
उणा० १ । १५३ । इति वन्प्रत्ययेन साधुः ।)
शिवः । इत्यमरः । १ । १ । ३२ ॥ क्षितिमूर्त्तिरयम् ।
यथा, विसर्ज्जनात् पूर्व्वं भविष्यपुराणोक्तं स्वभाव-
सिद्धप्राच्यैशान्यादिदिक्षु वामावर्त्तेन पूजनम् ।
यथा, सर्व्वाय क्षितिमूर्त्तये नम इत्यादि
तिथ्यादितत्त्वम् ॥ विष्णुः । यथा, --
“असतश्च सतश्चैव सर्व्वस्य प्रभवाव्ययाः ।
सर्व्वस्य सर्व्वदा ज्ञानात् सर्व्वमेतं पचक्षते ॥”
इति विष्णुपुराणम् ॥
विष्णुसहस्रनामस्तोत्रेऽप्येवमेव ॥

सर्व्वः, त्रि, (सृ + वन् ।) सम्पूर्णः । इत्यमरः ।

३ । १ । ६४ ॥ अस्य पर्य्यायः सकलशब्दे
द्रष्टव्यः । प्रयोगो यथा, --
“सर्व्वरत्नमयो मेरुः सर्व्वाश्चर्य्यमयं नभः ।
सर्व्वतीर्थमयी गङ्गा सर्व्वदेवमयो हरिः ॥”
इति वह्निपुराणे देवाम्बरीषसंवादे २ अध्यायः ॥

सर्व्वंसहा, स्त्री, (सर्व्वं सहते इति । सह + “पूः-

सर्व्वयोर्दारिसहोः ।” ३ । २ । ४१ । इति खच् ।
अरुर्द्विषदिति मुम् ।) पृथिवी । इत्यमरः । २ । १ । ३ ॥
(यथा, आर्य्यासप्तशत्याम् । १३९ ।
“ऊढामुनातिवाहय पृष्ठे लग्नापि कालमच-
लापि ।
सर्व्वं सहे कठोरत्वचः किमङ्केन कमठस्य ॥”
राज्ञि, पुं, । इति काशिका ॥ सर्व्वक्लेशादि-
सहे, त्रि । यथा, सहित्यदर्पणे । २ । २० ।
“कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व्वंसहो
वैदेही तु कथं भविष्यति हहा हा देवि !
धीरा भव ॥”)

सर्व्वकः, त्रि, सकलः । सर्व्वशब्दस्य टेः पूर्व्वमकि

तस्मात् स्वार्थे के च निष्पन्नः । इति मुग्धबोध-
व्याकरणम् ॥

सर्व्वकर्त्ता, [ऋ] पुं, (सर्व्वेषां कर्त्ता ।) ब्रह्मा ।

इति शब्दरत्नावली ॥

सर्व्वकर्म्मीणः, त्रि, (सर्व्वकर्म्माणि व्याप्नोतीति ।

सर्व्वकर्म्म + “तत्सर्व्वादेः पथ्यङ्गकर्म्मपत्रपात्रं
व्याप्नोति ।” ५ । २ । ७ । इति खः ।) सकल-
कर्म्मकर्त्ता । यथा, भट्टौ ५ सर्गे ।
“संग्रामे सर्व्वकर्म्मीणौ बाहू यस्यौपजानुकौ ॥”

सर्व्वके, व्य, सर्व्वत्र । सर्व्वशब्दात् अकच्प्रत्ययेन

निष्पन्नः । इति सिद्धान्तकौमुदी ॥

सर्व्वकेशी [न्] पुं, (सर्व्वकेशोऽस्यास्तीति । सर्व्व-

केश + “सर्व्वादेश्चेति वक्तव्यम् ।” ५ । २ । १३५ ।
इत्यस्य वार्त्तिकोक्त्या इनिः ।) नटः । इति
शब्दरत्नावली ॥

सर्व्वक्षारः, पुं, (सर्व्वेषां क्षारः ।) क्षारभेदः ।

सावान् इति भाषा । इति केचित् ॥ तत्पर्य्यायः ।
बहुक्षारः २ समूहक्षारकः ३ स्तोमक्षारः ४
महाक्षारः ५ मलारिः ६ क्षारमेलकः ७ । अस्य
गुणाः । अतिक्षारत्वम् । चक्षुष्यत्वम् । वस्ति-
शोधनत्वम् । उदावर्त्तक्रमिनाशित्वम् । मलवस्त्र-
विशोधनत्वञ्च । इति राजनिर्घण्टः ॥

सर्व्वगं, क्ली, (सर्व्वं गच्छतीति । गम + “अन्ता-

त्यन्ताध्वेति ।” ३ । २ । ४८ । इति डः ।) जलम् ।
इति मेदिनी ॥

सर्व्वगः, पुं, (सर्व्वं गच्छतीति । गम + डः ।)

शिवः । (यथा, महाभारते । १३ । १७ । १०४ ।
“प्रभावः सर्व्वगो वायुरर्य्यमा सविता रविः ॥”)
ब्रह्मा । इति मेदिनी ॥ आत्मा । इति शब्द-
पृष्ठ ५/३०३
माला ॥ (भीमस्य पुत्त्रः । यथा, महाभारते ।
१ । ९५ । ७७ ।
“भीमोऽपि काश्यां बलधरां नामोपयेमे वीर्य्य-
शुल्कां तस्यां सर्व्वगं नामोत्पादयामास ॥”)
सर्व्वत्रगामिनि, त्रि ॥ (यथा, याज्ञवल्क्ये ।
३ । १३० ।
“करणैरन्वितस्यापि पूर्व्वज्ञानं कथञ्चन ।
वेत्ति सर्व्वगतां कस्मात् सर्व्वगोऽपि न वेद-
नाम् ॥”)

सर्व्वगन्धं, क्ली, (सर्व्वे गन्धा यत्रेति ।) चतुर्जात-

कादि । यथा, शब्दचन्द्रिकायाम् ।
“चतुर्जातककक्कोललवङ्गागुरुसिह्लकम् ।
सर्व्वगन्धमिदं चाग्रं मुनिभिः परिकीर्त्तितम् ॥”
अन्यच्च भावप्रकाशे ।
“चातुर्जातककर्पूरकक्कोलागुरुकुङ्कुमम् ।
लवङ्गसहितञ्चैव सर्व्वगन्धं विनिर्द्दिशेत् ॥”
(पुंलिङ्गेऽपि दृश्यते । यथा, बृहत्संहितायाम् ।
४८ । ४२ ॥
“रत्नानि सर्व्वगन्धांश्च विल्वञ्च सवितङ्कतम् ।
प्रशस्तनाम्नश्चौषध्यो हिरण्यं मङ्गलानि च ॥”
सर्व्वगन्धविशिष्टे, त्रि । बथा, छान्दोग्योप-
निषदि । ३ । १४ । २ ।
“आकाशात्मा सर्व्वकर्म्मा सर्व्वकामः सर्व्वगन्धः
सर्व्वरसः सर्व्वमिदमभ्यात्तोऽवाक्यनादरः ॥”)

सर्व्वगा, स्त्री, (सर्व्वं गच्छतीति । गम + डः ।

टाप् ।) प्रियङ्गुवृक्षः । इति शब्दचन्द्रिका ॥

सर्व्वग्रन्थिः, पुं, (सर्व्वस्मिन् ग्रन्थिरिव यत्र ।)

पिप्पलीमूलम् । इति राजनिर्घण्टः ॥

सर्व्वग्रन्थिकं, क्ली, (सर्व्वत्र ग्रन्थिरिवात्र । कन् ।)

पिप्पलीमूलम् । इति हेमचन्द्रः ॥

सर्व्वचर्म्मीणः, त्रि, (सर्व्वचर्म्मणा कृतः । सर्व्व-

चर्म्मन् + “सर्व्वचर्म्मणः कृतः खखञौ ।” ५ ।
२ । ५ । इति खः ।) सकलचर्म्मनिर्म्मितः ।
इति सिद्धान्तकौमुदी ॥

सर्व्वजनीनः, त्रि, (सर्व्वजनाय हितः । सर्व्वजन +

“सर्व्वजनात् ठञ् खश्च ।” ५ । १ । ९ । इत्यस्य
वार्त्तिकोक्त्या खः ।) सर्व्वजनसम्बन्धी । इति
सिद्धान्तकौमुदी ॥

सर्व्वजया, स्त्री, (सर्व्वेषां जयो यस्याः ।) स्त्रीक-

र्त्तव्यमार्गशीर्षादिद्वादशमासनिष्पाद्यव्रतविशेषः ।
यथा । अथ सर्व्वजयाव्रतम् । सामान्योक्तं कृत्वा
अद्य मार्गशीर्षे मासि अमुकपक्षे अमुकतिथौ
विष्णुपदीसंक्रान्त्यामारभ्य वर्षपर्य्यन्तं अमुक-
गोत्रा श्रीअमुकी द्वादशमासशाकादित्यागफल-
प्राप्तिपूर्व्वकपुत्त्रपौत्त्राद्यैश्वर्य्यप्राप्त्युत्तरस्वर्गकामा
मनोरथकामा वा गणेशादिहरगौरीपूजात्मक-
सर्व्वजयाव्रतमहं करिष्ये । ततः सामान्योक्तं
नवग्रहपूजान्तं कृत्वा अङ्गन्यासं प्रणवेन कृत्वा
गौरीसहितहरं ध्यायेत् ।
“श्वेतवर्णं वृषारूढं व्यालयज्ञोपवीतिनम् ।
विभूतिभूषिताङ्गञ्च व्याघ्रचर्म्मधरं शुभम् ॥
पञ्चवक्त्रं दशभुजं जटिलं चन्द्रचूडकम् ।
त्रिनेत्रं पार्व्वतीयुक्तं प्रमथैश्च समन्वितम् ।
प्रसन्नवदनं देवं वरदं भक्तवत्सलम् ॥”
इति ध्यात्वा ॐ नमः शिवाय ह्रीँ दुर्गायै
नमः । इति मन्त्रेणार्घ्यं कृत्वा पुनर्ध्यात्वा ॐ
गौरीसहितहराय नमः । इत्यासनादिना पूज-
येत् । ततः पञ्चपुष्पाञ्जलिदानं कृत्वा प्रणमेत् ।
“नमस्ते पार्व्वतीनाथ ! नमस्ते शशिशेखर ! ।
नमस्ते पार्व्वतीदेव्यै चण्डिकायै नमो नमः ॥” * ॥
अथ कथा ।
लक्ष्मीरुवाच ।
“भगवन्तं सुखासीनं लक्ष्मीः पृच्छति केशवम् ।
केन व्रतेन देवेश स्त्रीणां सर्व्वमनोरथम् ॥
सौभाग्यमतुलञ्चापि पुत्त्रपौत्त्रविवर्द्धनम् ।
नानासुखसमायुक्तं लभ्यते वैष्णवं पदम् ॥
तद्व्रतं ब्रूहि मे देव ! क्रियते च यथा प्रभो ॥
श्रीभगवानुवाच ।
अस्ति सर्व्वजया नाम व्रतानां व्रतमुत्तमम् ।
तस्यानुष्ठानमात्रेण स्त्रीणां सर्व्वमनोरथम् ॥
लोकत्रयहिते युक्ता सिध्यतीह न संशयः ।
कुरु त्वं तद्व्रतं देवि ! प्रचारय महीतले ॥
लक्ष्मीरुवाच ।
प्रसन्नो यदि देवेश विधानं मयि कथ्यताम् ।
सुखेन येन देवेश ! क्रियते व्रतमुत्तमम् ॥
श्रीभगवानुवाच ।
सर्व्वजयाव्रतं वक्ष्ये शृणु पद्मे सुशोभनम् ।
नैव दृष्टं व्रतं देवि यथा सर्व्वजयाव्रतम् ॥
पुरुषाणां गयाश्राद्धं स्त्रीणां सर्व्वजयाव्रतम् ।
पित्रुद्धारणकं नाम मनोरथप्रदायकम् ॥
व्रतराजमिदं भद्रे नारीणां सुखदायकम् ॥
मार्गशीर्षे त्यजेत् शाकं पौण्डरीकं फलं लभेत् ॥
पौषे तु लवणं त्यक्त्वा गोसहस्रफलं स्मृतम् ।
माघे तैलं परित्यज्य श्रियं प्राप्नोति मानवी ॥
फाल्गुने च त्यजेत् पूगं भवेत् पतिव्रता सती ।
चैत्रे पुष्पं परित्यज्य सा याति परमां गतिम् ॥
भक्तं त्यक्त्वाथ वैशाखे याति चन्द्रपुरीं शुभाम् ।
ज्यैष्ठे धाराजलं त्यक्त्वा वारुणं लोकमाप्नुयात् ।
आषाढे च दधि त्यक्त्वा वारुणं लोकमाप्नुयात् ॥
श्रावणे वसनं त्यक्त्वा प्रजापतिपुरं व्रजेत् ।
भाद्रे तु व्यजनं त्यक्त्वा नारायणपुरं व्रजेत् ॥
आश्विने च घृतं त्यक्त्वा लावण्यमुत्तमं लभेत् ।
शय्याञ्च कार्त्तिके त्यक्त्वा प्रयाति परमां गतिम् ॥
मासान्ते चोपभुञ्जीत सर्व्वं दत्त्वा द्विजातये ।
शय्या देया व्रते पूर्णे दानानि विविधानि च ।
गौर्य्या हरञ्च संपूज्य शाकं भुञ्जीत पायसम् ॥
एवं या कुरुते नारी वर्षं यावत् समाप्यते ।
स्वर्गे वसति सा नित्यं पुत्त्रपौत्त्रप्रतिष्ठिता ॥
तत् कुरुष्व प्रयत्नेन येन सर्व्वजया भव ॥
शचीव देवराजस्य रतीव मदनस्य च ।
तत्सदृशी भवेत् भद्रे व्रतस्यास्य प्रसादतः ॥”
इति स्कन्दपुराणोक्ता सर्व्वजयाव्रतकथा समाप्ता ॥
ततः स्तुत्वा प्रणम्य विसृजेत् । वर्षान्ते प्रतिष्ठा
कर्त्तव्या । द्रव्यदानेऽमुकमासामुकद्रव्यत्यागजन्या-
मुकफलप्राप्तिकामा शिवदुर्गाप्रीतिकामा वा
ब्राह्मणायाहं ददे इति वदेत् । इति कृत्य-
चन्द्रिका ॥

सर्व्वजित्, पुं, (सर्व्वान् जयतीति । जि + क्विप् ।)

कालचक्रस्य एकविंशवर्षः । इति केचित् ॥
(त्वाष्ट्रे युगे आद्यवत्सरः । यथा, बृहत्संहि-
तायाम् । ८ । ३७ ।
“त्वाष्ट्रे युगे सर्व्वजिदाद्य उक्तः
संवत्सरोऽन्यः खलु सर्व्वधारी ॥”)
सकलजयकर्त्तरि, त्रि ॥

सर्व्वज्ञः, पुं, (सर्व्वं जानातीति । ज्ञा + कः ।)

शिवः । (यथा, महाभारते । १३ । १७ । ३९ ।
“सुवर्णरेताः सर्व्वज्ञः सुबीजो बीजवाहनः ॥”)
बुद्धः । इत्यमरः । १ । १ । ३५ । ; १ । १ । १३ ॥ (विष्णुः ।
यथा, महाभारते । १३ । १४९ । ६१ ।
“सर्व्वदर्शी विमुक्तात्मा सर्व्वज्ञो ज्ञानमुत्तमम् ॥”)
सकलज्ञातरि, त्रि ॥ (यथा, रघुह् । १० । २० ।
“सर्व्वज्ञस्त्वमविज्ञातः सर्व्वयोनिस्त्वमात्मभूः ॥”)

सर्व्वज्ञा, स्त्री, (सर्व्वं जानातीति । ज्ञा + कः ।

टाप् ।) दुर्गा । यथा, देवीपुराणे ४५ अध्याये ।
“उत्पत्तिस्थितिनाशेषु रजादित्रिगुणा मता ।
सर्व्वज्ञा सर्व्ववेत्तृत्वाच्छान्तित्वाच्छान्तिरुच्यते ॥”

सर्व्वतः, व्य, चतुर्द्दिगभिव्याप्तिः । तत्पर्य्यायः । सम-

न्ततः २ परितः ३ विश्वक् ४ । इत्यमरः । ३ ।
४ । १३ ॥ (यथा, मुण्डकोपनिषदि । ३ । २ । ५ ।
“ते सर्व्वगं सर्व्वतः प्राप्य धीरा
युक्तात्मानः सर्व्वमेवाविशन्ति ॥” * ॥
सर्व्व + तसिल् । सर्व्वः । यथा, मनुः । १ । ५ ।
“अप्रतर्कमविज्ञेयं प्रसुप्तमिव सर्व्वतः ॥”
“प्रसुप्तमिव सर्व्वतः प्रथमार्थे तसिः । स्वकार्य्या-
क्षममित्यर्थः ।” इति तट्टीकायां कुल्लूकः ॥ पञ्च-
म्यास्तसिल् । सर्व्वस्मात् । सर्व्वेभ्यः । यथा
मनुः । ४ । २४७ ।
“सर्व्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥”
सप्तम्यास्तसिल् । सर्व्वस्मिन् । यथा, ऋतु-
संहारे । १ । २३ ।
“भ्रमति गवययूथः सर्व्वतस्तोयमिच्छन्
शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥”)

सर्व्वतःशुभा, स्त्री, (सर्व्वतः शुभं यस्याः ।

प्रियङ्गुवृक्षः । इति शब्दचन्द्रिका ॥

सर्व्वतन्त्रः, पुं, (सर्व्वं तन्त्रमस्येति ।) सकलतन्त्रा-

ध्येता । इति केचित् ॥ (क्ली, सर्व्वं तन्त्रमिति ।)
सकलशास्त्रञ्च ॥

सर्व्वतापनः, पुं, (सर्व्वान् तापयतीति । तप +

णिच् + ल्युः ।) कामदेवः । इति केचित् ॥
सर्व्वतापके, त्रि ॥

सर्व्वतिक्ता, स्त्री, (सर्व्वतस्तिक्ता ।) काकमाची ।

इति राजनिर्घण्टः ॥

सर्व्वतोभद्रं, क्ली, पुं, (सर्व्वतो भद्रमस्मादिति ।)

ईश्वरगृहविशेषः । इत्यमरः । २ । २ । १० ॥ द्वारा-
लिन्दादिभेदभिन्नाढ्यगृहम् । तस्य लक्षणमुप-
न्यस्तं साञ्झेन यथा, --
पृष्ठ ५/३०४
“स्वस्तिकं प्राङ्मुखं यत् स्यादलिन्दानुगतं भवेत् ।
तत्पार्श्वानुगतौ चान्यौ तत्पर्य्यन्तगतोऽपरः ॥
अनिषिद्धालिन्दभेदं चतुर्द्वारञ्च यद्गृहम् ।
तद्भवेत् सर्व्वतोभद्रं चतुरालिन्दशोभितम् ॥
प्राक्पश्चिमानुगतौ च शेषावुदरविस्तृतौ ।
यत्रालिन्दौ रुचक्यतो न चेत् स्यादुत्तरामुखम् ॥
क्रमेणोपचीयमानं यत्रालिन्दद्वयं गृहे ।
तद्वर्द्धमानमित्याहुर्न चेत् स्यादुत्तरामुखम् ॥
दक्षिणानुगतालिन्दत्रयं यत् पश्चिमामुखम् ।
पूजनीयोत्तरोच्छ्रायं नन्द्यावर्त्तं वदन्ति तत् ॥
उपर्य्युपरि यद्गेहं तद्विच्छन्दकसंज्ञकम् ॥”
इति वचनेषु स्वस्तिकादीनां क्लीवत्वदर्शनात्
स्वस्तिकादीनां पुंनपुंसकत्वं मन्तव्यम् । एवमादि-
प्राप्तौ रुचकवर्द्धमानौ पुंलिङ्गावपि यदुक्तम् ।
“स्वस्तिकः सर्व्वतोभद्रो रुचको वर्द्धमानकः ।
नन्द्यावर्त्तादयश्चापि द्वारालिन्दादिभेदजाः ॥”
इति भरतः ॥ * ॥
लक्षणान्तरं यथा, भविष्योत्तरे ।
“मेषादिचन्द्रे जातस्य नृपतेः स्युरनुक्रमात् ।
द्वादशैव गृहान् वक्ष्ये तेषां लक्षणमग्रतः ॥
सुनन्दः सर्व्वतोभद्रो भव्यो नान्दीमुखस्तथा ।
विनोदश्च विलासश्च विजयो विमलस्तथा ॥
रङ्गः केलिर्ज्जयो वीरो द्वादशैते प्रकीर्त्तिताः ॥”
तल्लक्षणं यथा, --
“द्वौ राजहस्तावायामे परिणाहे तथैव च ।
इत्ययं सर्व्वतोभद्रः शुक्रश्चास्याधिदेवता ॥
दानवा रक्षकाश्चैव पूज्यास्ते चात्र यत्नतः ।
चतुर्द्दशास्य द्वाराणि कृष्णचित्रावृतानि च ॥
पीठपट्टावृतो ह्येषः सर्व्वानिष्टविनाशनः ।
अत्र स्थित्वा महीपालः सर्व्वान् शत्रून् निकृ-
न्तति ॥”
दीर्घ २१ प्रस्थ २० इति सर्व्वतोभद्रः । इति
युक्तिकल्पतरुः ॥ (सर्व्वतो मङ्गलप्रदे, त्रि ।
यथा, भागवते । १० । ७१ । ११ ।
“इत्युद्धववचो राजन् सर्व्वतोभद्रमच्युतम् ।
देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन् ॥”)

सर्व्वतोभद्रं, क्ली, (सर्व्वतो भद्रमस्येति ।) वृषोत्-

सर्गव्रतप्रतिष्ठादौ पूजाधारमण्डलविशेषः । यथा,
शारदायाम् ।
“चतुरस्रे चतुःकोष्ठे कर्णसूत्रसमन्विते ।
चतुर्ष्वपि च कोष्ठेषु कोणसूत्रचतुष्टयम् ॥
मध्ये मध्ये यथा मत्सा भवेयुः पातयेत्तथा ।
पूर्व्वापरायते द्वे द्वे मन्त्री याम्योत्तरायते ॥
पातयेत्तेषु मत्स्येषु समं सूत्रचतुष्टयम् ।
पूर्व्ववत् कोणकोष्ठेषु कर्णसूत्राणि पातयेत् ॥
तद्वत् भूतेषु मत्स्येषु दद्यात् सूत्रचतुष्टयम् ।
ततः कोष्ठेषु मत्स्याः स्युस्तेषु सूत्राणि पातयेत् ॥
यावत् शतद्वयं मन्त्री षट्पञ्चाशत् पदान्यपि ।
तावत्तेनैव विधिना तत्र सूत्राणि पातयेत् ॥
षट्त्रिंशता पदैर्म्मध्ये लिखेत् पद्मं सुलक्षणम् ।
बहिःपङ्क्त्या भवेत् पीठं पङ्क्तियुग्मेन वीथिका ॥
द्वारशोभोपशोभास्रान् शिष्टाभ्यां परिकल्पयेत् ।
शास्त्रोक्तविधिना मन्त्री ततः पद्मं समालिखेत् ॥
पद्मक्षेत्रस्य संत्यज्य द्वादशांशं बहिः सुधीः ।
तन्मध्यं विभजेत् वृत्तैस्त्रिभिः समविभागतः ॥
आद्यं स्यात् कर्णिकास्थानं केशराणां द्वितीयकम् ।
तृतीयं पद्मपत्राणां मुक्तांशेन दलाग्रकम् ॥
बाह्यवृत्तान्तरालस्य मानेन विधिना सुधीः ।
निधाय केशराग्रेषु परितोऽर्द्धनिशाकरान् ॥
लिखित्वा सन्धिसंस्थानि तत्र सूत्राणि पातयेत् ।
दलाग्राणाञ्च यन्मानं तन्मानाद्वृत्तमालिखेत् ॥
तदन्तरालतन्मध्यसूत्रस्योभयतः सुधीः ।
आलिखेद्वाह्यहस्तेन दलाग्राणि समन्ततः ॥
दलमूलेषु युगशः केशराणि प्रकल्पयेत् ।
एतत् साधारणं प्रोक्तं पङ्कजं तन्त्रवेदिभिः ॥
पदानि त्रीणि पादार्थं पीठकोणेषु मार्जयेत् ।
अवशिष्टैः पदैर्व्विद्वान् पीठगात्राणि कारयेत् ॥
पदानि वीथिसंस्थानि मार्ज्जयेत् पङ्क्त्यभेदतः ।
सर्व्वतोभद्रमण्डलस्य रूपं यथा ।
दिक्षु द्वाराणि रचयेत् द्विचतुःकोष्ठकैस्तथा ॥
पदैस्त्रिभिरथैकेन शोभाः स्युर्द्बारपार्श्वयोः ।
उपशोभाः स्युरेकेन त्रिभिः कोष्ठैरनन्तरम् ॥
अवशिष्टैः पदैः षड्भिः कोणानां स्याच्चतुष्टयम् ।
रञ्जयेत् पञ्चभिर्व्वर्णैर्म्मण्डलं तन्मनोहरम् ॥
पीतं हरिद्राचूर्णं स्यात् सितं तण्डुलसम्भवम् ।
कुसुम्भचूर्णमरुणं कृष्णं दग्धपुलाकजम् ॥
विल्वादिपत्रजं श्यामं इत्युक्तं वर्णपञ्चकम् ।
अङ्गुलोत्सेधविस्ताराः सीमारेखाः सिताः
शुभाः ॥
कर्णिकां पीतवर्णेन केशराण्यरुणेन च ।
शुक्लवर्णानि पत्राणि तत्सन्धीन् श्यामलेन च ॥
रजसा रञ्जयेन्मन्त्री यद्वा पीतैव कर्णिका ।
केशराः पीतरक्ताः स्युररुणानि दलान्यपि ॥
सन्धयः कृष्णवर्णाः स्युः सितेनाप्यसितेन वा ।
रञ्जयेत् पीठगर्भाणि पादाः स्युररुणप्रभाः ॥
गात्राणि तस्य शुक्लानि वीथीषु चतसृष्वपि ।
आलिखेत् कल्पलतिका दलपुष्पफलान्विताः ॥
वर्णैर्नानाविधैश्चित्रैः सर्व्वदृष्टिमनोहराः ।
द्वाराणि श्वेतवर्णानि शोभा रक्ताः समीरिताः ॥
उपशोभाः पीतवर्णाः कोणान्यसितभानि च ।
तिस्रो रेखा बहिः कार्य्याः सितरक्तासिताः
क्रमात् ॥
मण्डलं सर्व्वतोभद्रमेतत् साधारणं स्मृतम् ॥” * ॥
प्रकारान्तरं यथा, --
“चतुरस्रां भुवं भित्त्वा दिग्भ्यो द्बादशधा सुधीः
पातयेत्तत्र सूत्राणि कोष्ठानां दृश्यते शतम् ॥
चतुश्चत्वारिंशदाढ्यं पश्चात् षट्त्रिंशताम्बुजम् ।
कोष्ठैः प्रकल्पयेत् पीठं पङ्क्त्या नैवात्र वीथिका ॥
द्वारशोभे यथा पूर्व्वमुपशोभा न दृश्यते ।
अवशिष्टैः पदैः कुर्य्यात् षड्भिः कोणानि तन्त्र-
वित् ।
विदध्यात् पूर्व्ववत् शेषमेवं वा मण्डलं स्मृतम् ॥”
इति तन्त्रसारे १ परिच्छेदः ॥ * ॥
सर्व्वतोभद्रमण्डलस्य रूपं यथा ।
पृष्ठ ५/३०५
नाराणां शुभाशुभज्ञानार्थं चक्रविशेषः । यथा,
“अथातः संप्रवक्ष्यामि चक्रं त्रैलोक्यदीपनम् ।
विख्यातं सर्व्वतोभद्रं सद्यः प्रत्ययकारकम् ॥
ऊर्द्ध्वगा दश विन्यस्य तिर्य्यग्रेखास्तथा दश ।
एकाशीतिपदं चक्रं जायते नात्र संशयः ॥
अकारादिस्वराः कोष्ठेष्वीशादौ विदिशि
क्रमात् ।
प्रदक्षिणक्रमाज्ज्ञेया ज्योतिःशास्त्रविशारदैः ॥
कृत्तिकादीनि धिष्ट्यानि पूर्व्वाशादि लिखेत्ततः ।
सप्त तप्त क्रमेणैव अष्टाविंशति संख्यया ॥
अ-व-क-ह-डाः पूर्व्वस्यां म-ट-प-र-ता
हरिति दक्षिणस्याम् ।
न-य-भ-ज-खा वारुण्यां ग-श-द-च ला-श्चोत्त-
रस्यां स्युः ॥
त्रयस्त्रयो वृषाद्यास्तु पूर्व्वादिक्रमतो बुधैः ।
राशयो द्वादश स्थाप्या मेषान्ता दक्षमार्गतः ॥
शेषेषु कोष्ठकेष्वेवं नन्दादितिथिपञ्चकम् ।
वाराणां सप्तकं लेख्यं भौमाद्यं तत्तिथिक्रमात् ॥
इत्येवं सर्व्वतोभद्रप्रकारः कथितो मया ।
यस्मिन्नृक्षे स्थितः खेटस्ततो वेधत्रयं भवेत् ॥
ग्रहदृष्टिवशेनात्र वामदक्षिणसंमुखे ।
भुक्तं भोग्यं तथाक्रान्तं विद्धं क्रूरग्रहेण भम् ॥
शुभाशुभेषु कार्य्येषु वर्ज्जनीयं प्रयत्नतः ।
वक्रगे दक्षिणा दृष्टिर्वामा दृष्टिश्च शीघ्रगे ॥
संमुखी मध्यचारे च ज्ञेया भौमादिपञ्चके ।
सूर्य्यमुक्ता ग्रहाः शीघ्रास्तथा चार्के द्वितीयगे ॥
समास्तृतीयगे ज्ञेया मन्दा भानौ चतुर्थगे ।
वक्राः स्यृः पञ्चषष्टेऽर्के त्वतिवक्रा नगाष्टगे ॥
नवमे दशमे भानौ जायते सहजा गतिः ।
द्वादशैकादशे सूर्य्ये लभन्ते शीघ्रतां पुनः ॥
रविस्थित्यंशकत्रिंशावधेः संख्यात्र कल्प्यते ।
न तु राश्यन्तरस्पर्शात् द्बितीयादिनिरूपणम् ॥
राहुकेतू सदा वक्रौ शीघ्रगौ चन्द्रभास्करौ ।
गतेरेकस्वभावत्वादेषां दृष्टित्रयं सदा ॥
क्रूरा वक्रा महाक्रूराः सौम्या वक्रा महाशुभाः ।
स्युः सहजस्वभावस्थाः सौम्या क्रूराश्च शीघ्रगाः ॥
घ-ङ-छाः ष-ण-ठाश्चैव ध-फ-ढाश्छ-झ-ञा-
स्तथा ।
एतत् त्रिकं त्रिकं विद्धं विद्धैः क-प-भ-दैः
क्रमात् ॥
घ-ङ-छा रौद्रगे वेधे ष-ण-ठा अस्तगे ग्रहे ।
ध-फ-ढाः पूर्ब्बाषाढायां थ-झ-ञा भाद्र उत्तरे ॥
रवौ शसौ खयौ चैव जयौ णनौ परस्परम् ।
एकेन हि द्वयं ज्ञेयं शुभाशुभग्रहव्यधे ॥
अवर्णादिस्वरद्वन्द्वे त्वेकवेधात् द्बयोर्व्व्यधः ।
युग्मवर्णात्मके वेधे अनुस्वारविसर्गयोः ॥”
आकारादियुग्मवर्णात्मकवेधवदनुस्वारविसर्गयोः
एकवेधादुभयवेध इत्यर्थः ।
“कोणस्थऋक्षयोर्म्मध्ये अन्त्यादिपादगे ग्रहे ।
अकारादिचतुष्केषु वेधः पूर्णतिथौ तथा ॥
एकादिक्रूरवेधेन फलं पुंसां प्रजायते ।
उद्वेगश्च भयं हानिर्व्याधिर्मृत्युः क्रमेण च ॥
ऋक्षे भ्रमोऽक्षरे हानिः स्वरे व्याधिर्भयं तिथौ ।
राशौ विद्धे महाविघ्नः पञ्चविद्धो न जीवति ॥
एकवेधे भयं युद्धे युग्मवेधे धनक्षयः ।
त्रिवेधे तु भवेद्भङ्गो मृत्युर्वेधचतुष्टये ॥”
दिष्टित्रये उदाहरणमाह ।
“भरण्यकारवृषभं नन्दां भद्रां तुलाञ्च भम् ।
विशाखां हरिभं विध्येद्ग्रह आग्नेयसंस्थितः ॥”
उदाहरणान्तरमाह ।
“वं युग्ममौस्वरं कन्यां रेफं स्वातीमुकारकम् ।
अश्विनीं रोहिणीस्थोऽभिजिद्भमेवं परेष्वपि ॥
यथा दृष्टंफलाः क्रूरास्तथा सौम्याः शुभप्रदाः ।
क्रूरयुक्तः पुनः सौम्यो ज्ञेयः क्रूरफलप्रदः ॥
अर्कवेधे मनस्तापो द्रव्यहानिश्च भूसुते ।
रोगपीडाकरः सौरी राहुकेतू च विघ्नदौ ॥
चन्द्रे मिश्रफलं पुंसां रतिलाभश्च भार्गवे ।
बुधवेधे भवेत् प्रज्ञा जीवः सर्व्वशुभप्रदः ॥
स्वक्षेत्रस्थे बलं पूर्णं पादोनं मित्रभे ग्रहे ।
अर्द्धं समगृहे प्रोक्तं पादं शत्रुगृहे स्थिते ॥
इदञ्च सौम्यक्रूराणां बलं स्थानवशात् समम् ।
एतदेव फलं विद्धि सौम्यैः क्रूरैर्व्विपर्य्ययात् ॥
स्थानवेधसमायोगात् यत्संख्यं जायते बलम् ।
तत्संख्यं वेध्यवस्तूनां फलं ज्ञेयं शुभाशुभम् ॥
दृष्टिहीने पुनर्वेधे न स्यात् किञ्चित् शुभाशुभम् ।
ग्रहाः सौम्यास्तथा क्रूरा वक्राः शीघ्रोच्चनीचगाः ॥
स्थानञ्च वेध्यमित्येवं बलं ज्ञात्वा फलं वदेत् ।
वक्रग्रहे फलं द्विघ्नं त्रिगुणं स्वोच्चसंस्थिते ॥
स्वभावजं फलं शीघ्रे नीचस्थोऽर्द्धफलो ग्रहः ।
तिथिराश्यंशनक्षत्रं विद्धं क्ररग्रहेण यत् ॥
सर्व्वेषु शुभकार्य्येषु वर्ज्जयेत्तत् प्रयत्नतः ।
न नन्दति विवाहे च यात्रायां न निवर्त्तते ॥
रोगान्न मुच्यते रोगी वेधवेलाकृतोद्यमः ।
रोगकाले भवेद्वेधः क्रूरखेचरसम्भवः ॥
वक्रगत्या भवेन्मृत्युः शीघ्रे जाप्यरुजान्वितः ।
वेधस्थाने रणे भङ्गो दुर्गे खण्डिः प्रजायते ॥
कविप्रवेशनं तत्र योधाघातश्च तत्र वै ॥”
कविश्चौरयोद्धा ।
“यत्र पूर्ब्बादिकाष्ठायां वृषराश्यादिगो रविः ।
सा दिगस्तमिता ज्ञेया शेषास्तिस्रः सदोदिताः ॥
ईशानस्थाः स्वराः प्राच्यां ज्ञेया याम्या-
मथाग्निगाः ।
नैरृतस्थाश्च वारुण्यां वायव्यां सौम्यगा मताः ।
नक्षत्राणि स्वरा वर्णा राशयस्तिथयो दिशः ॥
ते सर्व्वेऽस्तमिता ज्ञेया यत्र भानुस्त्रिमासिकः ॥
नक्षत्रेऽस्ते रुजा वर्णे हानिः शोकः स्वरेऽस्तगे ।
राशौ विघ्नस्तिथौ भीतिः पञ्चास्ते मरणं भवेत् ॥
यात्रा युद्धं विवादश्च द्वारं प्रासादहर्म्म्ययोः ।
न कर्त्तव्यं शुभं चान्यदस्ताशाभिमुखं नरैः ॥
अस्ताशायां स्थितं यस्य नाम्नः प्रथममक्षरम् ।
स आर्त्तः सर्व्वकार्य्येषु ज्ञेयो दैवहतो नरः ॥
करौ कोष्ठे तथा द्वन्द्वे चातुरङ्गमहाबले ।
वर्ज्याश्चास्तं गता योधा यदीच्छेद्विजयं रणे ॥
नक्षत्रेऽभ्युदिते पुष्टिर्वर्णे लाभः स्वरे सुखम् ।
राशौ जयस्तिथौ तेजः पदाप्तिः पञ्चकोदये ॥
प्रश्नकाले भवेद्बिद्धं यल्लग्नं क्रूरखेचरैः ।
तद्दुष्टं शोभनं सौम्यैर्म्मिश्रैर्म्मिश्रफलं भवेत् ॥
ग्रहाविद्धन्तु यल्लग्नं फलं लग्नस्वभावतः ।
ज्ञातव्यमीक्षिते केन्द्रे भाषितं यच्चरादिकम् ॥
शीर्षोदये सौम्यविलग्नवर्गे
लग्नेऽपि वा सौम्ययुते शुभं स्यात् ।
अतोऽन्यथात्वे तु तदन्यथात्वं
मिश्रं विमिश्रैरधिकं बलाढ्यैः ॥
केन्द्रोपगा नवमपञ्चमगाश्च सौम्याः
केन्द्राष्टवर्ज्जमशुभास्त्रयषष्ठसंस्थाः ।
सर्व्वार्थसाधनकराः परिपृच्छतां स्यु-
रेभिर्विपर्य्ययगतैस्तु विपर्य्ययः स्यात् ॥
लग्नाधिनाथो यदि केन्द्रगः स्यात्
तन्मित्रमेतस्य च केन्द्रगं वा ।
व्ययाष्टकेन्द्रानपहाय पापा
अन्यत्र याता यदि तच्छुभं स्यात् ॥
आद्यो लग्नाधिपः कार्य्येलग्ने कार्य्याधिपो यदि
द्वितीयो लग्नपो लग्ने कार्य्ये कार्य्याधिपो यदि
लग्नपः कार्य्यपश्चापि लग्ने यदि तृतीयकः ।
चतुर्थः कार्य्यपौ स्यातां यदि लग्नपकार्य्यपौ ॥
कार्य्यसिद्धिस्तदा ज्ञेया मित्रञ्चेदधिकं मतम् ।
एवं दृष्टिवशाज्ज्ञेयं फलं तद्बच्चतुष्टयम् ॥
पूर्णनाडीस्थितो दूतो यत् पृच्छति शुभाशुभम्
तत् सर्व्वं सिद्धिमाप्नोति शून्ये शून्यं समीरणे ॥
आदौ शून्यगतः पृच्छेत्पश्चात् पूर्णां विशेद्यदि
तदा सर्व्वार्थसिद्धिः स्यात् वामे वामं न संशयः
श्वासप्रवेशकाले चेद्दूतो जल्पति वाञ्छितम् ।
तस्यार्थः सिद्धिमाप्नोति निर्गमे नास्ति सुन्दरम्
ऊर्द्ध्ववामाग्रतो दूतो ज्ञेयो वामपथस्थितः ।
पृष्ठे दक्षे तथाधस्ताद्दक्षबाहौ गतो मतः ॥
यात्रादानविवाहेषु वस्त्रालङ्कारभूषणे ।
शुभे कर्म्मणि सन्धौ च प्रवेशे वामगः शुभः ॥
कलहद्यूतयुद्धेषु स्नानभोजनमैथुने ।
व्यवहारे भये भङ्गे दक्षनाडी प्रशस्यते ॥
क्रूरैरुभयतो विद्धा यस्याक्षरतिथिस्वराः ।
राशिर्धिष्ट्यञ्च पञ्चापि तस्य मृत्युर्न संशयः ॥
मण्डलं नगरं ग्रामो दुर्गं देर्वालयं पुरम् ।
क्रूरैरुभयतो वेधे विनश्यन्ति न संशयः ॥
कृत्तिकायां तथा पुष्ये रेवत्याञ्च पुनर्वसौ ।
विद्धे सति क्रमाद्वेधो वर्णेषु ब्राह्मणादिषु ॥
तौलं भाण्डं रसो धान्यं गजाश्वादिचतुष्पदाः ।
सर्व्वं महार्घतां याति यावत् क्रूरव्यधे स्थितम् ॥
क्रूरवेधसमायोगे यस्योपग्रहसम्भवः ।
तस्य मृत्युर्न सन्देहो रोगाद्बाथ रणादपि ॥
सूर्य्यभात् पञ्चमं धिष्ट्यं ज्ञेयं विद्युन्मुखाभिधम् ।
शूलञ्चाष्टमकं प्रोक्तं सन्निपातं चतुर्द्दशम् ॥
केतुरष्टादशं प्रोक्तमुल्का स्यादेकविंशतिम् ।
द्बाविंशतितमं कम्पं त्रयोविंशञ्च वज्रकम् ॥
निर्घातञ्च चतुर्विंशमुक्ता अष्टावुपग्रहाः ।
प्रस्थाने विघ्नदाः प्रोक्ताः सर्व्वकार्य्येषु सर्व्वदा ॥”
इति सर्व्वतोभद्रचक्रम् । इति ज्योतिषतत्त्वम् ॥ *


पृष्ठ ५/३०५
; सर्व्वतोभद्रचक्रस्य रूपं यथा । पूर्व्व
१०
वृषः मिथुनः कर्क्कटः ११
२७ मेषः नन्दा सिंहः १२
२६ मीनः रिक्ता पूर्णा भद्रा कन्या १३
२५ कुम्भः अः जया अं तुला १४
२४ मकरः धनुः बृश्चिकः १५
२३ १६
२२ २१ २० १९ १८ १७

सर्व्वतोभद्रः, पुं, (सर्व्वतो भद्रमस्येति ।) निम्ब-

वृक्षः । इत्यमरः । २ । ४ । ६२ ॥ व्यूहविशेषः । इति
तट्टीका ॥ विष्णुरथः । इति शब्दरत्नावली ॥
वंशः । इति शब्दचन्द्रिका ॥ चित्रकाव्यविशेषः ।
इति मेदिनी ॥
तदुदाहरणं यथा ।
का ना ना का
का सा सा का
सा वा वा सा
ना वा वा ना
इति सर्व्वतोभद्रः । इति माघे । १९ । २७ ॥
अस्यार्थः । “सकारेति । पुनः कीदृशी ।
‘कारो वधे निश्चये च बले यत्ने रतावपि ।’
इति विश्वः ॥
सकाराः सयत्नाः सोत्साहाः नाना नाना-
विधाश्चये ये आराः अरीणां समूहाः । भिक्षादि-
भ्योऽण् । तेषां कासा गतिभेदाः काया विग्र-
हाश्च तेषां सादं ददतीति साददाः नाश-
कारकाः सायका यस्यां सा तथोक्ता । रसेन
रागेणाहवो यस्याः सा रसाहना रणरागिणी-
त्यर्थः । वाहसाराणां वाहश्रेष्ठानां ये नादा
हेषादिघोषास्तेषां वादं कलहं ददतीति वाद-
दानि । तैः सह कलहायमानानि वादनानि
वाद्यानि यस्यां सा वाहसारनादवाददवादना
तूर्य्यवादघोषेत्यर्थः । अतएव तेषां तुल्यतोक्ते-
रतिशयोक्तिः । सर्व्वतो भ्रमणात् सर्व्वतो-
भद्राख्यश्चित्रबन्धः । अत एव दण्डी ।
‘तदिदं सर्व्वतोभद्रं भ्रमणं यदि सर्व्वतः ।’ इति ।
पृष्ठ ५/३०६
उद्धारस्तु । चतुःकोष्ठे चतुरङ्गबन्धे पुंक्तिचतुष्टये
पादचतुष्कं विलिख्यानन्तरं पङ्क्तिचतुष्टये-
ऽप्यधःक्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु
प्रथमपादः सर्व्वतो वाच्यते । एवं द्वितीयादिषु
द्वितीय इत्यादि ।” इति तट्टीकायां मल्लिनाथः ॥
(वटिकौषधविशेषः । यथा, --
“विशुद्धं गगनं ग्राह्यं द्विकर्षं शुद्धगन्धकम् ।
तोलकं तोलकार्द्धञ्च हिङ्गुलोत्थरसन्तथा ॥
कर्पूरं केशरं मांसी तेजपत्रं लवङ्गकम् ।
जातीकोषफलञ्चैव सूक्ष्मैलाकरिपिप्पली ॥
कुष्ठं तालीशपत्रञ्च धातकी चोचमुस्तकम् ।
हरितकी मरिचञ्च शृङ्गवेरविभीतकम् ॥
पिप्पल्यामलकञ्चैव शाणभागं विचूर्णितम् ।
सर्व्वमेकीकृतं पिष्ट्वा वटीङ्कुर्य्याद्द्विगुञ्जिकाम् ॥
भक्षयेत् पर्णखण्डेन मधुना सितयापि वा ।
रोगं ज्ञात्वानुपानञ्च प्रातः कुर्य्याद्विचक्षणः ॥
हन्ति मन्दानलान् सर्व्वानामदोषं विसूचिकाम् ।
पित्तश्लेष्मभवं रोगं वातश्लेष्मभवन्तथा ॥
आनाहं मूत्रकृच्छ्रञ्च संग्रहग्रहणीं वमिम् ।
अम्लपित्तं शीतपित्तं रक्तपित्तं विशेषतः ।
चिरज्वरं पित्तभवं घातुस्थं विषमज्वरम् ॥
कासं पञ्चविधं हन्ति कामलां पाण्डुमेव च ।
सर्व्वलोकहितार्थाय शिवेन भाषितः पुरा ।
सर्व्वतोभद्रनामायं रसः साक्षान्महेश्वरः ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे ॥
“सूतं गन्धं तपनगगनं कान्तलौहस्य चूर्णं
कृत्वैकस्मिन् दृशदि पिषितं शृङ्गवेरस्य वारा ।
युञ्ज्याद्रोगे यकृतिगुदजे प्लीह्नि सर्व्वज्वरेषु
शोथे पाण्डौ कृमिकृतगदे सर्व्वतः कामलायाम् ।
कासे श्वासे प्रमिहजठरे सर्व्वदोषप्रभूते
ख्यातो योगः सुरमणिकृतः सर्व्वरोगैकहन्ता ॥”
इति च रसेन्द्रसारसंग्रहे प्लीहाधिकारे ॥)

सर्व्वतोभद्रा, स्त्री, (सर्व्वतो भद्रं मङ्गलमस्या

इति ।) गम्भारी । नटयोषित् । इति मेदिनी ॥

सर्व्वतोमुखं, क्ली, (सर्व्वतो मुखमस्येति ।) जलम् ।

इत्यमरः । १ । १० । ४ ॥ आकाशम् । इति मेदिनी ॥
(समन्ततोमुखविशिष्टे, त्रि । यथा, महाभारते ।
१ । २११ । १२ ।
“एवं सर्व्वान् समादिश्य पूर्ब्बतीरे महोदधेः ।
क्रूरां मतिं समास्थाय जग्मतुः सर्व्वतोमुखौ ॥”)

सर्व्वतोमुखः, पुं, (सर्व्वतः मुखमस्येति ।) शिवः ॥

(यथा, महाभारते । १३ । १७ । ६६ ।
“सर्व्वकामवरश्चैव सर्व्वदः सर्व्वतोमुखः ॥”)
ब्रह्मा । (यथा, कुमारे । २ । ३ ।
“अथ सर्व्वस्य धातारं ते सर्व्वे सर्व्वतोमुखम् ।
वागीशं वाग् भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥”)
आत्मा । इति मेदिनी ॥ (विष्णुः । यथा,
महाभारते । १३ । १४९ । १०० ।
“अमृताशोऽमृतवपुः सर्व्वज्ञः सर्व्वतोमुखः ॥”)
ब्राह्मणः । इति शब्दरत्नावली ॥ स्वर्गः । इति
शब्दमाला ॥ अग्निः । यथा, --
“सर्व्वतः पाणिपादान्तः सर्व्वतोऽक्षिशिरोमुखः ।
विश्वरूपा महानग्निः प्रणीतः सर्व्वकर्म्मसु ॥”
इति तिथ्यादितत्त्वधृताग्निप्रणयनमन्त्रः ॥

सर्व्वत्र, व्य, (सर्व्वस्मिन्निति । सर्व्व + “सप्तम्यास्त्रल् ।”

५ । ३ । १० । इति त्रल् ।) सर्व्वदिग्देशकाले ।
इति शब्दरत्नावली ॥ (यथा, रघुः । ३ । ६२ ।
“तुतोष वीर्य्यातिशयेन वृत्रहा
पदं हि सर्व्वत्र गुणैर्निधीयते ॥”)

सर्व्वत्रगः, पुं, (सर्व्वत्र गच्छतीति । गम + “डप्रक-

रणे सर्व्वत्रपन्नयोरुपसंख्यानम् ।” ३ । २ । ४८ ।
इत्यस्य वार्त्तिकोक्त्या डः ।) वायुः । सर्व्वत्रं-
गामिनि, त्रि । इति वक्ष्यमानशब्ददर्शनात् ॥
(यथा, गीतायाम् । ९ । ६ ।
पृष्ठ ५/३०७
“यथाकाशस्थितो नित्यं वायुः सर्व्वत्रगो महान् ।
तथा सर्व्वाणि भूतानि मत्स्थानीत्युपधारय ॥”)

सर्व्वत्रगामी, [न्] पुं, (सर्व्वत्र गच्छतीति । गम +

णिनिः ।) वायुः । इति शब्दचन्द्रिका ॥ सर्व्वदिग्-
देशकाले गमनकर्त्तरि, त्रि ॥

सर्व्वथा, व्य, (सर्व्वेण प्रकारेण । सर्व्व + “प्रकार-

वचने थाल् ।” ५ । ३ । २३ । इति थाल् ।)
सर्व्वप्रकारम् । इति व्याकरणम् ॥ (यथा,
मनुः । २ । १५ ।
“उदितेऽनुदिते चैव समयाध्युषिते तथा ।
सर्व्वथा वर्त्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥”)
प्रतिज्ञा । भृशम् । हेतुः । इति शब्दरत्नावली ॥

सर्व्वदमनः, पुं, (सर्व्वान् दमयतीति । दम + ल्युः ।)

भरतराजः । स तु शकुन्तलापुत्त्रः । इति
त्रिकाण्डशेषः ॥ (अस्य नामनिरुक्तिर्यथा, महा-
भारते । १ । ७४ । ५ -- ७ ।
“षड्वर्ष एव बालः स कण्वाश्रमपदं प्रति ।
सिंहान् व्याघ्रान् वराहांश्च महिषांश्च गजां-
स्तथा ॥
बबन्ध वृक्षे बलवानाश्रमस्य समीपतः ।
आरोहन् दमयंश्चैव क्रीडंश्च परिधावति ॥
ततोऽस्य नाम चक्रुस्ते कण्वाश्रमनिवासिनः ।
अस्त्वयं सर्व्वदमनः सर्व्वान् हि दमयत्यसौ ॥
स सर्व्वदमनो नाम कुमारः समपद्यत ॥” * ॥
सर्व्वदमनकर्त्तरि, त्रि । इति व्याकरणम् ॥)

सर्व्वदर्शी, [न्] पुं, (सर्व्वं पश्यतीति । दृश् +

णिनिः ।) बुद्धः । इति शब्दरत्नावली ॥ सकल-
दर्शनकर्त्तरि, त्रि ॥ (यथा, रामायणे । २ ।
१०६ । ६ ।
“सर्व्वज्ञः सर्व्वदर्शी च बुद्धिमांश्चासि राघव ! ॥”)

सर्व्वदा, व्य, (सर्व्व + “सर्व्वैकान्यकिंयत्तदः काले

दा ।” ५ । ३ । १५ । इति दा ।) सर्व्वस्मिन्
काले । इत्यमरः । ३ । ४२२ ॥ (यथा, नरसिंह-
पुराणे । १२ । ५६ ।
“त्वत्पादपद्मे देवेश भक्तिं मे देहि सर्व्वदा ।
यदि तुष्टो ममाद्य त्वमन्यदेकं वृणोम्यहम् ॥”)

सर्व्वदुःखक्षयः, पुं, (सर्व्वेषां दुःखानां क्षयो यत्र ।)

मोक्षः । इति हेमचन्द्रः ॥ सकलपीडानाशश्च ॥

सर्व्वदेवमुखः, पुं, (सर्व्वेषां देवानां मुखं यत्र ।)

अग्निः । इति जटाधरः ॥

सर्व्वद्र्यङ्, [ञ्च] त्रि, सर्व्वस्य पूजकः । सर्व्वानञ्चति

इत्यर्थे क्विप्प्रत्ययेन निष्पन्नः । इति व्याकरणम् ॥

सर्व्वधारी, [न्] पुं, (सर्व्वं धरतीति । धृ + णिनिः ।)

कालचक्रस्य द्बाविंशवर्षः । इति केचित् ॥
(यथा, बृहत्संहितायाम् । ८ । २७ ।
“त्वाष्ट्रे युगे सर्व्वजिदाद्य उक्तः
संवत्सरोऽन्यः खलु सर्व्वधारी ।
तस्मात् विरोधी विकृतः खरश्च ।
शस्तो द्वितीयोऽत्र भवाय शेषाः ॥” * ॥
सर्व्वधारके, त्रि ॥)

सर्व्वधुरावहः, पुं, (सर्व्वा चासौ धूश्चेति । सर्व्व-

धुरा । ऋक्पूरित्यः । वहतीति । वह + अच् ।
सर्व्वधुराया वहः ।) सकलभारवाहकः । रथ-
लाङ्गलादीनां भारवाहकगवादिः । इत्यमरः ॥

सर्व्वधुरीणः, पुं, (सर्व्वधुरां वहतीति । “खः सर्व्व-

धुरात् ।” ४ । ४ । ७८ । इति खः ।) सकल-
भारवाहकः । रथलाङ्गलादीनां भारवाहक-
गवादिः । इत्यमरः । २ । ९ । ६६ ॥

सर्व्वन्दमः, पुं, (सर्व्वं दमयतीति । दम + अच् ।

द्वितीयाया अलुक् ।) भरतराजः । स तु शकु-
न्तलापुत्त्रः । इति हेमचन्द्रः ॥

सर्व्वपा, स्त्री, (सर्व्वं पातीति । पा + कः । टाप् ।)

बलिराजपत्नी । इति केचित् ॥ सर्व्वरक्षण-
कर्त्तरि सर्व्वपानकर्त्तरि च त्रि ॥

सर्व्वपूर्णत्वं, क्ली, (सर्व्वैर्द्रव्यैः पूर्णत्वम् ।) सम्भारः ।

इति त्रिकाण्डशेषः ॥

सर्व्वप्रियः, त्रि, सर्व्वेषां जनानां प्रियः । सकलजन-

वल्लभः ॥ सर्व्वस्य शिवस्य प्रियः । सर्व्वः प्रियो
यस्येति वा । शिवभक्तः ॥

सर्व्वभक्षा, स्त्री, (सर्व्वान् भक्षयतीति । भक्ष + अण् ।)

छागी । इति हेमचन्द्रः ॥ सर्व्वभक्षणकर्त्तरि,
त्रि ॥ (यथा, महाभारते । १ । ६ । १४ ।
“इति श्रुत्वा पुलीमाया भृगुः परममन्युमान् ।
सशापाग्निमतिक्रुद्धः सर्व्वभक्षो भविष्यसि ॥”)

सर्व्वमङ्गला, स्त्री, (सर्व्वाणि मङ्गलानि अस्याः ।)

दुर्गा । इत्यमरः ॥ अस्या व्युत्पत्तिर्यथा, --
“मङ्गलं मोक्षवचनं चाशब्दो दातृवाचकः ।
सर्व्वान्मोक्षान् या ददाति सा एव सर्व्वमङ्गला ॥
हर्षे सम्पदि कल्याणे मङ्गलं परिकीर्त्तितम् ।
तान् ददाति च या देवी सा एव सर्व्वमङ्गला ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥
अपि च ।
“सर्व्वमङ्गलशब्दश्च सम्पूर्णाश्चर्य्यवाचकः ।
आकारो दातृवचनस्तस्मात् सा सर्व्वमङ्गला ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे सर्व्वमङ्गला-
स्तोत्रं २७ अध्यायः ॥ अन्यच्च ।
“सर्व्वाणि हृदयस्थानि मङ्गलानि शुभानि च ।
ददाति चेप्सितान् लोके तेन सा सर्व्वमङ्गला ॥”
इति देवीपुराणे ४५ अध्यायः ॥

सर्व्वमयः, त्रि, सर्व्वात्मकः । सर्व्वशब्दात् मयट्-

प्रत्ययेन निष्पन्नः ॥ (यथा, मार्कण्डेये । ९९ । ३३ ।
“आप्याय्यन्ते च ते यज्ञास्त्वदाधारा हुताशन ।
अतः सर्व्वस्य योनिस्त्वं वह्ने सर्व्वमयस्तथा ॥”)

सर्व्वमूल्यं, क्ली, (सर्व्वस्य मूल्यम् ।) कपर्द्दकम् ।

इति त्रिकाण्डशेषः ॥

सर्व्वमूषकः, पुं, (सर्व्वान् मुष्णातीति । मुष + ण्वुल् ।

पृषोदरादित्वात् साधुः ।) कालः । इति हेम-
चन्द्रः ॥

सर्व्वरसः, पुं, (सर्व्वो रसो यत्र ।) सूरी ।

पण्डितः । इति शब्दरत्नावली ॥ धूनकः । इत्य-
मरः ॥ वाद्यभाण्डम् । तत्तु बीणाभेदः । इति
मेदिनी ॥ लरणरसः । इति हेमचन्द्रः ॥ (मधु-
रादिरसः । यथा, भागवते । २ । ६ । १ ।
“वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः ।
हव्यकव्यामृतान्नानां जिह्वा सर्व्वरसस्य च ॥”
सर्व्वरसविशिष्टे, त्रि । मथा, छान्द्योग्योप
निषदि । ३ । १४ । २ ।
“सर्व्वकामः सर्व्वगन्धः सर्व्वरसः इति ॥”

सर्व्वरसोत्तमः, पुं, (सर्व्वरसेषु उत्तमः ।) लवण-

रसः । इति हेमचन्द्रः ॥

सर्व्वरात्रः, पुं, (सर्व्वा रात्रिः । “अहःसर्व्वैक-

देशसंख्यातपुण्याच्च रात्रेः ।” ५ । ४ । ८७ ।
इति अच् ।) समस्तरजनी । इति सिद्धान्त-
कौमुदी ॥

सर्व्वरी, स्त्री, शर्व्वरी । रात्रिः । इति वक्ष्यमाण-

शब्ददर्शनात् ॥

सर्व्वरीकरः, पुं, (सर्व्वर्य्याः करः ।) चन्द्रः । इति

धरणिः ॥

सर्व्वर्त्तुपरिवर्त्तः, पुं, (सर्व्वर्त्तूनां परिवर्त्तो यत्र ।)

वत्सरः । इति जटाधरः ॥

सर्व्वर्त्तुफलं, क्ली, (सर्व्वर्त्तुजातं फलम् ।) सकलर्त्तु

जातफलम् । यथा, --
“सर्व्वर्त्तुकुसुमाकीर्णे सर्व्वर्त्तुफलशोभिते ।
स्थिरच्छायद्रुमाकीर्णे सन्तानकवेनावृते ॥”
इति भविष्यपुराणे शिवरात्रिव्रतकथा ॥

सर्व्वरक्षणकवचं, क्ली, (सर्व्वरक्षणं सर्व्वरक्षाकर्रं

कवचम् ।) कवचविशेषः । यथा, --
“शिशोः स्वस्त्ययनं चक्रुस्तूर्णं ब्राह्मणपुङ्गवाः ।
हस्तं दत्त्वा शिशोर्गात्रे पपाठ कवचं द्बिजः ॥
वदामि तत्ते विप्रेन्द्र कवचं सर्व्वरक्षणम् ।
तद्दत्तं मायया पूर्व्वं ब्रह्मणे नाभिपङ्कजे ॥
निद्रिते जगतां नाथे जले च जलशायिनि ।
भीताय स्तुतिकर्त्रे च मधुकैटभयोर्भयात् ॥
योगनिद्रोवाच ।
दूरीभूतं कुरु भयं भयं किन्ते मयि स्थिते ।
स्थितायां मयि च ब्रह्मन् सुखी तिष्ठ जगत्पते ॥ *
श्रीहरिः पातु ते वक्त्रं मस्तकं मधुसूदनः ।
श्रीकृष्णश्चक्षुषी पातु नासिकां राधिकापतिः ॥
कर्णयुग्मञ्च कण्ठञ्च कपालं पातु माधवः ।
कपोलं पातु गोविन्दः केशांश्च केशवः स्वयम् ॥
अधरौष्ठं हृषीकेशो दन्तपंक्तिं गदाग्रजः ।
रासेश्वरश्च रसनां तालुकं वामनो विभुः ॥
वक्षः पातु मुकुन्दस्ते जठरं पातु दैत्यहा ।
जनार्द्दनः पातु नाभिं पातु विष्णुश्च ते हनुम् ॥
नितम्बयुग्मं गुह्यञ्च पातु ते पुत्तषोत्तमः ।
जानुयुग्मं जानकीशः पातु ते सर्व्वदा विभुः ॥
हस्तयुग्मं नृसिंहश्च पातु सर्व्वत्र सङ्कटे ।
पादयुग्मं वराहश्च पातु ते कमलोद्भव ॥
ऊर्द्ध्वे नारायणः पातु अधस्तात् कमलापतिः ।
पातु पूर्व्वे च गोपालः पातु वह्नौ दशास्यहा ॥
वनमाली पातु याम्यां वैकुण्ठः पातु नैरृते ।
वारुणे वासुदेवश्च पातु ते जलजासन ! ॥
पातु ते सन्ततमजो वायव्यां विष्टरश्रवाः ।
उत्तरे च सदा पातु सोऽनन्तोऽनन्तकः स्वयम् ॥
ऐशान्यामीश्वरः पातु सर्व्वत्र पातु शत्रुजित् ।
जले स्थले चान्तरीक्षे निद्रायां पातु माधवः ॥ *
पृष्ठ ५/३०८
इत्येवं कथितं ब्रह्मन् ! कवचं परमाद्भुतम् ।
कृष्णेन कृपया दत्तं स्मृतेनैव पुरा मया ॥
शुम्भेन सह संग्रामे निर्लक्षे घोरदारुणे ।
गगनस्थितो यः सद्यः प्राप्तिमात्रेण शक्तितः ॥
कवचस्य प्रसादेन धरण्यां पतितो मृतः ।
पूर्व्वं वर्षगतं खे च कृत्वा युद्धं भयावहम् ॥
मृते शुम्भे च गोविन्दः कृपालुर्गगने स्थितः ।
माल्यञ्च कवचं दत्त्वा गोलोकं स जगाम ह ॥
कल्पान्तरस्प वृत्तान्तं कृपया कथितं मुने ।
आभ्यां तव भयं नास्ति कवचस्य प्रभावतः ॥
कोटिशः कोटिशो नष्टा मया दृष्टाश्च सर्व्वशः ।
अहञ्च हरिणा सार्द्धं कल्पे कल्पे स्थिरा सदा ॥
इत्युक्त्रा कवचं दत्त्वा सान्तर्द्धानं चकार ह ।
निःशङ्को नाभिकमले तस्थौ स कमलोद्भवः ॥ * ॥
सुवर्णगुटिकायान्तु कृत्वेदं कवचं परम् ।
कण्ठे वा दक्षिणे बाहौ बध्नीयात् यः सुधीः सदा ॥
विषाग्निजलशत्रुभ्यो भयं तस्य न विद्यते ।
जले स्थले चान्तरीक्षे निद्रायां रक्षतीश्वरः ॥
संग्रामे वज्रपाते च विपत्तौ प्राणसङ्कटे ।
कवचस्मरणादेव सद्यो निःशङ्कतां व्रजेत् ॥
बद्ध्वेदं कवचं कण्ठे शङ्करस्त्रिपुरं पुरा ।
जघान लीलामात्रेण दुरन्तमसुरेश्वरम् ॥
बद्ध्वेदं कवचं काली रक्तबीजं चखाद सा ।
सहस्रशीर्षा धृत्वेदं विश्वं धत्ते तिलं यथा ॥
आवां सनत्कुमारश्च धर्म्मः साक्षी च कर्म्मणाम् ।
कवचस्य प्रसादेन सर्व्वत्र जयिनो वयम् ॥
न्यस्य नन्दशिशोः कण्ठे जगाम कवचं द्विजः ।
आत्मनः कवचं कण्ठे दधार च हरिः स्वयम् ॥
प्रभावं कथितं सर्व्वं कवचस्य हरेस्तथा ।
अनन्तस्याच्युतस्यैव प्रभावमतुलं मुने ! ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखणे १२ अध्यायः ॥

सर्व्वला, स्त्री, (सर्व्वं लातीति । ला + कः । टाप् ।)

तोमरः । इत्यमरः । २ । ८ । ९३ ॥

सर्व्वलिङ्गी, [न्] पुं, (सर्व्वेषां वर्णाश्रमाणां लिङ्गं

चिह्नमस्त्यस्येति । इनिः ।) पाषण्डः । इत्य-
मरः ॥ द्बेवेदविरुद्धाचारेषु सर्व्ववर्णचिह्नधारिषु
बौद्धक्षपणकादिषु । पापं संवन्ति ददति
पापण्डाः मनीषादित्वात् साधुत्वं मूर्द्धन्यमध्यो-
ऽयम् । सर्व्वेषां वर्णाश्रमाणां किञ्चित् किञ्चित्
लिङ्गमस्त्येषामिति । इन् । इति भरतः ॥
सकलचिह्नधारिणि, त्रि ॥

सर्व्वली, स्त्री, (सर्व्वं लातीति । ला + कः । गौरा-

दित्वात् ङीष् ।) तोमरः । इति शब्दरत्ना-
वली ॥

सर्व्वलोहः, पुं, (सर्व्वो लोहो यस्य ।) लौहमय-

बाणः । यथा, --
“प्रक्ष्वेडनः सर्व्वलाहो नाराच एषणश्च सः ।”
इति हेमचन्द्रः ॥
मकलधातुश्च ॥

सर्व्ववर्णिका, स्त्री, (सर्व्वं वर्णयतीति । वर्ण + ण्वुल् ।

टापि अत इत्वम् ।) गम्भारीवृक्षः । इति
जटाधरः ॥

सर्व्ववल्लभा, स्त्री, (सर्व्वेषां वल्लभा ।) असती

नारी । इति धरणिः । इति केचित् ॥ सकल-
प्रिये, त्रि ॥

सर्व्ववित्, पुं, (सर्व्वं वेत्तीति । विद् + क्विप् ।)

परमेश्वरः । यथा, --
“यः सर्व्वज्ञः सर्व्वविच्च यस्य ज्ञानमयं तपः ।
तस्मादेतत् ब्रह्मनाम रूपमन्नञ्च जायते ॥”
इति मुण्डकोपनिषत् । १ । १ । ९ ॥
सर्व्वज्ञे, त्रि ॥)

सर्व्ववेदः, पुं, (सर्व्ववेदानधीते इति । “क्रतूक्थादि-

सूत्रान्तात् ठक् ।” ४ । २ । ६० । इति ठक् ।
“सर्व्वादेः सादेश्च लुग्वक्तव्यः ।” इति लुक् ।)
सर्व्ववेदाध्येता ब्राह्मणः । इति केचित् ॥ सर्व्वज्ञे,
त्रि, ॥

सर्व्ववेदाः, [स्] पुं, (सर्व्वं धनं वेदयति निवेदयति

ऋत्विग्भ्य इति । विद् + णिच् + असुन् ।)
सर्व्वस्वदक्षिणयागो येनेष्टः सः । इत्यमरः ॥
सर्व्वस्वं दक्षिणा यत्र स सर्व्वस्वदक्षिणो विश्वजि-
न्नामयागः स येनेष्टः सम्पादितः स सर्व्ववेदा
उच्यते । सर्व्वं स्वं वेदयति लम्भयति ऋत्विजे
इति सर्व्ववेदाः विद ऌ लाभे ञ्यन्तात् त्रासु-
सिति अस् । इति भरतः ॥

सर्व्ववेशी, [न्] पुं, (सर्व्वेषां वेशोऽस्यास्तीति ।

इनिः ।) नटः । इति हेमचन्द्रः ॥ सकलवेश-
घारिणि, त्रि ॥

सर्व्वशान्तिकृत्, पुं, (सर्व्वशान्तिं करोतीति । कृ +

क्विप् ।) भरतराजः । स तु शकुन्तलापुत्त्रः ।
इति शब्दरत्नावली ॥ सकलशमकारके, त्रि ॥

सर्व्वसङ्गतः, पुं, (सर्व्वं सङ्गतमस्येति ।) षष्टिका-

धान्यम् । इति शब्दचन्द्रिका ॥ सकलसङ्गति-
युक्ते, त्रि ॥

सर्व्वसंसर्गलवनं, क्ली, (सर्व्वसंसर्गेण जातं लव-

णम् ।) औषरकम् । इति राजनिर्घण्टः ॥

सर्व्वसन्नहनार्थकः, पुं, (सर्व्वेषां सन्नहनस्य अर्थो

यत्र ।) चतुरङ्गसैन्यसन्नाहः । तत्पर्य्यायः ।
सर्व्वाभिसारः २ सर्व्वौघः ३ । इत्यमरः ॥ सर्व्व-
सन्नहनं अर्थोऽभिधेयमस्य । सर्व्वैरभिस्रियते-
ऽभिमुखं गम्यतेऽनेन सर्व्वाभिसारः करणे घञ् ।
सर्व्वेषां ओधो वृन्दमत्र सर्व्वौघः । इति भरतः ॥

सर्व्वसन्नाहः, पुं, (सर्व्वेषां सन्नाहो यत्र ।) सर्व्वात्मा ।

इति हलायुधः ॥ सर्व्वसन्नहनञ्च ॥

सर्व्वसहः, पुं, (सर्व्वं सहते इति । सह + अच् ।)

गुग्गुलुः । इति रत्नमाला ॥ सकलसहिष्णौ,
त्रि ॥ (यथा, भागवते । ९ । ५ । ९ ।
“स त्वं जगत्त्राणखलप्रहाणये
निरूपितः सर्व्वसहो गदाभृता ॥”)

सर्व्वसिद्धिः, पुं, (सर्व्वेषां सिद्धिरस्मात् ।) श्रीफलः ।

इति शब्दचन्द्रिका ॥ सकलसाधनञ्च ॥

सर्व्वस्वं, क्ली, (सर्व्वं स्वम् ।) समुदायधनम् । यथा,

“गुरवे दक्षिणां दद्यात् प्रत्यक्षाय शिवात्मने ।
सर्व्वस्वं वा तदर्द्धं वा तदर्द्धं वा तदाज्ञया ॥”
इति तन्त्रसारः ॥

सर्व्वस्वी, [न्] पुं, वर्णसङ्करविशेषः । स तु

गोपकन्यायां नापिताज्जातः । इति ब्रह्मवैवर्त्ते
ब्रह्मखण्डे १० अध्यायः ॥ (सकलधनविशिष्टे,
त्रि ॥

सर्व्वहितं, क्ली, (सर्व्वस्मिन् हितम् ।) मरिचम् ।

इति राजनिर्घण्टः ॥ सकलहितकारके, त्रि ॥

सर्व्वाङ्गं, क्ली, (सर्व्वं अङ्गम् ।) सकलावयवः ।

यथा, --
“पादौ रक्षतु मे केतुः सर्व्वाङ्गं मे नवग्रहाः ।
आपादमस्तकञ्चैव सर्व्वविघ्नविनाशकाः ॥”
इति उन्मीलातन्त्रे नवग्रहकवचम् ॥
(पुं, महादेवः । इति महाभारतम् । १३ ।
१७ । ३१ ॥)

सर्व्वाङ्गसुन्दररसः, पुं, (सर्व्वस्मिन् अङ्गे सुन्दरः ।

स एव रसः ।) औषधविशेषः । यथा, --
“रसगन्धकतुल्यांशो द्वौ भागौ टङ्गणस्य च ।
मौक्तिकं विद्रुमं शङ्खमवनीय समांशतः ॥
हेमभस्मार्द्धभागञ्च सर्व्वं खल्ले निधापयेत् ।
निम्बुद्रवस्य योगेन पिष्टिकां कारयेद्भिषक् ॥
पश्चात् गजपुटं दद्यात् शीतलञ्च समुद्धरेत् ।
हेमभस्मसमं तीक्ष्णं तीक्ष्णार्द्धो दरदो मतः ॥
एकीकृत्य समस्तानि सूक्ष्मचूर्णानि कारयेत् ।
ततः पूजां प्रकुर्व्वीत भक्षयेत् दिवसे शुभे ॥
सर्व्वाङ्गसुन्दरो ह्येष रोगराजनिकृन्तनः ।
वातपित्तज्वरे घोरे सन्निपाते सुदारुणे ॥
अर्शस्सु ग्रहणीरोगे मेगे गुल्मे भगन्दरे ।
निहन्ति वातजान्रोगान् श्लैष्मिकांश्च विशेषतः ॥
पिप्पलीमधुसंयुक्तं घृतयुक्तमथापि वा ।
भक्षयेत् पर्णखण्डेन सितया चार्द्रकेण वा ॥
गुडूचीसत्त्वसहितं प्रमेहे च विशेषतः ।
रसरत्नाकरप्रोक्तः सिद्धयोगो रसोत्तमः ।
राजिकाहिङ्गुतैलाम्लं लवणाढ्यं विवर्ज्जयेत् ॥”
सर्व्वाङ्गसुन्दररसः । इति भैषज्यरत्नावली ॥
(यथा च ।
“रसगन्धकयोः कर्षं ग्राह्यमेकं सुशोधितम् ।
ततः कज्जलिकां कृत्वा मृदुपाकेन साधयेत् ॥
जातीफलं तथा कोषं लवङ्गारिष्टपत्रके ।
सिन्धुवारदलञ्चैव एलाबीजं तथैव च ॥
एषाञ्च कर्षमात्रेण तोयेनाथ विमर्द्दयेत् ।
मुक्तागृहे पुनः स्थाप्यं पुटपाकेन साधयेत् ॥
घनपङ्के बहिर्लिप्त्वा पुटमध्ये निधापयेत् ।
गुञ्जाष्टकप्रमाणेन प्रत्यहं भक्षयेन्नरः ॥
एतत् प्रोक्तं कुमाराणां रक्षणाय महौषधम् ।
ज्वरघ्नं दीपनञ्चैव बलवर्णप्रसाधनम् ॥
दुर्व्वारं ग्रहणीरोगं जयत्येव प्रवाहिकाम् ।
सूतिकाञ्च जयेदेतद्रक्तार्शो रक्तसम्भवम् ॥
पिशाचा दानवा दैत्या बालानां विघ्नकारकाः ।
यत्रौषधवरस्तिष्ठेत् तत्र सीमां न यान्ति ते ॥
बालानां गदयुक्तानां स्त्रीणाञ्चैव विशेषतः ।
महागन्धकमेतद्धि सर्व्वव्याधिनिसूदनम् ॥
विना पाकेन सर्व्वाङ्गसुन्दरोऽयं प्रकीर्त्तितः ॥”
इति वैद्यकरसेन्द्रसारसंग्रहेऽतिसाराधिकारे ॥)
पृष्ठ ५/३०९

सर्व्वाङ्गीणः, त्रि, (सर्व्वाङ्गं व्याप्नोतीति । “तत्-

सर्व्वादेः पथ्यङ्गकर्म्मपत्रपात्रं व्याप्नोति ।” ५ ।
२ । ७ । इति खः ।) सर्व्वावयवसम्बन्धयुक्तः ।
सर्व्वावयवव्याप्तः । यथा, भट्टौ । ४ । १० ।
“वसानस्तन्तकनिभे सर्व्वाङ्गीणे तरुत्वचौ ।
काण्डीरः स्वाड्गिकः शार्ङ्गी रक्षन् विप्रांस्तनु-
त्रवान् ॥”

सर्व्वाणी, स्त्री, (सर्व्वस्य पत्नी । सर्व्व + “इन्द्रवरुण-

भवसर्व्वेति ।” ४ । १ । ४९ । इति ङीष् । आनुगाग-
मश्च ।) दुर्गा । इत्यमरः । १ । १ । ३९ ॥ अस्या व्युत्-
त्पत्तिर्यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्याये ।
“सर्व्वान्मोक्षं प्रापयति जन्ममृत्युजरादिकम् ।
चराचरांश्च विश्वस्थान् सर्व्वाणी तेन कीर्त्तिता ॥”

सर्व्वानुकारिणी, स्त्री, (सर्व्वमनुकरोतीति । कृ +

णिनिः । ङीष् ।) शालपर्णी । इति राजनिर्घण्टः ॥

सर्व्वानुभूतिः, स्त्री, (सर्व्वेषामनुभूतिर्यत्र ।) श्वेत-

त्रिवृता । इत्यमरः । २ । ४ । १०८ ॥ (अस्याः पर्य्यायो
यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ।
“श्वेता त्रिवृत्ता भण्डी स्यात्त्रिवृता त्रिपुटापि च ।
सर्व्वानुभूतिः सरला निशोत्रा रेचनीति च ॥”)
चतुर्व्विंशतिभूतार्हदन्तर्गतार्हद्भेदः । चतुर्व्विं-
शतिभाव्यर्हदन्तर्गतार्हद्भेदश्च । इति हेमचन्द्रः ॥

सर्व्वान्नभक्षकः, त्रि, (भक्षयतीति । भक्ष + ण्वुल् ।

सर्व्वेषामन्नं सर्व्वान्नम् । तस्य भक्षकः ।) सक-
लान्नभोजी । तत्पर्य्यायः । उदरपिशाचः २
सर्व्वान्नीनः ३ । इति हेमचन्द्रः ॥

सर्व्वान्नभोजी, [न्] त्रि, सर्व्वेषां चतुर्णां वर्णानामे-

वान्नं भुङ्क्ते सर्व्वान्नभोजी । इति भरतः ॥ (भुज
+ णिनिः ।) सर्व्वेषामन्नभक्षकः । इत्यमरः । ३ ।
१ । २२ ॥ सर्व्वप्रकारान्नभक्षकः । इति केचित् ॥

सर्व्वान्नीनः, त्रि, (सर्व्वान्नानि भक्षयतीति ।

सर्व्वान्न + “अनुपदसर्व्वान्नायानयमिति ।” ५ ।
२ । ९ । इति खः ।) सर्व्वान्नभोजी । इत्यमरः ॥

सर्व्वाभिसन्धी, [न्] पुं, (सर्व्वस्मिन् विषये अभि-

सन्धास्त्यस्येति । इनिः ।) वैडालव्रतिकः ।
छद्मतापसः । इति त्रिकाण्डशेषः ॥ सकलाभि-
सन्धानविशिष्टे, त्रि ॥

सर्व्वाभिसारः, पुं, (सर्व्वेषामभिसारो यत्र ।)

चतुरङ्गसैन्यसन्नाहः । इत्यमरः । २ । ८ । ९४ ॥
अस्य पर्य्यायः सर्व्वसन्नहनशब्दे द्रष्टव्यः ॥

सर्व्वार्थसाधिका, स्त्री, (सर्व्वान् अर्थान् साधय-

तीति । साधि + ण्वुल् । टापि अत इत्वम् ।)
दुर्गा । यथा, मार्कण्डेये देवीमाहात्म्ये ।
“सर्व्वमङ्गलमङ्गल्ये शिवे सर्व्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥”
सकलप्रयोजनसाधके, त्रि ॥

सर्व्वार्थानुसाधिनी, स्त्री, (सर्व्वानर्थाननुसाधय-

तीति । अनु + साधि + णिनिः । ङीप् ।) दुर्गा ।
यथा, देवीपुराणे ४५ अध्याये ।
“धर्म्मादीन् चिन्तितान् यस्मात् सर्व्वलोकेषु
यच्छति ।
ततो देवी समाख्याता सा सर्व्वार्थानुसाधिनी ॥”

सर्व्वार्थसिद्धः, पुं, (सर्व्वेषु अर्थेषु सिद्धः ।) बुद्धः ।

इत्यमरः । १ । १ । ११५ ॥ सकलप्रयोजनसिद्धि-
युक्ते, त्रि ॥

सर्व्वावसरः, पुं, (सर्व्वेषामवसरो यत्र ।) अर्द्ध-

रात्रः । इति त्रिकाण्डशेषः ॥

सर्व्वास्त्रा, स्त्री, (सर्व्वाणि अस्त्राणि यस्याः ।)

षोडशविद्यादेव्यन्तर्गतदेवीविशेषः । इति हेम-
चन्द्रः ॥ सकलास्त्रयुक्ता च ॥

सर्व्वाह्णः, पुं, (सर्व्वमहः । “राजाहःसखिभ्यष्टच् ।”

५ । ४ । ९१ । इति टच् । “अह्नोह्न एतेभ्यः ।” ५ ।
४ । ८८ । इति अह्नादेशः । णत्वञ्च ।) समस्त-
दिनम् । इति व्याकरणम् ॥

सर्व्वीयः, त्रि, (सर्व्वस्मै हितः । सर्व्व + “सर्व्वाण्णस्य

वा वचनम् ।” ५ । १ । १० । इत्यस्य वार्त्ति-
कोक्त्या पक्षे छः ।) सर्व्वसम्बन्धी । सर्व्वशब्दात्
णीयप्रत्ययेन निष्पन्नः । इति व्याकरणम् ॥

सर्व्वेश्वरः, पुं, (सर्व्वेषामीश्वरः ।) शिवः । इति

केचित् ॥ सार्व्वभौमश्च । (निखिलप्रभौ, त्रि ।
यथा, भागवते । ६ । ९ । ३३ ।
“केवलजगदाधार लोकैकनाथ सर्व्वेश्वर लक्ष्मी-
नाथ इति ॥”)

सर्व्वौघः, पुं, (सर्व्वेषामोघो यत्र ।) चतुरङ्गसैन्य-

सन्नाहः । इत्यमरः ॥ गुरुवेगः । इति मेदिनी ॥

सर्व्वौषधिः, पुं, (सर्व्वा ओषधयो यत्र ।) ओषधि-

वर्गविशेषः । यथा, --
“कुष्ठमांसीहरिद्राभिर्वचाशैलेयचन्दनैः ।
मुराचन्दनकर्पूरैः मुस्तः सर्व्वौषधिः स्मृतः ॥”
अत्र द्वितीयचन्दनपदं रक्तचन्दनपरम् ॥ इति
राजनिर्घण्टः ॥ (क्वचित् स्त्रीलिङ्गेऽपि दृश्यते ॥)

सर्व्वौषधिगणः, पुं, (सर्व्वौषधीनां गणः ।) मुराद्यो-

षधिसमूहः । यथा, --
“मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्वयम् ।
शटी चम्पकमुस्तञ्च सर्व्वौषधिगणः स्मृतः ॥”
इति शब्दचन्द्रिका ॥
अन्यच्च ।
“हरिद्रा चन्दनं दार्व्वी मुस्तकं देवताडकम् ।
धन्याकं जीरकं मेथी धात्रीफलमुषीरकम् ॥
त्रिसुगन्धिः शटी गन्धमाद्री कर्पूरकं वचा ।
नखी मरुवकं कुष्ठं देवदारु विडङ्गकम् ॥
सरलं पद्मकाष्ठञ्च बालकं भद्रमुस्तकम् ।
ग्रन्थिकञ्च जटामांसी पलाशः शैलजं शमी ॥
अर्कर्च्चोगरुकं दूर्व्वा मुरा मांसी च कुङ्कुमम् ।
अपामार्गो मधुरिका विकासा खदिरः कुशा ॥
चातुर्ज्जातकसत्त्वोऽथोऽष्टवर्गो यज्ञडुम्बरः ।
नागेश्वरश्च कस्तूरी त्रिफला पक्वकेशरम् ॥
कक्कोलं धातकीपुष्पं त्रिकटु रेणुकं यवः ।
तिलाः कुन्दुरु ललुकं भार्गी गोरोचना वकः ॥
शुण्ठी पुष्पञ्च नहुनी श्रीफलं वंशलोचना ।
इन्दीवरं बहुसुता वकुलं मालतीदलम् ॥
इन्द्रबीजं कोकनदं जयन्ती गजपिप्पली ।
श्वेतापराजितापुष्पं सर्व्वौषधिगणः स्मृतः ॥”
इति पाद्मोतरखण्डे १०७ अध्यायः ॥

सर्षपः, पुं, (सरतीति । सृ गतौ + “सर्त्तेरपः षुक्

च ।” उणा० ३ । १४१ । इति अपः षुगा-
गमश्च ।) शस्यविशेषः । सरिषा इति भाषा ॥
तत्पर्य्यायः । तन्तुभः १ कदम्बकः ३ । इत्यमरः ।
२ । ९ । १७ ॥ सरिषपः ४ । इति भरतः ॥ तन्तुकः
५ । इति रमानाथः ॥ कटुस्नेहः ६ । इति
जटाधरः ॥ शर्षपः ७ । इति शब्दरत्नावली ॥
राजक्षवकः ८ । इति राजनिर्घण्टः ॥ (यथा,
छान्द्योग्योपनिषदि । ३ । १४ । ३ ।
“एष म आत्मान्तर्हृदयेऽणीयान् व्रीहेर्वा
यवाद्वा सर्षपाद्वा श्यामाकाद्वा इति ॥”)
अस्य गुणाः । कफवातघ्नत्वम् । तीक्ष्णत्वम् ॥
उष्णत्वम् । रक्तपित्तकारित्वम् । कटुत्वम् ।
क्रमिकुष्ठनाशित्वञ्च । सिद्धार्थश्चापि तद्गुणः ।
इति राजवल्लभः ॥ * ॥ अपरञ्च ।
“आसुरी राजिका राजी रक्तिका रक्तसर्षपः ।
तीक्ष्णगन्धा मधुरिका क्षवकः क्षतकः क्षवः ॥
आसुरी कटुतिक्तोष्णा वातप्लीहार्त्तिशूलनुत् ।
दाहपित्तप्रदा हन्ति कफगुल्मकृमिव्रणान् ॥ * ॥
सर्षपो राजक्षवकः कृष्णा तीक्ष्णफला राजिका ।
राज्ञी सा कृष्णा सर्षपाख्या विज्ञेया राजसर्ष-
पाख्या च ॥
राजसर्षपकस्तिक्तः कटूष्णो वातशूलनुत् ।
पित्तदाहप्रदो गुल्मकण्डूकुष्ठव्रणापहः ॥”
इति कालेयसरिषपः ॥ * ॥
“सर्षपस्त्वनघो गौरः सिद्धार्थो भूतनाशनः ।
कटुस्नेहो ग्रहघ्नश्च कण्डूघ्नो राजिकाफलः ॥
तीक्ष्णकश्च दुराधर्षो रक्षोघ्नः कुष्ठनाशनः ।
सिद्धप्रयोजनः सिद्धः साधनः सितसर्षपः ॥
सिद्धार्थः कटुकोष्णश्च वातरक्तग्रहापहः ।
त्वद्गोषशमनो रुच्यो विषभूतव्रणापहः ॥”
इति सर्षपः ॥ * ॥
तत्तैलगुणाः ।
“सर्षपतैलं तिक्तं कटुकं वातकफविकारघ्नम् ।
पित्तास्रदोषदं कृमिकुष्ठघ्नं तिलजवच्चक्षुष्यम् ॥”
तत्पत्रशाकगुणाः ।
“सार्षपं पत्रमत्युष्णं रक्तपित्तप्रकोपणम् ।
विदाहि कटुकं स्वादु शुक्रहृत् रुचिदायकम् ॥”
इति राजनिर्घण्टः ॥ * ॥
अन्यच्च ।
“सर्षपः कटुकस्नेहस्तन्तुभश्च कदम्बकः ।
गौरस्तु सर्षपः प्राज्ञैः सिद्धार्थ इति कथ्यते ॥
सर्षपस्तु रसे पाके कटुर्हृद्यः सतिक्तकः ।
तीक्ष्णोष्णः कफवातघ्नो रक्तपित्ताग्निवर्द्धनः ॥
रक्षोहरो जयेत् कण्डूकुष्ठकोठकृमिग्रहान् ।
यथा रक्तस्तथा गौरः किन्तु गौरो वरो
मतः ॥”
अथ राइ । कृष्ण राइ ।
“राजी तु राजिका तीक्ष्णगन्धा क्षुज्जनिका
सुरी ।
क्षवः क्षुतामिजनकः कृमिकः कृष्णसर्षपः ॥
राजिका कफवातघ्नी तीक्ष्णोष्णा रक्तपित्तकृत् ।
पृष्ठ ५/३१०
किञ्चिद्रूक्षाग्निदा कण्डूकुष्ठकोठकृमीन् हरेत् ॥
अतितीक्ष्णा विशेषेण तद्वत् कृष्णापि राजिका ॥”
तत्तैलगुणाः ।
“दीपनं सार्षपं तैलं कटुपाकरसं लघु ।
लेखनं स्पर्शवीर्य्योष्णं तीक्ष्णं पित्तास्रदूषकम् ॥
कफमेदोऽनिलार्शोघ्नं शिरःकर्णामयापहम् ।
कण्डूकोठकृमिश्वित्रकुष्ठदुष्टव्रणप्रणुत् ॥
तद्वत् राजिकयोस्तैलं विशेषान्मूत्रकृच्छ्रकृत् ॥”
राजिकयोः कृष्ण राइ । आरक्त राइ ।
तयोः ॥ * ॥ तच्छाकगुणाः ।
“कटुकं सार्षपं शाकं बहुमूत्रमलं गुरुः ।
अम्लपाकं विदाहि स्यादुष्णं रूक्षं त्रिदोषकृत् ॥
सक्षारं लवणं तीक्ष्णं स्वादुशाकेषु निन्दितम् ।
तीक्ष्णोष्णं सार्षपं नालं वातश्लेष्मव्रणापहम् ।
कण्डूकृमिहरं दद्रुकुष्ठघ्नं रुचिकारकम् ॥”
इति भावप्रकाशः ॥ * ॥
स्थावरविषभेदः । इति हेमचन्द्रः ॥ षड्लिख्या-
परिमाणम् । यथा, --
“जालान्तरगते भानौ यच्चाणुर्दृश्यते रजः ।
तैश्चतुर्भिर्भवेल्लिख्या लिख्याषड्भिश्च सर्षपः ॥”
इति शब्दचन्द्रिका ॥

सर्षपतैलं, क्ली, (सर्षपोद्भवं तैलम् ।) सर्षपजात-

स्नेहः । यथा, --
“सर्षपतैलं तिक्तं कटुकं वातकफविकारघ्नम् ।
पित्तास्रदोषदं कृमिकुष्ठघ्नं तिलजवच्चक्षुष्यम् ॥”
इति राजनिर्घण्टः ॥

सर्षपी, स्त्री, (सृ गतौ + अपः षुगागमश्च । ततो

ङीष् ।) खञ्जनिका । इति त्रिकाण्डशेषः ॥
(पिडकाविशेषः । यथा, सुश्रुते । २ । ६ ।
“गौरसर्षपसंस्थाना तत्प्रमाणा तु सर्षपी ॥”)

सलं, क्ली, (सरतीति । सृ गतौ + अच् । रस्य

लः । सल गतौ + अच् वा ।) जलम् । इत्यमर-
टीकायां भरतः ॥

सलिलं, क्ली, (सलति गच्छतीति । सल गतौ +

“सलिकल्यनीति ।” उणा० १ । ५५ । इति
इलच् ।) जलम् । इत्यमरः । १ । १० । ३ ॥ तत्र
विण्मूत्रत्यागनिषेधो यथा, मनुः ।
“न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ।
व फालकृष्णे न जले न चित्यां न च पर्व्वते ॥
न जीर्णदेवायतने न वल्मीके कदाचन ।
न ससत्त्वेषु गर्त्तेषु न गच्छन्नापि संस्थितः ॥
न नदीतीरमासाद्य न च पर्व्वतमस्तके ।
वाय्वग्निविप्रानादित्यमपः पश्यंस्तथैव च ।
न कदाचन कुर्व्वीत विण्मूत्रस्य विसर्ज्जनम् ॥”
इत्याह्निकतत्त्वम् ॥
अपि च ।
“मूत्रश्लेष्मपुरीषाणि यैरुत्सृष्टानि वारिणि ।
ते पात्यन्ते च विण्मू त्रे दुर्गन्धे पूयपूरिते ॥”
इति वामनपुराणे कर्म्मविपाको नाम १२
अध्यायः ॥ * ॥ अथ सलिलपरीक्षा । पितामहः ।
“तोयस्याथ प्रवक्ष्यामि विधिं धर्म्म्यं सनातनम् ।
मण्डलं पुष्पधूपाभ्यां कारयेत् सुविचक्षणः ॥
शरान् संपूजयेद्भक्त्या वैणवञ्च धनुस्तथा ॥”
तत्र प्रथमतो वरुणं पूजयेत् । यथा नारदः ।
“गन्धमाल्यैः सुरभिभिर्मधुक्षीरघृतादिभिः ।
वरुणाय प्रकुर्व्वीत पूजामादौ समाहितः ॥”
ततो धर्म्मावाहनादिसकलदेवतापूजाहोमसम-
न्त्रकप्रतिज्ञापत्रशिरोनिवेशान्तं कर्म्म कुर्य्यात् ।
कात्यायनः ।
“शरांस्त्वनायसाग्रांस्तु प्रकुर्व्वीत विशुद्धये ।
वेणुकाष्ठमयाश्चैव क्षेप्ता च सुदृढं क्षिपेत् ॥”
पितामहः ।
“क्षेप्ता च क्षत्त्रियः कार्य्यः तद्वृत्तिर्ब्राह्मणोऽथवा ।
अक्रूरहृदयः शान्तः सोपवासस्तथा शुचिः ॥
इषून्न प्रक्षिपेद्धीमान् मारुते वाति वा भृशम् ।
विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले ॥”
नारदः ।
“क्रूरं धनुः सप्तशतं मध्यमं षट्शतं मतम् ।
मन्दं पञ्चशतं प्रोक्तमेष ज्ञेयो धनुर्व्विधिः ॥”
अङ्गुलीनां सप्ताधिकं शतं यस्य धनुषः परिमाणं
तत् सप्तशतं एवं षट्शतादिकम् । पिता-
महः ।
“मध्यमेन तु चापेन प्रक्षिपेत्तु शरत्रयम् ।
हस्तानाञ्च शते सार्द्धे लक्ष्यं कृत्वा विचक्षणः ॥
तेषाञ्च प्रेषितानान्तु शराणां शास्त्रदेशनात् ।
मध्यमस्तु शरो ग्राह्यः पुरुषेण बलीयसा ॥
शराणां पतनं ग्राह्यं सर्पणं परिवर्ज्जयेत् ।
सर्पन् सर्पन् शरो याति दूराद्दूरतरं यतः ॥”
पतनं ग्राह्यमिति शरपतनस्थानपर्य्यन्तं गच्छे-
दित्यर्थः । तेन प्रसरणपक्षेऽपि पतनस्थानकशर-
ग्रहणम् । ततश्च प्रथमतः पुरुषान्तरेण तत्स्थाने
शर आनेतव्यः । नारदः ।
“नदीषु नातिवेगासु तडागेषु सरःसु च ।
ह्रदेषु स्थिरतोयेषु कुर्य्यात् पुंसां निमज्जनम् ॥”
नातिवेगासु स्थितिविरोधिवेगशून्यासु । विष्णुः ।
पङ्कशैवालदुष्टग्राहमत्स्यजलौकादिवर्ज्जिते तस्य
नाभिमात्रजले मग्नस्यारागद्वेषिणः पुरुषस्यान्य-
स्योरू गृहीत्वाभिमन्त्रिताम्भः प्रविशेत् । तत्-
समकालञ्च नातिक्रूरमृदुना धनुषा पुरुषोऽपरः
शरमोक्षं कुर्य्यादिति । तस्य शोध्यस्येत्यर्थः ।
अन्यथा तस्येति व्यर्थं स्यात् ॥ * ॥ अन्यपुरुषस्य
स्तम्भधारणमाह स्मृतिः ।
“उदके प्राङ्मुखस्तिष्ठेद्धर्म्मस्थूणां प्रगृह्य च ॥”
प्राड्विवाककर्त्तृकजलाभिमन्त्रणमाह पिता-
महः ।
“तोय त्वं प्राणिनां प्राणः सृष्टेराद्यन्तु निर्म्मितम् ।
शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनान्तथा ।
अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥” * ॥
शोध्यकर्त्तृकाभिमन्त्रणमाह याज्ञवल्क्यः ।
“सत्येन माभिरक्षस्व वरुणेत्यभिशाप्य कम् ।
नाभिमात्रोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥”
मा मामभिशाप्य शपथं कारयित्वा कं जलं
विशेत् निमज्जेत् । तोरणञ्च निमज्जनसमीपे
समे स्थाने शोध्यकर्णप्रमाणोच्छ्रितं कार्य्यम् ।
यथा, नारदः ।
“गत्वा तु तज्जलस्थानं तटे तोरणमुच्छ्रितम् ।
कुर्व्वीत कर्णमात्रन्तु भूमिभागे समे शुचौ ॥”
शरमोक्षे विशेषमाहतुर्नारदबृहस्पती ।
“शरप्रक्षेपणस्थानाद्युवा जवसमन्वितः ।
गच्छेत् परमया शक्त्या यत्रासौ मध्यमः शरः ॥
मध्यमं शरमादाय पुरुषोऽन्यस्तथाविधः ।
प्रत्यागच्छेत् तु वेगेन यतः स पुरुषो गतः ॥
आगतस्तु शरग्राही न पश्यति यदा जले ।
अन्तर्ज्जलगतं सम्यक् तदा शुद्धिं विनिर्द्दिशेत् ॥
अन्यथा न विशुद्धः स्यादेकाङ्गस्यापि दर्शनात् ।
स्थानाद्वान्यत्र गमनाद्यस्मिन् पूर्ब्बं निवेशयेत् ॥”
जविनौ विशेषयति नारदः ।
“पञ्चाशतो धावकानां यौ स्यातामधिकौ जवे ।
तौ च तत्र नियोक्तव्यौ शरानयनकर्म्मणि ॥”
एकाङ्गस्य दर्शनादिति कर्णाद्यभिप्रायेण ।
“शिरोमात्रन्तु दृश्येत न कर्णौ नापि नासिके ।
अप्सु प्रवेशने यस्य शुद्धं तमपि निर्द्दिशेत् ॥”
इति विशेषाभिधानात् ॥
कात्यायनः ।
“निमज्ज्योत्प्लवते यस्तु दष्टश्चेत् प्राणिना नरः ।
पुनस्तत्र निमज्जेत दंशचिह्नविचारितः ॥”
जलान्तर्गतमत्स्यजलौकादिना दष्टः समुत्प्लवते
यदि तदा दष्टे दृष्टे पुनर्निमज्जनीय इत्यर्थः ॥ * ॥
पितामहः ।
“गन्तुश्चापि च कर्त्तुश्च समं गमनमज्जनम् ।
गच्छेत्तोरणमूलात्तु शरस्थानं जवी नरः ॥
तस्मिन् गते द्बितीयोऽपि वेगादादाय शाय-
कम् ।
गच्छेत्तोरणमूलन्तु यतः स पुरुषो गतः ॥
आगतस्तु शरग्राही न पश्यति यदा जले ।
अन्तर्ज्जलगतं सम्यक् ततः शुद्धिं विनिर्द्दिशेत् ॥”
अत्र मज्जनसमकालं गमनाभिधानात् शर-
मोक्षसमकालं गमनं शूलपाण्युक्तमयुक्तम् ।
मज्जनसमकालक्षिप्तं मध्यमं शरमादायेत्यपर-
मुक्तमपि प्रमाणशून्यम् । ततश्च त्रिषु शरेषु
मुक्तेषु एको वेगवान् मध्यमशरपतनस्थानं
गत्वा तमादाय तत्रैव तिष्ठति अन्यस्तु पुरुषो
वेगवान् शरमोक्षस्थाने तोरणमूले तिष्ठति
एवं स्थितयोस्तृतीयायां करतालिकायां प्राड्-
विवाकदत्तायां शोध्यो निमज्जति तत्समकाल-
मेव तोरणमूलस्थितोऽपि द्रुततरं मध्यमशर-
पतनस्थानं गच्छति शरग्राही च तस्मिन् प्राप्ते
द्रुततरं तोरणमूलं प्राप्यान्तर्ज्जलगतं यदि न
पश्यति तदा शुद्धो भवतीति वर्त्तुलार्थः ॥ * ॥
तत्र प्रयोगः । उक्तलक्षणजलाशयनिकटे तथा
तोरणं विधाय उक्तदेशे लक्ष्यं कृत्वा तोरण-
समीपे सशरं धनुः संपूज्य जलाशये वरुण-
मावाह्य पूजयित्वा तत्तीरे धर्म्मादींश्च देवान्
हवनान्तमिष्ट्वा दक्षिणां कृत्वा शोध्यस्य शिरसि
प्रतिज्ञापत्रं बद्ध्वा प्राड्विवाको जलमभि-
मन्त्रयेत् ।
पृष्ठ ५/३११
“ॐ तोय त्वं प्राणिनां प्राणः सृष्टेराद्यन्तु
निर्म्मितम् ।
शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ।
अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे ॥”
इति मन्त्रेण ॥
शोध्यस्तु ॐ सत्येन माभिरक्षस्व वरुणेत्यनेन
जलमभिमन्त्र्य गृहीतस्थूणस्य शोध्यनाभिमात्रो-
दकावस्थितस्य बलीयसः प्राङ्मुखस्य पुरुषस्य
समीपं जलमध्ये गच्छेत् । ततः शरेषु त्रिषु
मुक्तेषु मध्यमशरपतनस्थाने मध्यमशरं गृहीत्वा
जविन्येकस्मिन् पुरुषे स्थिते अन्यस्मिंश्च तोरण-
मूले स्थिते प्राड्विवाकेन तालत्रये दत्ते शोध्यो
गृहीतस्थूणप्राङ्मुखपुरुषस्योरू गृहीत्वा निम-
ज्जति । तत्समकालमेव तोरणमूलस्थोऽपि
मध्यमशरस्थानं द्रुतं गच्छति । ततः शरग्राही च
तस्मिन् प्राप्ते द्रुतं तोरणमूलं प्राप्य जलान्तःस्थं
यदि न पश्यति तदा शुद्धः । कर्णाद्यङ्गं विना
शिरोमात्रदर्शनेऽपि शुद्धः मज्जनस्थानादन्यत्र
गमनेऽप्यशुद्धः । दक्षिणादिकं दद्यात् । इति
दिव्यतत्त्वम् ॥

सलिलकुन्तलः, पुं, (सलिलस्य कुन्तल इव ।)

शैवालः । इति त्रिकाण्डशेषः ॥

सलिलजं, क्ली, (सलिले जायते इति । जन + डः ।)

पद्मम् । इति राजनिर्घण्टः ॥ जलजाते, त्रि ॥
(यथा, महाभारते । ७ । १२५ । २१ ।
“एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् ।
पृथिवीञ्चान्तरीक्षञ्च निनादयति शङ्खराट् ॥”)

सलिलाशयः, पुं, (सलिलानामाशयः ।) जला-

शयः । तस्य वैकृत्ये दोषो यथा, --
गर्ग उवाच ।
“नगरादपसर्पन्ते समीपमुपयान्ति च ।
नद्यो ह्रदाः प्रस्रवणाः विरसाश्च भवन्ति ते ।
विवर्णं कलुषं तप्तं फेनवज्जन्तुसङ्कुलम् ।
क्षीरं स्नेहं सुरां रक्तं वहन्ते चाकुलोदकाः ॥
षण्मासाभ्यन्तरे तत्र परचक्रभयं भवेत् ।
जलाशया नदन्ते वा प्रज्वलन्ति कथञ्चन ॥
विमुञ्चन्ति तथा ब्रह्मन् ज्वालाधूमरजांसि च ।
अखाते वा जलोत्पत्तिः ससत्त्वा वा जलाशयाः ॥
संगीतशब्दा दृश्यन्ते जले मारभयं वदेत् ।
दिव्यमम्भोभयं सर्पिर्मधुना त्ववसेचनम् ।
जप्तव्या वारुणा मन्त्रास्तैश्च होमो जले भवेत् ॥
मध्वाज्ययुक्तं परमान्नमत्र
देयं द्विजानां द्विजभोजनार्थम् ।
गावश्च देयाः सितवस्त्रयुक्ता-
स्तथोदफुम्भाः सलिलाघशान्त्यै ॥”
इति मात्स्ये २०८ अध्यायः ॥

सलिलेन्धनः, पुं, (सलिलं इन्धनं यस्य ।) वाड-

वानलः । इति त्रिकाण्डशेषः ॥

सलीलः, त्रि, लीलया सह वर्त्तमानः । लीला-

विशिष्टः । यथा, --
“सुरद्रुमूलमण्डपे विचित्ररत्ननिर्म्मिते
लसद्वितानभूषिते सलीलविभ्रमालसम् ।
सुराङ्गणाभवल्लवीकरप्रपञ्चचामर-
स्फुरत्समीरवीजितं सदाच्युतं भजामि तम् ॥”
इति छन्दोमञ्जरी ॥

सल्लकी, स्त्री, (सत्कृत्य लक्यते स्वाद्यते गजैरिति ।

सत् + लक + क्वुन् । गौरादित्वात् ङीष् ।) स्वनाम-
ख्यातवृक्षः । तत्पर्य्यायः । गजभक्ष्या २ सुवहा
३ सुरभी ४ रसा ५ महेरणा ६ कुन्दुरुकी ७
ह्लादिनी ८ । इत्यमरः । २ । ४ । १२४ ॥ गजभक्षा ९
सुरभिः १० सुरभीरसा ११ महेरुणा १२
शल्लकी १३ सिल्लकी १४ शिल्लकी १५
ह्रादिनी १६ । इति तट्टीका ॥ शल्यते श्लाघ्यते
गजैः शल्लकी । शल क ङ श्लाघे चुरादिः ञेर-
भावपक्षे नाम्नीति लकट् । श्वाविद्द्रुभेदौ
शल्लक्यौ शङ्का त्रासवितर्कयोरिति तालव्यादौ
रभसः । सलति गच्छति सलगतौ दन्त्यादिः
णकः भौवादिः निपातनात् लस्य द्वित्वम् ।
सत्कृत्य लक्यते स्वाद्यते गजैरिति वा सल्लकी
दन्त्यादिरित्यन्ये । सिल्लकी चेत्येके । देशी-
प्रायेयम् । सल्लकी सिल्लकी ह्लदेति रुद्रः ।
इति स्वामी । इत्यमरटीकायां भरतः ॥

संव(म्ब)रं, क्ली, (संव्रियते इति । सं + वृ + अप् ।)

संयमः । इति त्रिकाण्डशेषः ॥ बौद्धव्रतविशेषः ।
इति मेदिनी ॥ जलम् । इत्यमरः । १ । १० । ४ ॥
“सम्बति सम्बरम् । सम्ब सर्पणे पूर्व्वेण अर
सम्बरं दन्त्यादि । शम्ब गतावित्यस्मादरे ताल-
व्यादि च ।
‘क्लीवन्तु सम्बरं नीरबौद्धव्रतविशेषयोः ।
विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च ॥’
इति दन्त्यादौ रभसः ॥
‘शम्बरो हरिणे दैत्ये मत्स्ये च सलिले स्मृतः ॥’
इति तालव्यादावजयः ।” इति भरतः ॥

संव(म्ब)रः, पुं, (संवृणोति आवृणोति जलमिति ।

सं + वृ + अच् ।) सेतुः । यथा । सेतौ पल्यालि-
संवराः । इति हेमचन्द्रः ॥ दैत्यविशेषः ।
हरिणविशेषः । मत्स्यविशेषः । शैलविशेषः ।
जिनविशेषः । इति मेदिनी ॥ स तु भाव्यर्हन् ।
इति हेमचन्द्रः ॥

संवरणं, क्ली, (सं + वृ + ल्युट् ।) आवरणम् ।

(यथा, महाभारते । १ । १४१ । ७१ ।
“मन्त्रसंवरणे यत्नः सदा कार्य्योऽनसूयता ॥”)
इन्द्रियसंयमः । इति संवरादिशब्दटीकायां
भरतः ॥ (प्राकारः । यथा, रामायणे । २ ।
८८ । २४ ।
“शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् ।
अनावृतपुरद्वारां राजधानीमरक्षिताम् ॥”
“शून्यसंवरणारक्षां संवरणानां प्राकाराणामा-
समन्तात् रक्षया शून्याम् ।” इति तट्टीका ॥ * ॥
पुं, अजमीढपुत्त्रः । स च कुरोः पिता । इति
महाभारतम् । १ । ९५ । ३७ ॥)

संवरारिः, पुं, (संवरस्य अरिः ।) कामदेवः । इत्य-

मरः । १ । १ । २३ ॥ “संवरस्य दैत्यविशेषस्य अरिः ।
‘क्लीवन्तु संवरं नीरबौद्धव्रतविशेषयोः ।
विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च ॥’
इति दन्त्यादौ रभसः । संवरणं संवरः भावेऽल् ।
इन्द्रियसंयमः संवरस्तस्यारिरिति वा । तदुक्तं
साहित्यकल्पतरुणा । रुद्रस्य सम्बरारिश्च पुष्प-
वतीनां कुसुमधन्वेति । तदयं संवरारिरिह
तालव्यादिर्दन्त्यादिश्च ॥” इति भरतः ॥

संवरी, स्त्री, शतावरी । इति शब्दचन्द्रिका ॥

मूषिकपर्णी । इत्यमरः । २ । ४ । ८८ ॥ इन्दुर-
काणी इति ख्यातायां थुलकुडी इति ख्याता-
यामिति केचित् । शं कल्याणं वृणोति शंवरी
पूर्ब्बवदन् ईप् तालव्यशादिः दन्त्यसादिश्चेति
स्वामी । इति भरतः ॥

संवलं, क्ली, (संवृणोतीति । सं + वृ + अच् । रस्य

लः ।) जलम् । इति शब्दरत्नावली ॥

संवलः, पुं, क्ली, पाथेयम् । तालव्यादिर्दन्त्यादिश्च ।

इत्यमरभरतौ ॥

सवं, क्ली, (सूते रसानिति । सू + अच् ।) जलम् ।

इति जटाधरः ॥ पुष्परसः । इति केचित् ॥

सवः, पुं, (सूयते सोमोऽत्रेति । सू + अप् ।)

यज्ञः । इत्यमरः । २ । ७ । १३ ॥ (यथा, महा-
भारते । १ । ९४ । २५ ।
“राजसूयाश्वमेधाद्यैः सोऽयजत् बहुभिः सवैः ॥”)
सन्तानः । इति मेदिनी ॥ सूर्य्यः । चन्द्रः । इति
केचित् ॥ (अज्ञे, त्रि । यथा, वाजसनेयसंहि-
तायाम् । ९ । ३९ ।
“सविता त्वा सवानां सुवताम् ।”
“सविता सवानां प्रसवानामज्ञानामाधिपत्ये हे
यजमान त्वा त्वां सुवतां प्रेरयतु ।” इति
तद्भाष्यम् ॥)

सवनं, क्ली, (सु ञ् अभिषवे + ल्युट् ।) यज्ञ-

स्नानम् । (यथा, किराते । १२ । १० ।
“प्रविवेश गामिव कृशस्य
नियमसवनाय गच्छतः ।
तस्य पदविनमितो हिमवान्
गुरुतां नयन्ति हि गुणा न संहतिः ॥”)
तत्पर्य्यायः । सूत्या २ अभिषवः ३ । इत्यमरः ।
२ । ७ । ४७ ॥ सोमसन्धानम् ४ । इति जटाधरः ॥
सोमपानम् । इति भरतः ॥ अध्वरम् । (यथा,
रघुः । ८ । ७५ ।
“अथ तं सवनाय दीक्षितः
प्रणिधानात् गुरुराश्रमस्थितः ।
अभिषङ्गजडं विजज्ञिवान्
इति शिष्येण किलान्वबोधयत् ॥”)
सोमनिर्दलनम् । इति मेदिनी ॥ प्रसवः । इति
केचित् ॥ (सु + युच् । चन्द्रे, पुं, । इत्युणादिवृत्तौ
उज्ज्वलदत्तः । २ । ७४ ॥ वनेन सह वर्त्तमानमिति
विग्रहे वनविशिष्टे, त्रि । यथा, महाभारते ।
१ । १८ । ८ ।
“अथ पर्व्वतराजानं तमनन्तो महाबलः ।
उज्जहार बलाद्ब्रह्मन् सवनं सवनौकसम् ॥”)

सवयाः, [स्] स्त्री, (समानं वयोम्याः । “ज्योति-

र्जनपदेति ।” ६ । ३ । ८५ । इति समानस्य मः ।)
पृष्ठ ५/३१२
समवयस्का । तत्पर्य्यायः । आलिः २ वयस्या ३
सखी ४ सहचरी ५ । इति जटाधरः ॥

सवयाः, [स्] पुं, (समानं वयो यस्य ।) वयस्यः ।

इत्यमरः । २ । ८ । १२ ॥ समानवयस्के, त्रि ॥
(यथा रघुः । ५ । ६५ ।
“सूतात्मजाः सवयसः प्रथितप्रबोधं
प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥”)

सवरः, पुं, सलिलम् । शिवः । इति त्रिकाण्डशेषः ॥

सवर्णः, त्रि, (समानो वर्णोऽस्य । “ज्योतिर्जन-

पदेति ।” ६ । ३ । ८५ । इति समानस्य सः ।)
सदृशः । इति हेमचन्द्रः ॥ (यथा, रघुः । ९ । ५१ ।
“ग्रथितमौलिरसौ वनमालया
तरुपलाशसवर्णतनुच्छदः ॥”)
समानवर्णः । (यथा, महाभारते । ७ । २२ । ४३ ।
“इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः ।
आयात् सदश्वैः पुरुजित् मातुलःसव्यसाचिनः ॥”)
तुल्यजातिः । यथा, मनुः ।
“पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।
असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्म्मणि ॥”
इत्युद्वाहतत्त्वम् ॥
एकस्थानोत्पन्नवर्णः । यथा । सर्वर्णेनाकदीर्घः ।
इति संक्षिप्तसारव्याकरणम् ॥

सवर्णा, स्त्री, (समानो वर्णो यस्याः ।) सूर्य्यपत्नी

छाया । इति शब्दरत्नावली ॥ (समानवर्णा
स्त्री । यथा, मनुः । ३ । ४ ।
“उद्वहेत द्विजो भार्य्यां सवर्णां लक्षणान्वि-
ताम् ॥”)

सवहा, स्त्री, त्रिवृता । इत्यमरटीकायां भरतः ॥

सविकाशः, त्रि, विकशितः । प्रफुल्लः । विकाशेन

सह वर्त्तमानः ॥

सविता, [ऋ] पुं, (सूते लोकादीनिति । सू +

तृच् ।) सूर्य्यः । इत्यमरः । १ । ३ । ३१ ॥ (यथा,
कुमारे । ५ । २० ।
“विजित्य नेत्रप्रतिघातिनीं प्रभा-
मनन्यदृष्टिः सवितारमैक्षत ॥”)
तस्य व्युत्पत्तिर्यथा, --
“धीशब्दवाच्यो ब्रह्माणं प्रचोदयति सर्व्वदा ।
सृष्ट्यर्थं भगवान् विष्णुः सविता स तु कीर्त्तितः ॥
सर्व्वलोकप्रसवनात् सविता स तु कीर्त्त्यते ।
यतस्तद्देवता देवी सावित्रीत्युच्यते ततः ॥”
इति वह्निपुराणे गायत्त्रीकल्पो नामाध्यायः ॥
अर्कवृक्षः । इति चामरः । २ । ४ । ८० ॥

सवितृदैवतः, पुं, (सविता दैवतं यस्य ।) हस्त-

नक्षत्रम् । इति हेमचन्द्रः ॥

सवितृलः, त्रि, सवितृसम्बन्धी । सवितृशब्दात् लप्र-

त्ययेन निष्पन्नः ॥

सवित्रं, क्ली, (सूयतेऽनेनेति । सू प्रसवे + “अर्त्ति-

लूधूसूखनसहचर इत्रः ।” ३ । २ । १८४ । इति
करणे इत्रः ।) प्रसवकरणम् । इति मुग्धबोध-
व्याकरणम् ॥

सवित्रियः, त्रि, (सवितुरयमिति । सवितृ + घः ।)

सूर्य्यसम्बन्धीयः । इति सिद्धान्तकौमुदी ॥

सवित्री, स्त्री, (सूते या । सू + तृच् । ङीप् ।)

माता । इति हेमचन्द्रः ॥ (यथा, कुमारे । १ । २४ ।
“तया दुहित्रा सुतरां सावित्री
स्फुरत्प्रभामण्डलया चकाशे ॥”)
गौः । इति केचित् ॥

सविधः, त्रि, (समाना विधास्येति ।) निकटम् ।

इत्यमरः । ३ । १ । ६७ ॥ (यथा, कथासरित्-
सागरे । ५३ । ३० ।
“अग्रे सविधमागत्य राज्ञस्तस्योपविष्टवान् ॥”)
समानप्रकारश्च ॥ (यथा, भागवते । ३ । ३ । ८ ।
“आसां मुहूर्त्त एकस्मिन् नानागारेषु योषिताम् ।
सविधं जगृहे पाणीननुरूपः स्वमायया ॥”)

सविस्मयः, त्रि, (विस्मयेन सह वर्त्तमानः ।)

विस्मयापन्नः । तत्पर्य्यायः । वीक्षापन्नः २ ।
इति हारावली ॥

सवेशः, त्रि, (वेशेन सह वर्त्तमानः ।) वेशान्वितः ।

इति धरणिः ॥ निकटम् । इत्यमरः । ३ । १ । ६७ ॥

सव्यः, त्रि, (सू प्रेरणे + “माच्छाससिसूभ्यो यः ।”

उणा० ४ । १०९ । इति यः ।) वामः । इत्य-
मरः । ३ । १ । ८५ ॥ (यथा, मनुः । २ । ६३ ।
“उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्बिजः ।
सव्ये प्राचीन आवीती निवीती कण्ठसज्जने ॥”)
दक्षिणः । (यथा, अनर्घराघवे । ६ । ७० ।
“एकेन सव्यपाणिना विशिखमुत्खाय किमाह
रावणः । साधु रे मनुष्यडिम्भ साधु ।”
“सव्यपाणिना दक्षिणहस्तेन ।” इति तट्टीका ॥)
प्रतिकूलः । इति हेमचन्द्रः ॥

सव्यः, पुं, (सूते विश्वमिति । सू प्रसवे + “माच्छा-

ससिसूभ्यो यः ।” उणा० ४ । १०९ । इति यः ।)
विष्णुः । इति शब्दमाला ॥

सव्यसाची, [न्] पुं, (सव्येन वामेन हस्तेनापि

सचति सन्दधाति बाणमिति । सच सन्धाने +
णिनिः ।) अर्ज्जुनः । इति हेमचन्द्रः ॥ (यथा,
महाभारते । ४ । १२ । १९ ।
“उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे ।
तेन देवमनुष्येषु सव्यसाचीति मां विदुः ॥”)

सव्येष्ठः, पुं, (सव्ये तिष्ठतीति । स्था + कः ।

“स्थास्थिन्स्थॄणाम् ।” ८ । ३ । ९७ । इत्यस्य
वार्त्तिकोक्त्या षत्वम् । हलदन्तादित्यलुक् ।)
सारथिः । इति हलायुधः ॥

सव्येष्ठा, [ऋ] पुं, (सव्ये तिष्ठतीति । स्था +

“सव्ये स्थश्छन्दसि ।” उणा० २ । १०२ । इति
छन्दसि ऋः । स च डित् । “स्थास्थिन्स्थॄणाम् ।”
८ । ३ । ९७ । इति षत्वम् । सप्तम्या अलुक् ।)
सारथिः । इत्यमरः । २ । ८ । ६० ॥

सशस्या, स्त्री, (शस्येन सह वर्त्तमाना ।) नाग-

दन्ती । इति रत्नमाला ॥ शस्ययुक्तभूम्यादौ, त्रि ॥

सशूकः, पुं, (शूकेन दयया सह वर्त्तमानः ।)

आस्तिकः । इति केचित् ॥

सश्मश्रुः, स्त्री, (श्मश्रुणा सह वर्त्तमाना ।) श्मश्रु-

युक्तस्त्री । तत्पर्य्यायः । नरमालिनी २ । इति
हेमचन्द्रः ॥ (श्मश्रुविशिष्टे, त्रि ॥)

ससत्त्वा, स्त्री, (सत्त्वेन सह वर्त्तमाना ।) गर्भिणी ।

इति शब्दरत्नावली ॥ (यथा, रघुः । ३ । ९ ।
“नदीमिवान्तःसलिलां सरस्वतीं
नृपः ससत्त्वां महिषीममन्यत ॥”)
प्राणियुक्ते, त्रि । यथा, “मनुः । ४ । ४७ ।
‘न मूत्रं पथि कुर्व्वीत न भस्मनि न गोव्रजे ॥’
‘न ससत्त्वेषु गर्त्तेषु न गच्छन्नापि संस्थितः ॥’
ससत्त्वेषु प्राणिमत्सु ।” इत्याह्निकतत्त्वम् ॥

ससनं, क्ली, (सस नाशे + ल्युट् ।) यज्ञार्थपशु-

हननम् । इत्यमरटीका । २ । ७ । २६ ॥ तस्य
रूपान्तरं शमनं शसनञ्च ॥

सस्मितः, त्रि, (स्मितेन सह वर्त्तमानः ।) ईष-

द्धास्ययुक्तः । यथा, --
“सस्मिताननसरोजमङ्गने
रिङ्गमाणमतिलोलकुन्तलम् ।
रोचनोल्लसितभालमस्तु मे
कैशवं मनसि शैशवं वपुः ॥”
इत्यनुमितौ जगदीशः ॥

सस्यं, क्ली, (सस स्वप्ने + “माच्छाससिसूभ्यो यः ।”

उणा० ४ । १०९ । इति यः ।) वृक्षादीनां
फलम् । यथा, --
“स्रंसनं सीसकं सस्यं स्रस्तं सास्ना च साध्व-
सम् ॥”
इत्युष्मविवेकात् । इत्यमरटीकायां भरतः ॥
धान्यम् । यथा, हेमचन्द्रः ।
“धान्यन्तु सस्यं सीत्यञ्च व्रीहिस्तम्बकरिश्च तत् ।”
शस्त्रम् । गुणः । इति विश्वः ॥ तस्य प्रशंसा यथा,
“जीर्णमन्नं प्रशंसीयात् भार्य्याञ्च गतयौवनाम् ।
रणात् प्रत्यागतं शूरं सस्यञ्च गृहमागतम् ॥”
इति चाणक्यशतकम् ॥
अन्यत् शस्यशब्दे द्रष्टव्यम् ॥

सस्यकः, पुं, (सस्येन गुणेन परिजातः सम्बद्धः ।

सस्य + “सस्येन परिजातः ।” ५ । २ । ६८ ।
इति कन् ।) मणिभेदः । (यथा, बृहत्संहि-
तायाम् । ७ । २० ।
“हेमकान्तिरथवा शुकवर्णः
सस्यकेन मणिना सदृशो वा ॥”)
असिः । इति मेदिनी ॥
“सस्यको नालिकेरान्तः सस्याभमणिखड्गयोः ॥”
इति हेमचन्द्रः ॥
(शालिः । साधुः । इति काशिका ॥)

सस्यमारी, [न्] पुं, (सस्यं मारयतीति । मृ +

णिच् + णिनिः ।) महामूषकः । इति राज-
निर्घण्टः ॥ सस्यनाशके, त्रि ॥

सस्यसंवरः, पुं, (सस्यैः संव्रियते इति । सं + वृ +

“ग्रहवृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।)
सालवृक्षः । इत्यमरः । २ । ४ । ४४ ॥

सस्यसंवरणः, पुं, (सस्यैः संवरणमस्येति ।) अश्व-

कर्णवृक्षः । इति राजनिर्घण्टः ॥

सस्वेदा, स्त्री, (स्वेदेन सह वर्त्तमाना ।) दूषिता

कन्या । इति शब्दरत्नावली ॥ (घर्म्मविशिष्टे,
त्रि ॥)
पृष्ठ ५/३१३

सह, व्य, सहितम् । तत्पर्य्यायः । साकम् २ सार्द्धम् ३

सत्रम् ४ समम् ५ । इत्यमरः । ३ । ४ । ४ ॥
सजुः ६ । इति जटाधरः ॥ (यथा, मनुः ।
१० । ६१ ।
“यत्र त्वेते परिध्वंसा जायन्ते वर्णदूषकाः ।
राष्ट्रिकः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति ॥”)
साकल्यम् । विद्यमानम् । सादृश्यम् । यौगपद्यम् ।
समृद्धिः । सम्बन्धः । इति मेदिनी ॥ सामर्थ्यम् ।
इति शब्दरत्नावली ॥

सहं, क्ली, (सहते इति । सह + अच् ।) पांशव-

लवणम् । इति राजनिर्घण्टः ॥

सहः, पुं, (सहते इति । सह + पचाद्यच् ।)

अग्रहायणमासः । (यथा, वाजसनेयसंहि-
तायाम् । १४ । २७ ।
“सहश्च सहस्यश्च हैमन्तिकावृतू ॥” * ॥
महादेवः । इति महाभारतम् । १३ । १७ ।
१२६ ॥) क्षमे, त्रि । इति हेमचन्द्रः ॥ (यथा,
महाभारते । १६ । ८ । १० ।
“गदापरिघशक्तीनां सहाः परिघबाहवः ।
त एरकाभिर्निहताः पश्य कालस्य पर्य्ययम् ॥”)

सहः, पुं, क्ली, (सहते इति । सह + अच् ।)

बलम् । इति मेदिनी ॥

सहः, [स्] क्ली, (सहते इति । सह + “सर्व्व-

धातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।)
ज्योतिः । बलम् । इति शब्दरत्नावली ॥ (यथा,
रघुः । ८ । ७ ।
“सदयं बुभुजे महाभुजः
सहसोद्वेगमियं व्रजेदिति ।
अचिरोपनतां स मेदिनीं
नवपाणिग्रहणां बधूमिव ॥”)

सहकारः, पुं, (सह युगपत् कारयति विक्षेपयति

सौगन्धमिति । कृ + णिच् + अच् ।) अति-
सौरभाम्रः । इत्यमरः । २ । ४ । ३३ ॥ (यथा,
रघुः । ४ । ९ ।
“मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ ।
फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥”)

सहकारी, [न्] पुं, (सह करोतीति । कृ +

णिनिः ।) प्रत्ययः । यथा, --
“अथ हेतुरुपादानं प्रत्ययाः सहकारिणः ॥”
इति त्रिकाण्डशेषः ॥
न्यायमते तद्भिन्नत्वे सति तज्जन्यजनकत्वं सह-
कारित्वम् ॥ (मिलित्वा करणशीले, त्रि ॥)

सहचरः, पुं, स्त्री, (सह चरतीति । चर + अच् ।)

पीतझिण्टी । नीलझिण्टी । इति रत्नमाला ॥
(यथा, सुश्रुते । १ । ३८ ।
“वीततरुसहचरद्वयदर्भवृक्षादनीति ॥”)

सहचरः, पुं, (सह चरतीति । चर + अच् ।)

झिण्टी । वयस्यः । (यथा, कथासरित्सागरे ।
२४ । १३२ ।
“ततः सहचरैः साकं तस्यैवाशिश्रयद्गृहम् ॥”)
प्रतिबन्धकः । इति हेमचन्द्रः ॥ अनुचरे, त्रि ।
इति मेदिनी ॥ (यथा, कुमारे । २ । ६४ ।
“सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्धा ॥”)

सहचरी, स्त्री, (सह चरति या । चर + अच् ।

पचादिषु चरतेष्टित्करणात् ङीष् ।) पीत-
झिण्टी । इत्यमरः । २ । ४ । ७५ ॥ सखी ।
इति जटाधरः ॥ पत्नी । इति हेमचन्द्रः ॥
(यथा, रघुः । ९ । ५७
“लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् ।
आकर्णकृष्टमपि कामितया स धन्वी
बाणं कृपामृदुमनाः प्रतिसञ्जहार ॥”)

सहजः, पुं, (सह जायते इति । जन + डः ।)

सहोदरः । इत्यमरः । २ । ६ । ३४ ॥ निसर्गः ।
सहोत्थे, त्रि । इति मेदिनी ॥ (यथा, रघुः ।
८ । ४३ ।
“विललाप स वाष्पगद्गदं
सजहामप्यपहाय धीरताम् ।
अभितप्तमयोऽपि मार्द्दवं
भजते कैव कथा शरीरिषु ॥”)
जन्मलग्नात् तृतीयस्थानम् । यथा, --
“सुतमदननवान्त्ये पूर्णदृष्टिः सुरारि-
र्युगलदशमराशौ दृष्टिपादत्रयार्हः ।
सहजरिपुचतुर्थेष्वष्टमे चार्द्धदृष्टिः
स्थितिभवनमुपान्त्यं नैव दृश्यं हि राहोः ॥”
इति ज्योतिस्तत्त्वम् ॥

सहजमित्रं, क्ली, (सहजं मित्रम् ।) स्वाभाविक-

सुहृत् । यथा, --
“अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ॥”
अरिः शत्रुः । मित्रं सुहृत् । उभयविलक्षण
उदासीनः । ते च त्रयस्त्रिविधाः । सहजाः
कृत्रिमाः प्राकृताश्चेति । सहजं मित्रं भागि-
नेयपैतृस्वस्रीयमातृस्वस्रीयादिः । इति मिता-
क्षरायामाचाराध्याये १ अध्यायः ॥

सहजातः, त्रि, (सह जातः उत्पन्नः ।) सहो-

दरः । यमजः । इति केचित् ॥ (सहोत्थे, त्रि ।
यथा, कथासरित्सागरे । ११३ । २२ ।
“तारावलोकनामा च क्रमाद्वृद्धिं जगाम सः ।
दानधर्म्मविवेकाद्यैः सहजातैर्गुणैः सह ॥”)

सहजारिः, पुं, (सहजः स्वाभाविकः अरिः ।)

स्वाभाविकशत्रुः । यथा । “सहजारिः सापत्न्य-
पितृव्यतत्पुत्त्रादिः ।” इति मिताक्षराया-
माचाराध्यायः ॥

सहजोदासीनः, पुं, (सहज उदासीनः ।) स्वाभा-

विकपरतरः । यथा । “सहजकृत्रिममित्रशत्रु-
लक्षणरहितौ सहजकृत्रिमोदासीनौ ।” इति
मिताक्षरायामाचाराध्यायः ॥

सहण्डुकं, क्ली, मांसव्यञ्जनविशेषः । यथा, --

“छागादेर्म्मांसमूर्द्धादेः कुट्टितं खण्डितं पुनः ।
शुद्धमांसविधानेन पचेदेतत् सहण्डुकम् ।
सहण्डुकं गुणग्रन्थे शुद्धमांसगुणं स्मृतम् ॥”
इति भावप्रकाशः ॥

सहदेवः, पुं, (पाण्डवविशेषः । इति मेदिनी ॥

स च पाण्डुराजस्य पञ्चमपुत्त्रः । माद्रीगर्भे
अश्विनीकुमाराभ्यां जातः ॥ जरासन्धसुतः ।
स युधिष्ठिरसमकालीनो मगधेषु राजासीत् ।
इति श्रीभागवतम् ॥ (हर्य्यश्वनसुतः । यथा,
हरिवंशे । २९ । ३ ।
“हर्य्यश्वनसुतो राजा सहदेवः प्रतापवान् ।
सहदेवस्य धर्म्मात्मा नदीन इति विश्रुतः ॥”
सोमदत्तपुत्त्रः । यथा, तत्रैव । ३२ । ८० ।
“सोमदत्तस्य दायादः सहदेवो महायशाः ।
सहदेवसुतश्चापि सोमको नाम पार्थिवः ॥”
देवैः सह वर्त्तमाने, त्रि । यथा, भागवते ।
४ । २ । ८ ।
“श्रूयतां ब्रह्मर्षयो मे सहदेवाः सहाग्नयः ।
साधूनां ब्रुवतो वृत्तं नाज्ञानान्नच मत्सरात् ॥”)

सहदेवा, स्त्री, (सह दीव्यतीति । दिव + अच् ।

टाप् ।) बला । दण्डोत्पलः । शारिवौषधिः ।
इति मेदिनी ॥ अर्हन्माता । इति हेमचन्द्रः ॥
(देवककन्यान्यतमा । सा तु वसुदेवपत्नी । यथा,
भागवते । ९ । २४ । २३ ।
“शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता ।
सहदेवा देवकी च वसुदेव उवाह ताः ॥”)

सहदेवी, स्त्री, सर्पाक्षी । इति मेदिनी ॥ पीत-

दण्डोत्पला । इति रत्नमाला ॥ बलाप्रभेदः ।
तत्पर्य्यायः । महाबला २ ज्यष्ठबला ३ कट-
म्भरा ४ केशारुहा ५ केसरिका ६ मृगादनी ७
वर्षपुष्पा ८ केशवर्द्धिनी ९ पुरासिनी १० देव-
बला ११ सारिणी १२ पीतपुष्पी १३ देवार्हा
१४ गन्धवल्लरी १५ मृगा १६ मृगरसा १७ ।
अस्या गुणाः । हृद्रोगवातार्शःशोफहारित्वम् ।
शुक्रवृद्धिकारित्वम् । बल्यत्वम् । विषमज्वर-
नाशित्वञ्च । इति राजनिर्घण्टः ॥ सहदेव-
पत्नी च ॥

सहदेवीगणः, पुं, (सहदेवीनां गणः ।) प्रति-

ष्ठायां देवस्नानार्थमोषधिसमूहः । यथा, --
“पञ्चगव्यैः स्नापयेच्च सहदेव्यादिभिस्ततः ।
सहदेवी बला चैव शतमूली शतावरी ॥
कुमारी च गुडूची च सिंही व्याघ्री तथैव च ।
या ओषधीति मन्त्रेण स्नानमोषध्निमङ्गलैः ॥”
इति गारुडे ४८ अध्यायः ॥

सहधर्म्मिणी, स्त्री, (सह धर्म्मोऽस्त्यस्या इति ।

इनिः । ङीप् ।) वेदविधानेनोढा । इत्यमरः ।
२ । ६ । ५ ॥

सहनं, क्ली, (सह + ल्युट् ।) क्षान्तिः । तत्पर्य्यायः ।

तितिक्षा २ क्षमा ३ । इति हेमचन्द्रः ॥ (यथा,
साहित्यदर्पणे । ६ । ३९० ।
“कार्य्यसंग्रह आदानं तदाहुश्छादनं पुनः ।
कार्य्यार्थमपमानादेः सहनं खलु यद्भवेत् ॥”)

सहनः, त्रि, (सहते इति । सह + ल्युः ।) सहन-

शीलः । इत्यमरः । ३ । १ । ३१ ॥ तत्पर्य्यायः ।
सहिष्णुः २ क्षमिता ३ क्षमी ४ तितिक्षुः ५
क्षन्ता ६ । इति हेमचन्द्रः ॥
पृष्ठ ५/३१४

सहनर्त्तनं, क्ली, (सह मिलित्वा नर्त्तनम् ।) एकत्र

मण्डलाकारनृत्यकरणम् । इति केचित् ॥

सहपांशुकिलः, पुं, (सह पांशुना रजसा किलति

क्रीडतीति । किल क्रीडने + कः ।) वयस्यः ।
इति त्रिकाण्डशेषः ॥

सहपानं, क्ली, (सह मिलित्वा पानम् ।) एकत्र

मद्यभक्षणम् । तत्पर्य्यायः । सपीतिः २ । इति
हेमचन्द्रः ॥ तुल्यपानम् ३ । इत्यमरः । २ । ९ । ५५ ॥
सहपीतिः ४ । इति शब्दरत्नावली ॥

सहपूर्व्वाह्णं, क्ली, (पूर्व्वाह्णस्य सदृशम् । “अव्ययी-

भावे चाकाले । ६ । ३ । ८१ । इत्यत्र अकाले इति
कथनात् न सादेशः ।) पूर्व्वाह्णसदृशम् । इति
मुग्धबोधव्याकरणे अव्ययीभावसमासः ॥

सहभावी, [न्] त्रि, (सह भवतीति । भू +

णिनिः ।) सहायः । इति त्रिकाण्डशेषः ॥

सहभोजनं, क्ली, (सह मिलित्वा भोजनम् ।)

एकत्र भक्षणम् । तत्पर्य्यायः । सग्धिः २ । इत्य-
मरः । २ । ९ । ५५ ॥ (सहभोगकरणम् । यथा,
महाभारते । १ । १९६ । २४ ।
“एष नः समयो राजन् रत्नस्य सहभोजनम् ।
न च तं हातुमिच्छामः समयं राजसत्तम ॥”)

सहमरणं, क्ली, (सह पत्या मरणम् ।) मृत-

स्वामिसहितज्वलच्चितारोहण-पूर्ब्बकमरणम् ।
यथा । “अथ सहानुगमनम् । अङ्गिराः ।
‘मृते भर्त्तरि या नारी समारोहेद्धुताशनम् ।
सारुन्धतीसमाचारा स्वर्गलोके महीयते ॥
तिस्रः कोट्योऽर्द्धकोटी च यानि लोमानि
मानवे ।
तावन्त्यब्दानि सा स्वर्गे भर्त्तारं यानुगच्छति ॥
व्यालग्राही यथा व्यालं बलादुद्धरते विलात् ।
तद्वद्भर्त्तारमादाय तेनैव सह मोदते ॥
मातृकं पैतृकञ्चैव यत्र कन्या प्रदीयते ।
पुनाति त्रिकुलं नारी भर्त्तारं यानुगच्छति ॥
तत्र सा भर्त्तृपरमा परा परमलालसा ।
क्रीडते पतिना सार्द्धं यावदिन्द्राश्चतुर्द्दश ॥’
भर्त्तृपरमा भर्त्ता परमो यस्याः सा तथा ।
परा परमलालसेत्यत्र स्तूयमानाप्सरोगणैरिति
व्यासेन पठितम् ।
‘ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नो वापि यो नरः ।
तं वै पुनाति सा नारी इत्याङ्गिरसभाषितम् ॥
साध्वीनामेव नारीणामग्निप्रपतनादृते ।
नान्यो धर्म्मो हि विज्ञेयो मृते भर्त्तरि कर्हिचित् ॥’
या नारीत्युपादानात् सहमरणाभावपक्षोऽपि
सूचितः । नान्यो धर्म्म इति तु सहमरणस्तुत्य-
र्थम् । तथा च विष्णुः । मृते भर्त्तरि ब्रह्मचर्य्यं
तदन्वारोहणं वा इति । ब्रह्मचर्य्य मैथुनवर्ज्जनं
ताम्बृलादिवर्ज्जनञ्च । यथा प्रचेताः ।
‘ताम्बूलाभ्यञ्जनञ्चैव कांस्यपात्रे च भोजनम् ।
यतिश्च ब्रह्मचारी च विधवा च विवर्ज्जयेत् ॥’
अभ्यञ्जनमायुर्व्वदोक्तं पारिभाषिकम् । यथा, --
‘मूर्द्ध्नि दत्तं यदा तैलं भवेत् सर्व्वाङ्गसङ्गतम् ।
स्रोताभिस्तर्पयेद्बाहू अभ्यङ्गः स उदाहृतः ॥
तैलमल्पं यदाङ्गेषु न च स्याद्बाहुतर्पणम् ।
सा मार्ष्टिः पृथगभ्यङ्गो मस्तकादौ प्रकी-
र्त्तितः ॥’
स्मृतिः ।
‘एकाहारः सदा कार्य्यो न द्वितीयः कदाचन ।
पर्य्यङ्कशायिनी नारी विधवा पातयेत् पतिम् ॥
गन्धद्रव्यस्य सम्भोगो नैव कार्य्यस्तया पुनः ।
तर्पणं प्रत्यहं कार्य्यं भर्त्तुस्तिलकुशोदकैः ।
तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्ब्बकम् ॥’
एतत् तु तर्पणं पुत्त्रपौत्त्राद्यभावविषयमिति
मदनपारिजातः ॥
‘वैशाखे कार्त्तिके माधे विशेषनियमञ्चरेत् ।
स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः ॥’
अत्र साध्वीत्वमाह ।
‘आर्त्तार्त्ते मुदिता हृष्टे प्रोषिते मलिना कृशा ।
मृते म्रियेत या पत्यौ साध्वी ज्ञेया पतिव्रता ॥’
छन्दोगपरिशिष्टीयमिति कल्पतरुः ॥ साध्वी-
प्रसादेन लोकधारणमप्याह ॥ मत्स्यपुराणम् ।
‘तस्मात् साध्व्यः स्त्रियः पूज्याः सततं देव-
वज्जनैः ।
तासां राज्ञा प्रसादेन धार्य्यते च जगत्त्रयम् ॥’
महाभारते ।
‘अवमत्य च याः पूर्व्वं पतिं दुष्टेन चेतसा ।
वर्त्तन्ते याश्च सततं भर्त्तॄणां प्रतिकूलतः ॥
भर्त्त्रनुमरणं काले याः कुर्व्वन्ति तथाविधाः ।
कामात् क्रोधात् भयान्मोहात् सर्व्वाः पूता
भवन्ति ताः ॥’
अत्र ऐहिकब्रह्मघ्नपतेर्द्दाहनिषेधात् जन्मान्त-
रीयतत्पापवत एव सहमरणेनोद्धारः । ब्रह्म-
पुराणे ।
‘देशान्तरमृते पत्यौ साध्वी तत्पादुकाद्बयम् ।
निधायोरसि संशुद्धा प्रविशेज्जातवेदसम् ॥
ऋग्वेदवादात् साध्वी स्त्री न भवेदात्मघातिनी ।
त्र्यहाशौचे निवृत्ते तु श्राद्धं प्राप्नोति शास्त्र-
वत् ॥’
ऋग्वेदवादात् इमा नारीरविधवा इत्यादि-
मन्त्रात् । एवञ्च अङ्गिरोब्रह्मपुराणवचनपर्य्या-
लोचनया ब्राह्मण्यादिसकलभार्य्याणां स्वगत-
भर्त्तृगतफलविशेषार्थिनीनां गर्भवतीबालापत्या-
दिव्यतिरिक्तानां सहमरणानुमरणयोरधिकार
इति । विवादकल्पतरुरत्नाकरौ । तत्र ब्राह्मण्या-
द्यनुमरणाधिकारोऽसङ्गतस्तस्यास्तन्निषेधात् ।
तथा च मिताक्षरायां देवबोधकृतयाज्ञवल्क्य-
टीकायाञ्च गौतमः ।
‘पृथक्चितिं समारुह्य न विप्रा गन्तुमर्हति ।
इतरासान्तु नारीणां स्त्रीधर्म्मोऽयं परः स्मृतः ॥’
तस्माद्ब्राह्मण्याः सहमरणमेव इतरासान्तु
उभयमिति । कल्पतरुरत्नाकरशुद्धिचिन्ता-
मणिषु पादुकाद्वयमिति दर्शनात् पादुकादिक-
मित्यपपाठः किन्तु पादुकाद्वयमित्युपलक्षणम् ।
उशनमा विप्रेतरासां द्रव्यविशेषमनुपादाय
पृथक्चित्यारोहणमात्रोक्तेः । यथोशनाः ।
‘पृथक्चितिं समारुह्य न विप्रा गन्तुमर्हति ।
अन्यासामेव नारीणां स्त्रीधर्म्मोऽयं परः स्मृतः ॥’
मदनपारिजातोऽप्येवम् । शिष्टाचारोऽपि तथा ।
कृत्यतत्त्वार्णवे बृहन्नारदीयम् ।
‘बालापत्याश्च गर्भिण्यो ह्यदृष्टऋतवस्तथा ।
रजस्वला राजसुते ! नारोहन्ति चितां शुभे ॥’
राजसुते इति सगरमातुः सम्बोधनम् । बृह-
स्पतिः ।
‘बालसम्बर्द्धनं त्यक्त्वा बालापत्या न गच्छति ।
रजस्वला सूतिका च रक्षेद्गर्भञ्च गर्भिणी ॥’
एवमन्यतश्चेद्बालस्य संवर्द्धनं स्यात् तदा तस्या
अप्यधिकारः । व्यासः ।
‘दिनैकगम्यदेशस्था साध्वी चेत् कृतनिर्णया ।
न दहेत् स्वामिनं तस्या यावदागमनं भवेत् ॥’
भविष्यपुराणे ।
‘तृतीयेऽह्नि उदक्याया मृते भर्त्तरि वै द्बिजाः ।
तस्यानुमरणार्थाय स्थापयेदेकरात्रकम् ॥’
तस्य भर्त्तुः । तथा, --
‘एकां चितां समासाद्य भर्त्तारं यानुगच्छति ।
तद्भर्त्तुर्यः क्रियाकर्त्ता स तस्याश्च क्रियाञ्चरेत् ॥’
एतच्च पिण्डदानपर्य्यन्तम् ।
‘यच्चाग्निदाता प्रेतस्य पिण्डान्दद्यात् स एव हि ।’
इति वायुपुराणैकवाक्यत्वात् ॥
ब्रह्मपुराणे ।
‘श्राबयेद्भर्त्तृजायान्तु स्वभर्त्तृकुलपामिमाम् ।
चितामारोपयन् प्राज्ञः प्रमृते धर्म्ममुत्तमम् ॥
इमाः पतिव्रताः पुण्याः स्त्रियो या याः सुशो-
भनाः ।
सह भर्त्तृशरीरेण संविशन्तु विभावसुम् ॥
एवं श्रुत्वा ततो नारी श्रद्धाभक्तिसमन्विता ।
पितृमेधेन यज्ञेन इष्ट्वा स्वर्गमवाप्नुयात् ॥’
प्रमृते भर्त्तरीति शेषः । पितृमेधेन यज्ञेन
चितारोहणरूपेण । पादुकाद्वयग्रहणपूर्व्वका
नुमरणेऽपि सह भर्त्तृशरीरेण इत्यनूहः
प्रयोज्यः । देशान्तरमृते पत्यावित्यादिना शरीर-
प्रतिनिधित्वेन तदीयद्रव्यविधानात् । प्रतिनिधौ
च यथाश्रुतमन्त्रपाठमाह कात्यायनः । शब्दे-
ऽविप्रतिपत्तिः इत्येतत् विवृतमेकादशीतत्त्व ॥ * ॥
न च अग्निजलप्रविष्टानां भृगुसंग्रामदेशान्तर-
मृतानां गर्भाणां जातदन्तानां मरणे त्रिरात्रेण
शुद्धिः । इति काश्यपवचनात् सहमृताया
अप्यग्निप्रवेशेन त्रिरात्राशौचं तत्रैव तस्याः
पिण्डदानमिति वाच्यम् । प्रागुक्तब्रह्मपुराणे
पृथक्चितिसमारोहणमात्रे त्र्यहाशौचविधा-
नात् अन्यत्र भर्त्तृतुल्याशौचप्रतीतेः । सहमरणे
काश्यपोक्तत्रिरात्राशौचाङ्गीकारेऽपि तस्या-
शौचस्य वृद्ध्या पत्यशौचकालावधिस्थायित्वम् ॥
‘अन्तर्द्दशाहे स्याताञ्चेत् पुनर्म्मरणजन्मनी ।
तावत्स्यादशुचिर्विप्रो यावत्तत् स्यादनिर्द्दशम् ॥’
इति मनूक्ताशौचसङ्करे पराशौचस्य पूर्व्वा-
शौचकालाबधिस्थायित्वप्रतीतेः । ततश्च यथा
अशौचकालसङ्कोचे तन्मध्य एव सङ्कलय्य पिण्ड-
पृष्ठ ५/३१५
दानं तथाशौचकालवृद्धावपि यावदशौचं यथा-
क्रमं दश पिण्डा देया इति । अतएव जिक-
नीयान्त्येष्टिविध्यनुमरणविवेकयोर्व्व्यासः ।
‘संस्थितं पतिमालिङ्ग्य प्रविशेद्या हुताशनम् ।
तस्याः पिण्डादिकं देयं क्रमशः पतिपिण्डवत् ॥’
विष्णुः ।
‘अन्विता पिण्डदानन्तु यथा भर्त्तुर्द्दिने दिने ।
तदन्वारोहिणी यस्मात्तस्मात् सा नात्मघातिनी ॥’
अत्रानुः सहार्थः । पतिमालिङ्ग्येत्यनेनैकवाक्त्य-
त्वात् । स्वाम्यशौचाभ्यन्तरे पृथक्चितामृताया-
स्त्र्यहेण पिण्डदानं स्वाम्यशौचापगमे तु श्राद्धम् ।
‘अन्वितायाः प्रदातव्या दशपिण्डास्त्र्यहेण तु ।
स्वाम्यशौचव्यतीते तु तस्याः श्राद्धं विधीयते ॥’
इति जिकनधृतपैठीनसिवचनात् ॥
अग्निपुराणस्येदमिति शूलपाणिः । अत्रानुः
पश्चादर्थः । अतीते तु भर्त्रशौचे पादुकाद्वयमु-
पादाय ज्वलदग्निप्रवेशे त्र्यहाशौचव्यवस्थया
पिण्डदानंचतुर्थदिने श्राद्धं पूर्व्वोक्तब्रह्मपुराणवच-
नात् । तत्र तु भर्त्तुः संग्रामहतत्वादिना सद्यः-
शौचं तत्र पृथक् चितामृताशौचस्य पूर्व्वोक्त-
ब्रह्मपुराणवचनात् त्रिरात्रत्वन बहुकालव्यापि-
त्वेनाघवृद्धिमत्त्वात् तेनैव पूर्ब्बाशौचस्य व्यपग-
मात् तत्र भर्त्तुरपि त्र्यहेण पिण्डदानम् । तत्रा-
प्येकचितारोहणे भर्त्त्रशौचव्यपगमात् शुद्धिः ।
संस्थितं पतिमालिङ्ग्य इति अन्वितापिण्डदान-
मिति पूर्व्वोक्तवचनाभ्यां अग्निप्रवेशे सुमन्तुना
सद्यःशौचविधानाच्च । यथा । भृग्वग्निजलसंग्राम-
देशान्तरस्थसन्न्यास्यनशनाशनिमहाध्वनिकानां
उदकक्रिया कार्य्या सद्यःशौचं भवति इति ।
भृगुरुच्चदेशः । महाध्वनिकः पुण्यार्थं हिमा-
लयावधिकमहापथगमनेन सम्पादितमरणः । न
चैतत् सद्यःशौचं नित्यबेदाध्यापकैरग्निहोतृ-
भिश्च एकाहाशौचिभिश्च कर्त्तव्यमिति हार-
लतादत्तविषयत्वेन नैतद्बिषयकमिति वाच्यम् ।
तन्मात्रविषयकत्वे प्रमाणाभावात् । सामान्य-
मुखप्रवृत्ततया वचनान्तरसंवादितया चैत-
द्विषयकमिति । अन्यथा कश्यपोक्तत्रिरात्रा-
शौचमपि अग्निजलसंग्रामप्रविष्टानां प्रमादा-
देव मरण इति हारलतादर्शनात् अनुमरण-
विषयकं न स्यात् तस्मात् काश्यपवचनं ब्रह्म-
पुराणसमानविषयकं इति । सुमन्तुवचनं संग्राम-
हतभर्त्तृसहगमनविषयकमपीति ॥ * ॥ एवञ्च
समाधिना त्यक्तदेहस्य मुक्तस्य धृतराष्ट्रस्य
पर्णोटजाग्निना देहदाहकाले तत्पत्न्या
गान्धार्य्या अग्निप्रवेशदर्शनादिदानीं काश्यादि-
मृतस्य मुक्तस्यापि पत्युस्तत्पत्न्याः सहमरणं
सङ्गच्छते । श्रीभागवते तदुक्तम् ।
‘दह्यमानेऽग्निभिर्द्देहे पत्युः पत्नी सहोटजे ।
बहिःस्थिता पतिं साध्वी तमग्निमनुवेक्ष्यति ॥’
अनुवेक्ष्यति अग्निप्रवेशनं करिष्यति इति
युंधिष्ठिराय नारदस्य भविष्यत्कथनम् ।
‘दयितं यान्यदेशस्थं मृतं श्रुत्वा पतिव्रता ।
समारोहति शीघ्राग्नौ तस्याः सिद्धिं निबोधत ॥’
इति व्यासवचनादिना सहमरणानुमरणयो-
र्निरवकाशनैमित्तिककाम्यत्वेन मलमासादावपि
कर्त्तव्यता ।
‘नैमित्तिकानि काम्यानि निपतन्ति यथा यथा ।
तथा तथैव कार्य्याणि न कालस्तु विधीयते ॥’
इति दक्षवचनात् ॥ * ॥
तदयं प्रयोगः । पुत्त्रादिना स्वगृह्योक्तविधिना
अग्नौ दत्ते ज्वलितायां भर्त्तृचितायां सहगन्त्री
साध्वी स्नाता परिहितधौतवासोयुगा कुश-
हस्ता प्राङ्मुखी वा दैवतीर्थेनाचान्ता तिल-
जलकुशत्रयमादाय ॐ तत् सदिति ब्राह्मणै-
रुच्चारिते नारायणं संस्मृत्य नमोऽद्यामुके मासि
अमुके पक्षे अमुकतिथौ अमुकगोत्रा श्रीमती
असुकीदेवी अरुन्धतीसमाचारत्वपूर्ब्बकस्वर्ग-
लोकमहीयमानत्वमानवाधिकरणकलोमसमसं-
ख्याब्दावच्छिन्नस्वर्गवासभर्त्तृसहित-मोदमानत्व-
मातृ-पितृ-श्वशुर-कुलत्रय-पूतत्व-चतुर्द्दशेन्द्राव-
च्छिन्नकालाधिकरणकाप्सरोगणस्तूयमानत्वपति-
सहितक्रीडमानत्वब्रह्मघ्नपतिपूतत्वकामा भर्त्तृ-
ज्वलच्चितारोहणमहं करिष्ये इति । अनुमरणे
तु भर्त्तृज्वलच्चितारोहणमित्यत्र ज्वलच्चिता-
प्रवेशेन भर्त्रनुमरणमिति सङ्कल्प्य अष्टौ लोक-
पाला आदित्यचन्द्रानिलाग्न्याकाशभूमिजल-
हृदयावस्थितान्तर्यामिपुरुषयमदिनरात्रिसन्ध्या-
धर्म्मा यूयं साक्षिणो भवत ज्वलच्चितारोहणेन
मर्त्तृशरीरानुगमनमहं करोमि इति । अनु-
मरणे तु भर्त्तृशरीरानुगमनमित्यत्र भर्त्त्रनुमरण-
मित्युच्चार्य्य ज्वलच्चिताग्निं त्रिः प्रदक्षिणीकृत्य ।
‘ॐ इमा नारीरविधवाः सपत्नी-
राञ्जनेन सर्पिषा संविशन्तु ।
अनश्रवो अनमीवाः सुरत्ना
आरोहन्तु जनयोयोनिमग्रे ॥’
इति ऋग्वेदोक्तमन्त्रे । १० । १८ । ७ ॥
‘ॐइमाः पतिव्रताः पुण्याः स्त्रियो या याः
सुशोभनाः ।
सह भर्त्तृशरीरेण संविशन्तु विभावसुम् ॥’
इति पौराणीके मन्त्रे च ब्राह्मणेन पठिते नमो
नम इत्युच्चार्य्य ज्वलच्चितां समारोहेत् ॥ * ॥
आपस्तम्बः ।
‘चितिभ्रष्टा तु या नारी मोहाद्विचलिता
भवेत् ।
प्राजापत्येन शुध्येत्तु तस्माद्धि पापकर्म्मणः ॥’
पाश्चात्यनिर्णयामृते स्मृतिः ।
‘एकचित्यां समारूढौ दम्पती निधनं गतौ ।
पृथक् श्राद्धं तयोः कुर्य्यादोदनन्तु पृथक् पृथक् ॥’
विद्याकरधृता स्मृतिः ।
‘एकाहेन मृतानान्तु बहूनामथवा द्वयोः ।
तन्त्रेण श्रपणं कृत्वा पृथक् श्राद्धं प्रवर्त्तयेत् ॥’
यत्तु ।
‘यदा नारी विशेदग्निं स्वेच्छया पतिना सह ।
अशौचमुदकं तस्याः सह भर्त्रेति निश्चितम् ।’
तिथ्यन्तरमृतायान्तु पृथक् श्राद्धं न विद्यते ॥”
इति चतुर्भुजभट्टाचार्य्यधृतयमवचनाद्भिन्नतिथि-
मृताया अपि पत्युर्म्मृततिथौ श्राद्धमिति हरि-
दासतर्काचार्य्याः । तन्न अस्य वचनस्यामूलत्वात्
समूलत्वेऽपि श्राद्धपदं पिण्डपरम् । एकोद्दिष्टं
मृताहनीति यमवचनविरोधात् ।” इति शुद्धि-
तत्त्वम् ॥ * ॥ अन्यत् ब्रह्मवैवर्त्ते गणपतिखण्डे
२८ अध्याये । मार्कण्डेयपुराणे दमचरिताध्याये ।
विष्णुपुराणे ५ अंशे ३८ अध्याये । कल्किपुराणे
३३ अध्याये च द्रष्टव्यम् ॥

सहयायी, [न्] त्रि, (सह यातीति । या +

णिनिः ।) मिलितगामी । यथा, --
“न नदीषु नदीं ब्रूयात् पर्व्वतेषु च पर्व्वतान् ।
आवासे भोजने वापि न त्यजेत् सहयायिनम् ॥”
इति कूर्म्मपुराणे उपविभागे । १५ । ५८ ॥

सहरसा, स्त्री, (सह रसो यस्याः ।) मुद्गपर्णी ।

इति शब्दरत्नावली ॥

सहरि, व्य, हरेः सदृशम् । इति मुग्धबोधव्याक-

रणम् ॥ सूर्य्ये वृषे च, पुं । इति केचित् ॥

सहर्षः, पुं, (सह हर्षो यत्र ।) स्पर्द्धनम् । हर्षः ।

इति त्रिकाण्डशेषः ॥ (हर्षेण सह वर्त्तमानः ।)
हर्षयुक्ते, त्रि ॥ (यथा, कथासरित्सागरे ।
२ । २३ ।
“एतच्छ्रुत्वा वचः शम्भोः सहर्षोऽहमिहा-
गतः ॥”)

सहसा, व्य, हठात् । तत्पर्य्यायः । अतर्कितः २ ।

इत्यमरः । ३ । ४ । ७ ॥ अकस्मात् ३ । इति
शब्दरत्नावली ॥ सहसा कर्म्मकरणनिषेधो
यथा, किरातार्ज्जुनीये । २ । ३० ।
“सहसा विदधीत न क्रिया-
मविवेकः परमापदां पदम् ।
वृणते हि विमृष्यकारिणं
गुणलुब्धाः स्वयमेव सम्पदः ॥”
हास्ययुक्ते, त्रि । यथा, --
“प्रियतमेन यया सरुषा स्थितं
न सहसा सहसा परिरभ्य तम् ।
श्लथयितुं क्षणमक्षमतां गता
न सहसा सहसा कृतवेपथुः ॥”
इति माधे । ६ । ५७ ॥

सहसादृष्टः, त्रि, हठात् दृष्टः । दत्तकपुत्त्रे, पुं, ।

इति केचित् ॥

सहसानः, पुं, (सहते इति । सह + “ऋञ्जिवृधि-

मन्दिसहिभ्यः कित् ।” उणा० २ । ८७ । इति
असानच् ।) मयूरः । यज्ञः । क्षमायुक्ते, त्रि ।
इत्युणादिकोषः ॥ (शत्रूणामभिभवितरि, त्रि ।
इति सायणः ॥ यथा, ऋग्वेदे । १ । १८९ । ८ ।
“मानस्य सूनुः सहसाने अग्नौ ॥”)

सहस्यः, पुं, (सहसि बले साधुः । तत्र साधुरिति

यत् ।) पौषमासः । इत्यमरः । १ । ४ । १५ ॥
(यथा, कुमारे । ५ । २६ ।
“निनाय सात्यन्तहिमोत्किरानिलाः
सहस्यरात्रीरुदवासतत्पराः ॥”)
पृष्ठ ५/३१६

सहस्रं, क्ली, (सहो बलमस्त्यस्मिन्निति । सहस् +

रः । “सहो बलनामसु व्याख्यातम् । रो मत्व-
र्थीयः । अल्पापि भाविनी शक्तिरस्मिन्नस्ति ।”
इति निघण्टुटीकायां देवराजयज्वा । ३ । १ ।)
दशशतसंख्या । इति हेमचन्द्रः ॥ हाजार इति
पारस्यभाषा । (यथा, मनुः । ३ । १७७ ।
“पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥”)
तद्वाचकानि यथा । जाह्नवीवक्त्रम् १ शेष-
शीर्षम् २ पद्मच्छदः ३ रविकरः ४ अर्ज्जुन-
बाणः ५ वेदशाखा ६ इन्द्रदृष्टिः ७ । इति
कविकल्पलता ॥ (बहु । इति निघण्टुः । ३ । १ ॥
यथा, --
“सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।”
इति पुरुषसूक्तम् ॥)

सहस्रकाण्डा, स्त्री, (सहस्रं काण्डानि यस्याः ।)

श्वेतदूर्व्वा । इति राजनिर्घण्टः ॥

सहस्रकिरणः, पुं, (सहस्रं किरणानि यस्य ।)

सूर्य्यः । इति हलायुधः ॥ (यथा, बृहत्संहि-
तायाम् । ४२ । १३ ।
“राशौ राशौ यस्मिन्
शिशिरमयूखः सहस्रकिरणो वा ॥”)

सहस्रदंष्ट्रः, पुं, (सहस्रं दंष्ट्रा यस्य ।) पाठीन-

मत्स्यः । इत्यमरः । १ । १० । १८ ॥ (यथा,
सुश्रुते । १ । ४६ । “रोहितपाठीनपाटला-
राजीववर्म्मिगोमत्स्य-कृष्णमत्स्य-वागुञ्जारमुरल-
सहस्रदंष्ट्रप्रभृतयो नादेयाः ॥”)

सहस्रदंष्ट्री, [न्] पुं, (सहस्रदंष्ट्राः सन्त्यस्येति ।

इनिः ।) वोदालमत्स्यः । इति शब्दरत्नावली ॥

सहस्रदोः, [स्] पुं, (सहस्रं दोषो बाहवो यस्य ।)

कार्त्तवीर्य्यार्ज्जुनः । इति जटाधरः ॥

सहस्रधारः, पुं, (सहस्रं धारा यस्य ।) विष्णु-

चक्रम् । इति केचित् ॥

सहस्रधारा, स्त्री, (सहस्रं बहवो धारा जल-

प्रपाता यत्र ।) देवतास्नानार्थसहस्रच्छिद्रयुक्त-
पात्रगलितजलधारा । यथा, --
“सहस्रधारया देवीं स्नापयामि सुरेश्वरीम् ॥”
इति दुर्गोत्सवपद्धतिः ॥

सहस्रनयनः, पुं, (सहस्रं नयनानि यस्य ।) इन्द्रः ।

इति हलायुधः ॥ (यथा, कथासरित्सागरे ।
१०१ । २२७ ।
“केयं सहस्रनयनप्रेक्षणीया किमप्सराः ।
वनश्रीरथवा पुष्पलग्नाग्रकरपल्लवा ॥”
वाच्यलिङ्गेऽपि दृश्यते । यथा, महाभारते ।
१३ । १४ । २०४ ।
“किञ्चात्र बहुभिः सूक्तैर्हेतुवादैः पुरन्दर ।
महस्रनयनं दृष्ट्वा त्वामेव सुरसत्तम ॥”)

सहस्रनेत्रः, पुं, (सहस्रं नेत्राणि यस्य ।) इन्द्रः ।

इति हेमचन्द्रः ॥ (यथा, रघुः । ६ । २३ ।
“क्रियाप्रबन्धादयमध्वराणा-
मजस्रमाहूतसहस्रनेत्रः ।
शच्याश्लिरं पाण्डुकपोललम्बान्
मन्दारशून्यानलकांश्चकार ॥”
वाच्यलिङ्गेऽपि दृश्यते । यथा, महाभारते ।
१ । २१२ । २७ ।
“एवं चतुर्म्मुखः स्थाणुर्महादेवोऽभवत्पुरा ।
तथा सहस्रनेत्रश्च बभूव बलसूदनः ॥”)
विष्णुः । इति श्रीभागवतम् ॥

सहस्रपत्रं, क्ली, (सहस्राणि पत्राणि यस्य ।)

पद्मम् । इत्यमरः । १ । १० । ४३ ॥ (यथा,
रघुः । ७ । ११ ।
“तासां मुखैरासवगन्धगर्भै-
र्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
विलोलनेत्रभ्रमरैर्गवाक्षाः
सहस्रपत्राभरणा इवासन् ॥”)

सहस्रपात्, [द्] पुं, (सहस्रं पादा यस्य । संख्या-

सुपूर्व्वस्येति पादस्यान्तलोपः ।) विष्णुः । यथा,
“सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥”
इति पुरुषसूक्तम् ॥
(तथाच महाभारते । १३ । १४९ । ३७ ।
“सहस्रमूर्द्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥”
महादेवः । यथा, तत्रैव । १३ । १७ । १३० ।
“हर्य्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् ॥”
ऋषिविशेषः । यथा, तत्रैव । १ । १० । ७ ।
“अहं पुरा रुरो ! नाम्ना ऋषिरासं सहस्रपात् ।
सोऽहं शापेन विप्रस्य भुजङ्गत्वमुपागतः ॥”)

सहस्रपादः, पुं, (सहस्रं पादा यस्य ।) कारण्ड-

पक्षी । सूर्य्यः । विष्णुः । इति मेदिनी ॥

सहस्रबाहुः, पुं, (सहस्रं बाहवो यस्य ।) बाण-

राजः । यथा, --
“बाणः पुत्त्रशतज्येष्ठो बलेरासीन्महात्मनः ।
सहस्रबाहुर्ताद्येन ताण्डवे तोषयन्मृडम् ॥”
इति श्रीभागवते । १० । ६२ । २ ॥
(कार्त्तवीर्य्यार्ज्जुनः । शिवः । यथा, महा-
भारते । १३ । १७ । १३१ ।
“सहस्रबाहुः सर्व्वाङ्गः शरण्यः सर्व्वलोककृत् ॥”
बहुबाहुविशिष्टे, त्रि । यथा, भागवते । ४ । ५ । ३ ।
“ततोऽतिकायस्तनुवा स्पृशन् दिवं
सहस्रबाहुर्घनरुक् त्रिसूर्य्यदृक् ॥”)

सहस्रभुजः, पुं, (सहस्रं भुजा यस्य ।) विष्णुः ।

यथा, --
“पश्यन्त्यदोरूपमदभ्रचक्षुषा
सहस्रपादोरुभुजाननाद्भुतम् ।
सहस्रमूर्द्धश्रवणाक्षिनासिकं
सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥”
इति श्रीभागवते । १ । ३ । ४ ॥
कार्त्तवीर्य्यार्ज्जुनः ॥ (बाणराजश्च ॥)

सहस्रभुजा, स्त्री, (सहसं भुजा यस्याः ।) महा-

लक्ष्मीः । सा च महिषासुरमर्द्दिनी । यथा, --
“श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला ।
रक्तमध्या रक्तदेहा नीलजङ्घोरुतालुका ॥
चित्रानुलेपना कान्ता सर्व्वेसौभाग्यदायिनी ।
अष्टादशभुजा पूज्या सा सहस्रभुजा रणे ॥
आयुधान्यत्र रक्षन्ति दक्षिणाधःकरक्रमात् ।
अक्षमाला च मुषलं बाणासिकुलिशं गदाम् ॥
चक्रं त्रिशूलं परशुं शङ्खघण्टे च पाशकम् ।
शक्तिं दण्डं चर्म्म चापं पानपात्रं कमण्डलुम् ॥
अलङ्कृतभुजा त्वेभिरायुधैः परमेश्वरी ।
स्मर्त्तव्या स्तुतिकालादौ महिषासुरमर्द्दिनी ॥
इत्येषा राजसी मूर्त्तिः सर्व्वदेवमयी मता ।
यां ध्यात्वा मानवो नित्यं लभते हितमात्मनः ॥”
इति मार्कण्डेयपुराणीयदेवीमाहात्स्यपाठक्रमः ॥

सहस्रमूर्द्धा, [न्] पुं, (सहस्रं मूर्द्धानो यस्य ।)

विष्णुः । अस्य प्रमाणं सहस्रभुजशब्दे द्रष्टव्यम् ॥
(तथाच महाभारते । १३ । १४९ । ३७ ।
“सहस्रमूर्द्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥”
शिवः । यथा, महाभारते । १३ । १७ । १३० ।
“सहस्रमूर्द्धा देवेन्द्रः सर्व्वदेवयमो गुरुः ॥”)

सहस्रमूली, स्त्री, (सहस्रं मूलानि यस्याः । ङीष् ।)

द्रवन्ती । इति राजनिर्घण्टः ॥

सहस्रमौलिः, पुं, (सहस्रं मौलयो यस्य ।) विष्णुः ।

अस्य प्रमाणं सहस्रभुजशब्दे द्रष्टव्यम् ॥ (अनन्त-
देवः । यथा, देवीभागवते । १ । २ । ७ ।
“विष्णुस्तु शेषशयने स्वपितीति काले
तन्नाभिपद्ममुकुले खलु तस्य जन्म ।
आधारतां किल गतोऽत्र सहस्रमौलिः
सम्बोध्यतां स भगवान् हि कथं मुरारिः ॥”)

सहस्ररश्मिः, पुं, (सहस्रं रश्मयो यस्य ।) सूर्य्यः ।

इति सहस्रकिरणशब्ददर्शनात् ॥ (यथा, माघे ।
१ । ५३ ।
“अशक्नुवन् सोढुमधीरलोचनः
सहस्ररश्मेरिव यस्य दर्शनम् ॥”)

सहस्रवदनः, पुं, (सहस्रं वदनानि यस्य ।) विष्णुः ।

इति शब्दरत्नावली ॥

सहस्रवीर्य्या, स्त्री, (सहस्रं वीर्य्याण्यस्याः ।)

दूर्व्वा । इत्यमरः । २ । ४ । १५८ ॥ महाशता-
वरी । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते ।
१ । १९ ।
“शतवीर्य्यां सहस्रवीर्य्यां सिद्धार्थाश्च शिरसा
धारयेत् ॥” * ॥ प्रभूतवीर्य्यशालिनि, त्रि । यथा,
वाजसनेयसंहितायाम् । १३ । २६ ।
“सहस्रवीर्य्यासि सा मा जिन्व ॥”)

सहस्रवेधं, क्ली, (सहस्रं वेधा यस्य ।) चुक्रम् ।

काञ्जिकविशेषः । इति राजनिर्घण्टः ॥

सहस्रवेधि, [न्] क्ली, (सहस्रं विधतीति । विध

छिद्रीकरणे + णिनिः ।) हिङ्गु । इति मेदिनी-
राजनिर्घण्टौ ॥

सहस्रवेधी, [न्] पुं, (सहस्रं वेधितुं शीलमस्य ।

विध छिद्रीकरणे + णिनिः ।) अम्बुवेतसः ।
इति मेदिनी ॥ कस्तूरी । इति राजनिर्घण्टः ॥
सहस्रवेधकर्त्तरि, त्रि ॥

सहस्रशिखरः, पुं, (सहस्रं शिखराणि यस्य ।)

विन्ध्यपर्व्वतः । इति केचित् ॥ (यथा, मार्कण्डेये ।
५५ । १० ।
“सहस्रशिखरश्चाद्रिः पारिपात्रः सशृङ्गवान् ॥”)

सहस्रश्रवणः, पुं, (सहस्रं श्रवणानि यस्यं ।)

विष्णः । अस्य प्रमाणं सहस्रभुजशब्दे द्रष्टव्यम् ॥
पृष्ठ ५/३१७

सहस्रहर्य्याश्वः, पुं, इन्द्ररथः । इति केचित् ॥

सहस्रा, स्त्री, (सहस्रं वीर्य्याणि सन्त्यस्यामिति ।

अच् । टाप् ।) अम्बष्ठा । इति भावप्रकाशः ॥

सहस्रांशुः, पुं, (सहस्रं अंशवो यस्य ।) सूर्य्यः ।

इत्यमरः । १ । ३ । २१ ॥ (यथा, मनुः । १ । ९ ।
“तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
तस्मिन् जज्ञे स्वयं ब्रह्मा सर्व्वलोकपितामहः ॥”)

सहस्राक्षः, पुं, (सहस्रमक्षीण्यस्येति । “बहुव्रीहौ

सक्थ्यक्ष्णोः स्वाङ्गात् षच् ।” ५ । ४ । ११३ । इति
षच् ।) इन्द्रः । इत्यमरः । १ । १ । ४३ ॥ (यथा,
महाभारते । १ । २५ । ८ ।
“नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ! ॥”)
विष्णुः । यथा, --
“सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।”
इति पुरुषसूक्तम् ॥
(पीठस्थानविशेषः । यथा, देवीभागवते । ७ ।
३० । ६५ ।
“उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महो-
त्पला ॥”)

सहस्राननः, पुं, (सहस्रं आननानि यस्य ।)

विष्णुः । अस्य प्रमाणं सहस्रभुजशब्दे द्रष्टव्यम् ॥

सहस्रानीकः, पुं, शतानीकराजपुत्त्रः । यथा, --

“शतानीकोऽभवत् पूर्व्वं पुराकल्पे महीपतिः ।
इन्द्राय सुबहून् यज्ञान् श्रद्धापूतेन चेतसा ॥
यज्ञे यज्ञे सहस्राणि गजाश्वरथदन्तिनाम् ।
ब्राह्मणेभ्योऽददद्राजन् श्यामानाञ्च शतं शतम् ॥
द्विजस्तुष्टो ददौ पुत्त्रं कौषिको भूभृते तथा ।
पत्न्यास्तस्य स जातोऽपि कालात् कालं व्यवर्द्धत ॥
वेदवेदाङ्गतत्त्वज्ञो धर्म्मज्ञो नियतव्रतः ।
कान्त्या चन्द्रमसस्तुल्यः प्रतापात् सूर्य्यवत् प्रभुः ॥
समये धर्म्मराजेव क्षमया पृथिवीसमः ।
एतद्गुणवतो ज्ञात्वा सुतं राज्ञो द्विजातयः ।
सहस्रानीकनामानं चक्रुस्तस्य सुहर्षिताः ॥”
इति वह्निपुराणे पापनाशनवृषदानाध्यायः ॥
(तथा च भागवते । ९ । २२ । ३८ -- ३९ ।
“तस्य पुत्त्रः शतानीको याज्ञवल्क्यात् त्रयीं
पठन् ।
अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति ॥
सहस्रानीकस्तत्पुत्त्रस्ततश्चैवाश्वमेधजः ॥”)

सहस्रारः, पुं, क्ली, (सहस्रं आराणि कोणा यस्य ।)

शिरोऽवस्थिताधोमुखसहस्रदलकमलम् । यथा,
“सहस्रारे हिमनिभे सर्व्ववर्णविभूषिते ।
अ-क-थादित्रिरेखात्म-ह-ल-क्ष-त्रयभूषिते ॥
तन्मध्ये परबिन्दुञ्च सृष्टिस्थितिलयात्मकम् ।
एवं समाहितमना ध्यायेन्न्यासोऽयमान्तरः ॥”
इति तन्त्रसारोक्तान्तर्म्मातृकान्यासः ॥
(सहस्रं अराणि यस्येति । बहुचक्राङ्गविशिष्टे,
त्रि । यथा, देवीभागवते । ६ । ५ । १८ ।
“चक्रं सुमोच वेगेन सहस्रारं सुदर्शनम् ॥”)

सहस्री, [न्] पुं, (सहस्रं बलमस्त्यस्येति ।

सहस्र + “तपःसहस्राभ्यां विनीनी ।” ५ । २ ।
१०२ । इति इनिः ।) सहस्रेण यो बली । तत्-
पर्य्यायः । साहस्रः २ । इत्यमरः । २ । ८ ।
६२ ॥ द्वे हाजरा इति ख्याते । ये सहस्रेण
सहस्रसंख्येन गजादिना बलिनः सैन्यवन्तः ते ।
सहस्रं बलानि सन्त्येषामिति अस्त्यर्थे विकार-
संघेत्यादिना ष्णेनैकाजादिति इनि च रूप-
द्वयम् । इति भरतः ॥ (सहस्रविशिष्टे, त्रि ।
यथा, मनुः । ८ । ३७६ ।
“ब्राह्मणीं यद्यगुप्ताञ्च गच्छेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्य्यात् क्षत्रियन्तु सहस्रिणम् ॥”
तथाच भागवते । १ । ९ । ३० ।
“तदोपसंहृत्य गिरः सहस्रिणी-
र्विमुक्तसङ्गं मन आदिपुरुषे ॥”
“सहस्रिणीः सहस्रार्थवतीः ।” इति तट्टीका ॥)

सहा, स्त्री, (सहत इति । सह + अच् । टाप् ।)

घृतकुमारी । मुद्गपर्णी । इत्यमरः । २ । ४ । ७३ ;
२ । ४ । ११३ ॥ नखभेषजम् । दण्डोत्पला ।
पृथिवी । इति मेदिनी ॥ शुक्लझिण्टी । सर्प-
कङ्काली । इति शब्दचन्द्रिका ॥ रास्ना । स्वर्ण-
क्षीरी । पीतदण्डोत्पला । इति रत्नमाला ॥
तरणीपुष्पम् । इति राजनिर्घण्टः ॥

सहाः, [स्] पुं, (सहते इति । सह + असुन् ।)

अग्रहायणमासः । इत्यमरः ॥ (यथा, भागवते ।
१२ । ११ । ४१ ॥
“अथांशुः कश्यपस्तार्क्ष ऋतसेनस्तथोर्व्वशी ।
विद्युच्छत्रुर्महाशङ्खः सहोमासं नयन्त्यमी ॥”)
हेमन्तकालः । इति मेदिनी ॥

सहाचरः, पुं, (सह आचरतीति । आ + चर +

अच् ।) पीतझिण्टी । इति शब्दरत्नावली ॥
(अस्य पर्य्यायो यथा, --
“सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका ।
सहाचरः सहचरः स च भिन्द्यपि कथ्यते ॥”
इति भावप्रकाश्य पूर्व्वखण्डे प्रथमे भागे ॥
यथा, सुश्रुते चिकित्सितस्थाने । ३७ ।
“सहाचरवरीविश्वाकाकनाशाविदारिभिः ॥”
यथाच ।
“वासानिम्बपटोलकेतकीबलाकुष्माण्डकेन्दीवरी-
वर्षाभूकुटजाश्वगन्धसहिते द्वे पूतिगन्धामृते ॥
मांसं नागबलासहाचरपुरैर्हिङ्ग्वार्द्रके नित्यशो
ग्राह्यास्तत्क्षणमेव न द्बिगुणिता ये चेक्षुजाता
घनाः ॥”
इति वैद्यकपरिभाषायाम् ॥)
सहचरश्च ॥

सहायः, पुं, (सह अयते इति । अय + अच् ।)

अनुकूलः । तत्पर्य्यायः । अनुप्लवः २ अनुचरः ३
अभिसरः ४ । इत्यमरः । २ । ८ । ७१ ॥ (यथा,
मनुः । ६ । ४९ ।
“अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ।
आत्मनैव सहायेन सुखार्थी विचरेदिह ॥”)
राज्ञां सहाया यथा, मात्स्ये । २१५ । ७४ ।
“सद्वृत्ताश्च तथा पुष्टाः सततं प्रतिमानिताः ।
राज्ञा सहायाः कर्त्तव्याः पृथिवीं जेतु-
मिच्छता ॥”

सहायता, स्त्री, (सहाय + “ग्रामजनबन्धुसहा-

येभ्यस्तल् ।” ४ । २ । ४३ । इति तल् ।)
सहायानां समूहः । इत्यमरः । ३ । ३ । ४१ ॥
(सहायस्य भावः कर्म्म वा । तल् ।) साहा-
य्यञ्च ॥ (यथा, रघुः । ९ । १९ ।
“स किल संयुगमूर्द्ध्नि सहायतां
मघवतः प्रतिपद्य महारथः ।
स्वभुजवीर्य्यमगापयदुच्छ्रितं
सुरबधूरवधूतभयाः शरैः ॥”)

सहायत्वं, क्ली, सहायता । सहायस्य भावः ।

सहायशब्दाद्भावे त्वप्रत्ययेन निष्पन्नम् ॥ (यथा,
कथासरित्सागरे । ३० । ८७ ।
“अङ्गीचक्रे सहायत्वं राजा तस्यारिमर्द्दने ॥”)

सहारः, पुं, (सहते इति । सह + “तुषारादयश्च ।”

उणा० ३ । १३९ । इत्यारन् ।) आम्रवृक्षः । इत्यु-
णादिकोषः ॥ महाप्रलयः । इति हलायुधः ॥

सहारोग्यः, त्रि, (आरोग्येण सह वर्त्तमानः ।)

नीरुक् । इति हेमचन्द्रः ॥

सहार्द्दः, त्रि, हार्द्देन सह वर्त्तमानः ॥ सप्नेमः ।

स्नेहयुक्तः ॥

सहितः, त्रि, (सं + धा + क्तः । “समो वा हित-

ततयोः ।” ६ । १ । १४४ । इत्यस्य वार्त्तिकोक्त्या
मलोपः ।) सहशब्दात् इतच्प्रत्ययेन च निष्पन्नः ।
इति सिद्धान्तकौमुदी ॥ समभिव्याहृतः ।
संयुक्तः । (मिलितः । यथा, मनुः । ९ । २१२ ।
“सोदर्य्या विभजेरंस्तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥”)
संहितः । सम्यघितः । इति मुग्धबोधव्याक-
रणम् ॥ हितेन सह वर्त्तमानश्च ॥

सहिता, [ऋ] त्रि, (सहते इति । सह + तृच् ।

“तीषसहेति ।” ७ । २ । ४८ । इति पक्षे इट् ।)
सहनशीलः । सोढा । इति सिद्धान्तकौमुदी ॥

सहित्रं, क्ली, (सह्यते अनेनेति । सह + “अर्त्ति-

लूधूसूखनसहचर इत्रः ।” ३ । २ । १८४ । इति
इत्रः ।) सहनकरणम् । इति व्याकरणम् ॥

सहिष्णुः, त्रि, (सहते इति । सह + “अलंकृञ्-

निराकृञिति ।” ३ । २ । १३६ । इति इष्णुच् ।)
सहनशीलः । तत्पर्य्यायः । सहनः २ क्षन्ता ३
तितिक्षुः ४ क्षमिता ५ क्षमी ६ । इत्यमरः ।
३ । १ । ३१ ॥ (यथा, किराते । २ । ५० ।
“अपरागसमीरणेरितः
क्रमशीर्णाकुलमूलसन्ततिः ।
सुकरस्तरुवत्सहिष्णुना
रिपुरुन्मूलयितुं महानपि ॥”)

सहिष्णुता, स्त्री, (सहिष्णोर्भावः । सहिष्णु +

तल् ।) सहिष्णोर्भावः । तत्पर्य्यायः । तितिक्षा
२ क्षमा ३ क्षान्तिः ४ । इति जटाधरः ॥
(यथा, सुश्रुते । ४ । २४ ।
“श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता ॥”)

सहुरिः, पुं, (सहते इति । सह + “जसिसहो-

रुरिन् ।” उणा० २ । ७३ । इति उरिन् ।)
सूर्य्यः । इत्युणादिकोषः ॥
पृष्ठ ५/३१८

सहुरिः, स्त्री, (सह सहने + उरिन् ।) पृथिवी ।

इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

सहृदयः, त्रि, (हृदयेन अन्तःकरणेन सह वर्त्त-

मानः ।) प्रशस्तमनाः । इत्यमरटीकायां भरतः ।
३ । १ । ३ ॥ (यथा, रामायणे । २ । १३ । २२ ।
“कुरु साधुप्रदासं मे बाले सहृदया ह्यसि ॥”)

सहृल्लेखं, क्ली, (हृल्लेखेन सह वर्त्तमानम् ।)

विचिकित्सितान्नम् । यथा, --
“विचिकितसा तु हृदये अन्ने यस्मिन् प्रजा-
यते ।
सहृल्लेखन्तु विज्ञेयं पुरीषन्तु स्वभावतः ॥”
इति प्रायश्चित्तविवेकः ॥

सहोक्तिः, स्त्री, (सह उक्तिः ।) अलङ्कारविशेषः ।

यथा, --
“सहोक्तिः सहभावश्चेत् भासते जनरञ्जनः ।
दिगन्तमगमत्तस्य कीर्त्तिः प्रत्यर्थिभिः सह ॥”
इति चन्द्रालोकः ॥
(अस्य लक्षणोदाहरणानि यथा, साहित्य-
दर्पणे । १० । ७०१ ।
“सहार्थस्य बलादेकं यत्र स्याद्बाचकं द्वयोः ।
सा सहोक्तिर्मूलभूतातिशयोक्तिर्यदा भवेत् ॥”
अतिशयोक्तिरप्यत्राभेदाध्यवसायमूला कार्य्य-
कारणपौर्वापर्य्यविपर्य्ययरूपा च । अभेदाध्यव-
सायमूलापि श्लेषभित्तिका अन्यथा च । क्रमे-
णोदाहरणम् ।
“सहाधरदलेनास्या यौवने रागभाक् प्रियः ॥”
अत्र रागपदे श्लेषः ।
“सह कुमुदकदम्बैः काममुल्लासयन्तः
सह घनतिमिरोघैर्घैर्य्यमुत्सारयन्तः ।
सह सरसिजषण्डैः स्वान्तमामीलयन्तः
प्रतिदिशममृतांशोरंशवः सञ्चरन्ति ॥”
इदं मम । अत्रोल्लासादीनां सम्बन्धिभेदादेव
भेदो न तु श्लिष्टतया ।
“सममेव नराधिपेन सा
गुरुसम्मोहविलुप्तचेतना ।
अगमत्सह तैलबिन्दुना
तनुदीपार्च्चिरिव क्षितेस्तलम् ॥”
इयञ्च मालयापि सम्भवति । तथोदाहृते सह
कुमुदकदम्बैरित्यादौ ।
“लक्ष्मणेन समं रामः काननं गहनं ययौ ।”
इत्यादौ चातिशयोक्तिमूलत्वाभावान्नायमल-
ङ्कारः ॥ * ॥)

सहोटजः, पुं, (उटजेन सह वर्त्तमानः ।) मुनीनां

पर्णशाला । यथा, --
“मुनीनाञ्च चिताकुट्यां पर्णोटजसहोटजौ ।”
इति हारावली ॥

सहोढः, पुं, (ऊढया सह वर्त्तमानः ।) द्वादश-

विधपुत्त्रान्तर्गतपुत्त्रविशेषः । इति जटाधरः ॥
“या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा
सती ।
वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥”
इति मानवे ८ अध्यायः ॥
या गर्भवती अज्ञातगर्भा ज्ञातगर्भा वा परि-
णीयते स गर्भस्तस्यां जातः परिणेतुः पुत्त्रो
भवति सहोढ इति व्यपदिश्यते । इति कुल्लूक-
भट्टः ॥ (होढेन हृतद्रव्येण सह वर्त्तमाने, त्रि ।
यथा, मनुः । ९ । २७० ।
“न होढेन विना चौरं घातयेद्धार्म्मिको नृपः ।
सहोढं सोपकरणं घातयेदविचारयन् ॥”)

सहोदरः, पुं, (उदरेण सह वर्त्तते इति । सह

समानं उदरं यस्येति वा ।) एकमातृगर्भ-
जातभ्राता । तत्पर्य्यायः । सहजः २ सोदरः ३
भ्राता ४ सगर्भः ५ समानोदर्य्यः ६ सोदर्य्यः ७ ।
इति जटाधरः ॥ (यथा, मनुः । ९ । १९२ ।
“जनन्यां संस्थितायान्तु समं सर्व्वे सहोदराः ।
भजेरन् मातृकं रिक्थं भगिन्यश्च सनाभयः ॥”)

सहोबलं, क्ली, (सहसा तेजसा सह बलमत्रेति ।)

दौरात्म्यम् । इति केचित् ॥

सहोरः, त्रि, (सहते सर्व्वमिति । सह + “किशो-

रादयश्च ।” उणा० १ । ६६ । इति ओरन् ।)
साधुः । इत्युणादिकोषः ॥

सह्यं, क्ली, (सह्यते इति । सह + यत् ।) आरोग्यम् ।

साम्यम् । सुमधुरम् । इति शब्दरत्नावली ॥
(प्रियम् । यथा, महाभारते । ३ । २७७ । १० ।
“ततस्तं प्रत्युवाचाथ मारीचो राक्षसेश्वरम् ।
किन्ते सह्यं मया कार्य्यं करिष्याम्यवशोऽपि
तत् ॥”)

सह्यः, पुं, पर्व्वतविशेषः । इति मेदिनी ॥ (यथा,

रघुः । ४ । ५२ ।
“असह्यविक्रमः सह्यं दूरात् मुक्तमुदन्वता ।
नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥”)
स तु पुनाख्यदेशस्य उत्तरपश्चिमदिशि वर्त्तते ॥

सह्यः, त्रि, (सोढुं शक्यः । सह + “शकि-

सहोश्च ।” ३ । १ । ९९ । इति यत् ।) सोढव्यः ।
सहनीयः । इति मेदिनी ॥ (यथा, मार्कण्डेये ।
१०६ । ५६ ।
“सह्यं भवतु ते तेजो भूनानां भूतभावन ! ॥”)

सा, स्त्री, गौरी । लक्ष्मीः । इति शब्दरत्ना-

वली ॥ पूर्व्वोक्तपरामर्शविषयीभूता । प्रसिद्धा ।
इति स्त्रीलिङ्गतच्छब्दस्य प्रथमैकवचननिष्पन्ना ।
इति व्याकरणम् ॥ (यथा, साहित्यदर्पणे ।
“सङ्गमविरहविकल्पे वरमिह विरहो न
सङ्गमस्तस्याः ।
सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥”)

सांख्यं, क्ली, (संख्या सम्यग्ज्ञानं सा अस्त्यत्रेति ।

संख्या + अण् ।) सम्यक् ख्यायते प्रकाश्यते
वस्तुतत्त्वमनयेति संख्या सम्यक् ज्ञानं तस्यां
प्रकाशमानमात्मतत्त्वं सांख्यम् । इति श्रीभगवद्
गीताटीकायां श्रीधरस्वामी ॥ षड्दर्शनान्तर्गत-
दर्शनशास्त्रविशेषः । तत्पर्य्यायः । कापिलम् २ ।
इति हेमचन्द्रः ॥ यथा, --
“पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।
प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम् ॥”
इति श्रीभागवते । १ । ३ । १० ॥
अपि च मात्स्ये । ३ । २९ ।
“सांख्यं संख्यात्मकत्वाच्च कपिलादिभिरुच्यते ॥”
अथ सांख्यैराख्यायते परिणामवादे परिपन्थिनि
जागरूके कथंकारं विवर्त्तवाद आदरणीयो
भवेदेष हि तेषामाघोषः । संक्षेपेण हि सांख्य-
शास्त्रे चतस्रो विधाः संभाव्यन्ते । कश्चिद्विकृति-
रेव कश्चिद्विकृतिः प्रकृतिश्च । कश्चिदनुभव
इति । तत्र केवला प्रकृतिः । प्रधानपदेन वेद-
नीया मूलप्रकृतिः । नासावन्यस्य कस्यचिद्वि-
कृतिः । प्रकरोतीति प्रकृतिरिति व्युत्पत्त्या
सत्त्वरजस्तमोगुणानां साम्यावस्थाया अभि-
धानात् । तदुक्तम् । मूलप्रकृतिरविकृतिरिति ।
मूलञ्चासौ प्रकृतिश्चेति मूलप्रकृतिः । महदादेः
कार्य्यकलापस्यासौ मूलं न त्वस्य प्रधानस्य
मूलान्तरमस्ति अनवस्थापातात् । नच बीजा-
ङ्कुरवदनवस्थादोषो न भवति इति वाच्यम् ।
प्रमाणाभावादिति भावः । प्रकृतयश्च महद-
हङ्कारतन्मात्रापि । तदप्युक्तम् । महदाद्याः
प्रकृतिविकृतयः सप्तेति । अस्यार्थः । प्रकृतयश्च
ता विकृतयश्चेति प्रकृतिविकृतयः सप्त महदा-
दीनि तत्त्वानि । तत्रान्तः करणादिपदेनेयं मह-
त्तत्त्वमहङ्कारप्रकृतिः मूलप्रकृतेस्तु विकृतिः ।
एवमहङ्कारतत्त्वं अभिमानापरनामधेयमहतो
विकृतिः । प्रकृतिश्च तदेवाहङ्कारतत्त्वं तामसं
सत् पञ्चतन्मात्राणां सूक्ष्माभिधानम् । तदेव
सात्त्विकं सत् प्रकृतिरेकादशेन्द्रियाणां बुद्धी-
न्द्रियाणां चक्षुःश्रोत्रघ्राणरसनात्वगाख्यानां
कर्म्मेन्द्रियाणां वाक्पाणिपादपायूपस्थाख्याना-
मुभयात्मकस्य मनसश्च रजसस्तूभयत्र क्रियोत्-
पादनद्वारेण कारणमस्तीति न वैयर्थ्यम् ।
तदुक्तमीश्वरकृष्णेन ।
“अभिमानोऽहङ्कारस्तस्मात् द्बिविधः प्रवर्त्तते
सर्गः ।
एकादशकश्च गणस्तन्मात्रा पञ्चकञ्चैव ॥
सात्त्विकमेकादशकः प्रवर्त्तते वैकृतादहङ्कारात् ।
भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥
बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनात्वगाख्यानि ।
वाक्पादपाणिपायूपस्थाख्यानि कर्म्मेन्द्रिया-
ण्याहुः ॥”
उभयात्मकमत्र मनःसङ्कल्पविकल्पात्मक-
मिन्द्रियञ्चेति । विवृतञ्च तत्त्वकौमुद्यामा-
चार्य्यवाचस्पतिभिः । किमबला विकृतयस्तु
वियदादीनि पञ्चभूतानि । एकादशेन्द्रियाणि
च । तदुक्तं षोडशकस्तु विकार इति षोडश-
संख्यावच्छिन्नो गणषोडशको विकार एव न
प्रकृतिरित्यर्थः । यद्यपि पृथिव्यादयो गोघटा-
दीनां पृकृतिस्तथापि न ते पृथिव्यादिभ्य-
स्तत्त्वान्तरमिति न प्रकृतिः । तत्त्वान्तरोपा-
दानत्वञ्चेह प्रकृतित्वमभिमतं गोघटादीनां
स्थूलत्वेन्द्रियग्राह्यत्वयोः समानत्वेन तत्त्वान्त-
रत्वाभावः । तत्र शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यः
पूर्ब्बपूर्ब्बसूक्ष्मभूतसहितेभ्यः पञ्च महाभूतानि
पृष्ठ ५/३१९
वियदादीनि क्रमेणैकद्वित्रिचतुःपञ्चगुणानि
जायन्ते । इन्द्रियसृष्टिस्तु प्रागेवोक्ता । उक्तञ्च ।
प्रकृतेर्महान् ततोऽहङ्कारः तस्माद्गणश्च षोड-
शकः तस्मादपि षोडशकात् पञ्चभ्यः पञ्चभूता-
नीति । अनुभवात्मकः पुरुषः । तदुक्तम् । न
प्रकृतिर्न विकृतिः पुरुष इति । पुरुषस्तु कूटस्थो
नित्यः परिणामो न कस्यचित् । प्रकृतिर्नापि
विकृतिः कस्यचिदित्यर्थः । एतत्पञ्चविंशति-
तत्त्वसाधकत्वेन प्रमाणत्रयमभिमतम् । तद-
प्युक्तम् । दृष्टमनुमानमाप्तवचनं सर्व्वप्रमाण-
सिद्धत्वात् त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः
प्रमाणाद्धीति । इह कार्य्यकारणभावे चतुर्द्धा
विप्रतिपत्तिः प्रसरति । असतः सज्जायत इति
सौगताः सङ्गिरन्ते । नैयायिकादयः सतो
ऽसज्जायते इति । वेदान्तिनः सतो विवर्त्तः
कार्य्यजातं न वस्तु सदिति । सांख्याः पुनः सतः
सज्जायत इति । तत्रासतः सज्जायत इति न
प्रामाणिकः पक्षः । असतो निरूपाख्यस्य
शशविषाणवत् कारणत्वानुपपत्तेः तुच्छातु-
च्छयोस्तादात्म्यानुपपत्तेश्च । नापि सतोऽस-
ज्जायते कारकव्यापारात् प्रागसतः शशविषाण-
वत् सता सम्बन्धलक्षणोत्पत्तेः । न हि नीलं
निपुणतमेनापि पीतं कर्त्तुं पार्य्यते । ननु सत्त्वा-
सत्त्वे घटस्य धर्म्माविति चेत्तदचारु । असति
धर्म्मिणि तद्धर्म्म इति व्यपदेशानुपपत्त्या धर्म्मिणः
सत्त्वापत्तेः । तस्मात् कारकव्यापारात् प्रागपि
कार्य्यम् । सदेव सतश्चाभिव्यक्तिरुपपद्यते ।
यथा पीडेनेन तिलेषु तैलस्य दोहनेन सौर-
भेयीषु पयसः । असतः कारणे किमपि निदर्शनं
दृश्यते । किञ्च कार्य्येण कारणं सम्बद्धं तज्जनकं
असम्बद्धं वा प्रथमे कार्य्यस्य सत्त्वमायातं सतो-
रेव सम्बन्ध इति नियमात् । चरमे सर्व्वं कार्य्य-
जातं सर्व्वस्माज्जायेत असम्बद्धत्वाविशेषात् ।
तदाख्यायि सांख्याचार्य्यैः ।
“असत्त्वान्नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः ।
असम्बद्धस्य चोत्त्तिमिच्छतो न व्यवस्थितिः ॥”
अथैवमनुष्ठेयसम्बद्धमपि तदेव जनयति यत्र
यच्छक्तं शक्तिश्च कार्य्यदर्शनोन्नेयेति तत्र संग-
च्छते । तिलेषु तैलजननशक्तिरित्यत्र तैलस्या-
सत्त्वे सम्बद्धत्वासम्बद्धत्वविकल्पेन तच्छक्तिरिति
निरूपणायोगात् कार्य्यकारणयोरभेदाच्च ।
कार्य्यस्य सत्त्वं कारणात् पृथक् न भवति पट-
स्तन्तुभ्यो न भिद्यते तद्धर्म्मत्वान्न यदेवं न तदेवं
यथा गौरश्वः । तद्धर्म्मश्च पटः तस्मान्नार्थान्तरं
तर्हि प्रत्येकं त एव प्रावरणकार्य्यं कुर्य्युरिति
चेन्न । संस्थाभेदेनाविर्भूतपटभावानां प्रावर-
णार्थक्रियाकारित्वोपपत्तेः । यथा हि । कूर्म्म-
स्याङ्गानि कूर्म्मशरीरे निविशमानानि तिरो-
भवन्ति निःसरन्ति चाविर्भवन्ति एवं कारण-
तन्त्वादेः पटादयो विशेषा निःसरन्त आविर्भ-
वन्त उत्पद्यन्त इत्युच्यन्ते निविशमानास्तिरो-
भवन्तो विनश्यन्तीत्युच्यन्ते न पुनरसतामुत्पन्नः
सतां वा विनाशः । यथोक्तं भगवद्गीतायाम् ।
नासतो विद्यते भावो नाभावो विद्यते सतः ।
इति । ततश्च कार्य्यानुमानात्तत्प्रधानसिद्धिः ।
तदुक्तम् । असदकारणत्वादुपादानं ग्रहणात्
सर्व्वसम्भवात् । शक्तस्य शक्यकरणात् कारणा-
भावाच्च सत्कार्य्यमिति । नापि सतो ब्रह्मतत्त्वस्य
विवर्त्तः प्रपञ्चः वाधानुपलम्भात् । अधिष्ठाना-
रोप्ययोः चिज्जडयोः कलधौतरौप्यादिवत्
सारूप्याभेदेनापि संभवाच्च । तस्मात् सुखदुःख-
मोहात्मकस्य तथाविधकारणमवधारणीयम् ।
तथा च प्रयोगः । विमतं भावजातं सुखदुःख-
मोहात्मककारकं तदन्वितत्वात् यत् येनान्वीयते
तत्तत्कारणकं यथा रुचकादिकं सुवर्णान्वितं
सुवर्णकारणकं तथा चेदं तस्मात्तथेति । तत्र
जगत्कारणे येयं सुखात्मकता तत् सत्त्वम् ।
या दुःखात्मकता तद्रजः । या च मोहात्मकता
तत्तम इति त्रिगुणात्मककारणसिद्धिः । यथा हि
प्रत्येकं भावात्त्रैगुण्यवन्तोऽनुभूयन्तो यथा मैत्र-
दारेषु सत्यवती मैत्रस्य सुखमाविरस्ति तं प्रति
सत्त्वगुणप्रादुर्भावात्तत्सपत्नीनां दुःखं ताः प्रति-
रजोगुणप्रादुर्भावात् तामलभमानस्य चैत्रस्य
मोहो भवति तं प्रति तमोगुणसद्भावात् ।
एवमन्यदपि घठादिकं लभ्यमानं सुखं करोति
परैरपि ह्रियमाणं दुःखाकरोति उदासीन-
स्योपेक्षाविषयत्वेनोपतिष्ठते उपेक्षाविषयत्वं
नामोहः मुह वैचित्त्ये इत्यस्माद्धातोर्मोहशब्द-
निष्पत्तेः उपेक्षणीयेषु चित्तवृत्त्यनुदयात्तस्मात्
सर्व्वं भावजातं सुखदुःखमोहात्मकं त्रिगुण-
प्रधानकारणकमवगम्यते । तथा च श्वेताश्वत-
रोपनिषदि श्रूयते ।
“अजामेकां लोहितशुक्लकृष्णां
बह्वीं प्रजां जनयन्तीं सरूपाम् ।
अजो ह्येको जुषमाणोऽनुशेते
जहात्येनां भुक्तभोगामजोऽन्यः ॥” इति ॥
अत्र लोहितशुक्लकृष्णशब्दा रञ्जकत्वप्रकाशक-
त्वावरकत्वसाधर्म्म्यात् रजःसत्त्वतमोगुणत्व-
प्रतिपादनपराः । नन्वचेतनं प्रधानं चेतनानधि-
ष्ठितं महदादिकार्य्ये न व्याप्रियते अतः केन-
चित् चेतनाधिष्ठात्रा भवितव्यम् । तथा च
सर्व्वार्थदर्शे । परमेश्वरः स्वीकर्त्तव्यः स्यादिति
चेत् । तदसङ्गती अचेतनस्य । यथा वत्सविवृ-
द्ध्यर्थमचेतनं क्षीरं प्रवर्त्तते । यथा च जलम-
चेतनं लोकोपकाराय प्रवर्त्तते । तथा च
प्रकृतिरचेतनापि पुरुषविमोक्षाय प्रवर्त्स्यति ।
तदुक्तम् । वत्सविवृद्ध्यर्थं क्षीरस्य यथा प्रवृत्तिरे-
तस्याः पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधा-
नस्येति । यस्तु परमेश्वरः करुणया प्रवर्त्तक
इति परमेश्वरास्तित्ववादिनां डिण्डिमः स
प्रायेण गतः विकल्पानुपपत्तेः । स किं सृष्टेः
प्राक् प्रवर्त्तते सृष्ट्युत्तरकालं वा । आद्ये शरी-
राद्यभावेन दुःखानुपपत्तौ जीवानां दुःखप्रहा-
णेच्छानुपपत्तिः । द्वितीये परस्पराश्रयप्रसङ्गः ।
करुणया सृष्टिः सृष्ट्या कारुण्यमिति तस्माद-
चेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य मह-
दादिरूपेण परिणामः पुरुषार्थप्रयुक्तप्रधान-
पुरुषसंयोगनिमित्तः । यथा । निर्व्व्यापारस्या-
व्यायस्कसन्निधानेन लोहितस्य व्यापारः । तथा
निर्व्व्यापारस्य पुरुषस्य सन्निधानेन प्रधानव्या-
पारो युज्यते । प्रकृतिपुरुषसम्बन्धश्च पङ्ग्वन्धवत्
परस्परापेक्षानिबन्धनः । प्रकृतिर्हि भोग्यतया
भोक्तारं पुरुषमपेक्षते । पुरुषोऽपि भेदाग्रहा-
द्बुद्धिच्छाया पत्न्या तद्गतं दुःखत्रयं वारयमाणः
कैवल्यमपेक्षते । तत्प्रकृतिपुरुषविवेकनिबन्धनः ।
न च तदन्तरेण युक्तमिति कैवल्यार्थं पुरुषः
प्रधानमपेक्षते । यथा स्वलु कौचित् पङ्ग्वन्धौ
पथि सार्थेन गच्छन्तौ देवकृतादुपप्लवात् परि-
त्यक्तसार्थौ मन्दमन्दमितस्ततः परिभ्रमन्तौ
भयाकुलौ दैववशात् संयोगमुपगच्छेताम् । तत्र
चान्धेन पङ्गुः स्कन्धमारोपितः पङ्गुदर्शितेन
मार्गेणान्धः समीहितं स्थानं प्राप्नोति पङ्गुरपि
स्कन्धाधिरूढः तथा परस्परापेक्षप्रधानपुरुष-
निबन्धनः सङ्गः पुरुषस्य दर्शनार्थं कैवल्यार्थतया
प्रधानस्य पङ्ग्वन्धवत् उभयोरपि सम्बन्धस्तत्कृतः
सर्गः इति । ननु पुरुषार्थनिबन्धना भवतु प्रकृतेः
प्रवृत्तिः निवृत्तिस्तु कथमुपपद्यत इति चेदुच्यते
यथा भर्त्रा दृष्टदोषा स्वैरिणी पुनर्भर्त्तारं नापैति
यथा वा कृतप्रयोजना नर्त्तकी नर्त्तने तथा
प्रकृतिरपि यथोक्तं रङ्गस्य दर्शयित्वा निवर्त्तते
नर्त्तकी यथा नृत्यात् पुरुषस्य तथानन्दं प्रकाश्य
निवर्त्तते प्रकृतिरिति । तदर्थं निरीश्वरसांख्य-
शास्त्रप्रवर्त्तककपिलानुसारिणां मतमुपन्यस्तम् ।
इति माधवाचार्य्यकृतसर्व्वदर्शनसंग्रहे सांख्य-
दर्शनम् ॥ अस्य चत्वारः अध्यायाः । तत्र
प्रकृतिपुरुषयोरुभयोः सृष्टिकर्त्तृत्वं अन्धपङ्गु-
न्यायेन स्थापितम् । तत्त्वानां संख्यानञ्च कृतम् ।
इति केचित् ॥

सांघातिकः, त्रि, (संघाते साधुः । संघात + “गुडा

दिभ्यष्ठञ् ।” ४ । ४ । १०३ । इति ठञ् ।)
सम्यक्प्रकारेण हननकारकः । मारात्मकः ॥
जन्मनक्षत्रावधिकषोडशनक्षत्रम् । यथा, --
“जन्माद्यं कर्म्म ततोऽपि दशमं सांघातिकं
षोडशभम् ॥”
तत्फलम् ।
“देहद्रविणबन्धूनां हानिः सांघातिके तथा ।”
इति ज्योतिस्तत्त्वम् ॥

सांदृष्टिकं, क्ली, (संदृष्टौ प्रत्यक्षे भवम् । संदृष्टि

+ ठञ् ।) सद्यःफलम् । इत्यमरः ॥ दृष्टिपरिक-
ल्पनान्यायः । यथा । दौहित्रान्तस्वसन्ताना-
भावे पितुरधिकारवत् दौहित्रान्तपितृसन्ताना-
भावे पितामहाधिकारस्य सांदृष्टिकन्यायसिद्ध-
त्वाच्च । यथा पित्रभावे माता तथा पितामहा-
भावे पितामहीति सांदृष्टिकन्यायेन पितामह्य-
धिकारस्य सिद्धत्वाच्च । इति श्रीकृष्णतर्कालङ्कार-
कृतक्रमसंग्रहः ॥
पृष्ठ ५/३२०

सांयात्रिकः, पुं, (संयात्रा द्वीपान्तरगमनम् ।

सा प्रयोजनमस्येति । संयात्रा + “तदस्य प्रयो-
जनम् ।” इति ठञ् ।) पोतबणिक् । इत्यमरः ।
१ । १० । १२ ॥ द्वे वहित्रगामिनि बणिग्जने ।
संपूर्व्वो यातिर्द्बीपान्तरगमनवृत्तिस्ततस्त्रासु-
सिति त्रः स्त्रियामाप् संयात्रा द्वीपान्तरगमनं
तदस्य प्रयोजनमिति विकारसंघेति ष्णिकः ।
सम्यक् यात्रा संयात्रा तया व्यवहरतीति ढघे
कादिति ष्णिको वा । इति भरतः ॥ (यथा,
हरिवंशे । ५८ । १४ ।
“सिद्धिः सांयात्रिकाणान्तु वेला त्वं साग-
रस्य च ॥”)

सांयुगीनः, त्रि, (संयुगे साधुः । संयुग + “प्रति-

जनादिभ्यः खञ् ।” ४ । ४ । ९९ । इति
खञ् ।) युद्धकुशलः । रणे साधुः । इत्यमरः ।
२ । ८ । ७७ ॥ (यथा, रघुः । ११ । ३० ।
“इत्यपास्तमखविघ्नयोस्तयोः
सांयुगीनमभिनन्द्य विक्रमम् ।
ऋत्त्विजः कुलपतेर्यथाक्रमं
वाग्यतस्य निरवर्त्तयन् क्रियाः ॥”)

सांराविणं, क्ली, (सं + रुल ध्वनौ + “अभिविधौ

भावे इनुण् ।” ३ । ३ । ४४ । इति इनुण् ।
अणिनुणः ।” ५ । ४ । १५ । इति स्वार्थे अण् ।)
हट्टस्य सम्यक् शब्दः । इति मुग्धबोधव्याक-
रणम् ॥ संपूर्व्व रुल ध्वनौ भावे णिनि णित्वा-
द्बृद्धौ संराविण इति स्थिते ततः स्वार्थे ष्णे
णित्त्वे व्रिराद्यच इति वृद्धौ ययोर्लोप इत्यकार-
लोपे सांराविणं हट्टस्य सम्यक् शब्दो व्याप्त
इत्यर्थः । इति तट्टीकायां दुर्गादासः ॥ (यथा,
अनर्घराघवे । ७ । ५७ ।
“यं दोर्मात्रपरिच्छदो युधि मुदोत्क्षिप्य प्रती-
च्छन्मुहुः
संतेने दशभिर्निजैरपि मुखैः सांराविणं
रावणः ॥”)

सांवत्सरः, पुं, (संवत्सरं तज्ज्ञानोपयोगि शास्त्रं

वेत्ति अधीते वा । संवत्सर + अण् ।) गणकः ।
इत्यमरः । २ । ८ । १४ ॥ (यथा, बृहत्संहिता-
याम् । २ । १० -- ११ ।
“मुहूर्त्तं तिथिनक्षत्रमृतवश्चायने तथा ।
सर्व्वाण्येवाकुलानि स्युर्न स्यात् सांवत्सरो यदि ॥
तस्माद्राज्ञाभिगन्तव्यो विद्बान् सांवत्सरो-
ऽग्रणीः ।
जयं यशःश्रियं भोगान् श्रेयश्च समभीप्सता ॥”
अस्य लक्षणादिकं तत्रैव २ अध्याये विशेषतो
द्रष्टव्यम् ॥ * ॥ फले, पर्व्वणि च क्ली । इति
पाणिनिः । ४ । ३ । १६ ॥ संवत्सरस्येदमिति ।
अण् ।) संवत्सरसम्बन्धिनि, त्रि ॥ (यथा,
हरिवंशे । १४० । ३ ।
“स सांवत्सरदीक्षायां दीक्षितः षट्पुरालये ।
आवर्त्ताया शुभे तीरे सुनद्या मुनिजुष्टया ॥”)

सांवत्सरिकः, त्रि, (संवत्सर + “कालात् ठञ् ।”

४ । ३ । ११ । इति ठञ् ।) संवत्सरे भवः । संव-
त्सरं व्याप्य भूतः । प्रतिवर्षकर्त्तव्यश्राद्धम् । यथा
अथ सांवत्सरिकश्राद्धम् । तत्र गोभिलः । अत
ऊर्द्ध्वं संवत्सरे संवत्सरे प्रेतायान्नं दद्यात् यस्मिन्न-
हनि प्रेतः स्यात् इति । अत ऊर्द्ध्वं सपिण्डी-
करणान्तश्राद्धनिमित्तादाद्यसंवत्सरादूर्द्ध्वं संवत्-
सरे संवत्सरे प्रतिवर्षं यस्मिन्नहनि मृतस्तस्मिन्न-
हनि मृताय दद्यात् । व्याघ्रः । प्रतिसंवत्सरञ्चैव-
मेकोद्दिष्टं मृताहनि । एतेन सपिण्डीकरणाप-
कर्षे आद्यसंवत्सरेऽपि मृताहे श्राद्धान्तरं
कर्त्तव्यमिति मैथिलोक्तं हेयम् । व्यक्तमाह
हेमाद्रिधृतं वचनम् ।
“पूर्णे संवत्सरे श्राद्धं षोडशं परिकीर्त्तितम् ।
तेनैव च सपिण्डत्वं तेनैवाब्दिकमिष्यते ॥”
अत्र पूर्णसंवत्सरक्रियमाणश्राद्धाद्यथोभयनिर्व्वा-
हस्तथापकृष्टसपिण्डीकरणश्राद्धादप्युभयनिर्व्वाहो
न पूर्णसंवत्सरे आब्दिकान्तरम् । एवं पञ्चदश-
श्राद्धेऽप्यन्नयम् । मत्स्यपुराणम् ।
“ततः प्रभृति संक्रान्तावुपरागादिपर्व्वसु ।
त्रिपिण्डमाचरेत् श्राद्धमेकोद्दिष्टं मृताहनि ॥”
ततः प्रेतत्वपरीहारात् त्रिपिण्डं त्रैपुरुषम् ।
निरुपपदमृताहशब्दः मृतसम्बन्धिमासपक्षतिथि-
विशेषपरः । उपपदात्तु क्वचित्तिथिविशेषमात्र-
परः । यथा मृताहे प्रतिमासं कुर्य्यादित्यादौ ।
शङ्खः ।
“सपिण्डीकरणादूर्द्ध्वं यत्र यत्र प्रदीयते ।
तत्र तत्र त्रयं कुर्य्यात् वर्ज्जयित्वा मृताहनि ॥
अमावास्यां क्षयो यस्य प्रेतपक्षेऽथवा पुनः ।
सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पार्व्वणो विधिः ॥”
त्रयं सम्प्रदानानां त्रयं कुर्य्यात् त्रिभ्यो दद्यात्
इत्यर्थः । मृताहपर्य्युदस्तत्रिदैवतत्त्वस्य प्रति
प्रसवमाह । अमावास्यामिति । प्रेतपक्षोऽत्र
पितृपक्षः अश्वयुक्कृष्णपक्ष इति यावत् । न
तु कृष्णपक्षमात्रं कृष्णपक्षसामान्यपरत्वे अमा-
वास्यापदवैयर्थ्यापत्तेः ॥ * ॥ पितृपक्षं विशेष-
यति हेमाद्रिमाघवाचार्य्यधृतं नागरखण्डम् ।
“नभो वाथ नभस्यो वा मलमासो यदा भवेत् ।
सप्तमः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥”
अत्र श्रावणभाद्रयोरन्यतरस्य मलमासत्वे
आषाढ्यपेक्षया सप्तमपक्षस्य पितृपक्षत्वात् ।
अत्र मृतस्यैव प्रेतपक्षमृतत्वं न तु मलमास
भाद्रकृष्णपक्षमृतस्य । ततश्च तत्र मृतस्य वर्षा-
न्तरे अश्वयुक्कृष्णपक्षेऽपि तच्छ्राद्धकरणे न
पार्व्वणम् । किन्त्वेकोद्दिष्टमिति । अत्र पार्व्वणो
विधिः पार्व्वणेतिकर्त्तव्यताकैकोद्दिष्टविधिरिति
नव्यवर्द्धमानप्रभृतयः । तन्नपूर्व्ववचनोक्तत्रैपुरुषि-
कस्य मृताहे पर्य्युदस्तस्य पार्व्वणो विधिरित्य-
नेन प्रतिप्रसवात् । तस्मादत्र सदैवतैकोद्दिष्टं
न युक्तं किन्तु त्रैपुरुषिकं न तु षाट्पुरुषिकम् ।
“कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम् ।
प्रत्याब्दिकञ्च शेषेषु पिण्डाः स्युः षडिति
स्थितिः ॥”
इति छन्दोगपरिशिष्टवचनेन प्रत्याब्दिकव्यति-
रेकेण षट्संख्यानियमात् ॥ * ॥ एवममा-
वास्यादिमरणनिमित्तेन मातुरपि प्रत्याब्दिकं
पार्व्वणविधिनैव ।
“अपुत्त्रा ये मृताः केचित् स्त्रियो वा पुरुषाश्च ये ।
तेषामपि च देयं स्यादेकोद्दिष्टं न पार्व्वणम् ॥”
इत्यापस्तम्बवचने अपुत्त्रा इति विशेषणो-
पादानान् सपुत्त्राणां पार्व्वणाभ्यनुज्ञानात् ।
एतच्च मात्रादित्रितयदैवतं कार्य्यम् । मात्रे
पितामह्यै प्रपितामह्यै च पूर्व्ववत् ब्राह्मणान्
भोजयित्वा इत्यन्नष्टकायां तथा दर्शनात् । अव-
सानदिननिमित्तेन पार्व्वणविधिना छन्दोगैरपि
मात्रादित्रिकाणां श्राद्धं कर्त्तव्यम् । न योषिद्भ्यः
पृथद्गद्यादवसानादिनादृते । इति छन्दोगपरि-
शिष्टवचने विशेषतः प्रतिप्रसवात् । एवं सपिण्डी-
करणेऽपि । एतच्च मृताहपार्व्वणं मातापित्रो-
रेव । तथा च हेमाद्रिधृतं कात्यायनवचनम् ।
“सपिण्डीकरणादूर्द्ध्वं पित्रोरेव हि पार्व्वणम् ।
पितृव्यभ्रातृमातॄणामेकोद्दिष्टं सदैव तु ॥”
मातृपदं सपत्नीमातृपरम् । सपत्नीमात्रित्यत्र
मातृपदस्य राजदन्तादित्वात् परनिपातः ।
ततश्च वाक्ये मातृसपत्नीति न प्रयोज्यं किन्तु
सपत्नीमातरित्यादिकम् ॥ * ॥ एवं साग्निकौरस-
क्षेत्रजाभ्यां मृताहे पार्व्वणं कर्त्तव्यम् ।
“औरसक्षेत्रजौ पुत्त्रौ विधिना पार्व्वणेन तु ।
प्रत्यब्दमितरे कर्य्युरेकोद्दिष्टं सुता दश ॥”
इति जावालवचनस्य ।
“यत्र यत्र प्रदातव्यं सपिण्डीकरणात् परम् ।
पार्व्वणेन विधानेन देयमग्निमता सदा ॥”
इति मत्स्यपुराणवचनस्य चैकवाक्यत्वात् ।
उशनाश्च ।
“प्रत्यब्दं दर्शवच्छ्राद्धं साग्निः कुर्व्वीत वै द्विजः ।
एकोद्दिष्टं सदा कुर्य्यान्निरग्निः श्राद्धदः सुतः ॥”
अत्र प्रागुक्तयुक्त्या प्रेतश्राद्धस्य एकोद्दिष्टत्वा-
भिधानात् सांवत्सरिकश्राद्धे यदेकोद्दिष्टपदमुक्तं
तत् प्रेतश्राद्धधर्म्मग्राहित्वार्थम् । ततश्च योग्य-
त्वादेकार्घ्यादिलाभः । न तु यथा प्रेतश्राद्धे
पितृशब्दस्थाने प्रेतपदोहः तथा अत्रापीति
वाच्यं सांवत्सरिके प्रेतत्वाभावात्तथाविधानानु-
पपत्तेः । एवं प्रतिसांवत्सरिकश्राद्धे सम्बन्धार्थ-
पदं आशीःप्रार्थनं शेषभोजनञ्च कर्त्तव्यम् ॥ * ॥
रजस्वलायां विशेषयति गोतमः ।
“अपुत्त्रा तु यदा भार्य्या सम्प्राप्ते भर्त्तुराब्दिके ।
रजस्वला भवेत् सा तु कुर्य्यात् तत्पञ्चमे
दिने ॥”
कुर्य्याच्छ्राद्धमिति शेषः । यत्तु श्राद्धचिन्तामणौ ।
एकोद्दिष्टं त्रैवर्णिकेन सिद्धान्नेन कर्त्तव्यम् ।
“एकोद्दिष्टन्तु कर्त्तव्यं पाकेनैव सदा स्वयम् ।
अभावे पाकपात्राणां तदहः समुपोषणम् ॥”
इति लघुहारीतवचनात् ॥
पाकपात्राभावः पाकसामग्र्यभावोपलक्षकः ।
तदापि नामश्राद्धं किन्तूपोषणमेव श्राद्धस्थानीय-
मित्यर्थः । स्वयमित्यभिधानात् अपाटवादिनापि
पृष्ठ ५/३२१
नान्यद्वारा कारयितव्यम् । अतएव उपवासेनैव
श्राद्धस्थानीयेन तदकरणप्रायश्चित्तेन वा कृत-
कृत्यतया श्राद्धविघ्ने इत्यादिवचनादपि नैका-
दश्यामनुष्ठानमिति तन्न । पितृतृप्तेरजातत्वे-
नैकादश्यां तदनुष्ठानस्य युक्तत्वात् । अन्यथा
षोडशश्राद्धाधिकारिणः कदाचित्तथात्वे ।
“यस्यैतानि न दीयन्ते प्रेतश्राद्धानि षोडश ।
पिशाचत्वं ध्रुवं तस्य दत्तैः श्राद्धशतैरपि ॥”
इति यमवचनेन षोडशश्राद्धाभावे प्रेतत्वपरी-
हारो न स्यात् । तस्मादुपवासो स श्राद्धार्थः
किन्तु तदानीन्तनाकरणप्रायश्चित्तार्थः । यथा
स्वकालाकृतसंस्कारे प्रायश्चित्तं कृत्वा काला-
न्तरे तत्करणं तथात्रापि तद्दिने उपवासं
कृत्वा एकादश्यां श्राद्धं कर्त्तव्यमिति । एकोद्दिष्टं
नान्यद्वारा कार्य्यमित्यत्रापि गोत्रजेतरत्वेन
विशेषणीयम् ।
“न कदाचित् सगोत्राय श्राद्धं कार्य्यमगोत्रजैः ।”
इति प्रेतश्राद्धे ब्रह्मपुराणात् ।
अत्र हि नागोत्रजस्य साक्षात्कर्त्तृत्वं निषिध्यते
सगोत्रायेत्यसम्बन्धापत्तेः । तस्मात् अगोत्रजैर्द्वार-
भूतैः सगोत्राय श्राद्धं न कार्य्यमित्यर्थः । तथा
च पर्य्युदासपक्षे गोत्रजद्वारा कारयितव्यमिति
सुव्यक्तमेव । प्रसज्यपक्षे तु अगोत्रजविशेषण-
स्वरसात् गोत्रजलाभः । प्रेतश्राद्धधर्म्मग्राहित्वात्
सांवत्सरिकमपि तथेति श्राद्धविवेकः । कल्प-
तरुरत्नाकरयोस्तु स्वगोत्रायेति पठितं स्वमा-
त्मीयं गोत्रं यस्य स स्वगोत्रः विद्यमानगोत्र
इत्यर्थः । यस्मै श्राद्धं कर्त्तव्यं तस्य स्वगोत्रजे
विद्यमानेऽन्यगोत्रजेन संघातान्तर्गतेन राज्ञा
श्राद्धं न कारयितव्यमिति व्याख्यातञ्च । एतन्मते-
ऽप्यूढदुहित्रादीनामसगोत्रत्वेऽपि न निषेधः ।
वस्तुतस्तु तत्पाठेऽपि कर्म्मधारयापेक्षया बहु-
व्रीहेर्जघन्यत्वात् स्वमात्मीयञ्च तत् गोत्रञ्चेति
तस्मै अन्यगोत्रजद्वारा श्राद्धं न कार्य्यमित्यर्थः ।
अतो लघुहारीतवचने स्वयं पदं स्वगोत्रपरम् ।
अन्यथा ब्रह्मपुराणोक्तागोत्रजपदवैयर्थ्यापत्तेः ॥ *
एवञ्च भविष्यपुराणप्रभासखण्डयोः ।
“मृताहनि पितुर्य्यस्तु न कुर्य्यात् श्राद्धमादरात् ।
मातुश्चैव वरारोहे वत्सरान्ते मृताहनि ।
नाहन्तस्य महादेवि ! पूजां गृह्णामिनो हरिः ॥”
मरीचिः ।
“पण्डिता ज्ञानिनो मूर्खाः स्त्रियोऽथ ब्रह्म-
चारिणः ।
मृताहं समतिक्रम्य चाण्डालेष्वभिजायते ॥”
इत्याभ्यां कालमाधवीयधृताभ्यां वचनाभ्यां
सांवत्सरिकश्राद्धस्य मृताहकर्त्तव्यत्वेनावश्यक-
त्वात भविष्यन्मृताहे स्वयं कर्त्तव्यत्वसम्भावना-
रहितेन मृतातात् पूर्व्वकालेऽपि प्रतिनिधीयते ।
“प्रक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजं तथा ।
प्रवसेत् कार्य्यवान् विप्रो वृथैव न चिरं क्वचित् ॥”
इति छन्दोगपरिशिष्टोक्तसायं प्रातर्होमप्रति-
निधिवत् । एवं सति प्रतिनिध्यकरण एव एका-
दश्यां क्रियते ॥ * ॥ न च पाकस्याङ्गत्वेन
प्रधानतिथिकर्त्तव्यतानियम इति वाच्यम् ।
“व्रतोपवासनियमे घटिकैका यदा भवेत् ।
सा तिथिः सकला ज्ञेया पित्रर्थे चापराह्णिकी ॥”
इति वचनेन मुहूर्त्तमात्रलाभेऽपि कर्त्तव्यतोप-
देशात् तदानीं पाके तदसम्भवात् । एवमुदी-
च्याङ्गशेषभोजनेऽपि न तन्नियमः । इति श्राद्ध-
तत्त्वम् ॥ (गणके, पुं, । यथा, बृहत्संहितायाम् ।
२ । १२ ।
“नासांवत्सरिके देशे वस्तव्यं भूतिमिच्छता ।
चक्षुर्भूतो हि यत्रैष पापं तत्र न विद्यते ॥”)

सांवादिकः, पुं, (सम्यक् वादाय प्रभवतीति ।

संवाद + ठञ् ।) नैयायिकः । यथा, --
“नैयायिकः साक्षपादः स्यात्सांवादिक आहितः ॥”
इति जटाधरः ॥
संवाददातरि, त्रि ॥

सांशयिकः, त्रि, (संशयमापन्नः । संशय +

“संशयमापन्नः ।” ५ । १ । ७३ । इति ठञ् ।)
संशययुक्तः । तत्पर्य्यायः । संशयापन्नमानसः २ ।
इत्यमरः । ३ । १ । ५ ॥ सन्दिहानः ३ । इति
जटाधरः ॥ द्वे संशयविषये स्थाण्वादौ । संशय-
मापन्नः सांशयिकः ष्णिकः संशयमापन्नं मानसं
यत्र स्थाण्वादौ स तथा । संशयमापन्नं मानसं
यस्य स तथेति षष्ठ्यन्तपदार्थत्वे संशयितरि
पुरुषादावप्येतच्छब्दद्वयप्रवृत्तिः स्यादिति
भरतः ॥ (संशयविषयकः । यथा, मार्कण्डेये ।
१० । ४५ ।
“तद्ब्रूहि त्वं महाभाग यत् ते सांशयिकं
हृदि ॥”)

सांस्थानिकः, त्रि, (संस्थाने व्यवहरतीति । संस्थान

+ “कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ।” ४ ।
४ । ७२ । इति ठक् ।) समानदेशीयः । इति
सिद्धान्तकौमुदी ॥ संस्थानयुक्तश्च ॥

सांस्राविणं, क्ली, वृक्षस्य वृक्षं व्याप्य सम्यक् स्रावः ।

इति संक्षिप्तसारोणादिवृत्तिः ॥

साकं, व्य, सहार्थम् । इत्यमरः । ३ । ४ । ४ ॥

(यथा, कथासरित्सागरे । ४ । १३६ ।
“अहं जनन्या गुरुभिश्च साक-
मासाद्य लक्ष्मीमवसं चिराय ॥”)

साकल्यं, क्ली, (सकल + भावे ष्यञ् ।) समुदायः ।

सकलस्य भावः । (यथा, मनुः । १२ । २५ ।
“यो यदैषां गुणो देहे साकल्येनातिरिच्यते ।
स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥”)

साकारः, त्रि, (आकारेण सह वर्त्तमानः ।)

आकारविशिष्टः । यथा, --
“साकारञ्च निराकारं सगुणं निर्गुणं प्रभुम् ।
सर्व्वाधारञ्च सर्व्वञ्च स्वेच्छारूपं नमाम्यहम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ३२ । ३१ ॥

साकुरुण्डः, पुं, (सकुरुण्ड एव । स्वार्थे अण् ।)

वृक्षविशेषः । सकुरुण्डर इति गुर्ज्जरदेशीय-
भाषा । तत्पर्य्यायः । ग्रन्थिफलः २ विकटः ३
वस्त्रभूषणः ४ कुरुण्डः ५ कर्व्वूरफलः ६ सकु-
रुण्डः ७ । अस्य गुणाः । कषायत्वम् । रुचि-
कारित्वम् । दीपनत्वम् । सारकत्वम् । श्लेष्मवात-
नाशित्वम् । वस्त्ररञ्जनकत्वम् । लघुत्वञ्च । इति
राजनिर्घण्टः ॥

साकेतं, क्ली, अयोध्यानगरम् । इति शब्दरत्ना-

वली ॥ (यथा, रघुः । ५ । ३१ ।
“जनस्य साकेतनिवासिनस्तौ
द्वावप्यभूतामभिवन्द्यसत्त्वौ ॥”)

साक्तुकः, पुं, (सक्तुषु साधुः । सक्तु + “गुडादिभ्य-

ष्ठञ् ।” ४ । ४ । १०३ । इति ठञ् ।) यवः ।
इति सिद्धान्तकौमुदी ॥ (सक्तूनां समूहः ।
सक्तु + “अचित्तहस्तिधेनोष्ठक् ।” ४ । २ । ४७ ।
इति ठक् ।) सक्तुसमूहे, क्ली । सक्तुसम्बन्धिनि,
त्रि ॥ (सक्तवे प्रभवतीति । “तस्मै प्रभवति
संतापादिभ्यः ।” ५ । १ । १०१ । इति ठञ् ।
सक्तुसमर्थे च त्रि ॥)

साक्षरं, त्रि, अक्षरयुक्तम् । अक्षरेण सह वर्त्त

मानम् । इति बहुव्रीहिसमासनिष्पन्नम् ॥

साक्षात्, व्य, प्रत्यक्षम् । (यथा, कुमारे । ६ । २२ ।

“साक्षात् दृष्टोऽसि न पुनर्विद्मस्त्वां वयमञ्जसा ।
प्रसीद कथयात्मानं न धियां पथि वर्त्तसे ॥”)
तुल्यम् । इत्यमरः । ३ । ३ । २४ ॥

साक्षी, [न्] त्रि, (अक्षेण दर्शनेन्द्रियेण सह

वर्त्तमानं यत् तत् साक्षं प्रत्यक्षज्ञानम् । तद-
स्यास्तीति । साक्ष + इनिः ।) वृत्तज्ञः । इति
हेमचन्द्रः ॥ तत्पर्य्यायः । प्रत्यक्षदर्शनः २ । इति
शब्दमाला ॥ तस्य मिथ्याकथने अकथने च
दोषो यथा, महाभारते आदिपर्व्वणि ।
“पृष्टो हि साक्षी यः साक्ष्यं जानन्नप्यन्यथा
वदेत् ।
स पूर्व्वानात्मनः सप्त कुले हन्यात्तथापरान् ॥
यश्च कार्य्यार्थतत्त्वज्ञो जानन्नपि न भाषते ।
सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥”
अपि च ।
“ब्रह्मस्वस्थाप्यहारी च मिथ्यासाक्ष्यप्रदापकः ।
मित्रद्रोही कृतघ्नञ्च वृषवाहकसूपकृत् ॥
एते महापातकिनस्त्रिषु लोकेषु निन्दिताः ।
कालसूत्रे च नरके पतन्ति ब्रह्मणः शतम् ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे । ४४ । ५० ; ५४ ॥
अपरञ्च ।
“मिथ्यासाक्ष्यं यो ददाति कामात् क्रोधात्तथा
भयात् ।
सभायां पाक्षिकं वक्ति स कृतघ्न इति स्मृतः ॥
मिथ्यासाक्ष्यं पाक्षिकं वा भारते वक्ति यो नृप ।
यावदिन्द्रसहस्रञ्च सर्पकुण्डे वसेदध्रुवम् ॥
सन्ततं वेष्टितैः सर्पैर्भीतश्च भक्षितस्तथा ।
भुङ्क्ते च सर्पविण्मूत्रं यमदूतेन ताडितः ॥
कृकलासो भवेत्तत्र भारते सप्तजन्मसु ।
सप्तजन्मसु मण्डूकः पितृभिः सप्तभिः सह ॥
ततो भवेच्च वृक्षश्च महारण्ये च शाल्मलिः ।
ततो भवेन्नरो मूकस्ततः शूद्रस्ततः शुचिः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्यायः ॥ * ॥
पृष्ठ ५/३२२
सर्व्वशरीरेषु श्रीकृष्णस्य साक्षिरूपत्वं यथा, --
“स्थूलात् स्थूलतरं प्राप्तमतिसूक्ष्ममदर्शनम् ।
स्थितं सर्व्वशरीरेषु साक्षिरूपमदृश्यकम् ।
शरीरवन्तं सगुणमशरीरं गुणोत्करम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ७ । ९४-९५ ॥
(पुं, विष्णुः । इति महाभारतम् । १३ । १४९ । १५ ॥)

साक्ष्यं, क्ली, (साक्षिणो भावः कर्म्म वा ।

साक्षिन् + ष्यञ् । यद्वा, साक्षिणि भवम् ।
साक्षिन् + “दिगादिभ्यो यत् ।” ४ । ३ । ५४ ।
इति यत् ।) साक्षिकर्म्म । यथा । मनुः ।
“समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति ।”
एतत् प्रमाणमात्रोपलक्षणम् ।
“अनुभावी च यः कश्चित् कुर्य्यात् साक्ष्यं विवा-
दिनाम् ।”
इति तद्वचनान्तरात् ॥
अतएवाकृतमपि साक्षिणमाह । मनुः ।
“यत्रानिरुद्धो वीक्ष्येत शृणुयाद्वापि किञ्चन ।
पृष्टस्तत्रापि तद्ब्रूयात् यथादृष्टं यथाश्रुतम् ॥”
अनिरुद्धस्तत्र साक्षित्वेनानियुक्तः । परम्परयापि
श्रवणमाह विष्णुः ।
“उद्दिष्टसाक्षिणि मृते देशान्तरगतेऽपि वा ।
तदभिहितश्रोतारः प्रमाणं नात्र संशयः ॥”
अस्योत्तरसंज्ञामाह नारदः ।
“साक्षिणामपि यत् साक्ष्यं स्वपक्षं परिभाषताम् ।
श्रवणात् श्रावणाद्वापि स साक्ष्युत्तमसंज्ञकः ॥”
म्वपक्षसम्बन्धिसाक्ष्यं परिभाषतां साक्षिणां यः
स्वयं शृणोति अर्थिना श्राव्यते वा स श्रवणात्
श्रावणादुत्तरसाक्षीत्यर्थः । एवं योऽर्थिना गूढ-
तया प्रत्यर्थिवचनं श्रावितः स गूढसाक्षीत्याह
स एव ।
“अर्थिना स्वार्थसिद्ब्यर्थं प्रत्यर्थिवचनं स्फुटम् ।
यः श्राव्यते तदा गूढो गूढसाक्षी स उच्यते ॥”
तेनान्यतरवाद्यभिहितार्थविषयकदृष्टकारणजं
विज्ञापनं साक्ष्यमिति स्थितम् । तत्र नारदः ।
“तषामपि न बालः स्यान्नैको न स्त्री न दुष्ट-
कृत् ।
न बान्धवो न चारतिब्रूयुस्ते कार्य्यमन्यथा ॥”
कार्य्यं सदपि अन्यथा तद्विरुद्धत्वेन । एवञ्च
यदि परमधार्म्मिकत्वेन बान्धवादीनामपि सत्य-
वादित्वं निश्चीयते तदा तेऽपि साक्षिणो भवितु-
मर्हन्तीति । तेषां साक्ष्यविधायकं वक्ष्यमाण-
मनुवचनमपि एतादृग्विषयम् ॥ * ॥ याज्ञवल्क्यः ।
“त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्त्तक्रिया-
रताः ।
यथाजाति यथावर्णं सर्व्वे सर्व्वेष वा स्मृताः ॥”
त्रयोऽवरा निकृष्टा येषां ते त्र्यवराः त्रिभ्यो
अन्यूना भवन्तीत्यर्थः । यथेति यो यज्जातीय-
स्तस्य तज्जातीयः साक्षी । स्त्रीणां स्त्रियोऽन्त्य-
जानामन्त्यजाः । यथावर्णं ब्राह्मणानां ब्राह्मणाः
क्षत्त्रियादीनां क्षत्त्रियादयः । अभावे तु तत्त-
द्भेदं विना सर्व्व एव ॥ * ॥ त्र्यवरा इत्यस्याप-
वादमाह स एव ।
“उभयानुमतः साक्षी भवेदेकोऽपि धर्म्मवित् ।”
उभयानुमतत्वं धर्म्मवित्त्वञ्च नियतं तन्त्रम् ।
तदाह विष्णुः । अभिमतगुणसम्पन्नस्तूभयानु-
मतस्त्वेकोऽपि इति । अतएव श्रोत्रियमप्येकं
निषेधयति बृहस्पतिः ।
“नव सप्त पञ्च वा स्युश्चत्वारस्त्रय एव वा ।
उभौ तु श्रोत्रियौ ग्राह्यौ नैकं पृच्छेत् कदाचन ॥”
एको मिलितगुणसम्पन्नः प्रधानकल्पः । तदभावे
उभयानुमतमात्रोऽपि ग्राह्यस्तदाह नारदः ।
“उभयानुमतो यः स्याद्द्वयोर्विवदमानयोः ।
भवत्येकोऽपि साक्षित्वे प्रष्टव्यः स्यात् स संसदि ॥”
उभयानुमत एकोऽलुब्धत्वादिना सर्व्वजनप्रसिद्ध-
श्चेत्तदा साक्षित्वे संसदि बहुजनसन्निधौ
प्रष्टव्यः । तथात्वे स्नेहवैरादिसत्त्वेऽप्यकीर्त्ति-
भयात् सत्याभिधानसम्भवादित्याशयः । विचा-
रस्य तत्त्वनिर्णयार्थत्वात् । तदाह मनुः ।
“एकोऽप्यलुब्धः साक्षी स्यात् बह्व्यः शुच्योऽपि
न स्त्रियः ।
स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः ॥”
एकोऽलुब्धस्तु साक्षी स्यादिति कुल्लूकभट्टधृत-
पाठः । एको लुब्धस्त्वसाक्षी स्यादिति जीमूत-
वाहनधृतपाठस्तु न युक्तः । लुब्धाश्चेद् बहवो-
ऽप्यसाक्षिणो भवितुमर्हन्तीति । एकपदस्य
व्यर्थतापत्तेः । भवतु वा तत्पाठः तथाप्येक
इत्यनुरोधात् तन्निषेधमुखेनालुब्धस्यैकस्य अनु-
मतिसत्त्वे धर्म्मवित्त्वमन्तरेण साक्षित्वं बोध्यम् ।
इत्यर्थतो न विरोधः । अतएव विश्वरूपप्रभृ-
तीनां उभयानुमत एक एव साक्षीति व्याख्याने
धर्म्मविदिति नोक्तम् । दोषैः स्तेयादिभिः । तथा
च नारदः ।
“स्तेनाः साहसिका धूर्त्ताः कितवा योधकाश्च
ये ।
असाक्षिणस्तु ते दुष्टास्तषु सत्यं न विद्यते ॥”
कितवा द्यतकराः ॥ * ॥ अपवादमाह उशनाः ।
“दासोऽन्धो वधिरः कुष्ठी स्त्री बालः स्थविरादयः ।
एतेऽप्यनभिसम्बन्धाः साहसे साक्षिणो मताः ॥”
स्थविरो ग्लानेन्द्रियग्रामः । आदिशब्दात्
कितवादयः । उभयानुमताभावे शुचिक्रियत्वादि-
गुणयुक्तश्चैको ग्राह्यः । तथा च व्यासः ।
“शुचिक्रियश्च धर्म्मज्ञो योऽन्यत्राप्यनभूतवाक् ।
प्रमाणमेकोऽपि भवेत् साहसेषु विशेषतः ॥”
अनुभूतवाक् स्थानान्तरे सत्यत्वेनेति । भवदेव-
भट्टीऽप्येवम् । कात्यायनः ।
“अभ्यन्तरस्तु निःक्षेपे साक्ष्यमेकोऽपि दापयेत् ।
अर्थिना प्रहितः साक्षी भवेदेकोऽपि याचिते ॥
संस्कृतं येन यत् पण्यं तत्तनैव विभावयेत् ।
एक एव प्रमाणं स विवादे परिकीर्त्तितः ॥”
संस्कृतं गठितम् । पण्यं कुण्डलादि । विष्णुः ।
स्तेयसाहसवाग्दण्डपारुष्यसंग्रहणेषु साक्षिणो
न परीक्षा इति । स्तेयपरदारगमनादिकार्य्याणां
निह्नवेनैव क्रियमाणत्वात् दैवादेव परं साक्षिणो
भवन्तीति न परीक्षा इत्युक्तम् । तेषां वाक्यन्तु
मित्रारिभावादिनिरूपणेनैवोपपत्त्यनुपपत्तिभ्या-
मालोचनीयं न तु वाक्यमात्रादिति व्यवहार-
मातृका ॥ अतएव कात्यायनः ।
“ऋणादिषु परीक्षेत साक्षिणः स्थिरकर्म्मसु ।
साहसात्ययिके नैव परीक्षा कुत्रचित् स्मृता ॥”
इति ॥ * ॥ श्रोत्रियादीनामसाक्ष्यमाह नारदः ।
“श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजिता नराः ।
वचनात्तेष्वसाक्षित्वं नात्र हेतुरुदाहृतः ॥”
वचनादिति श्रोत्रियत्वादिरूपाभिधानात् न च
तत्रान्यो हेतुरित्यर्थः । तथा च स्वीयवैदिककर्म्म-
करणव्यग्रतया परकीयकार्य्ये विस्मरणसम्भवात्
साक्षित्वरूपलधुकार्य्यनियोगे तच्छापभयेन व्यव-
हारद्रष्टारोऽपि तान्न पृच्छन्तीति तत्साक्ष्य-
करणानर्थक्याच्च न ते साक्षिणः कर्त्तव्याः । किन्त्व-
कृताः स्वयं साक्षिणो भवन्त्येव । उभौ तु श्रोत्रियौ
स्यातामिति स्मृतेः । वृद्धस्यासाक्षित्वं वृद्धत्वादेव
म्लानेन्द्रियत्वादित्यर्थः ॥ * ॥ मनुः ।
“स्त्रीणां साक्ष्यं स्त्रियः कुर्य्युद्विजानां सदृशा
द्विजाः ।
शूद्राश्च सन्तः शूद्राणामन्त्यानामन्त्ययोनयः ॥
अन्तर्वेश्मन्यरण्ये वा शरीरस्यात्ययेऽपि च ।
स्त्रियाप्यसम्भवे कार्य्यं बालेन स्थविरेण वा ।
शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥ * ॥
देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेदृतं द्विजान् ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्व्वाह्णे वै शुचिः
शुचीन् ॥
ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्व्वैस्तु पातकैः ॥”
गोबीजकाञ्चनापहारे यत् पापं तत्त्वानृताभि-
धाने स्यादिति वैश्यम् । एतत् साक्ष्यानृताभि-
धाने भवान् सर्व्वैः पातकैः सम्बध्यते इत्युक्त्वा
शूद्रञ्च पृच्छेत् ।
“ब्रह्मघ्ना ये स्मृता लोके ये च स्त्रीबालघातिनः ।
मित्रदुहः कृतघ्नाश्च ते ते स्यर्व्वदतो मृषा ॥”
इति मनूक्तं दूषणम् ॥ सत्फलञ्च ।
“अश्वमेधसहस्रञ्च सत्यञ्च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते ॥”
इति मनुनारदोक्तं श्रावयेत् ॥ * ॥ याक्षवल्क्यः ।
“न ददाति हि यः साक्ष्यं जानन्नपि नराधमः ।
स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ॥”
कात्यायनः ।
“अवीचिनरके वर्षं वसेयुः कूटसाक्षिणः ।”
याज्ञवल्क्यः ।
“सत्यां प्रतिज्ञां यस्योचुः साक्षिणः स जयी भवेत् ।
अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः ॥
वर्णानां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् ।
तत्पावनाय निर्व्वाप्यश्चरुः सारस्वतो द्विजैः ॥”
गौतमः । नानृतवचने दोषो जीवनञ्चेत्तदधीनम् ।
न तु पापीयसो जीवनम् । इति ।
“द्वैधे बहूनां वचनं समेषु गुणिनां तथा ।
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तराः ॥”
तेषामिति शेषः ॥ * ॥ यत्तु ।
पृष्ठ ५/३२३
“साक्षिणां लिखितानाञ्च निर्द्दिष्टानाञ्च वादि-
नाम् ।
तेषामेकोऽन्यथावादी भेदात् सर्व्वेऽप्यसाक्षिणः ॥”
इति कात्यायनवचनं तत् त्रयाणां तुल्यरूपाणां
साक्षिणां मध्ये एकस्याप्यन्यथावादे अपरस्य
तत्तुल्यस्य सत्प्रतिपक्षतया तृतीयस्य किञ्चिद्बा-
दित्वे तत्र भेदात् परस्परविरुद्धार्थाभिधाने
भेदात् साक्षिभ्यो न निर्णयः इति परम् ॥ * ॥
बृहस्पतिः । साक्षिद्वैधे कर्म्मनिष्ठानां ग्रहण-
माह । गुणिद्वैघे क्रियावतामित्यनेन । तथा ।
“साक्षिणोऽर्थिसमुद्दिष्टान् सत्सु दोषेषु दोषयेत् ।
अदुष्टं दूययन् वादी तत्समं दण्डमर्हति ॥” इति ।
तत्समं विवादसमम् । सभासदादिविदित-
साक्षिदूषणमेव ग्राह्यं न तु त्र्यवरादिसाक्षिभिः
प्रतिपाद्यम् । अनवस्थापातात् । इत्याह नारदः ।
“सभासदां प्रसिद्धं यल्लोकसिद्धमथापि वा ।
साक्षिणां दूषणं ग्राह्यमसाध्यं दोषवर्ज्जनात् ॥
अन्यैश्च साक्षिभिः साध्ये दूषणे पूर्व्वसाक्षिणाम् ।
अनवस्था भवेद्दोषस्तेषामप्यन्यसम्भवात् ॥”
असाध्यं साधनानर्हम् । सिद्धत्वाद्दोषवर्जनात् ।
अनवस्थाविरहात् । तस्मात् प्रसिद्धदूषणमेव
ग्राह्यम् ॥ * ॥ दूषणमाह कात्यायनः ।
“बालोऽज्ञानादसत्यात् स्त्री पापाभ्यासाच्च कूट-
कृत् ।
विब्रूयात् वान्धवः स्नेहात् वैरनिर्यातनादरिः ॥
यः साक्षी नैव निर्द्दिष्टो नाभूतो नैव दर्शितः ।
ब्रूयान्मिथ्येति तथ्यं वा दण्ड्यः सोऽपि नराधमः ॥”
कात्यायनः ।
“क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु ।
लेख्ये च सति वादेषु न दिव्यं न च साक्षिणः ॥
समत्वं साक्षिणां यत्र दिव्यैस्तत्र विशोधयेत् ॥”
एतत् संशयानुच्छेद बोध्यम् । याज्ञवल्क्यः ।
“निह्रुते लिखितानेकमेकदेशे विभावितः ।
दाप्यः सर्व्वान्नृपेणार्थान्न ग्राह्यस्त्वनिवेदितः ॥”
यो लिखितानेकं सुवर्णादिकं अपलपति स एक-
द्रव्ये साक्ष्यादिभिर्व्विभावितः सन् सर्व्वान् दद्यात् ।
कात्यायनः ।
“यद्येकदेशप्राप्तापि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥”
वदतां विवदतामित्यविशेषेण दर्शयति । पूर्णापि
दैविकी समग्रविषयिकापि न ग्राह्या । तेनैक-
देशप्रतिपादिकया मानुष्या क्रियया समस्तसा-
ध्यसिद्धिरिति ।
“साध्यार्थांशे निगदिते साक्षिभिः सफलं भवेत् ।
स्त्रीसङ्गे साहसे चौर्य्ये यत् साध्यं परिकल्पि-
तम् ॥”
इति कात्यायनवचनं तत्विषयप्रदर्शकम् । ऋण-
निक्षेपाद्यपह्नवेऽपि योज्यमिति ॥ * ॥ यत्तु ।
“अनेकार्थाभियोगे तु यावत् संशोधयेद्धनी ।
साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥”
तदृणाद्यनभिज्ञपुत्त्रादिविषयकम् । तथा हि ।
नानाविधपित्रर्णाद्यभियुक्तेनाजानता नाहं
जानामीति उत्तरवादिना साक्ष्यादिभिर्यावद्धनं
प्रतिपादयति तावदेव पुत्त्रेण दातव्यम् । एवमेव
विश्वरूपजीमूतवाहनप्रभृतयः ॥ * ॥ कात्यायनः ।
“अनुमानाद्वरः साक्षी साक्षिभ्यो लिखितं गुरु ।
अनिरुद्धा त्रिपुरुषी भक्तिस्तेभ्यो गरीयसी ॥”
अनुमानं प्रत्यासङ्कलितम् । तदाह मनुः ।
“बाह्यैर्व्विभावयेल्लिङ्गैर्भावमन्तर्गतं नृणाम् ।
स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥”
स्वरो गद्गदादिः । वर्णोऽस्वाभाविकः । इङ्गितं
स्वेदवेपथुरोमाञ्चादि । आकारो विकृतः ।
चक्षुषा कातरेण । चेष्टितेन स्थानत्यागादिना ।
एषाञ्चान्यथासिद्धेर्दुर्निरूप्यत्वादेभ्यः साक्षी बल-
वान् इत्यर्थः । सुखनिरूप्यत्वे तु याज्ञवल्क्यः ।
“देशाद्देशान्तरं याति सृक्कणी परिलेढि च ।
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च ॥
परिशुष्यत्खलद्बाक्यो विरुद्धं बहु भाषते ।
वाक् चक्षुः पूजयति नो तथौष्ठौ निर्भु जत्यपि ॥
स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्म्मभिः ।
अभियोगे च साक्ष्ये च स दुष्टः परिकीर्त्तितः ॥”
न परोक्तां वाचं प्रतिवचनेन पूजयति । तथौष्ठौ
चक्षुश्च परकीयवीक्षणेन निर्भुजति कुटिली-
करोति यदा मनोवाक्कायकर्म्मभिः स्वभावात्
पूर्व्वोक्तां यथायोग्यां विकृतिं गच्छेत्तदा स दुष्ट
इत्यर्थः । अतएव श्रीरामायणे ।
“आकारश्छाद्यमानोऽपि न शक्योऽसौ निगूहि-
तुम् ।
बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥”
आकारो देहधर्म्मः मुखाप्रसादवैवर्ण्यरूपः ॥
नारदः ।
“सुदीर्घेणापि कालेन लिखितं सिद्धिमाप्नुयात् ।
संजानन्नात्मनो लेख्यमजानंस्तत्तु लेखयेत् ॥”
सुदीर्घेणेति संस्कारोद्बोधकलिखनसत्त्वादयं
चिरेणापि साक्ष्यं दार्तु शक्नोति इत्यर्थः ॥ * ॥
लिपिज्ञं स्वहस्तेन लेखयेत् तदज्ञं परहस्तेनेत्याह
व्यासः ।
“अलिपिज्ञो ऋणी यः स्यात् लेखयेत् स्वमतन्तु
सः ।
साक्षी वा साक्षिणान्येन सर्व्वसाक्षिसमीपगः ॥”
बृहस्पतिः ।
“मूषितं घातितं यच्च सीमायाश्च समन्ततः ।
अकृतोऽपि भवेत् साक्षी ग्रामस्तत्र न संशयः ॥”
अकृता अपि साक्षिणो भवन्तीत्याहतुर्म्मनु-
कात्यायनौ ।
“अन्ये पुनरनिर्द्दिष्टाः साक्षिणः समुदाहृताः ।
ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् ॥
कार्य्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितश्च यः ।
कुल्याः कुलविवादेषु भवेयुस्तेऽपि साक्षिणः ॥”
स्मृतिः ।
“दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्गमे सति ।
विक्रीयादानसम्बन्धे क्रीत्वा धनमनिच्छति ॥
द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥
प्रक्रान्ते साहसे वापि पारुष्ये दण्डवाचिके ।
बलोद्भवेषु कार्य्येषु साक्षिणो दिव्यमेव च ॥”
बृहस्पतिः ।
“लेख्यं वा साक्षिणो वापि विवादे यस्य
दूषिताः ।
तस्य कार्य्यं न सिध्येत यावत्तन्न विशोधयेत् ॥”
तल्लेख्यसाक्षिरूपप्रमाणम् ॥ * ॥ लेख्यशोधन-
माह । कात्यायनः ।
“सहस्तलेख्यसन्देहे जीवतो वा मृतस्य च ।
तत् स्वहस्तकृतैरन्यैः पत्रैस्तल्लेख्यनिर्णयः ॥”
तथा ।
“समवेतैश्च यद्दृष्टं वक्तव्यं तत्तथैव च ।
विभिन्नेनैव कार्य्ये तु तद्वक्तव्यं पृथक् पृथक् ॥
नापृष्टैरनियुक्तैर्वा समं सत्यं प्रयत्नतः ।
वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानमागतैः ॥
अनुद्विग्नेन चित्तेन दृष्टं सम्यग्विदा तु यत् ।
प्रत्यक्षं तत स्मृतं कार्य्यं साक्ष्यं साक्षी तु तद्ब-
देत् ॥”
नारदः ।
“यः परार्थेऽपहरति स्वां वाचं पुरुषाधमः ।
आत्मार्थे किं न कुर्य्यात् स पापी नरकनिर्भयः ॥
अर्थावै वाचि नियता वाङ्मूला वाग्विनिःसृता ।
यस्तु तांस्तेनयेद्वाचं स सर्व्वस्तेयकृन्नरः ॥”
बौधायनः ।
“पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
सर्व्वं भूम्यनृते हन्ति साक्ष्ये साक्षी मृषा वदन् ॥”
बृहस्पतिः ।
“यस्याशेषं प्रतिज्ञातं साक्षिभिः प्रतिपादितम् ।
स जयी स्यादन्यथा तु साध्यार्थं न समाप्नुयात् ॥”
याज्ञवल्क्यः ।
“उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तराः ।
द्विगुणा वान्यथा ब्रुयुः कूटाः स्युः पूर्व्व-
साक्षिणः ॥”
अन्यथा पूर्व्वविपरीतार्थप्रकारेण । कूटा अना-
देयवचनाः । तथा, --
“यः साक्ष्यं श्रावितोऽन्येभ्यो निह्रुते तमसावृतः ।
स दाप्योऽष्टगुणं दण्डंब्राह्मणञ्च विवासयेत् ॥”
त्वमन्येभ्यः साक्ष्यं श्रावयेति वादिना प्रयुक्तो यः
श्रावितः कारितद्वयात् पदसिद्धिः । एवम्भूतो-
ऽपि सभायां निगदकाले साक्ष्यं निह्रुते यस्तस्याष्ट-
गुणो दण्डः । इति व्यवहारतत्त्वम् ॥ (त्रि, दृश्यः
इति श्रीधरस्वामी ॥ यथा, भागवते । ५
११ । ७ ।
“तावानयं व्यवहारः सदाविः
क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्मः ॥”)

साखेयः, त्रि, (सख्युरिदम् । सखि + “बुञ्छण्-

कटजिति ।” ४ । २ । ८० । इति ढञ् ।) सखि-
सम्बन्धी । इति सिद्धान्तकौमुदी ॥

साख्यं, क्ली, (सख्युर्भावः कर्म्म वा । सखि +

ष्यञ् ।) सख्यम् । इति धनञ्जयकोषः ॥