शब्दकल्पद्रुमः/विगानं

विकिस्रोतः तः
पृष्ठ ४/३७७

विगानं, क्ली, (विरुद्धं गानं परस्य ।) निन्दा ।

इति हेमचन्द्रः ॥

विगाहमानः, त्रि, (वि + गाह + शानच् ।)

विलोडनकर्त्ता । अवगाहनकर्त्ता । विपूर्ब्ब-
गाहधातोः शानप्रत्ययेन निष्पन्नः ॥ (यथा,
रघुः । १३ । १ ।
“अथात्मनः शब्दगुणं गुणज्ञः
पदं विमानेन निगाहमानः ।
रत्नाकरं वीक्ष्य मिथः स जायां
रामाभिधानो हरिरित्युवाच ॥”)

विगुणः, त्रि, (विपरीतो गुणो यस्य ।) गुण-

वैपरीत्यविशिष्टः । यथा, --
“यथा मनो ममाचष्ट नेयं माता तथा मम ।
विगुणेष्वपि पुत्त्रेषु न माता विगुणा भवेत् ॥”
इति मार्कण्डेयपुराणे वैवस्वतमन्वन्तराध्यायः ॥
(सूक्ष्मः । यथा, भागवते । ७ । ९ । ४८ ।
“सर्व्वं त्वमेव सगुणो विगुणश्च भूमन्
नान्यत् त्वदस्त्यपि मनो वचसा निरुक्तम् ॥”
गुणहीनः । यथा, शिशुपालवधे । ९ । १२ ।
“अवसन्नतापमतमिस्रमभा-
दपदोषतैव विगुणस्य गुणः ॥”)

विगूढः, त्रि, (विशेषेण गूढः ।) गर्हितः ।

गुप्तः । इति मेदिनी । ढे, ९ -- १० ॥

विग्रः, त्रि, (विगता नासिकास्य । “वेर्ग्रो

वक्तव्यः ।” ८ । ४ । २८ । इत्यस्य वार्त्तिकोक्त्या
नासिकायाः ग्रः ।) गतनासिकः । इत्यमरः ॥ * ॥
(त्रि, “विविधं गृह्णात्यर्थानिति विपूर्व्वात् गृह्णातेः
‘अन्येष्वपि दृश्यते ।’ इति डः ।” इति देव-
राजयज्वा । मेधावी । इति निघण्टुः । ३ । १५ ॥
यथा, ऋग्वेदे । १ । ४ । ४ ।
“परेहि विग्रमस्तृतमिन्द्रं पृच्छाविपश्चितम् ॥”)

विग्रहः, पुं, (विविधं सुखदुःखादिकं गृह्णातीति ।

वि + ग्रह + अच् । यद्वा, विविधैर्दुःखादिभि-
र्गृह्यते इति । वि + ग्रह + “ग्रहवृदृनिश्चि-
गमश्च ।” ३ । ३ । ५८ । इति अप् ।) शरीरम् ।
(यथा, रघुः । ११ । १३ ।
“विग्रहेण मदनस्य चारुणा
सोऽभवत् प्रतिनिधिर्न कर्म्मणा ॥”)
युद्धम् । इत्यमरः ॥ (यथा, मनुः । ७ । १६० ।
“सन्धिञ्च विग्रहञ्चैव यानमासनमेव च ।
द्वैधीभावं संश्रयञ्च षड्गुणांश्चिन्तयेत् सदा ॥”
विरोधमात्रम् । यथा, रघुः । ९ । ४७ ।
“त्यजत मानमलं वत विग्रहै-
र्न पुनरेति गतं चतुरं वयः ।
परभृताभिरितीव निवेदिते
स्मरमते रमते स्म बधूजनः ॥”)
विभागः । इति मेदिनी । हे, २३ ॥ (यथा,
भागवते । ३ । ३१ । ३ ।
“मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्ग-
विग्रहः ।
नखलोमास्थिमर्म्माणि लिङ्गच्छिद्रोद्भव-
स्त्रिभिः ॥”)
वाक्यभेदः । स तु समासवाक्यम् । तत्पर्य्यायः ।
विस्तरः २ । इत्यमरः ॥ (वीनां पक्षिणां ग्रहो
ग्रहणमिति वाक्ये विहङ्गग्रहणम् । यथा,
वक्रोक्तिपञ्चाशिकायाम् । ४ ।
“नो सन्ध्या हितमत्सरा तव तनौ वत्स्याम्यहं
सन्धिना
न प्रीतासि वरोरु चेत्कथय तत् प्रस्तौमि किं
विग्रहम् ।
कार्य्यं तेन न किञ्चिदस्ति शठ मे वीनां ग्रहे-
णेति वो
दिश्याद्वः प्रतिबद्धकेलिशिवयोः श्रेयांसि
वक्रोक्तयः ॥”)
देवविग्रहकरणादिप्रमाणं श्रीमूर्त्तिशब्दे द्रष्टव्यम् ॥

विग्रहः, पुं, क्ली, (विगृह्यन्ते शत्रवो यस्मिन् ।

वि + ग्रह + अप् ।) युद्धम् । इत्यमरः ॥ (यथा,
मनुः । ७ । १७० ।
“यदा प्रहृष्टा मन्येत सर्व्वास्ताः प्रकृतीर्भृशम् ।
अत्युच्छ्रितं तथात्मानं तदा कुर्व्वीत विग्रहम् ॥”)

विग्रहावरं, क्ली, (विग्रहमावृणोतीति । आ +

वृ + अच् ।) पृष्ठम् । इति शब्दचन्द्रिका ॥

विघटिका, स्त्री, (विभक्ता घटिका यया ।)

पलम् । इति राजनिर्घण्टः ॥

विघट्टितं, त्रि, विशेषेण चालितम् । विपूर्ब्बघट्ट-

घातोः क्तप्रत्ययेन निष्पन्नम् ॥ (यथा, बृहत्-
संहितायाम् । ३५ । १ ।
“सूर्य्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः
साभ्रे ।
वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥”
विद्धम् । यथा, माघे । ८ । २४ ।
“त्रस्यन्ती चलशफरीविघट्टितोरू-
र्वामोरूरतिशयमाप विभ्रमस्य ॥”)

विघसं, क्ली, (विशेषेण अद्यते इति । वि + अद् +

“उपसर्गेऽदः ।” ३ । ३ । ५९ । इति अप् ।
“घञपोश्च ।” २ । ४ । ३८ । इति घसॢ-
आदेशः ।) सिक्थकम् । इति राजनिर्घण्टः ॥

विघसः, पुं, (वि + अद् + अप् ।) भोजनशेषः ।

इत्यमरः ॥ देवपित्रतिथिगुर्व्वादिभुक्तस्य शेषः ।
इति भरतः ॥ (यथा, मनुः । ३ । २८५ ।
“विघसाशी भवेन्नित्यं नित्यं वामृतभोजनः ।
विघसो भुक्तशेषन्तु यज्ञशेषं तथामृतम् ॥”)
आहारः । इति शब्दरत्नावली ॥ (यथा, --
“अयि वनप्रिय ! विस्मृत एव किं
वलिभुजो विघसो भवताधुना ।
यदनयैव कुहूरिति विद्यया
न पततश्चरणौ धरणौ तव ॥”
इत्युद्भटः ॥)

विघातः, पुं, (विशेषेण हननमिति । वि + हन +

घञ् ।) व्याघातः । यथा, अमरे ।
“वृष्टिर्वर्षं तद्बिघातेऽवग्राहावग्रहौ समौ ॥”
आघातः । (यथा, महाभारते ।
“चक्रे शरविघातञ्च क्रीडन्निव पितामहः ॥”
विनाशः । यथा महाभारते । १ । २९ । १३ ।
“क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे
भवान् ॥”)

विघाती, [न्] त्रि, निवारकः । घातकः । विघात-

शब्दादिन्प्रत्ययेन विपूर्ब्बहनधातोर्ग्रहादित्वा-
ण्णिन्प्रत्ययेन वा निष्पन्नः ॥ (यथा, हरि-
वंशे । ८७ । ४५ ।
“एवमूर्ज्जितवीर्य्यस्य ममामरविघातिनः ॥”)

विघ्नः, पुं, (विहन्यते अनेनेति । वि + हन +

“घञर्थे कविधानम् ।” ३ । ३ । ५८ । इत्यस्य
वार्त्तिकोक्त्या कः ।) व्याघातः । तत्पर्य्यायः ।
अन्तरायः २ प्रत्यूहः ३ । इत्यमरः ॥ (यथा,
मुद्राराक्षसे । २ ।
“प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्ननिहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमाना
प्रारब्धमुत्तमगुणास्त्वमिवोद्बहन्ति ॥”
कृष्णपाकफला । इति शब्दचन्द्रिका ॥ शेषार्थे
अमरे अविग्न इति पाठः ॥

विघ्नकारी, [न्] त्रि, (विघ्नं कर्त्तुं शीलमस्येति ।

कृ + णिनिः ।) घोरदर्शनः । विघाती । इति
मेदिनी । ने, २५५ ॥

विघ्ननायकः, पुं, (विघ्नानां नायकः विघ्नाधीश्वर-

त्वात् ।) गणेशः । इति शब्दरत्नावली ॥

विघ्ननाशकः, पुं, (विघ्नानां नाशकः ।) गणेशः ।

इति शब्दरत्नावली ॥

विघ्ननाशनः, पुं, (नाशयतीति नाशनः विघ्नानां

नाशनः ।) गणेशः । इति शब्दरत्नावली ॥

विघ्नराजः, पुं, (विघ्नानां राजा । “राजाहः

सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) गणेशः ।
इत्यमरः ॥ (यथा, कथासरित्सागरे । २० । १०१ ।
“आर्य्यपुत्त्र पुरा गत्वा विघ्नराजमपूजयत् ॥”)

विघ्नषिनायकः, पुं, (विघ्नानां विनायकः ।) गणेशः ।

इति काशीखण्डः ॥

विघ्नहारी, [न्] पुं, (विघ्नं हर्त्तुं शीलमस्य इति ।

हृ + णिनिः ।) गणेशः । इति त्रिकाण्डशेषः ॥
विघ्ननाशके, त्रि ॥

विघ्नितः, त्रि, जातविघ्नः । विघ्नोऽस्य जात इत्यर्थे

विघ्नशब्दादितच्प्रत्ययेन निष्पन्नः ॥

विघ्नेशः, पुं, (विघ्नानां ईशः ।) गणेशः । इति शब्द-

रत्नावली ॥ (यथा कथासरित्सागरे । २० । ८३ ।
“विघ्नोऽत्र तव जातोऽयं विना विघ्नेशपूज-
नम् ॥”)

विघ्नेशवाहनः, पुं, (विघ्नेशस्य वाहनः ।) महा-

मूषकः । इति राजनिर्घण्टः ॥

विघ्नेशानकान्ता, स्त्री, (विघ्नेशानस्य गणेशस्य

कान्ता प्रिया । तत् पूजायां एतस्याः प्राश-
स्त्यात् । श्वेतदूर्व्वा । इति राजनिर्घण्टः ॥

विङ्खः पुं, अश्वखुरः । इति त्रिकाण्डशेषः ॥

विच, इर् लि ध औ ञ पृथक्त्वे । इति कवि-

कल्पद्रुमः ॥ (अदा०-ह्वा०-रुधा०-च-उभ०-
अक०-सकञ्च-अनिट् ।) इर्, अविचत् ।
अवैक्षीत् । लि, ञ, वेवेक्ति वेविक्ते मूर्खात्
पण्डितः पृथक् स्यादित्यर्थः । विज इति जान्तो
यः स एव चान्तोऽपि पठ्यते कस्यचिदनुरोधात्
पृष्ठ ४/३७८
तेन निजां खेरेणुरित्यस्य वृत्तौ विजग्रहणे-
नैवास्य ग्रहणात् खेर्गुणः । ध ञ, विनक्ति
विङ्क्ते । विविनच्मि दिवः सुरान् इति
पृथक् करोमीत्यर्थः । औ, वेक्ता । इति दुर्गा-
दासः ॥

विचकिलः, पुं, मल्लीप्रभेदः । मदनकवृक्षः । इति

मेदिनी । ले, १६४ ॥ (यथा, राजेन्द्रकर्णपूरे । ७० ।
“कुन्दः कन्दलितव्यथं विचकिलः कम्पाकुलं केतकः
सातङ्कं मदनः सदैन्यमलसं मुक्तोऽतिमुक्तद्रुमः ॥”)

विचक्षणः, पुं, (विशेषेण चष्टे धर्म्मादिमुपदि-

शतीति । वि + चक्ष + “अनुदात्तेतश्च हलादेः ।”
३ । २ । १४९ । इति कर्त्तरि युच् ।) पण्डितः ।
इत्यमरः ॥ (यथा रघुवंशे । ५ । १९ ।
“ततो यथावद् विहिताध्वराय
तस्मै स्मयावेशविवर्ज्जिताय ।
वर्णाश्रमाणां गुरवे सवर्णी
विचक्षणः प्रस्तुतमाचचक्षे ॥”)
निपुणे, त्रि । इति राजनिर्घण्टः ॥ (यथा भाग-
वते । १ । ५ । १६ ।
“विचक्षणोऽस्यर्हति वेदितुं विभो
अनन्तषारस्य निवृत्तितः सुखम् ॥”
नानार्थदर्शी । यथा ऋग्वेदे । ४ । ५३ । २
“विचक्षलः प्रथयन्नापृणन्नुर्व्वजीजनत् सविता
सुम्नमुक्थ्यम् ।”
“विचक्षणः विविधं द्रष्टा ।” इति तद्भाष्ये
सायणः ॥)

विचक्षणा, स्त्री, नागदन्ती । इति राजनिर्घण्टः ॥

विचक्षुः, [स्] त्रि, (विगतं प्रत्यक्षितेऽपि वस्तुनि

व्यपगतं चक्षुर्यस्य ।) विमनाः । इति त्रिकाण्ड-
शेषः ॥ (विगते नष्टे चक्षुषी यस्य ।) विगतचक्षुषि,
त्रि ॥ (यथा, महाभारते । १२ । ६५ । ३४ ।
“अन्तरा विलयं यान्ति यथा पथि विच-
क्षुषः ॥ *” ॥
विशिष्टे चक्षुषी यस्य सः । वृष्णिवंशीयः कश्चिद्
थोद्धा । यथा, हरिवंशे । १४१ । ९ ।
“कृतवर्म्मा सुदंष्ट्रश्च विचक्षुररिमर्द्दनः ॥”)

विचयनं, क्ली, (विशेषेण चयनम् ।) मार्गणम् ।

इत्यमरः ॥

विचर्च्चिका, स्त्री, (विशेषेण चर्च्च्यते पाणिपादस्य

त्वक् विदार्य्यते अनया इति । चर्च्च तर्जने +
“रोगाख्यायां ण्वुल् बहुलम् ।” ३ । ३ । १०८ । इति
ण्वुल् । टापि अत इत्वम् ।) रोगविशेषः ।
विकच इति भाषा । तत्पर्य्यायः । कच्छूः २ पाम
३ पामा ४ । इत्यमरः ॥ अपि च ।
“कच्छुः कच्छूः पाम पामा पादरोगे विच-
र्च्चिका ।”
इति शब्दरत्नावली ॥ * ॥
तदौषधम् यथा, --
“करवीरं भृङ्गराजं लवणं कुष्ठकर्कटम् ।
चतुर्गुणेन मूत्रेण पचेत्तैलं हरेत्ततः ।
पामां विचर्च्चिकां कुष्ठमभ्यङ्गाद्धि व्रणानि वै ॥”
इति गारुडे २८७ अध्यायः ॥ * ॥
अन्यच्च ।
“मरीचं त्रिवृतं कुष्ठं हरितालं मनःशिला ।
देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ॥
विशाला करवीरञ्च अर्कक्षीरं सकृत् पलम् ।
एषाञ्च कार्षिको भागो विषस्यार्द्धपलं भवेत् ॥
प्रस्थं कटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् ।
मृत्पात्रे लौहपात्रे वा शनैर्मृद्वग्निना पचेत् ॥
पामा विचर्चिका चैव दद्रुविष्फोटकानि च ।
अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ॥
प्रसूतान्यपि श्वित्राणि तैलेनानेन म्रक्षयेत् ।
चिरोत्थितमपि श्वित्रं विवर्णं तत्क्षणाद्भवेत् ॥”
इति गारुडे १९८ अध्यायः ॥ * ॥
स्वल्पकुष्ठविशेषः । यथा ।
“एकं कुष्ठं स्मृतं पूर्व्वं गजचर्म्म ततः स्मृतम् ।
ततश्चर्म्मदलं प्रोक्तं ततश्चापि विचर्च्चिका ॥
विपादिकाभिधा सैव पामा कच्छूस्ततः परा ।
ततो दद्रुश्च विष्फोटः किटिमञ्च ततः परम् ॥
ततश्चालमकं प्रोक्तं शतारुश्च ततः परम् ।
क्षुद्रकुष्ठानि चैतानि कथितानि भिषग्वरैः ॥
सकण्डुः पिडका श्यावा बहुस्रावा विच-
र्च्चिका ॥”
पिडका क्षुद्रपिडका ।
“दाल्यते त्वक् खरा रूक्षा जान्वोर्ज्ञेया विच-
र्च्चिका ।
पादे विपादिका ज्ञेया स्थानभेदाद्विचर्च्चिका ॥”
दाल्यते विदार्य्यते । केचिद्विचर्च्चिकातो विपा-
दिकां विभिन्नमाहुः । इति भावप्रकाशः ॥
(सा च महापातकशेषभोगचिह्नं वैदिककर्म्म-
प्रतिबन्धिका च । यथा, शुद्धितत्त्वधृतभविष्य-
पुराणीयमध्यतन्त्रे षष्ठाध्याये ।
“शृणु कुष्ठगणं विप्र उत्तरोत्तरतो गुरुम् ।
विचर्च्चिका तु दुश्चर्म्मा चर्च्चरीयस्तृतीयकः ॥
विकर्च्चूर्व्रणताम्रौ च कृष्णश्वेते तथाष्टकम् ।
एषां मध्ये तु यः कुष्ठी गर्हितः सर्व्वकर्म्मसु ॥
व्रणवत् सर्व्वगात्रेषु गण्डे भाले तथानसि ।
मृते च प्रोपयेत् तीर्थे अथवा तरुमूलके ॥”
कदाचित् अग्निजन्यभूमिकम्पेऽपि विचर्च्चिका
उतपद्यते । यथा बृहत्संहितायाम् । ३२ । १४ ।
“आग्नेयेऽम्बुदनाशः
सलिलाशयसङ्क्षयो नृपतिवैरम् ।
दद्रुविचर्च्चिकाज्वर-
विसर्पिकाः पाण्डुरोगश्च ॥”)

विचलः, त्रि, अस्थिरः । विपूर्ब्बचलधातोरल्-

प्रत्ययेन निष्पन्नः ॥

विचलितः, त्रि, पतितः । स्खलितः । विपूर्व्वचल-

धातोः क्तप्रत्ययेन निष्पन्नः ॥ (यथा, मनुः ।
७ । २८ ।
“दण्डो हि सुमहत् तेजो दुर्द्धरश्चाकृतात्मभिः ।
धर्म्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥”)

विचारः, पुं, (विशेषेण चरणं पदार्थादिनिर्णये

ज्ञानमिति । वि + चर + घञ् ।) तत्त्वनिर्णयः ।
इति व्यवहारतत्त्वम् ॥ सन्दिग्धे वस्तुनि प्रमा-
णेन तत्त्वपरीक्षा । इति गोयीचन्द्रः । प्रमाणै-
रथपरीक्षणं विमर्शमात्रमिति केचित् । इति
भरतः ॥ तत्पर्य्यायः । तर्कः २ निर्णयः ३
गुञ्जा ४ चर्च्चा ५ । इति त्रिकाण्डशेषः ॥
संख्या ६ विचारणा ७ । इत्यमरः ॥ चर्च्चनम् ८
संख्यानम् ९ । इति तट्टीका ॥ विचारणम् १०
वितर्कः ११ व्युहः १२ व्यूहः १३ ऊहः १४
वितर्कणम् १५ । इति शब्दरत्नावली ॥ प्रणि-
धानम् १६ समाधानम् १७ । इति जटाधरः ॥
(यथा, कथासरित्सागरे । ३६ । ८८ ।
“न चैवं क्षमते नारी विचारं मारमोहिता ।
यदियं क्रमते राज्ञी तव काम्यं विपद्गतम् ॥”
नाट्योक्तलक्षणविशेषः । तल्लक्षणं यथा, साहित्य-
दर्पणे । ६ । ४४७ ।
“विचारो युक्तवाक्यैर्य्यदप्रत्यक्षार्थसाधनम् ॥”)

विचारणं, क्ली, (वि + चर + णिच् + ल्युट् ।)

विचारः । इति शब्दरत्नावली ॥ (यथा,
भागवते । १२ । १३ । १८ ।
“तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्ममा
विष्कृतम् ।
तच्छृण्वन् सुपठन् विचारणपरो भक्त्या विमुच्ये-
न्नरः ॥”
“एकस्मिन् धर्म्मिणि विरुद्धनानार्थविमर्षो
विचारणम् । स च संशयस्त्रिधा स्यात् एको
विशेषादर्शने समानधर्म्मदर्शनात् । अहिर्न्नु-
रज्जुर्न्नु । द्वितीयो विशेषादर्शनमात्रे । अत्र
शब्दो नित्योऽनित्यो वा । तृतीयोऽसाधारण-
धर्म्मजः यथा भूर्नित्या अनित्या वा । अत्र गन्धो-
ऽसाधारणधर्म्मः विशेषमपश्यन् संशेते गन्धाधि-
करणं नित्यं अनित्यं वेति दिक् ।” इति ।
“विचारणे पूर्व्वस्य ।” इति श्रीपतिदत्तकृतका-
तन्त्रपरिशिष्टे गोपीनाथतर्काचार्य्यः ॥)

विचारणा, स्त्री, (वि + चर + णिच् + युच् ।

टाप् ।) विचारः । इत्यमरः ॥ (यथा, देवी-
भागवते । १ । १८ । ४२ ।
“जीवो ब्रह्म सदैवाहं नात्र कार्य्या विचा-
रणा ।
भेदबुद्धिस्तु संसांरे वर्त्तमाना प्रवर्त्तते ॥”)
मीमांसाशास्त्रम् । इति हेमचन्द्रः ॥

विचारणीयं, त्रि, विचार्य्यम् । विपूर्ब्बज्ञ्यन्त(णिजन्त)

चरधातोरनीयप्रत्ययेन निष्पन्नम् । क्ली, शास्त्रम् ।
इति हेमचन्द्रः ॥

विचारितः, त्रि, (विचारः संजातोऽस्य इति

विचार + “तदस्य संजातं तारकादिभ्य इतच् ।”
५ । २ । ३६ । इति इतच् ।) कृतविचारः ।
तत्पर्य्यायः । विन्नः २ वित्तः ३ । इत्यमरः ॥
(यथा, मनौ । ११ । २८ ।
“आपत्कल्पेन यो धर्म्मं कुरुतेऽनापदि द्बिजः ।
स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥”)

विचार्य्यं, त्रि, विचारितव्यम् । विचारणीयम् ।

विपूर्ब्बचरधातोर्ञ्यान्तात् यप्रत्ययेन निष्पन्नम् ॥
(यथा, मार्कण्डेये । ६९ । १८ ।
पृष्ठ ४/३७९
“द्वाःस्थैनां दुष्टहृदयामादाय विजने वने ।
परित्यजाशु नैतत्ते विचार्य्यं वचनं मम ॥”)

विचालं, त्रि, अभ्यन्तरम् । अन्तरालम् । इति

हेमचन्द्रः ॥ (पुं, संख्यान्तरापादनम् । यथा,
पाणिनौ । ५ । ३ । ४३ । “अधिकरणे विचाले
च ॥”)

विचिः, पुं स्त्री, (वेवेक्ति जलानि पृथगिव करोति ।

विच + “इगुपधात् कित् ।” उणा० ४ । ११९ ।
इन् । स च कित् ।) वीची । तरङ्गः । इत्यमर-
टीकायां भरतः ॥

विचिकित्सा, स्त्री, (विचिकित्सनमिति । वि +

कित + सन् + अः । टाप् ।) सन्देहः । इत्य-
मरः ॥ (यथा, भागवते । ३ । ९ । ३६ ।
“तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितोऽवहिः ।
नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥”)

विचित्रं, क्ली, (विशेषेण चित्रम् ।) कर्व्वुरवर्णः ।

इति शब्दरत्नावली ॥ तद्वति, त्रि । (यथा,
महाभारते । ३ । ५४ । १० ।
“विचित्रमाल्याभरणैर्ब्बलैर्दृश्यैः स्वलङ्कृतैः ॥”)
आश्चर्य्यम् । यथा, --
“विचित्रमिदमाख्यातं भगवन् भवता मम ।
देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥”
इति देवीमाहात्म्यम् ॥
(यथा च, उपदेशशतके । ३३ ।
“दुहिता विदेहभर्त्तुर्द्दाशरथेर्भामिनी सीता ।
वधमाप राक्षसीनां विधेर्व्विचित्रा गति-
र्ब्बोध्या ॥”
पुं, रौच्यमनुपुत्त्रः । यथा, मार्कण्डेये । ९४ । ३१ ।
“चित्रसेनो विचित्रश्च नयतिर्निर्भयो दृढः ।
सुनेत्रः क्षत्त्रबुद्धिश्च सुव्रतश्चैव तत्सुताः ॥”
अर्थालङ्कारविशेषः । यथा, साहित्यदर्पणे ।
१० । ७२२ ।
“विचित्रं तद्विरुद्धस्य कृतिरिष्टफलाय चेत् ।
यथा, --
प्रणमत्युन्नतिहेतोर्जीवनहेतोर्व्विमुञ्चति प्राणान् ।
दुःखीयति सुखहेतोः को मूडः सेवकादन्यः ॥”)

विचित्रकः, पुं, (विविधानि चित्राणि यस्मिन् ।

बहुव्रीहौ कन् ।) भूर्ज्जवृक्षः । इति राज-
निर्घण्टः ॥

विचित्रदेहः, पुं, (विचित्रा देहा यस्य सः ।)

मेघः । इति शब्दचन्द्रिका ॥ आश्चर्य्यशरीरे
नानावर्णदेहे च, त्रि ॥

विचित्रवीर्य्यः, पुं, (विचित्राणि वीर्य्याणि यस्य

सः ।) चन्द्रवंशीयराजविशेषः । स च शान्तनो-
र्दासकन्यायां जातः । तस्य क्षेत्रे सत्यवत्या-
ज्ञया व्यासो धृतराष्ट्रं पाण्डुञ्च जनयामास ।
इति श्रीभागवतमतम् ॥

विचित्रवीर्य्यसूः, स्त्री, (विचित्रवीर्य्यस्य सूः प्रसू-

र्जननी ।) सत्यवती । इति शब्दरत्नावली ॥

विचित्रा, स्त्री, (विचित्रं नानाविधवर्णमस्त्यस्या

इति । अर्श आदित्वादच् । स्त्रियां टाप् ।)
मृगेर्व्वारुः । इति राजनिर्घण्टः ॥

विचित्राङ्गः, त्रि, (विचित्राणि अङ्गानि यस्य ।)

मयूरः । इति शब्दरत्नावली ॥ व्याघ्रः । इति
शब्दचन्द्रिका ॥ आश्चर्य्यशरीरे, त्रि ॥

विचित्रितः, त्रि, (विचित्रमस्य जातमिति ।

विचित्र + इतच् ।) नानावर्णयुक्तः । यथा, --
“आसनं सर्व्वशोभाढ्यं सद्रत्नमणिनिर्म्मितम् ।
विचित्रितञ्च चित्रेण गृह्यतां शोभनं हरे ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८ अध्यायः ॥

विची, स्त्री, (विचि + कृदिकारादिति ङीष् ।)

तरङ्गः । इति द्विरूपकोषः ॥

विचेताः, [स्] त्रि, (विगतं विरुद्धं वा चेतो

यस्य ।) विगतचित्तः । (यथा, भागवते । ६ ।
११ । ६ ।
“एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् ।
व्यनदत् सुमहाप्राणो येन लोका विचेतसः ॥”)
विरुद्धचित्तः । दुष्टचित्तः ॥ तत्पर्य्यायः ।
दुर्म्मनाः २ अन्तर्म्मनाः ३ विमनाः ४ । इति
हेमचन्द्रः ॥ (यथा, महाभारते । ३ । ४९ । १७ ।
“ये चास्य सचिवा मन्दाः कर्णसौवलका-
दयः ।
ते तस्य भूयसो दोषान् वर्द्धयन्ति वितेचतः ॥” * ॥
विशिष्टं चेतो यस्मादिति । विशिष्टज्ञानहेतु-
भूतः । यथा, ऋग्वेदे । १ । ८३ । १ ।
“तमित् पृणक्षि वसुना भवीयसा
सिन्धुमापो यथाभितो विचेतसः ॥”
“विचेतसः विशिष्टज्ञानहेतुभूता आपो यथा
अभितः सर्व्वासु दिक्षु सिन्धुं समुद्रं पूरयन्ति
तद्वत् ।” इति तद्भाष्ये सायणः ॥ * ॥ विशिष्टं
चेतो यस्येति । विशिष्टज्ञानः । यथा, ऋग्-
वेदे । १ । ४५ । २ ।
“श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः ॥”
“हे अग्ने विचेतसो विशिष्टप्रज्ञाना देवाः ।”
इति तद्भाष्ये सायणः ॥)

विचेष्टितः, त्रि, (विशेषेण चेष्टितं गतिर्यस्य ।)

विगतः । (विशेषेण चेष्टितः ।) ईहितः । इति
मेदिन्यां चेष्टितशब्दार्थदर्शनात् ॥ (विगतं
चेष्टितमस्येति वाक्ये चेष्टाशून्यश्च ॥ * ॥ क्ली, वि
+ चेष्ट + भावे क्तः । विशेषेण चेष्टा । यथा,
भागवते । १ । ५ । १३ ।
“उरुक्रमस्याखिलबन्धमुक्तये
समाधिनानुस्मर तद्विचेष्टितम् ॥”)

विच्छ, क त्विषि । इति कविकल्पद्रुमः (चुरा०-

पर०-अक०-सेट् ।) क, विच्छयति । त्विषि
दीप्तौ । इति दुर्गादासः ॥

विच्छ, श गतौ । इति कविकल्पद्रुमः ॥ (तुदा०-

पर०-सक०-सेट् ।) विच्छायति विच्छायते
आयन्तत्वादुभयमिति वोपदेवः । पक्षे विच्छति ।
श, विच्छती विच्छन्ती । इति दुर्गादासः ॥

विच्छन्दकः, पुं, ईश्वरसद्मप्रभेदः । इत्यमरः ॥

विशिष्टश्छन्दोऽभिप्रायोऽत्र विच्छन्दकः । किंवा
विशिष्टेच्छानिर्म्मितो विच्छन्दकः ढघे कादिति
कः । एवं लक्षणमुपन्यस्तं साञ्झेन । यथा, --
“उपर्य्युपरि यद्गेहं तद्विच्छन्दकसंज्ञकम् ॥”
इति भरतः ॥

विच्छर्द्दकः, पुं, विच्छन्दकः । इत्यमरटीकायां

रायमुकुटः ॥

विच्छायं, क्ली, पक्षिणां छाया । इत्यमरः ॥

समासे षष्ठ्यन्तात् परा च्छाया क्लीवे स्यात् ।
सा चेत् बहूनां सम्बन्धिनी स्यात् । स्वयमुदा-
हरति । वीनां पक्षिणां चाया विच्छायम् ।
इत्यमरटीकायां भरतः ॥ (यत्तु भागवते ।
१० । १२ । ८ ।
“विच्छायाभिः प्रधावन्तो गच्छन्तः साधु
हंसकैः ॥”
इति दृश्यते तत्तु वेः पक्षिणश्चाया विच्छाया
तत एकशेषद्बन्द्वे कृते विच्छायास्ताभिर्विच्छाया-
भिरिति सिद्धं स्यादिति सुधीभिर्विभाव्यम् ॥ * ॥
विगता च्छाया यस्य ।) छायारहिते, त्रि ॥
(विगता च्छाया कान्तिर्य्यस्य । कान्तिरहिते च
त्रि । यथा, भागवते । १ । १४ । २४ ।
“विलोक्योद्विग्नहृदयो विच्छायमनुजं नृपः ।
पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम् ॥”)

विच्छायः, पुं, (विशिष्टा छाया कान्तिर्यस्य ।) मणिः ।

इति यान्तवर्गे छायाशब्दटीकायां भरतः ॥

विच्छित्तिः, स्त्री, (वि + छिद् + क्तिन् ।) अङ्ग-

रागः । विच्छेदः ॥ (यथा, कामन्दकीयनीति-
सारे । १४ । ४४ ।
“लोभो धर्ग्मक्रियालोपः कर्म्मणामप्रवर्त्तनम् ।
सत्समागमविच्छित्तिरसद्भिः सह वर्त्तनम् ॥”)
हारभेदः । इति मेदिनी । ते, १८५ ॥ छेदः ।
विनाशः । इति त्रिकाण्डशेषः ॥ (यथा, बृहत्-
संहितायाम् । १२ । ६ ।
“दिनकररथमार्गविच्छित्तयेऽभ्युद्यतं यच्चल-
शृङ्गम् ॥”)
अङ्गहारः । गेहावधि । इति हेमचन्द्रः ॥
(वैचित्र्यम् । यथा, साहित्यदर्पणे । १० । ७११ ।
“अनुमानन्तु विच्छित्या ज्ञानं साध्यस्य साध-
नात् ॥”
स्त्रीणां स्वाभाविकालङ्कारविशेषः ।) यथा, --
“आकल्पकल्पनाल्पापि विच्छित्तिः कान्तिपोष-
कृत् ॥”
इत्युज्ज्वलनीलमणिः ॥
(यथा च साहित्यदर्पणे । ३ । १३८ ।
“स्तोकाप्याकल्परचणा विच्छित्तिः कान्ति-
पोषकृत् ॥”)

विच्छिन्नः, त्रि, (वि + छिद् + क्तः ।) समालब्धः ।

विभक्तः । इति मेदिनी । ने, १३४ ॥ (यथा,
शाकुन्तले १ अङ्के ।
“यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदन्तर्व्विच्छिन्नं भवति कृतसन्धानमिव तत् ।
प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो-
र्न मे पार्श्वे किञ्चित् क्षणमपि न दूरे रथ-
जवात् ॥”)
कुटिलः । इति हेमचन्द्रः ॥
पृष्ठ ४/३८०

विच्छेदः, पुं, (वि + छिद् + घञ् ।) वियोगः ।

विरहः । भेदः । यथा, ब्रह्मवैवर्त्ते गणपतिखण्डे ।
“कान्तायाः कान्तविच्छेदो मरणादति-
रिच्यते ॥”
(लोपः । यथा, रघुवंशे । १ । ६६ ।
“नूनं मत्तः परं वंश्याः पिण्डविच्छेददर्शिनः ।
न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ॥”)

विच्युतः, त्रि, विगतः । विपूर्व्वच्युधातोः क्तप्रत्ययेन

निष्पन्नः । विक्षरितः । विपूर्ब्बच्युतधातोः कप्र-
त्ययेन निष्पन्नः ॥ (यथा, भागवते । ८ । १२ । २१ ।

विच्युतिः, स्त्री, (वि + च्यु + क्तिन् ।) वियोगः ।

यथा, --
“सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्व्विन्नमानसः ।
ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् ॥”
इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥

विज, इर् लि ञ औ वेके । इति कविकल्पद्रुमः ॥

(अदा०-ह्वा०-उभ०-अक०-अनिट् ।) वेक
इति विचिर्लि धौ ञ पृथक्त्वे इत्यस्य घञि
रूपम् । इर्, अविजत् अवैक्षीत् । लि ञ,
वेवेक्ति वेविक्ते मूर्खात् पण्डितः कृथक् स्यादि-
त्यर्थः । औ, वेक्ता । इति दुर्गादासः ॥

विज, ई ओ ध भीकम्पे । इति कविकल्पद्रुमः ॥

(रुधा०-पर०-अक०-सेट् । अनिड्निष्ठः ।)
ई ओ, विग्नः । ध, विनक्ति । इति दुर्गादासः ॥

विज, ङ श ई ओ भीकम्पे । इति कविकल्पद्रुमः ॥

(तुदा०-आत्म०-अक०-सेट् । निष्ठायामनिट् ।)
ङ श, विजते । ई ओ, विग्नः । द्बावर्थौ । इति
दुर्गादासः ॥

विजनः, त्रि, (विगतो जनो यस्मात् ।) निर्ज्जनः ।

तत्पर्य्यायः । विविक्तः २ छन्नः ३ निःशलाकः ४
रहः ५ उपांशु ६ । इत्यमरः ॥ (यथा, महा-
भारते । १ । १५२ । १५ ।
“ततो भीमो वनं घोरं प्रविश्य विजनं महत् ।
न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह ॥”)

विजननं, क्ली, (वि + जन + ल्युट् ।) प्रसवः ।

इति हेमचन्द्रः ॥

विजपिलं, क्ली, पङ्कः । यथा, --

“पिच्छलं स्यात् विजपिलं पङ्कः शादो निष-
द्वरः ॥”
इति हलायुधः ॥

विजन्मा, [न्] त्रि, (विरुद्धं जन्म यस्य ।) जारजः ।

विरुद्धजन्मविशिष्टः । इति लोकप्रसिद्धः ॥
(पुं, वर्णसङ्करजातिविशेषः । यथा, मनुः ।
१० । २३ ।
“वैश्यात् तु जायते व्रात्यात् मुधन्वाचार्य्य एव च ।
कारूपश्च विजन्मा च मैत्रः सात्वत एव च ॥”)

विजयः, पुं, (वि + जि + भावे अच् ।) जयः ।

इत्यमरः ॥ (यथा, मनौ । १० । ११९ ।
“स्वधर्म्मो विजयस्तस्य नाहवे स्यात् पराङ्मुखः ।
शस्त्रेण वैश्यान् रक्षित्वा धर्म्मसंहारयेद्वलिम् ॥”)
अर्ज्जुनः । इति मेदिनी । ये, १०४ ॥ (यथा,
महाभारते । ४ । ४२ । १४ ।
“अभिप्रयामि संग्रामे यदहं युद्धदुर्म्मदान् ।
नाजित्वा विनिवर्त्तामि तेन मां विजयं विदुः ॥”
यथा च विख्यातविजयनाटके । २ ।
“इतो भीमः क्रूरो नृपतिसहजन्मानमवधीत्
इतः क्रुद्धो वत्सं व्यथयति शरौघेण विजयः ।
न मे चेतःस्थैर्य्यं द्रढयति सखे कुत्र गमनं
विधेयं तद्ब्रूहि त्वमसि सदसद्बाक्यविषयः ॥”)
वृत्तार्हत्पिता । जिनबलदेवः । विमानः । इति
हेमचन्द्रः ॥ यमः । इति शब्दचन्द्रिका ॥
कल्किपुत्त्रः । यथा, --
“ततः कल्किश्च पद्मायां जयो विजय एव च ।
द्वौ पुत्त्रौ जनयामास लोकख्यातौ महाबलौ ॥”
इति श्रीकल्किपुराणे १३ अध्यायः ॥
भैरववंशीयकल्पराजपुत्त्रः । स काशीराजः
खाण्डववनकर्त्ता च । यथा, --
“सुमतेरभवत् कल्पः सुतः सत्यस्य डिण्डिमः ।
विरूपस्याभवद्गाधिर्गाधेर्म्मित्रोऽभवत् सुतः ॥
तेषां कल्पोऽभवद्राजा कल्पात्तु विजयोऽभवत् ॥
यो विजित्य क्षितिं सर्व्वां पार्थिवान् भूरितेजसा ।
शक्रस्यानुमते चक्रे खाण्डवं शतयोजनम् ॥
यत् सव्यसाची ह्यदहत् पाण्डुपुत्त्रः प्रताप-
वान् ।
आवहन् परमां प्रीतिं ज्वलनस्य महात्मनः ॥”
इति कालिकापुराणे भैरववंशानुकीर्त्तनम् ९०
अध्यायः ॥ विष्ण्वनुचरविशेषः । यथा । विष्ण्वनु-
चराश्चण्डप्रचण्डजयविजयादयः । इति पुंलिङ्ग-
संग्रहे भरतः ॥

विजयकुञ्जरः, पुं, (विजयाय यः कुञ्जरः ।) राज-

वाह्यहस्ती । इति त्रिकाण्डशेषः ॥

विजयच्छन्दः, पुं, (विजयस्य छन्दो यस्मात् ।)

पञ्चशतमौक्तिकहारः । इति हेमचन्द्रः ॥
(यथा, बृहत्संहितायाम् । ८१ । ३१ ।
“सुरभूषणं लतानां सहस्रमष्टोत्तरं चतुर्हस्तम् ।
इन्द्रच्छन्दो नाम्ना विजयच्छन्दस्तदर्धेन ॥”)

विजयनन्दनः, पुं, इक्ष्वाकुवंशजराजविशेषः । तत्-

पर्य्यायः । जयः २ । इति हेमचन्द्रः ॥

विजयमर्द्दलः, पुं, (विजयाय मर्द्दलः ।) ढक्का ।

इति त्रिकाण्डशेषः ॥ जयढाक इति भाषा ॥

विजया, स्त्री, तिथिविशेषः । सा विजयादशमीति

ख्याता । तत्कृत्यं दुर्गाशब्दे द्रष्टव्यम् । उमा-
सखी । इति मेदिनी । ये, ४० ॥ सा तु गोतम-
कन्या । नथा, --
“तमागतां सती दृष्ट्वा जयामेकामुवाच ह ।
किमर्थं विजया नागाज्जयन्ती चापराजिता ॥
सा देव्या वचनं श्रुत्वा उवाच परमेश्वरीम् ॥
गता निमन्त्रिताः सर्व्वा मखे मातामहस्य ताः ।
समं पित्रा गौतमेन मात्रा चाप्यनुराधया ॥”
इति वामनपुराणे ४ अध्यायः ॥
कालिकापुराणे १७ अध्यायेऽप्येवम् ॥ * ॥ विश्वा-
मित्रोपासितविद्याविशेषः । यथा, --
“विद्यामथैनं विजयां जयाञ्च
रक्षोगणं क्षिप्नुमविक्षतात्मा ।
अध्यापिपत् गाधिसुतो यथाव-
न्निघातयिष्यन् युधि यातुधानान् ॥”
इति भट्टिः । २ । २१ ॥ * ॥
दुर्गा । इति हेमचन्द्रः ॥ तथा च ।
“विजित्य पद्मनामानं दैत्यराजं महाबलम् ।
विजया तेन सा देवी लोके चैवापराजिता ॥”
इति देवीपुराणे ४५ अध्यायः ॥ * ॥
यमभार्य्या । हरीतकी । इति जटाधरः ॥
वचा । इति रत्नमाला ॥ जयन्ती । शेफा-
लिका । मञ्जिष्ठा । शमीभेदः । अग्निमन्थः ।
इति राजनिर्घण्टः ॥ मादकद्रव्यविशेषः । भाङ्
इति सिद्धि इति च भाषा । तत्पर्य्यायः ।
त्रैलोक्यविजया २ भङ्गा ३ इन्द्रासनम् ४ जया
५ । इति शब्दचन्द्रिका ॥ वीरपत्रा ६ गञ्जा ७
चपला ८ अजया ९ आनन्दा १० हर्षिणी ११ ।
अस्या गुणाः । कटुत्वम् । कषायत्वम् । उष्ण-
त्वम् । तिक्तत्वम् । वातकफापहत्वम् । संग्रा-
हित्वम् । वाक्प्रदत्वम् । बल्यत्वम् । मेधा-
कारित्वम् । श्रेष्ठदीपनत्वञ्च । इति राज-
निर्घण्टः ॥ अपि च ।
“भङ्गा गञ्जा मातुलानी मादिनी विजया
जया ।
भङ्गा कफहरी तिक्ता ग्राहिणी पाचनी लघुः ।
तीक्ष्णोष्णा पित्तला मोहमदवाग्वह्निवर्द्धिनी ॥”
इति भावप्रकाशः ॥
अन्यच्च ।
“शक्राशनं तु तीक्ष्णोष्णं मोहकृत् कुष्ठनाश-
नम् ।
बलमेधाग्निकृत् श्लेष्मदोषहारि रसायनम् ॥
जाता मन्दरमन्थनाज्जलनिधौ पीयूषरूपा पुरा
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया ।
लोकानां हितकाम्यया क्षितितले प्राप्ता नरैः
कामदा
सर्व्वातङ्कविनाशहर्षजननी यैः सेविता
सर्व्वदा ॥”
इति राजवल्लभः ॥ * ॥
अष्टमहाद्वादश्यन्तर्गतद्वादशीविशेषः । यथा,
अथ विजयाव्रतम् । ब्रह्मपुराणे ।
“यदा तु शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् ।
तदा सा तु महापुण्या द्बादशी विजया स्मृता ॥
तस्यां स्नातः सर्व्वर्तीर्थे स्नातो भवति मानवः ।
संपूज्य वर्षपूजायाः सकलं फलमश्नुते ॥
एकजप्यात् सहस्रस्य जप्तस्याप्नोति सत् फलम् ।
दानं सहस्रगुणितं तथा वै विप्रभोजनम् ॥
होमस्तत्रोपवासश्च सहस्रगुणितो भवेत् ॥” * ॥
अथ व्रतविधिः ।
“आदौ गुरुं नमस्कृत्य ततः सङ्कल्पमाचरेत् ।
शरशार्ङ्गधरं देवं सौवर्णं रचयेत्त्वराम् ॥”
सङ्कल्पमन्त्रः ।
“द्वादश्याहं निराहारः स्थित्वाहमपरेऽहनि ।
भोक्ष्ये त्रिविक्रमानन्त शरणं मे भवाच्युत ॥
सोपवीतन्तु कलसं पूर्ब्बवत् स्थापयेद्व्रती ।
पृष्ठ ४/३८१
पात्रं तदुपरि न्यस्येत्ताम्रं वैणवमेव वा ॥
तत्रोपवेश्य स स्नाप्य देवं विशदचन्दनैः ।
आलिप्य शुभ्रं वसनं दद्याच्छत्रञ्च पादुके ॥
वासुदेवायेति शिरः श्रीधरायेति वै मुखम् ।
कृष्णायेति च कण्ठं वै वक्षः श्रीपतये इति ॥
शस्त्रास्त्रधारिणे बाहू कक्षे च व्यापकाय वै ।
कवीशायोदरं मेढ्रं त्रैलोक्यजननाय च ॥
जघनं चार्च्चयेद्विद्वान् सर्व्वाधिपतये इति ।
सर्व्वात्मने इति पदावेवमङ्गानि पूजयेत् ॥
शङ्खचक्रगदापद्मशार्ङ्गशरविभूषितम् ।
गृहाणार्ध्यं मया दत्तं शार्ङ्गपाणे ! नमोऽस्तु ते ॥
इत्यर्घ्यं पूर्ब्बवत् कृत्वा धूपदीपौ समर्प्य च ।
घृतपक्वप्रधानानि नैवेद्यानि निवेदयेत् ॥
ताम्बूलादीनि दत्त्वाथ कृत्वा जागरणं निशि ।
प्रातःस्नात्वार्च्चयित्वेशं पुष्पाञ्जलिमथार्च्चयेत् ॥
नमस्ते अस्तु गोविन्द बुध श्रवणसंज्ञक ।
अघोरं चाक्षयं कृत्वा सर्व्वसौख्यप्रदो भव ॥
इति प्रार्थ्य ततः सर्व्वं दत्त्वा चार्घ्यं प्रतोष्य
हि ।
शक्त्या विप्रान् भोजयित्वा सुखं पारणमाचरेत् ॥
भाद्रे मासि बुधस्याह्नि यदि स्याद्विजयाव्रतम् ।
तदा सर्व्वव्रतेभ्योऽस्य माहात्म्यमतिरिच्यते ॥”
इति श्रीहरिभक्तिविलासे १३ विलासः ॥
(सहदेवपत्नी । यथा, महाभारते । १ । ९५ । ८० ।
“सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामो-
पयेमे मद्रराजस्य द्युतिमतो दुहितरं तस्यां
पुत्त्रमजनयत् सुहोत्रं नाम ॥” * ॥
पुरुवंशीयभूमन्योः पत्नी । यथा, तत्रैव । १ ।
९५ । ३३ ।
“भूमन्युः खलु दाशार्हीमुपयेमे विजयां नाम
तस्यामस्य जज्ञे सुहोत्रः ॥”)

विजयासप्तमी, (विजयाख्या सप्तमी ।) रविवारे

शुक्लपक्षीया सप्तमी । यथा, --
“शुक्लपक्षस्य सप्तम्यां सूर्य्यवारो यदा भवेत् ।
सप्तमी विजया नाम तत्र दत्तं महाफलम् ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
अथ विजयोत्सवविधिः ।
“रथमारोप्य देवेशं सर्व्वालङ्कारशोभितम् ।
सासितूणधनुर्ब्बाणपाणिं नक्तञ्चरान्तकम् ॥
स्वलीलया जगत्त्रातुमाविर्भूतं रघूद्वहम् ।
राजोपचारैः श्रीरामं शमीवृक्षतलं नयेत् ॥
सीताकान्तं शमीयुक्तं भक्तानामभयङ्करम् ।
अर्च्चयित्वा शमीवृक्षमर्च्चयेद्विजयाप्तये ॥”
तत्र मन्त्रः ।
“शमी शमयते पापं शमी लोहितकण्टका ।
धरित्र्यर्ज्जुनबाणानां रामस्य प्रियवादिनी ॥
करिष्यमाणा या यात्रा यथाकालं सुखं मया ।
तत्र निर्व्विघ्नकर्त्ती त्वं भव श्रीरामपूजिता ॥
गृहीत्वा साक्षतामार्द्रां शमीमूलगतां मृदम् ।
गीतवादित्रनिर्घोषैस्ततो देवं गृहं नयेत् ॥
कैश्चिदृक्षैस्तत्र भाव्यं कैश्चिद्भाव्यञ्च वानरैः ।
कैश्चिद्रक्तमुखैर्भाव्यं कोशलेन्द्रस्य तुष्टये ॥
निर्जता राक्षसा दैत्या वैरिणो जगतीतले ।
रामराज्यं रामराज्यं रामराज्यमिति ब्रुवन् ॥
आनीय स्थापयेद्देवं निजसिंहासने सुखम् ।
ततो नीराज्य देवेशं प्रणमेद्दण्डवद्भुवि ॥
महाप्रसादवस्त्रादि धारयेद्वैष्णवैः सह ।
इति श्रीविष्णुधर्म्मोक्तानुसारेण व्यलेख्ययम् ॥
विधिः श्रीरामविजयोत्सवस्योत्सवकृत् सताम् ।
सीता दृष्टेति हनुमद्वाक्यं श्रुत्वाकरोत्प्रभुः ॥
विजयं वानरैः सार्द्धं वासरेऽस्मिन् शमी-
तलात् ॥”
इति श्रीहरिभक्तिविलासे १५ विलासः ॥

विजयिनं, त्रि, विजिलम् । इत्यमरटीकायां राय-

मुकुटः ॥

विजयी, [न्] त्रि, (विशेषेण जेतुं शीलमस्य ।

वि + जि + “जिदृक्षिविश्रीति ।” ३ । २ । १५७ ।
इति इनिः ।) जययुक्तः । यथा, --
“वज्रपञ्जरनामेदं यो रामकवचं पठेत् ।
स चिरायुः सुखी पुत्त्री विनयी विजयी
भवेत् ॥”
इति तन्त्रसारः ॥
(पुं, अर्ज्जुनः । यथा, --
“अर्ज्जुनः फाल्गुनी जिष्णुः किरीटी श्वेतवा-
हनः ।
वीभत्सुर्व्विजयी कृष्णः सव्यसाची धनञ्जयः ॥
एतान्यर्ज्जुननामानि प्रातरुत्थाय यः पठेत् ।
उद्यतेष्वपि शस्त्रेषु हन्ता तस्य न विद्यते ॥”
इति सर्व्वजनप्रसिद्धम् ॥)

विजयोत्सवः, पुं, (विजयायामुत्सवः ।) आश्विन-

शुक्लदशमीविहितभगवदुत्सवविशेषः । यथा,
“आश्विनस्य सिते पक्षे दशम्यां विजयोत्सवः ।
कर्त्तव्यो वैष्णवैः सार्द्धं सर्व्वत्र विजयार्थिना ॥”
अथ विजयोत्सवविधिः ।
“रथमारोप्य देवेशं सर्व्वालङ्कारशोभितम् ।
सासितूणधनुर्व्वाणपाणिं नक्तञ्चरान्तकम् ॥
स्वलीलया जगत्त्रातुमाविर्भूतं रघूद्वहम् ।
राजोपचारैः श्रीरामं शमीवृक्षतलं नयेत् ॥
सीताकान्तं शमीयुक्तं भक्तानामभयङ्करम् ।
अर्च्चयित्वा शमीवृक्षमर्च्चयेद्बिजयाप्तये ॥”
तत्र मन्त्रः ।
“शमी शमयते पापं शमी लोहितकण्टका ।
धरित्र्यर्ज्जुनबाणानां रामस्य प्रियवादिनी ॥
करिष्यमाणा या यात्रा यथाकालं सुखं मया ।
तत्र निर्व्विघ्नकर्त्री त्वं भव श्रीरामपूजिता ॥”
इति ॥
“गृहीत्वा साक्षतामार्द्रां शमीमूलगतां मृदम् ।
गीतवादित्रनिर्घोषैस्ततो देवं गृहं नयेत् ॥
कैश्चिदृक्षैस्तत्र भाव्यं कैश्चित् भाव्यञ्च वानरैः ।
कैश्चिद्रक्तमुखैर्भाव्यं कोशलेन्द्रस्य तुष्टये ॥
निर्ज्जिता राक्षसा दैत्या वैरिणो जगतीतले ।
रामराज्यं रामराज्यं रामराज्यमिति ब्रुवन् ॥
आनीय स्थापयेद्देवं निजसिंहासने सुखम् ।
ततो नीराज्य देवेशं प्रणमेद्दण्डवत् भुवि ।
महाप्रसादवस्त्रादि धारयेत् वैष्णवैः सह ॥ * ॥
इति श्रीविष्णुधर्म्मोक्तानुसारेण व्यलेख्ययम् ॥
विधिः श्रीरामविजयोत्सवस्योत्सवकृत् सताम् ॥
सीता दृष्टेति हनुमद्वाक्यं श्रुत्वाकरोत् प्रभुः ।
विजयं वानरैः सार्द्धं वासरेऽस्मिन् शमीतलात् ॥”
इति श्रीहरिभक्तिविलासे १५ विलासः ॥

विजरः, त्रि, जरारहितः । विगता जरा यस्येति

बहुव्रीहिसमासनिष्पन्नः ॥ (यथा, कथासरित्-
सागरे । ४१ । ११ ।
“यः सर्व्वौषधियुक्तिज्ञश्चक्रे सिद्धरसायनः ।
आत्मानं तञ्च राजानं विजरं चिरजीवितम् ॥”)

विजलं, त्रि, विजिलम् । इति हेमचन्द्रः ॥ (विगतं

जलं यस्मात् ।) निर्जलञ्च ॥ (यथा, बृहत्-
संहितायाम् । १९ । २० ।
“नष्टर्कचन्द्रकिरणातिरजोऽवनद्धा
तोयाशयाश्च विजलाः सरितोऽपि तन्व्यः ॥”)

विजल्पः, पुं, (विशेषेण जल्पनमिति । वि + जल्प +

घञ् ।) वाक्यविशेषः । यथा, --
“व्यक्तयासूयया गूढमानमुद्रान्तरालया ।
अघद्विषि कटाक्षोक्तिर्विजल्पो विदुषां मतः ॥”
इत्युज्ज्वलनीलमणिः ॥

विजातः, त्रि, (विरुद्धं जातंजन्म यस्य ।) विजन्मा ।

इति लोकप्रसिद्धः ॥

विजाता, स्त्री, (विशेषेण जातः पुत्त्रो यस्याः ।)

जातापत्या । यथा, --
“विजाता च प्रजाता च जातापत्या प्रसू-
तिका ॥”
इति हेमचन्द्रः ॥

विजातीयः, त्रि, (विभिन्नां जातिमर्हतीति ।

विजाति + छः ।) विभिन्नधर्म्माक्रान्तः । यथा,
“प्रायश्चित्ताद्बिजातीयात् तादृक्पापविना-
शनम् ॥”
इति प्रायश्चित्ततत्त्वम् ॥
(यथा च साहित्यदर्पणे ७ परिच्छेदे ।
“एवं पददोषसजातीया वाक्ये दोषा उक्ताः
सम्प्रति तद्बिजातीया उच्यन्ते ॥”) विशेष-
जातिविशिष्टः । यथा, --
“प्रवाहो नादिमानेव न विजात्येकशक्तिमान् ।
तत्त्वे यत्नवता भाव्यमन्वयव्यतिरेकयोः ॥”
एष कार्य्यकारणप्रवाहो नादिमान् अनादिः ।
विजातीयेषु तृणादिषु एकशक्तिमान् न प्रवाहः ।
अन्वयव्यतिरेकयोस्तत्त्वे नियतत्वे नियतात्व-
निर्व्वाह्ये यत्नवता भाव्यं यत्नः करणीयः वैजात्य-
मिति भावः । वह्निसामान्यं प्रति विजाती-
योष्णस्पर्शवत्तेज एव कारणम् । इति हरि-
दासीककुसुमाञ्जलिटीका ॥

विजिगीषः, त्रि, (विजिगीषा अस्त्यस्येति । अश-

आदित्वादच् ।) जयेच्छुः । इति सिद्धान्त-
कौमुदी ॥

विजिगीषा, स्त्री, (विजेतुमिच्छा । वि + जि +

सन् + अः । स्त्रियां टाप् ।) स्वोदरपूरणाशक्ति-
निमित्तकनिन्दात्यागेच्छा । इत्यमरटीकायां
पृष्ठ ४/३८२
रमानाथः ॥ व्यवहारः । कश्चित् प्रकर्षः ।
इति तत्रैव भरतः ॥ विजयेच्छा च ॥ (यथा,
कथासरित्सागरे । ३६ । ७१ ।
“द्वारे विधिमिवान्यं तत्तद्रक्षा विजिगीषया ।
आगतं पुरुषं कञ्चिद्ददर्शाश्चर्य्यदायकम् ॥”)

विजिगीषाविवर्ज्जितः, त्रि, (विजिगीषया विव-

र्ज्जितः ।) केवलमुदराधीनः । तत्पर्य्यायः ।
आद्यूनः २ औदरिकः ३ । इत्यमरः ॥ विजि-
गीषा व्यवहारः कश्चित् प्रकर्षो वा तेन विव-
र्ज्जितो विहीनो यः केवलमुदराधीनः तत्र
द्वाविमौ तर्त्तेते इत्यर्थः । जिगीषा जेतुमि-
च्छायां व्यवहारप्रकर्षयोः । इति मेदिनी ॥
तत्र स्वोदरपूरणाशक्तिनिमित्तकनिन्दात्यागेच्छा
विजिगीषा तया रहिते द्वयमिति रमानाथः ।
इति तट्टीकायां भरतः ॥

विजिगीषुः, त्रि, (विजेतुमिच्छुः । वि + जि +

सन् + “सनाशंसभिक्ष उः ।” ३ । २ । १६८ ।
इति उः ।) जयेच्छाशीलः । यथा, --
“जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः ॥”
इति शब्दमाला ॥
(यथा, कामन्दकीयनीतिसारे । ८ । ३ ।
“रोचते सर्व्वभूतेभ्यः शरीराखण्डमण्डलः ।
सम्पूर्णमण्डलस्तस्माद्बिजिगीषुः सदा भवेत् ॥”)

विजितः, त्रि, (विशेषेण जितः ।) पराजितः ।

यथा, --
“पथ्याशिनां शीलवतां नराणां
सद्वृत्तिभाजां विजितेन्द्रियाणाम् ।
एवं विधानामिदमायुरत्र
चिन्त्यं सदा वृद्धमुनिप्रवादः ॥”
इति मलमासतत्त्वम् ॥

विजिता, [ऋ] त्रि, (विज + तृच् ।) पृथक् ।

भीतः । कम्पितः । रति विजधात्वर्थदर्शनात् ॥

विजितिः, स्त्री, (वि + जि + क्तिन् ।) विजयः ।

यथा, --
“क्षितिविजितिस्थितिविहितिव्रतरतयः पर-
गतयः ।
उरुरुरुधुर्गुरु दुधुवुर्युधि कुरवः स्वमरिकुलम् ॥”
इति दण्डी ॥

विजिनं, त्रि, विजिलम् । इत्यमरटीकायां राय-

मुकुटः ॥

विजिलं, त्रि, ईषत् सरसव्यञ्जनादि । तत्पर्य्यायः ।

पिच्छिलम् २ । इत्यमरः ॥ विजयिनम् ३
विजिनम् ४ विज्जलम् ५ उज्जलम् ६ लाल-
मीकम् ७ । इति वाचस्पतिः ॥ विजिविलम् ८
विजलम् ९ । इति हेमचन्द्रः ॥
“पाकरूपरसासक्ते व्यञ्जने तु भवेत् त्रयम् ।
तैलपाकसुसंस्कारे प्रायस्तमुपसंस्कृतम् ।
पिच्छिलं लालसीकञ्च विजिनं विज्जिलञ्च तत् ॥”
इति शब्दरत्नावली ॥

विजिविलं, त्रि, विजिलम् । इति हेमचन्द्रः ॥

विजिह्मः, त्रि, (विशेषेण जिह्मः ।) वक्रः ।

कुटिलः । इति केचित् । (यथा, रधुः । १९ । ३५ ।
“शिल्पकार्य्य उभयेन वेजिता-
स्तं विजिह्मनयना व्यलोभयन् ॥”)

विजुलः, पुं, शाल्मलीकन्दः । इति राजनिर्घण्टः ॥

विजृम्भणं, क्ली, (वि + जृम्भ + ल्युट् ।) जृम्भणम् ।

(यथा, सुश्रुते । ५ । २ ।
“निद्रागुरुत्वञ्च विजृम्भणञ्च
विश्लेषहर्षावथवाङ्गमर्द्दः ॥”)
विकसनम् । इति केचित् ॥ (यथा, रघुः ।
१६ । ४७ ।
“वनेषु सायन्तनमल्लिकानां
विजृम्भणोद्गन्धिषु कुट्मलेषु ॥”
कम्पनम् । सङ्कोचः । यथा, भागवते । ७ । ५ । ४९ ।
“जितं त्वयैकेन जगत्त्रयं भ्रुवो-
र्विजृम्भणत्रस्तसमस्तधिष्ण्यपम् ॥”)

विजृम्भितं, क्ली, (वि + जृम्भ + क्तः ।) चेष्टा ।

इति मेदिनी । ते, २१७ ॥ (यथा, कथासरित्-
सागरे । ४ । १३ ।
“अथागत्य समाख्यातं तत्सख्या मन्त्रिबन्धनम् ।
उद्गाढमुपकेशाया नवानङ्गविजृम्भितम् ॥”)

विजृम्भितः, त्रि, (वि + जृम्भ + क्तः ।) विक-

स्वरः । इति मेदिनी । ते, २१७ ॥ यथा,
भागवते । ४ । २१ । ८ ।
“तदादिराजस्य यशो विजृम्भितं
गुणैरशेषैर्गुणवत्सभाजितम् ॥”
व्याप्तः । यथा, रघुः । ७ । ४२ ।
“आवृण्वतो लोचनमार्गमाजौ
रजोऽन्धकारस्य विजृम्भितस्य ॥” * ॥
विजृम्भा सञ्जाता अस्येति । तारकादित्वादि-
तच् ।) जृम्भायुक्तश्च ॥ (यथा, हरिवंशे ।
१८१ । ६ ।
“सशरं सधनुष्कञ्च दृष्ट्वात्मानं विजृम्भितम् ।
ततो ननाद भूतात्मा स्निग्धगम्भीरनिःस्वनः ॥”)

विज्जनं, त्रि, विजिलम् । इत्यमरटीकायां राय-

मुकुटः ॥

विज्जलं, क्ली, बाणम् । यथा, --

“पत्रवाहो विकर्षोऽथ तीरं विज्जलशायके ।
लोहनालस्तु नाराचः प्रसरः काण्डगोचरः ॥”
इति त्रिकाण्डशेषः ॥
त्रि, विजिलम् । इति हेमचन्द्रः ॥ (यथा,
बृहत्संहितायाम् । ५५ । २९ ।
“श्लेष्मातकस्य बीजानि
निष्कुलीकृत्य भावयेत् प्राज्ञः ।
अङ्कोल्लविज्जलाद्भि-
श्छायायां सप्तकृत्वेवम् ॥”)

विज्जिलं, त्रि, विजिलम् । इति शब्दरत्नावली ॥

विज्जुलं, क्ली, त्वचम् । इति राजनिर्घण्टः ॥

विज्जुलिका, स्त्री, जतुका । इति राजनिर्घण्टः ॥

विज्ञः, त्रि, (विशेषेण जानातीति । वि + ज्ञा +

“आतश्चोपसर्गे ।” इति कः ।) प्रवीणः ।
इत्यमरः ॥ (यथा, भागवते । ६ । १६ । ६१ ।
“एवं विपर्य्ययं बुद्धा नृणां विज्ञाभिमानिनाम् ।
आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥”)
अस्य पर्य्यायो निपुणशब्दे द्रष्टव्यः ॥ पण्डितः ।
इति राजनिर्घण्टः ॥ (यथा, नैषधे । ३ । ९६ ।
“विज्ञेन विज्ञाप्यमिदं नरेन्द्रे
तस्मात्त्वयास्मिन् समयं प्रतीक्ष्य ।
आत्यन्तिकासिद्धिविलम्बसिद्ध्योः
कार्य्यस्य कार्य्यस्य शुभा विभाति ॥”)

विज्ञबुद्धिः, स्त्री, जटामांसी । इति शब्दचन्द्रिका ॥

विज्ञातः, त्रि, (वि + ज्ञा + क्तः ।) ख्यातः । इत्य-

मरः ॥ (विदितः । यथा, हरिवंशे । १६५ ।
१७ ।
“विज्ञातोऽसि मया चिह्नैर्विना चक्रं जना-
र्द्दनः ॥”)

विज्ञानं, क्ली, (वि + ज्ञा + ल्युट् ।) ज्ञानम् ।

कर्म्म । इति मेदिनी । ने, ११३ ॥ कार्म्मणम् ।
इति हेमचन्द्रः ॥
“मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्प-
शास्त्रयोः ॥”
इत्यमरः ॥
“विशेषेण सामान्येन चावबोधो मोक्षो मुक्तिः
शिल्पं चित्रादिशास्त्रं व्याकरणादि । मोक्षे
शिल्पे शास्त्रे च या धीः सा ज्ञानं विज्ञानञ्चो-
च्यते एषा विशेषप्रवृत्तिः । अन्यत्र घटपटादौ
या धीः सापि ज्ञानं विज्ञानञ्चोच्यते । एषा
सामान्यप्रवृत्तिः । मोक्षे धीर्ज्ञानं विज्ञानञ्च
यथा । ज्ञानान्मुक्तिरिति । सा याचिता च
विज्ञानं तुष्टा ऋद्धिं प्रयच्छति इति । अन्यत्र
यथा । ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे
इति । घटत्वप्रकारकज्ञानमिति । ये केचित्
प्राणिनो लोके सर्व्वे विज्ञानिनो मता इति ।
ब्रह्मणो नित्यविज्ञानानन्दरूपत्वात् इति । एवं
चित्रज्ञानं व्याकरणज्ञानं घटपटविज्ञानमित्या-
दिकं प्रयुज्यत एव । तद्विगमे गरुत्मदादिशब्द-
वत् गरुत्मच्छब्दो हि गरुडे पक्षिमात्रे च
वर्त्तते । मोक्ष इति निमित्तसप्तमी मोक्षनिमित्तं
शिल्पशास्त्रयोर्धोर्ज्ञानमुच्यते । तन्निमित्ततो-
ऽन्यनिमित्तं या तयोर्धीः सा विज्ञानमिति
केचित् । मोक्षविषया मोक्षफला धीर्ज्ञानं
अन्यधीर्व्विज्ञानम् । क्वान्यत्र इत्याह शिल्प-
शास्त्रयोरिति केचित् । अवबोध इत्यध्याहृत्य
मोक्षविषयेऽवबोधो धीर्ज्ञानं अन्यत्र घटपटादि-
विज्ञानं शिल्पशास्त्रविषये विज्ञानमिति
केचित् । जानातेरनट् ज्ञानं विविधं विरूपं वा
ज्ञानं विज्ञानम् ।” इत्यमरटीकायां भरतः ॥ * ॥
तत्तु ब्राह्मणस्य लक्षणविशेषः । यथा, --
“क्षमा दया च विज्ञानं सत्यञ्चैव दमः शमः ।
अध्यात्मनित्यता ज्ञानमेतद्ब्राह्मणलक्षणम् ॥”
ज्ञानविज्ञानयोर्लक्षणं यथा, --
“चतुर्द्दशानां विद्यानां धारणं हि यथार्थतः ।
विज्ञानमितरं विद्याद्येन धर्म्मो विवर्द्धते ॥
अधीत्य विधिवद्विद्यामर्थञ्चैवोपलभ्य तु ।
धर्म्मकार्य्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ॥
यया स देवो भगवान् विद्यते यत्र विद्यते ।
पृष्ठ ४/३८३
साक्षादेव महादेवस्तज्ज्ञानमिति कीर्त्तितम् ॥”
इति कौर्म्मे उपविभागे १४ अध्यायः ॥

विज्ञानपादः, पुं, (विज्ञानमेव पादं लक्ष्यं यस्य ।)

वेदव्यासः । इति केचित् ॥

विज्ञानमयकोषः, पुं, (विज्ञानमयस्तदात्मकः कोष

इवाच्छादकत्वात् ।) ज्ञानेन्द्रियैः सहिता बुद्धिः ।
इति वेदान्तसारः ॥

विज्ञानमातृकः, पुं, (विज्ञानं मातेव यस्य । बहु-

व्रीहौ कन् ।) बुद्धः । इति हेमचन्द्रः ॥

विज्ञानिकः, त्रि, (विज्ञानमस्त्यस्येति । विज्ञान +

ठन् ।) ज्ञानविशिष्टः । विज्ञः । इति वैज्ञानिक-
शब्दटीकायां भरतः ॥

विज्ञापनं, क्ली, (वि + ज्ञा + णिच् + ल्युट् ।) बोध-

नम् । जानान इति भाषा । विपूर्ब्बञ्यन्त-
ज्ञाधातोरनट्प्रत्ययेन निष्पन्नम् ॥ (यथा,
कथासरित्सागरे । ३१ । ५८ ।
“तया विज्ञापनायाहं प्रेषितः स्वीकुरुष्व ताम् ।
युवयोरस्तु योगोऽयं कौमुदीचन्द्रयोरिव ॥” * ॥
स्त्री, वि + ज्ञा + णिच् + युच् । टाप् । विज्ञा-
पना । यथा, रघुः । १७ । ४० ।
“ततः परमभिव्यक्तसौमनस्यनिवेदितैः ।
युयोज पाकाभिमुखैर्भृत्यान् विज्ञापनाफलैः ॥”)

विज्ञाप्तिः, स्त्री, (वि + ज्ञा + णिच् + क्तिन् ।)

विज्ञापनम् । विपूर्ब्बञ्यन्तज्ञाधातोः क्तिप्रत्ययेन
निष्पन्ना ॥ (विकल्पेन ह्रस्वे विज्ञप्तिरपि ॥)

विज्ञेयं, त्रि, (विज्ञातुं योग्यम् । वि + ज्ञा +

“अचो यत् ।” ३ । १ । ९७ । इति यत् ।
“ईद्यति ।” ६ । ४ । ६५ । इति आत ईत् ।)
विज्ञातव्यम् । विज्ञानीयम् । विपूर्ब्बज्ञाधातो-
र्यप्रत्ययेन निष्पन्नम् ॥ (यथा, मनुः । २ । १० ।
“श्रुतिस्तु वेदो विज्ञेयो धर्म्मशास्त्रन्तु वै
स्मृतिः ॥”)

विञ्जामरं, क्ली, चक्षुःशुक्लक्षेत्रम् । इति केचित् ॥

विञ्जोली, स्त्री, पङ्क्तिः । इति त्रिकाण्डशेषः ॥

विट, आक्रोशे । स्वने । इति कविकल्पद्रुमः ॥

(भ्वा०-पर०-सक०-स्वने अक०-सेट् ।) वेटति ।
आक्रोशः । कैश्चिन्न पठ्यते । स्वनः शब्दः ।
इति दुर्गादासः ॥

विटः, पुं, (वेटतीति । विट + कः ।) षिड्गः ।

इत्यमरः ॥ (यथा, भागवते । १० । १३ । २ ।
“सतामयं सारभृतां निसर्गो
यदर्थवाणीश्रुतिचेतसामपि ।
प्रतिक्षणं नव्यवदच्युतस्य यत्
स्त्रिया विटानामिव साधु वार्त्ता ॥”)
कामुकानुचरः । धूर्त्तः । इति भरतः ॥ काम-
तन्द्रकलाकोविदः । इति रसमञ्जरी ॥ पर्व्वत-
विशेषः । लवणभेदः । खदिरविशेषः । मूषिकः ।
इति मेदिनी । टे, २८ ॥ नारङ्गवृक्षः । इति
शब्दमाला ॥

विटङ्कः, पुं क्ली, (विशेषेणटङ्क्यते सौधादिषु इति ।

वि + टङ्क बन्धने + घञ् ।) कपोतपालिका ।
पायवार खोप इति भाषा । इत्यमरः ॥ द्वे
सौधादिषु प्रान्ते काष्ठादिरचिते गृहपक्षि-
स्थाने । कपोतान् पालयतीति कपोतपाली
ढात् षण् इति षण् स्वार्थे कः कपोत इत्युपल-
क्षणं पक्षिमात्रपालिकेति बोध्यम् । वीन्
पक्षिणष्टङ्कयति बध्नाति विटङ्कं टकि क बन्धे
षण् विशेषेण टङ्कयत्यत्रेति वा अल् घञ् वा ।
इति भरतः ॥ (यथा, माघे । ३ । ५५ ।
“रतान्तरे यत्र गृहान्तरेषु
वितर्द्दिनिर्यूहविटङ्कनीडः ।
रुतानि शृण्वन् वयसां गणोऽन्ते-
वासित्वमाप स्फुटमङ्गनानाम् ॥” * ॥
सुन्दरे, त्रि । यथा, भागवते । ३ । १५ । २७ ।
“देवावचक्षत गृहीतगदौ परार्द्द्य-
केयूरकुण्डलकिरीटविटङ्कवेशौ ॥”)

विटङ्ककः, पुं क्ली, (विटङ्क एव । स्वार्थे कन् ।)

विटङ्कः । इति शब्दरत्नावली ॥

विटपः, पुं क्ली, (वेटति शब्दायते इति । विट +

“विटपपिष्टपविशिपोलपाः ।” उणा० ३ । १४५ ।
इति कप्रत्ययेन निपातनात् साधुः ।) शाखा-
पल्लवसमुदायः । तत्पर्य्यायः । विस्तारः २ ।
इत्यमरः ॥ स्तम्बः ३ । इति मेदिनी । पे, २२ ॥
शाखा । (यथा, रघुः । १० । ११ ।
“बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः ।
आविर्भूतमपां मध्ये पारिजातमिवापरम् ॥”)
पल्लवः । इति शब्दरत्नावली ॥ (यथा, ऋतु-
संहारे । १ । २४ ।
“तरुविटपलताग्रालिङ्गनव्याकुलेन
दिशि दिशि परिदग्धा भूमयः पावकेन ॥”)
क्ली, मुष्कवङ्क्षणान्तरम् । यथा, --
“विटपन्तु महाबीज्यमन्तरामुष्कवङ्क्षणम् ॥”
इति हेमचन्द्रः ॥
(यथा, सुश्रुते । ३ । ६ ।
“वङ्क्षणवृषणयोरन्तरे विटपं नाम तत्र षाण्ट्य-
मल्पशुक्रता वा भवति ॥”)

विटपः, पुं, (विटान् पातीति । पा + कः ।) विटा-

धिपः । पारदारिकश्रेष्ठः । इति मेदिनी । पे,
२२ ॥ आदित्यपत्रः । इति राजनिर्घण्टः ॥

विटपी, [न्] पुं, (विटपः शाखादिरस्त्यस्येति ।

विटप + इनिः ।) वृक्षः । इत्यमरः ॥ (यथा,
आर्य्यासप्तशत्याम् । ४८६ ।
“यूथपते तव कश्चिन्नहि मानस्यानुरूप इह
विटपी ।
प्रेरय दिनं निदाघद्राघीयः क्व खलु ते च्छाया ॥”)
वटः । इति राजनिर्घण्ठः ॥ (विटपयुक्ते, त्रि ।
यथा, महाभारते । १ । ४३ । १० ।
“अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम् ।
पलाशिनं शाखिनञ्च तथा विटपिनं पुनः ॥”)

विटप्रियः, पुं, (विटानां प्रियः ।) मुद्गरवृक्षः ।

इति राजनिर्घण्टः ॥

विटमाक्षिकः, पुं, (विटप्रियो माक्षिकः ।) धातु-

विशेषः । तत्पर्य्यायः । ताप्यः २ नदीजः ३
कामारिः ४ तारारिः ५ । इति हेमचन्द्रः ॥

विटलवणं, क्ली, (विटसंज्ञकं लवणम् ।) विड-

लवणम् । इति केचित् ॥

विटिः, स्त्री, (विटतीति । विट् + इन् । स च

कित् ।) पीतचन्दनम् । इति शब्दमाला ॥

विट्, [श्] पुं, (विश् + क्विप् ।) वैश्यः । (यथा,

मनुः । २ । ३६ ।
“गर्भाष्टमेऽब्दे कुर्व्वीत ब्राह्मणस्योपनायनम् ।
गर्भादेकादशे राज्ञो गर्भाच्च द्बादशे विशः ॥”)
मनुजः । इत्यमरः ॥ (यथा, रघुः । १ । ९३ ।
“अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् ।
सूनुः सूनृतवाक् स्रष्टुः विससर्जोदितश्रियम् ॥”)
प्रवेशः । इति विश्वः ॥

विट्, [ष्] स्त्री, (विष व्याप्तौ + क्विप् ।) विष्ठा ।

इत्यमरः ॥ कन्या । इति विट्पतिशब्ददर्श-
नात् ॥ (व्याप्ते, त्रि । यथा, ऋग्वेदे । ८ ।
१९ । ११ ।
“हव्या वा वेविषद्विषः ।”
“विषः व्याप्तान् देवान् वेविषत् प्रापयेत् ।” इति
तद्भाष्ये सायणः ॥)

विट्कारिका, स्त्री, पक्षिविशेषः । तत्पर्य्यायः ।

कुणपी २ गोराटी ३ गोकिराटिका ४ । इति
भूरिप्रयोगः ॥ विट्मारिका ५ । इति हारा-
वली ॥

विट्खदिरः, पुं, (विड्वत् दुर्गन्धः खदिरः ।)

विष्ठावद्दर्गन्धखदिरः । गुयेवावला इति भाषा ॥
तत्पर्य्यायः । अरिमेदः २ । इत्यमरः ॥ हरि-
मेदः ३ असिमेदः ४ । इति शब्दरत्नावली ॥
दरिमेदः ५ कालस्कन्धः ६ अरिमेदकः ७ ।
अस्य गुणाः । कषायत्वम् । उष्णत्वम् । मुख-
दन्तगदास्रकण्डूविषश्लेष्मकृमिकुष्ठव्रणग्रहनाशि-
त्वञ्च । इति भावप्रकाशः ॥ राजनिर्घण्टोक्त-
गुणपर्य्यायौ अरिमेदशब्दे द्रष्टव्यौ ॥

विट्चरः, पुं, (विषि विष्ठायां चरतीति । चर +

टः ।) ग्राम्यशूकरः । इत्यमरः ॥

विट्पतिः, पुं, (विषः कन्यायाः पतिः ।) जामाता ।

इति जटाधरः ॥ (यथा, मनुः । ३ । १४८ ।
“मातामहं मातुलञ्च स्वस्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोज-
येत् ॥” * ॥
वैश्यानां पतिः । यथा, भागवते । ४ । २३ । ३२ ।
“वैश्यः पठन् विट्पतिः स्यात् शूद्रः सत्तमता-
मियात् ॥”
“विशां पश्वादीनां वैश्यादीनां वा पतिः स्यात् ।”
इति तट्टीका ॥)

विट्सारिका, स्त्री, (विट्प्रिया सारिका ।) पक्षि-

विशेषः । इति जटाधरः ॥ गुये सालिक् इति
भाषा ॥

विठरः, पुं, वाग्मी । इति संक्षिप्तसारोणादि-

वृत्तिः ॥

विड, आक्रोशे । इति कविकल्पद्रुमः ॥ (भ्वा०-

पर०-सक०-सेट् ।) वेडति शत्रुं बली । इति
दुर्गादासः ॥
पृष्ठ ४/३८४

विडं, क्ली, (विड आक्रोशे + इगुपधेति कः ।)

लवणविशेषः । विट्लुण इति भाषा ॥ यथा, --
“पाक्यं विडञ्च कृतके द्वयम् ।” इत्यमरः ॥
द्बे समुद्रतीरासन्नभवां लवणमृत्तिकां पाचयित्वा
निष्पादिते लवणे । विट्लवणे । इति केचित् ।
कृतके कृत्रिमे । पाक्यविड्लवणयोर्भेदेऽपि कृत-
कत्वात् ऐक्यमिति स्वामी ॥ पच्यते इति पाक्यम् ।
डु पच ञषौ पाके हसृय्वासोरितिघ्यण् चजोर्घि-
तीति कः पाकेन निष्पादितमिति ष्ण्यो वा ।
वेडति भिनत्ति विडं विडाक्रुशि इजुङत्वात्
कः । इति भरतः ॥ तत्पर्य्यायः । विड्गन्धम् २
काललवणम् ३ विड्लवणम् ४ । इति रत्न-
माला ॥ द्राविडकम् ५ खण्डम् ६ कृतकम् ७
क्षारम् ८ आसुरम् ९ सुपाक्यम् १० खण्ड-
लवणम् ११ धूर्त्तम् १२ कृत्रिमकम् १३ । अस्य
गुणाः । उष्णत्वम् । दीपनत्वम् । रुच्यत्वम् ।
वाताजीर्णशूलगुल्ममेहनाशित्वश्च । इति राज-
निर्घण्टः ॥ अपि च ।
“विडं सक्षारमूर्द्ध्वाधः कफं वातानुलोमनम् ॥
ऊर्द्ध्वं कफमधो वातं सञ्चारयेदित्यर्थः ।
दीपनं लधु तीक्ष्णोष्णं रूक्षं रुच्यं व्यवायि च ।
विबन्धानाहविष्टम्भकृदगौरवशूलनुत् ॥”
इति भावप्रकाशः ॥
अन्यच्च ।
“विडं लवणमुत्क्लेदि वह्नेर्बलविवर्द्धनम् ।
मलवातामविष्टम्भशूलाटोपविबन्धनुत् ॥”
इति राजवल्लभः ॥

विडङ्गं, क्ली पुं, (विड आक्रोशे + “विडादिभ्यः

कित् ।” उणा० १ । १२० । इति अङ्गच् ।
सच कित् ।) स्वनामख्यातौषधम् । (यथा,
बृहत्संहितायाम् । ५५ । ७ ।
“घृतोशीरतिलक्षौद्रविडङ्गक्षीरगोमयैः ।
आमूलस्कन्धलिप्तानां सङ्क्रामणविरोपणम् ॥”)
तत्पर्य्यायः । वेल्लम् ३ अमोघा ३ चित्रतण्डुला ४
तण्डुलः ५ क्रिमिघ्नः ६ । इत्यमरः ॥ रसायनः ७
पावकः ८ भस्मकम् ९ । इति जटाधरः ।
वैलुः १० मोघा ११ तण्डुलुः १२ । इति शब्द-
रत्नावली ॥ जन्तुघ्नम् १३ चित्रतण्डुलम् १४
क्रिमिघ्नम् १५ क्रिमिशत्रुः १६ गर्द्दभम् १७
कैवलम् १८ । इति रत्नमाला ॥ विडङ्गा १९
कृमिहा २० चित्रा २१ तण्डुला २२ तण्डुली-
यका २३ वातारितण्डुला २४ जन्तुघ्नी २५
मृगगामिनी २६ कैराली २७ गह्वरा २८
कापाली २९ वरासुः ३० चित्रबीजा ३१ जन्तु-
हन्त्री ३२ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् ।
लघुत्वम् । वातकफार्त्त्यग्निमान्द्यारुचिभ्रान्ति-
कृमिदोषविनाशित्वञ्च । इति राजनिर्घण्टः ॥
ईषत्तिक्तत्वम् । क्रिमिविषनाशित्वञ्च । इति
राजवल्लभः ॥
“विडङ्गं कटु तीक्ष्णोष्टं रूक्षं वह्निकरं लघु ।
शूलाध्मानोदरश्लेष्मक्रिमिवातविबन्धनुत् ॥”
इति भावप्रकाशः ॥

विडङ्गः, त्रि, (विड + अङ्गच् ।) अभिज्ञः । इति

मेदिनी । गे, ४९ ॥

विडम्बनं, क्ली, (वि + डम्ब + ल्युट् ।) अनुकरणम् ।

यथा, --
“न वेद कश्चिद्भगवंश्चिकीर्षितं
तवेहमानस्य नृणां विडम्बनम् ।
न यस्य कश्चिद्दयितोऽस्ति कर्हिचि-
द्द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम् ॥”
इति श्रीभागवते । १ । ८ । २९ ॥
प्रतारणम् । यथा, तत्रैव ।
“जन्म कर्म्म च विश्वात्मन्नजस्याकर्त्तुरात्मनः ।
तिर्य्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम् ॥” ३० ॥

विडम्बना, स्त्री, (वि + डम्ब + णिच् + युच् ।

टाप् ।) अनुकरणम् । (यथा, कुमारे । ४ । १२ ।
“असति त्वयि वारुणीमदः
प्रमदानामधुना विडम्बना ॥”)
प्रतारणम् । (यथा, पञ्चतन्त्रे । ४ । ४६ ।
“नो चेदेतेषां सकाशात् विडम्बनां प्राप्य मरि-
ष्यसि ॥” * ॥ परिहासः । यथा, कुमारे । ५ । ७० ।
“इयञ्च तेऽन्या पुरतो विडम्बना
यदूढया वारणराजहार्य्यया ।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया
महाजनः स्मेरमुखो भविष्यति ॥”)

विडम्बितः, त्रि, (वि + डम्ब + क्तः ।) कृतविड-

म्बनः । तत्पर्य्यायः । व्यस्तः २ आकुलः ३ दुर्गतः
४ । इति शब्दमाला ॥ (अनुकृतः । यथा,
रघुः । ३ । ५२ ।
“अतिष्ठदालीढविशेषशोभिना
वपुःप्रकर्षेण विडम्बितेश्वरः ॥”)

विडारकः, पुं, (विडाल एव । स्वार्थे कन् । लस्य

रः ।) विडालः । इति शब्दरत्नावली ॥

वि(बि)डालः, पुं, (विड आक्रोशे + “तमिविशि-

विडीति ।” उणा० १ । ११७ । इति कालन् ।)
नेत्रपिण्डः । इति मेदिनी । ले, १३३ ॥ नेत्रौषध-
विशेषः । इति भावप्रकाशः ॥ स्वनामख्यात-
पशुः । विल्ली इति हिन्दीभाषा । तत्पर्य्यायः ।
ओतुः २ मार्ज्जारः ३ वृषदंशकः ४ आखुमुक्
५ । इत्यमरः ॥ विरालः ६ विलालः ७ । इति
तट्टीका ॥ दीप्ताक्षः ८ नक्तञ्चरी ९ जाहकः १०
विडारकः ११ । इति शब्दरत्नावली ॥ त्रिशङ्कुः
१२ जिह्वापः १३ मेनादः १४ सूचकः १५ ।
इति जटाधरः ॥ भूषिकारातिः १६ शालावृकः
१७ मायावी १८ दीप्तलोचनः १९ । इति राज-
निर्घण्टः ॥ (यथा, मनुः । ११ । १६० ।
“विडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।
केशकीटावपन्नञ्च पिबेद्ब्रह्मसुवर्च्चलाम् ॥”)

वि(बि)डालकं, क्ली, हरितालम् । इति हेमचन्द्रः ॥

वि(बि)डालकः, पुं, (विडाल एव । स्वार्थे कन् ।)

विडालः । नेत्ररोगस्य औषधविशेषः । यथा ।
अथ विडालकविधिः ।
“विडालको बहिर्लेपो नेत्रे पक्ष्मविवर्ज्जिते ।
तस्य मात्रा परिज्ञेयो मुखालेपविधानवत् ॥”
मुखालेपो यथा, --
“अङ्गुलस्य चतुर्थांशो मुखालेपः कनिष्ठिकः ।
मध्यमस्तु त्रिभागः स्यादुत्तमोऽर्द्धाङ्गुलो भवेत् ॥
स्थितिकालोऽपि तस्योक्तो यावत् कल्को न
शुष्यति ।
तेनापि गुणहीनः स्यात्तथा दूषयति त्वचम् ॥”
स यथा ।
“यष्टिगैरिकसिन्धूत्थदार्व्वीतार्क्ष्यैः समांशकैः ।”
जलपिष्टैर्बहिर्लेपः सर्व्वनेत्रामयापहः ॥”
तार्क्ष्यं रसाञ्जनम् ।
“रसाञ्जनेन वालेयः पथ्याविल्वदलैरपि ।
वचाहरिद्राविश्वैर्व्वा तथा नागरगैरिकैः ॥”
इति भावप्रकाशः ॥

वि(बि)डालपदः, पुं, तोलकद्वयपरिमाणम् । यथा,

“तोलौ द्वौ पिचुरक्षश्च सुवर्णकडवग्रहः ।
विडालपदकर्षौ च पाणीतलमुडुम्बरम् ॥”
इति शब्दमाला ॥
मार्ज्जारचरणे, क्ली ॥

वि(बि)डालपदकं, क्ली, कर्षपरिमाणम् । इति

वैद्यकपरिभाषा ॥

वि(बि)डाली, स्त्री, विदारी । इति राजनिर्घण्टः ॥

(मार्ज्जारी ॥)

विडीनं, क्ली, (वि + डी + क्तः ।) खगगति-

विशेषः । यथा, --
“डीनं प्रडीनमुड्डीनं संडीनं परिडीनकम् ।
विडीनमवडीनञ्च निडीनं डीनडीनकम् ॥
गतागतप्रगतितसम्पताद्याश्च पक्षिणाम् ।
गतिभेदाः पक्षिगृहं कुलायो नीडमस्त्रियाम् ॥”
इति जटाधरः ॥

विडुलः, पुं, वेतसवृक्षः । इति हेमचन्द्रः ॥

विडोजाः, [स्] पुं, (विष् व्याप्तौ + क्विप् । विट्

व्यापकं ओजो यस्य ।) इन्द्रः । इत्यमरः ॥

विडौजाः, [स्] पुं, (विडं आक्रोशि शत्रुद्बेषम-

सहिष्णु ओजो यस्य ।) इन्द्रः । इति भरतीय-
द्बिरूपकोषः ॥ (यथा, रघौ । ३ । ५९ ।
“रघुः शशाङ्कार्द्धमुखेन पत्रिणा
शरासनज्यामलुनाद्विडौजसः ॥”)

विड्, [श्] पुं, (विशतीति । विश + क्विप् ।)

वैश्यः । यथा विट् विड् विशौ विशः । इति
मुग्धबोधव्याकरणम् ॥ (मनुजः । विशांपति-
शब्ददर्शनात् ॥)

विड्, [ष्] स्त्री, विष्ठा । इति विड्गन्धादिशब्द-

दर्शनात् ॥

विड्गन्धं, क्ली, (विड्वत् गन्धो यस्य ।) विड्लव-

णम् । इति रत्नमाला ॥

विड्जः, त्रि, विष्ठाजातः । विष्शब्दपूर्ब्बकजन-

धातोर्डप्रत्ययेन निष्पन्नः ॥

विड्लवणं, क्ली, (विड्वत् दुर्गन्धं लवणम् ।)

विडम् । इति रत्नमाला ॥ विट्लुण् इति भाषा ॥

विड्वराहः, पुं, (विट्प्रियो वराहः ।) ग्राम्य-

शूकरः । इति जटाधरः ॥ (यथा, मनुः ।
५ । १९ ।
पृष्ठ ४/३८५
“छत्राकं विड्राहञ्च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनञ्चैव मत्या जग्ध्वा पतेद्द्विजः ॥”)

वितंसः, पुं, (वि + तंस + घञ् ।) वीतंसः । मृग-

पक्षिणां बन्धनोपकरणम् । इत्यमरटीकायां
भरतः ॥

वितण्डा, स्त्री, (वितण्ड्यते विहन्यते परपक्षो-

ऽनयेति । वि + तण्ड + गुरोश्चेत्यः । टाप् ।)
स्वपक्षास्थापना परपक्षव्युदासः । इत्यमर-
भरतौ ॥ (यथा, महाभारते । २ । ३६ । ३ ।
“एवमेतन्न चाप्येवमेवं चैतन्न चान्यथा ।
प्रत्यूचुर्बहवस्तत्र वितण्डां वै परस्परम् ॥”)
कच्वीशाकः । शिलाह्वयः । करवीरी । इति
मेदिनी । डे, ३६ ॥ दर्व्वी । इति हारावली ॥

विततं, त्रि, (वि + तन् + क्तः ।) विस्तृतम् ।

(यथा, प्रबोधचन्द्रोदये । ३ । ५ ।
“उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डानिल-
प्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षौ
णयः ॥”)
वीणादिवाद्यम् । इत्यमरे ततशब्दार्थदर्शनात् ॥

विततिः, स्त्री, विस्तारः । विपूर्ब्बतनधातोः क्तिप्रत्य-

येन निष्पन्ना ॥ (यथा, भागवते । ९ । १० । १५ ।
“वध्नीहि सेतुमिह ते यशसो वितत्यै
गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ॥”)

वितथं, त्रि, मिथ्या । इत्यमरः ॥ (यथा, मनुः ।

८ । ९४ ।
“अवाक्शिरास्तमस्यन्धे किल्विषी नरकं
व्रजेत् ।
यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्म्मनिश्चये ॥”
निष्फलः । व्यर्थः । यथा, भागवते । ९ । २० । ३५ ।
“तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् ।
मरुत्सोमेन मरुतो भरद्बाजमुपाददुः ॥”
पुं, भरद्बाजपुत्त्रः । स च दौष्मन्तेर्भरतस्य पौत्त्रः ।
यथा, हरिवंशे । ३२ । १८ -- १९ ।
“ततोऽथ वितथो नाम भरद्बाजात् सुतोऽभवत् ।
पौत्त्रेऽथ वितथे जाते भरतस्तु दिवं ययौ ॥
वितथञ्चाभिषिच्याथ भरद्वाजो वनं ययौ ॥”)

वितथ्यं, त्रि, असत्यम् । वितथशब्दात् स्वार्थे

ष्ण्यप्रत्ययेन निष्पन्नम् ॥

वितद्रुः, स्त्री, (वितनोतीति । वि + तन + “जत्त्वा-

दयश्च ।” उणा० ४ । १०२ । इति रुप्रत्ययेन
साधुः ।) नदीविशेषः । सा च पञ्जावाख्यदेशे
वर्त्तते । इत्युणादिकोषः ॥

वितरणं, क्ली, (वि + तॄ + भावे ल्युट् ।) दानम् ।

इत्यमरः ॥ (यथाह कश्चित् ।
“वित्तेन किं वितरणं यदि नास्ति तस्य ॥”)

वितर्कः, पुं, (वि + तर्क + घञ् ।) ऊहः । (यथा,

भागवते । १० । ८९ । १ ।
“सरस्वत्यास्तटे राजन् ऋषयः सत्रमासत ।
वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान् ॥”)
संशयः । इति मेदिनी । के, १५७ ॥ (यथा,
महाभारते । १ । १९० । २३ ।
“यौ तौ कुमाराविव कार्त्तिकेयौ
द्वावश्विनेयाविति मे वितर्कः ॥”)
ज्ञानसूचकः । इति शब्दरत्नावली ॥ * ॥
आहो उताहो किमुत किं किमु उत एते
षट् विकल्पवितर्कार्थे । यथा स्थाणुराहो
पुरुषः । इति अहो ह्रस्वादि च । विकल्पे
विस्मयेऽप्यहो इति रुद्रः । किमु ह्रस्वान्तं उत
ह्रस्वादि । चकारात् उताहोस्वित् आहोस्वि-
दिति च यथा भारते । “उताहोस्विद्भवेद्राजा
नलः परपुरञ्जयः ।” इति आहोस्विन्मुखमिति
भारवौ । इति भरतः ॥

वितर्कणं, क्ली, (वि + तर्क + ल्युट् ।) वितर्कः ।

इति शब्दरत्नावली ॥

वित(र्द्धि)र्द्दिः, स्त्री, (वि + तर्द्द हिंसायाम् + “सर्व्व-

धातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।)
वेदिका । इत्यमरः ॥ (यथा, माघे । ३ । ५५ ।
“रतान्तरे यत्र गृहान्तरेषु
वितर्द्दिनिर्य्यूहविटङ्कनीडः ॥”)

वित(र्द्धि)र्द्दिका, स्त्री, (वितर्द्दिरेव । स्वार्थे कन् ।)

वेदिका । इति शब्दरत्नावली ॥ (यथा, राज-
तरङ्गिण्याम् । ८ । २६८५ ।
“क्षेमराजाभिधानेन डामरेशेन सोऽन्वितः ।
शिलां वितर्द्दिकातुल्यामध्यास्त स्वप्रमध्यगाम् ॥”)

वितर्द्दी, स्त्री, (वितर्द्दि + कृदिकारादिति ङीष् ।)

वेदिका । इति शब्दरत्नावली ॥

वितर्द्धी, स्त्री, वेदिका । इत्यमरटीकायां भरतः ।

वितलं, क्ली, (विशेषेण तलम् ।) पातालभेदः ॥

यथा, --
“अतलं नितलञ्चैव वितलञ्च गभस्तिमत् ।
तलं सुतलपाताले पाताला हि तु सप्त वै ॥”
इति शब्दरत्नावली ॥
(अस्य विवरणं यथा, देवीभागवते । ८ । १९ ।
८ -- १२ ।
“द्बितीयविवरस्यात्र वितलस्य निबोधत ।
भूतलाधस्तले चैव वितले भगवान् भवः ॥
हाटकेश्वरनामायं स्वपार्षदगणैर्वृतः ।
प्रजापतिकृतस्यापि सर्गस्य वृंहणाय च ॥
भवान्या मिथुनीभूय आस्ते देवाधिपूजितः ।
भवयोर्वीर्य्यसंभूता हाटकी सरिदुत्तमा ॥
समिद्धो मरुता वह्निरोजसा पिबतीव हि ।
तन्निष्ठ्यूतं हाटकाख्यं सुवर्णं दैत्यवल्लभम् ॥
दैत्याङ्गनाभूषणार्हं सदा सन्धारयन्ति हि ॥”)

वितस्तिः, पुं, स्त्री, (वि + तसु उपक्षेपे + “वौ

तसेः ।” उणा० ४ । १८१ । इति तिः ।)
विस्तृतसकनिष्ठाङ्गुष्ठः । विगत् इति भाषा ॥
तत्पर्य्यायः । द्वादशाङ्गुलः २ । इत्यमरः ॥ (यथा,
मार्कण्डेये । ४९ । ३९ ।
“द्वे वितस्ती तथा हस्तो ब्राह्मतीर्थादिवेष्ट-
नम् ॥”)

वितानं, क्ली, (वितन्यते यत् । वि + तन + घञ् ।)

वृत्तिविशेषः । इति मेदिनी । ने, १३१ ॥ अव-
सरः । इति विश्वः ॥

वितानः, पुं, क्ली, (वि + तन् + घञ् ।) क्रतुः ।

(यथा, माघे । १४ । १० ।
“सोमपायिनि भविष्यते मया
वाञ्छितोत्तमवितानयाजिना ॥”)
विस्तारः । (यथा, भागवते । ३ । ७ । ३१ ।
“यज्ञस्य च वितानानि योगस्य च पर्थ प्रभो ।
नैष्कर्म्मस्य च साङ्ख्यस्य तन्त्रं वा भगवत्-
स्मृतम् ॥”)
उल्लाचः । इत्यमरः ॥ चाँदोया इति भाषा ।
अस्य पर्य्यायश्चन्द्रातपशब्दे द्रष्टव्यः ॥ (यथा,
रघुः । १७ । २८ ।
“वितानसहितं तत्र भेजे पैतृकमासनम् ।
चूडामणिभिरुद्घृष्टपादपीठं महीक्षिताम् ॥”
समूहः । यथा, माघे । ११ । ४३ ।
“नवकनकपिशङ्गं वासराणां विधातुः
ककुभि कुलिशपाणेर्भाति भासां वितानम् ॥”
व्रणबन्धनविशेषः । यथा, सुश्रुते । १ । १८ ।
“तत्र कोशदामस्वस्तिकानुवेल्लितप्रतोलीमण्डल-
स्थगिकायमकखट्वाचीनविवन्धवितानगोफणाः
पञ्चाङ्गी चेति चतुर्द्दशबन्धविशेषाः ॥”)

वितानः, त्रि, (वि + तन + घञ् ।) तुच्छः ।

(यथा, रघुः । ९ । ५० ।
“गगनमश्वखुरोद्धतरेणुभि-
र्नृ सविता च वितानमिवाकरोत् ॥”)
मन्दः । इत्यमरः ॥ शून्यः । इति धरणिः ॥
(यथा, माघे । ३ । ५० ।
“बृहत्तुलैरप्यतुलैर्वितान-
मालापिनद्धैरपि चावितानैः ॥”)

वितानकः, पुं, क्ली, (वितान एव । स्वार्थे कन् ।)

चन्द्रातपः । इति शब्दमाला ॥ (यथा, कथा-
सरित्सागरे । ४८ । ९९ ।
“तदा तैर्मुक्तमन्योन्यं बाणजालं बभौ दिवि ।
रणलक्ष्म्या तपत्यर्के वितानकमिवाततम् ॥”
समूहः । यथा, माघे । ६ । २७ ।
“अनुययौ विविधोपलकुण्डल-
द्युतिवितानकसंवलितांशुकम् ॥”)

वितानकः, पुं, (वितान इव प्रतिकृतिः । वितान

+ कन् ।) माडवृक्षः । इति राजनिर्घण्टः ॥

वितानमूलकं, क्ली, (वितानतुल्यं मूलं यस्य । बहु-

व्रीहौ कन् ।) उशीरम् । इति राजनिर्घण्टः ॥

वितुन्नं, क्ली, (वि + तुद् + क्तः ।) सुनिषण्णकम् ।

इत्यमरः ॥ शैवालकम् । इति मेदिनी । ने, १३१ ॥

वितुन्नकं, क्ली, (वितुन्नमिव । इवार्थे कन् ।)

धान्यकम् । तुत्थम् । इत्यमरः ॥

वितुन्नकः, पुं, आमलकी । इत्यमरः ॥

वितुन्ना, स्त्री, भूम्यामलकी । इति राजनिर्घण्टः ॥

वितुन्निका, स्त्री, (वितुन्ना + स्वार्थे कन् । टापि

अत इत्वम् ।) भूम्यामलकी । इति राज-
निर्घण्टः ॥

वित्त, त् क त्यागे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरा०-पर०-सक०-सेट् ।) वित्तयति । वित्ता-
पयति । इति दुर्गादासः ॥
पृष्ठ ४/३८६

वित्तं, क्ली, (विद + क्तः । “वित्तो भोगप्रत्यययोः ।”

८ । २ । ५८ । इति साधुः ।) धनम् । इत्य-
मरः ॥ (यथा, मनुः । ८ । ३६ ।
“अनृतन्तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् ।
तस्यैव वा निधानस्य संख्यायाल्पीयसीं
कलाम् ॥”)

वित्तः, त्रि, (विद् + क्तः । “नुदविदेति ।” ८ ।

२ । ५६ । इति पक्षे नत्वाभावः ।) विचारितः ।
विज्ञातः । इत्यमरः ॥ लब्धः । इति तट्टीकायां
रामाश्रमः ॥ (विख्यातः । अत्र वित्तो भोग-
प्रत्यययोः इति साधुः । यथा च पाणिनिः ।
“तेन वित्तश्चुञ्चुप्चणपौ ।” ५ । २ । २६ ॥)

वित्तदः, त्रि, धनदाता । वित्तं ददाति य इत्यर्थे

डप्रत्ययेन निष्पन्नः ॥

वित्तिः, स्त्री, (विद् + क्तिन् ।) विचारः । लाभः ।

(यथा, वाजसनेयसं हितायाम् । १८ । १४ ।
“मे वित्तञ्च मे वित्तिश्च मे भूतञ्च मे भूतिश्च मे
यज्ञेन कल्पन्ताम् ॥”) सम्भावना । इति
मेदिनी । ते, ५९ ॥ ज्ञानम् । इति हेमचन्द्रः ॥

वित्तेशः, पुं, (वित्तानामीशः ।) कुबेरः । यथा, --

“त्वं ब्रह्मा हरिहरसंज्ञितस्त्वमिन्द्रो
वित्तेशः पितृपतिरम्बुपः समीरः ।
सोमोऽग्निर्गगनमहीधरोऽब्धिरूपः
किंस्तव्यं सकलतरस्वरूपधाम्नः ॥”
इति मार्कण्डेयपुराणे । १०४ । ३७ ॥

वित्रस्तः, त्रि, त्रासयुक्तः । विपूर्ब्बत्रसधातोः क्त-

प्रत्ययेन निष्पन्नः ॥

वित्रासः, पुं, भयम् । विपूर्ब्बत्रसधातोर्भावे घञ्-

प्रत्ययेन निष्पन्नः ॥ (यथा, भागवते । १० ।
५० । १६ ।
“ततोऽभूत् परसैन्यानां हृदि वित्रासवेपथुः ॥”)

वित्सनः पुं, वृषभः । इति शब्दचन्द्रिका ॥

विथ, ऋ ङ याचे । इति कविकल्पद्रुमः ॥ (भ्वा०-

आत्म०-द्विक०-सेट् ।) वेथते । इति दुर्गादासः ॥

विथुरः, पुं, (व्यथते इति । व्यथ भयचलनयोः ।

“व्यथेः संप्रसारणं किच्च ।” उणा० १ । ४० ।
इति उरच् । सच कित् सम्प्रसारणञ्च धातोः ।)
चौरः । राक्षसः । इत्युणादिकोषः ॥ (स्त्री,
भर्त्तृवियुक्ता नारी । यथा, ऋग्वेदे । १ । ८७ । ३ ।
“प्रैषामज्मेषु विथुरेव रेजते भूमिः ॥
“विथुरेव यथा भर्त्रा वियुक्ता जाया राजोपद्र-
वादिषु सत्सु निरालम्बा सती कम्पते तद्वत् ।”
इति तद्भाष्ये सायणः ॥)

विथ्या, स्त्री, गोजिह्वा । इति शब्दचन्द्रिका ॥

विद, ऌ प श ञौ लाभे । इति कविकल्पद्रुमः ॥

(तुदा०-उभ०-सक०-अनिट् ।) ऌ, अविदत् ।
प श ञ, विन्दति विन्दते । औ, वेत्ता । इति
दुर्गादासः ॥

विद, क ङ ञ चेतनाख्यानवासवादे । इति कवि-

कल्पद्रुमः ॥ (चुरा०-आत्म०-उभ०-च-सक०-
वासे स्थैर्य्ये च अक०-सेट् ।) चेतना ज्ञानम् ।
वादः स्थैर्य्यम् । क ङ, वेदयते शास्त्रं धीरः
जानातीत्यर्थः । वेदयते स्वार्थं लोकः आख्या-
तीत्यर्थः । वेदयते तीर्थे साधुर्वसतीत्यर्थः ।
वेदयते वृक्षः स्थिरः स्यादित्यर्थः । ञ, वेदयति
वेदयते । केचित्तु वादं न पठन्ति । चेतनास्थाने
वेदनेति पठित्वा वेदयते वृद्धः व्यथते इत्यर्थः ।
इत्युदाहरन्ति । अस्माच्च परस्मैपदममन्यमाना
जितां सपत्नेन निवेदयिष्यत इति निवेदनं करो-
तीत्यर्थे ञौ समादधते । इति दुर्गादासः ॥

विद, ङ धौ मीमांसे । इति कविकल्पद्रुमः ॥

(रुधा०-आत्म०-सक०-अनिट् ।) मीमांसो
विचारणम् । ङ ध, विन्ते शास्त्रं धीरः । औ,
वेत्ता । इति दुर्गादासः ॥

विद, य ङ औ भावे । इति कविकल्पद्रुमः ॥

(दिवा०-आत्म०-अक०-अनिट् ।) भावः सत्ता
स चेह विद्यमानतैव । य ङ, विद्यते विष्णुः ।
औ, वेत्ता । इति दुर्गादासः ॥

विद, ल मतौ । इति कविकल्पद्रुमः ॥ (अदा०-

पर०-सक०-सेट् ।) ल, वेत्ति । इति दुर्गा-
दासः ॥

विदंशः, पुं, (वि + दंश + घञ् ।) अवदंशः । इति

राजनिर्घण्टः ॥

विदः, पुं, पण्डितः । विदधातोः कर्त्तरि कप्रत्ययेन

निष्पन्नः ॥

विदग्धः, त्रि, (वि + दह + क्तः ।) नागरः । इति

त्रिकाण्डशेषः ॥ (यथा देवीभागवते । ९ ।
“विदग्धाया विदग्धेन सङ्गमो गुणवान् भवेत् ॥”)
निपुणः । इति त्रिकाण्डशेषः ॥ (यथा आर्य्या-
सप्तशत्याम् । ५०६ ।
“लिप्तं न मुखं नाङ्गं न पक्षती चरणाः परा-
गेण ।
अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥”)
पण्डितः । इति शब्दरत्नावली ॥ (विशेषेण
दग्धः । यथा, सुश्रुते । ४ । १ ।
“शोफयोरुपनाहन्तु कुर्य्यादामविदग्धयोः ।
अविदग्धः शमं याति विदग्धः पाकमेति च ॥”)

विदग्धता, स्त्री, विदग्धत्वम् । विदग्धस्य भाव

इत्यर्थे ताप्रत्ययेन निष्पन्ना ॥

विदग्धा, स्त्री, (विदग्ध + टाप् ।) परकीयान्तर्गत-

नायिकाभेदः । यथा । गुप्ताविदग्धालक्षिता-
कुलटानुशयानामुदिताप्रभृतीनां परकीयाया-
मेवान्तर्भावः । अस्या लक्षणम् । वाक्कौशल-
युक्तत्वम् । सा च द्विविधा । वाग्विदग्धा क्रिया-
विदग्धा च । प्रथमा यथा, --
“निविडतमतमालमल्लिवल्ली-
विचकिलराजिविराजितोपकण्ठे ।
पथिकसमुचितस्तवाद्य तीव्रे
सवितरि तत्र सरित्तटे निवासः ॥”
द्वितीया यथा, --
“दासाय भवननाथे वदरीमपनेतुमादिशति ।
हेमन्ते हरिणाक्षी पयसि कुठारं विनिक्षि-
पति ॥”
इति रसमञ्जरी ॥

विदथः, पुं, (वेत्तीति । विद + “रुविदिभ्यां ङित् ।”

उणा० ३ । ११६ । इति अथः । सच ङित् ।)
योगी । कृती । इति मेदिनी । थे, २४ ॥ (यज्ञः ।
इति निघण्टुः । ३ । १७ । “विद ज्ञाने विद
विचारणे विदॢलाभे विद सत्तायाम् । ‘रुदि-
विदिभ्यां ङित् ।’ इति अथप्रत्ययः । ज्ञायते हि
यज्ञः । लभते हि दक्षिणादिरत्र । विचार्य्यते
हि विद्वद्भिः । भावयत्यनेन फलम् ॥” इति तत्र
देवराजयज्वा ॥ * ॥ वेदितव्ये, त्रि । यथा,
ऋग्वेदे । ३ । २७ । ७ ।
“होता देवो अमर्त्यः पुरस्तादेति मायया ।
विदथानि प्रचोदयन् ॥”)

विदन्, [त्] त्रि, पण्डितः । विदघातोः शतृप्रत्ययेन

निष्पन्नः ॥

विदरं, क्ली, (विदीर्य्यतीति । वि + दॄ + अच् ।)

विश्वसारकम् । इति शब्दचन्द्रिका ॥ फणीमनसा
इति भाषा ॥ (विदीर्णे, त्रि । यथा, कामन्दकीये
नीतिसारे । १९ । १० ।
‘अल्पवृक्षोपला च्छिद्रा लतिका विदरा स्थिरा ।
निःशर्करा च निःपङ्का सापसारा च
वारिभूः ॥’)

विदरः, पुं, (वि + दॄ + “ऋदोरप् ।” ३ । ३ । ५७ ।

इति अप् ।) विदरणम् । फाटन इति चेरण
इति च भाषा । तत्पर्य्यायः । स्फुटनम् २ भिदा ३ ।
इत्यमरः ॥ दारणम् ४ विदारणम् ५ । इति
शब्दरत्नावली ॥

विदर्भः, पुं, स्त्री, (विशिष्टा दर्भाः कुशा यत्र ।)

कुण्डिननगरम् । इति हेमचन्द्रः ॥ स तु वङ्ग-
देशस्य दक्षिणपश्चिमे वर्त्तते अधुना वडनाग-
पुर इति ख्यातः ॥ * ॥ यथा, पूर्ब्बनैवधे २
सर्गः ।
“स जयत्यरिसार्थसार्थकीकृतनामा किल भीम-
भूपतिः ।
यमवाप्य विदर्भभूः प्रभुं हसति द्यामपि शक्र-
भर्त्तृकाम् ॥”
(यथा च रघुः । ५ । ६० ।
“एको ययौ चैत्ररथप्रदेशान्
सौराज्यरम्यानपरो विदर्भान् ॥” * ॥
पुं, नृपविशेषः । स च ज्यामघात् शैव्यायां
जातः । अस्य कुशक्रथलोमपादाः पुत्त्राः ।
यथा, भागवते । ९ । २४ । १ ।
“तस्यां विदर्भोऽजनयत् पुत्त्रौ नाम्ना कुशक्रथौ ।
तृतीयं रोमपादञ्च विदर्भकुलनन्दनम् ॥”
अस्य नाम्नैव विदर्भनगरी समुत्पन्ना ॥ मुनि-
विशेषः । यथा, हरिवंशे । १६६ । ८४ ।
“द्वैपायनो विदर्भश्च जैमिनिर्माठरः कठः ॥”)

विदर्भजा, स्त्री, (विदर्भे जायते इति । जन + डः ।)

अगस्त्यपत्नी । तत्पर्य्यायः । कौशीतकी २ लोपा-
मुद्रा ३ । इति त्रिकाण्डशेषः ॥ दमयन्ती ।
यथा, पूर्ब्बनैषधे २ सर्गः ।
“धृतलाञ्छनगोमयाञ्चलं
विधुमालेपनपाण्डरं विघिः ।
पृष्ठ ४/३८७
म्रमयत्युचितं विदर्भजा-
नननीराजनवर्द्धमानकम् ॥”
रुक्मिणी च ॥

विदर्भराजः, पुं, (विदर्भानां राजा । “राजाहः-

सखिभ्यष्टच् ।” इति टच् ।) विदर्भदेशाधि-
पतिः । तस्य नामान्तरं भीमराजः । यथा, --
“स्मरोपतप्तोऽपि भृशं न स प्रभु-
र्विदर्भराजं तनयामयाचत ।
त्यजन्त्यसून् शर्म्म च मानिनो वरं
त्यजन्ति न त्वेकमयाचितव्रतम् ॥
इति पूर्ब्बनैषधे । १ । ५० ॥

विदर्भसुभ्रूः, स्त्री, (विदभस्य सुभ्रू रमणी ।) दम-

यन्ती । यथा, --
“विदर्भसुभ्रूस्तनतुङ्गताप्तये
घटानिवापश्यदलं तपस्यतः ।
फलानि धूमस्य घयानधोमुखान्
स दाडिमे दोहदधूपिनि द्रुमे ॥”
इति पूर्ब्बनैषधे १ सर्गः ॥

विदर्भाधिपतिः, पुं, (विदर्भाणामधिपतिः ।)

कुण्डिनपतिः । स च भीष्मकराजः रुक्मिणी-
पिता च । यथा, --
“तं ये विदर्भाधिपतिः समभ्येत्याभिवाद्य च ।
निवेशयामास मुदा कलितान्यनिवेशने ॥”
इति श्रीभागवतीयदशमस्कन्धे ५३ अध्यायः ॥

विदलं, क्ली, (विघट्टितं दलं यस्य ।) द्बिधाकृत-

कलायादि । दालि इति भाषा । स्वर्णादेरव-
यवः । दाडिमकल्कः । वंशादिकृतपात्रविशेषः ।
इति क्लीवलिङ्गसंग्रहे अमरभरतौ ॥

विदलः, पुं, (विघट्टितानि दलानि यस्य ।) रक्त-

काञ्चनः । इति शब्दरत्नावली ॥ पिष्टकः । इति
शब्दचन्द्रिका ॥

विदला, स्त्री, (विघट्टितानि दलानि यस्याः ।)

त्रिवृत् । इति राजनिर्घण्टः ॥ पत्रशून्या । यथा,
“विशीर्णा विदला ह्रस्वा वक्रा स्थूला द्बिधा-
कृता ।
कृमिदष्टा च दीर्घा च समिधो नैव कारयेत् ॥”
इति तन्त्रम् ॥

विदा, स्त्री, (विद् ज्ञाने + “षिद्भिदादिभ्योऽङ् ।”

३ । ३ । १०४ । इत्यङ् । टाप् ।) ज्ञानम् ।
बुद्धिः । इति मेदिनी । दे, १४ ॥

विदायः, पुं, (विगतो दायः साक्षात्करणादिरूप-

ऋणं येन ।) गमनानुमतिः । यथा, --
“क्षणं वा चम्पकवनं गच्छ वा तिष्ठ सुन्दरि ! ।
क्षणं गृहञ्च यास्यामि विशिष्टं कार्य्यमस्ति मे ।
विदायं देहि संप्रीत्या क्षणं मे प्राणवल्लभे ॥”
इति ब्रह्मवैवर्त्ते जन्मखण्डे श्रीराधां प्रति श्रीकृष्ण-
वाक्यम् ॥

विदारः, पुं, (वि + दॄ + घञ् ।) जलोच्छ्वासः ।

विदारणम् । इति मेदिनी । रे, ११६ ॥ युद्धम् ।
इति हेमचन्द्रः ॥

विदारकं, क्ली, (विदृणातीति । वि + दॄ + ण्वुल् ।)

वज्रक्षारम् । इति राजनिर्घण्टः ॥

विदारकः, पुं, (विदृणाति जलयानादीनिति । वि

+ दॄ + ण्वुल् ।) जलमध्यस्थिततरुशिलादिः ।
तत्पर्य्यायः । कूपकः २ । इत्यमरः ॥ जलबन्धकः ।
इति शब्दरत्नावली ॥ शुष्कनद्यादौ जलाव-
स्थानार्थं गर्त्तः । इति सर्व्वधरः ॥ अतएव कूपा
इव कूपकाः । कुत्सिताश्च कूपा इति वा ।
विदारयन्तीति विदारकाः । जलान्तर्गतास्तरु-
शिलादयोऽज्ञानाल्लोकादिविदारकाः कूपकाः ।
इति साञ्झः । बहुत्वमतन्त्रम् । इति भरतः ॥

विदारणं, क्ली, (वि + दॄ + णिच् + भावे ल्युट् ।)

विडम्बः । भेदः । इति मेदिनी । णे, १०७ ॥
(यथा, हरिवंशे । ९५ । ७९ ।
“आयुधावाप्तिरत्रैव वपुषो वैष्णवस्य च ।
लक्ष्म्याश्च तेजसश्चैव व्यूहानाञ्च विदारणम् ॥”)
मारणम् । इति शब्दरत्नावली ॥

विदारणः, पुं, स्त्री, (विदार्य्यन्ते शत्रवोऽस्मिन्निति ।

वि + दॄ + णिच् + ल्युट् ।) युद्धम् । इति
मेदिनी । णे, १०७ ॥ (विदारयतीति । वि + दॄ
+ णिच् + ल्युः । विदारके, त्रि । यथा, मार्क-
ण्डेये । २० । २ ।
“तस्यात्मजो महावीर्य्यो बभूवारिविदारणः ॥”)

विदारणः, पुं, (विदार्य्यतेऽसौ इति । वि + दॄ +

णिच् + कर्म्मणि ल्युट् ।) कर्णिकारवृक्षः । इति
शब्दचन्द्रिका ॥

विदारिका, स्त्री, (वि + दृ + णिच् + ण्वुल् । टापि

अत इत्वम् ।) शालपर्णी । इति शब्दरत्नावली ॥
(यथा, बृहत्संहितायाम् । ७६ । ५ ।
“विदारिकाया स्वरसेन चूर्णं
मुहुर्मुहुर्भावितशोषितञ्च ।
शृतेन दुग्धेन सशर्करेण
पिबेत् स यस्य प्रमदाः प्रभूताः ॥”)

विदारिणी, स्त्री, (विदृणातीति । वि + दॄ + णिनिः ।

ङीप् ।) काश्मरी । इति राजनिर्घण्टः ॥
(विदारणकर्त्त्री । यथा, कथासरित्सागरे ।
५३ । १७१ ।
“एकानंशे शिवे दुर्गे नारायणि सरस्वति ।
भद्रकाली महालक्ष्मि सिद्धे रुरुविदारिणि ॥”)

विदारी, स्त्री, (विदारयतीति । वि + दॄ + णिच् +

अच् । गौरादित्वात् ङीष् ।) शालपर्णी । इति
मेदिनी ॥ भूमिकुष्माण्डः । तत्पर्य्यायः । क्षीर-
शुक्ला २ इक्षुगन्धा ३ क्रोष्ट्री ४ । इत्यमरः ॥
विदारिका ५ स्वादुकन्दा ६ सिता ७ शुक्ला ८
शृगालिका ९ वृष्यकन्दा १० विडाली ११
वृष्यवल्लिका १२ भूकुष्माण्डी १३ स्वादुलता १४
गजेष्टा १५ वारिवल्लभा १६ गन्धफला १७ ।
अस्या गुणाः । मधुरत्वम् । शीतत्वम् । गुरु-
त्वम् । स्निग्धत्वम् । अस्रपित्तनाशित्वम् । कफ-
कारित्वम् । पुष्टिबलवीर्य्यविवर्द्धनत्वञ्च । इति
राजनिर्घण्टः ॥ विदारी वातपित्तघ्नी वृष्या
बल्या रसायनी इति राजवल्लभः ॥ * ॥
अष्टादश-प्रकारकण्ठरोगान्तर्गत-रोगविशेषः ।
यथा, अथ विदारीमाह ।
“सदाहतोदं श्वयथुं सुताम्र-
मन्तर्गले पूतिविशीर्णमांसम् ।
पित्तेन विद्याद्वदने विदारीं
पार्श्वं विशेषात् स तु येन शेते ॥”
स पुरुषो येन पार्श्वेन विशेषाद्बाहुल्येन शेते
तस्मिन् पार्श्वे सा विदारी भवति इत्यर्थः । इति
भावप्रकाशः ॥ अस्याश्चिकित्सादि रोहिणी-
शब्दे द्रष्टव्यम् ॥

विदारी, [न्] त्रि, विदारणकर्त्ता । विपूर्ब्बदॄधातोः

कर्त्तरि णिन्प्रत्ययेन निष्पन्नः ॥

विदारीगन्धा, स्त्री, (विदार्य्या भूमिकुष्माण्डस्येन

गन्धो यस्याः ।) शालपर्णी । इत्यमरः ॥

विदारुः, पुं, क्रकचपादः । कृकलासः । इति

हारावली । २१८ ॥

विदाहि, [न्] क्ली, (विदहतीति । वि + दह +

णिनिः ।) दाहजनकद्रव्यम् । अस्य गुणौ ।
पित्तमृत्युकारित्वे । इति राजवल्लभः ॥ (दाह-
जनकमात्रे, त्रि । यथा, गीतायाम् । १७ । ९ ।
“कट्वम्ललवणात्युष्णतीक्ष्ण रूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥”)

विदिक्, [श्] स्त्री, (दिग्भ्यां विगता ।) दिशो-

र्मध्यम् । अग्निनिरृतिवाय्वीशानकोणचतुष्टयम् ।
तत्पर्य्यायः । अपदिशम् २ । इत्यमरः ॥
प्रदिक् ३ । इति जटाधरः ॥ विदिशम् ४ ।
इति शब्दरत्नावली ॥ कोणः ५ । इति राज-
निर्घण्टः ॥ (यथा, भागवते । ४ । १७ । १६ ।
“सा दिशो विदिशो देवी रोदसी चान्तरं तयोः ।
धावन्ती तत्र तत्रैनं ददर्शानुद्यतायुधम् ॥”)

विदिक्चङ्गः, पुं, हरिद्राङ्गपक्षी । इति शब्द-

चन्द्रिका ॥

विदितं, त्रि, (विद् + क्तः ।) अवगतम् । इत्य-

मरः ॥ (यथा, महाभारते । ७ । २८ । २२ ।
“सबाणः सधनुश्चाहं ससुरासुरमानुषान् ।
शक्तो लोकानिमान् जेतुं तच्चापि विदितं
तव ॥”)
अर्थितम् । इति मेदिनी । ते, १०९ ॥ उपगमः ।
इति शब्दरत्नावली ॥

विदितः, पुं, (विदितं ज्ञानमस्यास्तीति । अर्श-

आदित्वात् अच् ।) कविः । इति जटाधरः ॥
(ज्ञानाश्रये, त्रि । यथा, किराते । १ । १ ।
“श्रियः कुरूणामधिपस्य पालनीं
प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
सवर्णिलिङ्गी विदितः समाययौ
यधिष्ठिरं द्बैतवने वनेचरः ॥”

विदिथः, पुं, पण्डितः । योगी । इति शब्दरत्ना-

वली हस्ताक्षरमेदिनी च ॥ मुद्राङ्कितमेदिन्यां
हेमचन्द्रे च विदथ इति पाठः ॥

विदीर्णः, त्रि, (वि + दॄ + क्तः ।) कृतविदारणः ।

चेरा इति भाषा । यथा, --
पितर ऊचुः ।
“श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजै-
र्दत्तानि तीर्थसमयेऽप्यपिवत्तिलाम्बु ।
पृष्ठ ४/३८८
तस्योदरान्नखविदीर्णवपाद्य आर्च्छ-
त्तस्मै नमो नृहरयेऽखिलधर्म्मगोप्त्रे ॥”
इति श्रीमद्भागवते ७ स्कन्धे ८ अध्यायः ॥
अपि च ।
“अद्बीपे क्षिपती समस्तजगती सस्तोकशोका-
म्बुधौ
राधा सम्भृतकाकुराकुलमसौ चक्रे तथा
क्रन्दनम् ।
येन स्यन्दननेमिनिर्म्मितमहासीमन्तदम्भादिदं
हा सर्व्वं सहयापि निर्भरमभूद्दूराद्बिदीर्णं
भुवा ॥”
इत्युज्ज्वलनीलमणिः ॥

विदुः, पुं, (वेत्ति संज्ञामनेनेति । विद् + बाहु-

लकात् कुः ।) गजकुम्भद्वयमध्यभागः । इत्य-
मरः ॥ (अश्वकर्णाधोभागः । यथा, अश्व-
वैद्यके । २ । १४ ।
“विदुर्मर्मविदुश्चैव कर्णस्याधः षडङ्गुले ॥”)
जानन्ति । इति क्रियापदम् ॥ (यथा, महा-
भारते । १ । १२० । २८ ।
“अपत्यं नाम लोकेषु प्रतिष्ठा धर्म्मसंहिता ।
इति कुन्ति ! विदुर्धीराः शाश्वतं धर्म्म-
वादिनः ॥”)

विदुरः, पुं, (वेत्ति तच्छीलः । विद् + “विदिभिदि-

च्छिदेः कुरच् ।” ३ । २ । १६२ । इति कुरच् ।)
नागरः । घीरः । कौरवाणां मन्त्री । इति
मेदिनी । रे, ११५ ॥ विदुरोत्पत्तिर्यथा, --
“क्षेत्रेऽप्रजस्य वै भ्रातुर्मात्रोक्तो वादरायणः ।
धृतराष्ट्रञ्च पाण्डुञ्च विदुरञ्चाप्यजीजनत् ॥”
इति श्रीभागवते । ९ । २२ ॥
ज्ञातरि, त्रि । इत्यमरः ॥ * ॥

विदुलः, पुं, (विशेषेण दोलयतीति । घि + दुल +

कः ।) वेतसः । अम्बुवेतसः । इत्यमरः ॥ गन्ध-
रसः । इति रत्नमाला ॥

विदुषी, स्त्री, (वेत्तीति । विदेः शतर्वसुः । उगित-

श्चेति ङीप् ।) पण्डिता स्त्री । इति मुग्धबोध-
व्याकरणग् ॥ (यथा, नैषधे । २ ।
“चिकुरप्रकरा जयन्ति ते
विदुषी मूर्द्धनि सा विभर्त्ति यान् ॥”)

विदुष्मती, त्रि, (विद्वानस्ति अस्यामिति । विद्वस्

मतुप् । स्त्रियां ङीप् ।) पण्डितवती । यथा, --
“द्यौर्व्वाचस्पतिनेव पन्नगपुरी शेषाहिनेवा-
भवद्-
येनैकेन विदुष्मती वसुमती मुख्येन संख्याव-
ताम् ॥”
इति वोपदेवप्रशंसा ॥

विदूः, पुं, विदुः । गजकुम्भयोर्मध्यम् । इत्यमर-

टीका ॥

विदूरः, त्रि, (विशिष्टं दूरं यस्य ।) अतिदूरस्थ-

देशादि । यथा, --
“मासानष्टौ तव जलधरोत्कण्ठया शुष्ककण्ठः
सारङ्गोऽसौ युगशतमिव व्यानिनायातिकृ-
च्छ्रात् ।
आस्तां तावन्नवजलकणाभाजनत्वं विदूरे
वर्षारम्भप्रथमसमये दारुणो वज्रपातः ॥”
इति चातकाष्टकम् ॥
(पर्व्वतविशेषे, पुं । यथा, कुमारे । १ । २४ ।
“तया दुहित्रा सुतरां सवित्री-
स्कुरत्प्रभामण्डलया चकाशे ।
विदूरभूमिर्नवमेघशब्दा-
दुद्भिन्नया रत्नशलाकयेव ॥”)

विदूरगः, त्रि, अतिदूरगन्ता । विदूरे गच्छती-

त्यर्थे डप्रत्ययेन निष्पन्नः ॥

विदूरजं, क्ली, (विदूरे पर्व्वते जायते इति । जन +

डः ।) विदूरपर्व्वतजरत्नम् । वैदूर्य्यमणिः ।
अतिदूरजाते, त्रि । इति केचित् ॥

विदूरथः, पुं, राजविशेषः । यथा, --

“मनोस्तु दक्षपुत्त्रस्य द्वादशस्यात्मजान् शृणु ।
देववानुपदेवश्च देवश्रेष्ठो विदूरथः ॥
मित्रवान् मित्रदेवश्च मित्रविन्दश्च वीर्य्यवान् ।
मित्रवाहः सवर्च्चाश्च दक्षपुत्त्रमनोः सुताः ॥”
इति गारुडे ८७ अध्यायः ॥
(कुरुपुत्त्रः । यथा, महाभारते । १ । ९५ ।
३९ -- ४० ।
“कुरुः खलु दाशार्हीमुपयेमे सुभाङ्गीं नाम
तस्यामस्य जज्ञे विदूरथः । विदूरथस्तु माधवी-
मुपयेमे संप्रियां नाम तस्यामस्य जज्ञे अनश्वा
नाम ॥” * ॥ वृष्णिवंशीयानामन्यतमः । यथा,
भागवते । ९ । २४ । १८ ।
“पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः ॥”
अस्य पूत्त्रः शूरः । यथा, तत्रैव । ९ । २४ । २६ ।
“शूरो विदूरथादासीत् भजमानस्तु तत्सुतः ।
शिनिस्तस्मात् स्वयं भोजो हृदिकस्तत्सुतो
मतः ॥”)

विदूरभूमिः, स्त्री, (विदूरस्य भूमिः ।) विदूर-

देशः । यत्र वैदूर्य्यमणिरुत्पद्यते । यथा, --
“तया दुहित्रा सुतरां सवित्री
स्फुरत्प्रभामण्डलया चकाशे ।
विदूरभूमिर्नवमेघशब्दा-
दुभिन्नया रत्नशलाकयेव ॥”
इति कुमारसम्भवम् ॥

विदूराद्रिः, पुं, (विदूरनामकोऽद्रिः ।) विदूर-

पर्व्वतः । इति जटाधरः ॥

विदूषकः, त्रि, (विदूषयति आत्मानमिति । वि +

दूष + णिच् + ण्वुल् ।) कामुकः । तत्पर्य्यायः ।
षिड्गः २ व्यलीकः ३ षट्प्रज्ञः ४ काभकेलिः
५ पीठकेलिः ६ पीठमर्द्दः ७ भविलः ८ छिदुरः
९ विटः १० । इति त्रिकाण्डशेषः ॥ चाटुवटुः
११ वासन्तिकः १२ केलिकिलः १३ वैहासिकः
१४ प्रहासी १५ प्रीतिदः १६ । इति हेम-
चन्द्रः ॥ परनिन्दाकरः । इति मेदिनी । के, २१४ ॥
तत्पर्य्यायः । खलः २ रञ्जकः ३ अभीकः ४ क्रूरः
५ सूचकः ६ कण्टकः ७ नागः ८ मलिनास्यः
९ परद्वेषी १० । इति शब्दमाला ॥ चतुर्धा-
नायकान्तर्गतनायकविशेषः । तस्य लक्षणं
यथा । अङ्गादिवैकृत्यैर्हास्यकारी विदूषकः ।
अस्योदाहरणं यथा, --
“आनीय नीरजमुखीं शयनोपकण्ठ-
मुत्कण्ठतोऽस्मि कुचकञ्चुकमोचनाय ।
अत्रान्तरे मुहुरकारि विदूषकेण
प्रातस्तनस्तरुणकुक्कुटकण्ठनादः ॥”
इति रसमञ्जरी ॥
(अयन्तु शृङ्गारसहायः । यथा, साहित्यदर्पणे ।
३ । ७७ ।
“शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः ।
भक्ता नर्म्मसु निपुणाः कुपितबघूमानभञ्जनाः
शुद्धाः ॥”
दूषणकारके, त्रि । यथा, भागवते । ५ । ६ । १० ।
“येनह वाव कलौ मनुजापसदा देवमाया-
विमोहिताः **** ब्रह्मब्राह्मणयज्ञपुरुष-
लोकविदूषकाः प्रायेण भविष्यन्ति ॥”)

विदूषणं, क्ली, विशेषेण दूषणम् । विपूर्ब्बञ्यन्त्र-

दुषधातोरनट्(ल्युट्)प्रत्ययेन निष्यन्नम् ॥

विदेशः, पुं, (विप्रकृष्टो देशः ।) परदेशः । देशा-

न्तरम् । यथा । अशौचकालाभ्यरे विदेशस्था-
शौचश्रवणे शेषाहैः शुद्धिः । इति शुद्धितत्त्वम् ॥
अन्यच्च ।
“कोऽतिभारः समर्थानां किं दूरं व्यवसायि-
नाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥”
इति चाणक्ये ॥
अन्यत् देशान्तरशब्दे द्रष्टव्यम् ॥

विदेहः, पुं, जनकान्वयभूमिपः । (यथा, देवी-

भागवते । १ । १६ । ५२ ।
“द्रष्ट्रुमिच्छाम्यहं भूपं विदेहं नृपसत्तमम् ।
कथं तिष्ठदि संसारे पद्मपत्रमिवाम्भसि ॥”
विगतो देहो यस्या ।) कायशून्ये, त्रि । इति
मेदिनी । ले, १४ ॥ (यथा, महाभारते ।
३ । १०७ । २६ ॥
“छिन्नशीर्षा विदेहाश्च भिन्नत्वगस्थिसन्धयः ।
प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः ॥”)
निमिराजस्य विदेहत्वकारणम् । यथा, --
“असमाप्ते ततो यज्ञे वशिष्ठश्चागमद्दिवः ।
तं दृष्ट्वा कुपितः प्राह प्रत्याख्यातोऽस्मि
पार्थिव ।
यस्मात्तस्मात् शपेयं त्वां विदेहस्त्वं भविष्यसि ॥”
इति वह्रिपुराणे सूर्य्यवंशसमाप्ताध्यायः ॥

विदेहा, स्त्री, मिथिला । इति हेमचन्द्रः ॥ (यथा,

रघुः । १२ । २६ ।
“वभौ तमनुगच्छन्ती विदेहाधिपतेः सुता ।
प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मखी ॥”)

विद्धः, त्रि, (विध्यते स्मति । व्यध + क्तः ।)

छिद्रितः । इत्यमरः ॥ क्षिप्तः । सदृशः ।
वाधितः । इति मेदिनी । धे, १६ ॥ (यथा,
मार्कण्डेये । ५० । ७० ।
“तरुगुल्मादिभिर्द्वारं न विद्धं यस्य वेश्मनः ।
मर्म्मभेदोऽथवा पुंसस्तत् श्रेयो भवनं न ते ॥”)
पृष्ठ ४/३८९
ताडितः । इत्यजयपालः ॥ (यथा, विष्णुसंहि-
तायाम् । २० । ४४ ।
“नाकाले म्रियते कश्चित् विद्धः शरशतरपि ।
कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥”)

विद्धकर्णः, पुं, (विद्धः कर्ण इव पत्रमस्य ।) विद्ध-

कर्णी । इति भरतद्विरूपकोषः ॥ (विद्धौ कर्णौ
यस्येति । कृतकर्णवेधे, त्रि ॥)

विद्धकर्णा, स्त्री, विद्धकर्णी । इति भरतद्विरूप-

कोषः ॥

विद्धकर्णिका, स्त्री, (विद्धकर्णा । स्वार्थे कन् ।)

विद्धकर्णी । इति शब्दरत्नावली ॥

विद्धकर्णी, स्त्री, (विद्धः कर्ण इव पत्रमस्याः ।)

वृक्षविशेषः । अकनादि इति भाषा ॥ तत्-
पर्य्यायः । पाठा २ अम्बष्ठा ३ स्थापनी ४
श्रेयसी ५ रसा ६ एकाष्ठीला ७ पापचेली ८
प्राचीना ९ वनतिक्तिका १० । इत्यमरः ॥
अविद्धकर्णी ११ अविद्धकर्णा १२ । इति
तट्टीका ॥ आविद्धकर्णिका १३ विद्ध-
कर्णिका १४ । इति शब्दरत्नावली ॥ अन्यत्
पाठाशब्देद्रष्टव्यम् ॥

विद्यमानः, त्रि, (विद + शानच् ।) वर्त्तमानः ।

इति सच्छब्दटीकायां भरतः ॥ (यथा, वैद्यके ।
“वासायां विद्यमानायामाशायां जीवितस्य
च ॥”)

विद्या, स्त्री, (विद्यतेऽसौ इति । विद् + “संज्ञायां

समजनिषदनिपतेति ।” ३ । ३ । ९९ । इति
क्यप् ।) दुर्गा । इति शब्दरत्नावली ॥ गणि-
कारिका । इति शब्दचन्द्रिका ॥ ज्ञानम् । तत्तु
मोक्षे धीः । इति जटाधरः ॥ परमोत्तमपुरु-
षार्थसाधनीभूता विद्या ब्रह्मज्ञानरूपा । इति
नागोजीभट्टः ॥ मन्त्रः । यथा । शारदायाम् ।
“भान्तं वियत्सनयनं श्वेतो मर्द्दिनि ठद्बयम् ।
अष्टाक्षरी समाख्याता विद्या महिषमर्द्दिनी ॥”
विश्वसारे ।
“प्रणवाद्यां जपेद्विद्यां मायाद्यां वा जपेत्
सुधीः ।”
महिषमर्द्दिनीमन्त्रः ॥
“दशाक्षरी समाख्याता विद्या त्रिभुवनेश्वरी ।
प्रणवञ्च तथा माया भवेद्बिद्या पुनर्द्दश ।
कामं प्रणवमित्युक्तं भवेद्बिद्या पुनर्द्दश ॥”
दुर्गामन्त्रः ।
“वागबीजाद्या यदा विद्या वागीशत्वप्रदायिनी ।
कामाद्या च यदा विद्या सर्व्वकामप्रदायिनी ॥
तारमायादिका विद्या भोगमोक्षैकदायिनी ।
यद्वीजाद्या भवेद्बिद्या तद्बीजेनाङ्गकल्पना ॥”
अन्नपूर्णामन्त्रः । इति तन्त्रसारः ॥ * ॥ महा-
विद्या । कलौ तस्या नानामूर्त्त्यास्तामसी पूजा
सर्व्वत्र भविता । अधुना सा वारोएयारीपूजा
इति ख्याता । यथा, --
“अस्मिन् काले सुरेशानि प्रकाशो जायते भुवि ।
तमोधर्म्मेण सर्व्वत्र देवताप्रतिमां सदा ॥
अष्टम्याञ्च चतुर्द्दश्यां नवम्यां शनिभौमयोः ।
संक्रान्त्यां पञ्चदश्याञ्च पक्षयोरुभयोरपि ॥
कृत्वा तु पूजयिष्यन्ति महाविद्यां सभैरवाम् ।
विद्याञ्च विविधां देवि तथान्यप्रतिमां शुभाम् ॥
एवं हि तामसीं पूजामनित्याञ्च भवेत् कलौ ।”
इति मायातन्त्रे १७ पटलः ॥
शास्त्रम् । तत्तु अष्टादशविधम् । यथा । शिक्षा
१ कल्पः २ व्याकरणम् ३ निरुक्तम् ४ ज्योति-
षम् ५ छन्दः ६ ऋग्वेदः ७ यजुर्व्वेदः ८ साम-
वेदः ९ अथर्व्ववेदः १० मीमांसा ११ न्यायः १२
धर्म्मशास्त्रम् १३ पुराणम् १४ आयुर्व्वेदः १५
धनुर्व्वेदः १६ गान्धर्व्ववेदः १७ अर्थशास्त्रम् १८ ॥
यथा, विष्णुपुराणम् ।
“अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः
धर्म्मशास्त्रं पुराणञ्च विद्या ह्येताश्चतुर्द्दश ॥
आयुर्व्वेदो धनुर्व्वेदो गान्धर्व्वश्चेति ते त्रयः ।
अर्थशास्त्रं चतुर्थञ्च विद्या ह्यष्टादशैव ताः ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
नीचादप्युत्तमा विद्या ग्राह्या यथा, --
“श्रद्दधानः शुभां विद्यामाददीतावरादपि ।
अन्त्यादपि परं धर्म्मं स्त्रीरत्नं दुष्कुलादपि ॥”
इति मानवे २ अध्यायः ॥ * ॥
विद्याप्रशंसा यथा, --
“ये बालभावान्न पठन्ति विद्यां
ये यौवनस्था अधना अदाराः ।
ते शोचनीया इह जीवलोके
मनुष्यरूपेण मृगाश्चरन्ति ॥
भोजने भोजनं चित्तं न कुर्य्याच्छास्त्रसेवकः ।
सुदूरमपि विद्यार्थे व्रजेत् गरुडवेगवान् ॥
ये बालभावान्न पठन्ति विद्यां
कामातुरा यौवननष्टचित्ताः ।
ते वृद्धकाले परिभूयमानाः
सन्दह्यमानाः शिशिरे यथाब्जम् ॥
माता शत्रुः पिता वैरी वालो येन न पाठितः ।
न शोभते सभामध्ये हंसमध्ये वको यथा ॥
विद्या नाम कुरूपरूपमधिकं प्रच्छन्नमन्तर्द्धनं
विद्या साधुजनप्रिया शुचिकरी विद्या गुरूणां
गुरुः ।
विद्या बन्धुजनार्त्तिनाशनकरी विद्या परं देवता
विद्या भोग्ययशःकुलोन्नतिकरी विद्याविहीनः
पशुः ॥
गृहे चाभ्यन्तरे द्रव्यं लग्नं चैव तु दृश्यते ।
अशेषं हरणीयञ्च विद्या न ह्रियते परैः ॥”
इति गारुडे ११० । ११५ अध्यायौ ॥
अथ विद्यादानफलम् ।
“यस्तु देव्या गृहे नित्यं विद्यादानं प्रवर्त्तयेत् ।
स भवेत् सर्व्वलोकानां पूज्यः पूजापदं व्रजेत् ॥
विद्यादानं प्रवक्ष्यामि येन तुष्यन्ति मातरः ।
लिप्यते दीयते येन विघिना तं शृणुष्व नः ॥
सिद्धान्तमोक्षशास्त्राणि वेदान् स्वर्गादिसाध-
कान् ।
तदङ्गानीतिहासानि देया धर्म्मविवृद्धये ॥
गारुडं बालतन्त्रञ्च भूततन्त्राणि भैरवम् ।
शास्त्राणि पठनाद्दानात् मातरः फलदा
नृणाम् ॥
ज्योतिषं वैद्यशास्त्राणि कला काव्यं स्वभाग्यतः ।
दानादारोग्यमाप्नोति गन्धर्व्वं लभते पदम् ॥
विद्याभ्यो वर्त्तते लोको धर्म्माधर्म्मञ्च वृद्धये ।
तस्माद्विद्या सदा देया दृष्टादृष्टफलार्थिभिः ॥
महीदानञ्च गोदानं हैमवस्त्रतिला जलम् ।
धान्यदीपान्नदानञ्च महादानानि दानसु ॥
इहात्र क्षीयते दानं दीपदानं नराधिप ।
विद्या वृद्धिमवाप्नोति दीयमानापि नित्यशः ॥
एकोच्चारेण भूदानं दत्तं भवति भूमिप ।
नहि तद्विद्यते भूप देहपातादनन्तरम् ॥
विद्यादानं न तद्बत्स एकधा दशधा भवेत् ।
शतधा कोटिधा गच्छेदिहामूत्र च पारगः ॥
राज्ञा तस्करदायाद्यैर्जलवह्रिसरीसृपैः ।
सर्व्वदानानि ह्रीयन्ते विद्या केनापि ह्रीयते ॥
विद्यादानात् परं दानं न भूतं न भविष्यति ।
विद्यादानेन दानानि नहि तुल्यानि बुद्धिमन् ॥
विद्या एव परं मन्ये यत्तत् पदमनामयम् ।
शृण्वन्नुत्पद्यते भक्तिर्भक्त्या गुरुमुपासते ॥
स च विद्यागमान् वक्ति विद्या पुस्ताश्रिता
नृप ।
विद्याविवेकबोधेन शुभाशुभविचारिणाम् ॥
विद्यते सर्व्वकामाप्तिस्तस्माद्बिद्या परा मता ॥
विद्यादानात् परं दानं न भूतं न भविष्यति ।
येन दत्तेन चाप्नोति शिवं परमकारणम् ॥
विद्याविचारतत्त्वज्ञा राज्ञः सन्मार्गगामिनः ।
भुञ्जतेऽपि हि भोगानि गच्छन्ति परमां
गतिम् ॥
अन्त्यजा अपि यां प्राप्य क्रीडन्ते ग्रहराक्षसैः ।
सा विद्या केन मीयेत यस्याः कोऽन्यः समो-
ऽपि न ॥
ज्वरेण कुञ्जरं हन्ति सर्षपेण तुरङ्गमम् ।
मक्षिकापदमात्रस्य विषस्य विषमा गतिः ॥
एवंविधं विधिं वत्स विद्यामन्त्रप्रभावतः ।
जीर्य्यते भक्षितं पुंभिस्तस्माद्विद्या परात्परा ॥
नहि विद्या कुलं जातिरूपं पौरुषपात्रताम् ।
वशते सर्व्वलोकानां पठिता उपकारिका ॥
भूतैर्गृ हीता विध्वस्ता दष्टा वा महपन्नगैः ।
विद्या उत्थापयेत् वत्स अन्त्यजस्यापि हृत्-
स्थिता ।
सर्व्वेषामेव वृद्धानां विद्यावृद्धे हि मान्यता ॥
वयोवृद्धो हि शूद्राणां बिशानां धनवान् यतः ।
क्षत्त्रियाणान्तु वीर्य्येण विप्राणां शास्त्रपारगः ॥
वित्तं बन्धुर्वयश्चैव तपो विद्या यथोत्तरम् ।
पूजनीयानि सर्व्वेषां विद्या तेषां गरीयसी ॥
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
विद्यया लभ्यते विद्या चतुर्थी नोपलभ्यते ॥
यः कृत्स्नान्तु महीं दद्यात् मेरुतुल्यञ्च काञ्च-
नम् ।
स यदन्यायतः पृच्छेन्न तस्योपदिशेत् क्वचित् ॥
एवंविधं महाभाग विद्यारूपं हि वर्णितम् ।
पृष्ठ ४/३९०
संक्षेपान्न च विस्तारात्तस्या दानफलं शृणु ॥
श्रीताडीपत्रजे सञ्चे समे पत्रसुसञ्चिते ।
विचित्रकं विपार्श्वे च चर्म्मणां सवटीकृते ॥
रक्तेन अथ कृष्णेन मूर्द्धानावर्द्धितेन च ।
दृढसूत्रसुबन्धेन एवंविधकृतेन च ॥
यस्तु द्वादशसाहस्रीं संहितामुपलेखयेत् ।
ददाति चाभियुक्ताय स याति परमां गतिम् ॥
पूर्ब्बोत्तरप्लवे देशे सर्व्ववाधाविवर्ज्जिते ।
गोमयेन शुभेनैव कुर्य्यान्मण्डलकं बुधः ॥
चतुर्हस्तप्रमाणेन शुभञ्च चतुरस्रकम् ।
तस्य मध्ये लिखेत् पद्मं सितरक्तरजादिभिः ॥
सर्व्वर्त्तुकमयैः पुष्पैर्भूषयेत् सर्व्वतो दिशम् ।
वितानं दापयेन्मूर्द्ध्नि शुभचित्रविचित्रितम् ।
पार्श्वतः सितवस्त्रैस्तु सम्यक् शोभां प्रकल्पयेत् ।
कन्दुकैरद्धचन्द्रैश्च दर्पणैश्चामरैस्तथा ॥
घण्टाकिङ्किणिशब्दैश्च सर्व्वत्र उपकल्पयेत् ।
तस्य मध्ये न्यसेद्यन्त्रं नागदन्तमयं शुभम् ॥
अधः कश्चिन्निबद्धन्तु पार्श्वतो हरिदन्तिभिः ।
शोभितं दृढबन्धेन बद्धं सूत्रेण बुद्धिमान् ॥
तस्योर्द्ध्वे विन्यसेद्देव्याः पुस्तकं लिखितं शुभम् ।
आलेख्यमपि तत्रैव पूजयेद्बिधिना ततः ॥
निरुदकैस्तथा पुष्पैः कृमिकीटविवर्जितैः ।
चन्दनेन सदा तत्र भस्मना चारु धूनयेत् ॥
धूपञ्च गुग्गुलुं देयं तुरुष्कागुरुमिश्रितम् ।
दीपमालां तथा चाग्रे नैवेद्यं विविधं पुनः ॥
खाद्यं पेयान्वितं लेह्यं चोष्यञ्चापि निवेदयेत् ।
पूजयेद्दिशिपालांस्तु लोकपालान् यथाक्रमम् ॥
कन्याः स्त्रियस्तु संपूज्या मातरः कल्पयेच्च ताः ।
पुस्तकं देवदेवीश्च विप्राणां दक्षिणां तथा ॥
स्वशक्त्या चैव दातव्या नृपं पौरांश्च पूजयेत् ।
तथा संपूजयेद्वत्स लेखकं धर्म्मभागकम् ॥
छन्दोलक्षणतत्त्वज्ञं सत्कविं मधुरस्वरम् ।
प्रणष्टं स्मरते ग्रन्थं श्रेष्ठं पुस्तकलेखकम् ॥
नातिसन्ततविच्छिन्नैर्न श्लक्ष्णैर्न च कर्कशैः ।
नन्दिनागरकैर्व्वर्णैर्लेखयेच्छिवपुस्तकम् ॥
प्रारम्भे पञ्चश्लोकानि पुनः शान्तिन्तु कारयेत् ।
रात्रौ जागरणं कुर्य्यात् सर्व्वापेक्षं प्रकल्पयेत् ॥
नटचारणनग्नैश्च देव्याः कथनसम्भवैः ।
प्रत्यूषे पूजयेल्लोकांस्ततः सर्व्वं विसर्ज्जयेत् ॥
एकान्ते सुमनस्केन विश्रब्धेन दिने दिने ।
निष्पाद्यं विधिनानेन स्वर्क्षे च शुभवासरे ॥
ततः पूर्ब्बोक्तविधिना पुनः पूजां प्रकल्पयेत् ।
तथा विद्याविमानन्तु सप्तपञ्चत्रिभूमिकम् ॥
विचित्रवस्त्रशोभाढ्यं शुभलक्षणलक्षितम् ।
कारयेत् सर्व्वतोभद्रं किङ्किणीवरकान्वितम् ॥
दपेणैरर्द्धचन्द्रैश्च घण्टाचामरमण्डितम् ।
तस्मिन्धूपं समुत्क्षिप्य सुगन्धं चन्दनागुरुम् ॥
तरुस्कं गुग्गुलुं वत्स शर्करामधुमिश्रितम् ।
पूर्ब्बवत् पूजयेत् सर्व्वान् कन्यास्त्रीद्विजपौरवान् ॥
तथा तं पुस्तकं वस्त्रे विन्यसेद्विधिपूजितम् ।
एवं कत्वा तथा चिन्त्या मातरः प्रीयतां मम ॥
यस्यैव शुल्कं तच्छास्त्रं पुस्ते पुरि विकल्पयेत् ।
तथा तपस्विनः पूज्याः सर्व्वशास्त्रार्थपारगाः ॥
शिवव्रतधरा मुख्या विष्णुधर्म्मपरायणाः ।
महता जनसंघेन रथस्थं वाद्यवाहनैः ॥
प्रधानैर्व्वापि तन्नेयं यस्य देवस्य अंशजम् ।
सामान्यं शिवतीर्थेषु मातरो भवनेषु च ॥
तस्मिन् पूजां तथा कृत्वा देवदेवेन शूलिना ।
समर्पयेत् प्रणम्येशं मातरः प्रीयतां मम ॥
सदाध्ययनयुक्ताय विद्यादानरताय च ।
विद्यासंग्रहयुक्ताय सर्व्वशास्त्रकृताश्रमे ॥
तेनैव वर्त्तते यस्तु तस्य तं विनिवेदयेत् ।
जगद्धिताय वै शान्तिं सन्ध्यायां वाचयेत्तथा ॥
तेन तोयेन दातारं मूर्द्ध्नि समभिसिञ्चयेत् ।
वरन्नेतु ततः शब्दमुच्चार्य्यं जगतस्तथा ॥
एवं कृते महाकान्तिर्देशस्य नगरस्य च ॥
अनेन विधिना यस्तु सर्व्ववाधाः शमन्ति च ॥
अनेन विधिना यस्तु विद्यादानं प्रयच्छति ।
स भवेत् सर्व्वलोकानां दर्शनादघनाशनः ।
मृतोऽपि गच्छते स्थानं ब्रह्मविष्णुनमस्कृतम् ॥
सप्त पूर्ब्बापरान् वंशानात्मनः सर्व्व एव च ।
उद्धृत्य पापकलिलाद्विष्णुलोके महीयते ॥
यावत् तत्पत्रसंख्यानमक्षराणि विधीयते ।
तावत् स विष्णुलोकेषु क्रीडते विविधैः सुखैः ॥
तदा क्षितिं समायातो देव्या भक्तिरता भवेत् ।
समस्तभोगसम्पन्ने विद्वान् संजायते कुले ॥
विद्यादानप्रभावेन योगशास्त्रं ददेद्यदि ।
आत्मवित्तानुरूपेण यः प्रयच्छति मानवः ।
अशाठ्यात् फलमाप्नोति सत्यं सत्यं न संशयः ॥
स्त्रिया वानेन विधिना विद्यादानफलं लभेत्
भर्त्तुर्व्वानुज्ञया दत्तं विधवा वा तमुद्दिशन् ॥ * ॥
विद्यार्थिने सदा देयं वस्त्रमभ्यङ्गभोजनम् ।
छत्रिका उदकं दीपं यस्मात्तेन विना नहि ॥
लेखनीघटनं तीक्ष्णमसिपत्रन्तु लेखनीम् ।
दत्त्वा तु लभते वत्स विद्यादानमनुत्तमम् ॥
पुस्तकास्तरणं दत्त्वा तत्प्रमाणं सुशोभनम् ।
विद्यादानमवाप्नोति सूत्रबन्धन्तु बुद्धिमान् ॥
पत्रकामासनञ्चैव दण्डासनमथापि वा ।
विद्याधारणशीलाय दत्तं भवति राज्यदम् ॥
अञ्जनं नेत्रपादानां दत्तं विद्यापरायणे ।
भूमिं गृहन्तु क्षेत्रन्तु स्वर्गराज्यफलप्रदाम् ॥
यस्य भूम्यां स्थितो नित्यं विद्यादानं प्रवर्त्तते ।
तस्यापि भवते स्वर्गं तत्प्रभावान्नराधिप ॥
तस्मात् सर्व्वप्रयत्नेन विद्या देया सदा नरैः ।
इह कीर्त्तिमवाप्नोति मृतो याति परां गतिम् ॥”
इति देवीपुराणे विद्यादानमहाभाग्यफला-
ध्यायः ॥ * ॥ अपि च ।
“दशवापीसम कन्या भूमिदानञ्च तत्समम् ।
भूमिदानाद्दशगुणं विद्यादानं विशिष्यते ॥
यथा सुराणां सर्व्वेषां रामश्च परमेश्वरः ।
तथैव सर्व्वदानानां विद्यादानन्तु देहिनाम् ॥
राजसूयसहस्रस्य सम्यगिष्टस्य यत् फलम् ।
तत् फलं लभते विप्रो विद्यादानेन पुण्यवान् ॥
सर्व्वशस्यसमापूर्णां सर्व्वरत्नोपशोभिताम् ।
विप्राय वेदविदुषे महीं दत्त्वा शशिग्रहे ।
यत्फलं लभते विप्रो विद्यादानेन तत् फलम् ॥
कपिलानां सहसेण सम्यग्दत्तेन यत् फलम् ।
तत् फलं समवाप्नोति पुस्तकस्य प्रदानतः ॥
यावच्च पातकं तेन कृतं जन्मशतैरपि ।
तत् सर्व्वं नाशयत्याशु विद्यादानेनं भो द्बिज ॥
धर्म्मोपदेशं यः कुर्य्यात् शास्त्रं ज्ञात्वा तु वैष्णवे ।
कृत्स्नां धरित्रीं यो दद्यात् उभयोस्तत्समं
फलम् ॥
विद्यादानात् परं दानं न भूतं न भविष्यति ।
येन दत्तेन चाप्नोति शिवं परमकारणम् ॥
विद्या च श्रूयते लोके सर्व्वधर्म्मप्रदायिका ।
तस्माद्बिद्या सदा देया पण्डितैर्धार्म्मिकैर्द्बिजैः ॥
आत्मविद्याप्रदातारो ये भवन्ति सदा मुने ।
न पुनस्तेऽपि निरयं प्रविशन्ति सुनिश्चयम् ॥
विप्राय पुस्तकं दत्त्वा धर्म्मशास्त्रस्य च द्विज ।
पुराणस्य च यो दद्यात् स देवत्वमवाप्नुयात् ॥
शास्त्रदृष्ट्या जगत् सर्व्वं सुश्रुतञ्च शुभाशुभम् ।
तस्मात् शास्त्रं प्रयत्नेन दद्याद्विप्राय कार्त्तिके ॥
वेदविद्याञ्च यो दद्यात् स्वर्गे कल्पत्रयं वसेत् ।
आत्मविद्याञ्च यो दद्यात् तस्य संख्या न
विद्यते ॥
त्रीणि तुल्यप्रदानानि त्रीणि तुल्यफलानि च ।
शास्त्रं कामदुधा धेनुः पृथिवी चैव शाश्वती ॥
यत्किञ्चित् कार्त्तिके दत्तं विष्णुमुद्दिश्य मानवैः ।
तदक्षयञ्च लभते त्वन्नदानाद्विशेषतः ॥
इह लोके बहून् भोगान् भुक्त्वा याति शिवा-
लयम् ॥”
इति पाद्मोत्तरखण्डे ११७ अध्यायः ॥
अथ विद्यारम्भदिनानि ।
विष्णुधर्म्मोत्तरे ।
“संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्द्दने ।
षष्ठीं प्रतिपदञ्चैव वर्ज्जयित्वा तथाष्टमीम् ॥
रिक्तां पञ्चदशीञ्चैव सौरिभौमदिनं तथा ।
एवं सुनिश्चिते काले विद्यारम्भन्तु कारयेत् ॥
पूजयित्वा हरिं लक्ष्मीं देवीञ्चापि सरस्वतीम् ।
स्वविद्यासूत्रकारांश्च स्वाञ्च विद्यां विशेषतः ॥
नमस्ते बहुरूपाय विष्णवे परमात्मने ।
स्वाहेत्यनेन हरिं त्रिः पूजयेत् ।
भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः ।
वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च ॥
स्वाहेति ब्रह्मपुराणीयेन च त्रिः पूजयेत् ॥” * ॥
लिखनविधिमाह नन्दिपुराणम् ।
“शुभे नक्षत्रदिवसे शुभे वारे दिनग्रहे ।
लेखयेत् पूज्य देवेशान् रुद्रब्रह्मजनार्द्दनान् ॥
पूर्ब्बदिग्वदनो भूत्वा लिपिज्ञो लेखकोत्तमः ।
निरोधो हस्तबाह्वोश्च मसीपत्रावधारणे ॥”
मत्स्यपुराणञ्च ।
“शीर्षोपेतान् सुसंपूर्णान् समश्रेणीगतान्
समान् ।
अक्षरान् विलिखेद्यस्तु लेखकः स परः
स्मृतः ॥”
पृष्ठ ४/३९१
नाधीयीतेत्यनुवृत्तौ मनुः ।
“रुधिरे च स्रते गात्रात् शस्त्रेण च परीक्षते ।”
रुधिरस्रवं विना शस्त्रेण क्षतमात्रेऽपि । दीपि-
कायाम् ।
“लघुचरशिवमूलाधोमुखत्वष्टृपौष्ण-
शशिषु च हरिबोधे शुक्रजीवार्कवारे ।
उदितवति च जीवे केन्द्रकोणेषु सौम्यै-
रपठनदिनवर्ज्जं पाठयेत् पञ्चमेऽब्दे ॥”
मदनपारिजाते ।
“विद्यारम्भे गुरुः श्रेष्टो मध्यमौ भृगुभास्करौ ।
मरणं शनिभौमाभ्यामविद्या बुधसोमयोः ॥
विद्यारम्भः सुरगुरुसितज्ञेष्वभीष्टार्थदायी
कर्त्तुश्चायुश्चिरमपि करोत्यंशुमान् मध्यमोऽत्र ।
नीहारांशौ भवति जडता पञ्चता भूमिपुत्त्रे
छायासूनावपि च मुनयः कीर्त्तयन्त्येवमाद्याः ॥
रवेर्गुरोर्भृगोर्लग्ने तत्स्थेऽर्केऽपीन्दुवृद्धितः ।
गुर्व्वर्केन्दूडुशुद्धौ च विद्यारम्भः प्रशस्यते ॥” * ॥
बृहस्पतिः ।
“प्राङ्मुखो गुरुरासीनो वरुणाभिमुखं शिशुम् ।
अध्यापयेच्च प्रथमं द्विजाशीर्भिः प्रपूजितम् ॥”
कूर्म्मपुराणम् ।
“स्वाध्यायस्य त्रयो भेदा वाचिकोपांशु-
मानसाः ॥”
शिवधर्म्मे ।
“संस्कृतैः प्राकृतैर्वाक्यैर्यः शिष्यमनुरूपतः ।
देशभाषाद्युपायैश्च बोधयेत् स गुरुः स्मृतः ॥”
आदिः ग्रन्थकरणादिः । * । नन्दिपुराणम् ।
“प्रशस्तशब्दसंयोगे कुर्य्यात् यतिविरामणम् ।”
विरामणं तद्दिनपाठसमाप्तिम् ॥ * ॥
“समाप्ते वाचकाभीष्टं कुर्य्यादेव विचक्षणः ।
सुश्रुतं सुव्रतं भूयादस्तु व्याख्या तु नित्यदा ॥
लोकः प्रवर्त्ततां घर्म्मे राजा चास्तु सदा जयी ।
धर्म्मवान् धनसम्पन्नो गुरुश्चास्तु निरामयः ॥ * ॥
इति प्रोच्य यथायातं गन्तव्यञ्च विभावितैः ।
शिष्यैः परस्परं शास्त्रं चिन्तनीयं विचक्षणैः ॥
कथावस्तुप्रसङ्गेन नानाव्याख्यानसम्भवैः ।
युक्तिभिश्च स्मरेद्व्याख्यां चिह्रैश्चापि स्वयंकृतैः ।
एवं दिने दिने व्याख्यां शृणुयान्नियतो नरः ॥”
विष्णुपुराणम् ।
“पुत्त्रैरध्यापिता ये च ते पतन्ति श्वभोजने ॥”
सूत उवाच ।
“प्रागल्भ्यहीनस्य नरस्य विद्या
शस्त्रं यथा कापुरुषस्य हस्ते ।
न तृप्तिमुत्पादयते शरीरे
अन्धस्य दारा इव दर्शनीयाः ॥” * ॥
लिङ्गपुराणम् ।
“यो गुरुं पूजयेन्नित्यं तस्य विद्या प्रसीदति ।
तत्प्रसादेन यस्मात् स प्राप्नुते सर्व्वसम्पदः ॥”
दुर्व्वासाः ।
“सन्ध्यायां गर्ज्जिते मेघे शास्त्रचिन्तां करोति
यः ।
चत्वारितस्य नश्यन्ति चायुर्विद्या यशो बलम् ॥”
अधीतस्यार्थिने दानमावश्यकं तथा च श्रुतिः ।
योऽधीत्यार्थिभ्यो विद्यां न प्रयच्छेत् स कार्य्यहा
स्यात् श्रेयसो द्बारमावृणुयात् इति । * ।
तद्दानञ्च अध्यापनेन व्याख्यया विलिख्यार्पणेन
च सम्भवतीत्यतो धीमद्भिर्निबन्धः क्रियते ॥ * ॥
तथा च विष्णुपुराणम् ।
“प्राणिनामुपकाराय यदेवेह परत्र च ।
कर्म्मणा मनसा वाचा तदेव मतिमान् भजेत् ॥”
बृहस्पतिरपि ।
“अज्ञानतिमिरोपेतान् सन्देहपटलान्वितान् ।
निरामयान् यः कुरुते शास्त्राञ्जनशलाकया ॥
इह कीर्त्तिं राजपूजां लभते सद्गतिञ्च सः ।
षाण्माषिके तु समये म्रान्तिः सञ्जायते यतः ॥
धात्राक्षराणि सृष्टानि पत्रारूढान्यतः पुरा ।
उपदेशानुमन्ता च लोके तुल्यफलौ स्मृतौ ॥”
एवञ्च । एकलव्येनानुपदेष्टापि द्रोणाचार्य्यो गुरुः
कृतः अतो ग्रन्थकर्त्तः सुतरां गुरुत्वम् । यथा,
महाभारते ।
“अरण्यमनुसंप्राप्य कृत्वा द्रोणं महीमयम् ।
तस्मिन्नाचार्य्यवृत्तिञ्च परमामास्थितस्तदा ।
इष्वस्त्रे योगमातस्थे परं निश्चयमागतः ॥” * ॥
शङ्खलिखितौ ।
“न वेदमनधीतानां विद्यामधीयीतान्यत्र वेदाङ्ग-
स्मृतिभ्यः ॥” * ॥ अङ्गानि च ।
“शिक्षा कल्पो व्याकरणं छन्दो ज्योतिषमेव च ।
निरुक्तञ्चेति चाङ्गानि वेदानां गदितानि षट् ॥”
स्मृतिस्तु धर्म्मसंहितेत्यमरः ॥ * ॥ शिष्यस्य
गुरुषु ऋणित्वमाह लघुहारीतः ।
“एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत् ॥”
नन्दिपुराणम् ।
“यश्च श्रुत्वान्यतः शास्त्रं संस्कारं प्राप्य वै दृढम् ।
अन्यस्य जनयेत् कीर्त्तिं गुरोः स ब्रह्महा भवेत् ॥
विस्मरेच्च तथा मौढ्याद्योऽपि शास्त्रमनुत्तमम् ।
स याति नरकं घोरमक्षयं भीमदर्शनम् ॥” * ॥
अतएव गृहस्थादीनामपि पुनरध्ययनमाह
आपस्तम्बः । यया विद्यया न विरोधेत पुनरा-
चार्य्यमुपेत्य साधयेदिति ॥ * ॥ विष्णुः । यश्च
विद्यामासाद्य तव्या जीवेत् न च सा तस्य पर-
लोकफलप्रदा भवति यश्च विद्यया परेषां यशो
हन्तीति । * । देवलः ।
“इष्टं दत्तमधीतं यद्विनश्यत्यनुकीर्त्तनात् ।
श्लाघानुशोचनाभ्याञ्च भग्नतेजो विभिद्यते ॥
तस्मादात्मकृतं पुण्यं वृथा न परिकीर्त्तयेत् ॥”
अनुकीर्त्तनं कथनम् । श्लाघा प्रशंसा । अनु-
शोचनं धनव्ययेन पश्चात्तापः । भग्नतेजः फल-
जनकशक्तिहीनम् । वृथा रक्षादिप्रयोजनं
विना ॥ * ॥ वैष्णवामृते भविष्यपुराणम् ।
“उपाध्यायस्य यो वृत्तिं दत्त्वाध्यापयति
द्विजान् ।
किन्न दत्तं भवेत्तेन धर्म्मकामार्थमिच्छता ॥”
इति ज्योतिस्तत्त्वम् ॥

विद्याचणः, (विद्यया वित्तः । विद्या + “तेन-

वित्तश्चुञ्चुप्चणपौ ।” ५ । २ । २६ ।
इति चणप् चञ्चुप् च ।) बिद्यया ख्यातः । इति
व्याकरणम् ॥

विद्याचुञ्चुः, (विद्यया वित्तः । विद्या + “तेन-

वित्तश्चुञ्चुप्चणपौ ।” ५ । २ । २६ ।
इति चणप् चञ्चुप् च ।) बिद्यया ख्यातः । इति
व्याकरणम् ॥

विद्यादलः, पुं, भूर्ज्जवृक्षः । इति शब्दमाला ॥

विद्यादाता, [ऋ] त्रि, (विद्यां ददातीति । दा +

तृच् ।) विद्यादानकर्त्ता । यथा, --
“अन्नदाता भयत्राता पत्नीतातस्तथैव च ।
विद्यादाता जन्मदाता पञ्चैते पितरो नृणाम् ॥”
इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥
अपि च ।
“न च विद्यासमो बन्धुर्नास्ति कश्चित् गुरोः
परः ।
विद्यादातुः पुत्त्रदारौ तत्समौ नात्र संशयः ॥”
इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४४ अध्यायः ॥

विद्यादानं, क्ली, (विव्याया दानम् ।) अध्यापनम् ।

पुस्तकदानम् । यथा, --
वशिष्ठ उवाच ।
“विद्यादानं प्रवक्ष्यामि याथातथ्यात्तवाधुना ।
तथा देयं फलं यच्च तच्छृणुष्व नृपोत्तम ! ॥
पुण्येऽह्रि शुभनक्षत्रे मण्डपं शुभवेदिकम् ।
चतुरस्रं वितानं वा कृत्वा तत्रोपलेपयेत् ॥
गोमयेनोपलिप्ते तु पुष्पप्राकरशोभिते ।
तत्र न्यस्यासनं दिव्यं दिव्यगन्धादिवासितम् ॥
संस्थाप्य पुस्तकं तत्र धर्म्मशास्त्रस्य धीमता ।
ब्राह्मणान् वेदसंपूर्णान् छन्दोलक्षणपारगान् ॥
लेखयित्वा तु यत्नेन तत्समक्षं शुभाक्षरैः ।
चन्द्रसूर्य्योपरागे वा संक्रान्त्ययनवासरे ॥
पुण्येऽह्नि तत् सुसंपूज्य वस्त्रालङ्कारभूषणैः ।
घृतधेन्वा युतं रत्नैर्दद्यात् गुणवते ततः ॥
शास्त्रसद्भावविदुषे वाचकेऽतिप्रियंवदे ।
तच्छास्त्रं शृणुतां नित्यं जनानां नाशयन्त्यथ ।
दातुस्तस्माद्भवत्येवं फलं तच्छृणु भूपते ॥
यत् पुण्यं सर्व्वतीर्थानां विधिवद्यजतां तथा ।
तत् पुण्यं समवाप्नोति विधिवच्छास्त्रदः पुमान् ॥
कपिलानां सहस्रेण सम्यग्दत्तेन यत् फलम् ।
तद्राजन् सकलं लेभे धर्म्मशास्त्रप्रदायकः ॥
पुराणं भारतं वापि रामायणमथापि वा ।
दत्त्वा यत् फलमाप्नोति न तत् सर्व्वैर्महामखैः ॥
देवानामालये नित्यं धर्म्मशास्त्राणि यः पुमान् ।
अध्यापयति धर्म्मात्मा तस्य दानफलं शृणु ॥
धनभूमिहिराण्यानां दानेन यदवाप्यते ।
फलं तत् सकलं राजन् नित्यं कारापकस्य च ॥
योऽधीते धर्म्मशास्त्राणि देवानां पुरतोऽनिशम् ।
द्विजो वीप्सुरथार्थानामेवमेवार्हति ध्रुवम् ॥
प्रातरुत्थाय यो वेदं वेदाङ्गं शास्त्रमेव वा ।
पृथिवीदानतुल्यं स्यात् फलं तस्य नृपोत्तम ॥
दानैर्योऽपि विभर्त्त्येताननीप्सुर्धर्म्मतत्परः ।
द्बिगुणं पृथिवीदानात् फलं तस्य भवेन्नृप ! ॥
यो भृतं पठमानानां करोत्यनुदिनं नृप ! ।
स यज्ञफलमादत्ते दानाच्छादनभोजनैः ॥
विवेको जीवितं दीर्घं घर्म्मकामार्थसम्पदः ।
पृष्ठ ४/३९२
सर्व्वं तेन भवेद्दत्तं शास्त्राणां पोषणे कृते ॥
वाजपेयसहस्रस्य सम्यगिष्टस्य यत् फलम् ।
तत् फलं समवाप्नोति विद्यादानान्न संशयः ॥
तस्माद्देवालये नित्यं धर्म्मशास्त्रस्य वा श्रुतेः ।
पठनं कारयेद्राजन् यदीच्छेद्धर्म्ममात्मनः ॥
गोभूहिरण्यवासांसि शयनान्यासनानि च ।
प्रत्यहं तेन दत्तानि भवन्ति नृपसत्तम ! ॥
धर्म्माधर्म्मं न जानाति लोकोऽयं विद्यया विना ।
तस्मात् सदैव धर्म्मात्मन् विद्यादानरतो भव ॥”
इति वह्रिपुराणे विद्यादाननामाध्यायः ॥

विद्यादेवी, स्त्री, (विद्याया देवी ।) जिनषोडश-

देव्यन्तर्गतदेवीविशेषः । इति हेमचन्द्रः ॥ सर-
स्वती च ॥

विद्याधनं, क्ली, विद्यया अर्ज्जितधनम् । यथा ।

विद्याधनमाह कात्यायनः ।
“उपन्यस्ते तु यल्लब्धं विद्यया पणपूर्ब्बकम् ।
विद्याधनन्तु तद्विद्यात् विभागे न नियोजयेत् ॥
शिष्यादार्त्विज्यतः प्रश्नात् सन्दिग्धप्रश्ननिर्णयात् ।
स्वज्ञानशंसनाद्वादाल्लब्धं प्राध्ययनात्तु यत् ॥
विद्याधनन्तु तत् प्राहुर्विभागे न प्रयोजयेत् ।
शिल्पेष्वपि हि धर्म्मोऽयं मूल्याद्यच्चाधिकं
भवेत् ॥
परं निरस्य यल्लब्धं विद्यया द्यूतपूर्ब्बकम् ।
विद्याधनन्तु तद्बिद्यात् न विभाज्यं बृहस्पतिः ॥”
यदि भवान् भद्रमुपन्यस्यति तदा भवत एव
मयैतद्देयमिति पणितं यत्रोपन्यासं निस्तीर्य्य
लभते तन्न विभाज्यम् । शिष्यादध्यापितात्
आर्त्विज्यतः यजमानाद्दक्षिणया लब्धं धनं न
प्रतिग्रहलब्धं वेतनरूपत्वात्तस्य । तथा यत्कि-
ञ्चिद्बिद्याप्रश्ने निस्तीर्णेऽपणितं यदि कश्चित्
परितोषाद्ददाति । तथा यो ह्यस्मिन् शास्त्रार्थे
अस्माकं संशयमपनयति तस्मै धनमिदं ददा-
मीत्युपस्थितस्य संशयमपनीय यल्लब्धम् । तथा
वादिनोर्व्वादसन्देहे न्यायकरणार्थमागतयोः
सम्यङ्निरूपणे यल्लब्धं षष्ठांशादिकम् । तथा
शास्त्रादिप्रकृष्टज्ञानं सम्भाव्य यत् प्रतिग्रहा-
दिना लब्धम् । तथा शास्त्रज्ञानविवादे अन्य-
त्रापि यत्र कुत्रचिदन्योऽन्यज्ञानविवादे निर्ज्जित्य
यल्लब्धम् । तथैकस्मिन् देये बहूनामुपप्लवे येन
प्रहृष्टात् यल्लब्धम् । तथा शिल्पादिविद्यया
चित्रकरसुवर्णकारादिभिर्यल्लब्धम् । तथा द्यूते-
नापि परं निर्ज्जित्य यल्लब्धं तत् सर्व्वमविभाज्य-
मितरैः । तस्माद्यया कयाचित् विद्यया लब्ध-
मर्ज्जकस्यैव तन्न इतरेषामिति । प्रदर्शनार्थन्तु
कात्यायनेन विस्तारितमिति दायभागः ॥
नारदः ।
“कुटुम्बं विभृयाद्भ्रातुर्यो विद्यामधिगच्छतः ।
भागं विद्याधनात्तस्मात् स लभेताश्रुतोऽपि
सन् ॥”
चिभृयादित्येकवचननिर्द्देशान्न बहवः । यदि
विद्यामभ्यस्यतो भ्रातुः कुटुम्बमपरो भ्राता
स्वधनव्ययशरीरायासाभ्यां संवर्द्धयति तदा
तद्विद्यार्ज्जितधने तस्याधिकारः । अश्रुतो मूर्खः ।
कल्पतरुमिताक्षरादीपकलिकासु कात्यायनः ।
“परभक्तोपयोगेन विद्या प्राप्तान्यतस्तु या ।
तया लब्धं धनं यत्तु विद्यालब्धं तदुच्यते ॥”
अन्यतः पितृमातृकुलव्यतिरिक्तात् । अत्र
विशेषयति स एव ।
“नाविद्यानान्तु वैद्येन देयं विद्याधनं क्वचित् ।
समविद्याधिकानान्तु देयं वैद्येन तद्धनम् ॥”
तत्रोच्चरितविद्यापदमुभाभ्यां सम्बध्यते । तेन
समविद्याधिकविद्यानां भागो न तु न्यूनविद्या-
विद्ययोः । वैद्येन विदुषा । पुनर्विशेषयति ।
“कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपि वा ।
शौर्य्यप्राप्तन्तु यद्वित्तं विभाज्यं तद्बृहस्पतिः ॥”
कुले स्वकुले पितामहपितृव्यादिभ्यः पितृत एव
वा शिक्षितविद्यानां भ्रातॄणां यद्बिद्याशौर्य्यप्राप्तं
धनं तद्विभजनीयमिति कल्पतरुरत्नाकरौ ।
इति दायतत्त्वम् ॥

विद्याधरः, पुं, देवयोनिविशेषः । इत्यमरः ॥ विद्यां

मन्त्रादिकं धरति पचादित्वादः । पुष्पदन्तादिः
कामरूपी खेचरः । इति भरतः ॥ (यथा,
रघुः । २ । ६० ।
“तस्मिन् क्षणे पालयितुः प्रजाना-
मुत्पश्यतः सिंहनिपातमुग्रम् ।
अवाङ्मखस्योपरि पुष्पवृष्टिः
पपात विद्याधरहस्तमुक्ता ॥”)
तस्योत्पत्त्यादिर्यथा, --
“नैकैर्यक्षगणैर्व्याप्तं त्रैलोक्यमप्सरोगणैः ।
तेषामुत्पादितान्योन्यं महागन्धर्व्वनायकाः ॥
उत्पादिताः पुनस्तैर्ये विक्रान्ता युद्धदुर्म्मदाः ।
विद्याधरेश्वरास्ते तु खेचराः कामचारिणः ॥
हिरण्यरोमा कपिलः सुलोमा माधवस्तथा ।
इन्द्रकेतुश्च पिङ्गाङ्गो नादश्चैव महाबलः ॥
गण इत्येवमादिस्तु द्वे चान्ये वै सुलोचने ।
शिवा च मुमनाश्चैव ताभ्यामपि च विश्रवाः ॥
पुनश्चोत्पादयामास विद्या सौमनसं गणम् ।
एतैर्व्याप्तो ह्ययं लोको विद्याधरगणैस्त्रिभिः ॥
एभ्योऽनेकानि जातानि ह्यवरान्तरचारिणाम् ।
लोकेऽस्मिन् गणशस्तानि मन्त्रविद्याविचारि-
णाम् ।
विद्याधरास्तथान्येऽपि विद्याबलसमन्विताः ॥”
इति वह्रिपुराणे काश्यपीयवंशः ॥ * ॥
षोडशरतिबन्धान्तर्गतचरमबन्धः । तस्य लक्षणं
यथा, रतिमञ्जर्य्याम् ।
“नार्य्या ऊरुयुगं धृत्वा कराभ्यां ताडयेत्
पुनः ।
कामयेन्निर्भरं कामी बन्धो विद्याधरो मतः ॥”

विद्यावान्, [त्] त्रि, (विद्यास्त्यस्येति । विद्या +

मतुप् । मस्य वः ।) विद्याविशिष्टः । विद्या-
शब्दात् वतुप्रत्ययेन विष्पन्नः ॥ (यथा, प्रबोध-
चन्द्रोदये । २ । ३१ ।
“विद्यावन्त्यपि कीर्त्तिमन्त्यपि सदाचारावदा-
तान्यपि ।
प्रोच्चैः पौरुषभूषणान्यपि कुलान्युद्धर्त्तुमीशः
क्षणात् ॥”)

विद्युज्जिह्वः, पुं, (विद्युदिव चञ्चला जिह्वा यस्य ।)

राक्षसविशेषः । यथा, --
“अग्निकेतुश्च दुर्द्धर्षो रश्मिकेतुश्च वीर्य्यवान् ।
विद्युज्जिह्वो द्बिजिह्वश्च सूर्य्यशत्रुश्च राक्षसः ॥”
इति रामायणे उत्तरकाण्डे ९० सर्गः ॥
(स्त्री, कुमारानुचरमातृगणविशेषः । यथा,
महाभारते । ९ । ४६ । ८ ।
“मेघस्वना भोगवती सुभ्रूश्च कनकावती ।
अलाताक्षी वीर्य्यवती विद्युज्जिह्वा च भारत ! ॥”)

विद्युज्ज्वाला,, स्त्री, (विद्युत इव ज्वाला यस्याः ।)

कलिकारीवृक्षः । इति राजनिर्घण्टः ॥ (विद्युतो
ज्वाला ।) तडित्प्रभा च ॥

विद्युत्, स्त्री, (विशेषेण द्योतते इति तच्छीला

वा । वि + द्युत + “भ्राजभासेति ।” ३ । २ । १७७ ।
इति क्विप् ।) सन्ध्या । इति मेदिनी । ते, १५५ ॥
विद्योतते या । तत्पर्य्यायः । शम्पा २ शतह्रदा ३
ह्रादिनी ४ ऐरावती ५ क्षणप्रभा ६ तडित् ७
सौदामिनी ८ चञ्चला ९ चपला १० । इत्य-
मरः ॥ वीपा ११ सौदाम्नी १२ चिल-
मीलिका १३ सर्ज्जूः १४ अचिरप्रभा १५
सौदामनी १६ अस्थिरा १७ मेघप्रभा १८
अशनिः १९ । इति शब्दरत्नावली ॥ चटुला २०
अचिररोचिः २१ राधा २२ नीलाञ्जना २३ ।
इति जटाधरः ॥ सा चतुर्व्विधा । यथा, --
“अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।
बहुपुत्त्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥”
इति विष्णुपुराणे १ अंशे १५ अध्यायः ॥
चतस्रो विद्युतस्तु ।
“वाताय कपिला विद्युदातपाय हि लोहिता ।
पीता वर्षाय विज्ञेया दुर्भिक्षायासिता भवेत् ॥”
इति ज्योतिःशास्त्रे प्रसिद्धाः । इति तट्टीका ॥

विद्युत्, त्रि, (विगता द्युत् कान्तिर्य्यस्य ।)

निष्प्रभः । इति मेदिनी । ते, १५५ ॥ (विशिष्टा
द्युत् दोप्तिर्यस्येति विग्रहे । विशेषेण दीप्ति-
शाली । यथा, ऋग्वेदे । १ । २३ । १२ ।
“हस्काराद्बिद्युतस्पर्य्यतो जाता अवन्तुनः ॥”
“हस्कारात् दीप्तिकारात् विद्युतो विशेषेण
दीप्यमानात् ।” इति तद्भाष्ये सायणः ॥)

विद्युत्केशः, पुं, (विद्युत इव दीप्तिशालिनः केशा

यस्य ।) राक्षसविशेषः । यथा, --
“स कालभगिनीं कान्यां भयां नाम महा-
भयाम् ।
उदावहदमेयात्मा स्वयमेव महामतिः ॥
स तस्यां जनयामास हेती राक्षसपुङ्गवः ।
पुत्त्रं पुत्त्रवतां श्रेष्ठो विद्युत्केशमिति श्रुतम् ॥”
इति रामायणे उत्तरकाण्डे ४ सर्गः ॥

विद्युत्प्रियं, क्ली, (विद्युतः प्रियम् । तदाकर्षक-

त्वात् ।) कांस्यम् । इति हेमचन्द्रः ॥

विद्युत्त्वान्, [त्] त्रि, (विद्युतः सन्त्यस्मिन्निति ।

विद्युत् + मतुप् ।) विद्युद्बिशिष्टः । विद्यु-
पृष्ठ ४/३९३
च्छब्दात् वतुप्रत्ययेन निष्पन्नः ॥ (यथा, मेघ-
दूते । ६६ ।
“विद्युत्त्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः
सङ्गीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् ॥”
पुं, पर्व्वतविशेषः । यथा, हरिवंशे । २२८ । ६१ ।
“विद्युत्त्वान् पर्व्वतः श्रीमानायतः शतयोज-
नम् ।
विद्युतां यत्र सम्पाता निपात्यन्ते नगोत्तमे ॥”)

विद्युन्माला, स्त्री, अष्टाक्षरपादच्छन्दोविशेषः ।

यथा । “मो मो गो गो विद्युन्माला ।”
“वासो वल्ली विद्युन्माला वर्हश्रेणी शाक्रश्चापः ।
यस्मिन्नास्तां तापोच्छित्त्यै गोमध्यस्थः कृष्णा-
म्भोदः ॥”
इति छन्दोमञ्जरी ॥
अपि च ।
“सर्व्वे वर्णा दीर्घा यस्या विश्रामः स्याद्बेदैर्वेदैः ।
विद्बद्वृन्दैर्वीणावाणि ! व्याख्याता सा विद्यु-
न्माला ॥”
इति श्रुतबोधः ॥

विद्युन्माली, [न्] पुं, राक्षसविशेषः । यथा ।

विद्युन्माली नाम कश्चिद्राक्षसो माहेश्वरः तस्मै
रुद्रेण सौवर्णं विमानं दत्तं ततोऽर्कस्य पृष्ठतो
भ्रमन् विमानदीप्त्या रात्रिं विलोपितवान्
ततोऽर्केण निजतेजसा द्रावयित्वा तद्विमानं
पातितं तच्छ्रुत्वा कुपिते रुद्रे भयादर्कः पराद्र-
वत् ततो रुद्रस्य क्रूरया दृष्ट्या दन्दह्यमानः
पतन् वाराणस्यां पतितो लोलार्कनाम्ना
विख्यातः । इति श्रीभागवते १ स्कन्धे ७ अध्याय-
टीकायां श्रीधरस्वामी ॥ अपि च ।
“धर्म्मस्य पुत्त्रो बलवान् सुषेण इति विश्रुतः ।
स विद्युन्मालिना सार्द्धं अयुध्यत महाकपिः ॥”
इति रामायणे युद्धकाण्डे ४३ सर्गः ॥

विद्रं, क्ली, छिद्रम् । इति शब्दचन्द्रिका ॥

विद्रधिः, पुं, रोगविशेषः । तत्पर्य्यायः । विदरणम् २

हृद्ग्रन्थिः ३ हृद्व्रणः ४ । इति राजनिर्घण्टः ॥
तत्र विद्रधेः संप्राप्तिपूर्ब्बकं सामान्यं लक्षण-
माह ।
“त्वग्रक्तमांसमेदांसि प्रदुष्यास्थिसमाश्रिताः ।
दोषाः शोथं शनैर्षोरं जनयन्त्युश्रिता भृशम् ॥
महामूलं रुजावन्तं वृत्तं वाप्यथवायतम् ।
स विद्रधिरिति ख्यातो विज्ञेयः षड्विधश्च सः ॥”
अस्थिसमाश्रिता दोषा इति वक्ष्यमाणाद्व्रण-
शोथाद्विद्रधेर्भेदार्थम् । यतो व्रणशोथे दोषा-
णामस्थिसमाश्रयनियमो नास्ति । घोरं व्रण-
शोथाद्दारुणम् । आयतं दीर्घम् ॥ * ॥ षड्-
विधत्वं विवृणोति ।
“पृथग्दोषैः समस्तैश्च क्षतेनाप्यसृजा तथा ।
षण्णामपि हि तेषान्तु लक्षणं संप्रचक्ष्यते ॥” * ॥
तत्र वातिकस्य लक्षणमाह ।
“कृष्णोऽरुणो वा विषमो भृशमत्यर्थवेदनः ।
चित्रोत्थानप्रपाकश्च विद्रधिर्व्वातसम्भवः ॥”
विषमो भृशं क्षणमल्पः क्षणं महान् । चित्रो-
त्थानप्रपाकः । चित्रौ नानाविधौ उद्गमप्रपाकौ
यस्य सः ॥ * ॥ पैत्तिकमाह ।
“पक्कोडुम्बरसङ्काशः श्यावो वा ज्वरदाहवान् ।
क्षिप्रोत्थानप्रपाकश्च विद्रधिः पित्तसम्भवः ॥”
श्लैष्मिकमाह ।
“शरावसदृशः पाण्डुः शीतस्निग्धोऽल्पवेदनः ।
चिरोत्थानप्रपाकश्च विद्रधिः श्लेष्मसम्भवः ।
तनुपीतसिताश्चैषामास्रावाः क्रमशो मताः ॥”
सान्निपातिकमाह ।
“नानावर्णरुजः स्रावो घाटालो विषमो महान् ।
विषमं पच्यते वापि विद्रधिः सान्निपातिकः ॥”
नाना अनेकविधाः । वर्णाः कृष्णरक्तपाण्डुरूपाः ।
रुजः तोददाहकण्ड्वादिरूपाः । स्रावाः तनु-
पीतसिता यस्य । घाटालः घाटा कृकाटिका-
स्यास्ति इति घाटालः । अत्युच्छ्रिताग्र इत्यर्थः ।
विषमः निम्नोन्नतः । विषमं पच्यते चापि
चिराचिरगभीरोत्तानोर्द्ध्वार्द्धभेदेन विषमं यथा
स्यात्तथा पच्यते ॥ * ॥ अभिघातजस्यागन्तोः
संप्राप्तिपूर्व्वकं लक्षणमाह ।
“तैस्तैर्भावैरभिहिते क्षते वापथ्यकारिणः ।
क्षतोष्मा वायुविसृतः सरक्तं पित्तमीरयेत् ॥
ज्वरस्तृष्णा च दाहश्च जायते तस्य देहिनः ।
आगन्तुविद्रधिर्ह्येष पित्तविद्रधिलक्षणः ॥”
तैस्तैर्भावैः काष्ठलोष्टपाषाणादिभिर्हते यथा
रक्तस्रावो न भवति तथाभिहते क्षते कृते वा ।
अथवा खड्गशूलादिभिः क्षते यथा रक्तस्रावो
भवति तथा क्षते कृते क्षतोष्मा अत्र क्षतशब्देन
हतमात्रमुच्यते । तेनाभिहतक्षतयोरप्युष्मवायु-
विसृतः । अभिहतः अभिघातात् क्षते रक्त-
क्षयात् कुपितेन वायुना प्रसृतः ईरयेत् कोप-
येत् ॥ * ॥ रक्तजमाह ।
“कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः ।
पित्तविद्रधिलिङ्गस्तु रक्तविद्रधिरुच्यते ॥” * ॥
अधिष्ठानविशेषेण लिङ्गविशेषं बोधयितुमाभ्य-
न्तरान् विद्रधीनाह ।
“आभ्यन्तरानतस्तूर्द्ध्वं विद्रधीन् परिचक्ष्यते ।
गुर्व्वसात्मविरुद्धान्नशुष्कशाकान्नभोजनात् ॥
अतिसञ्चीयव्यायामवेगाधातविदाहिभिः ।
पृथक् सम्भूय वा दोषाः कुपिता गुल्मरूपि-
णम् ॥
वल्मीकवत् समुन्नद्धमन्तः कुर्व्वन्ति विद्रधिम् ।
गुदे वस्तिमुखे नाभ्यां कुक्षौ वंक्षणयोस्तथा ॥
वुक्कयोः प्लीह्रि यकृति हृदि वा क्लोम्नि वाप्यथ ।
येषां चिह्रानि जानीयात् बाह्यविद्रधिलक्षणैः ।
सम्भूय वा मिलित्वा वा समुन्नर्द्धं तदुन्नतम् ॥” * ॥
स्थानविशेषेण रूपविशेषमाह ।
“गुदे वातनिरोधस्तु वस्तौ कृच्छ्राल्पमूत्रता ।
नाभ्यां हिक्का तथाटोपः कुक्षौ मारुतकोपनम् ॥
कटीपृष्ठग्रहस्तीव्रो वक्षणोत्थे च विद्रधौ ।
वुक्कयोः पार्श्वसंकोचः प्लीह्रः श्वासनिरोधनम् ॥
सर्व्वाङ्गप्रग्रहस्तीव्रो हृदि कासश्च जायते ।
श्वासो यकृति हिक्का च क्लोम्नि पेपीयते पयः ॥”
स्रावमार्गमाह ।
“नाभेरुपरिजाः पक्वा यान्त्यूर्द्ध्वमितरे त्वधः ।
अधः स्रुतेषु जीवेच्च स्रुतेषूर्द्ध्वं न जीवति ॥”
नाभेरुपरिजा वुक्कादिजाताः । यान्ति स्रवन्ति
ऊर्द्ध्वमुखात् । इतरे वस्त्यादिजाः । अधः
गुदात् । नाभिजस्तूभाभ्यां मार्गाभ्याम् । तथा
च हारीतः ।
“ऊर्द्ध्वप्रभिन्नेषु मुखान्नराणां
प्रवर्त्ततेऽसृक्सहितो हि पूयः ।
अधःप्रभिन्नेषु तु पायुमार्गाद्-
द्बाभ्यां प्रवृत्तिस्त्विह नाभिजेषु ॥” * ॥
साध्यत्वादिकमाह ।
“अधःस्रुतेषु जीवेत्तु स्रुतेषूर्द्ध्वं न जीवति ।
हृन्नाभिवस्तिपर्य्याये तेषु भिन्नेषु बाह्यतः ।
जीवेत् कदाचित् पुरुषो नेतरेषु कदाचन ॥”
हृन्नाभिवस्तिपर्य्याये प्लीहक्लोमादिजातेषु ।
बाह्यतः शस्त्रवैद्यव्यापारेण भिन्नेषु पुरुषः
कदाचित् जीवेत् । इतरेषु हृन्नाभिवस्तिजेषु
तथा भिन्नेषु न जीवेत् । हृदादीनां मर्म्मत्वात् ।
अतएव भोजः ।
“असाध्यो मर्म्मजो ज्ञेयः पक्वोऽपक्वश्च विद्रधिः ।
सन्निपातोत्थितोऽप्येवं पक्व एव हि वस्तिजः ॥
हृज्जा नाभेरधोजश्च साध्या मर्म्मसमीपतः ।
अपक्वश्चैव पक्वश्च साध्यो नोपरि नाभितः ॥
आध्मानं बद्धनिष्पन्दं छर्दिहिक्कातृषान्वितम् ।
रुजाश्वाससमायुक्तं विद्रधिर्नाशयेन्नरम् ॥” * ॥
बाह्यविद्रधीनां साध्यासाध्यत्वमाह ।
“साध्या विद्रधयः पञ्च विवर्ज्ज्यः सान्निपातिकः ।
आमं पक्वं विदग्धत्वं तेषां शोथवदादिशेत् ॥”
शोथवत् वक्ष्यमाणव्रणशोथवत् ॥ * ॥
अथ विद्रधेश्चिकित्सा ।
“जलौकापातनं शस्तं सर्व्वस्मिन्नपि विद्रधा ।
मृदुर्व्विरेको लघ्वन्नं स्वेदः पित्तोत्तरं विना ॥
अपक्वविद्रधौ युञ्ज्याद्व्रणशोथवदौषधम् ।
वातघ्नमूलकल्कैर्व्वा वसातैलघृतान्वितैः ॥
सुखोष्णो वहृलो लेपः प्रयोज्यो वातविद्रधौ ।
यवगोधूममुद्गैश्च पिष्टैराज्येन लेपयेत् ॥
विलीयते क्षणेनैव ह्यविपक्वस्तु विद्रधिः ।
पैत्तिकं विद्रधिं वैद्यः प्रदिह्यात् सर्पिषा युतैः ।
पयस्योशीरमधुकचन्दनैर्दुग्धपेषितैः ॥
पयस्यानेकार्थत्वात् अत्र क्षीरकाकोली गुणा-
धिक्यात् । तस्या अलाभे अश्वगन्धा ग्राह्या ।
“पञ्चवल्कलकल्केन घृतमिश्रेण लेपयेत् ।
पिबेद्वा त्रिफलाक्वाथं त्रिवृत्कल्काक्षसंयुतम् ॥
इष्टिकासिकतालोहकीट्टै र्गोशकृता सह ।
मूत्रैः सुखोष्णैर्लेपन स्वेदयेत् श्लेष्मविद्रधिम् ॥
दशमूलीकषायेण सस्नेहेन घृतेन च ।
शोथं व्रणं वा कोष्णेन सशूलं परिषेचयेत् ॥
पित्तविद्रधिवत् सर्व्वाः क्रिया निरवशेषतः ।
विद्रधौ कुशलः कुर्य्यात् रक्ताङ्गस्तु निमित्तयोः ॥
रक्तचन्दनमञ्जिष्ठाविशामधुकगैरिकैः ।
क्षीरेण विद्रधौ लेपो रक्ताङ्गन्तु निमित्तके ॥
पृष्ठ ४/३९४
कृष्णाजाजी विशाला च धामार्गवफलं तथा ।
पीतं ह्येते निहन्त्याशु विद्रधीन् कोष्ठसम्भवान् ॥”
धामार्गवफलं कोषातकीफलम् ।
“श्वेतवर्षाभुवो मूलं मूलं वरुणकस्य च ।
जलेन क्वथितं पीतमन्तर्विद्रधिहृत् परम् ॥
गायत्त्रीत्रिफलानिम्बकटुका मधुकं समम् ।
त्रिवृत्पटोलमूलाभ्यां चत्वारोऽंशाः पृथक्
पृथक् ॥
मसूरान्निस्तुषान् दद्यात् एष क्वाथो घृताज्जयेत् ।
विद्रधिगुल्मवीसर्पदाहमोहज्वरापहः ।
तृण्मूर्च्छाच्छर्दिहृद्रोगपित्तासृक्कुष्ठकामलाः ॥”
वाग्भटात् ।
“शिग्रुमूलं जले धौतं पिष्टं वस्त्रेण गालयेत् ।
तद्रसं मधुना पीत्वा हन्त्यन्तर्विद्रधिं नरः ॥
शोभाञ्जनकनिर्पू हो हिङ्गुसैन्धवसंयुतः ।
हन्त्यन्तर्विद्रधिं जन्तोः प्रातः प्रातर्निषेवितः ॥”
निर्यूहः क्वाथः । इति विद्रध्याधिकारः । इति
भावप्रकाशः ॥

विद्रधिनाशनः, पुं, (विद्रधिं रोगविशेषं नाशय-

तीति । नश + णिच् + ल्युः ।) शोभाञ्जन-
वृक्षः । इति त्रिकाण्डशेषः ॥

विद्रवः, पुं, (विद्रवणमिति । वि + द्रु + “ऋदो-

रप् ।” ३ । ३ । ५७ । इत्यप् ।) पलायनम् ।
इत्यमरः ॥ (यथा, महाभारते । ७ । १०६ । ३८ ।
“तैः शरैस्तव सैन्यस्य विद्रवः सुमहानभूत् ॥”)
बुद्धिः । इति मेदिनी । वे, ५१ ॥ निन्दा । इति
शब्दरत्नावली ॥ क्षरणम् । इति केचित् ॥
(विबाशः । यथा, बृहत्संहितायाम् । ३४ । १३ ।
“भौमे कुमारबलपति-
सैन्यानां विद्रवोऽग्निशस्त्रभयम् ॥”)

विद्रावः, पुं, विद्रवः । विपूर्ब्बद्रुधातोर्घञ्प्रत्ययेन

निष्पन्नः ॥

विद्रावितं, त्रि, (वि + द्रु + णिच् + क्तः ।) पला-

यितम् । यथा, --
“विद्राविते भूतगणे ज्वरस्तु त्रिशिराभ्ययात् ॥”
इति श्रीभागवते बाणयुद्धम् ॥

विद्रुतः, त्रि, (वि + द्रु + क्तः ।) प्राप्तद्रवीभाव-

घृतादिः । तत्पर्य्यायः । विलीनः २ द्रुतः ३ ।
इत्यमरः ॥ पलायितश्च ॥ (यथा, रघुः । ११ । ४४ ।
“विद्रुतक्रतुमृगानुसारिणं
येन बाणमसृजत वृषध्वजः ॥”
पीडितः । यथा, मनुः । ७ । ३ ।
“अराजके हि लोकेऽस्मिन्सर्व्वतो विद्रुते भयात् ।
रक्षार्थमस्य सर्व्वस्य राजानमसृजत् प्रभुः ॥”)

वद्रुमः, पुं, (विशिष्टो द्रुमः । यद्बा, विशिष्टो

द्रुर्वृक्षोऽस्त्यस्येति । “द्युद्रुभ्यां मः ।” ५ । २ ।
१०८ । इति मः ।) प्रबालः । (यथा, ऋतु-
संहारे । ६ । १७ ।
“आमूलतो विद्रुमरागताम्राः
सपल्लवं पुष्पचयं दधानाः ।
कुर्व्वन्त्यशोका हृदयं सशोकं
निरीक्ष्यमाणा नवयौवनानाम् ॥”)
रत्नवृक्षः । इति मेदिनी । मे, ५३ ॥ (यथा,
रघुः । १३ । १३ ।
“तवाधरस्पर्द्धिषु विद्रुमेषु
पर्य्यस्तमेतत् सहसोर्म्मिवेगात् ।
ऊर्द्ध्वाङ्कुरप्रोतमुखं कथञ्चित्
क्लेशादपक्रामति शङ्खयूथम् ॥”)

विद्रुमलता, स्त्री, (विद्रुम इव लता ।) नलीनाम-

गन्धद्रव्यम् । इत्यमरः ॥

विद्रुमलतिका, स्त्री, (विद्रुमलता । स्वार्थे कन् ।

टापि अत इत्वम् ।) नलिका । इति राज-
निर्घण्टः ॥

विद्वत्कल्पः, त्रि, (विद्वस् + कल्पः ।) ईषदूनो

विद्बान् । इति मुग्धबोधव्याकरणम् ॥

विद्वत्तमः, त्रि, (विद्वस् + तमः ।) अयमेषामति-

शयेन विद्वान् । इति व्याकरणम् ॥

विद्वत्तरः, त्रि, (विद्वस् + तर ।) अयमनयोरति-

शयेन विद्बान् । इति व्याकरणम् ॥

विद्वद्देशीयः, त्रि, (ईषदूनो विद्बान् । विद्बस् +

देशीयर् ।) विद्वत्कल्पः । इति व्याकरणम् ॥

विद्वद्देश्यः, त्रि, (ईषदूनो विद्वान् । विद्वस् +

देश्यः ।) विद्वत्कल्पः । इति मुग्धबोधव्याकर-
णम् ॥

विद्वान्, [स्] त्रि, (वेत्तीति । विद् + शतृ । “विदेः

शतुर्वसुः ।” ७ । १ । ३६ । इति शतुर्वसुरादेशः ।)
आत्मवित् । प्राज्ञः । पण्डितः । इति मेदिनी ॥
(यथा, मनुः । १ । ९७ ।
“ब्राह्मणेषु तु विद्वांसो विद्वतसु कृतबुद्धयः ।
कृतबुद्धिषु कर्त्तारः कर्त्तृषु ब्रह्मवेदिनः ॥”)

विद्विषः, पुं, (विशेषेण द्वेष्टीति । वि + द्बिष् +

इगुपधेति कः ।) शत्रुः । विद्वेषके, त्रि ।
विपूर्ब्बकद्विषधातोः कप्रत्ययेन निष्पन्नः ॥

विद्वेषः, पुं, (वि + द्विष् + घञ् ।) शत्रुता । तत्-

पर्य्यायः । वैरम् २ विरोधः ३ । इत्यमरः ॥
अनुशयः ४ द्वेषः ५ समुच्छ्रयः ६ वैरत्वम् ७ ।
इति जटाधरः ॥ द्वेषणम् ८ । इति शब्दरत्ना-
वली ॥ (यथा, आर्य्यासप्तशत्याम् । ६०२ ।
“सुभग स्वभवनभित्तौ भवता संमर्द्य पीडिता
सुतनुः ।
सा पीडयैव जीवति दधती वैद्येषु विद्बेषम् ॥”)

विद्वेषकः, त्रि, विद्वेष्टा । द्वेषकर्त्ता । विरोधकः ।

वैरी । विद्वेष्टीति विपूर्ब्बद्विषधातोर्णक(ण्वुल्)
प्रत्यथेन निष्पन्नः ॥ (यथा, महाभारते । १३ ।
७३ । १४ ।
“न मित्रध्रुङ्नैकृतिकः कृतघ्नः
शठोऽनृजुर्धर्म्मविद्वेषकश्च ॥”)

विद्वेषणं, क्ली, विद्वेषः । विपूर्ब्बद्बिंषधातोरनट्

(ल्युट्)प्रत्ययेन निष्पन्नम् ॥ (यथा, महाभारते ।
३ । १९५ । ३ ।
“विद्वेषणं परमं जीवलोके
कुर्य्यान्नः पार्थिव याच्यमानः ।
तत्त्वां पृच्छामि कथयन्तु राजन्
दद्याद्भवान् दयितञ्च मेऽद्य ॥”)
अभिचारकर्म्मविशेषः । तस्य विहितदिनादि
यथा, --
“सूर्य्योदयं समारभ्य घटिकादशकं क्रमात् ।
ऋतवः स्युर्व्वसन्ताद्या अहोरात्रं दिने दिने ॥
वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तशैशिराः ।
हेमन्तः शान्तिके प्रोक्तो वसन्तो वश्यकर्म्मणि ॥
शिशिरः स्तम्भने ज्ञेयो विद्वेषे ग्रीष्म ईरितः ।
पौर्णमासी मन्दभानुयुक्ता विद्वेषकर्म्मणि ॥
वश्यं पूर्ब्बेऽह्नि मध्याह्ने विद्वेषोच्चाटनं तथा ।
शान्तिपुष्ठी दिनस्यान्ते सन्ध्याकाले च मारणम् ॥
कुर्य्याच्च स्तम्भनं कार्य्यं हर्य्यक्षवृश्चिकोदये ।
द्बेषोच्चाटादिकं कर्म्म कुलीरे वा तुलोदये ॥”
भूतोदयनियममाह ।
“जलं शान्तिविधौ शस्तं वश्ये वह्निरुदीरितः ।
स्तम्भने पृथिवी शस्ता विद्बेषे व्योम कीर्त्ति-
तम् ॥”
दिङ्नियममाह ।
“याम्ये रक्षसि विद्वेषं शान्तिं वारुणवायवे ॥”
नक्षत्रनियममाह ।
“विद्वेषोच्चाटनं वह्रिवायुयोगे च कारयेत् ॥ * ॥
अथ विद्वेषणं वक्ष्ये मिथो विद्वेषणं रिपोः ।
करणीयं महेशानि ! यदुक्तं मालिनीमते ॥
अन्योन्ययुद्धसंरम्भरुषितौ समरे युतौ ।
तदीयनखरोड्डीनधूलिमादाय साधकः ॥
धूलिना तेन विद्वेषस्ताडनादभिजायते ॥ * ॥
परस्परं रिपोर्व्वैरं मित्रेण सह निश्चितम् ।
महिषाश्वपुरीषाभ्यां गोमूत्रेण समालिखेत् ॥
यस्य नाम तयोः शीघ्र विद्वेषश्च परस्परम् ।
रक्तेन महिषाश्वेन श्मशानवस्त्रके लिखेत् ॥
यस्य नाम भवेत्तस्य काकपक्षेण लेखितम् ।
वेष्टयेत् द्बिजचाण्डालकेशैरेकतरैस्ततः ॥
गर्त्ते आमशरावन्तु पितृकाननमध्यतः ।
षट्कोणचक्रमध्ये तु रिपोर्नामसमन्वितम् ॥
मन्त्रराजं प्रवक्ष्यामि महाभैरवसंज्ञकम् ।
ॐ नमो महाभैरवाय रुद्ररूपाय श्मशान-
वासिने अमुकामुकयोर्व्विद्वेषं कुरु कुरु सुरु
सुरु हुँ हुँ फट् ।
एतन्मन्त्रं लिखेत्तत्र विद्वेषो जायते ध्रुवम् ॥”
इति षट्कर्म्मदीपिका ॥
(विशेषेण द्वेष्टीति । वि + द्विष + ल्युः । विद्वे-
षके, त्रि । यथा, हरिवंशे । २८ । ३० ।
“नास्ति-वादार्थशास्त्रं हि धर्म्मविद्वेषणं परम् ॥”
तथा च महाभारते । १३ । १२६ । २ ।
“ब्राह्मणानां परीवादो मम विद्वेषणं महत् ।
ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः ॥”)

विद्वेष(षि)णी, स्त्री, स्त्रीविशेषः । यथा, --

“विद्वेषणी तु या कन्या भृकुटीकुटिलानना ।
तस्या द्वौ तनयावास्तामयकारप्रकाशकौ ॥”
इति मार्कण्डेयपुराणे दुःसहवंशोत्पत्तिः ॥

विद्वेषी, [न्] त्रि, (विशेषेण द्वेष्टीति । वि + द्बिष्

+ णिनिः ।) यद्वा, विद्वेषशब्दादस्त्यर्थे इन्प्रत्य-
येन निष्पन्नः । विद्वेषविशिष्टः । वैरी । (यथा,
महाभारते । १३ । १४५ । ५८ ।
“अपरे स्वल्पविज्ञाना धर्म्मविद्वेषिणो नराः ।
ब्राह्मणान् वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥”)