शब्दकल्पद्रुमः/पारदारिकः

विकिस्रोतः तः
पृष्ठ ३/१२२

पारदारिकः, पुं, (परेषां अन्येषां दारान् गच्छतीति ।

परदार + “गच्छतौ परदारादिभ्यः ।” ७ । ३ । ७ ।
इत्यस्य वार्त्तिकोक्त्या ठक् ।) पारजायिकः ।
परदाररतः । (यथा, महाभारते । २ । ३१ । २५ ।
“तत्र माहिष्मतीवासी भगवान् हव्यवाहनः ।
श्रूयते हि गृहीतो वै पुरस्तात् पारदारिकः ॥”)
“पुष्पकाण्डजयडिण्डिमायितं
यत्र गोतमकलत्रकामिनः ।
पारदारिकविलाससाहसं
देवभर्त्तुरुदटङ्कि भित्तिषु ॥”
इति च नैषधे १८ सर्गः ॥
अस्य दोषा यथा, --
“यः परस्त्रीषु निरतस्तस्य श्रीर्वा कुतो यशः ।
स च निन्द्यः पापयुक्तः शश्वत् सर्व्वसभासु च ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डे २१ अध्यायः ॥

पारदार्य्य, क्ली, (परदारा दारा यस्य स परदार-

स्तस्य कर्म्मेति ष्यञ् ।) परदारगमनम् । यथा,
“भृतादध्ययनादानं भृतकाध्यापनन्तथा ।
पारदार्य्यं पारिवित्तं वार्धुष्यं लवणक्रिया ॥”
इत्युपपातकगणने याज्ञवक्ल्यः ॥

पारदेश्यः, त्रि, प्रोषितः । पारदेशिकः । पथिकः ।

परदेशं गत इत्यर्थे ष्ण्यप्रत्ययनिष्पन्नः ॥ (परदेशे
भव इति ष्यञ् । परदेशजातः । यथा,
याज्ञवक्ल्ये । २ । २५५ ।
“स्वदेशपण्ये तु शतं बणिग्गृह्णीत पञ्चकम् ।
दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥”)

पारमहंस्यं, त्रि, (परमहंसैर्गन्तव्यं परमहंसस्य

भावः परमहंसेन ज्ञेयं यत् प्राप्यमिति वा ।
परमहंस + ष्यञ् ।) परमहंससम्बन्धि । यथा,
“श्रीमद्भागवतं पुराणममलं यद्वैष्णवानां प्रियं
यस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।
यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्म्यमाविष्कृतं
तच्छृण्वन् सुपठन् विचारणपरो भक्त्या विमु-
च्येन्नरः ॥”
इति श्रीमद्भागवते । १२ । १३ । १८ ॥
“पारमहंस्यं परमहंस्यैः प्राप्यम् ।” इति तट्टी-
कायां श्रीधरस्वामी ॥ (परब्रह्मधाम । यथा,
भागवते । १ । १८ । २२ ।
“यत्रानुरक्ताः सहसैव धीरा
व्यपोह्य देहादिषु सङ्गमूढम् ।
व्रजन्ति तत्पारमहंस्यमन्त्यं
यस्मिन्नहिंसोपशमः स्वधर्म्मः ॥”
प्रत्यङ्निष्ठारूपम् । यथा, तत्रैव । २ । ४ । १२ ।
“पुंसां पुनः पारमहंस्य आश्रमे ॥
व्यवस्थितानामनुमृग्यदाशुषे ॥”
ज्ञानस्वरूपम् । यथा तत्रैव । ४ । २१ । ४१ ।
“न वै तथा चेतनया बहिष्कृते
हुताशने पारमहंस्यपर्य्यगुः ॥”)

पारमार्थिकः, त्रि, (परमार्थाय परमपुरुषार्थाय

हित इति । ठक् ।) परमार्थयुक्तः । यथा, --
“गतानुगतिको लोको न लोकः पारमार्थिकः ॥”
इति पुराणम् ॥
मुख्यम् । यथा, --
“त्रिचतुःपञ्चसप्ताष्टनवद्वादश एव च ।
क्रमेण घटिका ह्येतास्तत्पुण्यं पारमार्थिकम् ॥”
इति तिथ्यादितत्त्वम् ॥
(यथाथः । यथा, मनौ ९ । ६२ श्लोकटीकायां
कुल्लूकभट्टः । “तेषां प्रकाशाप्रकाशतस्कराणां
स्वकर्म्मणि चौर्य्यादौ ये पारमार्थिका दोषा
इति ।” परस्परविभक्तः । यथा, भागवते ।
३ । २९ । १ ।
“लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।
स्वरूपं लक्ष्यतेऽमीषां येन तत् पारमार्थिकम् ॥”
“पारमार्थिकं परस्परविभक्तमित्यर्थः ।” इति
तट्टीकायां श्रीधरस्वामी ॥)

पारम्पर्य्यं, क्ली, (परम्पराया आगतम् । तत

आगत इत्यण् । चतुर्वर्णादित्वात् ष्यञ् । पर-
म्परा + स्वार्थे ष्यञ् वा ।) आम्नायः । कुल-
क्रमः । इति हेमचन्द्रः ॥ तथा च ।
“यस्मिन् देशे य आचारः पारम्पर्य्यक्रमागतः ।
तत्र तं नावमन्येत धर्म्मस्तत्रैव तादृशः ॥”
इति विवादभङ्गार्णवः ॥
परम्पराया भावश्च ॥ (यथा, महाभारते ।
६ । ११७ । २७ ।
“निवृत्तेषु च सैन्येषु पारम्पर्य्येण सर्व्वशः ।
विमुक्तकवचाः सर्व्वे भीष्ममीयुर्नराधिपाः ॥”)

पारम्पर्य्योपदेशः, पुं, (पारम्पर्य्येण गुरुपरम्परया

प्राप्त उपदेशः ।) उपदेशपरम्परा । तत्-
पर्य्यायः । ऐतिह्यम् २ इतिह ३ । इत्यमरः ।
२ । ७ । १२ ॥ परम्परैव पारम्पर्य्यं स्वार्थे
ष्ण्यः पारम्पर्य्येणोपदेशः पारम्पर्य्योपदेशः तत्र
इतिहशब्दोऽव्ययः । यथा । इतिह वृद्धैरुक्तं
इह वटे यक्षः प्रतिवसतीति । इति एवं रूपं
हन्ति गच्छति इतिह हनजनादिति डः ।
इतिह शब्दात् स्वार्थे ष्ण्ये ऐतिह्यम् । इति
भरतः ॥

पारलौलिकः, त्रि, (परलोके भवः परलोकाय

हित इति वा । परलोक + ठञ् । “अनु-
शतीकादीनाञ्च ।” ७ । ३ । २० । इति ञित्त्वादुभय-
पदस्यैव वृद्धिः ।) परलोकसम्बन्धी । यथा, --
“दानपात्रमधमर्णमिहैक-
ग्राहि कोटिगुणितं दिवि दायि ।
साधुरेति सुकृतैर्यदि कर्त्तुं
पारलौकिककुसीदमसीदत् ॥”
इति नैषधे । ५ । ९२ ॥
(तथा च महाभारते । १३ । १११ । १६ ।
“तस्मान्न्यायागतैरर्थैर्धर्म्मं सेवेत पण्डितः ।
धर्म्म एको मनुष्याणां सहायः पारलौकिकः ॥”)

पारवतः, पुं, पारावतः । इति द्विरूपकोषः ॥

पारशवः, पुं, शूद्रायां विप्रतनयः । इत्यमरः । ३ ।

३ । २०९ ॥ स तु निषादजातिः । यथा, --
“ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते ।
निषादः शूद्रकन्यायां यः पारशव उच्यते ॥
शूद्रकन्यायामूढायां निषाद उत्पद्यते यतः
संज्ञान्तरेण पारशवश्चोच्यते । तस्योपनयन-
संस्कारनिषेधमाह ।
स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः ॥
स जीवन्नेव शवतुल्यः ।” इति मनुकुल्लूकभट्टौ ॥
परस्त्रीतनयः । (परशुरेव स्वार्थे अण् ।)
शस्त्रम् । तत्तु लौहम् । इति मेदिनी । वे, ६० ॥
परशुजाते, त्रि ॥

पारशीकः, पुं, पारसीकः । इत्यमरटीकायां रमा-

नाथः ॥

पारश्वधः, पुं, (परश्वधेन युध्यतेऽसौ परश्वधः प्रह-

रणमस्येति वा । परश्वध + “तदस्येति ।” अण् ।)
परश्वधधारी । पारश्वधिकः । इति हेमचन्द्रः ॥

पारश्वधिकः, पुं, (परश्वधः प्रहरणमस्य । “पर-

श्वधाट्ठञ् च ।” ४ । ४ । ५८ । इति ठञ् ।)
परशुहेतिकः । कुठारधारी । तत्पर्य्यायः ।
पारश्वधः २ परश्वधायुधः ३ । इति हेमचन्द्रः ॥

पारसिकः, पुं, पारसीकः । इति शब्दरत्नावली ॥

पारसी, स्त्री, पारस्यभाषा । पारसदेशभव-

विद्यादि । तदारम्भदिनं यथा, --
“ज्येष्ठाश्लेषामघापूर्ब्बारेवतीभरणीद्वये ।
विशाखार्द्रोत्तराषाढशतभे पापवासरे ॥
लग्ने स्थिरे सचन्द्रे च पारसीमारवीं पठेत् ॥”
इति गणपतिमुहूर्त्तः ॥

पारसीकः, पुं, पारसीकदेशोद्भवधोटकः । तत्-

पर्य्यायः । वानायुजः २ । इति केचिदित्यमर-
टीकायां भरतः ॥ परादनः ३ आवट्टजः ४ ।
इति त्रिकाण्डशेषः ॥ (यथा, अश्ववैद्यके । ६ । ८ ।
“पारसीकास्ताजिकाभाः कोङ्काणाः केचि-
दुन्नताः ॥”)
देशविशेषः । तत्पर्य्यायः । पारसिकः २ ।
इति शब्दरत्नावली ॥ तद्देशोद्भवे, त्रि ॥ (यथा,
रघुः । ४ । ६० ।
“पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्तना ॥”)

पारस्त्रैणेयः, त्रि, (परस्त्रियां जातः । “कल्याण्या-

दीनामिन्ङ् ।” ४ । १ । १२६ । इति ढक्
इनङादेशश्च । तत उभयपदवृद्धिः ।) परस्त्रियाः
सुतः । इत्यमरः । २ । ६ । २४ ॥

पारा, स्त्री, (पारोऽस्त्यस्या इत्यच् ततष्टाप् ।)

नदीविशेषः । सा तु पारिपात्रपर्व्वतोद्भवा
इति मेदिनी । रे, ५६ ॥ (यथा, मात्स्ये । ११३ । २४ ।
“पारा चर्म्मण्वती रूपा विदुषा वेणुमत्यपि ॥”)

पारापतः, पुं, (पारे गिरिनद्यादिपरपारे यद्बा,

पारादप्यापतति लोभादिति । पत + अच् ।)
पारावतः । इत्यमरटीकायां रमानाथः ॥

पारापारः, पुं, (पारञ्चापारञ्चास्त्यस्येति । “अर्श

आदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् ।)
पारावारः । इति द्विरूपकोषः ॥

पारायणं, क्ली, साकल्यवचनम् । इत्यमरः । ३ ।

२ । २ ॥ “पारं समाप्तिं अयते गच्छति प्राप्नोति
पारायणं नन्द्यादित्वादनः । आविष्टलिङ्गत्वा-
द्भिन्नलिङ्गेन सामानाधिकरण्येऽपि क्लीवमव
पारायणम् । यथा धातुपारायणम् । रत्न-
पृष्ठ ३/१२३
पारायणं नाम लङ्केति मम मैथिलीति भट्टिः ।”
इति भरतः ॥ (पारमयन्ते समाप्तिं प्राप्नुवन्ति
येनेति । अय + ल्युट् करणे इत्येके ।) पुराण-
पाठः । (यथा, देवीभागवते । ३ । २६ । १७ ।
“वरयेद्ब्राह्मणं शान्तं पारायणकृते तदा ॥”)
तत्र श्रीभागवतपाठानुक्रमो यथा, --
श्रीपार्व्वत्युवाच ।
“स्कन्धैर्द्वादशभिः प्रोक्तं श्रीमद्भागवतं प्रभो ! ।
शुकस्तच्छ्रावयामास महाराजं परीक्षितम् ॥
सप्ताहेनेति भगवन् ! श्रूयते तत्र तत्र ह ।
तस्यानुक्रममिच्छामि श्रोतुं तत्फलमेव च ॥
सदाशिव उवाच ।
साधु पृष्ठम्महाभागे ! लोके यत् प्रचरिष्यति ।
पारायणमिति ख्यातं सद्यो मुक्तिप्रदं नृणाम् ॥
शुकस्योक्तिक्रमेणैव पठेद्भागवतन्तु यः ।
श्रावयेच्छृणुयाद्बापि तस्यानन्तं फलं भवेत् ॥
कृतनित्यक्रियः प्रातः कुशहस्तः कृतासनः ।
देवद्विजगुरून्नत्वा ध्यात्वा विष्णुं सनातनम् ॥
द्वैपायनं नमस्कृत्य शुकदेवञ्च भक्तितः ।
हिरण्याक्षवधं यावत् प्रथमेऽहनि कीर्त्तयेत् ॥
चरितं भरतस्यापि द्वितीयेऽथ तृतीयके ।
मथनञ्चामृतस्यापि यत्र कूर्म्मः स्वयं हरिः ॥
चतुर्थदिवसे चैव दशमे हरिजन्म च ।
पश्चमे तु पठेद्विद्वान् रुक्मिण्या हरणावधि ॥
षष्ठे चोद्धवसंवादं सप्तमे तु समापयेत् ।
अध्यायं प्राप्य विरमेन्न तु मध्ये कदाचन ॥
कृते विरामे मध्ये तु अध्यायादिं पठेत् पुनः ।
पठेदर्थं बुध्यमानः श्रावयेद्वैष्णवोत्तमे ! ॥
श्रोता तु प्राङ्मुखो भूत्वा शृणुयाद्भक्तितत्परः ।
अध्याये स्वर्णमाषैकं तथा दद्याच्च दक्षिणाम् ॥
समाप्तौ च ततो धेनुं स्वर्णशृङ्गीं निवेदयेत् ।
कुर्य्याच्च वैष्णवं होमं सात्वतान् भोजयेत्ततः ॥
एवं यः कुरुते देवि ! पाठं भागवतस्य तु ।
श्रवणं श्रावणां वापि स इष्टां गतिमाप्नुयात् ।
एतत् पारायणं नाम सर्व्वकामफलप्रदम् ॥
पाठकाले तु त्रिदशा मुनयश्च तपोधनाः ।
पार्श्वदाश्च तथा विष्णोः सान्निर्ध्यं तत्र कुर्व्वते ॥
एतत्ते कथितं देवि ! पारायणविधानकम् ।
विष्णुप्रीतिकरं पुण्यं किम्भूयः श्रोतुमिच्छसि ॥”
इति पाद्मे पातालखण्डे पारायणमाहात्म्ये ७१
अध्याय ॥ * ॥ अपिच ।
कुमारा ऊचुः ।
“अथ ते संप्रवक्ष्यामः सप्ताहग्रहणे विधिम् ।
सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः ॥
दैवज्ञन्तु समाहूय मुहूर्त्तं पृच्छ यत्नतः ।
विवाहे यादृशं वित्तं तादृशं परिकल्पयेत् ॥
नभस्य आश्विनोर्ज्जौ च मार्गशीर्षः शुचिर्नभाः ।
एते मासाः कथारम्भे श्रोतॄणां मोक्षसूचकाः ॥
मासानां निर्णये यानि तानि त्याज्यानि सर्व्वथा ।
सहायाश्च त एवात्र कर्त्तव्याः सोद्यमाश्च ये ॥
देशे देशे तथा चेयं वार्त्ता प्रेष्या प्रयत्नतः ।
भविष्यति कथा चात्र आगन्तव्यं कुटम्बिभिः ॥
दूरे हरिकथाः केचिद्दूरे चाच्युतकीर्त्तनाः ।
स्त्रियः शूद्रादयो ये च तेषां बोधो यतो भवेत् ॥
देशे देशे विरक्ता ये वैष्णवाः कीर्त्तनोत्सुकाः ।
तेष्वेव पत्रं प्रेष्यञ्च तल्लेखनमितीरितम् ॥
सतां समाजो भविता सप्तरात्रं सुदुर्लभः ।
अपूर्ब्बरसरूपैव कथा चात्र भविष्यति ॥
श्रीभागवतपीयूषकथासु रसलम्पटाः ।
भवन्तश्च तदा शीघ्रमायान्तु प्रेमतत्पराः ॥
नावकाशः कदाचिद्वा दिनमात्रं तथापि वा ।
सर्व्वथा गमनं कार्य्यं क्षणोऽत्रैव सुदुर्लभः ॥
एवमाकारणं तेषां कर्त्तव्यं विनयेन च ।
आगन्तुकानां सर्व्वेषां वासस्थानानि कल्पयेत् ॥
तीर्थे चैव वने चापि गृहे वा श्रवणं स्मृतम् ।
विशाला वसुधा यत्र कर्त्तव्यं तत्कथास्थलम् ॥
शोधनं मार्जनं भूमेर्लेपनं धातुमण्डनम् ।
गृहोपस्करमुद्धृत्य गृहकोणे निवेशयेत् ॥
अर्व्वाक् पञ्चाहतो यत्नादास्तीर्णानि प्रलेपयेत् ।
कर्त्तव्यं मण्डपं प्रोच्चैः कदलीषण्डमण्डितम् ॥
फलपुष्पदलैर्षिश्वक् विताने च विराजितम् ।
चतुर्द्दिक्षु ध्वजारोपो बहुसम्पद्विराजितः ॥
ऊर्द्ध्वं सप्तैव लोकाश्च कल्पनीयाः सुविस्तरम् ।
तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबुध्य च ॥
पूर्ब्बं तेषामासनानि कर्त्तव्याणि यथोत्तरम् ।
वक्तुश्चापि तथा दिव्यमासनं परिकल्पयेत् ॥
उदङ्मुखो भवेद्वक्ता श्रोता वै प्राङ्मुखस्तदा ।
प्राङ्मुखोऽथ भवेद्वक्ता श्रोता चोदङ्मुखस्तदा ॥
अथवा पूर्ब्बदिक् ज्ञेया पूज्यपूजकमध्यतः ।
श्रोतॄणामागमः प्रोक्तो देशकालादिकोविदैः ॥
विरक्तो वैष्णवो विप्रो वेदशास्त्रविशुद्धिमान् ।
दृष्टान्तकुशलो धीरो वक्ता कार्य्येऽतिनिस्पृहः ॥
अनेककर्म्मविभ्रान्ताः स्त्रैणाः पाषण्डवादिनः ।
शुकशास्त्रकथोच्चारे त्याज्यास्ते येऽप्यपण्डिताः ।
वक्तुः पार्श्वे समर्थार्थमन्यः स्थाप्यस्तथाविधः ॥
पण्डितः संशयच्छेत्ता लोकबोधनतत्परः ॥
वक्त्रा क्षौरं प्रकर्त्तव्यं दिनादर्व्वाक् व्रताप्तये ।
अरुणोदयेऽसौ निर्व्वत्य शौचं स्नानं समाचरेत् ॥
मण्डलञ्च प्रकर्त्तव्यं तत्र स्थाप्यो हरिस्तथा ।
कृष्णमुद्दिश्य मन्त्रेण चरेत् पूजाविधिं क्रमात् ।
प्रदक्षिणनमस्कारान् पूजान्ते स्तुतिमाचरेत् ॥
संसारसागरे मग्नं दीनं मां करुणानिधे ! ।
कर्म्मग्राहगृहीताङ्गं मामुद्धर भवार्णवात् ॥
श्रीमद्भागवतस्यापि ततः पूजा प्रयत्नतः ।
कर्त्तव्या विधिना प्रीत्या धूपदीपसमन्विता ॥
ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् ।
स्तुतिः प्रसन्नचित्तेन कर्त्तव्या केवलं तदा ॥
श्रीमद्भागवताख्यस्त्वं प्रत्यक्षः कृष्ण एव हि ।
स्वीकृतोऽसि मया नाथ ! मुक्त्यर्थं भवसागरे ॥
मनोरथो मदीयोऽयं सफलः सर्व्वथा त्वया ।
निर्विघ्नेनैव कर्त्तव्यो दासोऽहं तव केशव ! ॥
एवं दीनं वचः प्रोक्त्वा वक्तारञ्चाथ पूजयेत् ।
संभूष्य वस्त्रभूषाभिः पूजान्ते तञ्च संस्तवेत् ॥
शुकरूपप्रबोधज्ञः सर्व्वशास्त्रविशारदः ।
एततकथाप्रकाशेन मदज्ञानं विनाशय ॥
तदग्रे नियमः पश्चात् कर्त्तव्यः श्रेयसे मुदा ।
सप्तरात्रं यथाशक्त्या धारणीयः स एव हि ॥
वरणं पञ्चविप्राणां कथाभागनिवृत्तये ।
कर्त्तव्यं तैर्हरेर्जप्यं द्वादशाक्षरविद्यया ॥
ब्राह्मणान् वैष्णवान् चान्यान् तथा कीर्त्तन-
कारिणः ।
नत्वा संपूज्य दत्त्वार्घ्यं स्वयमासनमाविशेत् ॥
लोकचित्नाधनागारपुत्त्रचिन्ताच्युतश्च यः ।
कथाचिन्ताशुद्धमतिः स लभेत् फलमुत्तमम् ॥
आसूर्य्योदयमारभ्य सार्द्धं त्रिप्रहरान्तकम् ।
वाचनीया कथा सम्यक् धीरकण्ठं सुधीमता ॥
कथाविरामः कर्त्तव्यो मध्याह्ने घटिकाद्बयम् ।
तत्कथामनुकार्य्यं वै कीर्त्तनं वैष्णवैस्तदा ॥
मलमूत्रजयार्थं हि लघ्वाहारः सुखावहः ।
हविष्यान्नेन कर्त्तव्यो ह्येकवारं कथार्थिना ॥
उपोष्य सप्तरात्रं वा शक्तिश्चेत् शृणुयात्तदा ।
घृतपानं पयःपानं कृत्वा वा शृणुयात् सुखम् ॥
फलाहारेण वा श्राव्यमेकभक्तेन वा पुनः ।
सुखसाध्यं भवेद्यत्तु कर्त्तव्यं श्रवणाय तत् ॥
भोजनन्तु वरं मन्ये कथाश्रवणकारकम् ।
नोपवासो वरः प्रोक्तः कथाविघ्नकरो यदि ॥
सप्ताहव्रतिनां पुंसां नियमान् शृणु नारद ! ।
विष्णुदीक्षाविहीनानां नाधिकारः कथाश्रवे ॥
ब्रह्मचर्य्यमधःसुप्तिः पत्रावल्याञ्च भोजनम् ।
कथासमाप्तौ भक्तिञ्च कुर्य्यान्नित्यं कथाव्रती ॥
द्बिदलं मधु तैलञ्च गरिष्ठान्नन्तथैव च ।
भावदुष्टं पर्य्युषितं जह्यान्नित्यं कथाव्रती ॥
वृन्ताकञ्च कलिङ्गञ्च दग्धमन्नं मसूरिकाम् ।
निष्पावमामिषाद्यञ्च वर्ज्जयेत्तु कथाव्रती ॥
पलाण्डुं लशुनं हिङ्गुं मूलकं गृञ्जनन्तथा ।
लालिकामूलकुष्माण्डं नैवाद्याच्च कथाव्रती ॥
देववैष्णवविप्राणां गुरुमोवतिनान्तथा ।
स्त्रीराजमहतां निन्दां वज्जयेच्च कथाव्रती ॥
कामं क्रोधं मदं दानं मत्सरं लोभमेव च ।
दम्भं मोहं तथा द्वेषं दूरयेच्च कथाव्रती ॥
रजस्वलान्त्यजम्लेच्छपतितव्रातकैस्तथा ।
द्बिजद्बिड्वेदवाह्यैश्च न वदेद्य कथाव्रती ॥
सत्यं शौचं दयां मौनं मार्ज्जनं विनयन्तथा ।
उदारं मानसं तद्वत् कुर्य्यादेवं कथाव्रती ॥
दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्म्मवान् ।
अनपत्यो मोक्षकामः शृणुयात् स कथामिमाम् ॥
अपुष्पा काकबन्ध्या च बन्ध्या या च मृतार्भका ।
स्रवद्गर्भा च या नारी तया श्राव्या प्रयत्नतः ॥
एतेन विधिना दत्तं तदक्षयतरं भवेत् ।
अत्युत्तमादिना सप्तकोटियज्ञफलप्रदा ॥
एवं कृत्वा व्रतविधिमुद्यापनमथाचरेत् ।
तज्जन्माष्टमीव्रतवत् कर्त्तव्यं फलकाङ्क्षिभिः ॥
अकिञ्चनेषु भक्तेषु प्रायो नोद्यापनाग्रहः ।
श्रवणेनैव पूतास्ते निष्कामा वैष्णवा यतः ॥
एवं नगाहयज्ञेऽस्मिन् समाप्ते श्रोतृभिस्तदा ।
पुस्तकस्य च वक्तुश्च पूजा कार्य्यातिभक्तितः ॥
पृष्ठ ३/१२४
प्रसादस्तुलसीमाला श्रोतृभ्यश्चाथ दीयताम् ।
मृदङ्गतालललितं कीर्त्तनं कीर्त्त्यतां ततः ॥
जयशब्दो नमःशब्दः शङ्खशब्दश्च गीयताम् ।
विप्रेभ्यो याचकेभ्यश्च वित्तमन्नञ्च दीयताम् ॥
विरक्तश्चेद्भवेत् श्रोता गीता वाच्या परेऽहनि ।
मृहस्थश्चेत्तदा होमः कर्त्तव्यः कर्म्मशान्तये ॥
प्रतिश्लोकञ्च जुहुयाद्बिधिना दशमस्य च ।
पायसं दधि सर्पिश्च तिलादिमधुसंयुतम् ॥
अथवा हवनं कुर्य्याद्गायत्त्र्या सुसमाहितः ।
तन्मयत्वात् पुराणस्य परमस्यास्य तत्त्वतः ॥
होमाशक्तौ बुधो हौम्यं दद्यात्तत्फलसिद्धये ।
नानाच्छिद्रनिरोधार्थं न्यूनताधिक्यताख्ययोः ॥
दोषयोः प्रशमार्थन्तु पठेन्नामसहस्रकम् ।
तेन स्यात् सफलं सर्व्वं नास्त्यस्मादधिकं यतः ॥
द्बादश ब्राह्मणान् पश्चाद्भोजयेन्मधुपायसैः ।
दद्यात् सुवर्णं धेनुञ्च व्रतपूर्णत्वसिद्धये ॥
शक्तौ पलत्रयमितं स्वर्णसिंहं विधाय च ।
तत्रास्य पुस्तकं स्थाप्य लिखितं ललिताक्षरम् ॥
संपूज्यावाहनाद्यैस्तदुपचारैः सदक्षिणम् ।
वस्त्रभूषणगन्धाद्यैः पूजिताय यतात्मने ॥
आचार्य्याय सुधीर्द्दत्त्वा मुक्तः स्याद्भवबन्धनैः ।
एवं कृते विधाने च सर्व्वपापनिवारणे ।
फलदं स्यात् पुराणन्तु श्रीमद्भागवतं शुभम् ॥
धर्म्मार्थकाममोक्षाणां साधनं नात्रसंशयः ।
इति ते कथितं सर्व्वं किं भूयः श्रोतुमिच्छसि ॥
श्रीमद्भागवतेनैव भक्तिभुक्तिः प्रकाशिता ॥”
इति पाद्मोत्तरखण्डे श्रीभागवतमाहात्म्ये
६ अध्यायः ॥

पारायणिकः, पुं, (पारायणं वर्त्तयतीति । पारा-

यण + “पारायणतुरायणेति ।” ५ । १ । ७२ ।
इति ठञ् ।) पाठकः । छात्रः । इति सिद्धान्त-
कौमुदी ॥

पारारुकः, पुं, (पॄ पूर्त्तौ + घञ् । पारं पूर्त्तिं

ऋच्छतीति । ऋ गतौ + उकञ् ।) प्रस्तरः ।
इति शब्दरत्नावली ॥

पारावतः, पुं, (पारे गिरिदुर्गनद्यादिपरपारे

आपततीति । पार + आ + पत + अच् । पृषो-
दरादित्वात् पस्य वः । उड्डीयने सुदक्षत्वा-
देवास्य तथात्वम् । यद्बा, परावद्दूरदेश-
स्तस्मिन् अन्तरीक्षादिदूरदेशे भवः उड्डीय-
मानः सन् स्थित इत्यर्थः । परावत् + अण् ।)
पक्षिविशेषः । पायरा इति भाषा ॥ तत्पर्य्यायः ।
छेद्यकण्ठः २ कपोतः ३ रक्तलोचनः ४ । इति
रभसः ॥ पारापतः ५ कलरवः ६ अरुण-
लोचनः ७ मदनकाकुरवः ८ कामी ९ रक्ते-
क्षणः १० मदनमोहनवाग्विलासी ११ कण्ठी-
रवः १२ गृहकपोतकः १३ ॥ (यथा, --
“सिंहो बली द्विरदकुञ्जरमांसभोजी
संवत्सरेण कुरुते रतिमेकवारम् ।
पारावतः खलु शिलाकणमात्रभोजी
कामी भवेदनुदिनं वद कोऽत्र हेतुः ॥”
इत्युद्भटः ॥)
अस्य मांसगुणाः । स्निग्धत्वम् । मधुरत्वम् ।
गुरुत्वम् । शीतलत्वम् । पित्तास्रदाहनाशित्वम् ।
बल्यत्वम् । वीर्य्यवृद्धिदातृत्वम् । इति राज-
निर्घण्टः ॥ रसे पाके स्वादुत्वम् । कषायत्वम् ।
विशदत्वञ्च । इति राजवल्लभः ॥ तद्भेदो यथा, --
“पारावतोऽन्यो वग्देशी कामुको घुल्घुलारवः ।
पारावताङ्घ्रिपिच्छश्च ज्ञेयो गलरवश्च सः ॥”
इति राजनिर्घण्टः ॥
मर्कटः । तिन्दुकः । इति मेदिनी । ते, २१२ ॥
गिरिः । इति हेमचन्द्रः ॥ (नागविशेषः । यथा,
महाभारते । १ । ५७ । ११ ।
“पारावतः पारिजातः पाण्डरो हरिणः कृशः ।
विहङ्गः शरभो मेदः प्रमोदः संहतापनः ।
ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥”
अम्लवर्गाणामन्यतमः । यथा, सुश्रुते । १ । ४२ ।
“दाडिमामलकमातुलुङ्गाम्रातककपित्थकरमर्द्द-
वदरकोलप्राचीनामलकतिन्तिडीककोशाम्रभव्य-
पारावतवेत्रफललकुचाम्लवेतसदन्तशठतक्रसुरा-
शुक्तसौवीरकतुषोदकधान्याम्लप्रभृतीनि समा-
सेनाम्लो वर्गः ॥” * ॥ परात् शत्रोरहङ्कारात्
अवति रक्षतीति । अव रक्षणे + शतृ । ततः
पारावते इदमिति । तस्येदमित्यण् । दत्तात्रेयस्य
गुरुः । इति चिन्तामणिः ॥)

पारावतपदी, स्त्री, (पारावतस्येव पादो मूलं

यस्याः । ङीष् । पद्भावः ।) पारावताङ्घ्रिः ।
नयाफट्की इति भाषा ॥ इति रत्नमाला ॥
काकजङ्घा । इति राजनिर्घण्टः ॥ (यथा,
सुश्रुते चिकित्सितस्थाने । ९ अध्याये ।
“पारावतपदीदन्तीवाकुचीकेशराह्वयैः ।
कण्टकार्य्या च तत् पक्वं घृतं कुष्ठिषु योजयेत् ॥”)

पारावताङ्घ्रिः, स्त्री, (पारावतस्य अङ्घ्रिरिव

अङ्घ्रिर्मूलं यस्याः ।) ज्योतिष्मती । इत्यमरः ।
२ । ४ । १५० ॥

पारावताङ्घ्रिपिच्छः, पुं, (पारावताङ्घ्रिरिव पिच्छः

पश्चात्प्रदेशो यस्य ।) वग्देशीयपारावतः ।
इति राजनिर्घण्टः ॥

पारावती, स्त्री, (पारावतस्येव ध्वनिरस्त्यस्या इति ।

अच् । ततो ङीष् ।) गोपगीतम् । नदीभेदः ।
(यथा, हारीते प्रथमस्थाने ७ अध्याये ।
“तथा चर्म्मण्वती वेत्रवती पारावती तथा ॥”)
लवलीफलम् । इति मेदिनी । ते, २१२ ॥

पारावारं, क्ली, (पारं नद्यादिपरपारं आवृणो-

तीति । आ + वृ + “कर्म्मण्यण् ।” ३ । २ । १ ।
इत्यण् ।) तटद्वयम् । इति मेदिनी । रे, २८१ ॥

पारावारः, पुं, (पारावारं तटद्बयं पारं अवा-

रञ्च वा अस्त्यस्येति । अच् ।) समुद्रः । इत्य-
मरः । १ । १० । १ ॥ (यथा, देवीभागवते ।
१ । ५ । ५९ ।
“यदल्पं कीलालं कलयितुमशक्तः स तु नरः
कथं पारावाराकलनचतुरः स्यादृतमतिः ॥”)

पारावारीणः, त्रि, (पारावारं गच्छतीति ।

पारावार + “राष्ट्रावारपाराद्घखौ ।” ४ । २ ।
९३ । इत्यत्र “अवारपाराद्विगृहीतादपि विप-
रीताच्चेति वक्तव्यम् ।” इति वार्त्तिकोक्त्या खः ।)
पारावारे गच्छति यः । पारावारशब्दात्
णीन्प्रत्ययनिष्पन्नः ॥

पाराशरं, क्ली, (पराशरेण कृतमिति । पराशर

+ अण् ।) पराशरोक्तभिक्षुसूत्रम् । इति
पाराशरिशब्दटीकायां भरतः ॥ (उपपुराण-
विशेषः । इति पुराणम् ॥ घृतविशेषः । यथाह
चक्रदत्तः ।
“यष्ठीबलागुडुच्यल्पपञ्चमूलीतुलां पचेत् ।
शूर्पेऽपामष्टभागस्थे तत्र पात्रे पचेद्घृतम् ॥
धात्रीविदारीक्षुरसे त्रिपात्रे पयसोर्म्मले ।
सुपिष्टैर्जीवनीयैश्च पाराशरमिदं घृतम् ॥”)

पाराशरः, पुं, (पराशरस्यापत्यं पुमान् । परा-

शर + “ऋष्यन्धकेति ।” ४ । १ । ११४ । इत्यण् ।)
व्यासदेवः । इति शब्दरत्नावली ॥ (पराशर-
कृतस्मृतिसंहिताविशेषः । यथा, --
“कृते तु मानवो धर्म्मस्त्रेतायां गौतमः स्मृतः ।
द्वापरे शङ्खलिखितः कलौ पाराशरः स्मृतः ॥”
अस्य विशेषविवरणन्तु पराशरशब्दे द्रष्टव्यम् ॥)
पराशरसम्बन्धिनि, त्रि ॥

पाराशरकल्पिकः, पुं, (पाराशरः पराशरकृतः

कल्पस्तं वेत्त्यधीते वा । “विद्यालक्षणकल्पान्ता-
च्चेति व्यक्तव्यम् ।” ४ । २ । ६० । इत्यस्य वार्त्ति-
कोक्त्या ठक् ।) पाराशरकल्पाध्यायी । पारा-
शरकल्पवेत्ता । इति सिद्धान्तकौमुदी ॥

पाराशरिः, पुं, (पराशरस्यापत्यम् । “अत इञ् ।”

४ । १ । ९५ । इतीञ् ।) वेदव्यासः । इति
भूरिप्रयोगः ॥

पाराशरी, [न्] पुं, (पाराशर्य्येण प्रोक्तं भिक्षु-

मधीते इति । पाराशर्य्य + “पाराशर्य्यशिला-
लिभ्यां भिक्षुनटसूत्रयोः ।” ४ । ३ । ११० ।
इति णिनिः ।) मस्करी । चतुर्थाश्रमी । परा-
शरेण प्रोक्तं भिक्षुसूत्रं इत्यर्थे ष्णे पाराशरं
तद्विद्यतेऽस्याध्ययनायेति नैकाजादिति इन् ।
इत्यमरभरतौ ॥

पाराशर्य्यः, पुं, (पराशरस्यापत्यम् । पराशर +

“गर्गादिभ्यो यञ् ।” ४ । १ । १०५ । इति
यञ् ।) व्यासः । इति शब्दरत्नावली ॥ (यथा,
देवीभागवते । १ । ४ । ३२ ।
“पाराशर्य्य ! महाभाग ! यत्त्वं पृच्छसि
मामिह ॥”)

पारिकाङ्क्षी, [न] पुं, (पारमत्रास्तीति । इनिः ।

पारि ब्रह्मज्ञानं तत् काङ्क्षतीति । काङ् क्ष +
णिनिः ।) तपस्वी । इत्यमरः । २ । ७ । ४२२ ॥
मस्करी । इति हेमचन्द्रः । ३ । ४७४ ॥

पारिजातः, पुं, (पारमस्यास्तीति पारी समुद्रस्तस्मात्

जातः । समुद्रमन्थनकाले तद्गर्भजातत्वात् तथा-
त्वम् । पारिणोऽद्रेर्जातः इति कश्चित् ।) पारि-
भद्रवृक्षः । सुरतरुः । इति मेदिनी । ते, २११ ॥
(समुद्रमन्थनकालेऽस्योत्पत्तिकथा यथा,
भागवते । ८ । ८ । ६ ।
पृष्ठ ३/१२५
“ततोऽभवत् पारिजातः सुरलोकविभूषणम् ।
पूरयत्यर्थिनो योऽर्थैः शश्वद्भुवि यथा भवान् ॥”)
अस्योत्पत्तिहरणे यथा, --
“अदित्यानुकृतानुज्ञो देवराजो जनार्द्दनम् ।
यथावत् पूजयामास बहुमानपुरःसरम् ॥
ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् ।
देवोद्यानानि सर्व्वाणि नन्दनादीनि सत्तम ! ॥
ददर्श च सुगन्धाढ्यं मञ्जरीपुञ्जधारिणम् ।
शैत्याह्लादकरं दिव्यं बालपल्लवशोभितम् ॥
मथ्यमानेऽमृते जातं जातरूपमयत्वचम् ।
पारिजातं जगन्नाथः केशवः केशिसूदनः ॥
तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्विजोत्तम ! ।
कस्मान्न द्वारकामेष नीयते कृष्ण ! पादपः ॥
इत्युक्तः स प्रहस्यैनं पारिजातं गरुत्मति ।
आरोपयामास हरिस्तमूचुर्व्वनचारिणः ॥
भोः शची देवराजस्य महिषी तत्परिग्रहम् ।
पारिजातं न गोविन्द ! हर्त्तुमर्हसि पादपम् ।
शचीविभूषणार्थाय देवैरमृतमन्थने ।
उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ॥
अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण ! यास्यति ।
वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ॥
तदलं सकलैर्देवैर्विग्रहेण तवाच्युत ! ।
विपाककटु यत् कर्म्म न तच्छंसन्ति पण्डिताः ॥
इत्युक्ते तैरुवाचैतान् सत्यभामातिकोपिनी ।
का शची पारिजातस्य कोऽयं शक्रः सुरा-
धिपः ॥
सामान्यः सर्व्वलोकानां यद्येषोऽमृतमन्थने ।
समुत्पन्नः सुराः कस्मादेको गृह्णाति वासवः ॥
यथा सुधा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः ! ।
सामान्यः सर्व्वलोकस्य पारिजातस्तथा तरुः ॥
भर्तृबाहुमहागर्व्वा रुणद्ध्यैनं यथा शची ।
तत् कथ्यतामलं क्षान्त्या सत्याहारयति द्रुमम् ॥
कथ्यतां वै द्रुतं गत्वा पौलम्यां वचनं मम ।
सत्यभामा वदत्यैतदिति गर्व्वोद्धताक्षरम् ॥
यदि त्वं दयिता भर्त्तुर्यदि वश्यः पतिस्तव ।
मद्भर्त्तुर्हरतो वृक्षं तत् कारय निवारणम् ॥
जानामि ते पतिं शक्रं जानामि त्रिदशेश्वरम् ।
पारिजातं तथाप्येनं मानुषी हारयामि ते ॥
श्रीपराशर उवाच ।
इत्युक्ता रक्षिणो गत्वा शच्या ऊचुर्यथोदितम् ।
शची चोत्साहयामास श्रुतार्था त्रिदशाधिपम् ॥
ततः समस्तदेवानां सैन्यैः परिवृतो हरिः ।
प्रययौ पारिजातार्थमिन्द्रो योधयितुं द्विज ! ॥
ततः परिघनिस्त्रिंशगदाशूलवरायुधाः ।
बभूवुस्त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ॥
ततो निरीक्ष्य गोविन्दो नागराजोपरिस्थितम् ।
शक्रं देवपरीवारं युद्धाय समुपस्थितम् ॥
चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् ।
मुमोच च शरव्रातं सहस्रायुतसम्मितम् ॥
छिन्नेष्वशेषबाणेषु शस्त्रेष्वस्त्रेषु सत्वरम् ।
जग्राह वासवो वज्रं कृष्णश्चक्रं सुदर्शनम् ॥
ततो हाहाकृतं सर्व्वं त्रैलोक्यं द्बिजसत्तम ! ।
वज्रचक्रधरौ दृष्ट्वा देवराजजनार्द्दनौ ॥
क्षिप्तं वज्रमथेन्द्रेण जग्राह भगवान् हरिः ।
न मुमोच तथा चक्रं शक्र ! तिष्ठेति चाब्रवीत् ।
प्रनष्टवज्रं देवेशं गरुडक्षतवाहनम् ।
सत्यभामाब्रवीद्वीरं पलायनपरायणम् ॥
त्रैलोक्येश्वर ! नो युक्तं शचीभर्त्तुः पलायनम् ।
पारिजातस्रगाभोगा त्वामुपस्थास्यते शची ॥
श्रीपराशर उवाच ।
इत्युक्तो वै निववृते देवराजस्तया द्विज ! ।
प्राह चैनामलं चण्डि ! सख्युः खेदातिविस्तरैः ॥
न चापि सर्गसंहारस्थितिकर्त्ताखिलस्य यः ।
जितस्य तेन मे व्रीडा जायते विश्वरूपिणा ॥
यस्मिन् जगत् सकलमेतदनादिमध्ये
यस्माद्यतश्च न भविष्यति सर्व्वभूतात् ।
तेनोद्भवप्रलयपालनकारणेन
व्रीडा कथं भवति देवि ! निराकृतस्य ॥
संस्तुतो भगवानित्थं देवराजेन केशवः ।
प्रहस्य भावगम्भीरमुवाचेन्द्रं द्बिजोत्तम ! ॥
देवराजो भवानिन्द्रो वयं मर्त्त्या जगत्पते ! ।
क्षन्तव्यं भवतैवैतदपराधं कृतं मया ॥
पारिजाततरुश्चायं नीयतामुचितास्पदम् ।
गृहीतोऽयं मया शक्र ! सत्या वचनकारणात् ॥
श्रीशक्र उवाच ।
विमोहयसि मांमीश ! मर्त्योऽहमिति किं वदन् ।
जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ॥
नीयतां पारिजातोऽयं कृष्ण ! द्वारवतीं पुरीम् ।
मर्त्यलोके त्वया मुक्ते नायं वै स्थास्यते भुवि ॥
तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः ।
हर्षमुत्पादयामास द्वारकावासिनां द्विज ! ॥
अवतीर्य्याथ गरुडात् सत्यभामासहायवान् ।
निष्कुटे स्थापयामास पारिजातं महातरुम् ॥
यमभ्येत्य जनः सर्व्वो जातिं स्मरति पौर्ब्बिकीम् ।
वास्यते यस्य पुष्पाणां गन्धेनोर्वी त्रियोजना ॥
ततस्ते यादवाः सर्व्वे देहबन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्व्वन्तो मुखदर्शनम् ॥”
इति विष्णुपुराणे पञ्चमेऽंशे पारिजातहरणे
३० । ३१ अध्यायौ ॥ (ऐरावतकुलजातनाग-
विशेषः । यथा, महाभारते । १ । ५७ । ११ ।
“पारावतः पारिजातः पाण्डरो हरिणः कृशः ॥”
ऋषिविशेषः । यथा तत्रैव । २ । ५ । ११ ।
“पारिजातेन राजेन्द्र ! रैवतेन च धीमता ।
सुमुखेन च सौम्येन देवर्षिरमितद्युतिः ॥”
तन्त्रशास्त्रविशेषः । यथा, आगमतत्त्वविलासे ।
“भुवनेश्वरीं पारिजातं प्रयोगसारमुत्तमम् ॥”)

पारिजातकः, पुं, पारिणोऽद्रेर्जातः पारिजातः

स्वार्थे कः । ‘पारे जातो विष्णुपद्याः पारि-
जातेति शब्दितः ।’ इत्यागमः ॥ देवतरुः । तत्-
पर्य्यायः । मन्दारः २ । इत्यमरः । २ । ४ । २६ ॥
पारिभद्रवृक्षः । पालितामादार इति भाषा ॥
“पारि पारं प्राप्तं जातं जन्म यस्य । ‘पारिभद्रे
तु मन्दारुर्म्मन्दारः पारिजातकः ।’ इति हड्ड-
चन्द्रः ॥” इत्यमरटीकायां भरतः ॥

पारिणाय्यं, त्रि, (परिणये विवाहकाले लब्धम् ।

परिणय + ष्यञ् ।) परिणयलब्धं धनादिकम् ।
यथा, --
“मातुः पारिणाय्यं स्त्रियो विभजेरन् ॥”
इति दायभागधृतवशिष्ठवचनम् ॥

पारिणाह्यं, त्रि, (परिणाहमर्हतीति । परिणाह

+ ष्यञ् ।) गृहोपकरणशय्यासनकुण्डकटा-
हादि । यथा, मनुः । ९ । ११ ।
“अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत् ।
शौचे धर्म्मेऽन्नपक्त्याञ्च पारिणाह्यस्य चेक्षणे ॥”
“पारिणाह्यस्य गृहोपकरणस्य शय्यासनकुण्ड-
कटाहादेरवेक्षणे एनां नियोजयेत् ॥” इति
तट्टीकायां कुल्लूकभट्टः ॥

पारितथ्या, स्त्री, (परितस्तथाभूता परितथा ।

ततः स्वार्थे ष्यञ् ।) सीमन्तिकास्थितस्वर्णादि-
रचितपट्टिका । सिँती इति भाषा ॥ तत्-
पर्य्यायः । बालपाश्या २ । इत्यमरः । २ । ६ । १०३ ॥

पारितोषिकं, त्रि, (परितोषेण लब्धं परितोषा-

दागतं वा । परितोष + शैषिकष्ठक् ।) आनति-
करम् । परितोषजनकद्रव्यम् । यथा, --
“ममापि चन्द्रशेखर-शरासनारोपणप्रथमवा-
दिनः पारितोषिकं धारयसि ।” इति मुरारिः ॥

पारिन्द्रः, पुं, (पारीन्द्र + पृषोदरादित्वात् ह्नस्वः ।)

सिंहः । इति हेमचन्द्रः । ४ । ३५० ॥

पारिपन्थिकः, पुं, (परिपन्थं पन्थानं वर्ज्जयित्वा

व्याप्य वा तिष्ठति परिपन्थं हन्तीति वा । “परि-
पन्थञ्च तिष्ठति ।” ४ । ४ । ३६ । इति ठक् ।)
चौरः । इति हेमचन्द्रः । ३ । ४५ ॥

पारिपाट्यं, क्ली, (परिपाटी + ष्यञ् ।) परि-

पाट्या भावः । परिपाटीशब्दात् भावे ष्ण्यप्रत्ययः ॥

पारिपात्रः, पुं, पर्व्वतविशेषः । तत्पर्य्यायः । पारि-

यात्रः २ । इति शब्दरत्नावली ॥ स तु बिन्ध्यस्य
पश्चिमे मालवदेशस्य सीमापर्व्वतः ॥ (अयं
हि भारतस्यास्य वर्षस्य कुलपर्व्वतानामन्यतमः ।
यथा, मार्कण्डेये । ५७ । ११ ।
“महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्व्वतः ।
बिन्ध्यश्च पारिपात्रश्च सप्तैवात्र कुलाचलाः ॥”
अस्मादुद्भूतनद्यो यथा, तत्रैव । ५७ । १९ -- २० ।
“वेदस्मृतिर्व्वेदवती वृत्रघ्नी सिन्धुरेवं च ।
वेण्वा सानन्दिनी चैव सदानीरा मही तथा ।
पारा चर्म्मण्वती नूपी विदिशा वेत्रवत्यपि ।
शिप्रा ह्यवर्णी च तथा पारिपात्राश्रयाः
स्मृताः ॥”)

पारिपात्रिकः, पुं, (पारिपात्र + स्वार्थे कन् ।)

पारिपात्रपर्व्वतः । इत्यमरः । २ । ३ । ३ ॥

पारिपार्श्विकः, पुं, (परिपार्श्वं वर्त्तते इति ।

परिपार्श्व + “परिमुखञ्च ।” ४ । ४ । २९ ।
इति चकारात् ठक् ।) नट्याः पार्श्वस्थः ।
इति हेमचन्द्रः ॥ त्रि, पार्श्ववर्त्ती । यथा, अमर-
कोषे । १ । ३ । ३१ ।
“माठरः पिङ्गलो दण्डश्चण्डांशोः पारि-
पार्श्विकाः ॥”
पृष्ठ ३/१२६

पारिप्लवं, त्रि, (परि + प्लु + अच् । ततः प्रज्ञा-

द्यण् ।) चञ्चलम् । इत्यमरः । ३ । १ । ७५ ॥ (यथा,
रघुः । ३ । ११ ।
“तयोपचाराञ्जलिखिन्नहस्तया
ननन्द पारिप्लवनेत्रया नृपः ॥”)
आकुलः । इति मेदिनी । वे, ६० ॥ (क्ली, तीर्थ-
विशेषः । यथा, महाभारते । ३ । ८३ । १२ ।
“ततः पारिप्लवं गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।
अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति भारत ! ॥”
पुं, जलपक्षी । इति रामानुजः ॥ यथा, रामा-
यणे । ४ । २७ । २३ ।
“पारिप्लवशतैर्ज्जुष्टा बर्हिक्रौञ्चनिनादिता ।
रमणीया नदी सौम्या मुनिसङ्घनिषेविता ॥”
पञ्चममन्वन्तरीयप्रकृतिविशेषः । यथा, हरि-
वंशे । ७ । २७ ।
“देवाश्चाभूतरजसस्तथा प्रकृतयोऽपरे ।
पारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥”)

पारिभद्रः, पुं, (परितो भद्रमस्मात् । परिभद्र-

स्ततः प्रज्ञाद्यण् ।) वृक्षविशेषः । पालिता-
मादार इति भाषा ॥ तत्पर्य्यायः । निम्बतरुः २
मन्दारः ३ पारिजातकः ४ । इत्यमरः । २ । ४ । २६ ॥
रक्तकुसुमः ५ कृमिघ्नः ६ बहुपुष्पः ७ रक्तकेसरः ८ ।
इति राजनिर्घण्टः ॥ अस्य गुणः । अनिल-
श्लेष्मशोथमेदःकृमिनाशित्वम् । अस्य पुष्पगुणः ।
पित्तरोगकर्णव्याधिनाशित्वम् । इति भाव-
प्रकाशः ॥ देवदारु । इति मेदिनी ॥ सरल-
वृक्षः । इति शब्दचन्द्रिका ॥ (यज्ञवाहस्य
पुत्त्रविशेषः । प्लक्षद्वीपस्य वर्षविशेषः । यथा,
भागवते । ५ । २० । ९ ।
“तद्द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञवाहः
स्वसुतेभ्यस्तन्नामानि सप्त वर्षाणि व्यभजत् ।
सुरोचनं सौमनस्यं रमणकं देवबर्हं पारिभद्र-
माप्यायनमभिज्ञातमिति ॥”)

पारिभद्रकः, पुं, (पारिभद्र एव । स्वार्थे कन् ।)

देवदारुवृक्षः । इत्यमरः ॥ (यथा, महाभारते ।
१ । १२५ । ३ ।
“पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः ॥”)
निम्बवृक्षः । कुष्ठौषधे, क्ली । इति राज-
निर्घण्टः ॥

पारिभाव्यं, क्ली, (परिभवाय रोगादिनाशाय

हितम् । परिभव + ष्यञ् ।) कुष्ठौषधम् । इत्य-
मरः । २ । ४ । १२६ ॥ परिभुवो भावः । जामिनी
इति भाषा ॥ यथा, --
“साक्षित्वं पारिभाव्यञ्च दानं ग्रहणमेव च ।
विभक्ता भ्रातरः कुर्य्युर्नाविभक्ताः परस्परम् ॥”
इति दायभागः ॥

पारिभाषिकं, क्ली, (परिभाषात आगतम् । परि-

भाषा + ठञ् ।) परिभाषयार्थबोधकं पदम् ।
यथा । तत्राधुनिकसङ्केतः परिभाषा तया अर्थ-
बोधकं पदं पारिभाषिकम् । यथा शास्त्र-
कारादिसङ्केतितनदीवृद्ध्यादिपदम् । इति शक्ति-
वाद गदाधरः ॥

पारिमाण्डल्यं, क्ली, (परिमण्डलस्य परमाणो-

र्भावः । परिमण्डल + ष्यञ् ।) परमाणुपरि-
माणम् । यथा, भाषापरिच्छेदे । १५ ।
“पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥”

पारिमुखिकः, त्रि, (परिमुखं वर्त्तते इति । “परि-

मुखञ्च ।” ४ । ४ । २९ । इति ठक् ।) परि-
मुखेण तिष्ठति यः । सम्मुखवर्त्ती । परिमुख-
शब्दात् ष्णिकप्रत्ययनिष्पन्नः ॥

पारियात्रः, पुं, (परितो यात्रया दृश्यते । “शेषे ।”

४ । २ । ९२ । इत्यण् ।) पारिपात्रपर्व्वतः । इति
शब्दरत्नावली ॥ (यथा, गोलाध्याये । ३ । ४२ ।
“माहेन्द्रशुक्तिमलयर्क्षकपारियात्राः
सह्यः सविन्ध्य इह सप्तकुलाचालाख्याः ॥”)

पारियात्रिकः, पुं, (पारियात्र एव । स्वार्थे ठक् ।)

पारियात्रः । इति हेमचन्द्रः । ४ । ९७ ॥

पारियानिकः, पुं, (परियानं प्रयोजनमस्य । परि-

यान + ठञ् ।) अध्वरथः । इति हेमचन्द्रः ।
३ । ४१६ ॥ परिघातिकोऽपि पाठः ॥

पारिरक्षकः, पुं, (परिरक्षति आत्मानमिति ।

परि + रक्ष + ण्वुल् । ततः प्रज्ञाद्यण् ।)
मस्करी । तापसः । इति हेमचन्द्रः । ३ । ४७४ ॥

पारिशः, पुं, वृक्षविशेषः । पलाशपिपुल इति

गजहण्ड इति च भाषा ॥ तत्पर्य्यायः ।
फलीशः २ कपिचूतः ३ कमण्डलुः ४ गर्द्द-
भाण्डः ५ कन्दरालः ६ कपीतनः ७ सुपा-
र्श्वकः ८ । अस्य गुणाः । दुर्जरत्वम् । स्निग्ध-
त्वम् । क्रमिशुक्रकफप्रदत्वम् । फले अम्लत्वम् ।
मूले मधुरत्वम् । कषायत्वम् । स्वादुमज्जक-
त्वञ्च । इति भावप्रकाशः ॥

पारिषदः, पुं, परिषदि तिष्ठति यः । (परिषदि

साधुः । परिषदो ण्यः इत्यत्र योगविभागात्
णः ।) सभास्थः । तत्पर्य्यायः । सभ्यः २ सभा-
स्तारः ३ सभासत् ४ परिषद्वलः ५ पर्षद्बलः ६
पारिषद्यः ७ पार्श्वदः ८ । इति शब्दरत्नावली ॥
(यथा, महाभारते । २ । १० । ३२ ।
“शङ्कुकर्णमुखाः सर्व्वे दिव्याः पारिषदास्तथा ॥”
परिषद इदम् । “पत्राध्वर्युपरिषदश्च ।” ४ ।
३ । १२३ । इति अञ् ।) परिषत्सम्बन्धिनि, त्रि ॥

पारिषद्यः, पुं, (परिषदं समवैति । “परिषदो

ण्यः ।” ४ । ४ । ४४ । इति ण्यः ।) पारि-
षदः । इति शब्दरत्नावली ॥

पारिहारिकः, त्रि, (परिहारे साधुः । परिहार

+ ठञ् ।) परिहारकर्त्ता । परिहारं करोति
यः इत्यर्थे ष्णिकप्रत्ययनिष्पन्नः ॥

पारिहार्य्यः, पुं, (परिह्रियते इति । परि + हृ +

ण्यत् । ततः प्रज्ञाद्यण् ।) बलयः । इत्यमरः ॥
परिहारत्वे, क्ली ॥

पारिहास्यं, क्ली, (परिहास + ष्यञ् ।) परि-

हासस्य भावः । परिहासद्बारा कृतम् । यथा,
श्रीभागवते । ६ । अजामिलोपाख्याने । २ । १४ ।
“साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥”
“नन्वयं पुत्त्रनामाग्रहीत् न भगवन्नामतत्राहुः ।
साङ्केत्यं पुत्त्रादौ सङ्केतितम् । पारिहास्यं परि-
हासेन कृतम् । स्तोभं गीतालापपूरणार्थे
कृतम् । हेलनं किं विष्णुनेति सावज्ञमपि च
वैकुण्ठनामोच्चारणम् ।” इति तट्टीकायां
श्रीधरस्वामी ॥

पारी, स्त्री, (पारयत्यनयेति । पॄ पूर्त्तौ + णिच् +

घञ् । ततो ङीष् ।) पूरः । जलसमूहः ।
कर्क्करी । हस्तिपादरज्जुः । इति मेदिनी । रे, ५६ ॥
पात्री । परागः । इति विश्वः ॥ (पीयतेऽत्रेति ।
पा + क्विप् । तद्रातीति । रा + कः । ङीष् ।)
पानपात्रम् । इति त्रिकाण्डशेषः ॥ (यथा,
राजतरङ्गिण्याम् । ४ । ३७३ ।
“कर्पूरपारीपतितं मौरेयमिव हारितम् ॥”)
दोहनपात्रम् । इति जटाधरः ॥

पारीक्षितः, पुं, परीक्षितराजः । इति शब्दरत्ना-

वली ॥ जनमेजयः । परीक्षितोऽपत्यं इत्यर्थे
ष्णप्रत्ययनिष्पन्नः ॥ (यथा, देवीभागवते । २ ।
११ । १२ ।
“ततः सुवर्णवर्म्माक्षो राजा काशीपतिः किल ।
वपुष्टमां शुभां कन्यां ददौ पारीक्षिताय च ॥”)

पारीणः, त्रि, (पारं गामीति । पार + “अवार-

पारत्यन्तानुकामं गामी ।” ५ । २ । ११ । इति
खः ।) पारगमनकर्त्ता । पारं गच्छति इत्यर्थे
णीनप्रत्ययनिष्पन्नः ॥ (यथा, भट्टिः । २ । ४६ ।
“त्रिवर्गपारीणमसौ भवन्त-
मध्यासयन्नासनमेकमिन्द्रः ॥”)

पारीन्द्रः, पुं, (पृ पालने + कर्म्मणि इन् । पारिः

पशुस्तस्य इन्द्रः ।) सिंहः । अजगरसर्पः । इति
हेमचन्द्रः ॥

पारीरणः, पुं, (पार्य्यां जलपूरे रणं यस्य ।)

कमठः । दण्डः । पटशाटकः । इति विश्वः ॥

पारुः, पुं, (पिबति रसानिति । पा + “वाहु-

लकात् पिबतेश्च । ४ । १०१ । इत्यत्र उज्ज्वल-
दत्तोक्त्या रुः ।) वह्निः । सूर्य्यः । इत्युणादि-
कोषः ॥

पारुष्यं, क्ली, (परुषस्य भावः । परुष + ष्यञ् ।)

अप्रियभाषणम् । तत्पर्य्यायः । अभिवादः २ ।
इत्यमरः । १ । ६ । १४ ॥ तत्तु चतुर्व्विधवाङ्मय-
पापान्तर्गतपापघिशेषः । यथा, --
“पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्व्वशः ।
असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्व्विधम् ॥”
इति तिथ्यादितत्त्वम् ॥
परुषत्वम् । दुर्व्वाक्यम् । इति मेदिनी । ये, ९४ ॥
इन्द्रस्य वनम् । इति विश्वः ॥ अगुरु । इति
शब्दचन्द्रिका ॥

पारुष्यः, पुं, (परुषस्य भावः पारुष्यं दुर्व्वाक्यं

तदिव नीतिवाक्यमस्ति अस्यास्मिन् वा इत्यच् ।)
बृहस्पतिः । इति मेदिनी । ये, ९४ ।

पारेरकः, पुं, (वध्यादेः पारमीर्त्ते गच्छ-

तीति । ईर् + ण्वुल् ।) खड्गः । इति शब्द-
माला ॥
पृष्ठ ३/१२७

पार्घटं, क्ली, (पादे घटते इति अच् । ततः

पृषोदरादित्वात् साधुः ।) पांशु । इति हारा-
वली । १६२ ॥

पार्थः, पुं, पृथिवीपालः । (पृथाया अपत्यं पुमान् ।

शिवादित्वादण् ।) पृथापुत्त्रः । (यथा, महा-
भारते । ३ । २३५ । १ ।
“सरस्तदासाद्य वनञ्च पुण्यं
ततः परं किमकुर्व्वन्त पार्थाः ॥”
अर्ज्जुनः । यथा, भगवद्गीतायाम् । १ । २५ ।
“उवाच पार्थ ! पश्यैतान् समवेतान् कुरूनिति ॥”)
अर्ज्जुनवृक्षः । इति शब्दचन्द्रिका ॥

पार्थक्यं, क्ली, (पृथक् + भावे ष्यञ् ।) पृथक्त्वम् ।

पृथक् इत्यस्य भाव इत्यर्थे ष्ण्यप्रत्ययनिष्पन्नम् ॥
(“घटप्रदीपवद् व्यङ्ग्यव्यञ्जकयोः पार्थक्यमेव ॥”
इति साहित्यदर्पणम् ॥)

पार्थवं, क्ली, (पृथोर्भावः । पृथु + अण् ।) पृथुता ।

पृथोर्भावः इति भावार्थे ष्णप्रत्ययनिष्पन्नम् ॥
(पृथनामा राजा तस्येदमित्यण् । पृथुराज-
सम्बन्धिनि, त्रि । यथा, भागवते । १ । ३ । १४ ।
“ऋषिभिर्याचितो भेजे नवमं पार्थवं वपुः ॥”)

पार्थिवं, क्ली, (पृथिव्या विकारः पृथिव्यां भवमिति

वा अञ् ।) तगरपुष्पम् । इति राजनिर्घण्टः ॥

पार्थिवः, पुं, (पृथिव्या ईश्वरः ।) पृथिवी +

“तस्येश्वरः ।” ५ । १ । ४२ । इति अञ् ।)
राजा । इत्यमरः ॥ (यथा, मनुः । २ । १३९ ।
“तेषान्तु समवेतानां मान्यौ स्नातकपार्थिवौ ।
राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥”
वत्सरविशेषः । यथा, --
“बहुशस्यानि जायन्ते सर्व्वदेशे सुलोचने ।
सौराष्ट्रलाटदेशे च पार्थिवे नात्र संशयः ॥”
इति चिन्तामणिधृतवचनम् ॥
पृथिव्या अयं इत्यण् ।) शरावः । इति
त्रिकाण्डशेषः ॥ (पृथिव्या विकार इति । “सर्व्व-
भूमिपृथिवीभ्यामणञौ ।” ५ । १ । ४१ । इत्यञ् ।)
पृथिवीविकृतौ, त्रि । इति मेदिनी ॥ (यथा,
भागवते । १ । २ । २४ ।
“पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः ॥”
पृथिव्या निमित्तं संयोग उत्पातो वा ॥
पृथिवीसम्बन्धिनि, त्रि । यदुक्तम् ।
“मधुमत् पार्थिवं रजः ॥”)

पार्थिवी, स्त्री, (पृथिव्यां भवा । “दित्यदितीति ।”

४ । १ । ८५ । इत्यस्य सूत्रस्य वार्त्तिके
“पृथिव्या ञाञौ ।” इत्युक्तेरञ् । ततो ङीप् ।)
सीता । इति मेदिनी । वे, ४३ ॥

पार्परः, पुं, यमः । इति जटाधरः ॥

पार्व्वणः, पुं, (पर्व्वणि ग्रहणयोग्यः इत्यण् ।)

मृगविशेषः । इति शब्दचन्द्रिका ॥ (पर्व्वणि
क्रियते यत् तत् ।) अमावस्यापर्व्वसामान्ययोः
कर्त्तव्यश्राद्धम् । यथा, --
“अमावस्यां यत् क्रियते तत् पार्व्वणमुदाहृतम् ।
क्रियते पर्व्वणि वा यत्तत् पार्व्वणमुदाहृतम् ॥”
इति भविष्यपुराणम् ॥
पर्व्वणि यत् क्रियते इत्यनेनामावास्यायाः पर्व्व-
त्वात्तच्छ्राद्धस्य वैदिकप्रयोगाधीनयौगिकत्वेन
पार्व्वणत्वप्राप्तौ अमावास्यायां पृथगभिधानं तद-
मावास्याश्राद्धस्य रूढित्वार्थं तेन पार्व्वणेन
विधानेनेत्यादौ यौगिकनानावयवशक्त्यपेक्षया
एकस्याः समुदायशक्तेर्लघुत्वात् अमावास्या-
पार्व्वणातिदेशो लभ्यते न तु पूपाष्टकादि-
पार्व्वणधर्म्मातिदेशः ।” इति श्राद्धतत्त्वम् ॥ * ॥
सामगानां तस्य प्रयोगो यथा, --
“विप्राप्राप्त्या श्राद्धकृतौ सुखार्थं क्रमसूचनम् ।
श्राद्धपूर्ब्बदिने मांसस्त्रीत्यागश्चैकभोजनम् ॥
श्राद्धाहे दन्तकाष्ठस्य त्यागः स्नानं तथोषसि ।
याम्यास्यत्वं पादशौचे वास्त्वर्च्चा विष्णुचिन्तनम् ॥
तस्मै पूजा मूल्यदानं परभूस्वामिनेऽथवा ।
तत् पितृभ्यश्चाग्रदानं रक्षादीपकुंशद्विजाः ॥
श्राद्धानुज्ञा च गायत्त्री देक्ताभ्य इति त्रिधा ।
मृज्जलप्रोक्षणं रक्षाजलस्थापनमेकतः ॥
पूर्ब्बं विप्रकरे तोयं कुशासनमनन्तरम् ।
दक्षिणे देवविप्रस्य पितृविप्रस्य वामतः ॥
आवाहनार्घ्ये न्युब्जञ्च ततो गन्धादिपञ्चकम् ।
ऐशानीक्रमतो रेखा प्रागग्रा देवमण्डले ॥
नैरृतीक्रमतो रेखा दक्षाग्रा पितृमण्डले ।
पात्राणां तेषु विन्यासो होमप्रश्नोऽग्निहोमकः ॥
हुतशेषप्रदानञ्च पात्रालम्भोऽन्नवेशनम् ।
इदमित्यङ्गुलेः क्षेपस्तूष्णीं दैवे यवस्य च ॥
पित्रे मन्त्रेण निःक्षेपस्तिलस्यापहता इति ।
मधुनोऽन्ने च निःक्षेपो गायत्त्र्यास्त्रिर्ज्जपस्ततः ॥
मधुवाता त्वृचा चैव मधुशब्दत्रयेण च ।
अन्नाभिमन्त्रणं तस्य दानं जलनिवेदनम् ॥
गायत्त्र्यादित्रिकजपोऽप्यन्नहीनजपस्तथा ।
द्बिजाभावेऽपि तृप्त्यर्थं गायत्त्र्यादित्रिकस्य च ॥
पुण्याख्यानस्य च जपः सतिलप्रोक्षिते कुशे ।
अग्निदग्धेतिमन्त्राभ्यां सतिलान्ननिवेदनम् ॥
हस्तक्षालश्चाचमनं हरिस्मृतिर्जलस्य च ।
पित्रादिक्रमतो दानं गायत्त्र्यादिजपः पुनः ॥
शेषान्नपिण्डयोः प्रश्नो निहन्मीति च मण्डले ।
अपहतानिहन्मिभ्यां रेखायुग्मं पितृक्रमात् ॥
आस्तरो देवतेत्यस्य जप आवाहनं तिलैः ।
अवनेजनदानञ्च मधुवाता मधुत्रयम् ॥
अक्षन्नमी पिण्डदानं दर्भलेपापघर्षणम् ।
आचमनं स्मृतिर्व्विष्णोः पात्रक्षालावनेजनम् ॥
अत्रेत्यादिजपो वामावर्त्तेनोदङ्मुखस्ततः ।
आवृत्यामीजपश्चैव श्वासत्यागोऽञ्जलिस्ततः ॥
नम इत्यादिकजपो वासोदानञ्च पूजनम् ।
वसन्ताय जपश्चैव द्बिजाग्रभूमिसेचनम् ॥
दैवादिब्राह्मणे दानं जलादित्रतयस्य च ।
शिवा इत्यादिनाक्षय्यमघोरा गोत्रमित्यपि ॥
सपवित्रकुशाः पिण्डे स्वधावाचनमूर्जनम् ।
न्युब्जोत्थानं पितुः पक्षे दक्षिणादानमग्रतः ॥
विश्वेदेवाश्च दातारो देवतेतिजपस्त्रिधा ।
विसर्जनं वाज इति आमावेति प्रदक्षिणम् ॥
अन्नादेः प्रतिपत्तिश्च वामदेव्यजपस्त्रिधा ।
दीपप्रच्छादनं हस्तक्षालमाचमने तथा ॥
अच्छिद्रवाचनं विष्णुस्मरणं शेषभोजनम् ।
उपवासदिने घ्राणं मांसेतराशिताव्रते ॥
तद्दिने मैथुनत्यागः श्राद्धकृच्छ्राद्धभोजिनोः ॥” * ॥
यजुषां विशेषो यथा, --
“आस्तरो देवताभ्यश्च तिलपुष्पजलैस्ततः ।
अवनेजनपिण्डौ च हस्तालेपापघर्षणम् ॥
हस्तक्षालश्चाचमनं विष्णोः संस्मरणाय वै ।
अत्रेत्यादिजपो वामावर्त्तेनोदङ्मुखस्ततः ॥
आवृत्यामीजपश्चैव श्वासः प्रत्यवनेजनम् ।
नीवीविस्रंसनञ्चैव तथैवाचमनद्वयम् ॥
नमो वः पितरः सुष्मायेत्यादिकषडञ्जलिः ।
ऋतुनत्यर्थमेवायं वासः पिण्डप्रपूजनम् ॥
दैवादिब्राह्मणे दानं जलादित्रितयस्य च ।
शिवा इत्यादिनाक्षय्यमघोरा गोत्रमित्यपि ॥
दातारोऽन्नञ्चनञ्चैव एताः सत्याशिषोऽस्त्विति
सपवित्रकुशाः पिण्डे स्वधावाचनमूर्जनम् ॥
आघ्राणञ्चैव पिण्डानां तेषामुत्तोलनन्ततः ।
न्युब्जोत्थानं पितुः पक्षे दक्षिणादानमग्रतः ॥
विश्वेदेवाश्च प्रीयन्तां दैवे वा जलमित्यपि ।
विसर्जनं वाज इति आमावेति प्रदक्षिणम् ॥
अन्यत् सर्व्वं समानम् ।” इति श्राद्धप्रयोगतत्त्वम् ॥

पार्व्वतः, पुं, (पर्व्वते भवः । “विभाषा मनुष्ये ।”

४ । २ । १४४ । इति पक्षे अण् ।) महानिम्बः । इति
रत्नमाला ॥ घोडानिम् इति भाषा ॥ (अस्त्र-
विशेषः । यथा, महाभारते । १ । १३६ । २० ।
“भौमेन प्राविशद्भूमिं पार्व्वतेनाभवद्गिरिः ॥”)
पर्व्वतसम्बन्धिनि, त्रि ॥ (यथा, महाभारते ।
१ । ९० । १० ।
“यावत् पृथिव्यां विंहितं गवाश्वं
सहारण्यैः पशुभिः पार्व्वतैश्च ॥”)

पार्व्वती, स्त्री, (पर्व्वतो हिमाचलस्तस्य तदधिष्ठा-

तृदेवस्येति भावः अपत्यमिति । अण् ङीप् च ।)
दुर्गा । इत्यमरः ॥ तस्या व्युत्पत्तिर्यथा, --
“तिथिभेदे कल्पभेदे पर्व्वभेदप्रभेदतः ।
ख्यातौ तेषु च विख्याता पार्व्वती तेन कीर्त्तिता ॥
महोत्सवविशेषश्च पर्व्वस्विति प्रकीर्त्तितम् ।
तस्याधिदेवी या सा पार्व्वती परिकींर्त्तिता ॥
पर्व्वतस्य सुता देवी साविर्भूता च पर्व्वते ।
पर्व्वताधिष्ठातृदेवी पार्व्वती तेन कीर्त्तिता ॥”
इति प्रकृतिखण्डे दुर्गोपाख्याने ५४ अध्यायः ॥
शल्लकी । गोपालपुत्त्रिका । इति मेदिनी ॥
द्रौपदी । जीवनी । इति विश्वः ॥ सौराष्ट्र- ।
मृत्तिका । इति रत्नमाला ॥ क्षुद्रपाषाणभेदा ।
घातकी । सैंहली । इति राजनिर्घण्टः ॥

पार्व्वतीनन्दनः, पुं, (पार्व्वत्या नन्दनः ।) कार्त्ति-

केयः । इत्यमरः । १ । १ । ४२ ॥

पार्व्वतीयकुमारः, पुं, (पार्व्वतीयः पार्व्वतीजातः

कुमारः ।) पार्व्वतीपुत्त्रः । यथा, --
“स्वानुशाखविशाखाश्च नैगमेयस्तथैव च ।
पार्व्वतीयाः कुमाराश्च चत्वारः परिकीर्त्तिताः ॥”
इत्यग्निपुराणम् ॥
पृष्ठ ३/१२८

पार्व्वतेयं, क्ली, (पर्व्वते भवम् । पर्व्वत + ढक् ।)

सौवीराञ्जनम् । इति शब्दचन्द्रिका ॥

पार्व्वतेयः, पुं, (पर्व्वते भवः । पर्व्वत + ढक् ।)

सूर्य्यावर्त्तवृक्षः । इति रत्नमाला ॥ सूलचिया
इति भाषा । पर्व्वतजाते, त्रि ॥

पार्शवः, पुं, (पर्शुना आयुधेन जीवतीति । पर्शु +

“पर्श्वादियौधेयादिभ्योऽणञौ ।” ५ । ३ । ११७ ।
इति अण् ।) पर्शुधारियोद्धा । पर्शुना युध्यते
इत्यर्थे ष्णप्रत्ययनिष्पन्नः ॥

पार्श्वं, क्ली, पुं, (स्पृश्यते इति । स्पृश + “स्पृशेः

श्वण्शुनौ पृ च ।” उणां ५ । २७ । इति श्वण्
पृ-आदेशश्च ।) कक्षाधोभागः । इत्यमरः । २ । ६ ।
७९ ॥ पाश इति भाषा ॥ (यथा, शुश्रुते
चिकित्सितस्थाने । ३६ अध्याये ।
“तिर्य्यक् प्रणिहिते नेत्रे तथा पार्श्वावपीडिते ॥”
यथा, शकुन्तलायाम् १ अङ्के ।
“न मे दूरे किञ्चित् क्षणमपि न पार्श्वे रथ-
जवात् ॥”)

पार्श्वं, क्ली, (स्पृश + श्वण् धातोः पृ-आदेशश्च ।)

चक्रोपान्तम् । (पर्शूनां समूहः । अण् ।)
पर्शुगणः । पार्श्वास्थिसमूहः । इति मेदिनी ॥
(अनृजुरुपायः । इति सिद्धान्तकौमुदी ॥)

पार्श्वः, पुं, जिनः । (अयमेव जैनागमोक्तत्रयो-

विंशतीर्थङ्करः । अस्य पिता विश्वसेनः माता च
ब्रह्मी । यदुक्तं पार्श्वनाथचरित्रे । १० । ७१ ।
“श्रीलश्रीपार्श्वतीर्थेशो विश्वसेननृपालये ।
ब्रह्मीगर्भे जगन्नाथोऽवतरिष्यति मुक्तये ॥”
तथा च तत्रैव । ११ । ३९ ।
“विश्वसेनपतेर्ब्रह्म्याः सद्गर्भेऽवतरिष्यति ।
श्रीपार्श्वनाथ एवाद्यतीर्थकर्त्ता जगद्गुरुः ॥”
हेमचन्द्राचार्य्यादिमते तु अस्य पितृनाम अश्व-
सेनः मातृनाम वामा ॥ * ॥
अस्य जन्मकालादिर्यथा तत्रैव । ११ । ४५ -- ४६,
९६ -- ९७ ।
“वैशाखकृष्णपक्षस्य द्वितीयायां निशात्यये ।
विशाखर्क्षे सुलग्नादौ सुमुहूर्त्ते सुरेश्वरः ॥
अवतीर्णो दिवश्च्युत्त्वा भुक्त्वा भोगान् सुनिर्म्मले ।
राज्ञ्या गर्भे निरौपम्ये शुद्धस्फाटिकसन्निभे ॥”
“नवमे मासि संपूर्णे पौषे मासि वृषोदयात् ।
कृष्णपक्षेनिले योगे शुभे एकादशीतिथौ ॥
शुभलग्नमुहूर्त्तादौ सुषुवेऽतिसुखेन सा ।
सती देवकुमारीभिः सेव्या तीर्थङ्करं सुतम् ॥”
बाल्यकाले एवास्य वैराग्योत्पत्तिर्जाता ।
ततोऽसौ संसारासक्तिं तुच्छीकृत्य गृहादिकं
विहाय वनं प्रस्थितवान् । एतत्प्रचलितमतं
यथा, तत्रैव । १४ । ७८ -- ९० ।
“मिथ्यात्वेनाविरत्या च प्रमादेन कषायतः ।
दुष्टयोगेन मूढानां महापापं प्रजायते ॥
पञ्चाग्निसाधनेनैव पृथिव्याद्यंगिराशयः ।
म्रियते षडविधः सर्व्वदिक्षु तत्तापसो भृशम् ।
जीवघातेन घोराघं तस्य पाकेन दुर्गतिः ।
जायते च महद्दुःखं तापसानां जडात्मनाम् ॥
ज्ञानहीनो वपुःक्लेशो व्यर्थः पापाश्रवान्नॄणाम् ।
दयां विना तपो धर्म्मः सर्व्वमस्ति निरर्थकम् ॥
तुषखण्डनयोगेन लभ्यन्ते तण्डुला यथा ।
न तथा ज्ञानकष्टेन मोक्षमार्गादयः क्वचित् ॥
यथाम्बुमथनान्नैवोत्पद्यते जातुचिद्घृतम् ।
तथा हिंसाकरेणैव तपसात्र सुखादि च ॥
अत्रान्धाश्माद्यथा स्वर्णं गोशृङ्गाच्च पयो न हि ।
जायते जातु धर्म्मो वा सुखं पञ्चाग्निसाधनात् ॥
दावभीत्या यथान्धो धावन्नपि म्रियते यथा ।
कुर्व्वन्नपि तपो ज्ञानी मज्जत्येव भवार्णवे ॥
हेयाहेयविचारञ्च पुण्यपापं हिताहितम् ।
देवादेवं भवं मोक्षं स्वाश्रवं सम्बरं शुभम् ॥
निर्ज्जरा तत्त्वविज्ञानं गुरुं चक्रुर्गुरुं शुभम् ।
कुशास्त्रं वेत्ति नज्ञानी जात्यन्ध इव दन्तिनम् ॥
अतो जैनमतं तथ्यं धर्म्मजीवदयावहम् ।
तपोनाथं गृहाणत्वं त्यक्त्रेमञ्च दुराग्रहम् ॥
नैग्रन्थतपसा मोक्षः सुखं वाचामगोचरम् ।
अज्ञानं तपसा दुःखं भ्रमणञ्च भवाटवौ ॥
भवत्स्नेहेन तथ्यंते हितञ्च धर्म्मसाधनम् ।
वचः प्रोक्तं मयेति त्वां हीच्छता शुभमञ्जसा ॥”
तत्प्रचलितानुप्रेक्षादिमतं तत्रैव १५ अध्याये
विशेषंतो द्रष्टव्यम् ॥ * ॥
जैनशास्त्रोक्ततत्त्वादीनि यथा, तत्रैव २०
अध्याये ।
“शृणु तत्त्वं गणाधीश ! सार्द्धं द्बादशभिर्गणैः ।
तत्त्वादीनि प्रवक्ष्येऽहं स्वैकचित्तेन संप्रति ॥
जीवादिसत्पदार्थानां याथार्थ्यं तत्त्वमिष्यति ।
सम्यग् जैनागमे तत्त्वं विद्धि नान्यत् कुशासने ॥
जीवाजीवाश्रवबन्धः स्वम्बरो निर्ज्जरा शिवः ।
इत्युक्तानि जिनाधीशैः सप्त तत्त्वानि चागमे ॥
संसारिमुक्तभेदेन द्विधा जीवा रुवन्त्यहो ।
मुक्ता भेदविनिष्क्रान्ता अनन्तगुणभाजनाः ॥
भव्याभव्यप्रभेदेन द्विधा संसारिणोऽङ्गिनः ।
त्रसस्थावरभेदेन वा मुक्ति भवे गामिनः ॥
एकाक्षा विकलाक्षाः पञ्चाक्षास्त्रेधेति ते मताः ।
देवनारकतिर्य्यग्नृभेदा इति चतुर्व्विधाः ॥
एकद्वित्रिचतुःपञ्चेन्द्रियगेहोच्चपञ्चधा ।
पृथ्वप्तेजोमरुद्वृक्षत्रसभेदात् षडङ्गिनः ॥
संज्ञिनोऽसंज्ञिनोद्व्यक्षास्त्र्यक्षा हि चतु-
रिन्द्रियाः ।
एकाक्षा वादराः सूक्ष्माः सप्तधेत्यङ्गिराशयः ॥
पर्य्याप्तेतरभेदेन ताः सप्त जीवयोनयः ।
गुणिता अखिला जीवसमासाः स्युश्चतुर्द्दश ॥
अष्टधा धातवो वादरसूक्ष्मेण चतुर्व्विधा ।
नित्येतरनिकोता हि विकलत्रयदेहिनः ॥
संज्ञिनोऽसंज्ञिनः सुप्रतिष्ठिताः अप्रतिष्ठिताः ।
इति संसारिणो जीवभेदा एकोनविंशतिः ॥
ते पर्य्याप्तेरालब्धिपर्य्याप्तैर्वर्गिता भुवि ।
सर्व्वे जीवसमासाः सप्तपञ्चाशत्प्रमा मता ॥
स्थावराश्च द्बिचत्वारिंशद्भेदाः सुरनारकाः ।
द्विधापञ्चाक्षतिर्य्यञ्चश्चतुस्त्रिंशत्प्रमाः स्मृताः ॥
नवधा मानवाश्चैव नवधा विकलाङ्गिनः ।
इति जीवसमासाः स्युरष्टानवतिसंख्यकाः ॥
पृथवप्तेजःसमीरा अष्टधा वादरसूक्ष्मता ।
नित्येतरनिकोताश्चतुर्द्धा वादरसूक्ष्मतः ॥
निकोतसहितास्तद्रहिताः प्रत्येककायिनः ।
एकत्र मेलिता एते सर्व्वे भेदाश्चतुर्द्दश ॥
एकाक्षा गुणितास्ते द्विचत्वारिंशत्प्रमाः स्फुटम् ।
पर्य्याप्तकेतरालब्धिपर्य्याप्तैः स्युर्ज्जिनागमे ॥
द्विप्रकाराः सुराः स्युः पर्य्याप्तापर्य्याप्तभेदतः ।
तथा च नारको ज्ञेयो द्विधा दुःखाब्धिमध्यगः ॥
जलस्थलनभश्चारिणं संज्ञासंज्ञिभेदतः ।
षड्विधा गर्भजा जीवाः पञ्चेन्द्रियसमाह्वयाः ॥
भोगभूमिभवा जीवा द्विधा स्थलखगामिनः ।
ते सर्व्वे मेलिता अष्टभेदाश्च गुणिताः पुनः ॥
पर्य्याप्तेतरभेदाभ्यां षोडशैव भवत्यपि ।
संज्ञ्यसंज्ञित्वभेदाभ्यां जलस्थलखचारिणः ॥
षड्वासन्मूर्च्छितास्ते पर्य्याप्तियुक्तास्तथेतराः ।
भवन्त्यलब्धिपर्य्याप्तकाः प्रत्येकं किलाङ्गिनः ॥
कृता एकत्र ते सर्व्वे भेदा अष्टादशप्रमाः ।
गर्भसन्मूर्च्छिताः सर्व्वे स्युश्चतुस्त्रिंशदङ्गिनः ॥
आर्य्यम्लेच्छभवा भोगकुभोगभूमिजा नराः ।
अष्टभेदा मता वै पर्य्याप्तापर्य्याप्तभेदतः ॥
सन्मूर्च्छिनो मनुष्या अलब्धिपर्य्याप्तसंज्ञकाः ।
इति विश्वे भवन्त्यत्र नव भेदा नृयोनिजाः ॥
पर्य्याप्तादित्रिभेदेन गुणिता विकलाङ्गिनः ।
नवधा श्रीजिनैः प्रोक्ता ज्ञाननेत्रैर्व्वरागमे ॥
अष्टानवतिरेते जीवसमासा विचक्षणैः ।
विज्ञेया यत्नतस्तेषां दया कार्य्या मुमुक्षुभिः ॥
भूरोदकाग्निवाताख्या नित्येतरनिकोतकाः ।
सप्तसप्तपृथग्लक्षाश्च वनस्पतयो दश ॥
द्वित्रितुर्य्येन्द्रिया द्वौ द्वौ लक्षौ देवाश्च नारकाः ।
पशवो हि चतुर्लक्षाश्चतुर्द्दशनृजातयः ॥
चतुरशीतिलक्षा इमा जीवजातयोऽखिलाः ।
रक्षणीया प्रयत्नेन ज्ञात्वा दक्षैः स्वमुक्तये ॥
कोटीकोटैकानवनवतिलक्षाश्च कोटयः ।
सत्पञ्चाशत्सहस्रा इत्यखिलाङ्गिकुलान्यपि ॥
जीवितः प्रागनादौ हि जीविष्यति पुनः सदा ।
जीवत्ययं ततस्तज्ज्ञो जीवद्रव्यं किलोच्यते ॥
अक्षजाः पञ्च च प्राणा मनोवाक्कायतस्त्रयः ।
आयुरुच्छ्वासनिश्वासो दशेति संज्ञिनां मता ॥
असंज्ञिनां नवस्युस्ते विनात्र मनसाखिलाः ।
चतुरेन्द्रियजीवानां ह्यष्टौ कर्णैर्व्विना स्मृताः ॥
त्रीन्द्रियाणां विना चक्षुः सप्त प्राणाः प्रकीर्त्तिताः ।
द्वीन्द्रियाणां हि षट्प्राणाः कथिता नासिकां
विना ॥
मुखवाग्भ्यां विनैकाक्षाणां प्राणाः स्युश्चतुः-
प्रमाः ।
यथायोग्यमपर्य्याप्तानां ज्ञेयास्ते जिनागमे ॥
आहाराङ्गेन्द्रियोच्छ्वासनिश्वासवाक्यचेतसः ।
षड्वा पर्य्याप्तयश्चेति विज्ञेया संज्ञिदेहिनाम् ॥
विकला संज्ञिनां पञ्चपर्य्याप्तयो मनो विना ।
चतुःपर्य्याप्तयो ज्ञेया एकाक्षाणां वचो विना ॥
निश्चयेन भवेत् केवलज्ञानदृग्मयोऽसुमान् ।
पृष्ठ ३/१२९
अनन्तसुखवीर्य्याढ्यसिद्धसादृश्य एव हि ॥
व्यवहारेण मित्यादिविभावगुणसंयुतः ।
नेत्रादिदर्शनैर्युक्तः प्राणी कर्म्मकृतैः कलौ ॥
मूर्त्तपुद्गलसंयोगान्मूर्त्तो गीर्व्यवहारतः ।
अमूर्त्तो निष्कलः शुद्धो ज्ञानमूर्त्तिश्च निश्चयात् ॥
व्यवहारे नयेनाङ्ग्यनुपचारमृषात्मना ।
कर्म्मणो कर्म्मणां कर्त्ता भोक्ता तत्फलमञ्जसा ॥
उपचारमृषानाम्ना नयेन प्राणभृद्भुवि ।
कटवस्त्रगृहादीनां कर्त्ता च शिल्पिकर्म्मणाम् ॥
अशुद्धनिश्चयेनाङ्गी कर्त्ता च भावकर्म्मणाम् ।
रागद्वेषमदोन्मादशोकादिविषयात्मनाम् ॥
प्राग्वपुस्त्यजनान्मृत्युः प्रादुर्भावाद्यसम्भवः ।
द्रव्यरूपेण नित्यत्वं चतुर्गतिषु देहिनाम् ॥
जायतेऽतो गणाधीशैरुत्पादव्यय एव च ।
ध्रौव्यभावोऽत्र संप्रोक्तः सर्व्वेषां व्यवहारतः ॥
कायप्रमाण आत्मायं पर्य्यायनयतः क्वचित् ।
युक्तः प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥
विना सप्तसमुद्घातैर्निश्चयेन भवेत् पुनः ।
कर्म्मोत्पन्नाङ्गहीनाङ्गी ह्यसंख्यातप्रदेशमः ॥
वेदनाख्यः कषायाख्यो विकुर्व्वणसमाह्वयः ।
मारणान्तिकसंज्ञस्तेजसाहारकसंज्ञकौ ॥
केवलाख्यः समुद्घाताः सप्तेति श्रीजिनैर्मताः ।
कैवल्यतैजसाहारायोगिनां स्युः परेऽङ्गिनाम् ॥
पुण्यपापफलानां हि विविधानां चतुर्गतौ ॥
शर्म्माशर्म्मकराणां प्राणी भोक्ता व्यवहारतः ॥
स्वस्वरूपस्य कर्त्ता शुद्धनिश्चयनयादसौ ।
जन्ममृत्युजरातीतो न कर्त्ता बन्धमोक्षयोः ॥
अतोऽत्रात्माप्यसौ ध्येयो निर्व्विकल्पपदाश्रितैः ।
गुणैः सिद्धेन सादृश्यो ज्ञानमूर्त्तिरमूर्त्तिमान् ॥
यथाग्निकणिकेनात्र दह्यन्ते काष्ठराशयः ।
अनन्तकर्म्मकाष्ठानि तथाध्यानलवाग्निना ॥
दन्तभग्नो यथा नागो दंष्ट्र्याभग्नोक्षमो हरिः ।
स्वकार्य्ये च तथा ध्यानहीनः कर्म्मारिघातने ॥
चिन्तामणिश्च रत्नानां कल्पवृक्षोऽत्र शाखिनाम् ।
त्रिदशानां यथा शक्रो नृणां मध्ये परो जिनः ॥
आत्मतत्त्वञ्च तत्त्वानां पदार्थानां तथा महान् ।
स्वकीयात्मपदार्थो द्रव्याणां स्वद्रव्य एव हि ॥
इति मत्वा स्वसंसिद्ध्यै मनः कृत्वातिनिश्चलम् ।
विषयेभ्यो विनिष्क्रान्तं संवेगादिगुणाङ्कितम् ॥
सर्व्वद्रव्यबहिर्भूतोऽप्यनन्तगुणसागरः ।
सर्व्वावस्थासु सर्व्वत्र स्वात्मा ध्येयो मुमुक्षुभिः ॥
इत्यात्मतत्त्वमाख्याय तीर्थनाथो गणान् प्रति ।
मार्गणादिकमाख्यातुं प्रारेभे मार्गसिद्धये ॥
गतिरिन्द्रियकायौ हि योगवेदकषायकः ।
ज्ञानसंयमदृग्लेश्याभव्यसम्पत्कसंज्ञिनः ॥
आहारे मार्गणञ्चेति चतुर्द्दश निरूपिताः ।
जिनैस्तासु बुधैर्मृग्यो जीवतत्त्वो महांश्चिदे ॥
मिथ्याशासादनौ मिश्रो विरताख्यश्चतुर्थकः ।
वैदेशविरताख्यः प्रमत्तोऽप्रमत्तसंज्ञकः ॥
अपूर्ब्बकरणो नाम्ना निवृत्तिकरणाभिधः ।
द्विसूक्ष्मसाम्परायोपशान्तक्षीणकषायकाः ॥
सयोग्ययोगिनामानौ सद्गुणाश्रयणादिमे ।
चतुर्द्दश जिनैः प्रोक्ता गुणस्थानगुणाकराः ॥
मुक्तेः सोपानमाला एते भव्यानां जिनोदिताः ।
अभव्यानां किलैको मिथ्यागुणस्थानशाश्वतः ॥
हीनाधिकगुणैर्युक्ता अन्येष्यास्तेषु धीयुतैः ।
गुणानां स्थानकेष्वङ्गिनः परीक्ष्य गुणव्रजैः ॥
इत्यादिवाक्सुधापूरैराप्लाव्य निखिलां सभाम् ।
अजीवतत्त्वमाख्यातुं पुनरारब्धवान् प्रभुः ॥
पुद्गलो बहुधा धर्म्मोऽधर्म्म आकाश एव हि ।
कालश्चेति जिनैः प्रोक्तो जीवद्रव्योऽत्र पञ्चधा ॥
पूरणाद्गलनाद्दक्षैः पुद्गलोऽयं निरूपितः ।
मूर्त्तोऽनेकविधः सार्थनामकः कर्म्मदेहकृत् ॥
अष्टौ स्पर्शा रसाः पञ्च वर्णाः पञ्च गन्धौ द्बिधा ।
इति विंशतिरस्यैव गुणाः प्रोक्ता द्विधात्मकाः ॥
शुद्धाणोर्येगुणाः शुद्धा मताः स्वाभाविकाश्च ते ।
गुणाः स्कन्धेषु ये शुद्धा विभवाख्या हि ते बुधैः ॥
अणुस्कन्धविभेदेन पुद्गलस्य द्बिधा स्थितिः ।
स्निग्धरूक्षमयाणूनां सङ्घातः स्कन्ध उच्यते ॥
अणवः कार्य्यलिङ्गाः स्युरत्रैकैकतयाखिलाः ।
नित्या द्रव्यार्थिकेनानित्याः पर्य्यार्थिकेन च ॥
सूक्ष्मसूक्ष्मास्तथा सूक्ष्माः सूक्ष्मस्थूलाभिधाः परे ।
स्थूलसूक्ष्मात्मकाः स्थूलाः स्थूलस्थूलाश्च पुद्गलाः ॥
एकोऽणुः सूक्ष्मसूक्ष्मः स्याददृश्यो नयनैर्नृणाम् ।
सूक्ष्मास्तेऽपि मताः सद्भिर्ये कर्म्ममयपुद्गलाः ॥
रसनस्पर्शनघ्राणश्रोत्रैर्ये यान्ति पुद्गलाः ।
व्यक्ततान्ते समुद्दिष्टाः सूक्ष्मस्थूला जिनागमे ॥
स्थूलसूक्ष्मा जिनैर्ज्ञेयाश्छायाज्योत्स्नातपादयः ।
जलव्यालादयः स्थूला उच्यन्ते पुद्गला बुधैः ॥
भूकायाद्रिविमानादयः स्थूलस्थूलपुद्गलाः ।
षड्भेदा इति तीर्थेशैः पुद्गला हि निरूपिताः ॥
शब्दो बन्धस्तथा सूक्ष्मः स्थूलः संस्थानसंज्ञकः ।
भेदस्तमस्तथाच्छायाद्युद्योतआतपादयः ॥
एते पुद्गलपर्य्याया विभावाख्या मता जिनैः ।
स्वाभाविकाश्च पर्य्याया अणुरूपाः पृथक्
पृथक् ॥
शरीरवाङ्मनःप्राणापानदुःखसुखादिकान् ।
कुर्व्वन्ति पुद्गला जीवानां मृत्युजीवितादिकान् ॥
जीवपुद्वलयोः साद्यकर्त्ता जिनैर्म्मतो गतौ ।
अमूर्त्तो निष्क्रियो धर्म्मो मत्स्यानाञ्च यथा जलम् ।
सहकारी मतो धर्म्मः स्थितौ पुद्गलजीवयोः ।
अमूर्त्तो निष्क्रियो नित्यो यथा च्छायाध्वगामि-
नाम् ॥
लोकालोकावभदेन द्विधाकाशस्त्वमूर्त्तिमान् ।
अवकाशप्रदः सर्व्वद्रव्याणां निष्क्रियोऽव्ययः ॥
पदार्था यत्र लोक्यन्ते लोकाकाशो मतो हि सः ।
तस्माद्बहिरनन्तोऽप्यलोकाकाशोऽस्ति केवलः ॥
धर्म्माधर्म्मैकजीवानां लोकाकाशस्य सन्ति च ।
असंख्याताः प्रदेशा हि पुद्गलानामनेकधा ॥
निश्चयव्यवहारेण द्विधा कालोऽतिनिष्क्रियः ।
द्रव्याणां सहकारी परिणतौ मूर्त्तिवर्ज्जितः ॥
समयादिमयः कालो व्यवहारोऽत्र लक्ष्यते ।
गोदोहादिक्रियाद्यैः परत्वापरत्वयोगतः ॥
भिन्नाभिन्नाणवो येऽत्र लोकाकाशे सुसंस्थिताः ।
राशयश्चैव रत्नानां स कालो निश्चयाभिधः ॥
एकत्र सह जीवेन षड्द्रव्या मुनिभिः स्मृताः ।
ते कालेन विना ज्ञेयाः पञ्चास्तिकायसंज्ञकः ॥
पुद्गलौघो य आयाति कर्म्मरूपोऽत्र रागिणः ।
द्रव्यभावविभेदेन द्विधा स आश्रवो भवेत् ॥
रागद्बेषादियुक्तेन परिणामेन येन हि ।
आश्रवन्त्यत्र कर्म्माणि स स्याद्भावाश्रवोऽ-
ङ्गिनाम् ॥
मिथ्यात्वपञ्चकं द्वादशधा विरतयोशुऽभाः ।
प्रमादा हि त्रयश्चैव योगाः पञ्चदशात्मकाः ॥
सर्व्वदुःखाकरीभूताः कषायाः पञ्चविशतिः ।
एतेऽत्र प्रत्यया ज्ञेया भावाश्रवनिबन्धनाः ॥
आयाति कर्म्मरूपेण पुद्गलौघोऽत्र योगिनः ।
द्रव्याश्रवः स विज्ञेयोऽप्यनन्तभवकारकः ॥
ध्यानाद्यैराश्रवो रुद्वो यैस्ते स्युर्मुक्तिवल्लभाः ।
अन्यथा विफलक्लेशस्तपोवृत्तादितः सताम् ॥
संश्लेषो जीवकर्म्मणोर्यः सम्बन्धो द्विधा मतः ।
भावद्रव्यप्रभेदेन विश्वाशर्म्माकरोऽशुभः ॥
बध्यन्ते येन भावेन रागादिदूषितेन हि ।
कर्म्माणि भावबन्धोऽत्र सोऽनन्तसंसृतिप्रदः ॥
प्रकृतिस्थितिबन्धानुभागप्रदेशतोऽङ्गिनाम् ।
चतुर्धा बन्ध आम्रातोऽत्रानेकविक्रियाकरः ॥
प्रकृतिः स्वभावः स्याच्च स्थितिः कालावधारणम् ॥
रसतुल्योऽनुभागः प्रदेशो जीवप्रदेशयुक् ॥
सप्रकृतिप्रदेशाख्यौ बन्धौ च योगतो सताम् ।
स्थित्यनुभागबन्धौ कषायैर्भवनिबन्धनौ ॥
यथा बन्धनबन्धो लभते दुःखमनेकशः ।
कर्म्मशृङ्खलबद्धोऽङ्गी तथा श्वभ्रादिदुर्गतौ ॥
सर्व्वाश्रवनिरोधो यो ध्यानाद्यैर्द्रव्यभावतः ।
स द्विधा संवरः प्रोक्तः स्वर्गमुक्त्यादिकारकः ॥
चैतन्यपरिणामो य एकीभूतो निजात्मकः ।
निर्व्विकल्पमयो ज्ञेयो भावसंवर एव सः ।
त्रयोदशविधं वृत्तं परो धर्म्मो दशात्मकः ।
द्विषड्भेदा अनुप्रेक्षाः परीषदजयोखिलः ॥
पञ्चधा संयमो ध्यानश्रुतास्यासंयमादयः ।
भवन्त्यमी सतां सर्व्वे भावसंवरकारणम् ।
निरोधः क्रियते योऽत्र कर्म्मणां यत्नतो बुधैः ।
सद्रव्यसंवरः प्रोक्तोऽप्यनन्तगुणसागरः ॥
संवरेण स्वयं ह्येत्य दत्तेऽत्रालिङ्गनं मुदा ।
सतां स्वस्त्रीव मुक्तिश्रीर्नान्यथा क्लशकोटिभिः ॥
प्राक्तनः कर्म्मबन्धो यः कालेन तपसाथवा ।
क्षीयते निर्ज्जरासासविपाकेन रता द्विधा ॥
कर्म्मपाकेन या जाता सविपाकाखिलात्मनाम् ।
सायभाजनिता हेया परकर्म्मनिबन्धनाः ॥
संवरेण समयात्र निर्ज्जरा क्रियते बुधैः ।
तपोभिः साविपाका प्रादेयानेकसुखाकरा ॥
निर्ज्जराकर्म्मणामत्र जायतेऽपि यथा यथा ।
आयाति निकटं मुक्तिस्तत्कारिणां तथा तथा ॥
अत्यन्तं योऽत्र विश्लेषः कर्म्मात्मनो स्वयोगिनाम् ।
काललब्ध्या स मोक्षः स्यात् द्रव्यभावाद्द्विधा-
त्मकः ॥
क्षये हेतुर्व्वरो यः परिणामोऽखिलकर्म्मणाम् ।
पृष्ठ ३/१३०
भावमोक्षः स विज्ञेयः कर्म्ममोचनहेतुकृत् ॥
समस्तकर्म्मदेहाद्यदैवात्मा जायते पृथक् ।
तदैव द्रव्यमोक्षः स्यादनन्तगुणदायकः ॥
आपादमस्तकान्तं यथा बद्धो बन्धनैर्दृढैः ।
मोचनाल्लभते सौख्यं तथा मुक्तो विधेः क्षयात् ॥
तस्मात् कर्म्मातिगो जीव एरण्डादिकबीजवत् ।
समयेन व्रजेदूर्द्ध्वं यावल्लोकाग्रमस्तकम् ॥
तत्रैवास्थानिरावाधः सोग्रे गमनवर्ज्जितः ।
सिद्धो धर्म्मोऽस्ति कायाभावादनन्तसुखा-
ब्धिगः ॥
तत्र भुक्ते निरावाधं स्वात्मजं विषयातिगम् ।
वृद्धिह्रासव्यपेतं स सिद्धः शुद्धो महान् सुखम् ॥
दुःखातीतं निरौपम्यं शाश्वतं मुखसम्भवम् ।
अवन्तं परमं ह्यन्यद्द्रव्यानप्रेक्षमेव हि ॥
यद्देवमनुजैः सर्व्वैः सुखं त्रैलोक्यगोचरम् ।
भुक्तं तस्मादनन्तं तज्जायते परमेष्ठिनाम् ॥
एकेन समयेनैव भूषितानां गुणाष्टकैः ।
नित्यानामशरीराणां सर्व्वोत्कृष्टं व्ययच्युतम् ॥
इति विविधविभागैः सप्ततत्त्वानि मुक्त्यै
दृगवगमसुवीजानि प्ररूप्यात्मवान् यः ।
परमुदमपि भव्यानाञ्चकार स्वबीजै-
रमृतपरमतुल्यैर्मेऽत्र दद्यात् स्वशक्तिम् ॥
पार्श्वः सर्व्वसुखाकरोऽसुखहरः पार्श्वं श्रिता
धर्म्मिणः
पार्श्वेणाशु समाप्यतेऽमरपदं पार्श्वाय मूर्द्ध्व्ना नमः ।
पार्श्वान्नास्ति हितङ्करो भवभृतां पार्श्वस्य मुक्तिः
प्रिया
पार्श्वे चित्तमहं दधेऽखिलचिदे मां पार्श्व ! पार्श्वं
नय ॥”
इति श्रीपार्श्वनाथचरित्रे २० सर्गः ॥ * ॥)
सनिकृष्टे, त्रि । इति हेमचन्द्रः ॥

पार्श्वकः, त्रि, (अनृजुरुपायः पार्श्वं तेन अन्वि-

च्छति अर्थानिति । “पार्श्वेनान्विच्छति ।” ५ ।
२ । ७५ । इति कन् ।) शाठ्येन विभवान्वेषी ।
यथा, --
“कुसृत्या विभवान्वेषी पार्श्वकः सन्धिजीवकः ॥”
इति हेमचन्द्रः ॥
स्वार्थे के पार्श्वार्थोऽपि । (यथा, याज्ञवल्क्ये ।
३ । ८९ ।
“तन्मूले द्वे ललाटाक्षिगण्डे नासाघनास्थिका ।
पार्श्वकास्थालकैः सार्द्धमर्व्वुदैश्च द्बिसप्ततिः ॥”)

पार्श्वतः, [स्] व्य, (पार्श्व + “आद्यादिभ्य उप-

संख्यानम् ।” ५ । ४ । ४४ । इत्यस्य वार्त्ति-
कोक्त्या तसिः ।) पार्श्वात् । पार्श्वे । इत्यादि ।
इति संक्षिप्तसारव्याकरणम् ॥ (यथा, रघुः ।
१९ । ३१ ।
“मित्रकृत्यमपदिश्य पार्श्वतः
प्रस्थितं तमनवस्थितं प्रियाः ॥”)

पार्श्वतीयः, त्रि, (पार्श्वतो भवः । पार्श्व + “मुख-

पार्श्वतसोर्लोपश्च ।” ४ । २ । १३८ । इत्यस्य
वार्त्तिकोक्त्या छः ।) पार्श्वसम्बन्धी । पार्श्वतो
भवः । इति सिद्धान्तकौमुदी ॥

पार्श्वपरिवर्त्तनं, क्ली, (पार्श्वस्य पार्श्वेन वा परि-

वर्त्तनम् ।) कटिदानम् । कर्णिकापरिवृत्तिः ।
पाशफेराण इति भाषा । श्रीहरेः पार्श्वपरि-
वर्त्तनोत्सवो यथा, --
“भाद्रस्य शुक्लैकादश्यां शयनोत्सववत् प्रभोः ।
कटिदानोत्सवं कुर्य्याद्वैष्णवैः सह वैष्णवः ॥”
तथा च भविष्योत्तरे ।
“प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि ।
कटिदानं भवेद्विष्णोर्महापातकनाशनम् ॥
जलाशयान्तिकं नीत्वा संपूज्याभ्यर्च्च्य च प्रभुम् ।
कर्णिकापरिवृत्तिञ्च दक्षिणाङ्गे प्रकल्पयेत् ॥”
अस्य व्याख्या । शयनोत्सवात् कथञ्चिद्बिशेपमनु-
वादपूर्ब्बकं लिखति । जलेति त्रिभिः कर्णिकायाः
कट्याः परिवृत्तिं दक्षिणाङ्गे प्रकल्पयेदिति पूर्व्वं
वामाङ्गेन सुप्तस्याधुना दक्षिणाङ्गेन शाययेदि-
त्यर्थः । तत्कालविशेषश्च पूर्ब्बमेव निर्णीतोऽस्ति ।
अभ्यर्थनामन्त्रः ।
“देवदेव ! जगन्नाथ योगिगम्य ! निरञ्जन ! ।
कटिदानं कुरुष्वाद्य मासि भाद्रपदे शुभे ॥
महापूजां ततः कृत्वा वैष्णवान् परितोष्य च ।
देवं स्वमन्दिरे नीत्वा यथापूर्ब्बं निवेशयेत् ॥”
इति श्रीहरिभक्तिविलासे १५ विलासः ॥

पार्श्वपिप्पलं, क्ली, (पार्श्वे पिप्पलमिव ।) हरी-

तकीविशेषः । इति भावप्रकाशः ॥ गजहड
इति हिन्दीभाषा ॥

पार्श्वभागः, पुं, (पार्श्वस्य भागः ।) पक्षभागः ।

हस्त्यादेः पार्श्वदेशः । इत्यमरः । २ । ८ । ४० ॥

पार्श्वशूलः, पुं, क्ली, (पार्श्वे जातः शूलः ।) शूल-

रोगविशेषः । तस्यौषधम् । यथा, --
“शतपुष्पा देवदारु शालपर्णी वचागुरु ।
कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्नवा ॥
पाने नस्ये तथाभ्यङ्गे तैलमेतत् प्रदापयेत् ।
हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ॥”
इति गारुडे १८९ अध्यायः ॥
(अस्य सम्प्राप्तिपूर्ब्बकलक्षणचिकित्सितानि
यथा, सुश्रुते उत्तरतन्त्रे ४२ अध्याये ।
“रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः ।
स संरुद्धः करोत्याशु मानं गुडगुडायनम् ॥
सूचीभिरिव निस्तोदः कृच्छ्रोच्छ्वासी तदा नरः ।
नान्नं वाञ्छति नो निद्रामुपैत्यर्त्तिनिपीडितः ॥
पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः ।
तत्र पुष्करमूलानि हिङ्गुसौवर्च्चलं विडम् ॥
सैन्धवं तुम्बुरूपष्याचूर्णं कृत्वा तु पाययेत् ।
पार्श्वहृद्वस्तिशूलेषु यवक्वाथेन संयुतम् ॥
सर्पिःप्लीहोदरोक्तं वा घृतं वा हिङ्गुसंयुतम् ।
बीजपूरकसारं वा पयसा सह साधितम् ॥
एरण्डतैलमथवा मद्यमस्तुपयोरसैः
भजयेच्चापि पयसा जाङ्गलेन रसेन वा ॥”

पार्श्वस्थः, पुं, (पार्श्वे तिष्ठतीति । पार्श्व + स्था +

कः ।) पार्श्वस्थितनटः । इति हेमचन्द्रः ॥
समीपस्थिते, त्रि ॥ (यथा, महाभारते । ६ ।
२०० । १४८ ।
“यस्य मन्त्री च गोप्ता च पार्श्वस्थो हि जना-
र्द्दनः ॥”)

पार्श्वास्थि, क्ली, (पार्श्वस्य अस्थि ।) शरीर-

पार्श्वस्थितास्थि । पाँजरा इति भाषा । तत्-
पर्य्यायः । पर्शुका २ । इत्यमरः । २ । ६ । ६९ ॥

पार्श्विकं, त्रि, (पार्श्व + ठक् ।) पार्श्वस्येदम् ।

पार्श्वजातम् । पार्श्वशब्दात् ष्णिकप्रत्ययनिष्प-
न्नम् ॥

पार्श्वैकादशी, स्त्री, (पार्श्वसम्बन्धिनी हरेः पार्श्व-

परिवर्त्तनजन्या एकादशी ।) भाद्रशुक्लैकादशी ।
तद्विवरणं पार्श्वपरिवर्त्तनशब्दे द्रष्टव्यम् ॥

पार्श्वोदरप्रियः, पुं, (पार्श्वंमुदरञ्च ताभ्यां प्रीणाति

भोक्तारमिति । प्री + कः ।) कर्क्कटः । इति
हेमचन्द्रः । ४ । ४१८ ॥

पार्षती, स्त्री, (पृषतस्यापत्यमिति । पृषत + अण्

+ स्त्रियां ङीप् ।) द्रौपदी । इति त्रिकाण्ड-
शेषः ॥ (यथा, महाभारते । ३ । ३ । ८५ ।
“युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती ।
द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च ॥”)

पार्षदः, त्रि, (पारिषद + पृषोदरादित्वात् साधुः ।

यद्बा, पर्षदि साधुः पर्षदो ण्यः इत्यत्र योग-
विभागात् ण इति कश्चित् ।) पारिषदः । इति
शब्दरत्नावली ॥ (यथा, भागवते । ३ । १६ । २ ।
“एतौ द्वौ पार्षदौ मह्यं जयो विजयो एव च ॥”)

पार्षद्यः, त्रि, (पर्षदि साधुः । पर्षद् + “पर्ष-

दो ण्यः ।” इति ण्यः ।) पार्षदः । इति भरतः ॥

पार्ष्णिः, पुं, स्त्री (पृष्यते भूम्यादिकमनेनेति ।

पृष् + “घृणिपृश्निपार्ष्णिचूर्णिभूर्णि ।” उणां ४ ।
५२ । इति निप्रत्ययेन निपातनात् साधुः ।)
गुल्फस्याधोभागः । पादग्रन्थ्यधरः । इत्यमरः ।
२ । ६ । ७२ ॥ गोडमुडा इति गोडारि इति च
भाषा । स तु गर्भस्थस्य मासद्वयेन भवति ।
इति सुखबोधः ॥ (यथा, कुमारे । १ । ११ ।
“उद्वेजयत्यङ्गुलिपार्ष्णिभागान्
मार्गे शिलीभूतहिमेऽपि यत्र ॥”)
सैन्यपृष्ठम् । इति मेदिनी । णे, २० ॥ (यथा,
हरिवंशे । २५ । ३२ ।
“उशना तस्य जग्राह पार्ष्णिमाङ्गिरसस्तदा ॥”)
पृष्ठम् । इति हलायुधः ॥ जिगीपा । यथा, --
“सैन्यपृष्ठे पुमान् पार्ष्णिः पञ्चात्पदजिगीपयोः ॥”
इति रत्नकोषः ॥

पार्ष्णिः, स्त्री, उन्मदस्त्री । इति मेदिनी । णे, २० ॥

कुन्ती । इति घरणिः ॥

पार्ष्णिग्राहः, पुं, (पार्ष्णिं सैन्यपृष्ठं गृह्णातीति ।

ग्रह + अण् ।) पृष्ठतः शत्रुः । शत्रुजयोद्यतस्य
विजिगीषोस्तत्शत्रुपक्षपातेन पार्ष्णिं पश्चात्
पदं गृह्णाति याति यः । इत्यमरभरतौ ॥ (यथा,
मनुः । ७ । २०७ ।
“पार्ष्णिग्राहञ्च संप्रेक्ष्य तथाक्रन्दञ्च मण्डले ॥”)

पार्ष्णित्रं, क्ली, (पार्ष्णिं त्रायते इति । त्रै +

“आतोऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
पश्चाद्रक्षकसेना । इति सिद्धान्तकौमुदी ॥
पृष्ठ ३/१३१

पाल, क रक्षे । इति कविकल्पद्रुमः (चुरां-परं-

सकं-सेट् ।) क, पालयति । ह्नस्ववतैवेष्टसिद्धे
दीर्घिणोऽपि पाठः । कानुबन्धानामिदनुबन्धवत्
ञेरनित्यतां बोधयति । तेन पालति पलति
इत्यपि सिद्धम् । इति दुर्गादासः ॥

पालः, पुं, (पालयतीव निंष्ठीवनादिकमिति ।

पालि + अच् ।) पतद्ग्रहः । इति हेमचन्द्रः ॥
पिक्दान् इति भाषा ॥ पालके, त्रि । यथा, --
“दिवावक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।
योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥”
इति मनुः ॥

पालकः, पुं, (पालयतीति । पालि + ण्वुल् ।)

घोटकरक्षकः । तत्पर्य्यायः । अश्वरक्षः २
वल्लभः ३ । इति जटाधरः ॥ चित्रकवृक्षः ।
इति राजनिर्घण्टः ॥ पालनकर्त्तरि, त्रि ।
यथा, प्रायश्चित्ततत्त्व ।
“गोपालको गवां गोष्ठे यस्तु धूमं न कारयेत् ।
मक्षिकालीननरके मक्षिकाभिः स भक्ष्यते ॥”

पालकाप्यः, पुं, मुनिविशेषः । तत्पर्य्यायः । करे-

णुभूः २ । इति हेमचन्द्रः ॥ धन्वन्तरिः । इति
त्रिकाण्डशेषः ॥

पालघ्नः, पुं, (पालं क्षेत्रं हन्तीति । हन + टक् ।)

छत्रा । इत्यमरः । २ । ५ । १६७ ॥

पालङ्कः, पुं, (पाल रक्षणे + सम्पदादित्वात्

क्विप् । तेन अङ्क्यते इति । अङ्क + घञ् ।)
शल्लकी । शाकभेदः । पालङ् इति भाषा ।
प्राजिपक्षी । इति मेदिनी । के, ११७ ॥ वाज
इति भाषा ॥

पालङ्की, स्त्री, (पालङ्क + गौरादित्वात् ङीष् ।)

कुन्दुरुनामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२१ ॥
शाकभेदः । पालङ् इति भाषा ॥ (यथा, सुश्रुते
चिकित्सितस्थाने ६ अध्याये ।
“यथादोषशाकैर्व्वास्तूकतन्तूलीयकजीवन्त्युपोदि-
काश्ववलावालमूलकपालङ्क्यसनचिल्लीचुच्चुकला-
यवल्लीभिरन्यैर्व्वा ॥”) अस्या गुणाः । कफपित्त-
वातविवन्धनाशित्वम् । रूक्षत्वञ्च । इति राज-
वल्लभः ॥

पालङ्क्यं, क्ली, (पालङ्क + स्वार्थे ष्यञ् ।) शाक-

भेदः । पालङ् इति भाषा ॥ तत्पर्य्यायः ।
पलक्या २ मधुरा ३ क्षुरपत्रिका ४ सुपत्रा ५
स्निग्धपत्रा ६ ग्रामीणा ७ ग्राम्यवल्लभा ८ ।
अस्य गुणाः । ईषत् कटुत्वम् । मधुरत्वम् । पथ्य-
त्वम् । शीतलत्वम् । रक्तपित्तहरत्वम् । ग्राहि-
त्वम् । परमतर्पणत्वञ्च । इति राजनिर्घण्टः ॥

पालङ्क्या, स्त्री, (पालङ्क्य + स्त्रियां अजादित्वात्

टाप् ।) कुन्दुरुः । इत्यमरः ॥ कुन्दुरुखोटी इति
भाषा । पालङ्कशाकः । तत्पर्य्यायः । वास्तु-
काकारा २ छुरिका ३ चीरितच्छदा ४ ।
(यथा, सुश्रुते । १ । ४२ ।
“प्रायशः कूरवककोविदारकजीवन्तीचिल्ली-
पालङ्क्यासुनिषण्णकप्रभृतीनि नीवारादयो मुद्-
गादयश्च समासेन कषायो वर्गः ॥”) अस्या
गुणाः । वातलत्वम् । शीतत्वम् । श्लेष्मलत्वम् ।
भेदनत्वम् । गुरुत्वम् । विष्टम्भित्वम् । मदश्वास-
पित्तरक्तविषापहत्वञ्च । इति भावप्रकाशः ॥

पालनं, क्ली, (पाल्यतेऽनेनेति । पालि + “करणा-

धिकरणयोश्च ।” ३ । ३ । ११७ । इति ल्युट् ।)
सद्यःप्रसूताया गोः क्षीरम् । इति शब्द-
चन्द्रिका ॥ (पाल रक्षणे + भावे ल्युट् ।)
रक्षणम् । यथा, “अभिषेकादिगुणयुक्तस्य राज्ञः
प्रजापालनं परमो धर्म्मः ॥” इति मिताक्षरा ॥

पालाशं, क्ली, (पलाशस्येदमिति । अण् ।)

तमालपत्रम् । इति राजनिर्घण्टः ॥ तेजपात
इति भाषा ॥ (यथा, वाभटे गुल्मचिकित्सि-
तायाम् ।
“पालाशं दहनार्ज्जुनं शठिजयापामार्गकुष्मा-
ण्डकम् ॥”)

पालाशः, पुं, (पालाशस्य वर्ण इव वर्णोऽस्त्यत्रेति ।

अच् ।) हरिद्वर्णः । (यथा, बृहत्संहितायाम् ।
९३ । ४ ।
“पालाशताम्रासितकर्व्वुराणाम् ॥”)
तद्वर्णविशिष्टे पलाशवृक्षसम्बन्धिनि च, त्रि ।
इत्यमरः ॥ (यथा, मनुः । २ । ४५ ।
“ब्राह्मणो वैल्वपालाशौ क्षत्रियो वट-
खादिरौ ॥”)

पालाशषण्डः, पुं, (पालाशानां पलाशवृक्षाणां

षण्डो यत्र ।) मगधदेशः । इति शब्दरत्नावली ॥
पलाशसमूहश्च ॥

पालिः, स्त्री, (पल्यते पाल्यते इति । पल पालने +

“बाहुलकात् शलतिपलतिभ्याञ्च ।” ४ । १२९ ।
इत्युज्ज्वलदत्तोक्त्या इण् ।) कर्णलताग्रम् । (यथा,
“यस्य पालिद्वयमपि कर्णस्य न भवेदिह ।
कर्णपीठं समे मध्ये तस्य विद्ध्वा विवर्द्धयेत् ॥
बाह्यायामिह दीर्घायां सन्धिराभ्यन्तरो भवेत् ।
आभ्यन्तरायां दीर्घायां बाह्यसन्धिरुदाहृतः ॥
एकैव तु भवेत् पालिः स्थूला पृथ्वी स्थिरा च
या ।
तां द्विधा पाटयित्वा तु छित्त्वा चोपरि सन्धयेत् ॥
गण्डादुत्पाट्य मांसेन सानुबन्धेन जीवता ।
कर्णपालिमपालेस्तु कुर्य्यान्निर्ल्लिख्य शास्त्रवित् ॥”
“कर्णपाल्यामयान्नॄणां पुनर्वक्ष्यामि सुश्रुत ! ।
कर्णपाल्यां प्रकुपिता वातपित्तकफास्त्रयः ॥
द्विधा वाप्यथ संसृष्टाः कुर्व्वन्ति विविधा रुजः ।
विस्फोटः स्तब्धता शोफः पाल्यां दोषे तु वातिके ॥
दाहविस्फोटजननं शोफः पाकश्च पैत्तिके ।
कण्डूः सश्वयथुः स्तम्भो गुरुत्वञ्च कफात्मके ॥
यथादोषञ्च संशोध्य कुर्य्यात्तेषां चिकित्सितम् ।
स्वेदाभ्यङ्गपरीषेकैः प्रलेपासृग्विमोक्षणैः ॥
मृद्वीं क्रियां बृंहणीयैर्यथास्वं भोजनैस्तथा ।
य एवं वेत्ति दोषाणां चिकित्सां कर्त्तुमर्हति ॥
अत ऊर्द्ध्वं नामलिङ्गैर्वक्ष्ये पाल्यामुपद्रवान् ।
उत्पाटकश्चोत्पुटकः श्यावः कण्डूयुतो भृशम् ॥
अवमन्थः सकण्डूको ग्रन्थिको जम्बुलस्तथा ।
स्रावी च दाहवांश्चैव शृण्वेषां क्रमशः क्रियाम् ॥
अपामार्गः सर्ज्जरसः पाटलालकुचत्वचौ ।
उत्पाटके प्रलेपः स्यात् तैलमेभिश्च पाचयेत् ॥
शम्पाकशिग्रुपूतीकगोधामेदोऽथ तद्वसा ।
वाराहं गव्यमैणेयं पित्तं सर्पिश्च संसृजेत् ॥
लेपमुत्पुटके दद्यात्तैलमेभिश्च साधितम् ।
गौरीं सुगन्धां सश्यामामनन्तां तण्डुलीयकम् ॥
श्यावे प्रलेपनं दद्यात्तैलमेभिश्च साधितम् ।
पाठां रसाञ्जनं क्षौद्रं तथास्यादुष्णकाञ्जिकम् ॥
दद्याल्लेपं सकण्डूके तैलमेभिश्च साधितम् ।
व्रणीभूतस्य देयं स्यादिदं तैलं विजानता ॥
मधुकं क्षीरकाकोली जीवकाद्यैर्विपाचितम् ।
गोधावराहसर्पाणां वसाः स्युः कृतवृंहणे ॥
प्रलेपनमिदं दद्यादवसिच्यावमन्थके ।
प्रपौण्डरीकं मधुकं समङ्गां धवमेव च ॥
तैलमेभिश्च सम्पक्वं शृणु कण्डूमतः क्रियाम् ।
सहदेवा विश्वदेवा अजाक्षीरं ससैन्धवम् ॥
एतैरालेपनं दद्यात् तैलमेभिश्च साधितम् ।
ग्रन्थिके गुटिकां पूर्ब्बं स्रावयेदवपाट्य तु ॥
ततः सैन्धवचूर्णन्तु घृष्ट्वा लेपं प्रदापयेत् ।
लिखित्वा तत् स्रुतं घृष्ट्वा चूर्णै रोध्रस्य जम्बुले ॥
क्षीरेण प्रतिसार्य्यैनं शुद्धं संरोपयेत्ततः ।
मधुपर्णीं मधूकञ्च मधुकं मधुना सह ॥
लेपः स्राविणि दातव्यस्तैलमेभिश्च साधितम् ।
पञ्चकल्कैः समधुकैः पिष्टैस्तैश्च घृतान्वितैः ॥
जीवकाद्यैः ससर्पिष्कैर्दह्यमानं प्रलेपयेत् ॥”
इति सुश्रुते सूत्रस्थाने षोडशेऽध्याये ॥)
अश्रिः । पङ्क्तिः । (यथा, गीतगोविन्दे । ६ । १० ।
“विपुलपुलकपालिः स्फीतशीत्कारमन्त-
र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ॥”)
अङ्कप्रभेदः । छात्रादिदेयम् । इति मेदिनी । ले,
३० ॥ यूका । जातश्मश्रुस्त्री । प्रान्तः । (यथा,
गीतगोविन्दे । ३ । १३ ।
“भ्रूपल्लवं धनुरपाङ्गतरङ्गितानि
बाणा गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गजयजङ्गमदेवताया-
मस्त्राणि निर्ज्जितजगन्ति किमर्पितानि ॥”)
सेतुः । कल्पितभोजनम् । प्रशंसा । उत्सङ्गः ।
प्रस्थः । इति हेमचन्द्रः ॥

पालिका, स्त्री, (पालिरेव । स्वार्थे कन् टाप् च ।)

अश्रिः । इति शब्दरत्नावली ॥ कर्णपत्रम् । इति
शब्दचन्द्रिका । दध्यादिच्छेदनी । तत्पर्य्यायः ।
कुन्तलिका २ । इति हारावली ॥

पालितः, त्रि, (पाल + क्त ।) रक्षितः । यथा, --

“चित्रलेखा तमाज्ञाय पौत्त्रं कृष्णस्य योगिनी ।
ययौ विहायसा राजन्द्वारकां कृष्णपालिताम् ॥”
इति श्रीभागवतीयदशमस्कब्धे ६२ अध्यायः ॥
कायस्थस्य पद्धतिविशेषः ॥

पालिन्दः, पुं, (पालयतीति । पालि + बाहुल-

कात् किन्दच् ।) कुन्दुरुकः । इति राजनिर्घण्टः ॥

पालिन्दी, स्त्री, (पालिन्द + गौरादित्वात् ङीष् ।)

श्यामालता । इति रत्नमाला ॥ (यथा, सुश्रुते
कल्पस्थाने १ अध्याये ।
पृष्ठ ३/१३२
“ऋष्यपित्तघृतश्यामा पालिन्दीतण्डुलीयकैः ॥”)
पालिन्धी । त्रिवृता । इति द्बिरूपकोषः ॥
(अस्याः पर्य्यायो यथा, --
“त्रिवृत् श्यामार्द्धचन्द्रा च पालिन्दी च सुषे-
णिका ।
मसूरविदलाकोलकैषिका कालमेषिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

पालिन्धी, स्त्री, कृष्णत्रिवृता । इत्यमरः । २ । ४ । १०८ ॥

पाली, स्त्री, (पालि + कृदिकारादिति वा ङीष् ।)

यूका । सश्मशुयोषित् । इति मेदिनी । ले, ३० ।
श्रेणी । इति शब्दरत्नावली ॥ स्थाली । इति
शब्दचन्द्रिका ॥

पावकः, पुं, (पुनातीति । पू ञ गि शोधे + ण्वुल् ।)

अग्निः । इत्यमरः । १ । १ । ५७ ॥ (यथा, काशी-
खण्डे ९ अध्याये ।
“अपावनानि सर्व्वाणि वह्निसंसर्गतः क्वचित् ।
पावनानि भवन्त्येव तस्मात् स पावकः स्मृतः ॥”)
वैद्युताग्निः । यथा, --
“पावकः पवस्रानश्च शुचिरग्निश्च ते त्रयः ।
निर्म्मथ्यः पवमानः स्याद्वैद्युतः पावकः स्मृतः ॥
यश्चासौ तपते सूर्य्यः शुचिरग्निस्त्वसौ स्मृतः ॥”
इति कौर्म्मे १२ अध्यायः ॥
स च ब्रह्मणो मानसपुत्त्रादभिमानिनामकाग्नेः
स्वाहायां जातः । यथा, --
“योऽसावग्निरभीमानी स्मृतः स्वायम्भुवेऽन्तरे ।
ब्रह्मणो मानसः पुत्त्रस्तस्मात् स्वाहा व्यजीजनत् ॥
पावकं पवमानञ्च शुचिरग्निश्च यः स्मृतः ॥”
इति मात्स्ये ४८ अध्यायः ॥
सदाचारः । वह्निमन्थः । (अस्य पर्य्यायो यथा,
“तेजोमन्थो हविर्मन्थो ज्योतिष्को पावकोऽरणिः ।
वह्निमन्थोऽग्निमन्थश्च मथनो गणिकारिका ॥”
इति वैद्यकरत्नमालायाम् ॥)
चित्रकः । भल्लातकः । विडङ्गः । इति मेदिनी ।
के, ११८ ॥ शोधयितृनरः । इति हेमचन्द्रः ॥ रक्त-
चित्रकः । कुसुम्भः । इति राजनिर्घण्टः ॥ (पवित्र-
कारके, त्रि । यथा, ऋग्वेदे । ३ । ३१ । २० ।
“मिहः पावकाः प्रतता अभूवन् ॥”)

पावकारणिः, पुं, (पावकाय वह्न्युत्पादनार्थं

अरणिरिव ।) अग्निमन्थः । इति शब्दमाला ॥

पावकिः, (पावकस्यापत्यम् । पावक + इञ् ।)

कार्त्तिकेयः । यथा, --
“कथं तं कृत्तिकापुत्त्रमुक्तवान् तं सुरं गुरुम् ।
कथञ्च पावकिरसौ कथं वा मातृनन्दनः ॥”
इति वराहपुराणम् ॥

पावनं, क्ली, (पावयत्यनेनेति । पू + णिच् + ल्युट् ।)

जलम् । कृच्छ्रम् । इति मेदिनी । ने, ९० ॥ गोम-
यम् ॥ इति शब्दचन्द्रिका ॥ रुद्राक्षम् । कुष्ठम् ।
इति राजनिर्घण्टः ॥ चित्रकम् । अध्यासः ।
प्रायश्चित्तम् । इति विश्वः ॥ (शुद्धिः । यथा,
मनुः । ११ । १७८ ।
“सा चेत् पुनः प्रदुष्येत्तु सदृशेनोपयन्त्रिता ।
कृच्छ्रंचान्द्रायणञ्चैव तदस्याः पावनं स्मृतम् ॥”)

पावनः, पुं, (पावयतीति । पू + णिच् + ल्युः ।)

व्यासः । पावकः । इति मेदिनी । ने, ९० ॥
(यथा, ३ । १८५ । मनुश्लोकटीकायां कुल्लूकभट्टः ।
“पावनः सभ्योऽग्निर्यः शीतापनोदनाद्यर्थं बहुषु
देशेष्वपि विधीयते ॥”) सिह्लकः । इति विश्वः ॥
पीतभृङ्गराजः । इति राजनिर्घण्टः ॥ (विष्णुः ।
यथा, महाभारते । १३ । १४९ । ४५ ।
“भूतभव्यभवन्नाथः पवनः पावनोऽनलः ॥”
“पावयतीति पावनः । भीषास्माद्वातः पवत
इति श्रुतेः ।” इति शाङ्करभाष्यम् ॥) सिद्धः ।
पवित्रे पावयितरि च, त्रि । इति हेमचन्द्रः ॥
(यथा, रघुः । १९ । ५३ ।
“स त्वनेकवनिता सखोऽपि सन
पावनीमनवलोक्य सन्ततिम् ।
वैद्ययत्नपरिभाविनं गदं
न प्रदीप इव वायुमत्यगात् ॥”)

पावनध्वनिः, पुं, (पावनः पवित्रजनको घ्वनि-

र्यस्य ।) शङ्खः । इति राजनिर्घण्टः ॥ (पावनो-
ध्वनिरिति विग्रहे ।) पवित्रशब्दः ॥

पावनी, स्त्री, (पावयत्यनयेति । पू + णिच् +

ल्युट् + ङीप् ।) हरीतकी । इति विश्वः ॥
तुलसी । गौः । इति राजनिर्घण्टः । गङ्गा ।
यथा, शङ्कराचार्य्यकृतगङ्गाष्टके ।
“ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लि-
मुल्लासयन्ती
स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्
स्खलन्ती ।
क्षौणीपृष्ठे लुठन्ती दुरितचयचमूर्निर्भरं भर्त्-
सयन्ती
पाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः
पुनातु ॥”
(इयन्तु गङ्गाया अंशविशेषः । यथा, मात्स्ये ।
१२० । ३९ -- ४१ ।
“ततो विसर्ज्जयामास संरुद्धां स्वेन तेजसा ।
नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ।
ततो बिसर्ज्जयामास सप्त स्रोतांसि गङ्गायाः ॥
त्रीणि प्राचीमभिमुखं प्रतीचीं त्रीण्यथैव तु ।
स्रोतांसि त्रिपथगायास्तु प्रत्यपद्यन्त सप्तधा ॥
नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगा ।
सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः ॥
सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम् ।
तस्माद् भागीरथी सा वै प्रविष्टा दक्षिणो-
दधिम् ॥”
शाकद्बीपस्य नदीविशेषः । यथा, मत्स्यपुराणे ।
१२१ । ३१ ।
“नन्दा च पावनी चेव तृतीया परिकीर्त्तिता ॥”)

पाशः, पुं, (पश्यते बध्यतेऽनेनेति । पश + घञ् ।)

शस्त्रभेदः । इति शब्दरत्नावली ॥ (वैशम्पा-
यनधनुर्व्वेदोक्तपाशलक्षणं यथा, --
“पाशः सुसूक्ष्मावयवो लौहधातुस्त्रिकोणवान् ।
प्रादेशपरिधिः सीसगुलिकाभरणाञ्चितः ॥”
आग्नेयधनुर्व्वेदोक्तलक्षणं यथा, --
“दशहस्तो भवेत् पाशो वृत्तः करमुखस्तथा ।
गुणकार्पासमुञ्जानामर्कस्नायवचर्म्मणाम् ॥
अन्येषां सुदृढानाञ्च सुकृतं परिवेष्टितम् ।
तथा त्रिंशत्समं पाशं बुधः कुर्य्यात्सुवर्त्तितम् ॥”
अस्य क्रियादिकं यथा, --
“कर्त्तव्यं शिक्षकैस्तस्य स्थानं कक्षासु वै सदा ।
वामहस्तन संगृह्य दक्षिणेनोद्धरेत्ततः ॥
कुण्डलस्याकृतिं कृत्वा भ्राभ्यैकं मस्तकोपरि ।
क्षिपेत् -- ॥”
“वल्पिते च प्लुते चैव तथा प्रव्रजितेषु च ।
समयोगविधिं ज्ञात्वा प्रयुञ्जीत सुशिक्षितः ॥
विजित्वा तु यथान्यायं ततो बन्धं समाचरेत् ।
कट्यां बद्ध्वा ततः खड्गं वामपार्श्वावलम्बितम् ॥
दृढं विगृह्य वामेन निष्कर्षेद्दक्षिणेन च ॥”
अन्यच्च ।
“परावृत्तमपावृत्तं गृहीतं लघुसंज्ञितम् ।
ऊर्द्ध्वक्षिप्तमधःक्षिप्तं सन्धारितविधारितम् ॥
श्येनपातं गजपातं ग्राहग्राह्यं तथैव च ।
एवमेकादशविधा ज्ञेयाः पाशविधारणाः ॥”
वैशम्पायनोक्तक्रिया यथा, --
“प्रसारणं वेष्टनञ्च कर्त्तनञ्चेति ते त्रयः ।
योगाः पाशाश्रिता लोके पाशाः क्षुद्रसमा-
श्रिताः ॥”
अन्यच्च ।
“ऋज्वायतं विशालञ्च तिर्य्यक्भ्रामितमेव च ।
पञ्च कर्म्मविनिर्द्दिष्टं व्यस्ते पाशे महात्मभिः ॥”)
कचान्ते समूहार्थः । (यथा, माघे । ७ । ६२ ।
“श्लथशिरसिजपाशपातभारा-
दिव नितरां नतिमद्भिरंसभागैः ॥”)
कर्णान्ते शोभनार्थः । छात्राद्यन्ते निन्दार्थः
पक्ष्यादिबन्धनरज्जादि । इति विश्वः ॥ (यथा,
महार्भारते । ५ । ६४ । १ ।
“शकुनीनामिहार्थाय पाशं भूमावयोजयत् ।
कश्चिच्छाकुनिकस्तात पूर्ब्बेषामिति शुश्रुम ॥”
योगविशेषः । यथा, ज्योतिषे ।
“यदा राशिपञ्चके सव्व ग्रहा भवन्ति तदा
पाशाख्ययोगो भवति ॥” पारिभाषिकपाशो
यथा, कुलार्णवे १ उल्लासे ।
“घृणा शङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी ।
कुलं शीलं तथा जातिरष्टौ पाशाः प्रकी-
र्त्तिताः ॥”
स्वप्नेऽस्य दर्शनफलं यथा, --
“कार्पासभस्मास्थिकपालशूलं
चक्रञ्च पाशन्त्वथवा प्रपश्येत् ।
तस्यापदं रोगधनक्षयं वा
रोगी मृतिं वा तनुतेऽतिकष्टम् ॥”
इति हारीते द्वितीये स्थाने द्वितीयेऽध्याये ॥)

पाशकः, पुं, (पाशयति पीडयतीति । पश + णिच्

+ ण्वुल् ।) द्यूतविशेषः । पाशा इति भाषा ।
तत्पर्य्यायः । अक्षः २ देवनः ३ । इत्यमरः ।
२ । १० । ४५ ॥ सारिः ४ शारिः ५ सारः
शारः ७ पाशः ८ । इति शब्दरत्नावली ॥
पृष्ठ ३/१३३

पाशपाणिः, पुं, (पाशः पाणौ यस्य ।) वरुणः ।

इति हलायुधः ॥

पाशवपालनं, क्ली, (पाशवं पशुसंघं पालयतीति ।

पालि + ल्युः ।) घासः । इति शब्दचन्द्रिका ॥

पाशितः, त्रि, (पाश + क्त ।) पाशयुक्तः । बद्धः ।

इति धरणिः ॥

पाशी, [न्] पुं, (पाशोऽस्त्यस्येति । पाश +

इनिः ।) वरुणः । इत्यमरः । १ । १ । ६४ ॥
(यथा, हरिवंशे भविष्यपर्व्वणि । ३ । ८ ।
“यदि शक्रं यमं वापि कुवेरमपि पाशिनम् ॥”)
व्याधः । इति मेदिनी । ने, ९१ ॥ यमः । इति
कश्चित् ॥ पाशधरे, त्रि । इति विश्वः ॥

पाशीकृतः, त्रि, पाशबद्भः । अभूततद्भावे च्वि-

प्रत्ययनिष्पन्नः ॥

पाशुपतः, पुं, (पशुपतिर्देवतास्येति । “सास्य

देवता ।” ४ । २ । २४ । इति अण् ।) वक-
पुष्पम् । (अस्य पर्य्यायो यथा, भावप्रकाशे । १ । १ ।
“शिवमल्ली पाशुपत एकाष्ठीलो वुको वसुः ॥”)
पशुपत्यधिदैवतः । तद्भक्तः । इति मेदिनी । ते,
२११ ॥ (क्ली, तन्त्रशास्त्रविशेषः । यथा, कूर्म्म-
पुराणे १४ अध्याये ।
“एवं सम्बोधितो रुद्रो माधवेन मुरारिणा ।
चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ॥
कापालं नाकुलं वामं भैरवं पूर्ब्बपश्चिमम् ।
पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः ॥”
अथर्व्ववेदान्तर्गतोपनिषद्विशेषः । यथा, मुक्ति-
कोपनिषदि ।
“सावित्र्यात्मा पाशुपतं परब्रह्मावधूतकम् ॥”)

पाशुपतव्रतं, क्ली, (पाशुपतं पशुपतिसम्बन्धि

व्रतम् ।) पशुपतिव्रतविशेषः । यथा, --
“यथा पशुपतिर्नित्यं हत्वा सर्व्वमिदं जगत् ।
न लिप्यते पुनः सोऽपि यो नित्यं व्रतमाचरेत् ॥
इहजन्मकृतं पापं पूर्ब्बजन्मकृतञ्च यत् ।
व्रतं पाशुपतं नाम कृत्वा हन्ति द्विजोत्तम ! ॥
द्बादश्यामेकभक्ताशी त्रयोदश्यामयाचितम् ।
चतुर्द्दश्यां तथा नक्तमुपवासं परेऽहनि ॥
गोवृषञ्चैव हैरण्यं रौप्यं ताम्रमयन्तथा ।
सौवर्णं कारयेत् पत्रं गुञ्जाशीत्या पृथक् पृथक् ॥
तत्रैवोल्लेखयेन्मूर्त्तिं शिवायाश्च शिवस्य च ।
तत्प्रमाणं वृषं कुर्य्याद्रौप्यं हेम्नश्चतुर्गुणैः ॥
रौप्यादष्टमुणं ताम्रं तदर्द्धं वापि कारयेत् ।
क्षारपत्रे समारोप्य वस्त्रोत्तमयुतन्तथा ॥
त्रयोदश्यामेकभक्तं रिक्तायां नक्तमाचरेत् ।
कुर्य्यादयाचितं दर्शे पादकृच्छ्रव्रतञ्चरेत् ॥
गन्धपुष्पैः सुनैवेद्यैर्व्वस्त्राभरणदीपकैः ।
गङ्गाधरं समभ्यर्च्च्य प्रार्थयेत् प्रवरं वरम् ॥
गङ्गाधर ! महादेव ! सर्व्वलोकचराचर ! ।
जहि मे सर्व्वपापानि पूजितस्त्विह शङ्कर ! ॥
शङ्कराय नमस्तुभ्यं सर्व्वपापहराय च ।
यथा यमं न पश्यामि तथा मे कुरु शङ्कर ! ॥
यममार्गं यया शम्भो ! न पश्यामि कदाचन ।
संपूजितो मया भक्त्या तथा मे कुरु शङ्कर ! ॥
गङ्गाधर ! धराधीश ! परात्पर वरप्रद ! ।
श्रीकण्ठ ! नीलकण्ठस्त्वसुमाकान्त ! नमोऽस्तु ते ॥
संपूज्यैवंविधानेन प्रतिपद्युदिते रवौ ।
हैरण्यादीन् गोवृषांश्च ब्राह्मणेभ्यो निवेदयेत् ॥
यथा त्वं सर्व्वगः सर्व्वः सर्व्ववासस्तु सर्व्वहृत् ।
न लिप्यसे विकुर्व्वाणस्तथा मां कुरु शङ्कर ! ॥
एवं स्तुत्वा नमस्कृत्य वृषादींश्च यथोदितान् ।
गुर्व्वादिभ्यो द्विजेभ्यश्च शङ्करः प्रीयतामिति ॥
एवं व्रतमिदं कृत्वा वृषं दद्याद्द्विजातये ।
यममार्गं महाघोरं न पश्यति कदाचन ॥
यः करोति व्रतेनैव सर्व्वपापप्रणाशनम् ।
न स लिप्येत पापेन पद्मपत्रमिवाम्भसा ॥
ब्रह्महत्यादिभिः पापैरगम्यागमनादिभिः ।
मुच्यते पातकेभ्योऽथ ह्यभक्ष्यापेयजैः पुमान् ॥
यः करोति महाभाग ! दानं सर्व्वसुखावहम् ।
हत्वा पापान्यशेषाणि स्वर्गलोकं स गच्छति ॥”
इति वह्निपुराणे पाशुपतव्रतदानाध्यायः ॥
(यथा च शिवपुराणे वायुसंहितायां पूर्ब्बभागे
२९ अध्याये ।
ऋषय ऊचुः ।
“भगवन् ! श्रोतुमिच्छामो व्रतं पाशुपतं परम् ।
ब्रह्मादयोऽपि यत् श्रुत्वा सर्व्वे पाशुपताः स्मृताः ॥
वायुरुवाच ।
रहस्यं वः प्रवक्ष्यामि सर्व्वपाशनिकृन्तनम् ।
व्रतं पाशुपतं श्रौतमथर्व्वशिरसि श्रुतम् ॥
कालश्चित्रापौर्णमासी देशः शिवपरिग्रहः ।
क्षेत्रारामादिरम्यो वा प्रशस्तः शुभलक्षणः ॥
तत्र पूर्ब्बं त्रयोदश्यां सुस्नातः सुकृताह्निकः ।
अनुज्ञाप्य स्वमाचार्य्यं संपूज्य प्रणिपत्य च ॥
पूजां वशेषिकीं कृत्वा शुक्लाम्बरधरः स्वयम् ।
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ॥
दर्भासने समासीनो दर्भमुष्टिं प्रगृह्य च ।
प्राणायामत्रयं कृत्वा प्राङ्मुखो वाप्युदङ्मुखः ॥
ध्यात्वा देवञ्च देवीञ्च तद्विज्ञापनवर्त्मना ।
व्रतमेतत् करोमीति भवेत् संकल्प्य दीक्षितः ॥
यावच्छरीरपातं वा द्बादशाब्दमथापि वा ।
तदर्द्धं वा तदर्द्धं वा मासद्वादशकन्तु वा ॥
तदर्द्धं वा तदर्द्धं वा मासमेकमथापि वा ।
दिनद्वादशकं वाथ दिनषट्कमथापि वा ॥
तदर्द्धं दिनमेकं वा व्रतसंकल्पनावधि ।
अग्निमाधाय विधिवद्विरजा होमकारणात् ॥
हुत्वाज्येन समिद्भिश्च चरुणा च यथाक्रमम् ।
पूर्णाद्याः पुरतो भूयस्तत्वानां शुद्धिमुद्दिशन् ॥
जुहुयान्मूलमन्त्रेण तैरेव समिदादिभिः ।
तत्वान्येतानि मद्देहे शुध्यन्तामित्यनुस्मरन् ॥
पञ्च भूतानि तन्मात्राः पञ्च कर्म्मेन्द्रियाणि च ।
ज्ञानकर्म्मविभेदेन पञ्च पञ्च विभागशः ॥
त्वगादिधातवः सप्त पञ्च प्राणादिवायवः ।
मनोबुद्धिरहंख्यातिर्गुणाः प्रकृतिपूरुषौ ॥
रागो विद्या कला चैव नियतिः काल एव च ।
माया च शुद्धविद्या च महेश्वरसदाशिवौ ॥
शक्तिश्च शिवतत्वञ्च तत्वानि क्रमशो विदुः ।
मन्त्रैस्तु विरजैर्हुत्वा होतासौ विरजो भवेत् ॥
अथ गोमयमादाय पिण्डीकृत्याभिमन्त्र्य च ।
न्यस्याग्नौ तच्च संरक्ष्य दिने तस्मिन् हविष्य-
भुक् ॥
प्रभाते तु चतुर्द्दश्यां कृत्वा सर्व्वं पुरोदितम् ।
दिने तस्मिन्मिताहारः कालशेषं समापयेत् ॥
प्रातःपर्व्वणि चाप्येवं कृत्वा होमावसानतः ।
उपसंहृत्य रुद्राग्निं गृह्णीयाद्भस्म यत्नतः ॥
ततस्तु जटिलो मुण्डः शिखैकजट एव वा ।
भूत्वा स्नात्वा पुनर्वीतलज्जश्चेत् स्याद्दिगम्बरः ॥
अन्यः काषायवसनश्चर्म्मचीराम्बरोऽथवा ।
एकाम्बरो वल्कली वा भवेद्दण्डी च मेखली ॥
प्रक्षाल्य चरणौ पश्चाद्द्विराचम्यात्मनस्तनुम् ।
संकलीकृत्य तद्भस्म विरजानलसम्भवम् ॥
अग्निरित्याभिर्म्मन्त्रैः षड्भिराथर्व्वणैः क्रमात् ।
विमृज्याङ्गानि मूर्द्धादिचरणान्तञ्च संस्पृशेत् ॥
ततस्तेन क्रमेणैव समुद्धृत्य च भस्मना ।
सर्व्वाङ्गोद्धूलनं कुर्य्यात् प्रणवेन शिवेन वा ॥
ततस्त्रिपुण्ड्रं रचरेत्त्रियायुषसमाह्वयम् ।
शिवभावं सगागम्य शिवयोगं समाचरेत् ॥
कुर्य्यात्त्रिसन्ध्यमप्येवमेतत् पाशुपतं व्रतम् ।
पूजनीयो महादेवो लिङ्गमूर्त्तिः सनातनः ॥
पद्ममष्टदलं हैमं नवरत्नैरलङ्कृतम् ।
कर्णिकाकेसरोपेतमासनं परिकल्पयेत् ॥
विभवे तदभावे तु रक्तं सितमथापि वा ।
पद्मं तस्याप्यभावे तु केवलं भावनामयम् ॥
तत्पद्मकर्णिकामध्ये कृत्वा लिङ्गं कनीयसम् ।
स्फाटिकं पीठिकोपेतं पूजयेद्धि ततःक्रमात् ॥
प्रतिष्ठाप्य विधानेन तल्लिङ्गं कृतशोधनम् ।
परिकल्प्यासनं मूर्त्तिं पञ्चवक्त्रप्रकारतः ॥
पञ्चगव्यादिभिः पूण्यैर्यथाविभवविस्तरैः ।
स्नापयेत् कलशैः पूर्णैः सहस्रादिषु सम्भवैः ॥
गन्धद्रव्यैः सकर्पूरैश्चन्दनाद्यैः सकुङ्कुमैः ।
सवेदिकं समालिप्य लिङ्गं भूषणभूषितम् ॥
बिल्वपत्रैश्च पद्मैश्च रक्तश्वेतैस्तथोत्पलैः ।
नीलोत्पलैस्तथान्यैश्च पुष्पैस्तैस्तैः सुगन्धिभिः ॥
पुण्यैश्च शतपत्रैश्च चित्रैर्दूर्षाक्षतादिभिः ।
समभ्यर्च्य यथालाभं महापूजाविधानतः ॥
धूपं दीपं तथाचार्घ्यं नैवेद्यञ्च समादिशेत् ।
निवेदयित्वा विभवे कल्याणञ्च समाचरेत् ॥
इष्टानि च विशिष्टानि न्यायेनोपार्जितानि च ।
सर्व्वद्रव्याणि देयानि व्रते तस्मिन् विशेषतः ॥
श्रीपत्रोत्पलपद्मानां संख्या साहस्रिकी मता ।
प्रत्येकमपरा संख्या शतमष्टोत्तरं द्विजाः ॥
तत्रापि च विशेषेण न त्यजेद्बिल्वपत्रकम् ।
हैममेकं परं प्राहुः पद्मं पद्मसहस्रकात् ॥
नीलोत्पलादिष्वप्येतत्समानं बिल्वपत्रकैः ।
पुष्पान्तरान्यनियमाद्यथालाभं निवेदयेत् ॥
अष्टाङ्गमर्घ्यमुत्कृष्टं धूपालेपौ विशेषतः ।
कृष्णागुरुमघोराख्ये वक्रे सद्ये मनःशिलाम् ॥
चन्दनं वामदेवाख्ये हरितालञ्च पौरुषे ।
ईशाने भसितं केचिदालेपनमितीदृशम् ॥
पृष्ठ ३/१३४
न धूप इति मन्यन्ते धूपान्तरविधानतः ।
सितागुरुमघोराख्ये मुखे कृष्णागुरुं पुनः ॥
पौरुषे गुग्गुलुं सद्ये सौम्ये सौगन्धिकं मुखे ।
ईशानेऽपि उशीरादि दद्याद्धूपं विशेषतः ॥
शर्करामधुकर्पूरकपिलाघृतसंयुतम् ।
चन्दनागुरुकाष्ठाद्यं सामान्यं संप्रचक्षते ॥
कर्पूरवर्तिराज्याढ्या देया दीपावली ततः ।
अर्घ्यमाचमनं देयं प्रतिवक्त्रमतःपरम् ॥
प्रथमावरणे पूज्यौ क्रमाद्धेरम्बषण्मुखौ ।
ब्रह्माङ्गानि ततश्चैवं प्रथमावरणेऽर्च्चिते ॥
द्बितीयावरणे पूज्या विघ्नेशाश्चक्रवर्त्तिनः ।
तृतीयावरणे पूज्या भवाद्याश्चाष्टमूर्त्तयः ॥
महादेवादयस्तत्र तथैकादशमूर्त्तयः ।
चतुर्थावरणे पूज्याः सर्व्व एव गणेश्वराः ॥
बहिरेव तु पद्मस्य पञ्चमावरणे क्रमात् ।
दश दिक्पतयः पूज्याः सास्त्राः सानुचरास्तथा ॥
ब्रह्मणो मानसाः पुत्त्राः सर्व्वेऽपि ज्योतिषाङ्गणाः ।
सर्व्वे देवाश्च देव्यश्च सर्व्वाः सर्व्वेऽपि खेचराः ॥
पातालवासिनश्चान्ये सर्व्वे मुनिगणा अपि ।
योगिनो मुख्यतः सर्व्वे पञ्चमे मातरस्तथा ॥
क्षेत्रपालश्च सगणः सर्व्वं चैतच्चराचरम् ।
अथावरणपूजान्ते सम्पूज्य परमेश्वरम् ॥
साज्यं सव्यञ्जनं हृद्यं हविर्भक्त्या निवेदयेत् ।
मुखवासादिकं दत्त्वा ताम्बूलं सोपदंशकम् ॥
अलङ्कृत्य च भूयोऽपि नानापुष्पविभूषणैः ।
नीराजनान्ते विस्तीर्णं पूजाशेषं समापयेत् ॥
चन्द्रसङ्काशहारञ्च शयनीये समर्पयेत् ।
आढ्यं नृपोचितं हृद्यं तत्सर्व्वमनुरूपतः ॥
कृत्वा च कारयित्वा च हुत्वा च प्रतिपूजनम् ।
स्तोत्रं व्यपोहनं जप्त्वा विद्यां पञ्चाक्षरीं जपेत् ॥
प्रदक्षिणां प्रणामञ्च कृत्वात्मानं समर्च्चयेत् ।
ततः पुरस्ताद्देवस्य गुरुविद्ये च पूजयेत् ॥
दत्वार्घ्यमष्टौ पुष्पाणि देवमुद्बास्य लिङ्गतः ।
अग्नेश्चाग्निं सुसंरक्ष्य उद्बास्य च तमप्युत ॥
प्रत्यहं जन इत्येवं कुर्य्यात्सर्व्वं पुरोदितम् ।
ततस्तत्साम्बुजं लिङ्गं सर्व्वोपकरणान्वितम् ॥
समर्पयेत् स्वगुरवे स्थापयेद् वा शिवालये ।
संपूज्य च गुरूनन्यान् व्रतिनश्च विशेषतः ॥
भक्तान् द्विजांश्च शक्तश्चेद्दीनानाथांश्च तोषयेत् ।
स्वयं चानशनप्रायः फलमूलाशनोऽथवा ॥
पयोव्रती वा भिक्षाशी भवेदेकाशनस्तथा ।
नक्तं युक्ताशनो नित्यं भूशय्यानिरतः शुचिः ॥
भस्मशायी तृणे शायी चीराजिनशयोऽथवा ।
ब्रह्मचर्य्यरतो नित्यं व्रतमेतत् समाचरेत् ॥
अर्कवारे तथार्द्वायां पञ्चदश्याञ्च पक्षयोः ।
अष्टम्याञ्च चतुद्दश्यां शक्तस्तूपवसेदपि ॥
पाषण्डपतितोदक्यासूतिकान्त्यजपूर्ब्बकान् ।
वर्ज्जयेत्सर्व्वत्नेन मनसा कर्म्मणा गिरा ॥
क्षमादानदयासत्याहिंसाशीलः सदा भवेत् ।
सन्तुष्टश्च प्रशान्तश्च तपोध्यानरतः सदा ॥
कुर्य्यात्त्रिषवणस्नानं भस्मस्नानमथापि वा ।
पूजां षैशेषिकोञ्चैव मनसा कर्म्मणा गिरा ॥
बहुनात्र किमुक्तेन नाचरेदशिवं व्रती ।
प्रमादात्तु तथाचारे निरूप्य गुरुलाघवम् ॥
उचितां निष्कृतिं कुर्य्यात् पूजाहोमजपादिभिः ।
आसमाप्तेर्व्रतस्यैवमाचरेन्न प्रमादतः ॥
गोदानञ्च वृषोत्सर्गं कुर्य्यात् पूजां जपं सदा ।
सामान्यमेतत् कथितं व्रतस्यास्य समासतः ॥
प्रतिमासं विशेषञ्च प्रवक्ष्यामि यथाक्रमम् ।
वैशाखे वज्रलिङ्गन्तु ज्येष्ठे मारकतं शुभम् ॥
आषाढे मौक्तिकं विद्याच्छ्रावणे नीलनिर्म्मितम् ।
मासे भाद्रपदे चैव पद्मरागमयं परम् ॥
आश्वयुज्याञ्च विधिवद्गोमेदकमयं शुभम् ।
कार्त्तिक्यां वै द्रुमं लिङ्गं वैदूर्य्यं मार्गशीर्षके ॥
पुष्परागमयं पौषे माघे द्युमणिजं तथा ।
फाल्गुन्यां चन्द्रकान्तोत्थं चैत्रे तद्ब्यत्ययोऽथवा ॥
सर्व्वमासेषु रत्नानामलाभे हैममेव वा ।
हैमाभावे राजतं वा ताम्रं शैलजमेव वा ॥
मृण्मयं वा यथालाभं क्षणिकं चान्यदेव वा ।
सर्व्वगन्धमयं वाथ लिङ्गं कुर्य्याद्यथारुचि ॥
व्रतावसानसमये समाचरितनैत्यकः ।
कृत्त्वा वैशेशिकीं पूजां हुत्वा चैव यथा पुरा ॥
संपूज्य च सदाचार्य्यं व्रतिनश्च विशेषतः ।
दैशिकेनाभ्यनुज्ञातः प्राङ्मुखो वाप्युदङ्मुखः ॥
दर्भासनो दर्भपाणिः प्राणापानौ नियम्य च ।
जपित्वा शक्तितो मूलं ध्यात्वा शाम्बं त्रियम्बकम् ॥
अनुज्ञाप्य यथापूर्ब्बं नमस्कृत्य कृताञ्जलिः ।
समुत्सृजामि भगवन् ! व्रतमेतत्त्वदाज्ञया ॥
इत्युक्त्वा लिङ्गमूलन्तु दर्भानुत्तरतस्त्यजेत् ।
ततो दण्डजटाचीरमेखलाद्यपि चोत्सृजेत् ॥
पुनराचम्य विधिवत् पञ्चाक्षरमुदीरयेत् ।
यः कृत्वात्यन्तिकीं दीक्षामादेहान्तमनाकुलः ॥
व्रतमेतत् प्रकुर्वीत स तु वै नैष्ठिकः स्मृतः ।
सोऽत्याश्रमी च विज्ञेयो महापाशुतस्तथा ॥
स एव तपसां श्रेष्ठः स एव च महाव्रती ।
न तेन सदृशः कश्चित् कृतकृत्यो मुमुक्षुषु ॥
यतिर्यो नैष्ठिको जातस्तमाहुर्नैष्ठिकोत्तमम् ।
योऽनश्नन्द्वादशाहं वा व्रतमेतत् समाचरेत् ॥
सोऽपि नैष्ठिकतुल्यः स्यात्तीव्रव्रतसमन्वयात् ।
घृताक्ता यश्चरेदेतद्व्रतं व्रतपरायणः ॥
द्वित्र्यैकदिवसं वापि स च कश्चन नैष्ठिकः ।
कृत्यमित्येव निष्कामो यश्चरेद् व्रतमुत्तमम् ॥
शिवार्पितात्मा सततं न तेन सदृशः क्वचित् ।
भस्मच्छन्नो द्बिजो विद्वान् महापातकसम्भवैः ॥
पापैर्विमुच्यते सद्यो मुच्यते नात्र संशयः ।
रुद्राग्नेर्यत्परं वीर्य्यं तद्भस्म परिकीर्त्तितम् ॥
तस्मात्सर्व्वेषु कालेषु वीर्य्यवान् भस्मसंयुतः ।
भस्मनिष्ठस्य दह्यन्ते दोषा भस्माग्निसङ्गमात् ॥
भस्मस्नानविशुद्धात्मा भस्मनिष्ठ इति स्मृतः ।
भस्मना दिग्धसर्व्वाङ्गो भस्मदीप्तत्रिपुण्ड्रकः ॥
भस्मशायी च पुरुषो भस्मकल्मषभक्षणात् ।
भूतिर्भूतिकरी पुंसां रक्षा रक्षाकरी परम् ॥
किमन्यदिह वक्तव्यं भस्ममाहात्म्यकारणम् ।
व्रती च भस्मना स्नातः स्वयं देवो महेश्वरः ॥
परमास्त्रञ्च शैवानां भस्मैतत्पारमेश्वरम् ।
धौभ्याग्रजस्य तपसि ह्यापदो यन्निवारिताः ॥
तस्मात्सर्व्वप्रयत्नेन कृत्वा पाशुपतं व्रतम् ।
धनवद्भस्म संगृह्य भस्मस्नानरतो भवेत् ॥”
इति श्रीशिवपुराणे वायुसंहितायां पूर्ब्बभागे
एकोनत्रिंशोऽध्यायः ॥ * ॥)

पाशुपतास्त्रं, क्ली, (पाशुपतं पशुपतिसम्बन्धि

अस्त्रम् ।) पशुपतेः शूलास्त्रम् । तस्य स्वरूपं
यथा, --
“गजाननोऽपि सञ्चिन्त्य यत्तत् पाशुपतं परम् ।
महारूपं महाकायं युगान्ताग्निसमप्रभम् ॥
पञ्चवक्त्रं महाघोरं दशबाहुं त्रिलोचनम् ।
सौम्यं घोरं सुघोरास्यमूर्द्ध्वकेशं भयोत्कटम् ॥
जटाभारेन्दुगङ्गाहिध्रियमाणं शिवाङ्गजम् ।
वेणुवीणाशङ्खघण्टं डमरुकारावसंकुलम् ॥
शिवारावं भयात्त्रासि गृध्रवायसचेष्टितम् ।
उल्कादण्डज्वलज्वालं गोनाशकृतभूषणम् ॥
ललन्मेखलनागेन्द्रं गजचर्म्मार्द्रवाससम् ।
केकरं तर्ज्जमानन्तु शूलखट्वाङ्गधारिणम् ॥
ग्रसमानं सममिदं त्रैलोक्यं सचराचरम् ।
पुरतो विघ्ननाशस्य लेलिहानं व्यवस्थितम् ॥”
इति देवीपुराणम् ॥

पाशुपाल्यं, क्ली, (पशुपालस्य भावः कर्म्म वा ।

पशुपाल + ष्यञ् ।) वैश्यवृत्तिः । पशून् गोमहि-
ष्यादीन् पालयति पशुपालः ढात् षण् । पशु-
पालस्य भावः कर्म्म वा इत्यर्थे ष्ण्यप्रत्ययनिष्प-
न्नम् । इत्यमरभरतौ ॥ (यथा, मार्कण्डेये । २८ । ६ ।
“दानमध्ययनं यज्ञो वैश्यस्यापि त्रिधैव सः ।
बाणिज्यं पाशुपाल्यञ्च कृषिञ्चैवास्य जीविका ॥”)

पाश्चात्यः, त्रि, (पश्चात् + “दक्षिणापश्चात्पुरस-

स्त्यक् ।” ४ । २ । ९८ । इति त्यक् ।) पश्चा-
द्भवः । (यथा, देवीभागवते । १ । १७ । ६६ ।
“पाश्चात्यं यामिनीयामं ध्यानमेवान्वपद्यत ।
स्नात्वा प्रातः क्रियाः कृत्वा पुनरास्ते समा-
हितः ॥”)
पश्चिमदेशजातः । इति मुग्धबोधव्याकरणम् ॥
(यथा, महाभारते । १ । १२१ । ११ ।
“स विजित्य गृहीत्वा च भूपतीन् राजसत्तमः ।
प्राच्यानुदीच्यान् पाश्चात्यान् दाक्षिणात्यानकाल-
यत् ॥”)

पाश्चात्याकरसम्भवं, क्ली, (पाश्चात्ये पश्चिमदिग्-

भवे आकरे सम्भव उत्पत्तिर्यस्य ।) साम्भरी-
लवणम् । तत्पर्य्यायः । रोमकम् २ रामलब-
णम् ३ । इति रत्नमाला ॥

पाश्या, स्त्री, (पाशानां समूहः । पाश + “पाशा-

दिभ्यो यः ।” ४ । २ । ४९ । इति यः ।) पाश-
समूहः । इत्यमरः । ३ । २ । ४३ ॥

पाषकः, पुं, (पषति बध्नातीव चरणौ । पष बन्धे +

ण्वुल् ।) पादाभरणविशेषः । पाषुली इति
भाषा ॥ यथा, --
“रत्नपाषकषट्कैश्च विराजितपदाङ्गुलैः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४ अध्यायः ॥
पृष्ठ ३/१३५

पाषण्डः, पुं, (पापं सनोति दर्शनसंसर्गादिना

ददातीति । षणु ञ दाने + ञमन्तात् डः । पृषो-
दरादित्वात् साधुः । यद्वा, पाति रक्षति दुष्कृ-
तेभ्य इति । पा + क्विप् । पा वेदधर्म्मस्तं षण्ड-
यति खण्डयतीति । यदुक्तम् ।
“पालनाच्च त्रयीधर्म्मः पाशब्देन निगद्यते ।
तं ष(ख)ण्डयन्ति ते यस्मात् पाषण्डास्तेन
हेतुना ॥
नानाव्रतधरा नानावेशाः पाषण्डिनो मताः ॥”)
वेदविरुद्धाचारवान् सर्व्ववर्णचिह्नधारी । बौद्ध-
क्षपणकादिः । इति भरतः ॥ तत्पर्य्यायः । सर्व्व-
लिङ्गी २ । इत्यमरः । २ । ७ । ४५ ॥ कौलिकः ३
पाषण्डिकः ४ । इति शब्दत्नावली ॥ * ॥ पाष-
ण्डादिसम्भाषणे दोषो यथा, --
“तस्मात पाषण्डिभिः पापैरालापं स्पर्शनं
त्यजेत् ।
विशेषतः क्रियाकाले यज्ञादौ चापि दीक्षितः ॥
क्रियाहानिर्गृहे यस्य मासमेकं प्रजायते ।
तस्यावलोकनात् सूर्य्यं पश्येत मतिमान् नरः ॥
किं पुनर्य्यैस्तु सन्त्यक्ता त्रयी सर्व्वात्मना द्विज ! ।
पाषण्डभोजिभिः पापैर्व्वेदवादविरोधिभिः ॥
पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान् शठान् ।
हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥
दूरापास्तस्तु संसर्गः सहास्या वापि पापिभिः ।
पाषण्डिभिर्दुराचारैस्तस्मात्तान् परिवर्ज्जयेत् ॥
एते नग्नास्तवाख्याता दृष्ट्या श्राद्धोपघातकाः ।
येषां सम्भाषणात् पुंसां दिनपुण्यं प्रणश्यति ॥
एते पाषण्डिनामानो ह्येतान्न आलपेद्बुधः ।
पुण्यं नश्यति सम्भाषादेतेषां तद्दिनोद्भवम् ॥
पुंसां जटाधरणमौण्ड्यवतां वृथैव
मोघाशिनामखिलशौचनिराकृतानाम् ।
तोयप्रदानपितृपिण्डबहिष्कृतानां
सम्भाषणादपि नरा नरकं प्रयान्ति ॥”
इति विष्णुपुराणे ३ अंशे १८ अध्यायः ॥ * ॥
पाषण्डादीनां लक्षणं यथा, --
“भ्रष्टः स्वधर्म्मात् पाषण्डो विकर्म्मस्थो निषिद्धकृत् ।
यस्य धर्म्मध्वजो नित्यं सुरध्वज इवोत्थितः ॥
प्रच्छन्नानि च पापानि वैडालं नाम तद्व्रतम् ॥
तद्वान् वैडालव्रतिकः ॥
प्रियं व्यक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् ।
व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः ॥
सन्देहकृद्धेतुभिर्यः सत्कर्म्मसु सहैतुकः ।
अर्व्वाग्दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ॥
शठो मिथ्याविनीतश्च वकवृत्तिरुदाहृतः ॥” इति ।
एतट्टीकायां स्वामी ॥ * ॥ अपि च ।
सदाशिव उवाच ।
“येऽन्यदेवं परत्वेन वदन्त्यज्ञानमोहिताः ।
नारायणाज्जगद्बन्द्यं ते वै पाषण्डिनस्तथा ॥
कपालभस्मास्थिधरा ये ह्यवैदिकलिङ्गिनः ।
ऋते वनस्थाश्रमाश्च जटावल्कलधारिणः ।
अवैदिकक्रियोपेतास्ते वै पाषण्डिनस्तथा ॥
शङ्खचक्रोर्द्ध्वपुण्ड्रादिचिह्नैः प्रियतमैर्हरेः ।
रहिता ये द्विजा देवि ! ते वै पाषण्डिनो मताः ॥
श्रुतिस्मृत्युक्तमाचारं यस्तु नाचरति द्विजः ।
स पाषण्डीति विज्ञेयः सर्व्वलोकेषु गर्हितः ॥
समस्तयज्ञभोक्तारं विष्णुं ब्रह्मण्यदैवतम् ॥
उदस्य देवताञ्चैव जुहोति च ददाति च ।
स पाषण्डीति विज्ञेयः स्वतन्त्रो वापि कर्म्मसु ॥
स्वातन्त्र्यात् क्रियते यैस्तु कर्म्म वेदोदितं महत् ।
विना वै भगवत्प्रीत्या ते वै पाषण्डिनः स्मृताः ॥
यस्तु नारायणं देवं ब्रह्मरुद्रादिदैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेत् सदा ॥
अनास्था क्रियते यैस्तु मनोवाक्कायकर्म्मभिः ।
वासुदेवं न जानाति स पाषण्डी भवेत् द्विजः ॥
हरेर्नामैकमन्त्राभ्यां लोकाः सद्भिर्विवर्ज्जिताः ।
यदि वर्णाश्रमाद्या ये ते वै पाषण्डिनः स्मृताः ॥
वर्णानां गुरवो नित्यं शिवे यद्यप्यवैष्णवाः ।
भगवद्धर्म्मरहिता वैष्णवादिविनिन्दकाः ॥
रजस्तमोमया जीवहिंसका जीवभक्षकाः ।
असत्प्रतिग्रहरता देवला ग्रामयाजकाः ॥
भ्रष्टाचारास्तथा व्रात्या नानाविबुधपूजकाः ।
देवतोच्छिष्टश्राद्धादिभोजिनः शूद्रवत्क्रियाः ॥
विविधासत्कर्म्मरता भक्षणाद्यविचारिणः ।
लोभमोहमदक्रोधकामाहङ्कारिणः सदा ॥
एवंविधाः पारदारिकाद्या येऽत्र शुभानने ! ।
अन्येषां का कथा तत्र पाषण्डा ब्राह्मणाः
स्मृताः ॥
वर्णाश्रमाद्या ये मर्त्याः स्वस्वधर्म्मविवर्ज्जिताः ।
ते वै पाषण्डिनो देवि ! नारायणबहिर्मुखाः ॥
सर्व्वाशिनो द्विजा येऽपि सर्व्वविक्रयिणस्तथा ।
षड्वेदाचाररहितास्ते वै पाषण्डिनो मताः ॥
ये त्वसद्भक्ष्यपानादिरता लोका निरन्तरम् ।
शिवे ! पाषण्डिनो ज्ञेया इह ते नात्र संशयः ॥
विष्णुवैष्णवगोभूमिदेवादिषु विशेषतः ।
अश्वत्थतुलसीतीर्थक्षेत्रादिषु महागुरौ ॥
लक्ष्मीसरस्वतीगङ्गायमुनासु वरानने ! ।
स्मृताः पाषण्डिनस्तेऽपि ये न सेवापरायणाः ॥
रुद्राक्षेन्द्राक्षभद्राक्षस्फाटिकाक्षादिधारिणः ।
जटिला भस्मलिप्ताङ्गास्ते वै पाषण्डिनः प्रिये ! ॥
असिजीवी मसीजीवी धावकः पाचकस्तथा ।
एते पाषण्डिनो विप्रा मादकद्रव्यभोजिनः ॥
देविं ! कार्ष्णादयो भक्ता अनन्यशरणास्तु ये ।
पाषण्डसङ्गं न कुर्य्युस्तद्गेहे पानभोजने ॥
यदि दैववशाल्लोभान्मोहात्तस्यान्नभोजनम् ।
तत्स्पर्शजलपानञ्च चक्रुस्तत्सङ्गमादिकम् ॥
तत्पानभोजनालापसङ्गालिङ्गनतोऽचिरात् ।
पाषण्डिनो वैष्णवाः स्युरन्येषामपि का कथा ॥
किमत्र बहुनोक्तेन ब्राह्मणा ये ह्यवैष्णवाः ।
असदाचरणाश्चेत् स्युस्तदा पाषण्डिनः स्मृताः ॥
एतद्भोजनपानादिकर्म्मभिर्वैष्णवा जनाः ।
पाषण्डिनस्तथा स्युर्व्वै जटाभस्मादिधारिणः ॥”
इति पाद्मो त्तरखण्डे पाषण्डाचरणं नाम ४२ अः ॥
तस्य त्याज्यत्वं यथा, --
“त्यज पाषण्डसंसर्गं सङ्गं भज सतां सदा ।
कामं क्रोधञ्च लोभञ्च मोहञ्च मदमत्सरौ ॥”
इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ * ॥
तस्य राष्ट्राद्बहिष्कर्त्तव्यता यथा, --
“कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश्च
मानवान् ।
विकर्म्मस्थान् शौण्डिकांश्च क्षिप्रं निर्व्वासयेत्
पुरात् ॥
एते राष्ट्रे वर्त्तमाना राज्ञः प्रच्छन्नतस्कराः ।
विकर्म्मक्रियया नित्यं वाधन्ते भद्रिकाः प्रजाः ॥”
इति मानवे ९ अध्यायः ॥
अपि च ।
“आक्रुद्धांश्च तथा लुब्धान् दृष्टार्थातत्त्वभाषिणः ।
पाषण्डिनस्तापसादीन् परराष्ट्रेषु योजयेत् ॥”
इति युक्तिकल्पतरुः ॥

पाषण्डकः, पुं, (पाषण्ड एव । स्वार्थे कन् ।)

पाषण्डः । इति शब्दरत्नावली ॥

पाषण्डी, [न्] पुं, (पां त्रयीधर्म्मं षण्डयतीति ।

पा + षण्ड + णिनिः ।) पाषण्डः । इति जटा-
धरः ॥ (यथा, मनुः । ४ । ३० ।
“पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान्
शठान् ।
हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत् ॥”)

पाषाणः, पुं, (पषति पीडयत्यनेनेति । पष पीडने +

बाहुलकात् आनच् । “पषेर्णिच्च ।” २ । ९० ।
इत्युज्ज्वलदत्तोक्त्या स च णित् ।) प्रस्तरः । तत्-
पर्य्यायः । ग्रावः २ उपलः ३ अश्मा ४ शिला ५
दृषत् ६ । इत्यमरः । २ । ३ । ४ ॥ दृशत् ७ । इति
भरतः ॥ प्रस्तरः ८ पारावुकः ९ पारटीटः १०
मृन्मरुः ११ काचकः १२ । इति शब्दरत्नावली ॥
(यथा, देवीभागवते । ४ । २१ । ५४ ।
“गतेऽथ नारदे कंसः समाहूयाथ बालकम् ।
पाषाणे पोथयामास सुखं प्राप च मन्दधीः ॥”
पाषाणादिनिर्म्मितत्वात् देवताप्रतिमादि । यथा,
आर्य्यासप्तशत्याम् । ३८६ ।
“पूजां विना प्रतिष्ठां नास्ति न मन्त्रं विना
प्रतिष्ठा च ।
तदुभयविप्रतिपन्नः पश्यतु गीर्व्वाणपाषाणम् ॥”)

पाषाणगर्द्दभः, पुं, हनुसन्धिजक्षुद्ररोगविशेषः ।

तल्लक्षणमाह ।
“वातश्लेष्मसमुद्भूतः श्वयथुर्हनुसन्धिजः ।
स्थिरो मन्दरुजः स्निग्धो ज्ञेयः पाषाणगर्द्दभः ॥”
स्थिरः कठिनः ॥ * ॥ तच्चिकित्सा यथा, --
“पाषाणगर्द्दभं पूर्ब्बं स्वेदयेत् कुशलो भिषक् ।
ततः पनसिकाप्रोक्तैः कल्कैरुष्णैः प्रलेपयेत् ॥
वातश्लैष्मिकशोथघ्नैः कल्कैरन्यैश्च लेपयेत् ।
परिपाकगतं भित्त्वा व्रणवत्तमुपाचरेत् ॥
जलोकाभिर्हृते रक्ते स शाम्यति विनौषधम् ।
एतत्स्थलेषु बहुषु प्रेक्षितं लिखितं ततः ॥”
इति भावप्रकाशः ॥

पाषाणचतुर्द्दशी, स्त्री, (पाषाणसाध्या पाषाणवत्-

पिष्टकभोजनसाध्या चतुर्द्दशी ।) वृश्चिकराशिस्थ-
रविकशुक्लपक्षीयचतुर्द्दशी । यथा, भविष्ये ।
पृष्ठ ३/१३६
“वृश्चिके शुक्लपक्षे तु या पाषाणचतुर्द्दशी ।
तस्यामाराधयेद्गौरीं नक्तं पाषाणभोजनैः ॥
पाषाणभोजनैः पाषाणाकारपिष्टकभोजनैः ।”
इति तिथ्यादितत्त्वम् ॥

पाषाणदारकः, पुं, (दारयति विदारयतीति । द +

णिच् + ण्वुल् । पाषाणस्य दारकः ।) टङ्कः ।
इति हेमचन्द्रः । ३ । ५८३ ॥

पाषाणदारणः, पुं, (दारयतीति । दॄ + णिच् +

ल्युः । पाषाणस्य दारणो विदारकः ।) टङ्कः ।
इत्यमरः । २ । १० । ३४ ॥

पाषाणभेदनः, पुं, (पाषाणं अश्मरीं भिनत्तीति ।

भिद् + ल्युः ।) वृक्षविशेषः । हाड्जुडी इति
भाषा । तत्पर्य्यायः । अश्मघ्नः २ शिलाभेदः ३
अश्मभेदकः ४ श्वेता ५ उपलभेदी ६ पलभित् ७
शिलगर्भजः ८ । अस्य गुणाः । मधुरत्वम् । तिक्त-
त्वम् । मेहतृड्दाहमूत्रकृच्छ्राश्मरीनाशित्वम् ।
शीतलत्वञ्च । इति राजनिर्घण्टः ॥ अपि च ।
“पाषाणभेदकोऽश्मघ्नो गिरिभिद्भिन्नयोजनी ।
अश्मभेदो हिमस्तिक्तः कषायो वस्तिशोधनः ॥
भेदनो हन्ति दोषार्शोगुल्मकृच्छ्राश्महृद्रुजः ।
योनिरोगान् प्रमेहांश्च प्लीहाशूलव्रणानि च ॥”
इति भावप्रकाशः ॥

पाषाणभेदी, [न्] पुं, (पाषाणं अश्मरीं भिन-

त्तीति । भिद + णिनिः ।) वृक्षविशेषः । पाथर-
चुर इति भाषा । तत्पर्य्यायः । अश्मभेदः २
शिलाभेदः ३ अश्मभित् ४ । इति रत्नमाला ॥
(अश्मभेदशब्दे ज्ञातव्यमस्य विवरणम् ॥)

पाषाणी, स्त्री, (पाषाण + अल्पार्थे ङीष् ।)

क्षुद्रपाषाणः । स तु परिमापकविशेषः । वाट्-
खारा इति भाषा । तत्पर्य्यायः । पृषाकरा २ ।
इति शब्दचन्द्रिका ॥

पाहातः, पुं, (पाति रक्षति दुष्कृतेभ्य इति । पा +

क्विप् । पां त्रयीधर्म्मं हन्ति गच्छतीति । हन्
गतौ + डः । पाहं ब्रह्माणं अततीति । अच् ।)
ब्रह्मदारुवृक्षः । इति शब्दचन्द्रिका ॥

पि, श गतौ । इति कविकल्पद्रुमः ॥ (तुदां-परं-

सकं-अनिट् ।) श, पियति । इति दुर्गादासः ॥

पिकः, पुं, (अपि कायति शब्दायते इति । अपि

+ कै + “आतश्चोपसर्गे ।” ३ । १ । १३६ ।
इति कः । अपेरकारलोपः ।) कोकिलः ।
इत्यमरः ॥ २ । ५ । १९ । (यथा, --
“पिक ! विधुस्तव हन्ति समं तम-
स्त्वमपि चन्द्रविरोधिकुहूरवः ।
इति तयोरनिशं हि विरोधिता
कथमहो समता मम तापने ॥”
इत्युद्भटः ॥)

पिकप्रिया, स्त्री, (पिकानां प्रिया ।) महाजम्बूः ।

इति राजनिर्घण्टः ॥

पिकबन्धुः, पुं, (पिकानां बन्धुरिव ।) आम्रवृक्षः ।

इति त्रिकाण्डशेषः ॥

पिकरागः, पुं, (पिकानां रागोऽनुरागो यत्र ।)

आम्रवृक्षः । इति राजनिर्घण्टः ॥

पिकवल्लभः, पुं, (पिकानां वल्लभः ।) आम्रवृक्षः ।

इति भावप्रकाशः ॥ (गुणाश्चास्य आम्रशब्दे
ज्ञातव्याः ॥)

पिकाक्षः, पुं, (पिकस्य अक्षि लोचनं तद्वत् वर्णो

यस्य । समासे षच् ।) रोचनी । इति शब्द-
चन्द्रिका ॥

पिकाङ्गः, पुं, (पिकस्याङ्गमिव अङ्गं यस्य ।)

पक्षिविशेषः । इति शब्दचन्द्रिका ॥

पिकानन्दः, पुं, (पिकानामानन्दो यस्मिन् ।)

वसन्तकालः । इति राजनिर्घण्टः ॥

पिकी, स्त्री, (पिक + स्त्रियां ङीष् ।) कोकिला ।

इति राजनिर्घण्टः ॥

पिकेक्षणा, स्त्री, (पिकस्य ईक्षणं लोचनं तद्वत्

वर्णो यस्याः ।) कोकिलाक्षः । इति राज-
निर्घण्टः ॥ कोकिलचक्षुस्तुल्यचक्षुर्युक्ता च ॥

पिक्कः, पुं, (पिक् इत्यव्यक्तशब्देन कायति शब्दा-

यते इति । कै + कः । पिक इव कायतीति ।
पृषोदरादित्वात् साधुरित्येके ।) हस्तिशावकः ।
इति शब्दमाला ॥

पिङ्गं, क्ली, (पिञ्जतीति । पिजि वर्णे + अच् । न्यङ्-

क्वादित्वात् कुत्वम् ।) बालकः । इति मेदिनी ।
गे, १२ ॥ हरितालम् । इति राजनिर्घण्टः ॥

पिङ्गः, पुं, (पिजि वर्णे + अच् । कुत्वञ्च ।) पिङ्गल-

वर्णः । तद्वति, त्रि । इत्यमरः । १ । ५ । १६ ॥
(यथा, महाभारते । १ । १२३ । ३२ ।
“पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ॥”)
मूषकः । इति राजनिर्घण्टः ॥

पिङ्गकपिशा, स्त्री, (पिङ्गा कपिशा च । वर्णो

वर्णेनेति समासः ।) तैलपायिका । इति हेम-
चन्द्रः । ४ । २७३ ॥

पिङ्गचक्षुः, [स्] पुं, (पिङ्गे चक्षुषी यस्य ।)

कुम्भीरः । इति हेमचन्द्रः । ४ । ४१८ ॥

पिङ्गजटः, पुं, (पिङ्गा पिङ्गलवर्णा जटा यस्य ।)

शिवः । इति हेमचन्द्रः । २ । ११३ ॥

पिङ्गलं, क्ली, (पिङ्गं लातीति । ला + कः ।)

रीतिः । इति राजनिर्घण्टः ॥

पिङ्गलः, पुं, (पिङ्गो वर्णोऽस्यास्तीति । पिङ्ग +

“सिध्मादिभ्यश्च ।” ५ । २ । ९७ । इति लच् ।)
नीलपीतमिश्रितवर्णः । तत्पर्य्यायः । कडारः २
कपिलः ३ पिङ्गः ४ पिशङ्गः ५ कद्रुः ६ । तद्-
वति, त्रि । इत्यमरः । १ । ५ । १६ ॥ केचित्
द्वयं द्वयं पर्य्यावमाहुः । अत्र नीलपीतः कपिलः ।
रोचनाभः पिशङ्गः । कनकपिङ्गलः कद्रुः ।
इति सुभूतिः ॥
“पिशङ्गो रोचना पाण्डुः कद्रुः कनकपिङ्गलः ॥”
इति नाममाला ॥
“पिङ्गदीपशिखाभः स्यात् पिशङ्गः पद्मधूलिवत् ।
पीतनीलहरिद्रक्तः कडारस्तृणवह्निवत् ॥
अयन्तूद्रिक्तः पीताङ्गः कपिलो रोचनाच्छविः ॥
इत्यत्र भेदोऽपि दृश्यते । अल्पभेदत्वादिहासौ
नादृतः ।” इति तट्टीकायां भरतः ॥ * ॥ नाग-
भेदः । (यथा, महाभारते । १ । ३५ । ९ ।
“निष्ठानको हेमगुहो नहुषः पिङ्गलस्तथा ॥”)
रुद्रः । चण्डांशुपारिपार्श्विकः । निधिभेदः ।
कपिः । अग्निः । इति मेदिनी । ले, ११३ ॥
मुनिविशेषः । (यथा, महाभारते । १ । ५३ । ६ ।
“ब्रह्माभवत् साङ्गरवो अध्वर्य्युश्चापि पिङ्गलः ॥”)
नकुलः । स्थावरविषविशेषः । इति हेमचन्द्रः ।
४ । १६५ ॥ क्षुद्रोलूकः । इति राजनिर्घण्टः ॥
(यक्षविशेषः । यथा, महाभारते । ३ । २३० । ५१ ।
“पिङ्गलो नाम यक्षेन्द्रो लोकस्यानन्ददायकः ॥”
पर्व्वतविशेषः । इति ब्रह्माण्डपुराणम् ॥)
प्रभवादिषष्टिवर्षान्तर्गतैकपञ्चाशत्तम्रवर्षः । यथा,
“देशभङ्गोऽथ दुर्भिक्षं समासात् कथयाम्यहम् ।
पिङ्गले चारुपद्माक्षि ! दुर्भिक्षं नर्म्मदातटे ॥”
इति ज्योतिस्तत्त्वम् ॥ * ॥
पिङ्गलाचार्य्यकृतच्छन्दोग्रन्थविशेषः । यथा, --
“जो विविहमत्तसायरपारं पत्तो विविमलमै
हेलम् ।
पढमं भासतरण्डो नाओसो पिङ्गलो जयै ॥”
अस्य व्याख्या ।
“अथ छन्दःशास्त्रकर्त्तुः पिङ्गलाचार्य्यस्य स्तुति-
रूपं मङ्गलं निर्विघ्नग्रन्थपरिसमाप्तये ग्रन्थकृत्
करोति । विविधा नानाप्रकारकविन्यासविशिष्टा
मात्रा यत्र तद्विविधमात्रं छन्दःकदम्बं तदेवं
सागरः अतिदुर्गमत्वात् भाषा एव तरण्डा
नौर्यस्य । प्राकृते ह्नस्वता तेन भाषयैव छन्दः-
शास्त्रमुक्तवानित्यवगम्यते । केचित्तु लघुगुरु-
रूपा या विविधा मात्रा सैव सागरः तत्पारं
प्राप्तः अपिरवधारणे । विमलया मत्या हेला
यत्र तद्यथा स्यात् निर्म्मलबुद्ध्या हेलयैव पारं
गत इत्यर्थः । प्रथममित्यनेन छन्दःशास्त्रस्य
प्रथमप्रणेतायमित्यवगम्यते । अर्थान्तरमप्यने-
नैव व्यज्यते यो विविधमात्राभिः सागरपारं
प्राप्तः विः पक्षी अर्थाद्गरुडः तस्य विमलमतौ
हेला यत्र तत् यथा स्यात् भाषा अनुनयवाक्
सैव नौर्यस्य ईदृशो नागो जयति । एवं हि
श्रूयते भोक्तुमुद्यतं गरुडं दृष्ट्वा सकौशलं सवि-
नयं तमुवाच भो गरुड ममेदं कौशलं पश्य
यद्येकवारलिखितं मया लिख्यते तदा मां भक्ष
इत्युक्त्वा सागरतीरं षड्विंशत्यक्षरपर्य्यन्तं प्रस्तारं
प्रदर्श्य समुद्रं प्रविवेश गरुडोऽपि वञ्चनां गुरु-
त्वेन तञ्च मत्वा तद्देशाद्विरराम एतादृशं बुद्धि-
गौरवं यस्य अतएव जयति उत्कर्षेण वर्त्तते
तं प्रति प्रणतोऽस्मीति व्यज्यते अथवा गाथायां
भगणोपन्यासो मङ्गलार्थः प्रथमं भृत्योदासी-
नयोर्भगणजगणयोर्योगोऽनुचितोऽपि कथमित्य-
वहितैर्भाव्यम् ।” इति पिङ्गलग्रन्थस्तट्टीका च ॥

पिङ्गललोहं, क्ली, (पिङ्गलं लोहमिति नित्यकर्म्म-

धारयः ।) पित्तलम् । इति राजनिर्घण्टः ॥

पिङ्गला, स्त्री, (पिङ्गल + टाप् ।) वामनाख्य-

दक्षिणदिग्गजस्य स्त्री । इत्यमरः । १ । ३ । ४ ॥
कुमुदस्य करिणी । वेश्याविशेषः । इति मेदिनी ।
ले, ११३ ॥ तस्या उपाख्यानं यथा, --
पृष्ठ ३/१३७
“पिङ्गला नाम वेश्यासीद्विहेहनगरे पुरा ।
तस्या मे शिक्षितं किञ्चिन्निबोध नृपनन्दन ! ॥
सा स्वैरिण्येकदा कान्तं सङ्केत उपनेष्यती ।
अभूत् काले बहिर्द्बारि बिभ्रती रूपमुत्तमम् ॥
मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ ! ।
तान् शुल्कदान् वित्तवतः कान्तान् मेनेऽर्थ-
कामुका ॥
आगतेष्वपयातेषु सा सङ्केतोपजीविनी ।
अप्यन्यो वित्तवान् कोऽपि मामुपैष्यति भूरिदः ॥
एवं दुराशया ध्वस्तनिद्रा द्वार्य्यवलम्बिनी ।
निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥
तस्या वित्ताशया शुष्यद्वक्त्वाया दीनचेतसः ।
निर्व्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥
तस्या निर्व्विन्नचित्ताया गीतं शृणु यथा मम ॥
निर्व्वेद आशापाशानां पुरुषस्य यथा ह्यसिः ।
नह्यङ्गाजातनिर्व्वेदो देहबन्धं जिहासति ॥
पिङ्गलोवाच ।
अहो मे मोहविततिं पश्यतां विजितात्मनः ।
या कान्तादसतः कामं कामये येन वालिशा ॥
सन्तं समीपे रमणं रतिप्रदं
वित्तप्रदं नित्यमिमं विहाय ।
अकामदं दुःखभयाधिशोक-
मोहप्रदं तुच्छमहं भजेऽज्ञा ॥
अहो मयात्मा परितापितो वृथा
साङ्केत्यवृत्त्यातिविगर्ह्य वार्त्तया ।
स्त्रैणान्नराद्यार्थतृषोऽनुशोच्यात्
क्रीतेन वित्तं रतिमात्मनेच्छती ॥
यदस्थिभिर्निर्म्मितवंशवंश्य-
स्थूणं त्वचा रोमनखैः पिनद्धम् ।
क्षरन्नवद्बारमगारमेतद्-
विण्मूत्रपूर्णं मदुपैति कान्या ॥
विदेहानां पुरे ह्यस्मिन्नहमेकैव मूढधीः ।
यान्यमिच्छत्यसत्यस्मादात्मदात् काममच्युतात् ॥
सुहृत् प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् ।
तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा ॥
कियत् प्रियन्ते व्यभजन् कामा ये कामदा नराः ।
आद्यन्तवन्तो भार्य्याया देवा वा कालविद्रुताः ।
नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्म्मणा ।
निर्व्वेदोऽयं दुराशाया यन्मे जातः सुखावहः ॥
मैवं स्युर्म्मन्दभाग्यायाः क्लेशा निर्व्वेदहेतवः ।
येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति ॥
तेनोपकृतमादाय शिरसा ग्राम्यसङ्गताः ।
त्यक्त्रा दुराशाः शरणं व्रजामि तमधीश्वरम् ॥
सन्तुष्टा श्रद्दधत्येतद्यथालाभेन जीवती ।
विहराम्यमुनैवाहमात्मना रमणेन वै ॥
संसारकूपे पतितं विषयैर्म्मुषितेक्षणम् ।
ग्रस्तं कालाहिनात्मानं कोऽन्यस्त्रातुमधी-
श्वरः ॥
आत्मैव ह्यात्मनो गोप्ता निर्व्विद्येत यदाखिलात् ।
अप्रमत्त इदं पश्येद्ग्रस्तं कालाहिना जगत् ॥
श्रीब्राह्मण उवाच ।
एवं व्यवसितमतिर्दुराशां कान्ततर्षजाम् ।
छित्त्वोपशममास्थाय शय्यामुपविवेश सा ॥
आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
यथा संछिद्य कान्ताशां सुखंसुष्वाप पिङ्गला ॥”
इति श्रीभागवते ११ स्कन्धे श्रीभगवदुद्धव-
संवादे अष्टमेऽध्याये । २२ -- ४३ ॥ * ॥
कर्णिका । नाडीविशेषः । इति हेमचन्द्रः ॥
पक्षिभेदः । राजरीतिः । इति राजनिर्घण्टः ॥
शिंशपावृक्षः । इति रत्नमाला ॥ * ॥
अथ पिङ्गलादिनाडीनिरूपणम् ।
“दक्षिणांशः स्मृतः सूर्य्यो वामभागो निशाकरः ।
नाडीर्द्दश विदुस्तासु मुख्यास्तिस्रः प्रकीर्त्तिताः ॥
इडा वामे तनोर्म्मध्ये सुषुम्णा पिङ्गला परे ।
मध्या तास्वपि नाडी स्यादग्नीसोमस्वरूपिणी ॥”
“अत्रेता वामवुक्काधःस्था धनुर्व्वक्रा वामनासा-
पर्य्यन्तं गता एवं पिङ्गला दक्षिणाण्डाधःस्था
धनुर्व्वक्रा दक्षिणनासान्तं गता पृष्ठवंशान्तर्गता
सुषुम्णा इत्यर्थः ।” इति सारदातिलकम् ॥
“नाडींनां संवहो देवि ! कञ्जयोनिः खगाण्डवत् ।
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ॥”
कञ्जस्य पद्मस्य योनिरुत्पत्तिस्थानं शालूकमिति
यावत् ।
“प्रधानाः प्राणवाहिन्यो भूयस्तत्र दश स्मृताः ।
इडा च पिङ्गला चैव सुषुम्णा च तृतीयिका ॥
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ।
अलम्बुषा कुहूश्चैव शङ्खिनी च दश स्मृताः ॥
एवं नाडीमयं चक्रं विज्ञेयं शक्तिचक्रके ।
इडायाः पिङ्गलायाश्च मध्ये या सा सुषुम्-
णिका ॥
इयञ्च त्रिगुणा ज्ञेया ब्रह्मविष्णुशिवात्मिका ।
रजोगुणा च वज्राख्या चित्रिणी सत्वसंयुता ॥
तमोगुणा ब्रह्मनाडी कार्य्यभेदक्रमेण च ॥”
इति निरुत्तरतन्त्रे प्रथमपटलः ॥
इडापिङ्गलथोः स्वरूपं यथा, --
“इडा च शङ्खचन्द्राभा तस्या वामे व्यवस्थिता ।
पिङ्गला सितरक्ताभा दक्षिणं पार्श्वमाश्रिता ॥”
इति योगार्णवः ॥
“इडायां संश्रितश्चन्द्रः पिङ्गलायां दिवाकरः ॥”
इति तन्त्रान्तरम् ॥

पिङ्गलिका, स्त्री, (पिङ्गलो बर्णोऽस्त्यस्या इति ।

पिङ्गल + ठन् ।) वलाका । इति जटाधरः ॥
(कीटविशेषः । यथा, सुश्रुते । ५ । ८ ।
“मक्षिकाः कान्तारिका कृष्णा पिङ्गलिका मधू-
लिका काषायी स्थालिकेत्येवं षट् ताभिर्दष्टस्य
दाहशोफौ भवतः ॥”)

पिङ्गसारः, पुं, (पिङ्गमेव सारो यस्य ।) हरि-

तालम् । इति राजनिर्घण्टः ॥ (हरितालशब्दे
विवृतिरस्य ज्ञातव्या ॥)

पिङ्गस्फटिकः, पुं, (पिङ्गः पिङ्गलवर्णः स्फटिकः

इति नित्यकर्म्मधारयः ।) गोमेदमणिः । इति
राजनिर्घण्टः ॥

पिङ्गा, स्त्री, (पिङ्गो वर्णोऽस्त्यस्या इति । अच्

टाप् च ।) गोरोचना । हिङ्गुः । नालिका ।
चण्डिका । इति मेदिनी । ने, ११ ॥ हरिद्रा ।
इति शब्दचन्द्रिका ॥ वंशरोचना । इति राज-
निर्घण्टः ॥ (स्वनामख्याता तपस्विनी । अस्या
आश्रमस्तु तीर्थस्थानत्वेन प्रसिद्धः । यथा,
महाभारते । ३ । ८२ । ५५ ।
“पिङ्गातीर्थ उपस्पृश्य ब्रह्मचारी नराधिप ! ।
कपिलानां नरव्याघ्र ! शतस्य फलमश्नुते ॥”
तथा च तत्रैव । १३ । २५ । ५३ ।
“उज्जानक उपस्पृश्य आर्ष्टिसेनस्य चाश्रमे ।
पिङ्गायाश्चाश्रमे स्नात्वा सर्व्वपापैः प्रमुच्यते ॥”)

पिङ्गाक्षः, पुं, (पिङ्गं अक्षि यस्य । षच् समासे ।)

शिवः । इति त्रिकाण्डशेषः ॥ (कुम्भीरः । पिङ्ग-
चक्षुःशब्ददर्शनात् ॥ द्रोणपुत्त्रखगविशेषः । यथा,
मार्कण्डेये । १ । २१ ।
“पिङ्गाक्षश्च विबोधश्च सुपुत्त्रः सुमुखस्तथा ।
द्रोणपुत्त्राः खगश्रेष्ठास्तत्वज्ञाः शास्त्रचिन्तकाः ॥”
पिङ्गलनेत्रे, त्रि । यथा, तत्रैव । ९९ । ४५ ।
“नमस्तेऽनल ! पिङ्गाक्ष ! नमस्तेऽस्तु हुता-
शन ! ॥”)

पिङ्गाशः, पुं, (पिङ्गं वर्णमश्नुते इति । अश +

अण् ।) पल्लीपतिः । मत्स्यभेदः । पाङ्गाश इति
भाषा ॥ जात्यस्वर्णे, क्ली । इति मेदिनी । शे, २५ ॥

पिङ्गाशी, स्त्री, (पिङ्गं वर्णमश्नुते इति । अश +

अण् । स्त्रियां ङीष् ।) नीलिका । इति मेदिनी ।
शे, २५ ॥

पिङ्गास्यः, पुं, (पिङ्गमास्यं वदनं यस्य ।) पिङ्गाश-

मत्स्यः । इति शब्दरत्नावली ॥

पिङ्गी, स्त्री, (पिङ्गो वर्णोऽस्त्यस्या इति । अच् ।

ततो गौरादित्वात् ङीष् ।) शमीवृक्षः । इति
मेदिनी । गे, १२ ॥

पिङ्गेक्षणः, पुं, (पिङ्गानि पिङ्गलवर्णानि ईक्षणानि

यस्य ।) शिवः । इति हेमचन्द्रः । २ । ११० ॥
(कुम्भीरः । पिङ्गचक्षुःशब्ददर्शनात् ॥ पिङ्गल-
नेत्रे, त्रि ॥)

पिचण्डः, पुं, (अपिचण्ड्यतेऽनेनेति । अपि +

चडि कोपे + घञ् । अपेरल्लोपः ।) पशोर-
वयवः । उदरम् । इति हेमचन्द्रः । ३ । २६८ ॥

पिचण्डिलः, त्रि, (अतिशयितं पिचण्डमुदरमस्य ।

पिचण्ड + तुन्दादित्वात् इलच् ।) तुन्दिलः ।
इति हेमचन्द्रः । ३ । ११४ ॥ (यथा, काशी-
खण्डे । ८७ । १२२ ।
“स्वाहाकारैर्व्वषड्कारैः सुरा जाताः पिच-
ण्डिलाः ।
रचिता गिरयस्तेन सदन्नानां पदे पदे ॥”)

पिचव्यः, पुं, (पिचवे तूलाय साधुः । पिचु + यत् ।)

कार्पासः । इति हेमचन्द्रः । ४ । २०५ ॥

पिचिण्डः, पुं, उदरम् । इत्यमरः । २ । ६ । ७७ ॥

तस्य लक्षणं यथा, --
“भोगाढ्याः समजठरा निःस्वाः स्युर्घटसन्निभाः ।
सर्पोदरा दरिद्राः स्युः -- ॥”
इति गारुडे ६३ अध्यायः ॥
पशोरवयवः । इति मेदिनी । डे, ३२ ॥
पृष्ठ ३/१३८

पिचिण्डिका, स्त्री, (पिचिण्ड इव पिण्डाकृतिरस्त्य-

स्येति । पिचिण्ड + ठन् ।) पिण्डिका । इति
हेमचन्द्रः । ३ । २७९ ॥ पार डिम् इति भाषा ॥

पिचिण्डिलः, पुं, (अतिशयितः पिचिण्ड उदर-

मस्य । पिचिण्ड + तुन्दादित्वात् इलच् ।)
बृहदुदरयुक्तः । इत्यमरः । २ । ६ । ४४ ॥ तत्-
पर्य्यायः । पिचण्डिलः २ बृहत्कुक्षिः ३ तुन्दी ४
तुन्दिकः ५ तुन्दिलः ६ उदरी ७ उदरिलः ८ ।
इति हेमचन्द्रः । ३ । ११४ ॥ (यथा, काशी-
खण्डे शिवशर्म्मणो वैकुण्ठलोकगमने विष्णुगण-
संवादे ।
“पिचिण्डिलैः स्थूलवक्त्रैर्मेघगम्भीरनिस्वनैः ॥”)

पिचुः, पुं, (पेचतीति । पिच मर्द्दने + मृगय्वादि-

त्वात् कुः ।) कार्पासतूलः । इत्यमरः । २ । ९ ।
१०६ ॥ (यथा, सुश्रुते । ४ । ६ ।
“अर्शो वीक्ष्य शलाकयोत्पीड्य पिचुवस्त्रयो-
रन्यतरेण प्रमृज्य क्षारं पातयेत् ॥”) कुष्ठ-
भेदः । कर्षः । असुरविशेषः । इति मेदिनी ।
चे, ७ ॥ भैरवः । शस्यभेदः । इति विश्वः ॥
(चिकित्सोपयोगिपञ्चकर्म्मान्तर्गतक्रियाविशेषः ।
यथा, --
“कामिन्यां पूतियोन्याञ्च कर्त्तव्यः स्वेदनो विधिः ।
क्रमः कार्य्यस्ततः स्नेहपिचुभिस्तर्पणं भवेत् ॥
शल्लकीजिङ्गिनीजम्बुधवत्वक्पञ्चवल्कलैः ।
कषायैः साधितैः स्नेहः पिचुः स्याद्विप्लुतापहः ॥”
इति वैद्यकचक्रपाणिसंग्रहे योनिव्यापच्चिकित्-
सायाम् ॥)

पिचुकः, पुं, (पिचुरिव कायतीति । कै + कः ।)

मदनवृक्षः । इति रत्नमाला ॥ मयना इति
भाषा ॥

पिचुतूलं, क्ली, (पिचोस्तूलम् ।) तूलः । इति

त्रिकाण्डशेषः ॥

पिचुमन्दः, पुं, (पिचुं कुष्ठविशेषं मन्दयति नाशय-

तीति । मन्द + अण् ।) निम्बवृक्षः । इति हेम-
चन्द्रः । ४ । २०५ ॥ (यथा, आर्य्यासप्त-
शत्याम् । ३४९ ।
“पश्यानुरूपमिन्दिन्दिरेण माकन्दशेखरो
मुखरः ।
अपि च पिचुमन्दमुकुले मौकुलिकुलमाकुलं
मिलति ॥”)

पिचुमर्द्दः, पुं, (पिचुं कुष्ठविशेषं मर्द्दयति मृद्ना-

तीति वा । मृद् + अण् ।) निम्बवृक्षः । इत्य-
मरः । २ । ४ । ६२ ॥ (यथा, देवीभागवते ।
३ । १० । १२ ।
“असतामुपकाराय दुर्ज्जनानां विभूतयः ।
पिचुमर्द्दः फलाढ्योऽपि काकैरेवोपभुज्यते ॥”
पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् ।
“कैटर्य्यः पिचुमर्द्दश्च निम्बोऽरिष्टो वरत्वचा ।
दर्द्दुघ्नो हिङ्गुनिर्य्यासः सर्व्वतोभद्र इत्यपि ॥”)

पिचुलः, पुं, (पिचुं लातीति । ला + कः ।)

झायुकः । इज्वलः । जलवायसः । इति मेदिनी ।
ले, ११२ ॥ तूलः । इत्यमरटीकायां सारसुन्दरी ॥

पिच्च क छेदे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क, पिच्चयति । इति दुर्गा-
दासः ॥

पिच्चटं, क्ली, (पिच्चयतीति । पिच्च छेदने +

अटन् ।) सीसकम् । रङ्गम् । (अस्य पर्य्यायो
यथा, वैद्यकरत्नमालायाम् ।
“रङ्गं वङ्गञ्च कस्तीरं मृद्वङ्गं पुत्त्र पिच्चटम् ॥”)
नेत्ररोगे, पुं । इति मेदिनी । टे, ५० ॥

पिच्छ, श बाधे । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) श, पिच्छती पिच्छन्ती ।
बाधो विहितिः । इति दुर्गादासः ॥

पिच्छं, क्ली, (पिच्छतीति । पिच्छ + अच् ।)

मयूरपुच्छम् । तत्पर्य्यायः । शिखण्डः २ वर्हम् ३ ।
इत्यमरः । २ । ५ । ३१ ॥ शिखिपुच्छम् ४
शिखण्डकम् ५ । इति शब्दरत्नावली ॥ (यथा,
अनर्घराघवे । ६ । ६५ ।
“तस्यारिबलभीमस्य ध्वजदण्डस्य लाञ्छनम् ।
दर्पदीप्तः क्षुरप्रेण मायूरं पिच्छमच्छिनत् ॥”)
चूडा । इति मेदिनी । छे, ५ ॥

पिच्छः, पुं, (पिच्छतीति । पिच्छ + अच् ।) लाङ्गू-

लम् । इति मेदिनी । छे, ५ ॥

पिच्छलदला, स्त्री, (पिच्छलं दलं पत्रं यस्याः ।)

वदरीवृक्षः । इति त्रिकाण्डशेषः ॥

पिच्छबाणः, पुं, (पिच्छं बाण इव यस्य ।) श्येन-

पक्षी । इति राजनिर्घण्टः ॥

पिच्छा, स्त्री, (पिच्छ + अजादित्वात् टाप् ।)

शाल्मलीवेष्टः । इत्यमरः । २ । ४ । ४७ ॥
(अस्याः पर्य्यायो यथा, --
“निर्य्यासः शाल्मलेः पिच्छा शाल्मली वेष्टको-
ऽपि च ।
मोचास्रावो मोचरसो मोचनिर्य्यास इत्यपि ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पूगः । छटा । कोषः । मोचा । भक्तसम्भूत-
मण्डम् । पङ्क्तिः । अश्वपदामयः । इति
मेदिनी । छे, ४ ॥ चोलिका । फणिलाला । इति
हारावली । २३० ॥ शिंशपावृक्षः । इति
शब्दचन्द्रिका ॥

पिच्छिका, स्त्री, (पिच्छं मयूरवर्हं अस्त्यत्रेति ।

पिच्छ + ठन् ।) चामरविशेषः । यथा । “पिच्छिकां
भ्रामयित्वा बहुविधं हास्यं कृत्वा पणमहैं
दस्म चरणे इदं अलिं अपिणा कुणमस्म ।”
इति रत्नावलीनाटके ४ अङ्कः ॥

पिच्छितिका, स्त्री, शिंशपा । इति शब्दचन्द्रिका ॥

(विवृतिरस्याः शिंशपाशब्दे ज्ञातव्या ॥)

पिच्छिलं, त्रि, (पिच्छा भक्तसम्भूतमण्डं अस्त्य-

स्येति । पिच्छादित्वात् इलच् ।) भक्तमण्ड-
युक्तम् । इति रायमुकुटः ॥ सरसव्यञ्जनादि ।
इति भरतः ॥ सूपादि । इति रमानाथः ।
स्निग्धसूपादि । इति भानुदीक्षितः ॥ मण्ड-
युक्तभक्तम् । जलयुक्तव्यञ्जनम् । इति नील-
कण्ठः ॥ तत्पर्य्यायः । विजिलम् २ । इत्यमरः ।
२ । ९ । ४६ ॥ विजयिनम् ३ विजिनम् ४ विज्ज-
लम् ५ इज्जलम् ६ लालसीकम् ७ । इति
वाचस्पतिः ॥ (यथा, छन्दोमञ्जर्य्याम् ।
“तरुणं सर्षपशाकं नवौदनानि पिच्छिलानि च
दधीनि ।
अल्पव्ययेन सुन्दरि ! ग्राम्यजनो मिष्टमश्नाति ॥”)
पिच्छयुक्तः ॥ (स्निग्धसरसपदार्थविशेषः । पेचल
इति भाषा ॥ यथा, साहित्यदर्पणे १० । ५५ ।
“काले वारिधराणामपतितया नैव शक्यते
स्थातुम् ।
उत्कण्ठितासि तरले ! नहि नहि सखि !
पिच्छिलः पन्थाः ॥”)

पिच्छिलः, पुं, (पिच्छं चूडास्त्यस्येति । पिच्छादि-

त्वात् इलच् ।) श्लेष्मान्तकवृक्षः । इति राज-
निर्घण्टः ॥

पिच्छिलकः, पुं, (पिच्छिलः सन् कायतीति । कै +

कः ।) धन्वनवृक्षः । इति राजनिर्घण्टः ॥

पिच्छिलच्छदा, स्त्री, (पिच्छिलश्छदो यस्याः ।)

उपोदकी । इति राजनिर्घण्टः ॥

पिच्छिलत्वक्, [च्] पुं, (पिच्छिला त्वग् यस्य ।)

नागरङ्गवृक्षः । इति त्रिकाण्डशेषः ॥ धन्वन-
वृक्षः । इति रत्नमाला ॥

पिच्छिलसारः, पुं, (पिच्छिलः सारो यस्य ।)

मोचरसः । इति राजनिर्घण्टः ॥

पिच्छिला, स्त्री, (पिच्छा + इलच् । ततष्टाप् ।)

पोतिका । शिंशपा । (अस्याः पर्य्यायो यथा,
वैद्यकरत्नमालायाम् ।
“पिङ्गला पिच्छिला वीरा कृष्णसारा च
शिंशपा ॥”)
शाल्मलिः । (अस्याः पर्य्यायो यथा, --
“शाल्मलिस्तु भवेन्मोचा पिच्छिला पूरणीति च ।
रक्तपुष्पा स्थिरायुश्च कण्टकाढ्या च तूलिनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
सिन्धुभेदः । इति मेदिनी । ले, ११५ । कोकि-
लाक्षः । वृश्चिकाक्षुपः । शूलीतृणम् । अतसी ।
इति राजनिर्घण्टः ॥ कच्वी । इति शब्द-
चन्द्रिका ॥

पिज, इ क भाषट्टार्थे । इति कविकल्पद्रुमः ॥

(चुरां-परं-अकं-सकं च-सेट् ।) इ क पिञ्ज्य-
यति । भाः दीप्तिः । षट्टार्थो निकेतनहिंसा-
बलदानानि । इति दुर्गादासः ॥

पिज, इ ल ङ वर्णपूजयोः । इति कविकल्पद्रुमः ॥

(अदां-आत्मं-अकं-सकं च-सेट् ।) इ, पिञ्ज्यते ।
ल ङ, पिङ्क्ते । इति दुर्गादासः ॥

पिञ्जं, क्ली, (पिञ्ज बले + भावे घञ् ।) बलम् ।

व्याकुले, त्रि । इति मेदिनी । जे, १३ ॥

पिञ्जः, पुं, (पिञ्ज वधे + भावे घञ् ।) वधः । इत्य-

मरः । २ । ८ । ११५ ॥ कर्पूरभेदः । इति राज-
निर्घण्टः ॥

पिञ्जटः, पुं, (पिञ्जयति नेत्रं दूषयतीति । पिजि +

अटन् ।) नेत्रमलम् । पिँचुटि इति भाषा ॥
यथा, शब्दरत्नावल्याम् ।
“दूषीका दूषिका दूषिः पिञ्जेटपिञ्जटावपि ॥”
पृष्ठ ३/१३९

पिञ्जनं, क्ली, (पिञ्ज्यतेऽनेनेति । पिजि स्फोटने +

करणे ल्युट् ।) कार्पासस्फोटनधनुः । तत्पर्य्यायः ।
विहननम् २ तूलस्फोटनकार्मुकम् ३ । इति
हेमचन्द्रः । ३ । ५७६ ॥

पिञ्जरं, क्ली, (पिजि दीप्तौ वर्णे वा + बाहुलकात्

अरः । इत्युज्ज्वलदत्तः । ३ । १३१ ।) हरि
तालम् । इत्यमरः । २ । ९ । १०३ ॥ स्वर्णम् ।
इति मेदिनी । रे, १८५ ॥ नागकेशरम् । इति
राजनिर्घण्टः ॥ पक्ष्यादिबन्धनगृहम् । कायास्थि-
बृन्दम् । इत्यमरटीकायां रामाश्रमः ॥

पिञ्जरः, पुं, (पिजि + अरः ।) अश्वभेदः । पीत-

रक्तवर्णः । इति हेमचन्द्रः ॥ (सुमेरुपश्चिम-
पार्श्वस्थपर्व्वतविशेषः । यथा, मार्कण्डेये । ५५ । ९ ।
“पिञ्जरोऽथ महाभद्रः सुरसः कपिलो मधुः ॥”)
पीते, त्रि । इति मेदिनी । रे, ११५ ॥ (यथा,
आर्य्यासप्तशत्याम् । ३९१ ।
“प्रियया कुङ्कुमपिञ्जरपाणिद्बययोजनाङ्कितं
वासः ।
प्रहितं मां याच्ञाञ्जलिसहस्रकिरणाय शिक्ष-
यति ॥”)

पिञ्जरकं, क्ली, (पिञ्जरमेव । स्वार्थे कन् ।) हरि-

तालम् । इति राजनिर्घण्टः ॥ (पुं, नाग-
विशेषः । यथा, महाभारते । १ । ३५ । ६ ।
“नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥”)

पिञ्जलं, क्ली, (पिजि हिंसायां वर्णे च + कलच् ।)

कुशपत्रम् । हरितालम् । इति धरणिः ॥

पिञ्जलः, पुं, (पिजि + कलच् ।) अत्यन्तव्याकुल-

सैन्यादिः । इत्यमरः । २ । ८ । ९९ ॥

पिञ्जली, स्त्री, (पिञ्जल + स्त्रियां ङीष् ।) कुशा-

न्तरवेष्टितप्रादेशमात्रसाग्रकुशपत्रद्वयम् । अस्या
नामान्तरं पवित्रम् । यथा, --
“अनन्तर्गर्भिणं साग्रं कौशं द्विदलमेव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥
एतदेव हि पिञ्जल्या लक्षणं समुदाहृतम् ॥”
इति छन्दोगपरिशिष्टम् ॥

पिञ्जा, स्त्री, (पिञ्ज्यते स्फोट्यते इति । पिञ्ज +

गुरोश्चेत्यः । ततष्टाप् ।) तूलम् । हरिद्रा ।
इति त्रिकाण्डशेषः ॥ छडी । छडा इति भाषा ॥
यथा, शब्दमालायाम् ।
“प्रोत्फलः सिंहला स्थानश्छडी पिञ्जा छटापि च ॥”

पिञ्जानं, क्ली, स्वर्णम् । इति राजनिर्घण्टः ॥

पिञ्जिका, स्त्री, (पिञ्जयतीति । पिजि + ण्वुल् ।

टापि अत इत्वम् ।) तूलनालिका । इति
त्रिकाण्डशेषः ॥ पाँइज इति भाषा ॥

पिञ्जूलं, क्ली, (पिञ्जयतीति । पिजि + “खर्जि-

पिञ्ज्यादिभ्य ऊरोलचौ ।” उणां ४ । ९० । इति
ऊलच् ।) वर्त्तिका । इत्युणादिकोषः ॥

पिञ्जूषः, पुं, (पिञ्जयति हिनस्ति कर्णौ इति । पिजि

+ बाहुलकात् ऊषन् ।) कर्णमलम् । इति
हेमचन्द्रः । २ । २९६ ॥

पिञ्जेटः, पुं, (पिञ्जटः । पृषोदरादित्वात् साधुः ।)

नेत्रमलम् । इति शब्दरत्नावली ॥

पिञ्जोला, स्त्री, (पिञ्जयतीति । पिजि + बाहुलकात्

ओलः ।) पत्रकाहला । पत्रशब्दः । इति
हारावली । २०७ ॥

पिट, संहतौ । ध्वनौ । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-अकंच-सेट् ।) पेटति जनः किञ्चि-
द्राशीकरोति शब्दायते वा । इति दुर्गादासः ॥

पिटं, क्ली, (पेटति संहतो भवतीति । पिट +

कः ।) चालः । इति त्रिकाण्डशेषः ॥

पिटः, पुं, (पेटति द्रव्यान्तरैः संहतो भवतीति ।

पिट सहतौ + कः ।) पेटः । इति धरणिः ॥
पेटारा इति भाषा ॥

पिटकः, पुं, क्ली, (पेटतीति । पिट् + क्वुन् ।) वंश-

वेत्रादिमयसमुद्गकः । पेटारी इति पेटा इति
पेडा इति च ख्यातः । तत्पर्य्यायः । पेटकः २
पेडा ३ मञ्जूषा ४ । इत्यमरः । २ । १० । ३० ॥
आद्यौ स्वल्पपेटिकायाम् । इति स्वामी ॥ पेटः ५
पेटिका ६ तरिः ७ तरी ८ मञ्जुषा ९ पेडिका १० ।
इति शब्दरत्नावली ॥ (यथा, मार्कण्डेये ।
५० । ८६ ।
“कुद्दालदात्रपिटकास्तद्वत् स्थाल्यादिभाज-
नम् ॥”)
विस्फोटे, त्रि । इति मेदिनी । के, १२० ॥ (देहे-
स्थानभेदेन जातस्यास्य शुभाशुभमुक्तम् । यथा,
बृहत्संहितायाम् । ५२ । १ -- १० ।
“सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका
ये ।
ते क्रमशः प्रोक्तफला वर्णानामग्रजादीनाम् ॥
सुस्निग्धव्यक्तशोभाः शिरसि धनचयं मूर्द्ध्नि-
सौभाग्यमाराद्
दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनामाशु दुःशी-
लताञ्च ।
तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्ट-
दृष्टिं
प्रव्रज्यां शङ्खदेशेऽश्रुजलनिपतनस्थानगाश्चाति
चिन्ताम् ॥
घ्राणागण्डे वसनसुतदाश्चोष्ठयोरन्नलाभं
कुर्य्युस्तद्वच्चिबुकतलगा भूरि वित्तं ललाटे ।
हन्वोरेवं गलकृतपदा भूषणान्यन्नपाने
श्रोत्रे तद्भूषणगणमपि ज्ञानमात्मस्वरूपम् ॥
शिरःसन्धिग्रीवाहृदयकुचपार्श्वोरसि गता
अयोघातं घातं सुततनयलाभं शुचमपि ।
प्रियप्राप्तिं स्कन्धेऽप्यटनमथ भिक्षार्थमसकृद्-
विनाशं कक्षोत्था विदधति धनानां बहु
सुखम् ॥
दुःखशत्रुनिचयस्य विघातं
पृष्ठबाहुयुगजा रचयन्ति ।
संयमञ्च मणिबन्धनजाता
भूषणाद्यमुपबाहुयुगोत्थाः ॥
धनाप्तिं सौभाग्यं शुचमपि कराङ्गुल्युदरगाः
सुपानान्नं नाभौ तदध इह चौरैर्धनहृतिम् ।
धनं धान्यं घस्तौ युवतिमथ मेढ्रे सुतनयान्
धनं सौभाग्यं वा गुदवृषणजाता विदधति ॥
ऊर्वोर्यानाङ्गनालाभं जान्वोः शत्रुजनात्
क्षतिम् ।
शस्त्रेण जङ्घयोर्गुल्फेऽध्वबन्धक्लेशदायिनः ॥
स्फिक्पार्ष्णिपादजाता
धननाशागम्यगमनमध्वानम् ।
बन्धनमङ्गुलिनिचये-
ऽङ्गुष्ठे च ज्ञातिलोकतः पूजाम् ॥
उत्पातगण्डपिटका
दक्षिणतो वामतस्त्वभीघाताः ।
धन्या भवन्ति पुंसां
तद्विपरीतास्तु नारीणाम् ॥
इति पिटकविभागः प्रोक्त आ मूर्द्धतोऽयं
व्रणतिलकविभागोऽप्येवमेव प्रकल्प्यः ।
भवति मशकलक्ष्मावर्त्तजन्मापि तद्व-
न्निगदितफलकारि प्राणिनां देहसंस्थम् ॥”)

पिटङ्काशः, पुं, पर्व्वतोर्म्मिमत्स्यः । इति भूरि-

प्रयोगः ॥

पिटङ्कोकी, स्त्री, इन्द्रवारुणी । इति रत्नमाला ॥

पिटाकः, पुं, मुनिविशेषः । इत्युणादिकोषः ॥

पिट्टकं, क्ली, (किट्टकं पृषोदरादित्वात् कस्य पः ।)

दन्तकिट्टकम् । इति शब्दरत्नावली ॥

पिठ, क्लिशि । वधे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-वधे सकं-सेट् ।) ओष्ठ्यवर्गाद्यादिः ।
पेठति । पिपिठतुः । क्लिशि दुःखानुभवे । इति
दुर्गादासः ॥

पिठरं, क्ली, (पिठं रातीति । रा + कः ।) मुस्ता ।

मन्थानदण्डः । इति मेदिनी । रे, १८४ ॥

पिठरः, पुं, (पिठ्यते क्लिश्यतेऽनेनेति । पिठ +

करन् ।) गृहभेदः ॥ तत्पर्य्यायः । कुद्रङ्कः २
उद्वाटः ३ । इति त्रिकाण्डशेषः ॥ (यथा,
अर्य्यासप्तशत्याम् । ५५२ ।
“विद्यज्ज्वालावलयितजलधरपिठरोदराद्विनिर्य्यान्ति ॥”)
स्थाली । इत्यमरः । २ । ९ । ३१ ॥ (यथा,
महाभारते । ३ । ३ । ७२ ।
“गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप ! ।
यावत् वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत ! ॥”
अग्निविशेषः । यथा, हरिवंशे । १७८ । ३३ ।
“पिठरः पतगः स्वर्गश्चागाधो भ्राज एव च ।
स्वधाकाराश्रयाः पञ्च अयुध्यंस्तेऽपि चाग्नयः ॥”
दानवविशेषः । यथा, महाभारते । २ । ९ । १३ ।
“घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ॥”)

पिठरी, स्त्री, (पिठर + स्त्रियां ङीष् ।) स्थाली ।

इत्यमरटीकायां रायमुकुटः ॥

पिड, इ क संहतौ । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) इ क, पिण्डयति । संहतिः
राशीकरणम् । इति दुर्गादासः ॥

पिड, इ ङ संहतौ । इति कविकल्पद्रुमः ॥ (भ्वां

आत्मं-अकं सेट् । सकं इति केचित् ।) इ
पिण्ड्यते । ङ, पिण्डते । इति दुर्गादासः ॥

पिडकः पुं, (पीडयतीति । पीड + ण्वुल् । निपा-

तनात् साधुः ।) स्फोटकः । इति हेमचन्द्रः । ३ ।
१३० ॥