शब्दकल्पद्रुमः/पद्मा

विकिस्रोतः तः
पृष्ठ ३/०४४

पद्मा, स्त्री, (पद्मं वासस्थलत्वेनास्त्यस्याः । “अर्श

आदिभ्योऽच् ।” ५ । २ । १२७ । इति अच्
टाप् च ।) लक्ष्मीः । (यथा, रघुः । ४ । ५ ।
“छायामण्डललक्ष्येण तमदृश्या किल स्वयम् ।
पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥”)
लवङ्गम् । पद्मचारिणी । इत्यमरः ॥ (पद्यते इति ।
“अर्त्तिस्तुस्विति ।” उणां । १ । १४० । इति मन्
टाप् च ।) पन्नगी । सा तु मनसा । फञ्जिका ।
इति मेदिनीशब्दरत्नावल्यौ ॥ वृत्तार्हत्माता ।
इति हेमचन्द्रः ॥ कुसुम्भपुष्पम् । इति रत्नमाला ॥
बृहद्रथराजकन्या कल्किदेवेन विवाहिता ।
यथा, कल्किपुराणे १० अध्यायः ॥
“हरेरागमनं श्रुत्वा सहर्षोऽभूदवृहद्रथः ।
पुरोधसा ब्राह्मणैश्च पात्रैर्मित्रैः सुमङ्गलैः ॥
वाद्यताण्डवगीतैश्च पूजायोजनपाणिभिः ।
जगामानयितुं कल्किं सार्द्धं निजजनैः प्रभुः ॥
ततो जलाशयाभ्यासं गत्वा विष्णुयशःसुतम् ।
मणिवेदिकमासीनं भुवनैकगतिं पतिम् ॥
ददर्श पुरतो राजा रूपशीलगुणाकरम् ।
साश्रुः सपुलकः श्रीशं दृष्ट्वा साधु तमर्च्चयत् ॥
ज्ञानागोचरमेतन्मे तवागमनमीश्वर ! ।
यथा मान्धातृपुत्त्रस्य यदुनाथेन कानने ॥
इत्यक्त्रा तं पूजयित्वा समानीय निजाश्रमे ।
हर्म्यप्रासादसंबाधे स्थापयित्वा ददौ सुताम् ॥
पद्मां पद्मविशालाक्षीं पद्मनेत्राय पद्मिनीम् ।
पद्मजादेशितः पद्मनाभायादादयथा श्रियम् ॥
कल्किर्लब्ध्वा प्रियां भार्य्यां सिंहले साधु सत्कृतः ।
समुवास विशेषज्ञः समीक्ष्य द्वीपमुत्तमम् ॥”

पद्माकरः, पुं, (पद्मस्य आकरः ।) पद्मजनक-

जलाशयः । तत्पर्य्यायः । तडागः २ कासारः ३
सरसी ४ सरः ५ । इत्यमरः । १ । १० । २८ ॥
सरोजिनी ६ । इति जटाधरः ॥ सरोवरः ७
तडाकः ८ तटाकः ९ सरसम् १० सरम् ११
सरकम् १२ । इति शब्दरत्नावलो ॥ पञ्च
सदैवागाधे महाजलाशये सपद्मे योग्यतया
निष्पद्मे च । पञ्चैव सरोमात्रे । इति पञ्जिका-
कोङ्ककटादयोऽपि । पद्माकरादिद्बयं सपद्मा-
गाधजलाशये । कासारादित्रयं कृत्रिमपद्मा-
करे । इति स्वाम्यादयः । पद्माकरादिद्बयं पद्म-
युक्तजलाशयमात्रे । कासारादित्रयं सरोवर-
मात्रे । इत्यन्ये । पद्मानामाकर उत्पत्तिस्थानं
पद्माकरः क्वचित् पद्मशून्येऽपि योग्यतयेति
सुभूतिः । इति भरतः ॥

पद्माक्षं, क्ली, (पद्मस्य अक्षीव । समासे षच् ।)

पद्मबीजम् । इति हारावली ॥ (पद्मे इव पद्मयु-
गलवत् अक्षिणी यस्य ।) पद्मतुल्याक्षे त्रि ॥

पद्माटः, पुं, (पद्मं पद्मसादृश्यं अटति गच्छति

पत्रेणेति अट गतौ + “कर्म्मण्यण् ।” ३ । २ । १ ।
इति अण् ।) चक्रमर्द्दः । इत्यमरः । २ । ४ ।
१४७ ॥

पद्मालया, स्त्री, (पद्ममेव आलयो वासस्थानं

यस्याः ।) लक्ष्मीः । लवङ्गम् । इत्यमरः ॥ (लक्ष्मी-
स्वरूपत्वात् गङ्गापि । यथा, काशीखण्डे गङ्गा-
सहस्रनामकीर्त्तने । २९ । १०५ ।
“पद्मालया पराशक्तिः पुरजित्परमप्रिया ॥”)

पद्मावती, स्त्री, (पद्म + अस्त्यर्थे मतुप् मस्य वत्वम् ।

संज्ञायां दीर्घः ।) मनसादेवी । नदीविशेषः ।
पद्मा इति ख्याता । इति शब्दरत्नावली ॥
पद्मचारिणी । इति जटाधरः ॥ जयदेवपत्नी ।
यथा, --
“जयति पद्मावतीरमणजयदेव-
कविभारतीभणितमतिशातम् ।”
इति गीतगोविन्दः ॥

पद्मावतीप्रियः, पुं, (पद्मावत्याः प्रियः स्वामी ।)

जरत्कारुमुनिः । इति शब्दरत्नावली ॥ जय-
देवश्च ॥

पद्मासनं, क्ली, (पद्ममिव पद्माकारेण बद्धमित्यर्थः ।

आसनम् ।) योगासनविशेषः । यथा, --
“वामोरूपरि दक्षिणं नियमतः संस्थाप्य वामं
तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्या कराभ्यां
धृतम् ।
अङ्गुष्ठं हृदये निधाय चिवुकं नासाग्रमालोकये-
देतद्व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते ॥”
अन्यदत्रापि ।
“वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं
तथा-
प्यन्योरूपरि तस्य बन्धनविधौ धृत्वा कराभ्यां
दृढम् ।
अङ्गुष्ठं हृदये निधाय चिवुंकं नासाग्रमालोकये-
देतद्व्याधिविनाशकारि यमिनां पद्मासनं
प्रोच्यते ॥”
इति गोरक्षसंहिता ॥
(मत्स्येन्द्रनाथाभिमतं पद्मासनं यथा, हठयोग-
दीपिकायाम् । १ । ४४-४७ ।
“वामोरूपरिदक्षिणं च चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन् विधिना धृत्वा कराम्यां दृढं ।
अङ्गुष्ठौ हृदये निघाय चिवुकं नासाग्र-
मालोकयेदेतद्व्याधिविनाशकारि यमिनां
पद्मासनं प्रोच्यते ॥
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।
ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततोदृशौ ॥
नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया ।
उत्तम्भ्य चिवुकं वक्षस्युत्थाप्य पवनं शनैः ॥
इदं पद्मासनं प्रोक्तं सर्व्वव्याधिविनाशनम् ।
दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥”)
पूजार्थं धातुमयपद्माकारासनञ्च ।
(रतिविषयकपद्मासनम् यथा, रतिमञ्जर्य्याम् ४०
“पद्मासनो नागपादो लतावेष्टोऽर्द्धसंपुटः ॥”
तल्लक्षणं यथा, तत्रैव ४२ ।
“हस्ताभ्याञ्च समालिङ्ग्य नारीं पद्मासनोपरि ।
रमेद्गाढं समाकृष्य बन्धोऽयं पद्मसंज्ञकः ॥”)

पद्मासनः, पुं, (पद्मं विष्णुनाभिकमलं आसनं

यस्य ।) ब्रह्मा । कमलासनः । इत्यमरदर्शनात् ॥

पद्माह्वा, स्त्री, (पद्मस्य आह्वा आख्या यस्याः ।)

पद्मचारिणी । इति राजनिर्घण्टः ।

पद्मिनी, स्त्री, (पद्मानि सन्त्यस्याम् । पुष्करा-

दित्वादिनिः ।) पद्मयुक्तदेशः । पद्मसमूहः ।
पद्मलता । इति भरतः ॥ तत्पर्य्यायः ।
नलिनी २ विसिनी ३ । इत्यमरः । १ । १० । ३९ ॥
मृणालिनी ४ कमलिनी ५ पुटकिनी ६ पङ्क-
जिनी ७ सरोजिनी ८ । इति माधवः ॥
नालिकिंनी ९ नालीकिनी १० अरबिन्दिनी ११ ।
इति कोषान्तरम् ॥ अम्भोजिनी १२ पुष्क-
रिणी १३ जम्बालिनी १४ । इति शब्दरत्ना-
वली ॥ अब्जिनी १५ । तस्या लक्षणं यथा, --
“मूलनालदलोत्फुल्लफलैः समुदिता पुनः ।
पद्मिनी प्रोच्यते प्राज्ञैर्विसिन्यादिश्च सा स्मृता ॥”
तस्या गुणाः ।
“पद्मिनी मधुरा तिक्ता कषाया शिशिरा परा ।
पित्तक्रिमिशोषवान्तिभ्रान्तिसन्तापदोषहृत् ॥”
इति राजनिर्घण्टः ॥ * ॥
(पद्मं पद्मगन्धोऽस्त्यस्याः पद्मस्य गन्ध इव गन्धो
विद्यते शरीरे यस्या इति तात्पर्य्यार्थः अत्रतु पद्म-
गन्धयोस्तादात्म्यमङ्गीकृत्यैव समासः कल्पितः ।)
चतुर्व्विधस्त्रीमध्ये स्त्रीविशेषः । तस्या लक्षणं
यथा, --
“भवति कमलनेत्रा नासिकाक्षुद्ररन्ध्रा
अविरलकुचयुग्मा दीर्घकेशी कृशाङ्गी ।
मृदुवचनसुशीला नृत्यगीतानुरक्ता
सकलतनुसुवेशा पद्मिनी पद्मगन्धा ॥”
इति रतिमञ्जरी । ४ ॥ * ॥
(अस्या रतिप्रकारः यदुक्तः तत्रैव । २८ ।
“कुचं करेण संमर्द्य पीडयेदधरं दृढम् ।
रमणं पद्मबन्धेन पद्मिनीरतिमादिशेत् ॥”)
सरोवरम् । पद्मम् । इति विश्वः ॥ (यथा,
कुमारे । ३ । ७६ ।
“सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नां
प्रतिपथगतिरासीद् वेगदीर्घीकृताङ्गः ॥”)
मृणालम् । इति शब्दमाला ॥ हस्तिनी । इति
धरणिः ॥

पद्मिनीकण्टकः, पुं, (पद्मिनीकण्टक इव आकृति-

र्विद्यतेऽस्य ।) क्षुद्ररोगविशेषः । पद्मकाँटा
इति भाषा । तल्लक्षणं यथा, --
“कण्टकैराचितं वृत्तं कण्डूमत्पाण्डुमण्डलम् ।
पद्मिनी कण्टकप्रख्यैस्तदाख्यं कफवातजम् ॥”
आचितं व्याप्तम् । पद्मिनीकण्टकप्रख्यैः पद्मिनी-
नालकण्टकसदृशैः । तदाख्यं पद्मिनीकण्टक-
नामकम् ॥ * ॥
तच्चिकित्सा यथा, --
“पद्मिनीकण्टके रोगे छर्द्दयेन्निम्बवारिणा ।
तेनैव सिद्धं सक्षौद्रं सर्पिः पातुं प्रदापयेत् ॥
निम्बारग्बधकल्कैर्व्वा मुहुरुद्बर्त्तनं हितम् ।
चतुर्गुणेन निम्बोत्थपत्रक्वाथेन गोघृतम् ॥
पचेत्ततस्तु निम्बस्य कृतमालस्य पत्रजैः ।
कल्कैर्भूयः पचेत् सिद्धं तत् पिबेत् पलसंमितम् ॥
पृष्ठ ३/०४५
पद्मिनीकण्टकाद्रोगान्मुक्तो भवति नान्यथा ॥”
इति निम्बादिघृतम् । इति भावप्रकाशः ॥

पद्मिनीकान्तः, पुं, (पद्मिन्याः कान्तः । पद्मपुष्प-

प्रकाशकत्वादस्य तथात्वम् ।) सूर्य्यः । इति
जटाधरः ॥

पद्मिनीवल्लभः, पुं, (पद्मिन्या नलिन्या वल्लभः प्रियः ।

पद्मिनी वल्लभाऽस्येति वा ।) सूर्य्यः । इति शब्द-
रत्नावली ॥

पद्मी, [न्] पुं, (पद्मं बिन्दुजालकमस्त्यस्य । पद्म

+ इनिः ।) हस्ती । इत्यमरः । २ । ८ । ३५ ॥
(यथा, महाभारते । १२ । २९ । ६६ ।
“सर्व्वा रथगताः कन्या रथाः सर्व्वे चतुर्युजः ।
शतं शतं रथे नागाः पद्मिनो हेममालिनः ॥”
नाभिकमले हस्ते वा पद्ममस्यास्तीति । विष्णुः ।
यथा, महाभारते । १३ । १४९ । ५० ।
“अनुकूलः शतावर्त्तः पद्मी पद्मनिभेक्षणः ।
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ॥”)

पद्मेशयः, पुं, (पद्मे शेते इति । शी ङ ल शयने +

“अधिकरणे शेतेः ।” ३ । २ । १५ । इति
अच् । “शयवासवासिष्विति ।” ६ । ३ । १८ ।
इत्यलुक् ।) विष्णुः । इति हेमचन्द्रः ॥

पद्मोत्तरः, पुं, (पद्मादुत्तरः वर्णतः श्रेष्ठः ।)

कुसुम्भः । इति राजनिर्घण्टः ॥

पद्मोत्तरात्मजः, पुं, (पद्मोत्तरस्य आत्मजः पुत्त्रः ।)

जिनचक्रवर्त्तिविशेषंः । इति हेमचन्द्रः ॥

पद्मोद्भवः, पुं, (पद्मं उद्भव उत्पत्तिस्थानं यद्वा पद्मे

पद्माद्वा उद्भवो यस्य ।) ब्रह्मा । अब्जयोनिरित्य-
मरदर्शनात् ॥ (यथा, महाभारते । १३ । ६ । ४ ।
“ततः पद्मोद्भवो राजन् ! देवदेवः पितामहः ।
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ॥”)

पद्मोद्भवा, स्त्री, (पद्मे पद्माद्वा उद्भवो यस्याः ।)

मनसा देवी । यथास्याः पौराणिकध्यानम् ।
“कान्त्या काञ्चनसन्निभां सुवदनां पद्मासनां शोभनां
नागेन्द्रैः कृतशेखरां विषहरीं पद्मोद्भवां जाङ्ग-
लीम् ॥”

पद्यं, क्ली, (पदं चरणमर्हतीति । पद + यत् ।)

कविकृतिः । श्लोकः । इत्यमरः । ३ । ५ । ३१ ॥
तस्य लक्षणं यथा, छन्दोमञ्जर्य्याम् ।
“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा ।
वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥”
(तत्तु अन्वयगतिवशात् मुक्तकयुग्मकसन्दानितक-
कलापककुलकभेदात् पञ्चविधम् । यदुक्तं साहित्य-
दर्पणे । ६ । २८७ ।
“छन्दोबद्धपदं पद्यं तेनैकेन च मुक्तकम् ।
द्बाभ्यान्तु युग्मकं सन्दानितकं त्रिभिरिष्यते ॥
कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम् ॥”
“तदूर्द्ध्वं कुलकं स्मृतम् ।” इति क्वचित् पाठः ॥)
शाठ्यम् । इति जटाधरः ॥ (“पदमस्मिन्
दृश्यम् ।” ४ । ४ । ८७ । इति यत् । नाति-
शुष्ककर्द्दमः । इति सिद्धान्तकौमुदी ॥)

पद्यः, पुं, (पद्भ्यां जातः । पद + यत् ।) शूद्रः ।

इति मेदिनी ॥ (यदुक्तं यजुषि ।
“ब्राह्मणोऽस्य मुखमासीत् बाहू राजन्यः कृतः ।
ऊरूतदस्य यद् वैश्यः पद्भ्यां शूद्रोव्यजायत ॥”)

पद्या, स्त्री, (पादाय हिता । शरीरावयवात् यत् ।

“पद्यत्यतदर्थे ।” ६ । ३ । ५२ । इति पद्भावः ।)
स्तुतिः । इति विश्वः ॥ पन्थाः । इत्य-
मरः । २ । १ । १५ ॥ (यथा, ऋग्वेदे । २ । ३१ । २ ।
“यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ
जङ्घनन्त पाणिभिः ॥” पादौ विध्यन्ति पद्याः
शर्कराः । इति सिद्धान्तकौमुदी । “विध्यत्यध-
नुषा ।” ४ । ४ । ८३ । इति यत् । “पद्यत्य-
तदर्थे ।” ६ । ३ । ५२ । इति पदादेशः ॥)

पद्रः, पुं, (पद्यतेऽस्मिन्निति । पद गतौ । “स्फायि-

तञ्चीति ।” उणां । २ । १३ । इति रक् ।)
ग्रामः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
ग्रामपथः । इत्युणादिकोषः ॥ भूलोकः । देश-
भेदः । इति संक्षिप्तसारोणादिवृत्तिः ॥

पद्वः, पुं, (पद्यते गम्यतेऽस्मिन्ननेन वा । पद गतौ

“सर्व्वनिघृष्वरिष्वेति ।” उणां । १ । १५३ । इति
निपातनात् सिद्धम् ।) भूलोकः । रथः । इति
संक्षिप्तसारोणादिवृत्तिः ॥ पन्थाः । इत्युणादि-
कोषः ॥

पद्वा, [न्] पुं, (पद्यते गम्यते यत्र । पद गतौ +

“स्नामदिपदीति ।” उणां । ४ । ११२ । इति
वनिप् ।) पत्थाः । इति संक्षिप्तसारोणादिवृत्तिः ॥

पन, ङ ईडे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

सकं-सेट् ।) ईडः स्तुतिः । पनायति पनायते
विष्णुं धीरः । आयान्तत्वादुभयपदमिति वोप-
देवः । अरे तु आयस्याप्राप्तिपक्षे आत्मनेपद-
मेव । ङ, अपनिष्ट पेने पनिता पनिषीष्ट पनि-
ष्यते अपनिष्यत । इति दुर्गादासः ॥

पनसः, पुं, (पनाय्यते स्तूयतेऽनेन देवः मनुष्यादि-

र्वेति । यद्वा पनायति स्तौति सन्तोषयती-
त्यर्थः देवमनुष्यादीन् इति । पन स्तुतौ +
“अत्यविचमितमीति ।” उणां । ३ । ११७ ।
इति असच् ।) फलवृक्षविशेषः । काँटाल इति
भाषा ॥ (यथा भागवते । ८ । २ । १० ।
“चूतैः प्रियालैः पनसैराम्रैराम्रातकैरपि ॥”)
तत्पर्य्यायः । कण्टकिफलः २ । इत्यमरः ।
२ । ४ । ६१ ॥ महासर्ज्जः ३ फलिनः ४ फलवृक्षकः ५
स्थूलः ६ कण्टफलः ७ मूलफलदः ८ अपुष्प-
फलदः ९ पूतफलः १० चम्पकोषः ११ चम्पालुः १२
कण्टकीफलः १३ रसालः १४ मृदङ्गफलः १५
पानसः १६ । इति शब्दरत्नावली ॥ अस्य फल-
गुणाः । मधुरत्वम् । सुपिच्छिलत्वम् । गुरुत्वम् ।
हृद्यत्वम् । बलवीर्य्यवृद्बिदत्वम् । श्रमदाह-
विशोषनाशित्वम् । रुचिकारित्वम् । ग्राहित्वम् ।
परमदुर्ज्जरत्वञ्च । तद्बीजगुणाः । ईषत्कषाय-
त्वम् । मधुरत्वम् । वातलत्वम् । गुरुत्वम् ।
रुच्यत्वम् । तत्फलविकारत्वग्दोषनाशित्वञ्च ।
“बालन्तु नीरसं हृद्यं मध्यं पक्वन्तु दीपनम् ।
रुचिदं लवणाभ्यक्तं पनसस्य फलं स्मृतम् ॥”
इति राजनिर्घण्टः ॥ * ॥
“पनसः कण्टकिफलः फणाशोऽतिबृहत्फलः ।
पनसं शीतलं पक्वं स्निग्धं पित्तानिलापहम् ॥
तर्पणं बृंहणं स्वादु मांसलं श्लेष्मलं भृशम् ।
बल्यं शुक्रप्रदं हन्ति रक्तपित्तक्षतक्षयान् ॥
आमन्तदेव विष्टम्भि वातलं तुवरं गुरु ।
दाहकृन्मधुरं बल्यं कफमेदोविमर्द्दनम् ॥
पनसोद्भूतबीजानि वृष्याणि मधुराणि च ।
गुरूणि वद्धवर्चांसि सृष्टमूत्राणि संवदेत् ॥”
अन्यच्च ।
“मज्जाः पनसजो वृष्यो वातपित्तकफापहः ।
विशेषात् पनसं वर्ज्यं गुल्मिभिर्मन्दवह्निभिः ॥
अलं पनसपाकाय फलं कदलसम्भवम् ॥”
इति भावप्रकाशः ॥ * ॥
“कण्टाफलं सुमधुरं बृंहणं स्निग्धशीतलम् ।
दुर्ज्जरं वातपित्तघ्नं श्लेष्मशुक्रबलप्रदम् ॥
तदेव सर्पिषा युक्तं स्निग्धं हृद्यं बलप्रदम् ।
छर्द्दिघ्नं न च चक्षुष्यं वृष्यञ्च वातपित्तनुत् ॥
कण्टाफलमपक्वन्तु कषायं स्वादु वातलम् ।
रक्तपित्तहरं स्वादु तत्फलास्थ्यपि तद्गुणम् ॥”
इति राजवल्लभः ॥

पनसतालिका, स्त्री, (पनसं दीर्घत्वेन स्तुत्यं

यत्तालम् । तद्बत् फलमस्त्यस्याः । ठन् ।) कण्टकि-
फलम् । इति शब्दमाला ॥

पनसिका, स्त्री, (पनसवत् कण्टकमयाकृतिर्विद्यते

यस्याः । पनस + ठन् ।) क्षुद्ररोगविशेषः । स
च कर्णमध्यजातव्रणः । तल्लक्षणं यथा, --
“कर्णस्याभ्यन्तरे जातां पिडकामुग्रवेदनाम् ।
स्थिरां पनसिकां तान्तु विद्याद्वातकफोत्थिताम् ॥”
तच्चिकित्सा यथा, --
“भिषक् पनसिकां पूर्ब्बं स्वेदयेदथ लेपयेत् ।
कल्कैर्म्मनःशिलाकुष्ठनिशातालकदारुजैः ॥
पक्वां विज्ञाय तां भित्त्वा व्रणवत् समुपाचरेत् ॥”
इति भावप्रकाशः ॥

पन्थाः, [इन्] पुं, पतन्ति यान्त्यनेन । (पत ऌ

गतौ + “पतस्थ च ।” उणां । ४ । १२ । इति
इनिः थश्चान्तादेशः ।) रथ्या । रास्ता इति
भाषा ॥ (यथा, मनुः । ४ । ४५ ।
“न मूत्रं पथि कुर्व्वीत न भस्मनि न गोव्रजे ॥”)
तत्पर्य्यायः । अयनम् २ वर्त्म ३ मार्गः ४
अध्वा ५ पदवी ६ सृतिः ७ सरणिः ८ पद्धतिः ९
पद्या १० वर्त्तनी ११ एकपदी १२ । इत्यमरः ।
२ । १ । १५ ॥ पथः १३ पदविः १४ पदवी १५ सरणी
१६ शरणिः १७ पद्धती १८ वर्त्तनिः १९ । इति
भरतः ॥ शरणी २० वाटः २१ धर्म्मवर्त्तनम् २२
माथः २३ विवधः २४ वीवधः २५ । इति शब्द-
रत्नावली ॥ * ॥
तस्य लक्षणम् ।
“त्रिंशद्धनूषि विस्तीर्णो देशमार्गस्तु तैः कृतः ।
विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥
धनूंषि दश विस्तीर्णः श्रीमान् राजपथः कृतः ।
नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥
धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः ।
पृष्ठ ३/०४६
त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरक्षका ॥
जङ्घापथश्चतुष्पादस्त्रिपादस्य गृहान्तरम् ।
वृतीपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः ॥
अवकरः परीवारः पादमात्रः समन्ततः ॥”
इति देवीपुराणे गोपुरद्वारलक्षणाध्यायः ॥ * ॥
चतुष्पथलक्षणादि यथा, --
“एकलिङ्गे श्मशाने वा शून्यागारे चतुष्पथे ।
तत्रस्थः साधयेद्योगी विद्यां त्रिभुवनेश्वरीम् ॥
चतुष्पथन्तु तत् प्रोक्तं त्रिकोणं यत्र वर्त्तते ॥”
इति नीलतन्त्रम् ॥ * ॥
पथगमनगुणाः
“अध्वा मेदःकफस्थौल्यसौकुमार्य्यविनाशनः ।
यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत् ॥”
तदायुर्बलमेधाग्निप्रदमिन्द्रियशोधनम् ॥”
इति राजवल्लभः ॥ * ॥
ब्राह्मणादिभ्यः पथावकाशो देयो यथा, --
“पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे ह्यचक्षुषे ।
वृद्धाय भारयुक्ताय रोगिणे दुर्ब्बलाय च ॥”
इति कौर्म्मे उपविभागे ११ अध्यायः ॥ * ॥
गोपथदानफलं यथा, --
“गोमार्गस्य तथा कर्त्ता गोलोके क्रीडते चिरम् ।”
इति प्रतिष्ठातत्त्वे हयशीर्षपञ्चरात्रम् ॥ * ॥
अस्याचारादावुपचारो यथा, --
“तर्कोऽप्रतिष्ठः श्रुतयो विभिन्ना
नैको मुनिर्यस्य मतं प्रमाणम् ।
धर्म्मस्य तत्त्वं निहितं गुहायां
महाजनो येन गतः स पन्थाः ॥”
इति महाभारते । ३ । ३१२ । ११२ । धर्म्मवकप्रश्ने
युधिष्ठिरोत्तरम् ॥ * ॥ नरकविशेषः । यत्रा-
टाट्यते । इति मनौ ४ अध्यायः ॥

पन्नं, त्रि, (पद्यौ ङ गतौ + “गत्यर्थेति ।” ३ । ४ ।

७२ । इति कर्त्तरि क्तः ।) च्युतम् । गलितम् ।
इत्यमरः । ३ । १ । १०४ ॥

पन्नः, पुं, (पन स्तुतौ + “कॄवृजॄ षिद्रुपनीति ।”

उणां । ३ । १० । इति नः स च नित् ।) अधो-
गमनम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

पन्नगः, पुं, (पन्नं अधोगमनं पतितं वा गच्छ-

तीति । गम ऌ गतौ + “सर्व्वत्र पन्नयोरुपसंख्या-
नम् ।” ३ । २ । ४८ । इत्यस्य वार्त्तिं इति डः ।
पद्भ्यां न गच्छतीति वा विग्रहः ।) सर्पः ।
इत्यमरः । १ । ८ । ८ ॥ (यथा, विष्णुपुराणे ।
१ । १७ । ७ ।
“पानासक्तं महात्मानं हिरण्यकशिपुं तदा ।
उपासाञ्चक्रिरे सर्व्वे सिद्धगन्धर्व्वपन्नगाः ॥”)
ओषधीभेदः । पद्मकाष्ठम् । इति मेदिनी ॥

पन्नगकेशरः, पुं, (पन्नगवत् केशरो यस्य ।) नाग-

केशरपुष्पम् । इति राजनिर्घण्टः ॥

पन्नगाशनः, पुं, (पन्नगं सर्पं अश्नातीति । अश ग

भोजने + ल्युः । पन्नगः अशनं भक्ष्यो यस्येति
वा ।) गरुडः । इत्यमरः । १ । १ । ३१ ॥

पन्नगी, स्त्री, (गन्नग + जातौ ङीष् ।) पन्नग-

पत्नी । (यथा, भागवते । ३ । १९ । ११ ।
“तां स आपततीं वीक्ष्य भगवान् समवस्थितः ।
जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् ॥”)
मनसा देवी । यथा, तिथितत्त्वे ।
“पञ्चम्यामसिते पक्षे समुत्तिष्ठति पन्नगी ॥”
सर्पिणीक्षुपः । इति राजनिर्घण्टः ॥

पन्नद्धा, स्त्री, (पदि नद्धा बद्धा ।) चर्म्मपादुका ।

इति हेमचन्द्रः ॥

पन्नद्ध्री, स्त्री, (पदोश्चरणयोर्नद्ध्री ।) चर्म्मपादुका ।

इति त्रिकाण्डशेषः ॥

पपिः, पुं, (पाति लोकम् । पिबति वा । पा +

“आदृगमहनजनः किकिनौ लिट् च ।” ३ । २ ।
१७१ । इति किः द्वित्वञ्च ।) चन्द्रः । पानकर्त्तरि
त्रि । इति संक्षिप्तसारव्याकरणम् ॥ (यथा,
ऋग्वेदे । ६ । २३ । ४ । “पपिः सोमं ददिर्गाः ॥”)

पपीः, पुं, (पाति लोकम् । पा रक्षणे + “यापोः

कित् द्वे च ।” उणां । ३ । १५९ । इति ईक्
द्वित्वञ्च ।) सूर्य्यः । चन्द्रः । इत्युणादिकोषः ॥

पपुः, पुं, (पाति रक्षतीति । “कुर्भ्रश्चेति ।”

उणां । १ । २३ । इति चकारात् अन्यतोऽपि
कुर्द्वित्वञ्च ।) पालकः । धात्र्यां स्त्री । इत्युणादि-
कोषः ॥

पमरा, स्त्री, गन्धद्रव्यविशेषः । सल्लुकी इति ख्याता ।

अस्यानुलेपनगुणः । परमालक्ष्मीरक्षोज्वर-
नाशित्वम् । इति राजवल्लभः ॥

पम्पा, स्त्री, (पाति रक्षति महर्ष्यादीन् स्वीय-

पवित्रसलिलदानादिभिरितिशेषः । पा पालने +
“खष्प-शिल्प-शष्प-वाष्प-रूप-पम्पा-तल्पाः ।”
उणां । ३ । २८ । इति निपातनात् ह्रस्वत्वे मुडा-
गमत्वे च साधुः ।) ओड्रदेशस्थनदीविशेषः ।
इत्युणादिकोषः ॥ (यथा, रघुः । १३ । ३० ।
“दूरावतीर्णा पिबतीव खेदा-
दमूनि पम्पासलिलानि दृष्टिः ॥”
इयं हि ऋष्यमूकपर्व्वतसन्निकटस्था । इति
रामायणम् ॥)

पम्ब, गतौ । (भ्वां-परं-सकं-सेट् ।) ओष्ठ्यवर्ग-

शेषोपधः । पम्बति । इति दुर्गादासः ॥

पय, ङ गतौ । इति कविकल्पद्रुमः ॥ (भ्वां आत्मं-

सकं सेट् ।) ङ, पयते । इति दुर्गादासः ॥

पयः, [स्] क्ली, (पय्यते पीयते वा पय गतौ पी ङ

पाने वा + “सर्व्वधातुभ्योऽसुन् ।” उणां । ४ ।
१८८ । इत्यसुन् ।) जलम् । (यथा, रघुः । १ । ६७ ।
“पयः पूर्ब्बैः स्वनिश्वासैः कवोष्णमुपभुज्यते ॥”)
दुग्धम् । इति मेदिनी ॥ (यथा, मनुः । ३ । ८२ ।
“कुर्य्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्व्वापि पितृभ्यः प्रीतिमावहन् ॥”)

पयःकन्दा, स्त्री, (पयः कन्दे यस्याः ।) क्षीर-

विदारी । इति राजनिर्घण्टः ॥

पयःफेनी, स्त्री, (पयो दुग्धमिव फेनमस्याः । गौरा-

दित्वात् ङीष् ।) दुग्धफेनीक्षुपः । इति राज-
निर्घण्टः ॥

पयश्चयः, पुं, (पयसां चयः समूहः ।) जलसमूहः ।

तत्पर्य्यायः । पूरः २ वेणिः ३ । इति जटाधरः ॥

पयस्यं, त्रि, (पयसो विकारस्तत्र हितं वा ।

पयस् + “गोपयसोर्यत् ।” ४ । ३ । १६० । इति
यत् ।) पयोविकारः । घृतदध्यादि । इत्यमरः ।
२ । ९ । ५१ ॥ पयोहितम् । इति मेदिनी ॥

पयस्यः, पुं, (पयः पिबतीति ।) विडालः । इति

शब्दचन्द्रिका ॥

पयस्या, स्त्री, (पयस्य + टाप् ।) दुग्धिका । क्षीर-

काकोली । स्वर्णक्षीरी । इति मेदिनी ॥ अर्क-
पुष्पिका । इति रत्नमाला ॥ कुटुम्बिनीक्षुपः ।
इति राजनिर्घण्टः ॥ आमिक्षा । इति हेम-
चन्द्रः ॥

पयस्वलः, पुं, (पयोऽस्त्यस्य । पयस् + “अन्येभ्यो-

ऽपीति ।” वलच् ।) छागः । इति राज-
निर्घण्टः ॥

पयस्विनी, स्त्री, (पयो विद्यतेऽस्याः । “अस्माया-

मेधास्रजो विनिः ।” ५ । २ । १२१ । इति
विनिः ततो ङीष् ।) नदी । (प्रशस्तजल-
वत्त्वात्तथा पुण्यसलिलत्वाद् गङ्गा । यथा, काशी-
खण्डे गङ्गासहस्रनामकीर्त्तने । २९ । १०६ ।
“परापरफलप्राप्तिः पाचनी च पयस्विनी ॥”)
धेनुः । (यथा, रघुः, । २ । २१ ।
“प्रदक्षिणीकृत्य पयस्विनीन्तां
सुदक्षिणा साक्षतपात्रहस्ता ॥”)
रात्रिः । इति मेदिनी ॥ काकोली । क्षीर-
काकोली । दुग्धफेनी । क्षीरविदारी । छागी ।
इति राजनिर्घण्टः ॥ जीवन्ती इति भावप्रकाशः ॥
(गायत्त्रीस्वरूपा महादेवी । यथा, देवीभाग-
वते । १२ । ६ । ९६ ।
“प्रज्ञावती सुता पौत्री पुत्त्रपूज्या पयस्विनी ॥”)

पयोगडः, पुं, (पयसो गड इव ।) घनोपलः ।

द्वीपः । इति शब्दमाला ॥

पयोघनः, पुं, (पयोभिर्घनः सान्द्रः ।) घनोपलः ।

इति हारावली ॥

पयोजन्मा, [न्] पुं, (पयसो जलस्य जन्म यस्मात् ।)

मेघः । इति शब्दमाला ॥

पयोधरः, पुं, (धरतीति धरः । धृ + अच् ।

पयसो दुग्धस्य जलस्य वा धरः ।) स्त्रीस्तनः ।
(यथा, रघुः । १४ । २२ ।
“षडाननापीतपयोधरासु
नेता च मूलामिव कृत्तिकासु ॥”)
मेघः । इत्यमरः । ३ । ३ । १६३ ॥ कोषकारः ।
नारिकेलम् । कशेरु । इति मेदिनी ॥

पयोधाः, [स्] पुं, (पयो जलं दधातीति । डु धा

ञलि धारणे + “पयसि च ।” उणां । ४ । २२९ ।
इति असिः ।) समुद्रः । जलाधारः । इत्युणादि-
कोषः ॥

पयोधिः, पुं, (पयांसि धीयन्तेऽस्मिन् । डु धा ञ् +

“कर्म्मण्यधिकरणे च ।” ३ । ३ । ९३ । इति
किः ।) समुद्रः । इति राजनिर्घण्टः ॥

पयोधिकं, क्ली, (पयोधौ समुद्रे कायति प्रका-

शते इति । कै + कः ।) समुद्रफेनः । इति
राजनिर्घण्टः ॥
पृष्ठ ३/०४७

पयोनिधिः, पुं, (पयांसि निधीयन्तेऽस्मिन् । धा

धारणे + अधिकरणे किः ।) समुद्रः । यथा, --
“न गणितं यदि जन्म पयोनिधौ
हरशिरःस्थितिभूरपि विस्मृता ।”
इति नैषधे । ४ । ५० ॥ (पय इव शुक्लः सत्त्व-
गुणः निधीयतेऽत्र इति विग्रहे । शिवः । यथा,
महाभारते । १३ । १७ । ८७ ।
“लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ॥”)

पयोरः, पुं, (पयो जलं रातीति । रा + कः ।)

खदिरः । इति शब्दचन्द्रिका ॥

पयोलता, स्त्री, (पयः क्षीरं तेनाढ्या लता ।)

क्षीरविदारी । इति राजनिर्घण्टः ॥

पयोव्रतः, पुं, (पयोमात्रपानसाध्यो व्रतः ।) पयो-

मात्रपानरूपव्रतविशेषः । यथा, --
“पुण्यां तिथिं समासाद्य युगमन्वन्तरादिकम् ।
पयोव्रतस्त्रिरात्रं स्यादेकरात्रमथापि वा ॥”
इति मात्स्ये १५२ अध्यायः ॥ * ॥
द्वादशाहसाध्यविष्णुव्रतविशेषः । यथा, --
कश्यप उवाच ।
“एतन्मे भगवान् पृष्टः प्रजाकामस्य पद्मजः ।
यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥
फाल्गुनस्यामले पक्षे द्बादशाहं पयोव्रतः ।
अर्च्चयेदरविन्दाक्षं भक्त्या परमयान्वितः ॥
सिनीबाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया ।
यदि लभ्येत वै स्रोतस्येतन्मन्त्रमुदीरयेत् ॥
त्वं देव्यादिवराहेण रसायाः स्थानमिच्छता ।
उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥
निर्व्वर्त्तितात्मनियमो देवमर्च्चेत् समाहितः ।
अर्च्चायां स्थण्डिले सूर्य्ये जले वह्नौ गुरावपि ॥
नमस्तुभ्यं भगवते पुरुषाय महीयसे ।
सर्व्वभूतनिवासाय वासुदेवाय साक्षिणे ॥
नमोऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च ।
चतुर्विंशद्गुणज्ञाय गुणसंख्यानहेतवे ॥
नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे ।
सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥
नमः शिवाय रुद्राय नमः शक्तिधराय च ।
सर्व्वविद्याधिपतये भूतानां पतये नमः ॥
नमो हिरण्यगर्भाय प्राणाय जगदात्मने ।
योगैश्वर्य्यशरीराय नमस्ते योगहेतवे ॥
नमस्त आदिदेवाय साक्षिभूताय ते नमः ।
नारायणाय ऋषये नराय हरये नमः ॥
नमो मरकतश्यामवपुषेऽधिगतश्रिये ।
केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥
त्वं सर्व्ववरदः पुंसां वरेण्य वरदर्षभ ! ।
अतस्ते श्रेयसे धीराः पादरेणुमुपासते ॥
अन्ववर्त्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः ।
स्पृहयन्त इवामोदं भगवान्मे प्रसीदताम् ॥
एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् ।
अर्च्चयेच्छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥
अर्च्चित्वा गन्धमाल्याद्यैः पयसा स्नापयेद्बिभुम् ।
वस्त्रोपवीताभरणपाद्योपस्पर्शनैस्ततः ॥
गन्धधूपादिभिश्चार्च्चेद्द्बादशाक्षरविद्यया ।
सृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति ॥
ससर्पिः सगुडं दत्त्वा जुहुयान्मूलविद्यया ।
निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् ॥
दत्त्वाचमनमर्च्चित्वा ताम्बूलञ्च निवेदयेत् ।
जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् ॥
कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन्मुदा ।
कृत्वा शिरसि तच्छेषं देवमुद्वासयेत्ततः ॥
द्व्यवरान् भोजयेद्बिप्रान् पायसेन यथोचितम् ।
भुञ्जीत तैरनुज्ञातः शेषं सेष्टः सभाजितैः ॥
ब्रह्मचार्य्यथ तद्रात्र्यां श्वोभूते प्रथमेऽहनि ।
स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः ॥
पयसा स्नापयित्वार्च्चेद्यावद्व्रतसमापनम् ।
पयोभक्ष्यो व्रतमिदं चरेद्बिष्ण्वर्च्चनादृतः ॥
पूर्ब्बवज्जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ।
एवन्त्वहरहः कुर्य्याद्द्वादशाहं पयोव्रतम् ॥
हरेराराधनं होममर्हणं द्बिजतर्पणम् ।
प्रतिपद्दिनमारभ्य यावत् शुक्लत्रयोदशीम् ॥
ब्रह्मचर्य्यमधःस्वप्नं स्नानं त्रिसवनञ्चरेत् ।
वर्ज्जयेदसदालापं भोगानुच्चावचांस्तथा ॥
अहिंस्रः सर्व्वभूतानां वासुदेवपरायणः ।
त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः ॥
कारयेच्छास्त्रदृष्टेन विधिना विधिकोविदैः ।
पूजाञ्च महतीं कुर्य्याद्वित्तशाठ्यविवर्ज्जितः ॥
चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ।
सूक्तेन तेन पुरुषं यजेत सुसमाहितः ॥
नैवेद्यञ्चातिगुणवद्दद्यात् पुरुषतुष्टिदम् ।
आचार्य्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः ॥
तोषयेदृत्विजश्चैव तद्विद्ध्याराधनं हरेः ।
भोजयेत्तान् गुणवता सदन्नेन शुचिस्मिते ॥
अन्यांञ्च ब्राह्मणान् शक्त्या ये च तत्र समागताः ।
दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः ॥
अन्नाद्येनाश्वपाकांश्च प्रीणयेत् समुपागतान् ।
भुक्तवत्स्वथ सर्व्वेषु दीनान्धकृपणेषु च ॥
विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ।
नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचनैः ॥
कारयेत्तत्कथाभिश्च पूजां भगवतोऽन्वहम् ।
एतत् पयोव्रतं नाम पुरुषाराधनं परम् ॥
पितामहेनाभिहितं मया ते समुदाहृतम् ।
त्वञ्चानेन महाभागे ! सम्यक् चीर्णेन केशवम् ॥
आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ।
अयं वै सर्व्वयज्ञाख्यः सर्व्वव्रतमिति स्मृतम् ॥
तपःसारमिदं भद्रे दानञ्चेश्वरतर्पणम् ।
त एव नियमाः साक्षात्त एव च यमोत्तमाः ॥
तपो दानं व्रतं यज्ञो येन तुष्यत्यधोक्षजः ।
तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धया चर ॥
भगवान् परितुष्टस्ते वरानाशु विधास्यति ॥”
इति श्रीभागवते ८ स्कन्धे १६ आध्यायः ॥

पयोष्णिजाता, स्त्री, (पयोष्णी नाम्नी नदी जाता

अस्याः । पृषोदरात् साधुः ।) सरस्वती नदी ।
इति राजनिर्घण्टः ॥

पयोष्णी, स्त्री, (पयः सलिलं उष्णं उष्णगुणं वा

ऽस्याः ।) नदीविशेषः । सा बिन्ध्याचलदक्षिणे
प्रसिद्धा । अस्या जलगुणाः ।
“पयोष्णीसलिलं रुच्यं पवित्रं पापनाशनम् ।
सर्व्वामयहरं सौख्यबलकान्तिप्रदं लघु ॥”
इति राजनिर्घण्टः ॥

परं, क्ली, (पॄ + “ऋदोरप् ।” ३ । ३ । ५७ ।

इति अप् ।) केवलम् । इति मेदिनी ॥ मोक्षः ।
यथा । कैवल्यममृतं परम् । इति मुक्तिपर्य्याये
रत्नावली ॥ (ब्रह्म ब्रह्मा च । यदुक्तं श्रुतौ ।
“द्वे ब्रह्मणी वेदितव्ये परञ्चापरमेव च ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । २० ।
“प्रभूतस्त्रिककुद्धाम पवित्रं मङ्गलं परम् ॥”
ब्रह्मण आयुः । यथा, मार्कण्डेये । ४६ । ४२ ।
“एवन्तु ब्रह्मणो वर्षमेकं वर्षशतन्तु तत् ।
शतं हि तस्य वर्षाणां परमित्यभिधीयते ।
पञ्चाशद्भिस्तथावर्षैः परार्द्धमिति कीर्त्त्यते ॥”)

परं, [म्] व्य, नियोगः । क्षेपः । इति मेदिनी ॥

परः, पुं, (पॄ + अच् ।) शत्रुः । इत्यमरः ॥ (यथा,

रघुः । ७ । ६७ ।
“इतः परानर्भकहार्य्यशस्त्रान्
वैदर्भि ! पश्यानुमता मयासि ॥”)
ब्रह्मण आयुः । यथा, --
“कालसंख्यां समासेन पूर्ब्बार्द्धद्वयकल्पिताम् ।
स एव स्यात् परः कालस्तदन्ते परिपूज्यते ॥
निजेन तस्य मानेन चायुर्व्वर्षशतं स्मृतम् ।
तत् पराख्यं तदर्द्धञ्च परार्द्धमभिधीयते ॥”
अपि च ।
“त्रीणि कल्पशतानि स्युस्तथा षष्टिर्द्धिजोत्तमाः ।
ब्रह्मणः कथितं वर्षं पराख्यं तच्च तत् पदम् ॥”
इति कौर्म्मे ५ अध्यायः ॥
(शिवः । यथा, तत्रैव । १३ । १७ । ९७ ।
“कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः ॥”)

परः, त्रि, श्रेष्ठः । (यथा, आर्य्यासप्तशत्याम् । ३५५ ।

“परमोहनाय मुक्तो निष्करुणो
तरुणि ! तव कटाक्षोऽयम् ।
विशिख इव कलितकर्णः
प्रविशति हृदयं निःसरति ॥”)
अरिः । दूरः । अन्यः । उत्तरः । इति मेदिनी ॥ * ॥
न्यायमते द्रव्यगुणकर्म्मवृत्तिसत्ता । इयं व्यापक-
जातिः । यथा, --
“सामान्यं द्विविधं प्रोक्तं परञ्चापरमेव च ।
द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥
परभिन्ना तु या जातिः सैवापरतयोच्यते ।
द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥
व्यापकत्वात् परापि स्यात् व्याप्यत्वादपरापि च ॥”
इति भाषापरिच्छेदे । ८ -- ९ ॥ * ॥
परान्नादिभक्षणादेः श्रीनाशकत्वं यथा, --
“परान्नञ्च परस्वञ्च परशय्या परस्त्रियः ।
परवेश्मनि वासश्च शक्रादपि हरेच्छ्रियम् ॥”
इति गरुडपुराणम् ॥ * ॥
श्रेष्ठवाचकपरशब्दप्रयोगाः । यथा, --
“अन्नदातुः शतगुणोऽमीष्टदेवः परः स्मृतः ।
गुरुस्तस्माच्छतगुणो विद्यामन्त्रप्रदायकः ॥
पृष्ठ ३/०४८
अज्ञानतिमिराच्छन्नं ज्ञानदीपेन चक्षुषा ।
यः सर्व्वार्थं दर्शयति तत्परः कोऽपि बान्धवः ॥
गुरुदत्तेन मन्त्रेण तपसेष्टसुरं लभेत् ।
सर्व्वज्ञत्वं सर्व्वसिद्धिं तत्परः कोऽपि बान्धवः ॥
पितरं मातरं भार्य्यां गुरुपत्नीं गुरुं परम् ।
यो न पुष्णाति कापट्यात् स महापातकी शिव ! ॥
नास्ति वेदात् परं शास्त्रंनहि कृष्णात् परः सुरः ।
नास्ति गङ्गासमं तीर्थं न पुष्पं तुलसीपरम् ॥
क्षमावती भूपरा न पुत्त्रान्नास्ति परः प्रियः ।
न च दैवात् परः शक्तो व्रतं नैकादशीं विना ॥
शालग्रामात् परो यन्त्रो न क्षेत्रं भारतात् परम् ।
परं पुण्यस्थलानाञ्च पुण्यं वृन्दावनं यथा ॥
मोक्षदानां यथा काशी वैष्णवानां यथा शिवः ।
न पार्व्वत्याः परा साध्वी न गणेशात् परो वशी ॥
न च विद्यासमो बन्धुर्नास्ति कश्चिद्गुरोः परः ॥”
इति ब्रह्मवैवर्त्तपुराणे गणपतिखण्डे ४४ अध्यायः ॥

परःशतं, त्रि, शतात् परम् । शताधिकसंख्या ।

इत्यमरः । ३ । १ । ६४ ॥

परःश्वः, [स्] व्य, श्वो दिनात् परमहः परःश्वः

परः सहस्रवत् पारस्करादित्वात् सुट् परःश्व
इति मधुः । सुटं नेच्छन्त्यन्ये परश्व इत्याहुः ।
अतिक्रान्ते पूर्ब्बतरे दिने परश्वो जात इति
प्रयोगो गौणः तत्र परञ्च तत् श्वश्चेति कर्म्म-
धारयः । इति भरतः ॥ श्वः पराहः । इत्य-
मरः । ३ । ४ । २२ ॥ पर्शु । इति भाषा ॥

परःसहस्रं, त्रि, सहस्रात् परम् । सहस्राधिक-

संख्या । इत्यमरटीका ॥

परकीयं, त्रि, (परस्येदम् । “गहादिभ्यश्च ।” ४ ।

२ । १३८ । इति छः । “कुग्जनस्य परस्य च ।”
इति कुक् ।) परसम्बन्धि । (यथा, मनुः । ४ । २०१ ।
“परकीयनिपानेषु न स्नायाच्च कदाचन ॥”)

परकीया, स्त्री, (परकीय + टाप् ।) नायिका-

भेदः । अस्या लक्षणं यथा । अप्रकटपर-
पुरुषानुरागा । सा च द्विविधा । परोढा १
कन्यका च २ । कन्यायाः पित्राद्यधीनतया
परकीयत्वम् । अस्या गुप्तैव सकला चेष्टा ॥ * ॥
परोढा यथा, --
“अयं रेवाकुञ्जः कुसुमशरसेवासमुचितः
समीरोऽयं वेलादरविलसदेलापरिमलः ।
इयं प्रावृड्धन्या नवजलदविन्यासचतुरा
पराधीनं चेतः सखि ! किमपि कर्त्तुं मृगयते ॥” *
गुप्ताविदग्धालक्षिताकुलटानुशयानामुदिताप्रभृ-
तीनां परकीयायां एवान्तर्भावः । गुप्ता
त्रिविधा । वृत्तसुरतगोपना १ वर्त्तिष्यमाण-
सुरतगोपना २ वर्त्तमानसुरतगोपना च ३ ।
त्रिविधा यथा, --
“श्वश्रूः क्रुध्यतु विद्बिषन्तु सुहृदो निन्दन्तु वा यातर-
स्तस्मिन् किन्तु न मन्दिरे सखि ! पुनः स्वापो
विधेयो मया ।
आखोराक्रमणाय कोणकुहरादुत्फालमातन्वती
मार्ज्जारी नखरैः खरैः कृतवती कां कां न मे
दुर्द्दशाम् ॥” * ॥
विदग्धा द्विविधा । वाग्विदग्धा १ क्रियाविदग्धा
चेति २ । प्रथमा, --
“निविडतमतमालमल्लिवल्ली-
विचकिलराजिविराजितोपकण्ठे ।
पथिकसमुचितस्तवाद्यतीव्रे
सवितरि तत्र सरित्तटे निवासः ॥”
द्वितीया यथा, --
“दासाय भवननाथे वदरीमपनेतुमादिशति ।
हेमन्ते हरिणाक्षी पयसि कुठारं विनिक्षि-
पति ॥” * ॥
लक्षिता यथा, --
“यद्भूतं तद्भूतं यद्भूयात्तदपि वा भूयात् ।
यद्भवतु तद्भवतु वा विफलस्तव गोपनायासः ॥” *
कुलटा यथा, --
“एते वारिकणान् किरन्ति पुरुषान् वर्षन्ति
नाम्भोधराः
शैलाः शाद्बलमुद्बमन्ति न सृजन्त्येते पुनर्नाय-
कान् ।
त्रैलोक्ये तरवः फलानि सुवते नैवारभन्ते जनान्
धातः ! कातरमालपामि कुलटाहेतोस्त्वया किं
कृतम् ॥”
अपि च ।
“पृथ्वी तावत्त्रिकोणा विपुलनदनदीग्रावरुद्धं
तदर्द्धं
तस्यामेवास्ति शैलो विपिनमपि तथा क्षेत्र-
कासारकूपाः ।
लोकानामर्द्धनारी शिशुरपि जरसः कोऽपि
रोगी विवेकी
मिथ्यावादो ममायं मुखरमुखवरः पुंश्चली
पुंञ्चलीति ॥” * ॥
अनुशयाना त्रिविधा ।
वर्त्तमानस्थानविघट्टनेन भाविस्थानाभावशङ्कया
स्वानधिष्ठितसङ्केतस्थले भत्तगमनानुमानेन प्रत्येकं
उदाहरणानि ।
“समुपागतवति चैत्रे निपतति पत्रे लवङ्गलति-
कायाः ।
सुदृशः कपोलपाली शिव शिव तालीदलद्युतिं
लेभे ॥” * ॥
“निद्रालुकेकिमिथुनानि कपोतपोत-
व्याधूतनूतनमहीरुहपल्लवानि ।
तत्रापि तन्वि ! न वनानि कियन्ति सन्ति
खिद्यस्व न प्रियतमस्य गृहं प्रयाहि ॥
कर्णकल्पितरसालमञ्जरी-
पिञ्जरीकृतकपोलमण्डलः ।
निष्पतन्नयनवारिधारया
राधया मधुरिपुर्निरीक्ष्यते ॥” * ॥
मुदिता यथा, --
“गोष्ठेषु तिष्ठति पतिर्वधिरा ननन्दा
नेत्रद्बयस्य न च पाटवमस्ति यातुः ।
इत्थं निगद्य सुतनुः कुचकुम्भसीम्नि
रोमाञ्चकञ्चुकमुदञ्चितमाततान ॥” * ॥
कन्यका यथा, --
‘किञ्चित्कुञ्चितहारयष्टिसरलभ्रूवल्लिसाचिस्मितं
प्रान्तभ्रान्तविलोचनद्युतिभुजा पर्य्यस्तकर्णोत्-
पलम् ।
अङ्गुल्या स्फुरदङ्गुलीयकरुचा कर्णस्य कण्डूयनं
कुर्व्वाणा नृपकन्यका सुकृतिनं सव्याजमालो-
कते ॥”
इति रतिमञ्जरी ॥

परक्षेत्रं, क्ली, (परस्य क्षेत्रं पत्न्यादि ।) परपत्नी ।

(यथा, मनुः । ३ । १७५ ।
“तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चेह च ।
दत्तानि हव्यकव्यानि नाशयेते प्रदायिनाम् ॥”)
परशरीरम् । परभूमिः । यथा, --
“वृषापेहि परक्षेत्रादायाति क्षेत्ररक्षकः ।”
इति चन्द्रालोकः ॥
(तथा च मनुः । ८ । ३४१ ।
“द्विजोऽध्वगः क्षीणवृत्तिर्द्बाविक्षू द्वे च मूलके ।
आददानः परक्षेत्रान्न दण्डं दातुमर्हति ॥”)

परग्रन्थिः, पुं, (परेण ग्रन्थिर्यत्र ।) पर्व्वावधिः ।

अङ्गुलिपर्व्व । इति हारावली ॥

परच्छन्दः, त्रि, (परस्य छन्दो यत्र ।) परा-

धीनः । इति हेमचन्द्रः ॥

परच्छिद्रं, क्ली, (परस्य छिद्रम् ।) परदोषः । यथा,

“नीचः सर्षपमात्राणि परच्छिद्राणि पश्यति ।
आत्मनो विल्वमात्राणि पश्यन्नपि न पश्यति ॥”
इति गरुडपुराणम् ॥

परजातः, त्रि, (परेण जातः । परपुष्टत्वात्तथा-

त्वम् ।) परैधितः । औदासीन्येन परपुष्टः ।
परपोषितत्वात् । परस्माज्जातः । इत्यमरभरतौ ॥
अन्येनोत्पन्नश्च ॥ (कोकिले पुं । एष हि काकेन
पुष्टो भवतीति प्रसिद्धिः ॥)

परजितः, त्रि, (परेण जितः ।) परपुष्टः । शत्रुणा

पराजितः । इति केचित् ॥

परञ्जः, पुं, (परं जयतीति । जि जये + बाहुलकात्

डः ।) तैलयन्त्रम् । छुरिकाफलः । फेनः । इति
मेदिनी ॥

परञ्जनः, पुं, (परायाः पश्चिमस्या दिशो जनः

स्वामी । निपातनात् साधुः ।) वरुणः । इति
हेमचन्द्रः ॥

परञ्जयः, पुं, (परां पश्चिमां दिशं जयति स्वामि-

त्वेन । जि + अच् । सर्व्वनाम्नः वृत्तौ पुंवद्भावः
मुम् च ।) वरुणः । इति त्रिकाण्डशेषः ॥ शत्रु-
जयकर्त्ता । परान् जयतीति खप्रत्ययनिष्पन्नः ॥

परतन्त्रः, त्रि, (परस्तन्त्रं प्रधानं यस्य ।) परा-

धीनः । इत्यमरः ॥ (यथा, महाभारते । १३ । १ । १५ ।
“परतन्त्रं कथं हेतुमात्मानमनुपश्यसि ।
कर्म्मणां हि महाभाग ! सूक्ष्मं ह्येतदतीन्द्रियम् ॥”
परस्य तन्त्रं इति विग्रहे क्ली । परकीय-
शास्त्रम् । परं श्रेष्ठं तन्त्रमिति विग्रहे । उत्-
कृष्टशास्त्रम् । उत्तमपरिच्छदम् ॥)

परत्रभीरुः, त्रि, (परत्र परलोकान्तरघटना-

विषये भीरुः ।) धार्म्मिकः । परकालभय-
शीलः । यथा, --
पृष्ठ ३/०४९
“परत्रभीरुं धर्म्मिष्ठमुद्युक्तं क्रोधवर्ज्जितम् ॥”
इति मिताक्षरायां कात्यायनः ॥

परत्वं, क्ली, परस्य भावः । परता । न्यायमते तद्-

द्विविधम् । दैशिकम् १ । तत्तु बहुतरसूर्य्य-
संयोगज्ञानजन्यगुणः । कालिकम् २ तच्च बहु-
तरकालान्तरितत्त्वज्ञानजन्यगुणः । एतद्द्वयं
मूर्त्तपदार्थगुणः । दैशिकपरत्वस्यासमवायि-
कारणं दिक्शरीरसंयोगः । कालपरत्वस्यासम-
वायिकारणं कालपिण्डसंयोगः । ते अपेक्षा-
बुद्धिजन्ये । तन्नाशनाश्ये च । यथा, --
“परत्वञ्चापरत्वञ्च द्बिविधं परिकीर्त्तितम् ।
दैशिकं कालिकञ्चापि मूर्त्त एव तु दैशिकम् ॥
परत्वं सूर्य्यसंयोगभूयस्त्वज्ञानतो भवेत् ।
अपरत्वं तदल्पत्वबुद्धितः स्यादितीरितम् ॥
तयोरसमवायी तु दिक्संयोगस्तदाश्रये ।
दिवाकरपरिष्पन्दपूर्ब्बोत्पन्नत्वबुद्धितः ॥
परत्वमपरत्वन्तु तदनन्तरवुद्धितः ।
अत्र त्वसमवायी तु संयोगः कालपिण्डयोः ॥
अपेक्षा बुद्धिनाशाच्च नाशस्तेषां निरूपितः ।”
इति भाषापरिच्छेदः ॥

परदारः, (परस्य दाराः ।) परभार्य्या । तद्गमने

दोषो यथा, कर्म्मलोचनम् ॥
“परदाररताश्चैव परद्रव्यहराश्च ये ।
अधोऽधो नरके यान्ति पीड्यन्ते यमकिङ्करैः ॥”
“ब्राह्मणः क्षत्त्रियो वैश्यो यो रतः परयोषिति ।
याति तस्यापूजितस्य रुष्टा लक्ष्मीर्गृहादपि ॥
इहातिनिन्द्यः सर्व्वत्र नाधिकारी स्वकर्म्मसु ।
परत्रैबान्धकूपे च यावद्वर्षशतं वसेत् ॥
अपि च ।
“किन्तज्जपेन तपसा मौनेन च व्रतेन च ।
सुरार्च्चनेन तीर्थेन स्त्रीभिर्यस्य मनो हृतम् ॥
सर्व्वमायाकरण्डश्च धर्म्ममार्गार्गलं नृणाम् ।
व्यवधानञ्च तपसां दोषाणामाश्रमं परम् ॥
कर्म्मबन्धनिबद्धानां निगडं कठिनं सुत ! ।
प्रदीपरूपं कीटानां मीनानां वडिशं यथा ॥
विषकुम्भं दुग्धमुखमारम्भे मधुरोपमम् ।
परिणामे दुःखबीजं सोपानं नरकस्य च ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३० । ६१
अध्यायः ॥ * ॥
“यस्तु पाणिगृहीतीं तां हित्वान्यां योषितं व्रजेत् ।
अगम्यागमनं तद्धि सद्यो नरककारणम् ॥
नित्यं नैमित्तिकं काम्यं यागयोग्यव्रतादिकम् ।
चेत्रतीर्थाटनं तस्मिन् वासो धर्म्मक्रियादिकम् ॥
स्वाध्यायादि तपो दैवं पैत्रं कर्म्म वरानने ! ।
यात्येतन्निष्फलं सर्व्वं परस्त्रीगमनान्नृणाम् ॥
परदाराभिगमनात् कोटि एकादशीव्रतम् ।
अपरं किमु वक्तव्यं निष्फलं निरये स्थितिः ॥
सत्यं सत्यं पुनः सत्यं सत्यमेव ब्रवीमि ते ।
परयोनौ पतन् बिन्दुः कोटिपूजां विनाशयेत् ॥”
इति पाद्मोत्तरखण्डे ७५ अध्यायः ॥ * ॥
अपि च ।
“त्याज्यं धर्म्मान्वितैर्नित्यं परदारोपसेवनम् ।
नयन्ति परदारा हि नरकानेकविंशतिम् ॥
सर्व्वेषामेव वर्णानामेष धर्म्मो ध्रुवोऽन्धक ! ॥
एवं पुरा सुरपते ! देवर्षिरसितोऽव्ययः ।
प्राह धर्म्मव्यवस्थानं खगेन्द्रायारुणाय हि ।
तस्मात् सुदूरतो वर्जेत् परदारान् विचक्षणः ।
नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥”
इति वामने ६३ अध्यायः ॥

परदुःखं, क्ली, (परेषां दुःखम् ।) अन्यजनपीडा ।

यथा, --
“त्यक्त्वात्मसुखभोगेच्छां सर्व्वसत्त्वसुखैषिणः ।
भवन्ति परदुःखेन साधवो नित्यदुःखिताः ॥
परदुःखातुरा नित्यं स्वसुखानि महान्त्यपि ।
नापेक्षन्ते महात्मानः सर्व्वभूतहिते रताः ॥”
इत्यग्निपुराणम् ॥

परद्वेषी, [न्] त्रि, (परेभ्योद्वेष्टीति । पर + द्विष्

+ णिनिः ।) विदूषकः । परद्वेष्टा । इति शब्द-
माला ॥

परध्यानं, क्ली, (परं श्रेष्टं ध्यानम् ।) ध्यान-

विशेषः । यथा, --
“ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयन् ॥
यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ॥”
इति गरुडपुराणम् ॥
(परस्य ब्रह्मणोध्यानं यद्वा परं ब्रह्मविषयकं-
ध्यानमिति । ब्रह्मचिन्तनम् ॥ परेषां ध्यानमिति-
विग्रहे । परानिष्टचिन्तनम् ॥)

परन्तपः, त्रि, (परान् शत्रून् तापयतीति । तप

सन्तापे “द्बिषत्परयोस्तापेः ।” ३ । २ । ३९ ।
इति खच् । “खचि ह्रस्वः ।” ६ । ४ । ९४ ।
इति उपधाया ह्रस्वस्ततो मुम् ।) परतापी ।
(यथा, भट्टिः । १ । १ ।
“अभून्नृपो विबुधसखः परन्तपः
श्रुतान्वितो दशरथ इत्युदाहृतः ॥”)
(जितेन्द्रियः । इति चिन्तामणिः ॥ तामस-
मनोः पुत्त्रभेदः । यथा, हरिवंशे । ७ । २४ ।
“द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोशनः ।
तपोरतिरकल्माषस्तन्वीधन्वी परन्तपः ।
तामसस्य मनोरेते दशपुत्त्रा महाबलाः ॥”
नृपविशेषः । असौ हि मगधेश्वरः । यदुक्तं
रघौ । ६ । २१ ।
“असौ शरण्यः शरणोन्मुखाना-
मगाधसत्त्वो मगधप्रतिष्ठः ।
राजा प्रजारञ्जनलब्धवर्णः
परन्तपो नाम यथार्थनामा ॥”)

परपदं, क्ली, (परं श्रेष्ठं पदम् ।) श्रेष्ठस्थानम् ।

मुक्तिः । यथा, --
“कल्याणानां निदानं कलिमलमथनं जीवनं
सज्जनानां
पाथेयं यन्मुमुक्षोः सपदि परपदप्राप्तये प्रस्थि-
तस्य ।”
इति महानाटकम् ॥
(परस्य परेषां वा पदं स्थानमितिविग्रहे-
परराष्ट्रम् ॥)

परपाकनिवृत्तः पुं, (परार्थात् पाकात् निवृत्तः ।)

परोद्देश्यकपाकरहितः । पञ्चयज्ञाकर्त्ता । यथा, --
“गृहीत्वाग्निं समारोप्य पञ्चयज्ञान्न निर्वपेत् ।
परपाकनिवृत्तोऽसौ मुनिभिः परिकीर्त्तितः ॥”
इति मिताक्षरायां प्रायश्चित्ताध्यायः ॥

परपाकरतः, पुं, (परस्य पाके रतः ।) परपाक-

रुचिः । प्रातः पञ्चयज्ञान्निर्व्वर्त्य परान्नभोजी ।
यथा, -- मिताक्षरायां प्रायश्चित्ताध्याये ।
“पञ्चयज्ञान् स्वयं कृत्वा परान्नमुपजीवति ।
सततं प्रातरुत्थाय परपाकरतस्तु सः ॥” * ॥
परपाकनिवृत्तपरपाकरतयोरन्नभोजने दोषो
यथा, --
“परपाकनिवृत्तस्य परपाकरतस्य च ।
अपचस्य च भुक्त्वान्नं द्विजश्चान्द्रायणञ्चरेत् ॥”
इति मिताक्षरायां प्राथश्चित्ताध्यायः ॥

परपिण्डादः, त्रि, (परस्य पिण्डं अन्नादिकंअत्तीति ।

अद् लौ भक्षणे + “कर्म्मण्यण् ।” ३ । २ । १ । इति
अण् ।) परान्नोपजीवी । इत्यमरः । ३ । १ । २० ॥

परपुरुषः, पुं, (परः श्रेष्ठः पुरुषः ।) विष्णुः । इति

त्रिकाण्डशेषः ॥ (परोऽन्यः पुरुषः ।) अन्यपुमान् ।
उपनायकः । यथा, --
“राजन् जीवावधानं कुरु शृणु निभृतं प्रेय-
सीनां कुचेष्टा
एका ते कीर्त्तिकान्ता जगदटनपरा विश्वभोग्या-
परा श्रीः ।
या वा पाणौ गृहीता विधिवदसिलता शुद्ध-
धारेति मत्वा
सोत्कण्ठं सापि नित्यं परपुरुषशतं मारभावा-
दुपैति ॥”
इति कर्णाटराजम्प्रति कालिदासः ॥

परपुष्टः, पुं, (परेण काकेन पुष्टः पालितः । डिम्ब-

स्फोटनाक्षमया कोकिलया हि नीडस्थं
काकडिम्बमपसार्य्य स्वडिम्बे तत्र स्थापिते काक्या
निजडिम्बबुद्ध्या तत्परिपाल्यते इति प्रसिद्धेरस्य
तथात्वम् ।) कोकिलः । इति मेदिनी ॥ परेण
पोषिते त्रि । इति धरणिः ॥

परपुष्टमहोत्सवः, पुं, (परपुष्टानां कोकिलानां

महोत्सवो यत्र । आम्रमुकुलोद्गमे हि कोकि-
लानां आनन्दो जायते ।) आम्रः । इति शब्द-
माला ॥

परपुष्टा, स्त्री, (परेण परपुरुषेण पुष्टा पालिता ।)

वेश्या । इति मेदिनी ॥ पराश्रया । इति शब्द-
चन्द्रिका ॥ परसाडा इति भाषा ॥

परपूर्व्वा, स्त्री, परोऽन्यः पूर्ब्बो भर्त्ता यस्याः सा

पत्यन्तरग्रहणात् प्रागन्येन गृहीतासीदित्यर्थः ।
अस्या लक्षणं यथा, मानवे ५ अध्यायः ॥
“पतिं हित्वापकृष्टं स्वमुत्कृष्टं या निषेवते ।
निन्द्यैव सा भवेल्लोके परपूर्ब्बेति चोच्यते ॥”
अस्याः प्रकारो यथा, --
“परपूर्ब्बाः स्त्रियस्त्वन्याः रुप्त प्रोक्तां यथाक्रमम् ।
पुनर्भस्त्रिविधा तासां स्वैरिणी तु चतुर्व्विधा ॥”
इति मिताक्षरायां नारदः ॥
पृष्ठ ३/०५०

परप्रतिनप्ता, [ऋ] पुं, (प्रतिनप्तुः परः

अन्तरः ।) वृद्धप्रपौत्त्रः ।
इति हेमचन्द्रः ॥

परप्रपौत्त्रः पुं, (प्रतिनप्तुः परः

अन्तरः ।) वृद्धप्रपौत्त्रः ।
इति हेमचन्द्रः ॥

परभागः, पुं, (परस्य श्रेष्ठस्य भागः ।) गुणोत्-

कर्षः । इति हेमचन्द्रः ॥ (यथा, रघुः । ५ । ७० ॥
“आभाति लब्धपरभागतयाऽधरोष्ठे
लीलास्मितं सदशनार्च्चिरिव त्वदोयम् ॥”)
सुसम्पत् । इति त्रिकाण्डशेषः ॥ शेषांशश्च ॥

परभुक्ता, स्त्री, (परेण परपुरुषेण भुक्ता ।) अन्य-

पुरुषसम्भोगविशिष्टा । यथा, --
“परभुक्ताञ्च कान्ताञ्च यो भुङ्क्ते स नरधः ।
स पच्यते कालसूत्रे यावच्चन्द्रदिवाकरौ ॥
न सा दैवे न सा पैत्रे पाकार्हा पापसंयुता ।
तस्या आलिङ्गने भर्त्ता भ्रष्टश्रीस्तेजसा हतः ॥
देवताः पितरस्तस्य हव्यदाने च तर्पणे ।
सुखिनो न भवन्त्येवमित्याह कमलोद्भवः ॥
तस्माद्यत्नेन भार्य्याञ्च रक्षणं कुरुते सुधीः ।
अन्यथा पापिनीभर्त्ता निश्चितं नरकं व्रजेत् ॥
पदे पदे सावधानः कान्तां रक्षति पण्डितः ।
न प्रतीतिस्थली योषा दोषाणाञ्च करण्डिका ॥
कलत्रं पाकपात्रञ्च सदा रक्षितुमर्हति ।
परस्पर्शादशुद्वाञ्च शुद्धां स्वस्पर्शने सदा ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १८ अध्यायः ॥ * ॥
अन्येन भक्षिते त्रि ॥

परभृत्, पुं, (परान् कोकिलान् विभर्त्तीति । डु

भृञलि भृतिपुष्टौ + क्विप् । परेषां भृदिति
केचित् ।) काकः । इत्यमरः । २ । ५ । २० ॥
(परजनपोषके, त्रि । यथा, भागवते । २ । २ । ५ ।
“चीराणि किं पथि न सन्ति दिशन्ति भिक्षां
नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् ॥”)

परभृतः, पुं, (परेण काकेन भृतः पुष्टः ।) कोकिलः ।

इत्यमरः । २ । ५ । १९ ॥ (यथा, मृच्छकटीये ।
“परभृत इव नीडे रक्षितो वायसीभिः ॥”
स्त्रियां टाप् । यथा, रघौ । ९ । ४७ ।
“परभृताभिरितीव निवेदिते
स्मरमते रमते स्म बधूजनः ॥”
तथाच कुमारे । ६ । २ ।
“चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखी ॥”
अत्र मल्लिनाथः । “परभृतया कोकिलया
उन्मुखी मुखरा । परभृतेति क्रियाशब्दविव-
क्षायां ‘जातेरस्त्री’ इति ङीप् प्रत्ययो न भवति ।
अथवा भृद्भरणं सम्पदादित्वात् क्विप् । परैः
भृत्यस्यास्तया परभृता इति व्यासेन व्याख्यातम् ।
पदमञ्जरीकारस्तु परैः भ्रियते इति कर्म्मणि
क्विपमाह ॥”) परपोषिते त्रि ॥

परम्, व्य, (पॄ पूर्त्तौ + अम् ।) नियोगः । क्षेपः । इति

मेदिनी ॥ पश्चात् ॥ (किन्त्वर्थे । यथा, पञ्चतन्त्रे ।
“तेषां सर्व्वे शास्त्रपारगाः परं बुद्धिरहिताः ॥”
अधिकम् । यथा, रघुः । १ । १७ ।
“रेखामात्रमपि क्षुण्णादामनोर्वर्त्मनः परम् ॥”
अनन्तरम् । यथा, तत्रैव । १ । ६६ ।
“नूनं मत्तःपरं वंश्याः पिण्डविच्छेददर्शिनः ॥”)

परम, व्य, अनुज्ञा । इति मेदिनी ॥ हाँ इति

भाषा । तथा च । ओमेवं परमं मते । इत्य-
मरः । ३ । ४ । १२ ॥ त्रीणि मते अनुमतौ ।
ओं कुरु ओमित्युक्तवतः । एवं वाढं एवं यदाह
भगवान् । परमन्ते आवसं ममेदं परमम् । त्रयं
प्रकारेऽपि । इति भरतः ॥

परमः, त्रि, (परं उत्कृष्टं मातीति । “आतो-

ऽनुपसर्गे कः ।” ३ । २ । ४ । इति कः ।) परः ।
उत्कृष्टः । इति मेदिनी ॥ (यथा, मनुः । ९ । ३१९ ।
“सर्व्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥”)
प्रधानम् । (यथा, मनुः । ६ । ९६ ।
“एवं संन्यस्य कर्म्माणि स्वकार्य्यपरमोऽस्पृहः ॥”)
आद्यः । ओङ्कारः । इति विश्वः ॥ (यथा,
कुमारे । ६ । ३५ ।
“ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् ॥”)
अग्रेसरः । इति हेमचन्द्रः ॥ (महादेवः ।
यथा, महाभारते । १३ । १७ । ५१ ।
मन्त्रवित् परमोमन्त्रः सर्व्वभावकरो हरः ॥”)

परमगतिः, स्त्री, (परमा गतिः ।) मुक्तिः । मोक्ष-

हेतौ त्रि । यथा । गुणातीतोऽपीशस्त्रिगुणसचि-
वस्त्राक्षरभयस्त्रिमूर्त्तिर्यः सृष्टिस्थितिविलयकर्म्माणि
कुरुते । कपापारावारः परमगतिरेष त्रिजगतां
नमस्तस्मै कस्मैचिदमितमहिम्ने पुरभिदे ॥ इति
मङ्गलवादः ॥ तस्या लक्षणं यथा, --
“यां विप्राः सर्ष्वतः शान्ता विशुद्धा ज्ञाननिश्चयाः ।
गतिं गच्छन्ति सन्तुष्टास्तामाहुः परमां गतिम् ॥”
इति महाभारते मोक्षधर्म्मः ॥

परमगवः, पुं, स्त्री, परमश्चासौ गौश्चेति श्रेष्ठगौः ।

परमपदः, पुं, क्ली, (पद्यते ज्ञानिभिः प्राप्यते इति

पदम् । ततः कर्म्मधारयः ।) श्रेष्ठस्थानम् । पर-
देवताचरणः । यथा । स्वपुष्पैराकीर्णं कुसुम-
धनुषो मन्दिरमहो पुरो ध्यायन् ध्यायन् यदि
जपति भक्तस्तव मनुम् । स गन्धर्व्वश्रेणीपति-
रपि कवित्वामृतनदीनदीनः पर्य्यन्ते परमपद-
लीनः प्रभवति ॥ इति कर्पूराख्यस्तोत्रम् ॥

परमब्रह्म, [न्] क्ली, (परमं ब्रह्म ।) परमेश्वरः ।

नारायणः । यथा ।
सत्यतपा उवाच ।
“यदेतत् परमं ब्रह्म त्वया प्रोक्तं महामुने ! ।
तस्य रूपं न जानन्ति योगिनोऽपि महात्मनः ॥
अनामगोत्ररहितममूर्त्तं मूर्त्तिवर्ज्जितम् ।
कथं तज्ज्ञायते ब्रह्म संज्ञानामविवर्ज्जितम् ॥
तत्तस्य संज्ञां कथय येन जानाम्यहं गुरो ! ॥”
दुर्व्वासा उवाच ।
“यदेतत् परमं ब्रह्म वेदवादेषु पठ्यते ।
स देवः पुण्डरीकाक्षः स्वयं नारायणः परः ॥
स यज्ञैर्विविधैरिष्टैर्दानैर्दत्तैश्च सत्तम ! ।
प्राप्यते परमो देवः स्वयं नारायणो हरिः ॥”
इति वराहपुराणम् ॥

परमर्षिः, पुं, (परमश्चासौ ऋषिश्चेति ।) अस्य

व्युत्पत्तिर्यथा, --
“ऋषिर्हिंसागतौ धातुर्विद्यासत्यतपःश्रुतैः ।
एषा सन्निचयो यस्मात् ब्रह्मणश्च ततस्त्वृषिः ॥
विवृत्तिसमकालन्तु बुद्ध्या व्यक्तिरृषिस्त्वयम् ।
ऋषते परमं यस्मात् परमर्षिस्ततः स्मृतः ॥
गत्यर्थादृषतेर्धातोर्नामानि वृत्तिकारणम् ।
यस्मादेष स्वयं भूतस्तस्माच्च ऋषिता मता ॥”
इति मात्स्ये १२० अध्यायः ॥
भेलादिऋषिविशेषः । इति त्रिकाण्डशेषः ॥
(वेदव्यासो हि परमर्षिः । यथा, महाभारते ।
१ । १ । १७ ।
“द्वैपायनेन यत् प्रोक्तं पुराणं परमर्षिणा ॥”)

परमस्वधर्म्मा, [न्] त्रि, परमस्वो धर्म्मो यस्य ।

इति कर्म्मधारयपूर्ब्बपदबहुव्रीहौ सिद्धान्त-
कौमुदी ॥

परमहंसः, पुं, (परमः श्रेष्ठः हंसः सोऽहं आत्मा

यस्य ।) सन्न्यासिविशेषः । अस्य लक्षणं यथा ।
जातरूपवेरो निर्द्वन्द्वो निराग्रहस्तत्त्वब्रह्ममार्गे
सम्यक् सम्पन्नः शुद्धमानसः प्राणसंधारणार्थं
यथोक्तकाले भैक्षमाचरन् लाभालाभौ समौ
कृत्वा शून्यागारदेवगृहतृणकूटवल्मीकवृक्षमूल-
कुलालशालाग्निहोत्रनदीपुलिनगिरिकुहरकन्दर-
कोटरनिकरस्थण्डिलेष्वनिकेतवासी निष्प्रयत्नो
निर्म्ममः शुक्लध्यानपरायणः अध्यात्मनिष्ठः शुभा-
शुभकर्म्मनिर्मूलनाय सन्न्यासेन देहत्यागं करोति
यः सएव परमहंसो नामेति जीवन्मुक्तिविवेकः ॥
(अयं हि चतुर्व्विधाबधूतेषु श्रेष्ठः । यदुक्तं
महानिर्व्वाणतन्त्रे ।
“चतुर्णामबधूतानां तुरीयो हंस उच्यते ।
त्रयोऽत्ये भोगयोगाढ्यामुक्ताः सर्व्वे शिवोपमाः ॥”
परमहंसेन हि यज्ञोपवीतादिचिह्नानि परि-
त्यज्य कौपीनादिकं धारणीयम् । यदुक्तं सूत-
संहितायां ज्ञानयोगे ।
“परमहंसस्त्रिदण्डञ्च रज्जुं गोबालमिश्रितम् ।
शिक्यं जलपवित्रञ्च पवित्रञ्च कमण्डलुम् ॥
पक्षिणीमजिनं सूचीं मृत् खनिर्त्री कृपाणिकाम् ।
शिखां यज्ञोपवीतञ्च नित्यकर्म्म परित्यजेत् ॥
कौपीनं छादनं वस्त्रं कन्थां शीतनिवारिकाम् ।
योगपट्टं वहिर्वस्त्रं पादुकां छत्रमद्भुतम् ॥
अक्षमालाञ्च गृह्णीयात् वैणवं दण्डमव्रणम् ।
अग्निरित्यादिभिर्मन्त्रैः कुर्य्यादुद्धूमनं मुदा ॥
आमिति च त्रिमिः प्रोच्य परमहंसस्त्रिपुण्ड्रकम् ॥”
अविदुषा परमहंसेन एकदण्डन भाव्यम् ।
विदुषा तु दण्डादिकं किमपि न धारणीयम् ॥
यदुक्तं निर्णयसिन्धौ । “परमहंसस्यैकदण्ड एव
सोऽप्यविदुवः । विदुषान्तु सोऽपि नास्ति ।
न दण्डं न शिखां नाच्छादनं धरति परमहंसः ॥”
परमहंसास्तु केवलं प्रणवजपतत्परा एव
भवन्ति । यदुक्तं सूतसंहितायाम् ।
“प्रणवाद्यास्त्रयोवेदाः प्रणवे पर्य्यवस्थिताः ।
तस्मात् प्रणवमेवैकं परमहंसः सदा जपेत् ॥
विविक्तदेशमाश्रित्य सुखासीनः समाहितः ।
यथाशक्ति समाधिस्थो भवेत् सन्न्यासिनां वरः ॥”
परमहंसास्तु “तत्त्वमसि” इत्यादि महावाक्याव-
पृष्ठ ३/०५१
लम्बनेन आत्मज्ञानानुशीलिनो भवन्ति “सोऽहं”
शिवोऽहं” इत्यादि वदन्तस्तत्त्वज्ञानावलम्बनस्य
परिचयं प्रयच्छन्ति च । एषामध्यक्षो हि
स्वामीत्याख्यया प्रसिद्धः । एते हि तीर्थभ्रमण-
निपुणास्तीर्थस्थानस्थाश्च । मतस्य परमहंसस्य
शरीरं भूमौ निखातत्वम् । यदुक्तं वायु-
संहितायाम् ।
“मृते न दहनं कार्य्यं परमहंसस्य सर्व्वदा ।
कर्त्तव्यं खननं तस्य नाशौचं नोदकक्रिया ॥”
परमहंसस्तु दण्डिपरमहंसावधूतपरमहंसभेदेन
द्विविघः । ये तु दण्डं परित्यज्य पारमहंस्य-
व्रतावलम्बनं कुर्व्वन्ति ते दण्डिपरमहंसाः ।
ये चावधूतवृत्त्यनुष्ठानेन परमहंसास्ते एवा-
वधूतपरमहंसाः । परं सर्व्वे एव प्रणवोपासकाः
इति ॥ * ॥
शुक्लयजुर्व्वेदगत उपनिषद्विशेषः । इति मुक्ति
कोपनिषत् ॥)

परमाणुः, पुं, (परमः सर्व्वचरमकोऽणुः ।)

पृथिव्यादिभूतचतुष्टयानां द्ब्यणुकानामवयवः ।
स च नित्यः निरवयवः ततः किमपिसूक्ष्मं नास्ति ।
यथा, --
“नित्यानित्या च सा द्वेधा नित्या स्यादणुलक्षणा ।
अनित्या तु तदत्या स्यात् सैवावयवयोगिनी ॥”
पारिमाण्डल्यनामकतत्परिमाणन्तु न कस्यापि
कारणम् । यथा,
“पारिमाण्डल्यभिन्नानां कारणत्वमुदाहृतम् ॥”
जलादिपरमाणुरूपस्य नित्यत्वम् । पार्थिवपर-
माणुरूपस्यानित्यत्वम् । पार्थिवपरमाणुरूप-
स्यानित्यत्वम् । यथा, भाषापरिच्छेदे ॥
“जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम् ।”
तैरेव परमाणुभिराद्युपादानैर्द्व्यणुकत्रसरेण्वादि-
क्रमेण स्थूलक्षितिजलतेजोमरुतः सृजति परमे-
श्वरः । यथा आयोजनं परमाणुकर्म्म तथा
च सर्गाद्यकालीनं द्ब्यणुकारम्भकपरमाणुकर्म्म
यत्नजन्यं प्रयत्नवदात्मसंयोगजन्यं वा कर्म्मत्वात्
अस्मदादिशरीरकर्म्मवत् इति कुसुमाञ्जलिः ॥
प्रलयेऽतिस्थूलस्थूलनाशानन्तरं परमाणुक्रिया-
विभागपूर्ब्बसंयोगनाशादिक्रमेण द्व्यणुकनाशा-
त्तिष्ठन्ति परमाणव एवेति । यथा, --
“दोधूयमानास्तिष्ठन्ति प्रलये परमाणवः ।”
इति प्राचीनकारिका ॥
तस्य महत्त्वाभावादतीन्द्रियत्वम् । यथा । महत्त्वं
षड्विधे हेतुरिति भाषापरिच्छेदः ॥ * ॥
कालविशेषः । यथा, श्रीभागवते ३ । ११ । ४-५ ॥
“स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् ।
सतो विशेषभुग् यस्तु कालः स परमो महान् ॥
अणुर्द्वौ परमाणू स्यात्त्रसरेणुस्त्रयः स्मृतः ।
जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥”
अस्यार्थः । एतदेव प्रपञ्चयति स इत्यादिना ।
सतः प्रपञ्चस्य परमाणुतां परमाण्ववस्थां यो
भुङ्क्ते स कालः परमाणुः तस्यैवाविशेषं
साकल्यं यो भुङ्क्ते स परममहान् । अयमर्थः
ग्रहर्क्षताराचक्रस्थ इत्यादिना यत् सूर्य्यपर्य्यटनं
वक्ष्यति तत्र सूर्य्यो यावता परमाणुदेशमति-
क्रामति तावान् कालः परमाणुः । यावता च
द्वादशराश्यात्मकं सर्व्वं भुवनकोषमतिक्रामति
स परममहान् संवत्सरात्मकः तस्यैवावृत्त्या
युगमन्वन्तरादिक्रमेण द्विपरार्द्धान्तत्वमिति । तथा
च पञ्चमे सूर्य्यगत्यैव कालादिविभागं वक्ष्यति । ५ ।
इदानीं द्व्यणुकादिलक्षणपूर्व्वकं मध्यमकालावस्थां
कथयति द्वौ परमाणू अणुः स्यात् त्रयोऽणव-
स्त्रसरेणुः स तु प्रत्यक्ष इत्याह जालार्केति
गवाक्षप्रविष्टेष्वर्करश्मिष्ववगतः कोऽसौ योऽति-
लघुत्वेन खमेवानुपतन् अगात् गतः । न
गामिति पाठे खमेवानुपतन्नवगतः न तु गां
पृथ्वीम् । इति श्रीधरस्वामी ॥

परमाण्वङ्गकः, पुं, (परमाणुरङ्गं यस्य । कप् ।)

विष्णुः । इति शब्दमाला ॥

परमात्मा, [न्] पुं, (परमः केवलः आत्मा ।)

परं ब्रह्म । तत्पर्य्यायः । आपोज्योतिः २
चिदात्मा ३ । यथा, --
“परमात्मा परं ब्रह्म निर्गुणः प्रकृतेः परः ।
कारणं कारणानाञ्च श्रीकृष्णो भगवान् स्वयम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥
(विष्णुः । यथा, महाभारते । १३ । १४९ । १५ ।
“पूतात्मा परमात्मा च मुक्तानां परमा गतिः ॥”
महादेवः । यथा, तत्रैव । १३ । १७ । १३७ ।
“प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृक् ॥”)

परमाद्वैतः, पुं, (परमः अद्वैतः द्वैतवर्ज्जितः ।)

विष्णुः । यथा, --
“नमस्ते ज्ञानसद्भाव नमस्ते ज्ञानदायक ।
नमस्ते परमाद्वैत नमस्ते पुरुषोत्तम ! ॥”
इति गरुडपुराणम् ॥

परमान्नं, क्ली, देवपित्रन्नत्वात् परममुत्कृष्टमन्नम् ।

परमाणामुत्कृष्टानां देवादीनामन्नमिति वा ।
इति भरतः ॥ तत्पर्य्यायः । पायसः २ । इत्य-
मरः । २ । ७ । २४ ॥ क्षीरिका ३ । तस्य
पाकप्रकारो यथा, --
“शुद्धेऽर्द्धपक्वे दुग्धे तु घृताक्तांस्तण्डुलान् क्षिपेत् ।
ते सिद्धाः क्षीरिका ख्याता सा सिताज्ययुतो-
त्तमा ॥”
अस्य गुणाः ।
“क्षीरिका दुर्ज्जरा बल्या धातुपुष्टिप्रदा गुरुः ।
विष्टम्भिनी हरेत् पित्तरक्तपित्ताग्निमारुतान् ॥”
इति भावप्रकाशः ॥

परमायुः, [स्] क्ली, (परमं आयुः ।) जीवित-

कालः । यथा, --
“शतं वर्षाणि विंशत्या निशाभिः पञ्चभिः सह ।
परमायुरिदं प्रोक्तं नराणां करिणामिह ॥
अब्दा द्बात्रिंशदश्वानां शुनां द्वादशवत्सराः ।
पञ्चविंशतिवर्षाणि खरस्य करभस्य च ॥
चतुर्व्विंशतिरब्दानां वृषस्य महिषस्य च ।
मृगशूकरवस्तादिपशूनां षड्दशान्विताः ॥”
इति शब्दमाला ॥ * ॥
अथायुरानयनम् ।
“अज्ञानादायुषः सर्व्वं विफलं कीर्त्तितञ्च यत् ।
तस्मादानयनं तस्य स्फुटार्थमभिधीयते ॥
नीचान्तरस्य खेटस्य भागस्तुङ्गगुणो भवेत् ।
चेष्टा केन्द्रस्तु चेत् षड्भादधिकं चक्रशोधितम् ॥
नान्यथा तस्य भागादि चेष्टा गुणक उच्यते ।
गुणश्चेत् षष्टि ६० तो न्यूनं तदा द्ब्याप्तं सखा-
नलः ३० ॥
एवं तुङ्गगुणश्चेष्टा गुणो यत् स्यात् तयोर्वधात् ।
मूलं कलादिकं तत् स्याद्गुणकस्फुट उच्यते ॥
अथाश्रयगुणं वक्ष्ये क्षेत्रादिसप्तवर्गजम् ।
वर्गे क्षेत्रादिके स्वर्क्षे ग्राह्यस्त्रिंशत् ३० कलागुणः ॥
अधिमित्रगृहे तत्त्वम् २५ मित्रेवित्र्यंशजातयः ।
२१ । ४० ।
समे पञ्चदश ग्राह्याः शत्रौ स्वत्र्यंशकोरगाः ८ । २०
पञ्चात्यरौ ५ तदैक्यं यत् क्षेत्रोत्थगुणयुक् पुनः ।
स्वर्क्षे वर्गोत्तमे स्वांशे स्वत्र्यं शे स्यादयं गुणः ॥
अधीष्टर्क्षे युगांशोनस्त्र्यंशोनो मित्रवेश्मनि ।
समे द्व्याप्तो रिपौ त्र्याप्तो युगांशस्त्वतिशत्रुभे ॥
एवं स्यादाश्रयगुणो विशेषो यः स उच्यते ।
स्वत्र्यंशकः स्वांशको वा वर्गोत्तमगतोऽपि वा ॥
यदि स्यादधिमित्रर्क्षे तदा तत्राश्रये गुणे ।
गजनेत्रे समुद्राक्षी २८ । ३४ कलाद्यं मिश्रयेद्बुधः ।
एवं मित्रगृहे तद्वद्भूपस्त्रिंशद्बिमिश्रयेत् १६ । ३० ।
शत्रुक्षेत्रे तु षड्लिप्तां कुनेत्रविकलां त्यजेत् ॥ ६ ॥ २१
अधिशत्रुगृहे वाणस्त्र्यब्धी ५ । ४३ लिप्तादिकं
त्यजेत् ।
आश्रयस्य गुणस्यास्य बधः स्फुटगुणस्य यः ॥
तन्मूलं कर्म्मयोग्यः स्याद्गुण आयुर्व्विधौ स्मृतः ।
खेटानाञ्च तनोर्भागाः खाब्धि ४० शिष्टाः कली-
कृताः ॥
पुनः शून्यरसा ६० भ्यस्ताः क्रमात् स्यादायुषः
पलम् ।
जन्मलग्नं ग्रहेणोनं न्यूनं चक्रार्द्धतो यदि ॥
तत्कला स्यात्तदाहारो नायं षड्भाधिके विधिः ।
खखधृत्या १८०० खखाङ्केन ९०० गुणितं पल-
मायुषः ॥
क्रमतः पापसौम्यानां हाराप्तं शोधनं भवेत् ।
खखधृत्यूनहारश्चेद्धारो हारदलं क्रमात् ॥
आयुः पलघ्नं शून्याभ्रं धृत्याप्ता शोधनं तथा ।
आयुःपलं शोधनोनमेवं चक्रार्द्धशोधनम् ॥
चक्रार्द्धशोधने त्वेकराशौ द्ब्यादिग्रहे सति ।
एकस्याधिकवीर्य्यस्य हानिं सत्यः प्रभासते ॥
आयुःपलं हतं स्वीयैर्गुणैर्योग्यैः कलादिभिः ।
षष्ट्याप्तम् ६० तत् पुनः सूर्य्यसहस्राप्ताः १२००
समादयः ।
तनोरायुः पलं सूर्य्यः सहस्राप्ताः समादयः ।
चेल्लग्नं बलवद्योज्या राशितुल्याः समास्तथा ॥
द्वादशाहतभागाद्यैर्दिनाद्यैश्चापि संयुताः ।
एवं सूर्य्यादिलग्नानामंशायुः प्रस्फुटं भवेत् ॥
सूच्चान्तरितखेटस्य कला आयुःपलं भवेत् ।
तच्चेत् षड्भः कलान्यूनं तदा तांद्द्विगुणाच्च्युतम् ॥
पृष्ठ ३/०५२
अथवा ।
“सुनीचान्तरितः खेटः सवड्भः सकलीकृतः ।
आयुःपलमिदं प्राज्ञैर्ज्ञेयं पैण्डादिकत्रये ॥
त्र्यंशोनं शत्रुभस्थस्य विनारमायुषः पलम् ।
अस्तगस्य द्विभागोनं हित्वा शुक्रशनैश्चरौ ॥
एकस्य यदि खेटस्य त्र्यंशार्द्धहानिसम्भवः ।
अधिकैका तदा हानिः कर्त्तव्यात्र विपश्चिता ॥
चक्रार्द्धशोधनं कार्य्यं पूर्ब्बवत् सति सम्भवे ।
एवमायुःपलं पैण्डे जीवः प्रोक्ते निसर्गजे ॥
पैण्डं यथागतं सौरेर्भानोर्व्विंशांशवर्ज्जितम् ।
चन्द्रस्य वेदभागाढ्यं भृगो २० र्व्विंशांशसंयुतम् ॥
कुजगुर्व्वो ४ र्युगांशोनं ज्ञस्यार्द्धं तत् शरांशयुक् ।
आयुःपलं निसर्गाख्ये रविकव्योर्यथागतम् ॥
दशांशोनदलं ज्ञस्य जीवस्य विद्दशांशकम् ।
दशांशं भूमिपुत्त्रस्य विंशत्यंशं निशापतेः ॥
दशघ्नं श्रुतिभिर्भक्तं शनेरायुःपलं भवेत् ।
जीवोक्तं सप्तभागोनं सर्व्वेषामायुषः पलम् ॥
आयुः पलस्य खाभ्राष्टदिग्भागेन १०८०० समा-
युतम् ।
इत्थमायुःपलं खाष्टदशाप्तम् १०८० स्यात् समा-
दिकम् ॥
पैण्डनैसर्ग्यजीवोक्ते भवेदायुः खगामिनाम् ।”
अथवा ।
“रवेरायुःपलं त्र्याप्तं विनखांशं दिनादिकम् ।
पैण्डमायुर्भवेदिन्दोर्व्वाणघ्नम् ५ द्बादशो १२ द्धृतम् ।
कुजगुर्व्वो ४ र्युगे नाप्तं बुधस्य पञ्चभिर्हृतम् ।
कवेः शैल ७ हतं विंशत्याप्तं २० सौरेर्गुणोद्धृतम् ।
विधोरायुःपलं लब्धं खरसैः स्याद्दिनादिकम् ॥
निसर्गे शशिपुत्त्रस्य ३ रामघ्नं खयमोद्धृतम् ।
रविकव्योर्गुणेनाप्तं कुजस्य खगुणोद्धृतम् ॥
गुरोस्त्रिघ्नं खचन्द्राप्तं १० शनेस्तर्कां ६ शतो-
लितम् ॥”
अथवा ।
“आयुःपलमिनादीनां खाब्धिषण्णाग ८६४०
भागयुक् ।
द्बिघ्नं सप्ताप्तमायुः स्याद्दिनाद्यं जीवभाषितम् ॥
विराशिलग्नविकला खखखार्क १२००० हृतातनोः ।
तदंशकसमं ज्ञेयमायुः पैण्डादिकत्रये ॥
अंशतुल्यं तनोरायुर्व्वदन्ति बहवो बुधाः ।
केचिद्राशिसमं केचित्तस्य यस्याधिपो बली ॥
लग्नस्फुटस्य लिप्ताभिर्हन्यादायुर्द्युचारिणाम् ।
प्रत्येकं चन्द्रलिप्ताभि २१६००० र्भजेद्बर्षाधिकं
भवेत् ॥
अनेन हीनस्वस्वायुर्लग्ने पापग्रहे सति ।
दृष्टे तु सौम्यखेटेन तस्यार्द्धेन तदा वियुक् ॥
व्याखानमुत्पलस्यैव बृहज्जातकभाषितम् ।
केचित् प्राहुर्लग्नराशिं त्यक्त्वा लिप्तादिका क्रिया ॥
अन्ये लग्नस्थपापस्य भावोत्थफलताडितम् ।
पुराप्तं शोध्यमायुर्यत् तत्षष्ट्याप्तं विशोधयेत् ॥
तत्रापि लग्ने पापौ चेत् बलिष्ठस्य फलेन तत् ।
साम्ये पुष्टफलेनैव क्रिया कार्य्या विचक्षणैः ॥
पापेऽपि लग्ने लग्नेशे न कर्त्तव्या त्वियं क्रिया ।
अंशायुषि न कार्य्यैवं हानिः प्राज्ञैः कथञ्चन ॥
लग्नस्य वीर्य्यादंशोत्थं पैण्डं भानोर्व्वलाधिकात् ।
निसर्गोऽयं विधोर्ब्बीर्य्यादायुः साध्यं विचक्षणैः ॥
त्रयश्चेद्बलहीनाः स्युर्जीवोक्तं साधयेत्तदा ।
लग्नेन्दोर्लग्नभान्वोश्च सूर्य्येन्दोः समवीर्य्ययोः ॥
तदायुषो यदैक्यार्द्धं तदुक्तं श्रीधरादिभिः ।
नाक्षत्रसावनादायुः पृथक्शून्यनगांशकैः ॥
साष्टसूर्य्यांशकै १२८ र्हीनं सौरं वर्षादिकं भवेत् ॥
पथ्याशिनः सधर्म्मा येसच्छीलाढ्या जितेन्द्रियाः ।
गुरुदेवद्विजे भक्तास्तेषामेवायुरीरितम् ॥
ये पापा लुब्धकृपणा देवब्राह्मणनिन्दकाः ।
बन्धुगुर्व्वङ्गनासक्तास्तेषां मृत्युरकालजः ॥”
इति तोषण्यामायुर्दायाध्यायः ॥

परमायुषः, पुं, (परमं आयुर्यस्य । पृषोदरादि-

त्वादच् । दीर्घकालजीवित्वादस्य तथात्वम् ।)
असनवृक्षः । इति शब्दचन्द्रिका ॥

परमार्थः, पुं, (परमः श्रेष्ठः अर्थः ।) उत्कृष्ट-

वस्तु । यथार्थः । यथा, --
“प्रपञ्चो यदि वर्त्तेत निवर्त्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥”
इति माण्डूक्यवार्त्तिकम् ॥
(तथा च कुमारे । ५ । ७५ ।
“उवाच चैनं परमार्थतो हरं
न वेत्सि नूनं यत एवमात्थ माम् ॥”
परमः मुख्यः अर्थः प्रयोजनमिति विग्रहे ।
मोक्षः । सुखम् । सुखभोगः दुःखाभावः ॥ इति
न्यायदर्शनम् ॥)

परमार्हतः, पुं, (परमः अर्हन् देवता उपास्यतया

अस्त्यस्य । परमार्हत् + अच् ।) जैनराजर्षि-
विशेषः । इति हेसचन्द्रः ॥

परमृत्युः, पुं, परेभ्यो मृत्युरस्य । (रोगादिना

मृत्योरभावात् अस्य तथात्वम् ।) काकः । इति
त्रिकाण्डशेषः ॥

परमेश्वरः, पुं, (परमश्चासौ ईश्वरश्चेति ।) शिवः ।

इति हलायुधः ॥ (यथा, महालिङ्गार्च्चनतन्त्रे
शिवशतनाम प्रकरणे, --
“सहस्रारे महापद्मे त्रिकोणनिलयान्तरे ।
विन्दुरूपे महेशानि ! परमेश्वर ईरितः ॥”)
विष्णुः । यथा, --
“इदन्तु द्वादशं प्रोक्तं पत्रं वै केशवस्य हि ।
द्वादशारं तथा चक्रं यन्नाभिद्विभुजं तथा ॥
त्रिव्यूहन्त्वेकमूर्त्तिश्च तथोक्तः परमेश्वरः ।”
इति वामने ५८ अध्यायः ॥
(स्त्रियां ङीप् । दुर्गा । यथा, --
देवीभागवते । ७ । ३० । ७० ।
“देवकी मथुरायान्तु पाताले परमेश्वरी ॥”)

परमेष्ठिनी, स्त्री (परमेष्ठिन् + ङीप् ।) ब्राह्मी ।

इति राजनिर्घण्टः ॥ वामनहाटी इति भाषा ॥
परमेष्ठिनः शक्तिश्च ॥

परमेष्ठी, [न्] पुं, (परमे व्योम्नि चिदाकाशे ब्रह्म-

पदे वा तिष्ठतीति । स्थागति निवृत्तौ “परमे
कित् ।” उणां । ४ । १० । इति इनिः स च
कित् । “हलदन्तात् सप्तम्याः संज्ञा-
याम् ।” ६ । ३ । ९ । इत्यलुक् “स्थास्थिन्
स्थणाम् । इति षत्वम् । परमे स्थानेऽनावृत्त-
लक्षणे तिष्ठतीति कुल्लूकभट्टः ॥) ब्रह्मा ।
इत्यमरः । १ । १ । १६ । (यथा, मनुः । १ । ८० ।
“मन्वन्तराण्यसंख्यानि सर्गः संहार एव च ।
क्रीडन्निवैतत् कुरुते परमेष्ठी पुनः पुनः ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । ५८ ।
“ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ॥”
महादेवः । यथा, महाभारते । ३ । ३७ । ५८ ।
“क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः ॥”)
दर्शनात्तस्य कौन्तेय ! संसिद्धः सर्व्वमेष्यसि ॥”)
जिनः । इति हेमचन्द्रः ॥ शालग्रामविशेषः ।
यथा, --
“परमेष्ठी च शुक्लाभः पद्मचक्रसमन्वितः ।
चित्राकृतिस्तथा पृष्ठे शुषिरञ्चातिपुष्कलम् ॥
परमेष्ठी लोहिताभश्चक्रमेकं तथा युतम् ।
विम्बाकृतिस्तथा रेखा शुषिरञ्चातिपुष्कलम् ॥”
इति ब्रह्मपुराणम् ॥
“परमेष्ठी च शुक्लाभश्चक्रपद्मसमन्वितः ।
स वर्त्तुलस्तथा पीतः पृष्ठे च शुषिरं ध्रुवम् ॥”
इति पुराणसंग्रहः ॥
“परमेष्ठी तु रक्ताभश्चक्रपद्मसमन्वितः ।
द्विधाकृतस्तथा पृष्ठे शुषिरञ्चापि वर्त्तुलम् ॥
पीतवर्णयुतो वापि भुक्तिमुक्तिवरप्रदः ॥”
इति वैश्वानरसंहिता ॥ * ॥
गुरुविशेषः । यथा, --
“आदौ सर्व्वत्र देवेशि ! मन्त्रदः परमो गुरुः ।
परापरगुरुस्त्वं हि परमेष्ठी त्वहं गुरुः ॥”
इति बृहन्नीलतन्त्रे २ पटलः ॥
मन्त्रदाता गुरुः प्रोक्तो मन्त्रस्तु परमो गुरुः ।
परापरगुरुस्त्वं हि परमेष्ठिगुरुस्त्वहम् ॥”
इति तन्त्रान्तरम् ॥
(अजमीडपुत्त्रः । यथा, महाभारते । १ । ९४ । ३१ ।
“अजमीडो वरस्तेषां तत्मिन् वंशः प्रतिष्ठितः ।
षट् पुत्त्रान् सोऽप्यजनयत् तिसृषु स्त्रीषु भारत ! ।
ऋक्षं धूमिन्यथोनिली दुष्मन्तपरमेष्ठिनौ ॥”
परमस्थानस्थिते वाच्यलिङ्गः । यथा, मार्क-
ण्डेये । ७६ । २ ।
“अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।
चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज ! ॥”)

परम्परः, पुं, (परं पिपर्त्तीति । पॄलि पूर्त्तौ + अच् ।

“तत्पुरुषे कृतीति” अलुक् ।) प्रपौत्त्रादिः ।
मृगभेदः । इति हेमचन्द्रः ॥ प्रपौत्त्रतनयः ।
इति मेदिनी ॥

परम्परा, स्त्री, अन्वयः । (यथा, कुमारे । ६ । ४९ ।

“गगनादवतीर्णा सा यथां वृद्धपुरःसरा ।
तोयान्तर्भास्कराली च रेजे मुनिपरम्परा ॥”)
सन्तानः । बधः । हिंसा । इति हेमचन्द्रः ॥ परी-
पाटी । अनुक्रमः । इति शब्दरत्नावली ॥ यथा,
“इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान् मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥
पृष्ठ ३/०५३
एवं परम्पराप्राप्तं तथा राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ! ॥”
इति श्रीभगवद्गीतायां ४ अध्यायः ॥

परम्पराकं, क्ली, (परम्परया कायते प्रकाशते

इति । कै + कः । परम्परास्थापितपशुहननात्
तथात्वम् ।) यज्ञार्थपशुहननम् । तत्पर्य्यायः ।
शमनम् २ प्रोक्षणम् ३ । इत्यमरः । २ । ७ । २६ ॥
घातनम् ४ वधः ५ । इति शब्दरत्नावली ॥

परम्परीणं, त्रि, (परांश्च परतरांश्च अनुभवति ।

“परोवरपरम्परेति ।” ५ । २ । १० । इति स्वः ।
प्रकृतेः परम्परभावो निपात्यते ।) परम्परा-
प्राप्तम् । यथा, भट्टिः । ५ । १५ ।
“लक्ष्मीं परम्परीणां त्वं पुत्त्रपौत्त्रीणतां नय ॥”

पररुः, पुं, (पिपर्त्ति देहादिकं पूरयतीति । पॄ +

बाहुलकात् अरुः ।) केशराजः । इति त्रिकाण्ड-
शेषः ॥

परलोकः, पुं, (परो लोकः ।) लोकान्तरम् । तच्च

स्वर्गादि । यथा, --
“समज्ञानाल्पभूयिष्ठपान्थवैमत्यमेत्य यम् ।
लोके प्रयाति पन्थानं परलोकेन तं कुतः ॥”
इति नैषधम् ॥

परलोकगमः, पुं, (परलोके लोकान्तरे गमो गमनं

यस्मात् ।) मृत्युः । इति हेमचन्द्रः ॥

परवशः, त्रि, (परस्य परेषां वा वशः वशीभूतः ।)

अन्यवशीभूतः । तत्पर्य्यायः । परायत्तः २ परा-
घीनः ३ परच्छन्दः ४ परवान् ५ । इति हेम-
चन्द्रः ॥ (यथा, मनुः । ४ । १५९ ।
“यद्यत् परवशं कर्म्म तत्तद् यत्नेन वर्ज्जयेत् ।
यद्यदात्मवशन्तु स्यात्तत्तत् सेवेत यत्नतः ॥”)

परवाणिः, पुं, (परं धर्म्मं वाणयति प्रकाशयति ।

वण शब्दे + णिच् + इन् । धातूनामनेकार्थत्वादत्र
प्रकाशार्थः ।) धर्म्माध्यक्षः । वत्सरः । इति
मेदिनी ॥ (परं शत्रुं सर्पमित्यर्थः बाणयतीति ।)
कार्त्तिकेयवाहनो मयूरः । इति शब्दमाला ॥

परवान्, [त्] त्रि, (परः स्वामी अस्त्यस्य ।

“तदस्यास्त्यस्मिन्निति ।” ५ । २ । ९४ । इति
मतुप् मस्य वः ।) पराधीनः । इत्यमरः । ३ । १ । १६
(यथा, रघौ । २ । ५६ ।
“भवानपीदं परवानवैति
महान् हि यत्नस्तव देवदारौ ॥”)

परव्रतः, पुं, (परं व्रतमस्य ।) घृतराष्ट्रः । इति

शब्दरत्नावली ॥

परशं, क्ली, (स्पृशतीति । पृषोदरादित्वात् साधुः ।

अस्य स्पर्शनात् अपरस्य धातोः स्वर्णत्वं जायते
अतोऽस्य तथात्वम् ।) रत्नविशेषः । यथा, --
“मुक्तामाणिक्यपरशमणिरत्नाकरान्वितम् ।
कृष्णशुभ्रहरिद्रक्तमणिराजिविराजितम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ४ अध्वायः ॥

परशव्यं, त्रि, परशवे हितम् । तस्मै हितादा-

वुदन्तगवादेर्यत् । इति संक्षिप्तसारसूत्रम् ॥
(पां उपगवादिभ्यो यत् । परशुहितम् । इति
व्याकरणम् ॥)

परशुः, पुं, (परान् शत्रून् शृणाति हिनस्त्यनेनेति । शॄ

हिंसायाम् + “आङ्परयोः खनिशॄभ्यां डिच्च ।”
उणां । १ । ३४ । इति कुः स च डित् ।) अस्त्र-
विशेषः । टाङ्गी इति भाषा ॥ तत्पर्य्यायः ।
पर्शुः २ परश्वधः ३ पर्श्वधः ४ स्वधितिः ५ कुठारः ६ ।
इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ८९ । १४ ।
“ततः परशुहस्तं तमायान्तं दैत्यपुङ्गवम् ।
आहत्य देवीबाणौघैरपातयत भूतले ॥”)

परशुधरः, पुं, (धरतीति धरः । धृ + अच् । ततः

परशोर्धरः ।) गणेशः । इति हलायुधः ॥
(परशुरामः । परशुशस्त्रप्रधानत्वादस्य तथा-
त्वम् ॥)

परशुरामः, पुं, (परशुना कुठाराख्यशस्त्रेण

रामः रमणं यस्य । परशुशस्त्रबलेनैव दुष्ट-
क्षत्त्रियवंश्यान् निहत्यात्मानं रमयति इति तात्
पर्य्यार्थः ।) भगवतः षोडशावतारः । यथा, --
“अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।
त्रिःसप्तकृत्वः कुपितो निःक्षत्त्रामकरोन्महीम् ॥”
इति श्रीभागवते १ स्कन्घे २ अध्यायः ॥
तत्पर्य्यायः । जामदग्न्यः २ पर्शुरामः ३ परशु-
रामकः ४ भार्गवः ५ भृगुपतिः ६ भृगूला-
पतिः ७ । इति शब्दरत्नावली ॥ अस्योत्-
पत्त्यादिकं यथा, --
मार्कण्डेय उवाच ।
“अथ काले व्यतीते तु जमदग्निर्महातपाः ।
विदर्भराजस्य सुतां प्रयत्नेन जितां स्वयम् ॥
भार्य्यार्थे प्रतिजग्राह रेणुकां लक्षणान्विताम् ।
सा तस्मात् सुषुवे पुत्त्रान् चतुरो वेदसम्मतान् ॥
रुमण्वन्तं सुषेणञ्च विश्वं विश्वावसुन्तथा ।
पश्चात्तस्यां स्वयं जज्ञे भगवान् मधुसूदनः ॥
कार्त्तबीर्य्यवधायाशु शक्राद्यैः सकलैः सुरैः ।
याचितः पञ्चमः सोऽभूत्तेषां रामाह्वयस्तु यः ॥
भारावतारणार्थाय जातः परशुना सह ।
सहजः परशुस्तस्य तं जहाति कदाच न ॥
अयं निजपितामह्याश्चरुभुक्तिविपर्य्ययात् ।
ब्राह्मणः क्षत्त्रियाचारो रामोऽभूत् क्रूरकर्म्मकृत् ।
स वेदानखिलान् ज्ञात्वा धनुर्व्वेदांश्च सर्व्वशः ।
स्वतातात् कृतकृत्योऽभूद्वेदविद्याविशारदः ॥”
इति कालिकापुराणे ८५ अध्यायः ॥
अवशिष्टं पाद्मोत्तरखण्डे ५० अध्याये द्रष्टव्यम् ॥
(अयमेव पितुरादेशात् परशुना स्वमातुः शिर-
श्चिच्छेद ततः प्रसन्नात् पितुर्वरं लब्ध्वा मातरं
पुनर्जीवयामास । यदुक्तं महाभारते । ३ ।
११६ । ५ -- १८ ।
“फलाहारेषु सर्व्वेषु गतेष्वथ सुतेषु वै ।
रेणुका स्नातुमगमत् कदाचिन्नियतव्रता ॥
सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् ।
ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥
क्रीडन्तं सलिले दृष्ट्वा सभार्य्यं पद्ममालिनम् ।
ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥
व्यभिचाराच्च सा तस्मात् क्लिन्नाम्भसि विचेतना ।
प्रविवेशाश्रमं त्रस्ता तां वै भर्त्ता त्वबुध्यत ॥
स (जमदग्निः) तां दृष्ट्वा च्युतां धैर्य्यात् ब्राह्म्या
लक्ष्म्या विवर्ज्जिताम् ।
धिक्शब्देन महातेजा गर्हयामास वीर्य्यवान् ॥
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः ।
आजगाम सुषेणश्च वसुर्व्विश्वावसुस्तथा ॥
तानानुपूर्ब्ब्या भगवान् वधे मातुरचोदयत् ।
न च ते जातसम्मोहाः किञ्चिदूचुर्व्विचेतसः ॥
ततः शशाप तान् क्रोधात्ते शप्ताश्चेतनां जहुः ।
मृगपक्षिसधर्म्माणः क्षिप्रमासन् जडोपमाः ॥
ततो रामोऽभ्यात् पश्चादाश्रमं परवीरहा ।
तमुवाच महाबाहुं जमदग्निर्म्महातपाः ॥
जहीमां मातरं पापां मा च पुत्त्र ! व्यथां कृथाः ।
तत आदाय परशुं रामो मातुः शिरोऽहरत् ॥
ततस्तस्य महाराज ! जमदग्नेर्महात्मनः ।
कोपोऽभ्यगच्छत् सहसा प्रसन्नश्चाब्रवीदिदम् ॥
ममेदं वचनात्तात ! कृतं ते कर्म्म दुष्करम् ।
वृणीष्व कामान् धर्म्मज्ञ ! यावतो वाञ्छसे हृदा ॥
स वव्रे मातुरुत्थानमस्मृतिञ्च वधस्य वै ।
पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिन्तथा ॥
अप्रतिद्वन्दतां युद्धे दीर्घमायुश्च भारत ! ।
ददौ च सर्व्वान् कामांस्तान् जमदग्निर्महा-
तपाः ॥”
अयं पुनर्बलदर्पितं आश्रमात् वत्स्यहारिणं
कार्त्तवीर्य्यार्ज्जुनं हतवान् । अनेन जातामर्षा-
स्तस्यार्ज्जुनस्य सुतास्ततःप्रभृति कालं प्रतीक्ष-
माणाः कदाचित् रामविरहितमाश्रममागत्य
तस्य पितरं जमदग्निं निजघ्नुः । रामस्तु अस्मात्
पितृवधामर्षात् त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रिया-
मकरोत् । ततो गच्छति काले दाशरथिना
रामेण हतगर्व्वो दक्षिनाशां गत्वा महेन्द्रे गिरौ
उग्रेण तपसा कालं यापयति ॥)

परश्वः, [स्] व्य, श्वः परदिनम् । आगामि-

दिनात् परदिनम् । इत्यमरः । ३ । ४ । २२ ॥
अस्य टीका परश्वःशब्दे द्रष्टव्या । गतदिनात्
पूर्ब्बदिनम् । पर्शु इति भाषा ॥ यथा, --
“परश्वश्च महाभाग ! स्नातुं गङ्गाह्रदं गता ।
अवतीर्णा विकृष्टास्मि वृद्धनागेन केनचित् ॥”
इति मार्कण्डेयपुराणे अबीक्षिञ्चरितम् ॥

परश्वधः, पुं, (पर + श्वि + अन्येभ्योऽपीति डः । ततः

परश्वं दधातीति । “आतोनुपेति” ३ । २ । ३,
इति कः । कुठारः । इत्यमरः । २ । ८ । ९२ ॥
(यथा, रघौ । ६ । ४२ ।
धारां शितां रामपरश्वधस्य
सम्भावयत्युत्पलपत्रसाराम् ॥”)

परसंज्ञकः, पुं, (परा श्रेष्ठा संज्ञा अस्य । ततः

कप् ।) आत्मा । इति शब्दरत्नाबली ॥

परस्परं, त्रि, (“सर्व्वनाम्ने द्बे वाच्ये समासवच्च

बहुलम् ।” वार्त्तिं असमासवद्भावे पूर्ब्बपदस्य
सुपः सुर्व्वक्तव्यः । कस्कादित्वात् विसर्जनीयस्य
सः ।) अन्योन्यम् । इतरेतरम् । यथा, --
“वनानि तोयानि च नेत्रकल्पैः
पुष्पैः सरोजैश्च निलीनभृङ्गैः ।
पृष्ठ ३/०५४
परस्परां विस्मयवन्ति लक्ष्मी-
मालोकयाञ्चक्रुरिवादरेण ॥”
इति भट्टिः । २ । ५ ॥

परस्मैपदं, क्ली, (परस्मै परार्थं परबोधकं पदम् ।

दशलकाराणां प्रत्येकं पूर्ब्बनवविभक्तयः । यथा,
“लडादिषु पूर्ब्बे नव परस्मैपदं परे नव आत्मने-
पदं परिभाष्यन्ते । इति संक्षिप्तसारव्याकरणम् ॥
(ताश्च पाणिनिमते । तिप् तस् झि । सिप्
थस् थ । मिप् वस् मस् ॥) वोपदेवेनास्य
पसंज्ञा कृता । यथा । “नवशः पमे ञितोऽन्य-
ङिद्भ्यां घे ।” इति मुग्धबोधव्याकरणम् ॥

परस्वधः, पुं, (परश्वध + निपातनात् सत्वम् ।)

परश्वधः । कुठारः । इत्यमरटीकायां राय-
मुकुटः ॥

परा, व्य, विमोक्षः । प्राधान्यम् । प्रातिलोम्यम् ।

धर्षणम् । आभिमुख्यम् । भृशार्थम् । विक्रमः ।
गतिः । वधः । इति मेदिनी ॥ * ॥ उपसर्ग-
विशेषः । अस्यार्थः । भङ्गः । अनादरः । प्रत्या-
वृत्तिः । न्यग्भावः । इति मुग्धबोधटीकायां
दुर्गादासः ॥

परा, स्त्री, (पॄ + अच् + ततः टाप् ।) बन्ध्या-

कर्कोटकी । इति राजनिर्घण्टः ॥ (अस्याः गुणा
यथा, --
“बन्ध्याकर्कोटकी लघ्वी कफणुद्व्रणशोधिनी ।
सर्पदर्पहरी तीक्ष्णा विसर्पविषहारिणी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
नाभिरूपमूलाधारात् प्रथमोदितनादस्वरूप-
वर्णः । यथा, --
“मूलाधारात् प्रथममुदितो यस्तु भावः पराख्यः ॥”
इत्यलङ्कारकौस्तुभे प्रथमकिरणः ॥
(पूरयति सागरं भक्तमनोरथञ्चेति व्युत्पत्या
गङ्गा । यथा, काशीखण्डे । २९ । १०६ ।
“परानन्दा प्रकृष्टार्था प्रतिष्ठा पालनी परा ॥”
गायत्त्री । यथा, देवीभागवते । १२ । ६ । ९० ।
“पार्व्वती परमोदारा परब्रह्मात्मिका परा ॥”)

पराकः, पुं, (परं अत्यन्तं अकं दुःखं उपवासादि-

जन्यशारीरिकादिक्लेशो यत्र यस्माद्वा ।) व्रत-
विशेषः । खड्गः । इति मेदिनी ॥ क्षुद्रः ।
रोगविशेषः । जन्तुविशेषः । इति विश्वः ॥ * ॥
पराकव्रतमाह मनुः । ११ । २१५ ।
“यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ।
पराको नाम कृच्छ्रोऽयं सर्व्वपापापनोदनः ॥”
पराके पञ्च धेनवः पराकस्य प्राजापत्यपञ्चक-
तुल्यत्वात् । यथा अङ्गिराः ।
“षड्भिर्व्वर्षैः कृच्छ्रचारी ब्रह्महा तु विशुध्यति ।
मासि मासि पराकेण त्रिभिर्व्वर्षैर्व्यपोहति ॥”
अत्र षड्भिर्व्वर्षैः साशीतिशतप्राजापत्यानि
पूर्ब्बमुक्तानि तथा प्रतिमास्येकैकपराकेण वर्षे
द्बादश पराकाः वर्षत्रये षट्त्रिंशत् पराकाः ।
ततश्च षट्त्रिंशत् पराकाशीत्युत्तरप्राजापत्य-
शतयोः प्रत्येकं ब्रह्मवधपापक्षयैककार्य्यकरत्वात्
तुत्यत्वं षट्त्रिंशतश्च पञ्चगुणमशीत्युत्तरशतं
भवतीति । अतः प्राजापत्यपञ्चकतुल्यः पराकः ।
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
“द्वादशाहोपवासेन पराकः सर्व्वपापहा ॥”
इति गरुडपुराणे प्रायश्चित्तप्रकरणम् ॥

पराक्, [च] त्रि, परा अञ्चतीति । (परा + अञ्च +

क्विप् ।) प्रतिलोमगमनाश्रयः ॥

पराक्पुष्पी, स्त्री, (पराक् पुष्पं यस्याः ।) अपा-

मार्गः । इति राजनिर्घण्टः ॥ (अपामार्गशब्दे-
ऽस्या विवृतिरुक्ता ॥)

पराक्रमः, पुं, (पराक्रम्यतेऽनेन । (क्रम + “हलश्च ।”

३ । ३ । १२१ । इति घञ् । “नोदात्तोप-
देशस्य ।” ७ । ३ । ३४ । इति न वृद्धिः ।)
तत्पर्पायः । द्रविणम् २ तरः ३ सहः ४ बलम् ५
शौर्य्यम् ६ स्थाम ७ शुष्मम् ८ शक्तिः ९ प्राणः १० ।
इत्यमरः । २ । ८ । १०२ ॥ महः ११ शूष्म १२
सामर्थ्यम् १३ । इति शब्दरत्नावली ॥ (यथा,
मार्कण्डेये देवीमाहात्म्ये । ९२ । १३ ।
“पराक्रमञ्च युद्धेषु जायते निर्भयः पुमान् ॥”)
विक्रमः ॥ (यथा, मार्कण्डेये । २० । २५ ।
“यस्य मित्रगुणान् मित्राण्यमित्राश्च पराक्रमम् ।
कथयन्ति सदा सत्सु पुत्त्रवांस्तेन वै पिता ॥”)
उद्योगः । इति मेदिनी ॥ निष्क्रान्तिः । इति
शब्दरत्नावली ॥ (विष्णुः । यथा, महा-
भारते । १३ । १४९ । ४४ ।
“औषधं जगतः सेतुः सत्यधर्म्मः पराक्रमः ॥”)

परागः, पुं, (परागच्छतीति । गम + अन्येभ्यो-

पीति डः ।) पुष्पधूलिः । तत्पर्य्यायः । सुमनो-
रजः २ कौसुमरेणुः ३ । इत्यमरः । २ । ४ । १७ ॥
पुष्परेणुः ४ । इति शब्दरत्नावली ॥ (यथा,
आर्य्यासप्तशती । ५०६ ॥
“लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण ।
अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥”)
धूलिः ॥ (यथा, रघुः । ४ । ३० ।
“प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् ।
ययौ पश्चाद्रथादीति चतुस्कन्धेव सा चमूः ॥”)
स्नानीयद्रव्यम् ॥ गिरिप्रभेदः ॥ विख्यातिः ॥
उपरागः ॥ चन्दनम् । इति मेदिनी ॥ स्वच्छन्द-
गमनम् । इति शब्दरत्नावली ॥

पराङ्गदः, पुं, (परं अङ्गं काशीमृत्यौ शिवत्वं

ददातीति । दा + कः ।) शिवः । इति शब्द-
माला ॥

पराङ्गवः, पुं, (पराङ्गं जलवृद्ध्या प्रचुरशरीरं

वाति प्राप्नोतीति । वा + कः ।) समुद्रः । इति
त्रिकाण्डशेषः ॥

पराङ्मुखः, त्रि, (पराक् प्रतिलोमगामि मुखं

यस्य ।) विमुखः । तत्पर्य्यायः । पराचीनः २ ।
इत्यमरः । ३ । १ । ३३ ॥ (यथा, मनुः । १० ।
११९ ।
“स्वधर्म्मो विजयस्तस्य नाहवे स्यात् पराङ्मुखः ॥
तन्त्रोक्तमन्त्रविशेषे, पुं । यथा, तन्त्रसारे ।
“कामबीजं मुखे माया शिरस्यङ्कुशमेव च ।
असौ पराङ्मुखः प्रोक्तो मध्ये तु बिन्दुलाञ्छितः ॥”)

पराचितः, त्रि, (परेण आचितः पालितः ।)

परपुष्टः । परद्वारा प्रतिपालितः । तत्पर्य्यायः ।
परिस्कन्दः २ परजातः ३ परैधितः ४ । इत्य-
मरः । २ । १० । १८ ॥ परिष्कन्दः ५ । इति भरतः ॥

पराचीनः, त्रि, (पराञ्चति अनभिमुखीभवतीति ।

अञ्चु + “ऋत्विग्दधृक् ।” ३ । २ । ५९ । इति
क्विन् ततः स्वार्थे “विभाषाञ्चेरदिक् स्त्रियाम् ।”
५ । ४ । ८ । इति खः ।) पराङ्मुखः । इत्य-
मरः । ३ । १ । ३३ ॥ (यथा, भागवते । ३ । ३२ । २८ ।
“ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् ।
अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्म्मिणा ॥”)

पराजयः, पुं, (परा + जि + अप् ।) रणे भङ्गः ।

इत्यमरः । २ । ८ । १११ ॥ (अत्र रण इत्युप-
लक्षणं वस्तुतस्तु विद्यावादादावपीतिबोद्धव्यम् ।)
तत्पर्य्यायः । भङ्गः २ हारी ३ हारिः ४ परा-
भवः ५ । इति शब्दरत्नावली ॥ (यथा, मनुः ।
७ । १९९ ।
“अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः ।
पराजयश्च संग्रामे तस्माद्युद्धं विवर्ज्जयेत् ॥”)

पराजितः, त्रि, (परा + जि + कर्म्मणि क्तः ।)

कृतपराजयः । हारितः । तत्पर्य्यायः । परा-
भूतः २ विजितः ३ निर्जितः ४ जितः ५ । इति
शब्दरत्नावली ॥ “इदं वाच्यमिदमवाच्यमेवं सति
पराजितो भवतीति इमानि खलु पदानि भिषग्-
वादमार्गज्ञानार्थमधिगम्यानि भवन्ति ।” इति
चरके विमानस्थानेऽष्टमेऽध्याये ॥)

पराञ्जः, पुं, (परान् अनक्तीति । अञ्जु व्याप्तौ +

अच् ।) तैलयन्त्रः । फेनः । छुरिकादलम् । इति
शब्दरत्नावली ॥

परात्परः, पुं, परात् श्रेष्ठादपि परः श्रेष्ठः । स च

श्रीकृष्णः । यथा, --
“देवाः कालस्य कालोऽहं विधातुर्विधिरेव च ।
संहारकर्त्तुः संहर्त्ता पातुः पाता परात्परः ॥”
इति ब्रह्यवैवर्त्ते श्रीकृष्णजन्मखण्डे ६ अध्यायः ॥

परात्प्रियः पुं, (परादपि प्रियः ।) तृणविशेषः ।

इति शब्दचन्द्रिका । उलु इति भाषा ॥

परादनः, पुं, (परमुत्कृष्टं अदनं यस्य यद्वा

परान् शत्रून् अत्ति भक्षयति नाशयतीत्यर्थः
आदयति विजापयति स्वारोहिणं संग्रामे इति
वा अद ल्युः णिच् ल्युर्वा ।) पारसीघोटकः ।
इति त्रिकाण्डशेषः ॥

पराधीनः, त्रि, (परस्य परेषां वा अधीनः ।)

परवशः । तत्पर्य्यायः । परतन्त्रः २ परवान् ३
नाथवान् । इत्यमरः । ३ । १ । १६ ॥ तस्य
जीवन्मृतत्वं यथा, --
“स्वाधीनवृत्तेः साफल्यं न पराधीनवृत्तिता ।
ये पराधीनकर्म्माणो जीवन्तोऽपि च ते मृताः ॥”
इति गरुडपुराणें ११३ अध्यायः ॥

परानसा, स्त्री, चिकित्सा । इति शब्दचन्द्रिका ॥

परान्नं, क्ली, (परस्य अन्नम् ।) अन्यस्वामिकभक्त-

पिष्टकादि ॥ परकर्त्तृकशस्यपाकजद्रव्यमात्रम् ।
परस्पृष्टान्नम् । तस्य त्याज्यत्वं यथा, --
पृष्ठ ३/०५५
“परान्नं परवासश्च नित्यं धर्म्मरतस्त्यजेत् ।”
इति स्मृतिः ॥
संयमदिने तस्य त्याज्यत्वं यथा, --
“कांस्यं मांसं मसूरञ्च चणकं कोरदूषकम् ।
शाकं मधु परान्नञ्च त्यजेदुपवसन् स्त्रियम् ॥” * ॥
पारणदिने तस्य त्याज्यत्वं यथा, --
“अभ्यङ्गञ्च परान्नञ्च तैलं निर्म्माल्यलङ्घनम् ।
तुलसीचयनं द्यूतं पुनर्भोजनमेव वा ॥
वस्त्रपीडां तथा क्षारं द्वादश्यां वर्ज्जयेद्बुधः ॥” * ॥
तद्भोक्तुर्यागादेर्विफलत्वं यथा, --
“परपाकेन जुष्टस्य द्बिजस्य गृहमेधिनः ।
इष्टं दत्तं तपोऽधीतं यस्यान्नं तस्य तद्भवेत् ॥” * ॥
तद्भुक्त्वा पुत्त्रोत्पादने दोषो यथा, --
“यस्यान्नेन तु भुक्तेन भार्य्यां समधिगच्छति ।
यस्यान्नं तस्य ते पुत्त्रा अन्नाद्रेतः प्रवर्त्तते ॥” * ॥
ब्राह्मणादिस्वामिकान्नभोजने दोषो यथा, --
“ब्राह्मणान्नेन दारिद्र्यं क्षत्त्रियान्नेन प्रेष्यताम् ।
वैश्यान्नेन तु शूद्रत्वं शूद्रान्नैर्नरकं व्रजेत् ॥”
इत्येकादशीतत्त्वम् ॥ * ॥
परान्नभोजनेन तीर्थगमने फलस्याल्पत्वं यथा, --
“षोडशांशं स लभते यः परान्नेन गच्छति ।
अर्द्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति ॥”
इति प्रायश्चित्ततत्त्वम् ॥ * ॥
महागुरुनिपाते तस्य त्याज्यत्वं यथा, --
“अन्यश्राद्धं परान्नञ्च गन्धं माल्यञ्च मैथुनम् ।
वर्ज्जयेद्गुरुपाते तु यावत् पूर्णो न वत्सरः ॥”
इति शुद्धितत्त्वम् ॥ * ॥
तद्भोक्तुर्मन्त्रसिद्धिहानिर्यथा, --
“जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् ।
मनो दग्धं परस्त्रीभिः कथं सिद्धिर्व्वरानने ! ॥”
इति तन्त्रम् ॥ * ॥
तद्भोजने प्रतिप्रसवो यथा, --
“गुर्व्वन्नं मातुलान्नं वा श्वशुरान्नं तथैव च ।
पितुः पुत्त्रस्य चैवान्नं न परान्नमिति स्मृतिः ॥”
इत्येकादशीतत्त्वम् ॥

परान्नः, त्रि, (परान्नं नित्यमस्त्यस्य । “अर्श

आदिभ्योऽच् ।” ५ । २ । १२७ । इति अच् ।)
परान्नोपजीवी । तत्पर्य्यायः । परपिण्डादः २ ।
इत्यमरः । ३ । १ । २० ॥

परापं, त्रि (परागता आपो यस्मात् । “अवर्णा-

न्ताद्वा ।” ६ । ३ । ९७ । इत्यस्य वार्त्तिं इत्यनेन
पक्षे अप ईदभावः ।) पक्षे ईत्वे परेपम् । इति
सिद्धान्तकौमुदी ॥

परापरं, क्ली, (परमापिपर्त्ति । आ + पॄ + अच् ।) परू-

षकम् । इति भावप्रकाशः ॥ (अस्य विवरणं परूष-
शब्दे द्रष्टव्यम् ॥ परञ्चापरञ्च द्बयोः समाहारः ।)
परमपरञ्च ॥ (यथा, विष्णुपुराणे । १ । ६ । २७ ।
“एताश्च सहयज्ञेन प्रजानां कारणं परम् ।
परापरविदः प्राज्ञास्ततो यज्ञान् वितन्वते ॥”)

परापरगुरुः, पुं, (परमादपि परः श्रेष्ठः परापरः ।

पृषोदरादित्वात् साधुः ततः कर्म्मधारयः ।) गुरु-
विशेषः । स तु भगवती । (यथा, --
“आदौ सर्व्वत्र देवेशि ! मन्त्रदः परमो गुरुः ।
परापरगुरुस्त्वं हि परमेष्ठी त्वहं गुरुः ॥”
इति बृहन्नीलतन्त्रे २ पटलः ॥
(तन्त्रान्तरे च यथा, --
“मन्त्रदाता गुरुः प्रोक्तो मन्त्रस्तु परमो गुरुः ।
परापरगुरुस्त्वं हि परमेष्ठिगुरुस्त्वहम् ॥”)

पराभवः, पुं, (पराभूयते इति पराभवनमित्यर्थः ।

परा + भू + भावे अप् ।) तिरस्कारः । (यथा,
मार्कण्डेये । १८ । २८ ।
“मद्यासक्तोऽहमुच्छिष्टो नचैवाहं जितेन्द्रियः ।
कथमिच्छथ मत्तोऽपि देवाः शत्रुपराभवम् ॥”)
अस्य पर्य्यायः । न्यक्कारः २ तिरस्क्रिया ३ परि-
भावः ४ विप्रकारः ५ परिभवः ६ अभिभवः ७
अत्याकारः ८ निकारः ९ । इति हेमचन्द्रः ॥
विनाशः । इति मेदिनी ॥

पराभूतः, त्रि, (पराभूयते स्म । परा + भू + क्त ।)

पराजितः । इत्यमरः । २ । ८ । ११२ ॥

परामर्शः, पुं, (परामृश्यते इति । परामर्शन-

मित्यर्थः । परा + मृश् + भावे घञ् ।) युक्तिः ।
विवेचनम् । तत्पर्य्यायः । वितर्कः २ उन्नय-
नम् ३ विमर्षणम् ४ अध्याहारः ५ तर्कः ६
ऊहः ७ । इति हेमचन्द्रः ॥ तर्कशास्त्रे तु व्याप्ति-
विशिष्टपक्षधर्म्मताज्ञानम् । यथा, --
“व्याप्यस्य पक्षधर्म्मत्वधीः परामर्श उच्यते ॥”
इति भाषापरिच्छेदः ॥
अस्यार्थः “व्याप्तिविशिष्टस्य पक्षेणसह वैशिष्ठ्या
वगाहिज्ञानमनुमितिजनकम् । तच्च व्याप्यः
पक्षे इति ज्ञानं पक्षो व्याप्यवान् इति ज्ञानं
वा ।” इति सिद्धान्तमुक्तावली ॥ स चानुमित-
व्यापारः । यथा, --
“व्यापारस्तु परामर्शः करणं व्याप्तिधीर्भवेत् ॥”
इति भाषापरिच्छेदः ॥
अस्यार्थः । “अनुमायामनुमितौ व्याप्तिज्ञानं
कारणं परामर्शो व्यापारः । तथा हि । येन
पुरुषेण महानसादौ धूमे वह्नेर्व्याप्तिर्गृहीता
पश्चाच्च स एव पुरुषः क्वचित् पर्व्वतादौ अवि-
च्छिन्नमूलां धूमरेखां पश्यति तदनन्तरं धूमो
वह्निव्याप्य इत्येवं रूपं व्याप्तिस्मरणं तस्य पुरु-
षस्य भवति पश्चाच्च वह्निव्याप्यधूमवान् पर्व्वत
इति ज्ञानं भवति स एव परामर्श इत्युच्यते ।”
इति सिद्धान्तमुक्तावली ॥

परामृतं, क्ली (परममृतं वारि यस्मात् ।) वर्ष-

णम् । इति त्रिकाण्डशेषः ॥ (परममृतं अम-
रणधर्म्मकं ब्रह्मात्मभूतं यस्य । इति विग्रहे
वाच्यलिङ्गः । यथा, मुण्डकोपनिषदि । ३ । २ । ६ ।
“वेदान्तविज्ञानसुनिश्चितार्थाः
सन्न्यासयोगात् यतयः शुद्धसत्त्वाः ।
ते ब्रह्मलोकेषु परान्तकाले
परामृताः परिमुच्यन्ति सर्व्वे ॥”)

परामृष्टः, त्रि, (परामृश्यते स्म । परा + मृश् +

कर्म्मणि क्तः ।) सम्बन्धः । सम्बन्धयुक्तः । यथा, --
“क्लेशकर्म्मविपाकाशयैरपरामृष्टः । इति कुसु-
माञ्जलिकारिकाव्याख्याने रामभद्रः ॥ कृतपरा-
मर्शः । विवेचितः ॥

परायणं, त्रि, आसङ्गवचनम् । इत्यमरः । ३ । २ । २ ॥

परं केवलमयनमासक्तिस्थानमिति परायणम् ।
यथा धर्म्मपरायणो धर्म्मासक्तः । इति भरतः ॥
आश्रयः । (यथा, मनुः । ४ । १० ।
“वर्त्तयंश्च शिलोञ्छाभ्यामग्निहोत्रपरायणः ॥”
तत्परम् । अभीष्टम् । इति मेदिनी ॥ (नित्य-
प्रतिष्ठा । यथा, रामायणे । २ । ४८ । १७ ।
“पादच्छायासुखं भर्त्तुस्तादृशस्य महात्मनः ।
स हि नाथोजनस्यास्य स गतिः स परायणम् ॥”
“परायणं शाश्वतप्रतिष्ठा ।” इति रामानुजः ॥)

परायत्तं, त्रि, (परस्य परेषां वा आयत्तम् ।)

पराधीनम् । यथा, --
“तत्रायत्तवशाधीनच्छन्दवन्तः परात्परे ॥”
इति हेमचन्द्रः ॥

परारि, व्य (पूर्ब्बतरे वत्सरे इत्यर्थे “सद्यः परुत्-

परारीति ।” ५ । ३ । २२ । इति पूर्ब्बतरस्य
परभावः आरि च संवत्सरे ।) पूर्व्वतरवत्सरे ।
गततृतीयवर्षे । इत्यमरभरतौ ॥ (परस्य अरिः ।)
परशत्रौ त्रि ॥

परारित्नः, त्रि, (परारि भवः । “चिरपरुत्परा-

रिभ्यस्त्नो वक्तव्यः ।” ४ । ३ । २३ । इत्यस्य वार्त्तिं
इत्यनेन त्नः ।) पूर्ब्बतरवत्सरसम्बन्धी । इति
व्याकरणम् ॥

परारुः, पुं, (परार्च्छतीति । परा + ऋ + उन् ।)

कारवेल्लः । इति त्रिकाण्डशेषः ॥ (कारवेल्लशब्दे-
ऽस्य गुणादयो ज्ञातव्याः ॥)

परारुकः, पुं, (परार्च्छतीति । परा + ऋ + उकः ।)

प्रस्तरः । इति त्रिकाण्डशेषः ॥

परार्द्धं क्ली, (परार्द्ध्यति सर्व्वोत्कृष्टतया वर्द्ध्वते इति ।

ऋध्यैर वृद्धौ + अच् ।) दशमध्यसंख्या । लक्ष-
लक्षकोटिः । १००,०००,०००,०००,०००,०००
इदं चरमसंख्या अष्टादशाङ्कपर्य्यन्तम् । इति
हेमचन्द्रः ज्योतिषश्च ॥ (यथा, नैषधे । ३ । ४० ।
“यदि त्रिलोकीगणनापरा स्यात्
तस्याः समाप्तिर्यदि नायुषः स्यात् ।
पारे परार्द्धं गणितं यदि स्यात्
गणेयनिःशेषगुणोऽपि स स्यात् ॥”)
ब्रह्मण आयुषोऽर्द्धम् । यथा, --
“निजेन तस्य मानेन चायुर्व्वर्षशतं स्मृतम् ।
तत् पराख्यं तदर्द्धञ्च परार्द्धमभिधीयते ॥”
इति कौर्म्मे ५ अध्यायः ॥
(तथा, मार्कण्डेये । ४६ । ४२ -- ४३ ।
“शतं हि तस्य (ब्रह्मणः) वर्षाणां परमित्यभि-
धीयते ।
पञ्चाशद्भिस्तथावर्षैः परार्द्धमिति कीर्त्त्यते ॥
एवमस्य परार्द्धन्तु व्यतीतं द्बिजसत्तम् ! ।
यस्यान्तेऽभून्महाकल्पः पाद्म इत्यभिविश्रुतः ॥”)

परार्द्ध्यः, त्रि, (परार्द्धं परार्द्धसंख्यावत् प्रधानत्व-

मर्हतीति । परार्द्ध + यत् यद्वा परस्मिन्नर्द्धे भवः ।
“परावराधमोत्तमपूर्ब्बांच्च ।” ४ । ३ । ५ । इति
पृष्ठ ३/०५६
यत् ।) प्रधानः । श्रेष्ठः । इत्यमरः । ३ । १ । ५८ ।
(यथा, रघुः । १० । ६४ ।
“ताभ्यस्तथाविधान् स्वप्नान् श्रुत्वा प्रीतो हि
पार्थिवः ।
मेने परार्द्ध्यमात्मानं गुरुत्वेन जगद्गुरोः ॥”)

परावतं, क्ली, (परावततीति । परा + अव + बाहु-

लकात् अतच् ।) परूषकम् । इति राज-
निर्घण्टः ॥

परावर्त्तः, पुं, (परा वर्त्त्यते इति । परा + वृत् +

अप् ।) परिवर्त्तः । विनिमयः । इति हेमचन्द्रः ॥

परावहः, पुं, (परा वहतीति । वह् + अच् ।)

सप्तवाय्वन्तर्गतसप्तमवायुः । स तु परिवहवायो-
रूर्ड्घस्थितः । इति सिद्धान्तशिरोमणिः ॥ (यथा,
हरिवंशे २३६ अध्याये ।
“आवहः प्रवहश्चैव विवहश्च समीरणः ।
परावहः संवहश्च उद्वहश्च महाबलः ॥”)

पराविद्धः, पुं, (परा + व्यध + क्तः ।) कुवेरः ।

इति शब्दमाला ॥

परावेदी, स्त्री, (परमुत्कर्षमाविन्दतीति । विद्

+ अण् । स्त्रियां ङीप् ।) बृहती । इति
केचित् ॥

पराशरः, पुं, (अस्य निरुक्तिरुक्ता यथा, महा-

भारते । १ । १७९ । ३ ।
“परासुः स यतस्तेन वशिष्ठः स्थापितो मुनिः ।
गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥”
“परासोराशासनमवस्थानं येन स पराशरः ।
आङ्पूर्ब्बाच्छासतेर्डरन् ।” इति नीलकण्ठः ॥)
व्यासपिता । शक्त्रिमुनिपुत्त्रः । यथा, --
“सुतं त्वजनयच्छक्त्रेरदृश्यन्ती पराशरम् ।
काली पराशरात् जज्ञे कृष्णद्वैपायनं मुनिम् ॥”
इत्यग्निपुराणम् ॥
(अयं हि द्बादशाध्यायात्मिकां धर्म्मसंहितां कृत-
वान् । सा च कलिकर्त्तव्यधर्म्मविषया । यदुक्तं
तत्रैव ।
“कृते तु मानवो धर्म्मस्त्रेतायां गौतमः स्मृतः ।
द्वापरे शङ्खलिखितः कलौ पाराशरः स्मृतः ॥”
तत्र संहितायां १ मे अध्याये युगभेदे धर्म्मभेदादि-
कथनम् । २ अः आचारधर्म्मगृहधर्म्मादिकथ-
नम् । ३ अः अशौचव्यवस्था आत्महरणादि-
दोषाः । ४ अः प्रायश्चित्तमतान्त्येष्टिक्रियाकुश-
पुत्तलिकादिकथनम् । ५ अः प्राणिदष्टप्रायश्चित्त-
अवस्था । ६ अः प्राणिवधप्रायश्चित्तकथनम् ।
७ अः द्रव्यशुद्ध्यादि । ८ अः गोवधादिप्राय-
श्चित्तम् । ९ अः गोवधापवादादि । १० अः
अगम्यागमनादिप्रायश्चित्तम् । ११ अः अमेध्य-
भक्षणादि प्रायश्चित्तेम् । १२ अः प्रायश्चि त्ताङ्ग-
स्नानमेदादि ॥ * ॥
अयं खलु मत्स्यगन्धायां सत्यवत्यां वेदव्यास-
मुनुपादितवान् । एतद्विवरणमुक्तं यथा देवी-
भागवते । २ स्कन्धे । २ अध्याये द्रष्टव्यम् ॥
परान् आश्वणाति हिनस्तीति । शृ गि हिंसे
+ अच् ।” नागभेदः । यथा, महाभारते ।
१ । ५७ । १८ । “वराहको वीरणकः सुचित्र-
श्चित्रवेगिकः । पराशरस्तरुणको मणिस्कन्ध-
स्तथारुणिः ॥”)

पराशरी, [न्] पुं, पराशरेण प्रोक्तं भिक्षुसूत्रं

पाराशरं तद्विद्यतेऽस्याध्ययनायेति ष्णः इन् च ।
पराशरीति ह्नस्वादिश्च । इत्यमरटीकायां भरतः ॥
पाराशरी । चतुर्थाश्रमी ॥

पराश्रया, स्त्री, (पर आश्रयो यस्याः ।) वृक्षो-

परिजातलताविशेषः । परसाडा इति भाषा ।
तत्पर्य्यायः । बन्दा २ वृक्षादनी ३ वृक्षरुहा ४
जीवन्तिका ५ वशिनी ६ पुत्त्रिणी ७ बन्द्या ८
परपुष्टा ९ । इति शब्दचन्द्रिका ॥ (अन्याश्रिते,
त्रि ॥)

परासनं, क्ली, (परा + अस् + भावे ल्युट् ।)

मारणम् । वधः । इत्यमरः । २ । ८ । ११३ ॥

परासुः, त्रि, (परागताः प्रस्थिता असवः प्राणा

यस्य ।) मृतः । इत्यमरः । २ । ८ । ११७ ॥
(यथा, रघौ । ९ । ७८ ।
“तौ दम्पती बहु विलप्य शिशोः प्रहर्त्त्रा
शल्यं निखातमुदहारयतामुरस्तः ।
सोऽभूत् परासुरथ भूमिपतिं शशाप
हस्तार्पितैर्नयनवारिभिरेव वृद्धः ॥”
परासुपरीक्षा वैद्यके यथा, --
“तस्य चेत् परिदृश्यमानं पृथक्त्वेन पादजङ्घोरु-
स्फिगुदरपार्श्व-पृष्ठेषिका-पाणिग्रीवा-ताल्वोष्ठ-
ललाटं स्विन्नं शीतं प्रस्तब्धं दारुणं वीतमांस-
शोणितं वा स्यात् । परासुरयं पुरुषो न चिरात्
कालं करिष्यतीति विद्यात् । तस्य चेत् परि-
मृश्यमानानि पृथक्त्वेन गुल्फजानुवङ्क्षण-गुद-
वृषण-मेढ्रनाभ्यंशस्तनमणिकहनुपर्शुका नासिका
कर्णाक्षिभ्रूशङ्खादीनि स्रस्तानि व्यस्तानि च्युतानि
स्थानेभ्यः स्युः परामुरयं पुरुषो न चिरात्
कालं करिष्यतीति विद्यात् ।”
“तस्य चेदुच्छासोऽतिदीर्घोऽतिह्रस्वो वा स्यात्
परासुरिति विद्यात् । तस्य चेन्मन्ये परिदृश्य-
मानेन न स्पन्देयातां परासुरिति विद्यात् ।
तस्य चेद्दन्ताः प्रतिकीर्णाः श्वेता जातशर्कराः
स्युः परासुरिति विद्यात् । तस्य चेत् पक्ष्माणि
जटावद्धानि स्युः परासुरिति विद्यात् । तस्य
चेच्चक्षुषी प्रकृतिहीने विकृतियुक्ते अत्युत्-
पिण्डिते अतिप्रविष्टे अतिजिह्मे अतिविषमे
अतिप्रस्रुते अतिविमुक्तबन्धने सततोन्मिषिते
सततनिमिषिते निमेषोन्मेषातिप्रवृत्ते बिभ्रान्त-
दृष्टिके विपरीतदृष्टिके हीनदृष्टिके व्यस्तदृष्टिके
नकुलान्धे कपोतान्धे अङ्गारवर्णे कृष्णनील-
पीतश्यावताम्रहरितहारिद्रशुक्लवैकारिकाणां
वर्णानामन्यतमेनाभिसंप्लुते वा स्यातां परासु-
रिति विद्यात् । तथास्य केशलोमान्यायच्छेत् ।
तस्य चेत् केशलोमान्यायस्यमानानि प्रलुच्येरन्
नचेत् वेदयत् परासुरिति विद्यात् ।
तस्य चेदुदरे शिराः प्रदृश्येरन् । श्यावताम्र-
नील-हारिद्रशुक्ला वा स्युः परासुरिति विद्यात् ।
तस्य चेन्नखा वीतमांसशोणिताः पक्वजाम्बर-
वर्णाः स्यः परासुरिति विद्यात् ।
अथास्याङ्गुलीरायच्छेत्तस्य चेदङ्गुलय आयस्य-
माना नचेत् स्फुटेयुः परासुरिति विद्यात् ॥”
इति चरकेणेन्द्रियस्थाने चतुर्थेऽध्याय उक्तम् ॥
“वाताष्ठीला तु हृदये यस्योर्द्ध्वमनुयायिनी ।
रुजान्नविद्वेषकरी स परासुरसंशयम् ॥”
इति सुश्रुते सूत्रस्थाने एकत्रिंशत्तमेऽध्याये ॥)

परासुता, स्त्री, (परासोर्मृतस्य भावः । परासु +

तल् स्त्रियां टाप् ।) मृतत्वम् । निद्रापरवशता ।
इति पुराणम् ॥

परास्कन्दी, [न्] पुं, (परान् आस्कन्दितुं शील-

मस्य । आ + स्कन्द + णिनिः ।) चौरः । इत्य-
मरः । २ । १० । २५ ॥

परास्तं, त्रि (परास्यते स्म । परा + अस् + क्तः ।)

निरस्तम् । पराजितम् । यथा, --
“ह्नीर्गिरास्तु वरमस्तु पुनर्म्मा-
स्वीकृतैव परवागपरास्ता ॥”
इति नैषधे ५ सर्गः ॥

पराहः, पुं, (परमुत्तरवर्त्ति अहः । “राजाहः

सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति टच् ।) पर-
दिनम् । यथा । पूर्ब्बाहे तद्विधत्वेऽपि पराहे
त्रिसन्ध्याव्यापित्वे पराह एव । इति सावित्री-
व्रते तिथितत्त्वम् ॥

पराह्णः, पुं, (परञ्च तदहश्चेति कर्म्मधारयः ।

“अह्नोऽह्न एतेभ्यः ।” ५ । ४ । ८८ । इति
अह्नादेशः । ततः नस्य णः ।) अपराह्णः ।
विकालः । (केषाञ्चिन्मते अयं पराह्णोऽपि ॥)

परि, व्य, सर्व्वतोभावः । वर्ज्जनम् । व्याधिः । शेषः ।

इत्थम्भूतः । आख्यानम् । भागः । वीप्सा ।
आलिङ्गनम् । लक्षणम् । दोषाख्यानम् । निर-
सनम् । पूजा । व्याप्तिः । भूषणम् । इति मेदिनी ॥
उपरमः । शोकः । इति हेमचन्द्रः ॥ सन्तोष-
भाषणम् । इति शब्दरत्नावली ॥ उपसर्गविशेषः ।
अस्यार्थः । सर्व्वतोभावः । अतिशयः । वीप्सा ।
इत्थम्भावः । चिह्नम् । भागः । त्यागः । नियमः ।
इति मुग्धबोधटीकायां दुर्गादासः ॥

परिकथा, स्त्री, (परितः कथा ।) वाङ्मयभेदः । यथा,

“अथ वाङ्मयभेदाः स्युश्चम्पुः खण्टकथा कथा ।
आख्यायिका परिकथा कलापकविशेषकौ ॥”
इति त्रिकाण्डशेषः ॥

परिकम्पः, पुं, (परितः कम्पो यस्मात् ।) भयम् ।

कम्पः । इति मेदिनी ॥

परिकरः, पुं, (परिकीर्य्यते इति । कॄ शविक्षेपे +

“ऋदोरप् ।” ३ । ३ । ५७ । इति अप् । यद्बा
परिक्रियतेऽनेनेति पुंसीति घः ।) पर्य्यङ्कः ।
परिवारः । इत्यमरः । ३ । ३ । १६५ ॥ समा-
रम्भः । बृन्दः । इति शब्दरत्नावली ॥ प्रगाढ-
गात्रिकाबन्धः । (यथा, मार्कण्डेये । १६ । २५ ।
“गाढं परिकरं बद्धा शुक्लसादाय चाधिकम् ।
स्कन्धे भर्त्तारमादाय जगाम मृदुगामिनी ॥”)
विवेकः । इति विश्वः । सहकारी । यथा, --
पृष्ठ ३/०५७
“परिकरः सहकारी स च व्याप्तिपक्षधर्म्मत्वादिः ।”
इति सामान्यनिरुक्तौ जगदीशः ॥
(अलङ्कारविशेषः । यथा, साहित्यदर्पणे । १० । ७५ ।
“उक्तिर्विशेषणैः साभिप्रायैः परिकरो मतः ॥”
उदाहरणं यथा तत्रैव । “अङ्गराज ! सेना-
पते ! द्रोणोपहासिन् ! कर्ण ! रक्षैनं भीमाद्-
दुःशासनम् ॥”)

परिकर्त्ता, [ऋ] पुं, (परिकरोतीति । परि + कृ

+ तृच् ।) अनूढज्येष्ठे कनिष्ठविवाहस्य याजकः ।
इत्युद्वाहतत्त्वम् ॥

परिकर्म्म, [न्] क्ली, (परिक्रियते इति । परि +

कृ + मनिन् ।) कुङ्कुमादिना शरीरशोभाधान-
रूपसंस्कारः । इति भरतः ॥ स्नानोद्वर्त्तनादि ।
इति स्वामी ॥ शरीरसंस्कारमात्रम् । इत्यन्ये ॥
तत्पर्य्यायः । अङ्गसंस्कारः २ । इत्यमरः । २ ।
६ । १२१ ॥ प्रतिकर्म्म ३ । इति शब्दरत्नावली ॥
(यथा कुमारे । ४ । १९ ।
“विबुधैरसि यस्य दारुणैः
असमाप्ते परिकर्म्मणि स्मृतः ।
तमिमं कुरु दक्षिणेतरं
चरणं निर्म्मितरागमेहि मे ॥”)

परिकर्म्मा, [न्] पुं, (परितः कर्म्म यस्य ।) परि-

चारकः । सेवकः । इति रत्नमाला ॥

परिकर्म्मी, [न्] त्रि, (परिकर्म्म विद्यतेऽस्य ।

परिकर्म्म + णिनिः ।) परिकर्म्मा । इति हेम-
चन्द्रः ॥

परिकाङ्क्षितः, त्रि, (परित्यक्तं काङ्क्षितं अभिलाषो

येन ।) तपस्वी । इति शब्दरत्नावली ॥

परिकूटं, क्ली, (परि सर्व्वतो भूषितं कूटम् ।)

पुरद्वारकूटकम् । तत्पर्य्यायः । हस्तिनखः २
नगरद्बारकूटकम् ३ । इति हेमचन्द्रः ॥

परिक्रमः, पुं, (परिक्रमणम् । क्रमु पादविक्षेपे +

भावे घञ् । “नोदात्तोपदेशस्येति ।” ७ । ३ । ३४ ।
इति उपधाया न वृद्धिः ।) क्रीडार्थं पद्भ्यां
गमनम् । तत्पर्य्यायः । विहारः २ । इत्यमरः ।
३ । २ । १६ ॥ प्रदक्षिणम् । यथा, --
वराह उवाच ।
“शृणु भद्रे ! महापुण्यं पृथिव्यां सर्व्वतो दिशम् ।
परिक्रम्य यथाध्वानं प्रमाणगणितं शुभम् ॥
भूम्याः परिक्रमे सम्यक् प्रमाणं योजनानि च ।
षष्टिकोटिसहस्राणि षाष्टिकोटिशतानि च ॥
तीर्थान्येतानि देवाश्च तारकाश्च नभस्तले ।
गणितानि समस्तानि वायुना जगदायुषा ॥
ब्रह्मणा लोमशेनैव नारदेन ध्रुवेण च ।
जाम्बवता सपुत्त्रेण रावणेन हनूमता ॥
एतैरनेकधा देवैः ससागरवना मही ।
क्रमिता बालिना चैव वाह्यमण्डलरेखया ॥
अन्तरा भ्रमणेनैव सुग्रीवेण महात्मना ।
तथा च पूर्ब्बदेवेन्द्रैः पञ्चभिः पाण्डुनन्दनैः ॥
योगसिद्धैस्तथा कैश्चिन्मार्कण्डेयमुखैरपि ।
क्रमिता न क्रमिष्यन्ति न पूर्ब्बे नापरे जनाः ॥
अल्पसत्त्वबलोपेतैः प्राणिभिश्चाल्पबुद्धिभिः ।
मनसापि न शक्यन्ते गमनस्य च का कथा ॥
सप्तद्वीपे तु तीर्थानि भ्रमणाद् यत् फलं भवेत् ।
प्राप्यते त्ताधिकं तस्मान्मथुरायाः परिक्रमे ॥
मथुरां समनुप्राप्य यस्तु कुर्य्यात् प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥
तस्मात् सर्व्वप्रयत्नेन सर्व्वकामानभीप्सुभिः ।
कर्त्तव्या मथुरां प्राप्य नरैः सम्यक् प्रदक्षिणा ॥”
इति वराहपुराणम् ॥

परिक्रमसहः, पुं, (परिक्रमं विहारं सहते इति ।

सह + पचाद्यच् ।) छागलः । इति त्रिकाण्ड-
शेषः ॥

परिक्रिया, स्त्री, (परिकरणम् । परि + कृ + शच् ।

“रिङ् शयग्लिङ्क्षु ।” ७ । ४ । २८ । इति रिङ् ।)
परिखाजलादिना वेष्टनम् । तत्पर्य्यायः । परि-
सर्पः २ । इत्यमरः । ३ । २ । २० ॥ (एकाह-
यागविशेषः । यदुक्तं आश्वलायनश्रौते । ९ । ५ । १२ ।
“सद्यस्क्रिया अनुक्रिया परिक्रिया वा स्वर्ग-
कामः ॥” “परिक्रियाप्येकाहा भवति एषामन्य-
तमेन स्वर्गकामो यजेत ॥” इति नारायणी ॥)

परिक्षित्, पुं, (परि सर्व्वतोभावेन क्षीयते हन्यते

दुरितं येन । परि + क्षि + क्विप् । कलिशासन-
कर्त्तृत्वादस्य तथात्वम् । यद्वा, परिक्षीणेषु
कुरुषु क्षियति ईष्टे इति । तथा चोक्तं महा-
भारते । १० । १६ । २ -- ३ ॥
“विराटस्य सुतां पूर्ब्बं स्नुषां गाण्डीवधन्वनः ।
उपप्लव्य गतां दृष्ट्वा व्रतवान् ब्राह्मणोऽब्रवीत् ॥
परिक्षीणेषु कुरुषु पुत्त्रस्तव भविष्यति ।
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति ॥”)
अभिमन्युपुत्त्रः । तत्पर्य्यायः । परीक्षित् २ पारि-
क्षीतः ३ परिक्षितः ४ । इति शब्दरत्नावली ॥
(अयं पुनर्युधिष्ठिरादनन्तरं कलियुगस्यारम्भे
राजचक्रवर्त्ती आसीत् । कुरुक्षेत्रयुद्धे परि-
क्षीणे कुरुकुले अभिमन्युपत्न्या उत्तराया गर्भा-
ज्जातः । अयमेव गर्भस्थः क्रुद्धाश्वत्थामप्रयुक्तेन
ब्रह्मास्त्रेण निहतोऽपि पुनर्भगवतः कृष्णस्य
प्रभावात् जीवितं लब्धवान् । अयमेव वृषरूपिणं
धर्म्मं निगृह्णन्तं कलिं प्रशशास । ततो गच्छति
काले एकदाऽसौ मृगयां विहरन् क्षुधातृट-
पीडितः मौनव्रतावलम्बिनः शमीकस्य मुने-
राश्रमं गत्वा प्रत्युत्तरदानपराङ्मुखस्य तस्य स्कन्धे
धनुष्कोट्या मृतं सर्पमासञ्जयामास । अनेना-
पराधेनेमं राजनं शमीकस्य पुत्त्रः शृङ्गी नामा
तपस्वी इतः सप्तमेऽहनि तक्षकदष्टोऽयं मृतो
भविष्यतीत्यभिशप्तवान् । एतदाकर्ण्यायं गङ्गातीरे
मुनिप्रभृतिभिरीश्वरनामकीर्त्तनादिकमालोचयन्
प्रायोपवेशने स्थितस्तक्षकदष्टो मृतश्च । इत्ये-
तत्कथा महाभारते विस्तरतो द्रष्टव्या ॥
(कुरुपुत्त्रविशेषः । यथा, हरिवंशे । ३२ । ९० ।
“कुरोस्तु पुत्त्राश्चत्वारः सुधन्वा सुधनुस्तथा ।
परिक्षित्तु महाबाहुः प्रवरश्चारिमेजयः ॥
अविक्षित्-पुत्त्रः । यथा, महामारते । १ । ९४ । ५० ।
“अविक्षितः परिक्षिच्च शवलाश्वश्च बीर्य्यवान् ॥”)

परिक्षिप्तं, त्रि, (परितः क्षिप्यते स्म इति ।

क्षिप् + क्त ।) परिखादिना वेष्टितम् । तत्-
पर्य्यायः । निवृतम् २ । इत्यमरः । ३ । १ । ८८ ॥
सर्व्वतोभावेन क्षेपयुक्तञ्च ॥

परिखा, स्त्री, (परितः खन्यते इति । खन् +

“अन्येष्वऽपीति ।” ३ । २ । १०१ । डः ।)
राजघान्यादिवेष्टनखातम् । इति भरतः ॥ गड-
खाइ इति खाना इति च यस्याः प्रसिद्धिः ।
तत्पर्य्यायः ॥ खेयम् । इत्यमरः । १ । १० । २९ ॥
(यथा, मनुः । ७ । १९६ ।
“भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।
समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा ॥”)
तस्या मानं यथा, --
“प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् ।
परितः शिविराणाञ्च गम्भीरं दशहस्तकम् ॥”
सङ्केतपूर्ब्बकञ्चैव परिखाद्वारमीप्सितम् ।
शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २०२ अध्यायः ॥

परिख्यातः, त्रि, परिसर्व्वतोभावेन ख्यातः प्रथितः ।

इति परिपूर्ब्बख्याधातोः कर्त्तरि क्तप्रत्यय-
निष्पन्नः ॥ विख्यातः ॥

परिगणितः, त्रि, (परिसर्व्वतोभावेन गण्यते

स्म । परि + गण + क्त ।) सर्व्वतोभावेन गणना-
युक्तः । यथा । “परिगणितव्यतिरिक्तेषु संसर्ग-
कृतविशेषो नादरणीयः परिगणनानर्थक्यात् ।”
इति जीमूतवाहनः ॥

परिगतः, त्रि, (परि + गम् + क्त ।) प्राप्तः ।

विस्मृतः । ज्ञातः । चेष्टितः । इति मेदिनी ॥
गतः । इति हेमचन्द्रः ॥ वेष्टितः । यथा, --
“अथ सवल्कदुकूलकुथादिभिः
परिगतोज्ज्वलदुद्धतबालधिः ।”
इति भट्टिकाव्ये । १० । १ ॥

परिगृह्या, स्त्री, (परि सर्व्वतोभावेन गृह्यते या

परि + ग्रह + कर्म्मणि क्यप् ।) नारी । इति
शब्दचन्द्रिका ॥

परिग्रहः, पुं, (परिग्रहणमिति । परि + ग्रह +

“ग्रह वृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति
अप् ।) प्रतिग्रहः । (यथा, पञ्चतन्त्रे । ४ । ७ ।
“कण्ठाश्लेषपरिग्रहे शिथिलता यन्नादराच्चुम्बसे
तत्ते धूर्त्त ! हृदि स्थिता प्रियतमा काचिन्ममे-
वापरा ॥”)
सैन्यपश्चाद्भागः । पत्नी । भार्य्या । (यथा,
रघुः । ९ । १४ ।
“समनुकम्प्य सपत्नपरिग्रहा-
ननलकानलकानवमां पुरीम् ॥”)
परिजनः । परिवारः । आदानम् । (यथा,
रघुः । ९ । ४६ ।
“अनुभवन्नवदोलमृतूत्सवं
पटुरपि प्रियकण्ठजिघृक्षया ।
अनयदासनरज्जुपरिग्रहे
भुजलताजलतामवलाजनः ॥”)
स्वीकारः । (यथा, रघुः । १८ । ३८ ।
पृष्ठ ३/०५८
“लोकेन भावी पितुरेव तुल्यः
सम्भावितो मौलिपरिग्रहात् सः ॥”)
मूलम् । कन्दः । शापः । शपथः । इत्यमरभरतौ ॥
राहुवक्त्रस्थभास्करः । इत्यजयः ॥ (पुत्त्रदारादि-
भर्त्तव्यपरिमाणम् । यथा, मनुः । १० । १२४ ।
“प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद् यथार्हतः ।
शक्तिञ्चावेक्ष्य दाक्ष्यञ्च भूतानाञ्च परिग्रहम् ॥”
परिगृह्यतेऽनेनेति विग्रहे हस्तः ॥ विष्णुः । यथा,
महाभारते । १३ । १४९ । ५८ ।
“ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ॥”
“शरणार्थिभिः परितो गृह्यते सर्व्वगतत्वात्
परितो ज्ञायत इति वा । पुष्पादिभिर्भक्तैरर्च्चितं
परिगृह्णाति इति वा परिग्रहः ॥” इति शाङ्कर-
भाष्यम् ॥ साधनम् । यथा, रघुः । ९ । २१ ।
“अजिनदण्डभृतं कुशमेखलां
यतगिरं मृगशृङ्गपरिग्रहाम् ॥”
“मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम् ॥”
इति तट्टीकायां मल्लिनाथः ॥)

परिग्राहः, पुं, (परि + ग्रह् + “परौ यज्ञे ।” ३ ।

३ । ४७ । इति घञ् ।) यज्ञवेदिविशेषः । इति
केचित् ॥

परिघः, पुं, (परि हन्यतेऽनेनेति । परि + हन् +

“परौ षः ।” ३ । ३ । ८४ । इति अप्
घादेशश्च ।) लोहबद्धलगुडः । लोहमय-
लगुडः लोहमुखलगुडः । तत्पर्य्यायः । परि-
घातनः २ । इत्यमरः । २ । ८ । ९१ ॥ परि-
घातकः ३ । इति शब्दरत्नावली ॥ (यथा,
महाभारते । ६ । ६७ । २४ ।
“बाहूनामुत्तमाङ्गानां कार्म्मुकाणाञ्च भारत ! ।
गदानां परिघाणाञ्च हस्तानाञ्चोरुभिः सह ॥”)
परिघातः । परितो हननम् । इत्यमरभरतौ ॥
विष्कम्भादिसप्तविंशतियोगान्तर्गत ऊनविंशति-
योगः । (यथा, ज्योतिषे ।
“वज्रोऽसृक् च व्यतीपातो वरीयान् परिघस्तथा ॥”
अस्य अर्द्धांशं परित्यज्य शुभं कर्म्म कुर्य्यात् ।
यदुक्तं तत्रैव ।
“परिघस्य त्यजेदर्द्धं शुभकर्म्म ततः परम् ॥”)
अथ परिघयोगजातफलम् ।
“उत्पत्तिकाले परिघो यदि स्या-
न्नरस्तदा वंशकुठारकल्पः ।
असत्यसाक्षी क्षमया विहीनः
स्वल्पानुभोक्ता विजितारिपक्षः ॥”
इति कोष्ठीप्रदीपः ॥
अर्गलः । इति मेदिनी ॥ मुद्गरः । शूलः । इत्य-
जयः ॥ कलसः । काचघटः । गोपुरम् । सद्म ।
इति शब्दरत्नावली ॥ ॥ * ॥ (कार्त्तिकानुचर-
विशेषः । यथा, महाभारते । ९ । ४५ । ३३ ।
“परिघञ्च वटञ्चैव भीमञ्च सुमहाबलम् ।
दहतिं दहनञ्चैव प्रचण्डौ वीर्य्यसम्मतौ ॥
अंशोऽप्यनुचरान् पञ्च ददौ स्कन्दाय धीमते ॥”
चण्डालविशेषः । यथा, महाभारते । १२ ।
१३८ । ११४ ।
“लम्बकर्णो महावक्त्रो मलिनो घोरदर्शनः ।
परिघो नाम चण्डालः शस्त्रपाणिरदृश्यत ॥”)

परिघातः, पुं, (परिहन्यतेऽनेन । परि + हन् +

घञ् । “हनस्तोऽचिण्णलोः ।” इति तः ।)
अस्त्रम् । हननम् । इति धरणिः ॥

परिघातनः, पुं, (परितो घातनं यस्मात् ।) परिघा-

स्त्रम् । इत्यमरः । २ । ८ । ९१ ॥ सर्व्वतो-
भावेन हनने क्ली ॥

परिघोषः, पुं, (परितो घोषो यस्मिन् ।) मेघ-

शब्दः । शब्दः । अवाच्यः । इति मेदिनी ॥

परिचयः, पुं, (परि समन्तात् चयनं बोधो ज्ञान-

मित्यर्थः । परि + चि + अप् ।) विशेषेण ज्ञानम् ।
चेना इति भाषा । तत्पर्य्यायः । संस्तवः २ ।
इत्यमरः । ३ । २ । २३ ॥ प्रणयः ३ । इति भरतः ॥
(यथा, माघे । ७ । ६१ ।
“न परिचयो मलिनात्मनां प्रसाधनम् ॥”
अभ्यासः । यथा, माघे । २ । ७५ ।
“हेतुः परिचयस्थैर्य्ये वक्तर्गुणनिकैव सा ॥”
नादस्य अवस्थाविशेषः । यथा, हठयोगदीपि-
कायाम् । ४ । ६९ ।
“आरम्भश्च घटश्चैव तथा परिचयोऽपि च ।
निष्पत्तिः सर्व्वयोगेषु स्यादवस्थाचतुष्टयम् ॥”)

परिचरः, पुं, (परितश्चरतीति । परि + चर +

पचाद्यच् ।) युद्धकाले परप्रहारात् रथरक्षकः ।
प्रजासामन्तव्यवस्थापनकारी । इति केचित् ॥
सेनायां राज्ञो दण्डनायकः । इत्यन्ये । इति
भरतः ॥ तत्पर्य्यायः । परिधिस्थिः २ । इत्य-
मरः । २ । ८ । ६२ ॥ सहायः ३ । इति रत्न-
माला ॥ (परिचर्य्याकारकः । यथा वैद्यके, --
“उपचारज्ञता दाक्ष्यमनुरागश्च भर्त्तरि ।
शौचञ्चेति चतुर्थोऽयं गुणः परिचरे जने ॥”
इति चरके सूत्रस्थाने नवमेऽध्याये ॥
“स्निग्धोऽजुगुप्सुर्बलबान् युक्तो व्याधितरक्षणे ।
वैद्यवाक्यकृदश्रान्तः पादः परिचरः स्मृतः ॥”
इति सुश्रुते सूत्रस्थाने चतुस्त्रिंशेऽध्याये ॥)

परिचरणकर्म्म, [न्] क्ली, (परिचरणं सेवैव

कर्म्म ।) परिचर्य्या । तद्बैदिकपर्य्यायाः । इर-
ज्यति १ विधेम २ सपर्य्यति ३ नमस्यति ४ दुर-
स्यति ५ ऋध्नोति ६ र्णद्धि ७ ऋच्छति ८
सपति ९ बिवासति १० । इति दश परिचरण-
कर्म्माणः । इति वेदनिघण्टौ ३ अध्याये ॥

परिचर्य्या, स्त्री, (परिचर्य्यते परिचरणमित्यर्थः ।

परि + चर् + “परिचर्य्यापरिसर्य्येति ।” ३ । ३ ।
१०१ । इत्यस्य वार्त्तिं इति शो यक् च
निपात्यते ।) सेवा । (यथा, देवीभागवते ।
१ । ४ । ११ ।
“अथवा वार्द्धके प्राप्ते परिचर्य्यां करिष्यति ।
पुत्त्रः परमधर्म्मिष्ठः पुण्यार्थं कलविङ्कयोः ॥”)
तत्पर्य्यायः । वरिवस्या २ शुश्रूषा ३ उपा-
सनम् ४ । इत्यमरः । २ । ७ । ३५ ॥ परिसर्य्या ५
उपासना ६ उपास्तिः ७ । इति भरतः ॥ शुश्रू-
षणा ८ । इति शब्दरत्नावली ॥

परिचाय्यः, पुं, (परिचीयते इति । चिञ्न चित्याम्

+ “अग्नौ परिचाय्योपचाय्यसमूह्याः ।” ३ । १ ।
१३१ । इत्यनेन साधुः ।) यज्ञाग्निः । तत्पर्य्यायः ।
समूह्यः २ उपचाय्यः ३ । इत्यमरः । २ । ७ । २० ॥
(अग्निरिह न वह्निः किन्त्वग्निधारणार्थस्थल-
विशेषः । इति सिद्धान्तकौमुदी ॥)

परिचारकः, त्रि, (परिचरतीति । परि + चर् +

ण्वुल् ।) सेवकः । चाकर इति भाषा ॥ (यथा,
मनुः । ७ । २१७ ।
“तत्रात्मभूतैः कालज्ञैरहार्य्यैः परिचारकैः ।
सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहैः ॥”)
तत्पर्य्यायः । भृत्यः २ दासेरः ३ दासेयः ४
दासः ५ गोप्यकः ६ चेटकः ७ नियोज्यः ८
किङ्करः ९ प्रेष्यः १० भुजिष्यः ११ । इत्य-
मरः । २ । १० । १७ ॥ डिङ्गरः १२ चेटः १३
गोप्यः १४ पराचितः १५ परिष्कन्दः १६ परि-
कर्म्मी १७ । इति हेमचन्द्रः । ३ । २४ ॥

परिचार्य्यः, त्रि, परिचर्य्यतेऽसौ इति । परि +

चर + कर्म्मणि ण्यत् । सेव्यः ॥

परिचितः, त्रि, (परि + चि + कर्म्मणि क्तः ।)

परिचयविशिष्टः । ज्ञातः । यथा, --
“त्यक्तव्येयं चिरपरिचिता जन्मभूमीति बुद्ध्या
मा खिद्यस्व त्रिभुवनजनत्राणहेतोः क्रमाङ्क ! ।
किन्न त्याज्यं भवति महतां चेत् परस्योपकारी ।
वाराणस्या मुनिरपि गतो दक्षिणाशामगस्त्यः ॥”
इति पदाङ्कदूतः ॥

परिचेयं, त्रि, परि पूर्ब्बचिधातोः कर्म्मणि यप्रत्ययेन

निष्पन्नम् ॥ परिचययोग्यम् । परिचयनीयम् ।
परिचेतव्यम् ॥

परिच्छदः, पुं, (परिच्छाद्यतेऽनेनेति । परि + छद

+ णिच् + “पुंसि संज्ञायाम् ।” ३ । ३ । ११८ ।
इति घः । “छादेर्घेऽद्ब्युपसर्गस्य ।” ६ । ४ । ९६ ।
इति उपघाह्रस्वः ।) परिवारः । इति हेम-
चन्द्रः ॥ (यथा, आर्य्यासप्तशत्याम् । ६७३ ।
“सहधर्म्मचारिणी मम परिच्छदः सुतनु ! नेह
सन्देहः ।
न तु सुखयति तुहिनदिनच्छत्त्रछायेव सज्जन्ती ॥”)
हस्त्यश्ववस्त्रकम्बलाद्युपकरणम् । यथा, --
“परिच्छदे नृपार्हेऽर्थे परिवर्होऽव्ययाः परे ॥”
इत्यस्य टीकायां भरतः ॥
(यथा, रघुः । १ । १९ ।
“सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् ।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्व्वी धुनुषि चातता ॥”)
आच्छादनम् । यथा, --
“पयःफेननिभा शय्या दान्ता रुक्मपरिच्छदा ।”
इति श्रीभागवतम् ॥

परिच्छन्दः, पुं, (परिच्छन्द्यतेऽनेन । परि + छदि

संवरणे + घञ् ।) परिच्छदः । इति हला-
युधः ॥

परिच्छन्नः, त्रि, परिपूर्ब्बच्छदघातोः कर्त्तरि कर्म्मणि

च क्तप्रत्ययनिष्पन्नः ॥ परिच्छदविशिष्टः । सर्व्वतो-
भावेनाच्छादितः । संवृतः ॥
पृष्ठ ३/०५९

परिच्छिन्नः, त्रि, (परि + छिद् + कर्त्तरि क्तः ।)

परिच्छेदविशिष्टः । अवधिप्राप्तः । यथा, --
“परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह हि यत्त्वं न भवसि ।”
इति महिम्नः स्तोत्रम् ॥
सर्व्वतोभावेन छेदविशिष्टश्च ॥

परिच्छेदः, पुं, (परि + छिद् + भावे करणादौ च

घञ् ।) ग्रन्थविच्छेदः । यथा, त्रिकाण्डशेषे ॥
“सर्गवर्गपरिच्छेदोद्घाताध्यायाङ्कसंग्रहाः ।
उच्छासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् ॥
स्थानं प्रकरणं पर्व्वाह्निकञ्च ग्रन्थसन्धयः ॥”
(तत्र काव्ये सर्गः । कोषे वर्गः । अलङ्कारे परि-
च्छेदोच्छ्वासौ । कथायामुद्घातः । पुराणसंहि-
तादौ अध्यायः । नाटके अङ्कः । तन्त्रे पटलः ।
ब्राह्मणे काण्डम् । संगीते प्रकरणम् । इति-
हासे पर्व्व । भाष्ये आह्निकम् । एवमन्येऽपि पाद-
तरङ्गस्तवकप्रपाठकस्कन्धमञ्जरीलहरीशाखा-
दयो ग्रन्थसन्धयो ग्रन्थभेदे यथायथं ज्ञेयाः ॥ * ॥)
सीमा । अवधिः । यथा, मालतीमाधवे ।
“परिच्छेदातीतः सकलवचनानामविषयः
पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् ।
विवेकप्रध्वंसादुपचितमहामोहगहनो
विकारः कोऽप्यन्तर्जडयति च तापञ्च कुरुते ॥”

परिजनः, पुं, (परिगतो जनः ।) परिवारः ।

पोष्यवर्गः । यथा, महिम्नः स्तोत्रे ।
“यदृद्धिं सूत्रान्नो वरद परमोच्चैरपि सती-
मधश्चक्रे वाणः परिजनविधेयत्रिभुवनः ॥”
नियतसन्निधिवर्त्तिपरिचारकः । यथा, आनन्द-
लहर्य्याम् । ३० ।
“किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः
कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् ।
प्रणम्रेष्वेतेषु प्रसभमभियातस्य भवनं
हरस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥”
“परिजनः नियतसन्निधिवर्त्तिपरिचारकः ।”
इत्यस्यश्लोकस्य व्याख्यायांगोपीरमणतर्कपञ्चाननः ॥

परिजल्पितं, क्ली, (परि + जल्प + भावे क्तः ।)

दशाङ्गचित्रजल्पान्तर्गतद्वितीयजल्पनम् । यथा,
“प्रभोर्निर्द्दयताशाठ्यचापलाद्युपपादनात् ।
स्वविचक्षणताव्यक्तिर्भङ्ग्यास्यात् परिजल्पितम् ॥”
इत्युज्ज्वलनीलमणिः ॥

परिज्मा, [न्] पुं, (परिजायते इति । परि +

जन् + मन् । निपातनात् साधुः ।) चन्द्रः । अग्निः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (पर्य्य-
जतीति । अजेः परिपूर्ब्बस्य श्वन्नुक्षन्नित्यादिना
मन्प्रत्ययोऽकारलोपः आद्युदात्तत्वञ्च निपा-
त्यते । परिगन्ता । इति वेदभाष्यम् ॥)

परिज्वा, [न्] पुं, (परि + जु सौत्रधातुः +

“श्वन्नुक्षन् पूषन्निति ।” उणां । १ । १५८ ।
इति कनिन् । इदन्तु उज्ज्वलदत्तमतम् ।)
इन्द्रः । अग्निः । इति संक्षिप्तसारोणादिवृत्तिः ॥

परिडीनकं, क्ली, (परि + डी + क्तः । ततः स्वार्थे

कन् ।) पक्षिगतिविशेषः । यथा, --
“डीनं प्रडीनमुड्डीनं संडीनं परिडीनकम् ।”
इति जटाधरः ॥
(तथाच महाभारते । ८ । ४१ । २७ ।
“अतिडीनं महाडीनं खडीनं परिडीनकम् ॥”)

परिणतं, त्रि, (परिणमति स्म । परि + नम् +

क्तः ।) पक्वम् । इत्यमरः । ३ । १ । ९६ ॥
तिर्य्यग्घातिगजः । इति हेमचन्द्रः ॥ (यथा,
माघे । ४ । २९ ।
“सततमसुमतामगम्यरूपाः
परिणतदिक्करिकास्तटीर्बिभर्त्ति ॥”)
सर्व्वतोभावेन नतञ्च ॥

परिणयः, पुं, (परिणयनम् । परि + नी + अप् ।)

विवाहः । इत्यमरः । २ । ७ । ५७ ॥

परिणामः, पुं, (परिणमनम् । परि + नम् +

घञ् ।) विकारः । प्रकृतेरन्यथाभावः । यथा ।
मुखस्य विकारः क्रोधरक्तता । केचित्तु । प्रकृति-
ध्वंसजन्यविकारः । यथा काष्ठस्य विकारो
भस्म । मृत्पिण्डस्य घटः । इत्यमरभरतौ ॥
चरमः । शेषः । यथा, --
“परिणामसुखे गरीयसि
व्यथकेऽस्मिन् वचसि क्षतौजसाम् ।
अतिवीर्य्यवतीव भेषजे
बहुरल्पीयसि दृश्यते गुणः ॥”
इति भारवौ । २ । ४ ॥
(निदानभेदेन यथा, --
“असात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणाम-
भेदात्त्रिविधो वा ॥” “परिणामोऽयोगादियुक्ता
ऋतुस्वभावजा शीतादयः । अधर्म्मस्य च रोग-
हेतोरत्रैवान्तर्भाव इति भट्टारहरिश्चन्द्रः ॥”
इति माधवकरकृतरुग्विनिश्चयस्य पञ्चनिदान-
व्याख्याने विजयेनोक्तम् ॥
“कालस्य परिणामेन जरामृत्यनिमित्तजाः ।
रोगाः स्वाभाविका दृष्टाः स्वभावो निष्प्रतिक्रियः ॥”
इति चरके शरीरस्थाने प्रथमेऽध्याये ॥
अर्थालङ्कारभेदः । तल्लक्षणं यथा, --
“परिणामः क्रियार्थश्चेद्विषयी विषयात्मना ॥”)

परिणामदर्शी, [न्] त्रि, (परिणामं चरमं पश्य-

तीति । दृश् + णिनि ।) चरमकालप्रेक्षी । पश्चा-
द्दर्शी । विषयादेः शेषद्रष्टा । इति भारतम् ॥

परिणामशूलः, पुं, (परिणामे चरमावस्थायां

शूलं यस्य । यद्वा परिणामे भुक्तान्नादेः परि-
पाके उत्पद्यते शूलं यस्मात् ।) रोगविशेषः ।
तस्योत्पत्तिर्यथा, --
“स्वैर्निदानैः प्रकुपितो वायुः सन्निहिते यदा ।
कफपित्ते समावृत्य शूलकारी भवेद्बली ॥”
तस्य लक्षणं यथा, --
“भुक्ते जीर्य्यति यच्छूलं तदेव परिणामजम् ।
तस्य लक्षणमप्येतत् समासेनाभिधीयते ॥”
वातिकस्य तस्य लक्षणं यथा, --
“आध्मानाटोपविण्मूत्रविबन्धारतिवेपनैः ।
स्निग्धाष्णोपशमप्रायं वातिकं तद्वदेद्भिषक् ॥”
पैत्तिकस्य तस्य लक्षणं यथा, --
“तृष्णादाहारतिस्वेदकट्वम्ललवणोत्तरम् ।
शूलं शीतशमग्रायं पैत्तिकं लक्षयेद्भिषक् ॥”
श्लैष्मिकस्य तस्य लक्षणं यथा, --
“छर्द्दिहृल्लाससम्मोहं स्वल्परुग्दीर्घसन्तति ।
कटुतिक्तोपशान्तौ च तद्विज्ञेयं कफात्मकम् ॥”
त्रिदोषजस्य तस्य लक्षणं यथा, --
“संसृष्टलक्षणं बुद्धा द्बिदोषं परिकल्पयेत् ।
त्रिदोषजमसाध्यन्तु क्षीणमांसबलानलम् ॥”
इति माधवकरः ।
तस्यौषधं यथा, गरुडपुराणे ।
“लौहचूर्णसमायुक्तं त्रिफलाचूर्णमेव वा ।
मधुना स्वादितं रुद्र ! परिणामाख्यशूलनुत् ॥”
(चिकित्सास्य यथा, --
“वमनं तिक्तमधुरैर्विरेकश्चापि शस्यते ।
वस्तयश्च हिताः शूले परिणामसमुद्भवे ॥
विडङ्गतण्डुलव्योषं त्रिवृद्दन्तीसचित्रकम् ।
सर्व्वाण्येतानि संहृत्य श्लक्ष्णचूर्णानि कारयेत् ॥
गुडेन मोदकं कृत्वा भक्षयेत् प्रातरुत्थितः ।
उष्णोदकानुपानन्तु दद्यादग्निविवर्द्धनम् ॥
जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ॥
नागरगुडतिलकल्कं पयसा संसाध्य यः पुमा-
नद्यात् ।
उग्यं परिणामशूलं तस्यापैति सप्तरात्रेण ॥”
“तिलनागरपथ्यानां भागं शम्बूकभस्मनाम् ।
द्विभागगुडसंयुक्तं गुडीं कृत्वाक्षभागिकाम् ॥
शीताम्बुपानं पूर्ब्बाह्णे भक्षयेत् क्षीरभोजनः ।
सायाह्ने रसकं पीत्वा नरो मुच्येत दुर्ज्जयात् ॥
परिणामसमुत्थाच्चशूलाच्चिरभवादपि ।
शम्बूकजं त्र्यूषणञ्च पञ्चैव लवणानि च ॥
समांशां गुडिकां कृत्वा कलम्बीकरसेन वा ।
प्रातर्भोजनकाले वा भक्षयेत्तु यथाबलम् ॥
शूलाद्विमुच्यते जन्तुः सहसा परिणामजात् ॥
यः पिबति सप्तरात्रं शक्तूनेकान् कलाययूषेण ।
स जयति परिणामरुजं चिरजामपि किमुत-
नूतनजाम् ॥
लौहचूर्णं वरायुक्तं विलीढं मधुसर्पिषा ।
परिणामशूलं शमयेत्तन्मलं वा प्रयोजितम् ॥
सामुद्रं सैन्धवं क्षारो रुचकं रौमकं विडम् ।
दन्ती लौहरजः किट्टं त्रिवृच्छूरणकं समम् ॥
दधिगोमूत्रपयसा मन्दपावकपाचितम् ।
तद्यथाग्निबलं चूर्णं पिबेदुष्णेन वारिणा ॥
जीर्णाजीर्णे तु भुञ्जीत मांसादिघृतसाधितम् ।
नाभिशूलं प्लीहशूलं यकृद्गुल्मकृतञ्च यत् ॥
विद्रध्यष्ठीलिकं हन्ति कफवातोद्भवन्तथा ।
शूलानामपि सर्व्वेषामौषधं नास्ति तत् परम् ॥
परिणामसमुत्थस्य विशेषेणान्तकृन्मतम् ॥”
इति समुद्राद्यं चूर्णम् ॥ * ॥
“सपिप्पलीगुडं सर्पिः पचेत् क्षीरे चतुर्गुणे ।
विनिहन्त्यम्लपित्तञ्च शूलञ्च परिणामजम् ॥”
इति गुडपिप्पलीघृतम् ॥ * ॥
“क्वाथेन कल्केन च पिप्पलीनां
सिद्धं घृतं माक्षिकसंप्रयुक्तम् ।
पृष्ठ ३/०६०
क्षीरानुपानं विनिहन्त्यवश्यं
शूलं प्रवृद्धं परिणामसंज्ञम् ॥”
इति पिप्पलीघृतम् ॥ * ॥
“मण्डूरं शोधितं पत्रीं लौहजां वा गुडेन तु ।
भक्षयम्मुच्यते शूलात् परिणामसमुद्भवात् ॥
संशोध्य चूर्णितं कृत्वा मण्डूरस्य पलाष्टकम् ।
शतावरीरसस्याष्टौ दध्नस्तु पयसस्तथा ॥
पलान्यादाय चत्वारि तथा गव्यस्य सर्पिषः ।
विपचेत् सर्व्वमेकैध्यं यावत् पिण्डत्वमागतम् ॥
सिद्धन्तु भक्षयेन्मध्ये भोजनस्याग्रतोऽपि वा ।
वातात्मकं पित्तभवं शूलञ्च परिणामजम् ॥
निहन्त्येव हि योगोऽयं मण्डूरस्य न संशयः ॥”
इति शतावरीमण्डूरम् ॥ * ॥
इति वैद्यकचक्रपाणिसंग्रहे शूलाधिकारे ॥
“अजीर्णान्नरसः प्रोक्तो दशमः परिणामजः ।”
“जीर्णेऽन्ने च भवेद्यस्तु स ज्ञेयः परिणामजः ॥”
“लङ्घनं वमनञ्चैव विरेकश्चानुवासनम् ॥
निरूहो वस्ति कर्म्माणि परिणामे त्रिदोषजे ।
चित्रकं त्रिवृता दन्ती विडङ्गं कटुकत्रयम् ॥
समं चूर्णं गुडेनाथ क्वारयेन्मोदकान् सुधीः ।
भक्षयेत् प्रातरुत्थाय पश्चादुष्णोदकं पिबेत् ॥
परिणामोद्भवं शूलं हन्ति शीघ्रं नरस्य च ।
यवानीहिङ्गु सिन्धूत्थक्षारं सौवर्च्चलाभया ।
सुरामण्डेन पातव्या परिणामे त्रिदोषजे ॥
हिङ्गव्योषवचाजमोदहबुषा पथ्यायवानी शठी
जातीपिप्पलीदाडिमवृकीतिन्तीडिचव्याग्नि-
कम् ।
तस्मादम्लसुवर्च्चला च यवजक्षारं तथा सर्ज्जिका
सिन्धूत्थं विडचूर्णकं समकृतं स्याद्बीजपूरे रसे ॥
संभाव्यं सुकृतात्वनेन गुडिका चाक्षप्रमाणा तथा
कल्को वातविकारिणां प्रददतः शूलार्शसः
प्लीहकान् ॥”
“एष हिङ्ग्वादिको नाम सर्व्वशूलार्त्तिनाशनः ।
सर्व्ववातविकारघ्नः सर्व्वक्षयनिवारणः ।
परिणामोद्भवं शूलं वारयत्याश्वसंशयम् ॥”
इति हारीते चिकित्सितस्थाने नवमेऽध्याये ॥

परिणायः, पुं, (परितो वामदक्षिणतो नयनम् ।

परि + नी + “परिण्योर्नीनोद्यूताभ्रेषयोः ।” ३ ।
३ । ३७ । इति घञ् ।) शारीणां समन्तान्नयनम् ।
इत्यमरः । २ । १० । ४६ ॥ परेरितो दीर्घत्वे
परीणायश्च । इति भरतः ॥

परिणाहः, पुं, (परिणह्यतेऽनेन इति । परि +

नह + घञ् ।) विस्तारः । तत्पर्य्यायः । विशा-
लता २ । इत्यमरः । २ । ६ । ११४ ॥ ओसार
इति चौडा इति च भाषा ॥ (यथा, महा-
भारते । ६ । ७ । २२ ।
“अरत्नीनां सहस्रञ्च शतानि दश पञ्च च ।
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥”)

परिणेता, [ऋ] पुं, (परिणयतीति । परि +

नी + तृच् ।) वोढा । भर्त्ता २ । इति राज-
निर्घण्टः ॥ (यथा, --
“स्थित्यै दण्डयतो दण्ड्यान् परिनेतुः प्रसूतये ।
अप्यर्थकामौ तस्यास्तां धर्म्म एव मनीषिणः ॥”
इति रघुः । १ । २५ ।)

परितः [स्] व्य, (परि + “पर्य्यभिभ्याञ्च ।” ५ ।

३ । ९ । इति तसिल् ।) सर्व्वतः । चतुर्द्दिगभि-
व्याप्तौ । इत्यमरः । ३ । ४ । १३ ॥ (यथा, रघुः । ६ । ९ ।
“पुरोपकण्ठो पवनाश्रयाणां
कलापिनामुद्धतनृत्यहेतौ ।
प्रध्मातशङ्खे परितो दिगन्तान्
तूर्य्यस्वने मूर्च्छति मङ्गलार्थे ॥”)

परितापः, पुं, (परिसर्व्वतोभावेन तप्यतेऽनेन ।

परि + तप् + वञ् ।) दुःखम् । (यथा, भाग-
वते । ७ । ८ । ५२ ।
“स तु जनपरितापं तत्कृतं जानता ते
नरहर उपनीतः पञ्चतां पञ्चविंश ॥”)
नरकान्तरम् । इति मेदिनी ॥ शोकः । इति
शब्दरत्नावली ॥ (यथा, रामायणे । २ । २२ । २५ ।
“एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना ।
व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥”)
भयम् । कम्पः । इति विश्वः ॥ अत्युष्णता च ॥
(यथा, मार्कण्डेये । १५ । ४९ ।
“परितापञ्च गात्रेभ्यः पीडाबाधाश्च कृत्स्नशः ।
अपहन्ति नरव्याघ्र ! दयां कुरु महीपते ! ॥”)

परितुष्टः, त्रि, (परि + तुष् + क्तः ।) परितोष-

युक्तः । सन्तुष्टः । यथा, --
“यत् प्रार्थ्यते त्वया भूप ! त्वया च कुलनन्दन ! ।
मत्तस्तत् प्राप्यतां सर्व्वं परितुष्टा ददामि तत् ॥”
इति मार्कण्डेये देवीमाहात्म्ये । ९३ । १० ॥

परितोषः, पुं, (परितोषणमिति । परि + तुष् +

घञ् ।) सर्व्वतोभावेन तुष्टिः । सन्तोषः । यथा, --
“त्वामुदर ! साधुमन्ये शाकै-
रपि यदसि लब्धपरितोषम् ।
हतहृदयं ह्यधिकाधिक-
वाञ्छाशतदुर्भरं न पुनः ॥”
इति शान्तिशतके ॥

परित्यागः, पुं, (परित्यजनमिति । परि + त्यज् +

घञ् ।) सर्व्वतोभावेन वर्ज्जनम् । तत्पर्य्यायः ।
छोरणम् २ । इति त्रिकाण्डशेषः ॥ * ॥
“गुरोरप्यवलिप्तस्य कार्य्याकार्य्यमजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥”
इति मत्स्यसूक्तम् ॥

परित्राणं, क्ली, (परित्रायते इति । परि + त्रै +

ल्युट् ।) मारणोद्यतस्य निवारणम् । तत्-
पर्य्यायः । पर्य्याप्तिः २ हस्तवारणम् ३ । इत्य-
मरः । ३ । २ । ५ ॥ रक्षणम् । यथा, --
“परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥”
इति श्रीभगवद्गीतायाम् । ४ । ८ ॥

परिदानं, क्ली, (परिदीयते इति । परि + दा +

भावे ल्युट् ।) परीवर्त्तः । विनिमयः । इत्य-
मरः । २ । ९ । ८० ॥

परिदायी, [न्] पुं, (परित्यज्य शास्त्रधर्म्मं ददा-

तीति । परि + दा + णिनिः ।) अनूढज्येष्ठे
तत्कनिष्ठाय कन्यादाता । “यथा हारीतः ।
ज्येष्ठेऽनिर्व्विष्टे कनीयान् निर्व्विशन् परिवेत्ता
भवति परिविन्नो ज्येष्ठः परिवेदनीया कन्या
परिदायी दाता परिकर्त्ता याजकस्ते सर्व्वे
पतिताः ।” इत्युद्वाहतत्त्वम् ॥

परिदेवनं, क्ली, (परि + दिव + ल्युट् ।) अनुशोच-

नोक्तिः । विलापः । इत्यमरः । १ । ६ । १६ ॥
(यथा, महाभारते । १ । २ । १४६ ।
“परिदेवनञ्च पाञ्चाल्या वासुदेवस्य सन्निधौ ।
आश्वासनञ्च कृष्णस्य दुःखार्त्तायाः प्रकीर्त्ति-
तम् ॥”)

परिदेवना, स्त्री, (परिदेवयतीति । परि + दिवि +

“ण्यासश्रन्थो युच् ।” ३ । ३ । १०७ । इति युच् ।
ततष्टाप् ।) शोकनिमित्तो विलापः । यथा, --
“अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ! ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥”
इति श्रीभगवद्गीताद्वितीयाध्यायश्लोकव्याख्याने
श्रीधरस्वामी ॥ अपि च ।
“न मन्त्रबलवीर्य्येण प्रज्ञया पौरुषेण च ।
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि शौनक ! ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥
अयाचितो मया लब्धस्त्वत्प्रेषितः पुनः कुतः ।
यत्रागतस्तत्र गतस्तत्र का परिदेवना ॥
एकवृक्षे यदा रात्रौ नानापक्षिसमागमः ।
प्रभाते दश दिशो यान्ति तत्र का परिदेवना ॥
एकसार्थप्रयातानां सर्व्वेषान्तत्र गामिनाम् ।
यद्येकस्त्वरितो याति का तत्र परिदेवना ॥”
इति गरुडपुराणे १११ अध्यायः ॥

परिधानं, क्ली, (परिधीयते यत् । परि + धा +

कर्म्मणि ल्युट् ।) परिधेयवस्त्रम् । तत्पर्य्यायः ।
अन्तरीयम् २ उपसंव्यानम् ३ अधोऽंशुकम् ४ ।
इत्यमरः । २ । ६ । ११७ ॥ (यथा, पञ्च-
तन्त्रे । ५ । २३ ।
“वरं वनं व्याघ्रगजादिसेवितं
जलेन हीनं बहुकण्टकावृतम् ।
तृणानि शय्या परिधानवल्कलं
न बन्धुमध्ये धनहीनजीवितम् ॥”)

परिधायः, पुं, (परिधीयतेऽत्र । परि + धा +

घञ् ।) जनस्थानम् । परिच्छेदः । नितम्बः ।
इति मेदिनी ॥ (जनस्थानमित्यत्र जलस्थान-
मिति केचित् ॥)

परिधिः, पुं, (परिधीयतेऽनेन । परि + धा +

“उपसर्गे धोः किः ।” ३ । ३ । ९२ । इति
किः ।) परिवेशः । चन्द्रसूर्य्यसमीपमण्डलम् ।
(यथा, रघुः । ८ । ३० ।
“अनृणत्वमुपेयिवान् बभौ
परिधेर्मुक्त इवोष्णदीधितिः ॥”)
यज्ञियतरुशाखा । यज्ञियतरोः पलाशादेर्यज्ञ
पशुबन्धनार्थं या शाखा निखायते तस्याम् ।
इत्यमरभरतौ ॥ (यथाह आपस्तम्बः । “खादिरं
पालाशं वैकविंशतिदारुकमिध्वं करोति त्रयः
पृष्ठ ३/०६१
परिधयः पालाशकाष्ठकाः खादिरौदुम्बरबिल्व-
रोहितकविकङ्कतानां ये वा यज्ञिया वृक्षा
आर्द्राः श्रुष्करसत्वच्काः ॥” इति ॥ * ॥)
भूगोलादेर्वेष्टनम् । यथा, --
“व्यासेभनन्दाग्निहते विभक्ते
खवाणसूर्य्यैः परिधिस्तु सूक्ष्मः ॥”
इति लीलावती ॥
(क्ली, परिधीयते यदिति । परि + धा +
कर्म्मणि किः । परिधेयवस्त्रम् । यथा, भाग-
वते । ८ । ७ । १७ ।
“मेघश्यामः कनकपरिधिः कर्णविद्योतविद्यु-
न्मूर्ध्नि भ्राजद्बिलुलितकचः स्रग्धरो रक्तनेत्रः ॥”
“कनकं सुवर्णमिव पीतं परिधि वस्त्रं यस्य”
इति तट्टीका ॥)

परिधिस्थः, पुं, (परिधौ तिष्ठतीति । परिधि +

स्था + कः ।) परिचरः । इत्यमरः । २ । ८ । ६२ ॥
युद्धकाले परप्रहारात् रथरक्षके । प्रजा-
सामन्तव्यवस्थापनकारिणीति केचित् । सेनायां
राज्ञो दण्डनायकः । इत्यन्ये । इति भरतः ॥

परिधेयं, त्रि, (परिधातुं शक्यम् । परि + धा +

“अचो यत् ।” ३ । १ । ९७ । इति यत्
“ईद्यति ।” ६ । ४ । ६५ । इति आत ईत्
ततो गुणः ।) परिधानीयम् । परिधातव्यम् ।
परिधानोपयुक्तवस्त्रादि । यथा, --
“न तु स्वभोग्यतयापि प्राप्ते परिधेयादौ स्मृतेर-
दृष्टार्थत्वापत्तेः ।” इति विवादचिन्तामणिः ॥

परिपणं, क्ली, (परिपण्यते व्यवह्रियतेऽनेन ।

परि + पण् + “पुंसि संज्ञायां घः प्रायेण ।”
३ । ३ । ११८ । इति घः ।) मूलधनम् । इत्य-
मरः । २ । ९ । ८० । पुँजि इति भाषा ॥

परिपन्थकः, पुं, (परिपन्थयति दोषादिकं प्राप्नो

तीति । परि + पथि क गतौ + ण्वुल् ।) शत्रुः ।
इति हेमचन्द्रः । ३ । ३९३ ॥ (यथा, महा-
भारते । १० । १६ । ३१ ।
“हतो दुर्य्योधनः पापो राज्यस्य परिपन्थकः ॥”)

परिपन्थी, [न्] त्रि, (परिसर्व्वतो भावेन दोषा-

ख्यानं पन्थयितु शीलमस्य । परि + पन्थ +
णिनिः ।) शत्रुः । इत्यमरः । २ । ८ । ११ ।
(यथा, गीतायाम् । ३ । ३४ ।
“इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥”
प्रतिकूलाचारी । यथाह कश्चित् ।
“अपराधिनि चेत् क्रोधः क्रोधे क्रोधः कथं नहि ।
धर्म्मार्थकाममोक्षाणां चतुर्णां परिपन्थिनि ॥”)

परिपाकः, पुं, (परिपच्यते इति । परि + पच् +

घञ् ।) परिपक्वता । यथा, भावप्रकाशे ।
“इत्यद्भुतं केवलवह्निपक्व-
मांसेन मत्स्यः परिपाकमेति ।”
नैपुण्यम् । यथा, --
“वीक्ष्य तस्य विनये परिपाकं
पाकशासनपदं स्पृशतोऽपि ।”
इति नैषधपञ्चमसर्गः ॥

परिपाकिनी, स्त्री, (परिपाकः परिपाकशक्ति-

र्विद्यतेऽस्याः । परिपाक + इनि + ङीप् ।)
त्रिवृता । इति शब्दचन्द्रिका ॥

परिपाटिः, स्त्री, (परिपाटनम् । परि + पट् +

स्वार्थे णिच् + अच इः । यद्वा परि भागे
भागेन पाटिः पाटनं गतिर्यस्याम् ।) पारिपाट्य-
विशिष्टः । तत्पर्य्यायः । आनुपूर्ब्बी २ आवृत् ३
अनुक्रमः ४ पर्य्यायः ५ । इत्यमरः । २ । ७ । ३७ ॥
आनुपूर्ब्बम् ६ परिपाटी ७ । इति भरतः ॥
आनुपूर्ब्बम् ८ आनुपूर्ब्बकम् ९ । इति टीका-
न्तरम् ॥ क्रमः १० । इति जटाधरशब्दरत्ना-
वल्यौ ॥

परिपिष्टकं, क्ली, (परि + पिष् + क्त + संज्ञायां

कन् ।) सीसकम् । इति राजनिर्घण्टः ॥

परिपुष्करा, स्त्री, (परितः पुष्करं मुखं यस्याः ।)

गोडुम्बा । इति शब्दचन्द्रिका ॥ राजगोमक्
इति भाषा ॥

परिपूतं, क्ली, (परि + पू + क्तः ।) अपास्ततुष-

धान्यम् । यथा, मनुः ।
“परिपूतेषु धान्येषु शाकमूलफलेषु च ।
निरन्वये शतं दण्डः सान्वयेऽर्द्धशतं दमः ॥”
त्रि, सर्व्वतोभावेन पवित्रम् ॥ (यथा, माघे । २ । १६ ।
“घूर्णयन् मदिरास्वादमदपाठलितद्युती ।
रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥”)

परिपूर्णता, स्त्री, (परिपूर्णस्य भावः । परिपूर्ण +

“तस्य भावस्त्वतलौ ।” ५ । १ । ११९ । इति
तल् ततः “त्वान्तं क्लीवन्तलन्तं स्त्रियाम् ।” इति
वार्त्तिकोक्तत्वात् स्त्रियां टाप् ।) परिपूर्णत्वम् ।
सम्पूर्णता । तत्पर्य्यायः । आभोगः २ । इत्य-
मरः । २ । ६ । १३७ ॥

परिपूर्णत्वं, क्ली, (परिपूर्णस्य भावः । “तस्य

भावस्त्वतलौ ।” ५ । १ । ११९ । इति त्व ।
ततः क्लीवत्वम् ।) परिपूर्णता । सम्पूर्णत्वम् । इति
जटाधरः ॥ (यथा, --
“दृश्यते परिपूर्णत्वं मुखचन्द्रस्य ते सखि ! ।
न जाने कञ्चकोरं हि विधाता पालयिष्यति ॥”
इत्युद्भटः ॥)

परिपेलं, क्ली, (परिपेलति मृदुतां गच्छतीति ।

पेल गतौ + अच् ।) परिपेलवम् । कैवर्त्ती-
मुस्तकम् । इति शब्दमाला ॥ तन्त्रान्तरे यथा, --
“परिपेलं प्लवं बल्यं तत्कुटन्नटसंज्ञकम् ।
जायते मुस्तकाकारं शेवालकुलसञ्चये ॥”
इत्यमरटीकायां भरतः ॥

परिपेलवं, क्ली, (परि सर्व्वतः पेलवं मृदुता यस्य ।)

कैवर्त्तीमुस्तकम् । इत्यमरः । २ । ४ । १३१ ॥
(अत्यन्तकोमले, त्रि । यथा, बृहत्संहितायाम् ।
९४ । ८ ।
“स्फीतमध्यपरिपेलवं फलं
शीघ्रमध्यचिरकालसम्भवम् ॥”
गुणादयोऽस्य कैवर्त्तीमुस्तकशब्दे ज्ञयाः ॥)

परिप्लवं, त्रि, (परिप्लवते इति । प्लु + अच् ।) चञ्च-

लम् । इत्यमरः । ३ । १ । ३५ ।
(यथा, माघे । १४ । ६८ ।
“मत्कुणाविव पुरा परिप्लवौ
सिन्धुनाथशयने निषेदुषः ।
गच्छतः स्म मधुकैटभौ विभो-
र्यस्य नैद्रसुखविघ्नतां क्षणम् ॥”
पुं, राज्ञः सुखीनलस्य पुत्त्रः । यथा, भागवते ।
९ । २२ । ४२ ।
“सुनीथस्तस्य भविता नृचक्षुर्यत्सुखीनलः ।
परिप्लवः सुतस्तस्मान्मेधावी सुनयात्मजः ॥”)

परिप्लुतः, त्रि, (परिप्लु + क्तः ।) जलादिप्लावितः ।

यथा, मार्कण्डेये देवीमाहात्म्ये १ अध्यायः ॥
“आवां जहि न यत्रोर्व्वी सलिलेन परिप्लुता ॥”

परिप्लुता, स्त्री, (परि + प्लु + क्तः । स्त्रियां टाप् ।)

मदिरा । इति हेमचन्द्रः । ३ । ५६६ ॥ ग्राम्य-
धर्म्मे (मैथुने) वेदनावती योनिः । यथा, --
“परिप्लुतायां भवति ग्राम्यधर्म्मे रुजा भृशम् ।”
इति योनिव्यापन्निदाने माधवकरः ॥
(“पित्तलाया नृसंवासे क्षवथूद्गारधारणात् ।
पित्तसंमूर्च्छितो वायुर्योनिं दूषयति स्त्रियाः ॥
शूनास्पर्शाक्षमासार्त्तिर्नीलपीतमसृक् स्रवेत् ।
श्रोणीवंक्षणपृष्ठार्त्तिज्वरार्त्तायाः परिप्लुता ॥”
इति चरके चिकित्सास्थाने त्रिंशेऽध्याये ॥)
आप्लुते त्रि ॥

परिवर्हः, पुं, (परिवर्ह्यतेऽनेन । वर्ह प्राधान्ये +

घञ् ।) परिच्छदः । हस्त्यश्ववस्त्रकम्बलादि ।
नृपार्होऽर्थः । राजयोग्यद्रव्यं सितच्छत्त्रादि ।
नृपार्हं सितच्छत्त्रादि अर्थो धनमिति केचित् ।
इत्यमरभरतौ ॥ (यथा, --
“निवेश्य गङ्गामनु तां महानदीं
चमूं विधानैः परिवर्हशोभिनीम् ।
उवास रामस्य तदा महात्मनो
विचिन्तमानो भरतो निवर्तनम् ॥”
इति रामायणे । २ । ८३ । २६ ।)

परिभवः, पुं, (परि + भू + अप् ।) अनादरः ।

इत्यमरः । १ । ७ । २२ ॥ (यथा, रघुः । १२ । ३७ ।
“फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य मां ।
मृग्याः परिभवो व्याघ्र्यामित्यवेहि त्वया कृतम् ॥”)

परिभावः, पुं, (परि + भू + “परौ भुवोऽवज्ञाने ।”

३ । ३ । ५५ । इति घञ् ।) परिभवः । इत्य-
मरः । १ । ७ । २२ ॥

परिभाषणं, क्ली, (परि + भाष् + ल्युट् ।) सनिन्द

उपालम्भः । इत्यमरः । १ । ६ । १४ ॥ उपालम्भो
दुर्व्वादः । निन्दया सह वर्त्तमानो य उपा-
लम्भस्तत्र सनिन्दे परिभाषणम् । उपालम्भो
गुणाविष्करणेन स्तुतिपूर्ब्बकोऽपि भवति । यथा
महाकुलस्य भवतः किमिदमुचितं भवति ।
अत्र तु सस्तुतौ न परिभाषणम् । टीकान्तरे-
ऽपि बन्धुलस्य तवागम्यागमनं योग्यमिति
निन्दापूर्ब्बः । महाकुलस्य तव कथं विप्रबधः ।
इति स्तुतिपूर्ब्बश्च उपालम्भः । इति भरतः ॥ * ॥
नियमः । इति मेदिनी ॥ आलापः । इति
विश्वः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/पद्मा&oldid=43999" इत्यस्माद् प्रतिप्राप्तम्