शब्दकल्पद्रुमः/द

विकिस्रोतः तः
पृष्ठ २/६६९

, दकारः । स व्यञ्जनाष्टादशवर्णः तवर्गतृतीय-

वर्णश्च । अस्योच्चारणस्थानं दन्तः । इति व्याक-
रणम् ॥ (यथा, शिक्षायाम् । १७ ।
“स्युर्मूर्द्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥”)
अस्य स्वरूपं यथा, --
“दकारं शृणु चार्व्वङ्गि ! चतुर्व्वर्गप्रदायकम् ।
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥
त्रिशक्तिसहितं देवि ! त्रिविन्दुसहितं सदा ।
आत्मादितत्त्वसंयुक्तं स्वयं परमकुण्डली ॥
रक्तविद्युल्लताकारं दकारं हृदि भावय ॥”
इति कामधेनुतन्त्रम् ॥
अस्य ध्यानादि यथा, --
“ध्यानमस्य दकारस्य वक्ष्यते शृणु पार्व्वति ! ।
चतुर्भुजां पीतवस्त्रां नवयौवनसंस्थिताम् ॥
अनेकरत्नघटितहारनूपुरशोभिताम् ।
एवं ध्यात्वा दकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
अस्य नामानि यथा, नानातन्त्रशास्त्रे ।
“दोऽद्रीशो धातकिर्धाता दाता दलं कलत्रकम् ।
दीनं ज्ञानञ्च दानञ्च भक्तिराहवनी धरा ॥
सुषुम्ना योगिनी सद्यः कुण्डलो वामगुल्फकः ।
कात्यायनी शिवा दुर्गा लङ्घना ना त्रिकण्डकी ॥
स्वस्तिकः कुटिलारूपः कृष्णश्चोमा जितेन्द्रियः ।
धर्म्महृद्वामदेवश्च भ्रमा बहुसुचञ्चला ॥
हरिद्रापुरमत्रौ च दक्षपाणिस्त्रिरेखकः ॥”

दं, क्ली, (ददाति आनन्दमिति । दा + बाहुल-

कात् कः ।) भार्य्य । इत्येकाक्षरकोषः ॥

दः, पुं, (दै प शुद्धौ वा दा दाने + बाहुलकात्

कः ।) अचलः । दत्तः । दाता । इति मेदिनी
दे, १ ॥ (दो च्छेदे + डः ।) खण्डनम् । इति
शब्दरत्नावली ॥ (यथा, माघे । १९ । ११४ ।
“दाददोदुद्ददुद्दादी दादादोदूददी ददोः ।
दुद्दादं दददे दुद्दे ददादद ददोऽददः ॥”
“दद्यते इति दादोदानम् । दददाने कर्म्मणि घञ् ।
दादं ददातीति दाददो दानप्रदः ।” इत्यादौ
मल्लिनाथकृतटीकायामर्थविशेषा बोद्धव्याः ॥)

दंशः, पुं, (दशतीति । दंश दंशने + पचाद्यच् ।)

कीटविशेषः । दाँश इति भाषा । तत्पर्य्यायः ।
वनमक्षिका २ । इत्यमरः । २ । ५ । २७ ॥
गोमक्षिका ३ अरण्यमक्षिका ४ भम्भरालिका
५ । इति शब्दरत्नावली ॥ पांशुरः ६ दंशकः
७ । इति हारावली ॥ दुष्टमुखः ८ क्रूरः ९
क्षुद्रिका १० । इति राजनिर्घण्टः ॥ (यथा,
मनुः । १ । ४५ ।
“स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।
उष्मणश्चोपजायन्ते यच्चान्यत् किञ्चिदीदृशम् ॥”
दशतीव शरीरमिति ।) वर्म्म । (यथा, भाग-
वते । ३ । १८ । ९ ।
“परानुषक्तं तपनीयोपकल्पं
महागदं काञ्चनचित्रदंशम् ॥”
दश + भावे धञ् ।) दंशनम् । इति मेदिनी ।
शे, ७ ॥
(“सुप्तता जायते दंशे कृष्णञ्चातिस्रवत्यसृक् ॥”
इति सुश्रुते कल्पस्थाने वष्ठेऽध्याये ॥)
दन्तः । इति हेमचन्द्रः । ३ । २४८ ॥ खण्ड-
नम् । (दन्तक्षतम् । यथा, आर्य्यासप्त-
शत्याम् । ५११ ।
“वर्णहृतिर्न ललाटे न लुलितमङ्गं न चाघरे
दंशः ।
उत्पलमहारि वारि च न स्पृष्टमुपायचतु-
रेण ॥”)
दोषः । मर्म्म । सर्पक्षतम् । इति विश्वः ॥ (यथा,
“सर्व्वैरेवादितः सर्पैः शाखादष्टस्य देहिनः ।
दंशस्योपरिबध्नीयादरिष्टाश्चतुरङ्गुले ॥
प्लोतचर्म्मान्तवल्कानां मृदुनान्यतमेन च ।
न गच्छति विषं देहमरिष्टाभिर्निवारितम् ॥”
इति सुश्रुते कल्पस्थाने पञ्चमेऽध्याये ॥
असुरविशेषः । यथा, महाभारते । १२ । ३ । १९ ।
“सोऽब्रवीदहमांसं प्राक् दंशो नाम
महासुरः ॥”
अयन्तु भृगुभार्य्यामपहरन् तच्छापात् मांस-
शोणिताशी कीटो जातः । ततः कदाचित्
गुरोः परशुरामस्य निद्रां प्रतिपालयितुः कर्णस्य
ऊरुदेशं निर्भिद्य शोणितं पीतवान् । ततः
परशुरामेणायं शापात् निर्म्मोचितः ॥ एतद्-
विवरणन्तु तत्रैवाध्याये द्रष्टव्यम् ॥)

दंशकः, पुं, (दशतीति । दन्श + ण्वुल् ।) दंशः ।

इति हारावली । १२३ ॥ (नृपविशेषः । स तु
कम्पनादेशाधिपतिः । यथा, राजतरङ्गिण्याम् ।
१७८ ।
“दंशकः कम्पनाधीशः प्रवृद्धे तत्र सक्रुधि ।
विद्रुतो विषलाटायां निपत्य निहतः खशैः ॥”)
दंशनकर्त्तरि, त्रि ॥

दंशनं, क्ली, (दशतीव शरीरमिति । दश +

ल्युः ।) वर्म्म । (यथा, महाभारते । ३ । २६८ । १८ ।
“संनह्यध्वं सर्व्व एवेन्द्रकल्पा
महान्ति चारूणि च दंशनानि ॥”
दन्श + भावे ल्युट् ।) दन्तादिना खण्डनम् ।
इति हेमचन्द्रः ॥ कामडान हुलफुटान इति
भाषा । (यथा, महाभारते । ८ । ८३ । ३४ ।
“दंशनञ्चाहिभिः कृष्णैर्दाहश्च जतुवेश्मनि ॥”)

दंशभीरुः, पुं स्त्री, (दंशात् वनमक्षिकातः भीरु-

र्भयशीलः ।) महिषः । इति त्रिकाण्डशेषः ॥

दंशमूलः, पुं, (दंशवदुग्रं मूलमस्य ।) शिग्रुः ।

इति राजनिर्घण्टः ॥ (गुणादयोऽस्य शिग्रुशब्दे
ज्ञातव्याः ॥)

दंशितः, त्रि, (दंशो वर्म्म सञ्जातोऽस्य परिहित-

त्वादिति । दंश + तारकादित्वात् इतच् ।)
वर्म्मितः । (यथा, महाभारते । २ । २९ । २ ।
“महता बलचक्रेण परराष्ट्रावमर्द्दिना ।
हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान् ॥”
दंश्यते इति । दन्श + णिच् + भावे क्तः ।)
दष्टः । इति हेमचन्द्रः ॥ (भासमानः । यथा,
महाभारते । ४ । ४० । २ ।
“वारणा यत्र सौवर्णाः पृष्ठे भासन्ति दंशिताः ।
सुपार्श्वं सुग्रहञ्चैव कस्यैतद्धनुरुत्तमम् ॥”
“दंशिता भासमानाः ।” इति नीलकण्ठः ॥)

दंशी, स्त्री, (क्षुद्रो दंशः । स्वल्पार्थे ङीष् । यद्वा,

दशतीति । दंश + अच् । गौरादित्वात् ङीष् ।)
क्षुद्रदंशः । इत्यमरः । २ । ५ । २७ । छोट-
दाँश इति भाषा ॥

दंष्ट्रा, स्त्री, (दश्यतेऽनयेति । दन्श + “दाम्नी-

शसेति ।” ३ । २ । १८२ । इति करणे ष्ट्रन् ।
यद्वा, “सर्व्वधातुभ्यष्ट्रन् ।” उणां ४ । १५८ ।
इति ष्ट्रन् । गौरादिपाठे पितामहीशब्दस्य
पाठात् षितां ङीषोऽनित्यत्वात् टाप् ।) दन्त-
पृष्ठ २/६७०
विशेषः । तत्पर्य्यायः । दाढा २ । इति हेम-
चन्द्रः । ३ । २४७ ॥ (यथा, साहित्यदर्पणे ।
१ । ३ ।
“यस्यालीयत शल्कसीम्नि जलधिः पृष्ठे
जगन्मण्डलम् ।
दंष्ट्रायां धरणी नखे दितिसुताधीशः पदे
रोदसी ॥”)

दंष्ट्रिका, स्त्री, (दंष्ट्रा विद्यतेऽस्याः । दंष्ट्रा +

“ब्रोह्यादिभ्यश्च ।” ५ । २ । ११६ । इति ठन् ।)
दाढिका । इति हेमचन्द्रः । ३ । २४७ ॥

दंष्ट्री, [न्] पुं स्त्री, (प्रशस्ता दंष्ट्रा अस्त्यस्येति ।

दंष्ट्रा + “ब्रीह्यादिभ्यश्च ।” ५ । २ । ११६ । इति
इनिः ।) शूकरः । इत्यमरः । २ । ५ । २ ॥
सर्पः । इति शब्दरत्नावली ॥ (यथा, रामा-
यणे । २ । ३३ । २३ ।
“विलानि दंष्ट्रिणः सर्व्वे सानूनि मृगपक्षिणः ।
त्यजन्त्यस्मद्भयाद्भीता गजाः सिंहा वनान्यपि ॥”)
दंष्ट्राविशिष्टे, त्रि । यथा, --
“दंष्ट्रिभिः शृङ्गिभिर्व्वापि हता म्लेच्छैश्च
तस्करैः ।
ये स्वाम्यर्थे हता यान्ति राजन् ! स्वर्गं न संशयः ॥”
इति शुद्धितत्त्वे अग्निपुराणम् ॥

दकं, क्ली, (उदक + पृषोदरादित्वात् साधुः ।)

जलम् । इति त्रिकाण्डशेषः ॥

दक्ष, ङ स्यदे । वृद्धौ । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-सकं-सेट् ।) स्यद इह शीघ्रकर-
णम् । ङ, दक्षते धनमुद्योगी । शीघ्रमुत्पाद-
यति इत्यर्थः । इति दुर्गादासः ॥ (सामर्थ्ये
अकर्म्मकोऽयम् । यथा, ऋग्वेदे । २ । १ । ११ ।
“तमिळा शतमिहासि दक्षसे ॥”
“दक्षसे दानाय समर्था भवसि ॥” इति तद्भाष्ये
सायनः ॥)

दक्ष, ष म ङ हन्त्यर्थे । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-सकं-सेट् ।) म, अदक्षि अदाक्षि ।
दक्षं दक्षम् । दाक्षं दाक्षम् । मानुबन्धबला-
दनुपधयोरपि दीर्घः । स्वमते तु दीर्घविधि-
रुपधां नापेक्षते । ष, दक्षा । सेमक्तात् सरो-
रित्यनेनैवेष्टसिद्धेऽस्य षानुबन्धस्त्वरपर्य्यन्तघटा-
दिभ्यो ङ इति प्राचीनमतानुवादार्थः । ङ,
दक्षते । हन्त्यर्थे गतिवधयोः । इति दुर्गादासः ॥

दक्षः, पुं, (दक्षते सृष्टिप्रवृद्धये समर्थो भवतीति ।

दक्ष + अच् ।) प्रजापतिविशेषः । स ब्रह्मणो
दक्षिणाङ्गुष्ठाज्जातः । ततः प्रभृति मैथुनेन
प्रजा जाताः । यथा, --
“शरीरानथ वक्ष्यामि मातृहीनान् प्रजापतेः ।
अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायत ॥”
इति मत्स्यपुराणे । ३ । ९ ॥
“यथा ससर्ज चैवादौ तथैव शृणुत द्बिजाः ! ।
यदा तु सृजतस्तस्य देवर्षिगणपन्नगान् ॥
न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः ।
दक्षः पुत्त्रसहस्राणि पाञ्चजन्यामजीजनत् ॥”
इति च तत्रैव । ५ । ३ -- ४ ॥
अस्य भार्य्या स्वायम्भुवमनुकन्या प्रसूतिः । अस्य
षोडशकन्याः यथा, श्रद्धा १ मैत्री २ दया ३
शान्तिः ४ तुष्टिः ५ पुष्टिः ६ क्रिया ७ उन्नतिः
८ बुद्धिः ९ मेधा १० मूर्त्तिः ११ तितिक्षा १२
ह्रीः १३ स्वाहा १४ स्वधा १५ सती १६ ।
तस्य त्रिसहस्रपुत्त्राः । दक्षप्रजापतिर्द्वितीय-
जन्मनि दशप्रचेतसः सुतो भूत्वा षष्ठमन्वन्तरे
प्रजासृष्टिञ्चकार । स असिक्न्यां पत्न्यां षष्टिं
कन्या जनयित्वा प्रजापतिभ्यो दत्तवान् ।
धर्म्माय दश । कश्यपाय सप्तदश । चन्द्राय
सप्तविंशतिः । कृशाश्वाय द्वे । भूताय द्वे ।
अङ्गिरसे द्वे । इति श्रीभागवतम् ॥ * ॥
ताम्रचूडः । (यथा, चरके सूत्रस्थाने २७
अध्याये ।
“धार्त्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि ।
चटकानाञ्च यानि स्युरण्डानि च हितानि च ॥”)
मुनिभेदः । (यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे ।
४ । ६७ ।
“कणादो गौतमः कण्वः पाणिनिः शाकटायनः ।
ग्रन्थञ्चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥”
अयं हि धर्म्मशास्त्रप्रयोजकानामन्यतमः । यथा,
याज्ञवल्क्ये । १ । ५ ।
“पराशरव्यासशङ्खलिखिता दक्षगोतमौ ।
शातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥”)
हरवृषः । द्रुमभेदः । वह्निः । इति विश्वः ॥
महेशः । इति शब्दरत्नावली ॥ (यथा, महा-
भारते । १३ । १७ । ११३ ।
“धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ॥”
विष्णोर्नामविशेषः । यथा, महाभारते । १३ ।
१४९ । १११ ।
“अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ॥”
बलम् । इति निघण्टुः । २ । ९ । “दक्ष
शैघ्र्ये चकारात् वृद्धौ । दक्ष गतिहिंसनयोः ।
दक्षतिरुत्साहार्थः । इति स्कन्दस्वामी । असुन् ।
शत्रुविजये क्षिप्रो भवत्यनेन हिंस्यन्ते वानेन
शत्रवः प्रोत्साहितो वा भवति शत्रुविजये ।”
“दक्ष इति सकारान्तं बलनाम अकारान्त-
मपि तस्यैवमर्थान्तरे द्रष्टव्यम् ॥” इति तट्टी-
कायां देवराजयज्वा । यथा, ऋग्वेदे । १ । ९५ । ६ ।
“स दक्षाणां दक्षपतिर्बभूव ॥”
“सोऽग्निर्दक्षाणां सर्व्वेषां बलानां दक्षपति-
र्बलाधिपतिर्बभूव ।” इति तद्भाष्ये सायनः ॥
गरुडस्य पुत्त्राणामन्यतमः । यथा, महा-
भारते । ५ । १०१ । १२ ।
“मेघहृत् कुमुदो दक्षः सर्पान्तः सोमभोजनः ॥”)
त्रि, पटुः । इति मेदिनी । षे, १४ ॥ अस्य
पर्य्यायः चतुरशब्दे द्रष्टव्यः ॥ (यथा, महा-
भारते । १ । ७४ । ३९ ।
“सा भार्य्या या गृहे दक्षा सा भार्य्या या प्रजा-
वती ।
सा भार्य्या या पतिप्राणा सा भार्य्या या
पतिव्रता ॥”
समर्थः । यथा, ऋग्वेदे । १ । ५९ । ४ ।
“बृहती इव सूनवे रोदसी
गिरो होता मनुष्यो न दक्षः ॥”
प्रवृद्धः । यथा, तत्रैव । १ । १५ । ६ ।
“युवं दक्षं धृतव्रत मित्रावरण दूळभम् ॥”
“दक्षं प्रवृद्धम् ।” इति तद्भाष्ये सायनः ॥
दक्षिणः । अपसव्यम् । यथा, महानिर्व्वाणे ।
३ । ४४ ।
“प्राणायामं ततः कुर्य्यान् मूलेन प्रणवेन वा ।
मध्यमानामिकाभ्याञ्च दक्षहस्तस्य पार्व्वति ! ॥”)

दक्षकन्या, स्त्री, (दक्षस्य प्रजापतेः कन्या ।)

दुर्गा । इति त्रिकाण्डशेषः ॥ दक्षप्रजापतेः
सुता । ताः पञ्चाशत्सङ्ख्यकाः । तासां नामानि
यथा, --
“सती ज्योतिः स्मृतिः स्वाहा ह्यनुसूया स्वधा
तथा ।
प्रीतिः क्षमा च संभूतिः सन्नतिश्च अरुन्धती ॥
कीर्त्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धाक्रिया मतिः ।
बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः सिद्धिस्तथा रतिः ॥
अरुन्धाती वसुर्यामी लवा भानुर्म्मरुत्वती ।
सङ्कल्पा च मुहूर्त्ता च साध्या विश्वा च नामतः ॥
अदितिश्च दितिश्चैव दनुः काला दनायुषा ।
सिंहिका सुरसा कद्रुर्विनता सुरभिः स्वसा ॥
क्रोधा इरा च प्रोवा च दक्षकन्याः प्रकीर्त्तिताः ।
पञ्चाशत् सिद्धियोगिन्यः सर्व्वलोकस्य मातरः ॥”
इति वह्निपुराणे गणभेदनामाध्यायः ॥
(अयं द्वितीयजन्मनि प्राचेतसो भूत्वा षष्टिं कन्या
जनयामास । यथा, मत्स्यपुराणे । ५ । १२-१४ ।
“ततस्तेषु विनष्टेषु षष्टिं कन्याः प्रजापतिः ।
वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा ॥
प्रादात् स दश धर्म्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्रोऽरिष्टनेमये ॥
द्वे चैव भृगुपुत्त्राय द्वे कृशाश्वाय धीमते ।
द्वे चैवाङ्गिरसे तद्वत्तासां नामानि विस्तरः ॥
शृणुध्वं देवमातॄणां प्रजाविस्तरमादितः ॥”
एतासां नामानि तत्रैव द्रष्टव्यानि ॥)

दक्षजा, स्त्री, (दक्षात् प्रजापतेर्जायते इति ।

जन + “पञ्चम्यामजातौ ।” ३ । २ । ९२ । इति
डः ।) दुर्गा । इति हेमचन्द्रः ॥ (अश्विन्यादि-
नक्षत्रे च ॥)

दक्षजापतिः, पुं, (दक्षजानां अश्विन्यादिदक्ष-

कन्यानां पतिः ।) चन्द्रः । इति हेमचन्द्रः ॥
(दक्षजायाः सत्याः पतिः इति विग्रहे शिवः ॥)

दक्षसावर्णिः, पुं, नवममनुः । अस्मिन् मन्वन्तरे

ऋषभनामा भगवदवतारः । श्रुतनामा इन्द्रः ।
पारमरीचिगर्भाद्या देवाः । द्युतिमदाद्याः सप्त-
र्षयः । भूकेतुदीप्तिकेतुप्रभृतयो मनुपुत्त्रा भवि-
ष्यन्ति । इति श्रीभागवतम् ॥ (अस्य विशेष-
विवृतिस्तु मार्कण्डेयपुराणे ९४ अध्याये द्रष्टव्या ॥)

दक्षा, स्त्री, (दक्षते वर्द्धते भारधारणे समथां

भवतीति वा । दक्ष + अच् । टाप् ।) पृथिवी ।
इति मेदिनी । षे, १५ ॥
पृष्ठ २/६७१

दक्षाध्वरध्वंसकृत्, पुं, (दक्षाध्वरस्य दक्षयज्ञस्य

ध्वंसं नाशं करोतीति । कृ + क्विप् तुगागमश्च ।)
शिवः । इति हलायुधः ॥

दक्षाय्यः, पुं, (दक्षते कार्य्येषु समर्थो भवतीति ।

दक्ष + “श्रुदक्षिस्पृहिगृहिभ्य आय्यः ।” उणां
३ । ९६ । इति आय्यः ।) गरुडः । गृध्रः ।
इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥ (दक्ष
वृद्धौ + आय्यः । त्रि, वर्द्धकः । यथा, ऋग्वेदे ।
१ । ९१ । ३ ।
“शुचिष्ट्वमसि प्रियो न मित्रो
दक्षाय्यो अर्य्यमेवासि सोम ! ॥”
“त्वमर्य्यमेवास्माभिर्दृश्यमानः सूर्य्य इव दक्षा-
य्योऽसि सर्व्वेषां वर्द्धकोऽसि ।” इति सायनः ॥
पूजनीयः । यथा, तत्रैव । ७ । १ । २ ।
“दक्षाय्यो यो दम आस नित्यः ॥”
“योऽग्निर्द्दमे गृहे दक्षाय्यः पूजनीयो हविभिः
समर्घनीयो वा ।” इति तद्भाष्ये सायनः ॥)

दक्षिणः, त्रि, (दक्षते इति । दक्ष वृद्धौ + “द्रु-

दक्षिभ्यामिनन् ।” उणां । २ । ५० । इति
इनन् ।) दक्षिणोद्भूतः । (दक्षिणदिग्भवः ।
यथा, रघुः । ४ । ८ ।
“स हि सर्व्वस्य लोकस्य युक्तदण्डतया मनः ।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥”
दक्षिणदिक्स्थितः । यथा, मनुः । ५ । ९२ ।
“दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ॥”)
सरलः । (यथा, महाभारते । ४ । ५ । २७ ।
“दक्षिणां दक्षिणाचारो दिशं येनाजयत्
प्रभुः ॥”)
परच्छन्दानुवर्त्ती । आरामः । इति मेदिनी
णे, ५० ॥
(“दक्षिणः सरलावामपरच्छन्दानुवर्त्तिषु ।
वाच्यवद्दक्षिणावाटीयज्ञदानप्रतिष्ठयोः ॥”
इति विश्ववचनात् । णे, ४५ ॥)
दक्षः । अपसव्यम् । इति हेमचन्द्रः ॥ डाहिन
इति भाषा । (यथा, मनुः । २ । ६३ ।
“उद्धृते दक्षिणे पाणावुपवीत्युच्यते द्विजः ॥”)
दक्षिणहस्ताप्रदाने दोषो यथा, --
“दक्षहस्ताप्रदाता च सर्पश्च सप्तजन्मसु ।
ततो भवेद्धस्तहीनो मानवश्च ततः शुचिः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥
दक्षिणहस्ते प्रतिग्रहो यथा, --
“ओंकारमुच्चरन् प्राज्ञो द्रविणं शक्तुमोदकम् ।
गृह्णीयाद्दक्षिणे हस्ते तदन्ते स्वस्ति कीर्त्तयेत् ॥”
इत्यादित्यपुराणम् ॥
(प्रदक्षिणः । यथा, भागवते । १ । १४ । १३ ।
“शस्ताः कुर्व्वन्ति मां सव्यं दक्षिणं पशवोऽपरे ।
वाहांश्च पुरुषव्याघ्र ! लक्षये रुदतो मम ॥”)
पुं, चतुर्धानायकान्तर्गतनायकविशेषः । तस्य
लक्षणम् । (यथा, साहित्यदर्पणे । ३ । ४० ।
“एषु त्वनेकमहिलासु समरागो दक्षिणः
कथितः ॥”)
यथा च “सकलनायिकाविषयसमसहजानुरागः ।
अस्योदाहरणं यथा, --
“अन्तःपुरे स्फुरति पद्मदृशां सहस्र-
मक्षिद्वयं कथय कुत्र निवेशयामि ।
इत्याकलय्य नयनाम्बुरुहे निमील्य
रोमाञ्चितेन वपुषा स्थितमच्युतेन ॥”
इति रसमञ्जरी ॥ * ॥
(तन्तोक्ताचारविशेषे, क्ली । यथा, कुलार्णवे
५ खण्डे ।
“सर्व्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं महत् ।
वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् ॥
दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् ।
सिद्धान्तादुत्तमं कौलं कौलात् परतरं न हि ॥”)

दक्षिणकालिका, स्त्री, (दक्षिणा अनुकूला का-

लिका ।) आद्याशक्तिः । यथा, --
“ऊर्द्ध्वं वामे कृपाणं करकमलतले छिन्नमुण्डं
तथाधो
दक्षे चाभीवरञ्च त्रिजगदघहरे दक्षिणे कालिके
च ।” इति तन्त्रसारः ॥

दक्षिणतः, व्य, (दक्षिण + “दक्षिणोत्तराभ्यामत-

सुच् ।” ५ । २ । २८ । इति अतसुच् ।) दक्षिणस्यां
दिशि । इत्यमरटीकायां रायमुकुटः ॥ (यथा,
मनुः । ३ । ९१ ।
“पृष्ठवास्तुनि कुर्व्वीत वलिं सर्व्वात्मभूतये ।
पितृभ्यो वलिशेषन्तु सर्व्वं दक्षिणतो हरेत् ॥”
दक्षिण + तसिल् । दक्षिणभागे । यथा, महा-
निर्व्वाणतन्त्रे । ३ । ४८ ।
“पुनर्दक्षिणतः कुर्य्यात् पूर्ब्बवत् सुरपूजिते ॥”)

दक्षिणतारं, क्ली, दक्षिणतीरम् । यथा, “दिक्-

शब्देभ्यस्तीरस्य तारभावो वा । दक्षिणतारं
दक्षिणतीरं उत्तरतारं उत्तरतीरम् ।” इति
सिद्धान्तकौमुद्यां समासप्रकरणम् ॥

दक्षिणपूर्व्वा, स्त्री, (दक्षिणस्याः पूर्व्वस्याश्च दिशो-

ऽन्तरालम् । “दिङ्नामान्यन्तराले ।” २ ।
२ । २६ । इति समासः ।) पूर्ब्बदक्षिणकोणः ।
इति व्याकरणम् ॥ (यथा, भागवते । ९ । १९ । २२ ।
“दिशि दक्षिणपूर्ब्बस्यां द्रुह्युं दक्षिणतो यदुम् ॥”
तद्दिग्भागस्थे, त्रि । यथा, आश्वलायनगृह्य-
सूत्रे । ४ । २ । ११ ।
“दक्षिणपूर्ब्ब उद्धृतान्त आहवनीयं निदधाति ॥”)

दक्षिणस्थः, पुं, (दक्षिणे भागे तिष्ठतीति । स्था +

कः ।) सारथिः । इत्यमरः । २ । ८ । ६० ॥
दक्षिणस्थिते, त्रि ।

दक्षिणा, स्त्री, (दक्षते इति । दक्ष वृद्धौ + “द्रुदक्षि-

भ्यामिनन् ।” उणां । २ । ५० । इति इनन् ।
ततष्ठाप् ।) दक्षिणदिव् । तत्पर्य्यायः । अवाची
२ शामनी ३ यामी ४ वैवस्वती ५ । इति राज-
निर्घण्टः ॥ (यथा, कुमारे । ३ । २५ ।
“दिक् दक्षिणा गन्धवहं मुखेन
व्यलीकनिश्वासमिवोत्ससर्ज ॥”)
दक्षिणवायुगुणाः । षड्रसयुक्तत्वम् । चक्षुर्हित-
त्वम् । बलवर्द्धनत्वम् । रक्तपित्तप्रशमनत्वम् ॥ सौख्य-
कान्तिमतिप्रदत्वम् । शस्यनाशित्वम् । विदा-
हित्वम् । अस्रमारुतकोपनत्वम् । गण्डूपदादि-
कीटानां जनकत्वञ्च । इति द्रव्यगुणः ॥ * ॥
अस्या दिशोऽधिपतयः वृषकन्यामकरराशयः ।
इति ज्योतिषम् ॥ यज्ञादिविधिदानम् । इति
मेदिनी ॥ प्रतिष्ठा । इति हेमचन्द्रः ॥ यज्ञादि-
सम्पादकतदन्तविहितदानम् । सा यज्ञपत्नी
श्रीकृष्णदक्षिणांशभूता । यथा, --
“कार्त्तिकीपूर्णिमायान्तु रासे राधामहोत्सवे ।
आविर्भूतादक्षिणांशात् कृष्णस्य तेन दक्षिणा ॥”
दक्षिणाया अदाने तस्या वृद्धिर्यथा, --
“यज्ञो दक्षिणया सार्द्धं पुत्त्रेण च फलेन च ।
कर्म्मिणां फलदाता चेत्येवं वेदविदो विदुः ॥
कृत्वा कर्म्म च तस्यैव तूर्णं दद्याच्च दक्षिणाम् ।
तत्कर्म्मफलमाप्नोति वेदैरुक्तमिदं मुने ! ॥
कर्त्ता कर्म्मणि पूर्णे च तत्क्षणं यदि दक्षिणाम् ।
न दद्याद्ब्राह्मणेभ्यश्च दैवेनाज्ञानतोऽथ वा ॥
मुहूर्त्ते समतीते तु द्बिगुणा सा भवेद्ध्रुवम् ।
एकरात्रे व्यतीते तु भवेत् शतगुणा च सा ॥
त्रिरात्रे तद्दशगुणा सप्ताहे द्बिगुणा ततः ।
मासे लक्षगुणा प्रोक्ता ब्राह्मणानाञ्च वर्द्धते ॥
संवत्सरे व्यतीते तु सा त्रिकोटिगुणा भवत् ॥
कर्म्म तद्यजमानानां सर्व्वञ्च निष्फलं भवेत् ।
स च ब्रह्मस्वापहारी न कर्म्मार्होऽशुचिर्नरः ॥
दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी ।
तद्गृहाद्याति लक्ष्मीश्च शापं दत्त्वा सुदारुणम् ॥
पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम् ।
एवं सुराश्च तत्पूजां तद्दत्तामग्निराहुतिम् ॥ * ॥
दाता न दीयते दानं ग्रहीता च न याचते ।
उभौ तौ नरकं यातश्छिन्नरज्जुर्यथा घटः ॥
नार्पयेद्यजमानश्चेद्याचितारञ्च दक्षिणाम् ।
भवेद्ब्रह्मस्वापहारी कुम्भीपाकं व्रजेद्ध्रुवम् ॥
वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः ।
ततो भवेत् स चाण्डालो व्याधियुक्तो दरिद्रकः ॥
पातयेत् पुरुषान् सप्त पूर्ब्बांश्च सप्तजन्मनः ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥
नायिकाविशेषः । यथा, --
“या गौरवं भयं प्रेम सद्भावं पूर्ब्बनायके ।
न मुञ्चत्यन्यसक्तेऽपि सा ज्ञेया दक्षिणा बुधैः ॥”
इति विष्णुपुराणटीकायां स्वामी ॥
(व्य, दक्षिणस्यां दिशि दक्षिणा दिग् वा ।
“दक्षिणादाच् ।” ५ । ३ । ३६ । इति आच् ।
दक्षिणस्यां दिशि ॥)

दक्षिणाग्निः, पुं, (दक्षिणः अनुकूलोऽग्निः ।)

यज्ञाग्निविशेषः । इत्यमरः । २ । ७ । १९ ॥ दक्षि-
णस्या दिशोऽग्निर्दक्षिणाग्निः । इति भरतः ॥
अस्य नामकरणम् । यथा, --
“दत्तासु दक्षिणास्वादौ तृप्तिर्भूत्वा यतोऽमरान् ।
नयसे दक्षिणाभागं दक्षिणाग्निस्ततोऽभवत् ॥”
इति वराहपुराणम् ॥

दक्षिणाचलः, पुं, (दक्षिणा दक्षिणस्यां दिशि

दक्षिणे दक्षिणप्रदेशे वा स्थितोऽचलः पर्व्वतः ।)
मलयपर्व्वतः । इति हेमचन्द्रः । ४ । ९५ ॥
पृष्ठ २/६७२

दक्षिणाचारः, पुं, (दक्षिणोऽप्रतिकूल आचारः ।)

आचारविशेषः । यथा, --
“स्वधर्म्मनिरतो भूत्वा पञ्चतत्त्वेन पूजयेत् ।
स एव दक्षिणाचारः शिवोभूत्वा शिवां यजेत् ॥”
इत्याचारभेदतन्त्रम् ॥
(एतदाचारोक्तकर्म्मादिकं वामाचारवत् कठोर-
तरं न । तथाच काशीराजप्रणीतदक्षिणा-
चारतन्त्रे ।
“दक्षिणाचारतन्त्रोक्तं कर्म्म तच्छुद्धवैदिकम् ॥”
दक्षिणोऽनुकूलः साधुराचारो व्यवहारो यस्य ।
शिष्टाचारविशिष्टे, त्रि । यथा, महाभारते ।
४ । ५ । २७ ।
“दक्षिणां दक्षिणाचारो दिशं येनाजयत्
प्रभुः ॥”)

दक्षिणात्, व्य, (वसत्यागतो रमणीयं वा । दक्षि-

णस्यां दिशि दक्षिणस्या दिशः दक्षिणा वा
दिक् इति । “उत्तराधरदक्षिणादातिः ।” ५ ।
३ । ३४ । इति आतिः ।) दक्षिणस्यां दिशि ।
इत्यमरटीकायां रायमुकुटः ॥

दक्षिणापथजन्मा, [न्] पुं, (दक्षिणा दक्षिणस्यां

दिशि यः पन्थाः तत्र जन्म यस्य ।) जाति-
विशेषः । यथा, महाभारते । १२ । २०७ । ४२-४५ ।
“दक्षिणापथजन्मानः सर्व्वे नरवरान्ध्रकाः ।
गुहाः पुलिन्दाः शवराः चुचुका मद्रकैः सह ॥
उत्तरापथजन्मानः कीर्त्तयिष्यामि तानपि ।
यौनकाम्बोजगान्धाराः किराता वर्व्वरैः सह ॥
एते पापकृतस्तात ! चरन्ति पृथिवीमिमाम् ।
श्वपाकवलगृध्रानां सधर्म्माणो नराधिप ! ॥
नैते कृतयुगे तात ! चरन्ति पृथिवीमिमाम् ।
त्रेताप्रभृति वर्द्धन्ते ते जना भरतर्षभ ! ॥”

दक्षिणामुखः, त्रि, (दक्षिणा दक्षिणस्यां दिशि

मुखं यस्य ।) दक्षिणदिङ्मुखः । यथा, --
“अमास्नानं गयाश्राद्धं दक्षिणामुखभोजनम् ।
न जीवत्पितृकः कुर्य्यात् कृते च पितृहाभवेत् ॥”
इति तिथ्यादितत्त्वम् ॥

दक्षिणायनं, क्ली, (दक्षिणा दक्षिणस्यां दिशि

दक्षिणे गोले वा अयनम् ।) सूर्य्यस्य दक्षिणा-
गतिः । सा श्रावणादिषट्षु मासेषु भवति ।
इत्यमरः ॥ * ॥ यथा, --
“कर्क्कटावस्थिते भानौ दक्षिणायनमुच्यते ।
उत्तरायणमप्युक्तं मकरस्थे दिवाकरे ॥ इति ।
अयनस्योत्तरस्यादौ मकरं याति भास्करः ।
राशिं कर्क्कटकं प्राप्य कुरुते दक्षिणायनम् ॥”
इति विष्णुपुराणोक्ताच्चूडादावयनपरिग्रहः
सौरेण ।
दिनमानादिबोधे तु सिद्धान्तादयनपरिग्रहः ।
इति ॥
मृगसंक्रान्तितः पूर्ब्बं पश्चात्तारादिनान्तरे ।
एकवर्षे चतुःपञ्चपलमानक्रमेण तु ॥
षटषष्टिवत्मरानेकदिनं स्यादयनं रवेः ।
एवं चतुःपञ्चदिनमयनारम्भणं क्रमात् ॥
व्युत्क्रमेण च तद्वत् स्यादुदग्यानं रवेर्ध्रुवम् ॥
कर्क्किसंक्रमणे तद्रदभिती दक्षिणायनम् ।
अयनांशक्रमेणैव विषुवारम्भणं तथा ॥”
इति च ज्योतिस्तत्त्वम् ॥
तत्र जातस्य फलं यथा, --
“याम्यायने यस्य भवेत् प्रसूतिः
शठः कठोरः पिशुनस्वभावः ।
चतुष्पदाढ्यः कृषिमानहंयु-
र्व्वाचामशान्तो मनुजः प्रतापी ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
कर्क्कटसंक्रान्तिः । यथा, --
“मृगकर्क्कटसंक्रान्ती द्वे तूदग्दक्षिणायने ।
विषुवती तुलामेषे गोलमध्ये तथापराः ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
अयनचक्रं यथा, --
“चक्रं सारं विलिख्य ग्रहपतिरयने संक्रमञ्चेत्
करोति
यस्मिन्नृक्षे तदृक्षं मरणभयकरं शूलमूले
निदध्यात् ।
तत्पश्चादारशूले विविधभयकरं शूलपार्श्वे-
ऽर्थलाभः
सौख्यं स्याच्चक्रगर्भे विविधमुनिमतं विद्धि
वामक्रमेण ॥”
इति ज्योतिषम् ॥
(“त एते शीतोष्णवर्षलक्षणाश्चन्द्रादित्ययोः काल-
विभागकरत्वादयने द्वे भवतो दक्षिणमुत्तरञ्च ।
तयोर्दक्षिणं वर्षाशरद्धेमन्तास्तेषु भगवाना-
प्याय्यते सोमोऽम्ललवणमधुराश्च रसा बलवन्तो
भवन्त्युत्तरोत्तरञ्च सर्व्वप्राणिनां वलमभिवर्द्धते ॥”
इति सुश्रुते सूत्रस्थाने षष्ठेऽध्याये ॥)

दक्षिणारुः, [स्] पुं, (दक्षिणे दक्षिणभागे अरुर्व्रण-

भस्य ।) व्याधकर्त्तृकदक्षिणाङ्गव्रणितमृगः ।
इत्यमरः । २ । १० । २४ ॥

दक्षिणार्हः, त्रि, (दक्षिणामर्हतीति । अर्ह +

“अर्हः ।” ३ । २ । १२ । इत्यच् ।) दक्षिणा-
योग्यः । ऋज्वाशये दक्षिणामर्हति यः । इति
भरतः ॥ तत्पर्य्यायः । दक्षिणीयः २ दक्षिण्यः
३ । इत्यमरः । ३ । १ । ५ ॥

दक्षिणावर्त्तकी, स्त्री, (दक्षिणे आवर्त्तते इति ।

आ + वृत् + ण्वुल् । गौरादित्वात् ङीष् ।)
वृश्चिकालिः । इति राजनिर्घण्टः ॥

दक्षिणाशापतिः, पुं, (दक्षिणाशाया दक्षिणस्या

दिशः अधिपतिः ।) यमः । इति हेमचन्द्रः ।
२ । ९८ ॥

दक्षिणीयः, त्रि, (दक्षिणामर्हतीति । दक्षिणा +

“कडङ्करदक्षिणाच्छ च ।” ५ । १ । ६९ । इति
छः ।) दक्षिणार्हः । इत्यमरः । ३ । १ । ५ ।
(यथा, हरिवंशे । ४८ । ७९ ।
“क्रतवः संप्रवर्त्त्यन्तां दक्षिणीयैर्द्विजातिभिः ।
दक्षिणाश्चोपवर्त्तन्तां यथोक्ताः सर्व्वसत्रिणः ॥”
तथाच अथर्व्ववेदे । ८ । १० । ४ ।
“यज्ञर्तोदक्षिणीयो वासतेयो भवति य
एवं वेद ॥”)

दक्षिणेन, व्य, (दक्षिण + “एनबन्यतरस्यामदूरे

ऽपञ्चम्याः ।” ५ । ३ । ३५ । इति एनप् ।)
दक्षिणदिशि । इति रायमुकुटः ॥ दक्षिणभागे ।
(अस्य योगेन द्वितीया भवति ।) यथा, --
“दक्षिणेन हरिं रुद्रो गोविन्दमतिनेश्वरः ।
येनेशं हरिरीशस्त्वं तेनेशमभितोऽर्च्चकाः ॥”
इति मुग्धबोधम् ॥
(क्वचित् द्बितीयाप्रयोगाभावोऽपि दृश्यते । यथा,
महाभारते । ३ । ८३ । ४ ।
“दक्षिणेन सरस्वत्या दृषद्वत्युत्तरेण च ।
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिपिष्टपे ॥”)

दक्षिणेर्म्मा, [न्] पुं, (दक्षिणे ईर्म्मं व्रणं यस्य ।

“दक्षिणेर्म्मा लुब्धयोगे ।” ५ । ४ । १२६ । इति
अनिच् ।) व्याधशराघातात् दक्षिणाङ्गव्रण-
युक्तमृगः । तत्पर्य्यायः । दक्षिणारुः २ । इत्य-
मरः । १० । २४ ॥ (यथा, भट्टिः । ४ । ४४ ।
“मृगयुमिव मृगोऽथ दक्षिणेर्म्मा
दिशमिव दाहवतीं मरावुदन्यन् ॥”)

दक्षिण्यः, त्रि, (दक्षिणामर्हतीति । “कडङ्कर-

दक्षिणाच्छ च ।” ५ । १ । ६९ । इति चका-
रात् यत् ।) दक्षिणार्हः । इत्यमरः । ३ । १ । ५ ॥
(यथा, भट्टिः । २ । २९ ।
“दक्षिण्यदिष्टां कृतमार्त्तिजीनै-
स्तद्यातुधानैश्चिचिते प्रसर्पत् ॥”)

दग्धं, क्ली, कत्तृणम् । इति रत्नमाला ॥

दग्धः, त्रि, (दह्यते स्म इति । दह + क्तः ।)

भस्मीकृतः । पोडा इति भाषा । तत्पर्य्यायः ।
प्रुष्टः २ प्लुष्टः ३ उषितः ४ । इत्यमरः । ३ ।
१ । ९९ ॥ (यथा, मनुः । ८ । १८९ ।
“चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा ।
न दद्यात् यदि तस्मात् स न संहरति किञ्चन ॥”)
“पत्राणामामिषं पर्णम् ।
गोर्वर्ज्यमामिषं क्षीरं फले जम्बीरमामिषम् ।
आमिषं रक्तशाकञ्च सर्व्वञ्च दग्धमामिषम् ॥”
इति कर्म्मलोचनम् ॥
(म्लानम् । यथा, अमरुशतके । २४ ।
“रुद्धायामपि वाचि सस्मितमिदं दग्धाननं
जायते ॥”
चन्द्राश्रितराशिभूलकपारिभाषिकगृहम् । यथा,
ज्योतिषतत्त्वे ।
“मृगसिंहौ तृतीयायां प्रथमायां तुलामृगौ ।
पञ्चम्यां बुधराशी द्वौ सप्तम्यां चापयन्त्रभे ॥
नवम्यां सिंहकोटाख्यावेकादश्यां गुरोर्गृहे ।
वृषमीनौ त्रयोदश्यां दग्धसंज्ञास्त्वमी गृहाः ।
दग्धसद्यनि यत् कर्म्म कृतं सर्व्वं विनश्यति ॥”)

दग्धकाकः, पुं, (दग्ध इव कृष्णवर्णः काकः ।)

द्रोणकाकः । इति हेमचन्द्रः । ४ । ३८९ ॥

दग्धरथः, पुं, (दग्धो रथोऽस्य ।) चित्ररथ-

गन्धर्व्वः । इति महाभारतम् ॥ (यथा, महा-
भारते । १ । १७१ । ३९ ।
“अस्त्राग्निना विचित्रोऽयं दग्धो मे रथ उत्तमः ।
सोऽहंचित्ररथो भूत्वा नाम्ना दग्धरथोऽभवम् ॥”)
पृष्ठ २/६७३

दग्धरुहः, पुं, (दग्धोऽपि रोहतीति । रुह +

कः ।) तिलकवृक्षः । इति राजनिर्घण्टः ॥

दग्धरुहा, स्त्री, (दग्धापि रोहतीति । रुह +

कः टाप् ।) दग्धावृक्षः । इति राजनिर्घण्टः ॥

दग्धा, स्त्री, (दह्यते स्म इव या । दह + क्तः ।

ततष्टाप् ।) स्थितार्का दिक् । इति मेदिनी ।
रे, ७ ॥ वृक्षविशेषः । कुरुह इति ख्यातः ॥
तत्पर्य्यायः । दग्धरुहा २ दग्धिका ३ स्थले-
रुहा ४ रोमशा ५ कर्कशदला ६ भस्मरोहा ७
सुदग्धिका ८ । अस्या गुणाः । कटुत्वम् ।
कषायत्वम् । उष्णत्वम् । कफवातनाशित्वम् ।
पित्तप्रकोपनत्वम् । जठरानलदीपनत्वञ्च । इति
राजनिर्घण्टः ॥ * ॥
मासदग्धा यथा, -- सौरचैत्रपौषयोर्द्वितीया एवं
ज्यैष्ठफाल्गुनयोश्चतुर्थी वैशाखश्रावणयोः षष्ठी
आषाढाश्विनयोरष्टमी भाद्राग्रहायणयोर्दशमी
कार्त्तिकमाघयोर्द्वादशी । अस्याः प्रमाणं यथा,
“द्वितीया मीनधनुषोश्चतुर्थी वृषकुम्भयोः ।
मेषकर्कटयोः षष्ठी कन्यामिथुनकेऽष्टमी ॥
दशमी बृश्चिके सिंहे द्वादशी मकरे तुले ।
एभिर्यातो न जीवेत यदि शक्रसमो भवेत् ॥”
अस्याः प्रतिप्रसवो यथा, वैशाखे शुक्ला षष्ठी
ज्यैष्ठे कृष्णा चतुर्थी आषाढे शुक्लाष्टमी श्रावणे
कृष्णा षष्ठी भाद्रे शुक्ला दशमी आश्विने कृष्णा-
ष्टमी कार्त्तिके शुक्ला द्वादशी अग्रहायणे कृष्णा
दशमी पौषे शुक्ला द्वितीया माघे कृष्णा द्वादशी
फाल्गुने शुक्ला चतुर्थी चैत्रे कृष्णा द्वितीया ।
एतत्प्रमाणं यथा, --
“मेषे दिनेशे नृयुगे मृगेन्द्रे
यूके धनुःस्थे कलसे च शुक्ला ।
कुलीरकन्यालिमृगास्यमीन-
वृषेषु कृष्णास्तिथयः प्रदग्धाः ॥” * ॥
दिनदग्धा यथा, -- रविवारे द्बादशी सोमे एका-
दशी मङ्गले दशमी बुधे तृतीया बृहस्पतौ षष्ठी
शुक्रे पञ्चदशी शनौ सप्तमी । एतत्प्रमाणं यथा,
“मासा रुद्रा दिशो रामाः षट्पक्षमुनयस्तथा ।
दह्यन्ते तिथयः सप्त सूर्य्याद्यैः सप्तसप्तभिः ॥”
इति ज्योतिःसारसंग्रहः ॥

दग्धिका, स्त्री, (कुत्सिता दग्धा । “कुत्सिते ।”

५ । ३ । ७४ । इति कन् ।) दग्धान्नम् । पोडा
भात इति भाषा । चाँची इति ख्याता इति
केचिदिति भरतः ॥ तत्पर्य्यायः । भिस्सटा २ ।
इत्यमरः । २ । ९ । ४९ ॥ भिस्सिटा ३ भिष्मिटा ४
भिष्मिष्टा ५ भिष्मिका ६ । इति तट्टीकासार-
सुन्दरी ॥ दग्धावृक्षः । इति राजनिर्घण्टः ॥

दग्धेष्टका, स्त्री, (दग्धा इष्टका ।) झामकम् ।

इति हारावली । २१४ ॥

दघ, इ त्यागे । अवने । इति कविकल्पद्रुमः ॥

(भ्वां-परं सकं-सेट् ।) इ, दङ्घ्यते । अवनं
रक्षणम् । इति दुर्गादासः ॥

दघ, न घातने । इति कविकल्पद्रुमः ॥ (स्वां-

परं-सकं-सेट् ।) न, दघ्नोति । दघ घाते ।
इति जौमराः पठन्ति । तेन तदर्थकल्पनमेवो-
चितम् । ततश्च घातनमिति हन्त्यर्थस्य पाक्षिक-
चुरादित्वेन स्वार्थे ञौ रूपं हननमित्यर्थः । किञ्च
हिंसनपाठेनैवेष्टसिद्धे घातनपाठो हिंसाप्रेर-
णार्थः स्यान्न वेति काकदन्तान्वेषणवद्बिफलं
त्रयाणामेव कातन्त्राद्यसम्मतत्वात् । इति दुर्गा-
दासः ॥

दण्ड, त् क तत्पाते । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-सकं-सेट् ।) तत्पातस्तद्दण्डपातनम् ।
क, दण्डयति दण्डापयति अपराधिनं राजा ।
इति दुर्गादासः ॥

दण्डः, पुं क्ली, (दण्डयति अनेनेति । दण्ड + घञ् ।

यद्बा, दाम्यत्यनेनेति । दम् + “ञमन्तात् डः ।”
उणां १ । ११३ । इति डः ।) लगुडः । इत्य-
मरः । ३ । ३ । ४१ ॥ (यथा, हठयोगप्रदी-
पिकायाम् । ३ । ११ ।
“यथा दण्डहतः सर्पो दण्डाकारः प्रजायते ॥”)
तस्य धारणगुणाः । स्खलतः संप्रतिष्ठानत्वम् ।
शत्रुनिषेधनत्वम् । अवष्टम्भनत्वम् । आयुष्य-
त्वम् । भयघ्नत्वञ्च । इति राजवल्लभः ॥ (यथा,
चिकित्सितस्थाने चतुर्व्विंशेऽध्याये सुश्रुतेनोक्तम् ।
“पुनः सरीसृपव्यालविषाणिभ्यो भयापहम् ।
श्रमस्खलनदोषघ्नं स्थविरे च प्रशस्यते ॥
सत्त्वोत्साहबलस्थैर्य्यधैर्य्यवीर्य्यविवर्द्धनम् ।
अवष्टम्भकरञ्चापि भयघ्नं दण्डधारणम् ॥”)
शरणागतरक्षणादि । यथा, --
“शरणागतसंत्राणं भूतानामप्यहिंसनम् ।
बहिर्वेदि च यद्दानं दण्डमित्यभिधीयते ॥”
इति मोक्षधर्म्मः ॥
(दण्डाकारत्वात् छत्त्रादीनामङ्गविशेषः । यथा,
बृहत्संहितायाम् । ७३ । ४, ६ ।
“युवराजनृपतिपत्न्याः सेनापतिदण्डनायका-
नाञ्च ।
दण्डोऽर्धपञ्चहस्तः समपञ्चकृतार्द्धविस्तारः ॥”
“अन्येषाञ्च नराणां शीतातपवारणन्तु चतुर-
स्रम् ।
समवृत्तदण्डयुक्तं छत्त्रं कार्य्यं तु विप्राणाम् ॥”
चामरादीनामङ्गविशेषश्च । यथा, तत्रैव ।
७२ । ३-४ ।
“अध्यर्धहस्तप्रमितोऽस्य दण्डेः
हस्तोऽथवारत्निसमोऽथवान्यः ।
काष्ठाच्छुभात् काञ्चनरूप्यगुप्तात्
रत्नैर्विचित्रैश्च हिताय राज्ञाम् ॥
षष्ट्यातपत्राङ्कुशवेत्रचाप-
वितानकुन्तध्वजचामराणाम् ।
व्यापीततन्त्रीमधुकृष्णवर्णा
वर्णक्रमेणैव हिताय दण्डाः ॥”
ब्रह्मचारिधार्य्यलगुडाकारपदार्थः । यथा, देवी-
भागवते । १ । १९ । ३१ । शुकं प्रति जनक-
स्योक्तिः ।
“दण्डाजिनकृता चिन्ता यथा तव वनेऽपि च ।
तथैव राज्यचिन्ता मे चिन्तयानस्य वान वा ॥”
वर्णभेदेन तत्प्रमाणादिकमुक्तम् । यथा, मनौ ।
२ । ४५-४७ ।
“ब्राह्मणो वैल्वपालाशौ क्षत्त्रियो वटखादिरौ ।
पैलवौदुम्बरौ वैश्वो दण्डानर्हन्ति धर्म्मतः ॥
केशान्तिको ब्राह्मणस्य दण्डः कार्य्यः प्रमाणतः ।
ललाटसम्मितोराज्ञः स्यात्तु नासान्तिको विशः ॥
ऋजवस्ते तु सर्व्वे स्युरव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः ॥”
बाणनिक्षेपकालीन स्थानविशेषे, क्ली । यथा,
आग्नेयधनुर्व्वेदे ।
“तिर्य्यग्भूतो भवेद्बामो दक्षिणेऽपि भवेदृजुः ।
गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुलान्तरौ ॥
स्थानं दण्डं भवेदेतत् द्वादशाङ्गुलमायतम् ॥”)

दण्डः, पुं, (दण्डयत्यपराधिनमनेनेति । दण्ड +

घञ् । यद्बा, दाम्यति शान्तं करोत्यनेन । दम
+ डः ।) राज्ञां चतुर्थोपायः । (यथा, देवी-
भागवते । १ । १७ । ३ ।
“विना दण्डं कथं राज्यं करोति जनकः किल ।
धर्म्मे न वर्त्तते लोको दण्डश्चेन्न भवेद् यदि ॥”)
स च त्रिविधः । वधः अर्थग्रहणं बन्धन-
ताडनादिश्च । इत्यमरटीकासारसुन्दरी ॥ तत्-
पर्य्यायः । साहसम् २ दमः ३ । इत्यमरः । २ ।
८ । २१ । (दण्ड + भावे घञ् । दमनम् । (यथा,
मनुः । १२ । १० ।
“वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च ॥”
दण्ड इवाचरतीति । दण्ड + क्विप् । ततो भावे
घञ् ।) ऊर्द्ध्वस्थितिः । दाँडान इति भाषा ।
इति सारसुन्दरी ॥ व्यूहभेदः । (अस्य लक्षण-
भेदादिकं यथा, अग्निपुराणे २४१ अध्याये ।
“मण्डलासंहतौ भागौ दण्डास्ते बहुधा शृणु ।
तिर्य्यग्वृत्तिस्तु दण्डः स्यात् भोगोऽन्या वृत्ति-
रेव च ॥
मण्डलः सर्व्वतोवृत्तिः पृथग्वृत्तिरसंहतः ।
प्रदरो दृढकोऽसह्यश्चापो वैकुक्षिरेव च ॥
प्रतिष्ठः सुप्रतिष्ठश्च श्येनो विजयसञ्जयौ ।
विशालो विजयः सूची स्थूणा कर्णचमूमुखौ ॥
सर्पाख्यो वलयश्चैव दण्डभेदाश्च दुर्ज्जयाः ।
अतिक्रान्तः प्रतिक्रान्तः कक्ष्याभ्याञ्चैकपक्षतः ॥
अतिक्रान्तस्तु पक्षाभ्यां त्रयोऽन्ये तद्विपर्य्यये ।
पक्षोरस्यैरतिक्रान्तः प्रतिष्ठोऽन्यो विपर्य्ययः ॥
स्थूणापक्षो धनुःपक्षो द्बिस्थूणो दण्ड ऊर्द्ध्वगः ।
द्विगुणोऽयन्त्वतिक्रान्तपक्षोऽन्यस्य विपर्य्ययः ॥
द्विचतुर्दण्ड इत्येते ज्ञेया लक्षणतः क्रमात् ।
गोमूत्रिका हि सञ्चारी शकटो मकरस्तथा ॥”)
प्रकाण्डः । अश्वः । कोणः । मन्थानः । सैन्यम् ।
कालः । घडी इति भाषा । मानभेदः । काठा
इति भाषा । (“हस्तैश्चतुर्भिर्भवतीह दण्डः ।”
इति लीलावती ॥) चण्डांशोः पारिपार्श्विकः ।
(यथा, महाभारते । ३ । ३ । ६८ ।
“ये च तेऽनुचराः सर्व्वे पादोपान्तं समाश्रिताः ।
माठरारुणदण्डाद्यास्तांस्तान् वन्देऽशनिक्षुभान् ॥”)
यमः । अभिमानः । इति मेदिनी । डे, १६ ॥ ग्रह-
पृष्ठ २/६७४
भेदः । इति हेमचन्द्रः ॥ इक्ष्वाकुराजपुत्त्रः । इति
रामायणम् ॥ (यथा, हरिवंशे । १० । २२ ।
“धृष्टकश्चाम्बरीषश्च दण्डश्चेति सुतास्त्रयः ।
यश्चकार महात्मा वै दण्डकारण्यमुत्तमम् ॥”
क्रोधहन्तुरसुरस्यांशेनावतीर्णः स्वनामख्यात-
नृपविशेषः । यथा, महाभारते । १ । ६७ । ४६ ।
“क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः ।
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । १०५ ।
“धनुर्द्धरो धनुर्व्वेदो दण्डो दमयिता दमः ॥”
महादेवः । यथा तत्रैव । १२ । २८४ । १६ ।
“शत्रुन्दमाय दण्डाय पर्णचीरपटाय च ॥”)
कालभेददण्डस्य प्रमाणं यथा, --
“षट्पलं पात्रनिर्म्माणं गभीरं चतुरङ्गुलम् ।
स्वर्णमाषैः कृतच्छिद्रं कुण्डैश्च चतुरङ्गुलैः ॥
यावज्जलप्लुतं पात्रं तत्कालं दण्डमेव च ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ * ॥
ब्राह्मणं प्रति दण्डोद्यमे दण्डनिपातने च दोषो
यथा, प्रायश्चित्ततत्त्वे ।
विप्रदण्डोद्यमे कृच्छ्रमतिकृच्छ्रं निपातने ॥”
“कौटसाक्ष्ये दण्डा यथा, --
लोभान्मोहाद्भयान्मैत्रात् कामात् क्रोधात्तथैव च ।
अज्ञानाद्बालभावाच्च साक्ष्यं वितथमुच्यते ॥
एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् ।
तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्ब्बशः ॥
लोभात् सहस्रं दण्ड्यस्तु मोहात् पूर्ब्बन्तु साह-
सम् ।
भयाद्द्वौ मध्यमौ दण्डौ मैत्रात् पूर्ब्बं चतुर्गुणम् ॥
कामाद्दशगुणं पूर्ब्बं क्रोधात्तु त्रिगुणं परम् ।
अज्ञानात् द्वे शते पूर्णे चाशिष्याच्छतमेव तु ॥
एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान्मनीषिभिः ।
धर्म्मस्याव्यभिचारार्थमधर्म्मनिधनाय च ॥
कौटसाक्ष्यन्तु कुर्व्वाणान् त्रीन् वर्णान् धार्म्मिको
नृपः ।
प्रवासयेद्दण्डयित्वा ब्राह्मणन्तु विवासयेत् ॥ * ॥
दण्डस्य स्थानानि यथा, --
दशस्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥
उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर्नासा च कर्णौ च धनं देहन्तथैव च ॥
अनुबम्धं परिज्ञाय देशकालौ च तत्त्वतः ।
सारापराधौ चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ * ॥
अधर्म्म्यदण्डेषु दोषो यथा, --
अधर्म्मदण्डनं लोके यशोघ्नं कीर्त्तिनाशनम् ।
अस्वर्ग्यञ्च परत्रापि तस्मात्तत् परिवर्ज्जयेत् ॥
अदण्ड्यान् दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
अयशो महदाप्नोति नरकञ्चैव गच्छति ॥ * ॥
दण्डस्य पौर्व्वापर्य्येनियमो यथा, --
वाग्दण्डं प्रथमं कुर्य्यात् धिग्दण्डं तदनन्तरम् ॥
तृतीयं धनदण्डन्तु वधदण्डमतः परम् ।
वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् ॥
तदैषु सर्व्वमेवैतत् प्रयुञ्जीत चतुष्टयम् ॥
दण्डस्य भेदा यथा, --
पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रन्त्वेव चोत्तमः ॥
ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति ।
अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम् ॥ * ॥
दोषविशिष्टकन्यादाने दण्डो यथा, --
यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति ।
तस्य कुर्य्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥
अकन्येति च यः कन्यां ब्रूयाद्द्वेषेण मानवः ।
स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन् ॥ * ॥
गवादीनां शस्यभक्षणे दण्डो यथा, --
पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः ।
स पालः शतदण्डार्हो विपालान् वारयेत् पशून् ॥
क्षेत्रादिसीमाविवादे दण्डा यथा, --
क्षेत्रकूपतडागानामारामस्य गृहस्य च ।
सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥
सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवदतां नृणाम् ।
सर्व्वे पृथक् पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥
गृहं तडागमारामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः ॥ * ॥
वाक्पारुष्ये दण्डा यथा, --
शतं ब्राह्मणमाक्रुश्य क्षत्त्रियो दण्डमर्हति ।
वैश्योऽध्यर्द्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्त्रियस्याभिशंसने ।
वैश्य स्यादर्द्धपञ्चाशच्छूद्रे द्बादशको दमः ॥
समवर्णे द्बिजातीनां द्बादशैव व्यतिक्रमे ।
वादेष्ववचनीयेषु तदेव द्बिगुणं भवेत् ॥
एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् ।
जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥
नामजातिग्रहन्त्वेषामभिद्रोहेण कुर्व्वतः ।
निःक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥
धर्म्मोपदेशं दर्पेण विप्राणामस्य कुर्व्वतः ।
तप्तमासे चयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥
श्रुतं देशञ्च जातिञ्च कर्म्मशारीरमेव च ।
वितथेन ब्रुवन् दर्पाद्दाप्यः स्याद्द्विशतं दमम् ॥
काणं वाप्यथवा खञ्जमन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्ष्यापणावरम् ॥
मातरं पितरं जायां भ्रातरं तनयं गुरुम् ।
आक्षारयन् शतं दाप्यः पन्थानं चाददद्गुरोः ॥
ब्राह्मणक्षत्त्रियाभ्यान्तु दण्डः कार्य्यो विजानता ।
ब्राह्मणे साहसः पूर्ब्बः क्षत्त्रिये त्वेव मध्यमः ॥
विट्शूद्रयोरेवमेव स्वजातिं प्रतितत्त्वतः ।
छेदवर्ज्जं प्रणयनं दण्डस्येति विनिश्चयः ॥ * ॥
दण्डपारुष्ये दण्डा यथा, --
येन केनचिदङ्गेन हिंस्याच्चेत् श्रेष्ठमन्त्यजः ।
छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥
पाणिमुद्दम्य दण्डं वा पाणिच्छेदनमर्हति ।
पादेन प्रहरन् कोपात् पादच्छेदनमर्हति ॥
सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ।
कठ्यां कृताङ्को निर्व्वास्यः स्फिचं वास्यावकर्त्तयेत् ॥
अवनिष्ठीवतो दर्पात् द्बावोष्ठौ छेदयेन्नृपः ।
अवमूत्रयतो मेढ्रमवशर्द्धयतो गुदम् ॥
केशेषु गृह्णतो हस्तो छेदयेदविचारयन् ।
पादयोर्द्दाढिकायान्तु ग्रीवायां वृषणेषु च ॥
त्वग्भेदकः शतं दण्ड्यो लोहितस्य तु दर्शकः ।
मांसभेत्ता तु षण्णिष्कान् प्रवास्यस्त्वस्थिभेदकः ॥
वनस्पतीनां सर्व्वेषामुपभोगो यथा यथा ।
तथा तथा दमः कार्य्यो हिंसायामिति धारणा ॥
मनुष्याणां पशूनाञ्च दुःखाय प्रहृते सति ।
यथा यथा महद्दःखं दण्डं कुर्य्यात्तथा तथा ॥
अङ्गानां पीडनायाञ्च प्राणशोणितयोस्तथा ।
समुत्थानव्ययं दाप्यः सर्व्वं दण्डमथापि वा ॥
द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा ।
स तस्योत्पादयेत्तुष्टिं राज्ञो दद्याच्च तत्समम् ॥
चर्म्मचार्म्मिकभाण्डेषु काष्ठलोष्टमयेषु च ।
मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥
यानस्यैव तु यातुश्च यानस्वामिन एव च ।
दशातिवर्त्तनान्याहुः शेषे दण्डो विधीयते ॥
छिन्ननास्ये भिन्नयुगे तिर्य्यक् प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥
छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च ।
आक्रन्दे चाप्यपेहीति न दण्डं मनुरब्रवीत् ॥
यत्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य तु ।
तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ॥
प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति ।
युग्यस्थाः प्राजकेनाप्ते सर्व्वे दण्ड्याः शतं शतम् ॥
स चेत्तु पथि संरुद्धः पशुभिर्व्वा रथेन वा ।
प्रमापयेत् प्राणभृतस्तत्र दण्डो विचारितः ॥
मनुष्यमारणे क्षिप्रं चौरवत्किल्विषी भवेत् ।
प्राणभृत्सु महत्स्वर्द्धं गोगजोष्ट्रहयादिषु ॥
क्षुद्रकाणां पशूनाञ्च हिंसायां द्बिशतो दमः ।
पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥
गर्द्दभाजाविकानाञ्च दण्डः स्यात् पञ्चमाषकः ।
माषकस्तु भवेद्दण्डः श्वशूकरनिपातने ॥
भार्य्या पुत्त्रश्च दासश्च शिष्यो भ्राता च सोदरः ।
प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथञ्चन ।
अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्विषम् ॥
चौरस्य दण्डविधिर्यथा, --
यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् ।
स दण्डं प्राप्नुयान्माषं तच्च तस्मिन् समाहरेत् ॥
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ।
शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् ॥
तथाधरिममेयानां शतादभ्यधिके वधः ।
सुवर्णरजतादीनामुत्तमानाञ्च वाससाम् ॥
पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते ।
शेषेऽप्येकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥
पुरुषाणां कुलीनानां नारीणाञ्च विशेषतः ।
मुख्यानां चैव रत्नानां हरणे वधमर्हति ॥
महापशूनां हरणे शास्त्राणामौषधस्य च ।
कालमासाद्य कार्य्यञ्च राजा दण्डं प्रकल्पयेत् ॥
गोसु ब्राह्मणसंस्थासु छूरिकायाश्च भेदने ।
पशूनां हरणे चैव सद्यः कार्य्योऽर्द्धपादिकः ॥
सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।
पृष्ठ २/६७५
दघ्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥
वेणुवैदलभाण्डानां लवणानान्तथैव च ।
मृण्मयानाञ्च हरणे मृदो भस्मन एव च ॥
मत्स्यानां पक्षिणाञ्चैव तैलस्य च घृतस्य च ।
मांसस्य मधुनश्चैव यच्चान्यत् पशुसम्भवम् ॥
अन्येषाञ्चैवमादीनां मद्यानामोदनस्य च ।
पक्वान्नानाञ्च सर्व्वेषां तन्मूल्याद्द्विगुणो दमः ॥
पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च ।
अन्येष्वपरिपूतेषु दण्डः स्यात् पञ्च कृष्णलः ।
परिपूतेषु धान्येषु शाकमूलफलेषु च ॥
निरन्वये शतं दण्डः सान्वयेऽर्द्धशतं दमः ।
स्यात् साहसं त्वन्वयवत् प्रसभं कर्म्म यत् कृतम् ॥
निरन्वयं भवेत् स्तेयं हृत्वापव्ययते च यत् ।
यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः ॥
तमाद्यं दण्डयेद्राजा यश्चाग्निं चोरयेद्गृहात् ।
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥” * ॥
परदारहरणे दण्डा यथा, --
परदाराभिमर्षेषु प्रवृत्तान् नन्महीपतिः ।
उद्वेजनकरैर्द्दण्डैश्चिह्नयित्वा प्रवासयेत् ॥
परस्य पत्न्या पुरुषः संभाषां योजयन् रहः ।
पूर्ब्बमाक्षारितो दोषैः प्राप्नुयात् पूर्ब्बसाहसम् ॥
परस्त्रियं योऽभिवदेत् तीर्थेऽरण्ये वनेऽपि वा ।
नदीनामपि संभेदे स संग्रहणमाप्नुयात् ॥
उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् ।
सहखट्वासनञ्चैव सर्व्वं संग्रहणं तथा ॥
स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया ।
परस्परस्यानुमते सर्व्वं संग्रहणं स्मृतम् ।
अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति ॥
न सम्भाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् ।
निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति ॥
नैष चारणदारेषु विधिर्नात्मोपजीविषु ।
सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च ॥
किञ्चिदेव तु दाप्यः स्यात् संभाषां ताभिराचरन् ।
योऽकामां दूषयेत् कन्यां स सद्यो वधमर्हति ॥
सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ।
कन्यां भजन्तीमुत्कृष्टं न किञ्चिदपि दापयेत् ॥
जघन्यं सेवमानान्तु संयतां वासयेद्गृहे ।
उत्तमां सेवमानस्तु जघन्यो वधमर्हति ॥
शुल्कं दद्यात् सेवमानः समामिच्छेत् पिता यदि ।
अभिषह्य तु यः कन्यां कुर्य्याद्दर्पेण मानवः ॥
तस्याशु कर्त्त्ये अङ्गुल्यौ दण्डञ्चार्हति षट्शतम् ।
सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदमाप्नुयात् ।
द्बिशतन्तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥
कन्यैव कन्यां या कुर्य्यात् तस्याः स्याद्द्विशतो दमः ।
शुल्कञ्च द्बिगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश ॥
या तु कन्यां प्रकुर्य्यात् स्त्री सा सद्यो मौण्ड्य-
मर्हति ।
अङ्गुल्योरेव च च्छेदं खरेणोद्वहनं तथा ॥
भर्त्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता ।
तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥
पुमांसं दाहयेत् पापं शयने तप्त आयसे ।
अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः ।
व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥
शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् ।
अगुप्तमङ्ग सर्व्वस्वैर्गुप्तं सर्व्वेण हीयते ॥
वैश्यः सर्व्वस्वदण्ड्यः स्यात् संवत्सरनिरोधतः ।
सहस्रं क्षत्त्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ।
ब्राह्मर्णी यद्यगुप्तान्तु गच्छेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्य्यात् क्षत्त्रियन्तु सहस्रिणम् ॥
उभावपि तु तावेव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥
सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन् ।
शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥
मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते ।
इतरेषान्तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥
वैश्यश्चेत् क्षत्त्रियां गुप्तां वैश्यां वा क्षत्त्रियो
व्रजेत् ।
यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
शूद्रायां क्षत्त्रियविशोः साहस्रो वै भवेद्दमः ।
क्षत्त्रियायामगुप्तायां वैश्ये पञ्चशतं दमः ॥
मूत्रेण मौण्ड्यमृच्छेत्तु क्षत्त्रियो दण्डमेव वा ॥
अगुप्ते क्षत्त्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् ।
शतानि पञ्च दण्ड्यः स्यात् सहस्रन्त्वन्त्यज-
स्त्रियम् ॥ * ॥
ऋत्विजं यस्त्यजेद्याज्यो याज्यञ्चर्त्विक् त्यजेद्-
यदि ।
शक्तं कर्म्मण्यदुष्टञ्च तयोर्दण्डः शतं शतम् ॥
न माता न पिता न स्त्री न पुत्त्रस्त्यागमर्हति ।
त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥”
इति मनुः ॥ * ॥
दण्डस्य फलं यथा, युक्तिकल्पतरुः ।
“दण्डः संरक्षते धर्म्मं तथैवार्थं विधानतः ।
कामं संरक्षते यस्मात् त्रिवर्गो दण्ड उच्यते ॥
राजदण्डभयाल्लोकाः पापाः पापं न कुर्व्वते ।
यमदण्डभयादेके परलोकभयात्तथा ॥
दण्डश्चेन्न भवेल्लोके विभजन् साध्वसाधु वा ।
शूले मत्स्यानि वा यक्षन् दुर्ब्बलान् बलव-
त्तराः ॥
अपराद्धेषु भूपालो दण्डं कुर्य्याद्यथाविधि ।
अन्यथाकरणात्तस्मात् राजा भवति किल्विषी ॥
विरुद्धमपि जल्पन्तो दूता दण्ड्या न भूभृता ।
दूतहन्ता तु नरकमाविशेत् सचिवैः सह ॥
विपक्षवचनादन्यो भृत्यो दण्डं न चार्हति ।
विपक्षवचनाद्दण्डः स्वामिनं नरकं नयेत् ॥”

दण्डकः, पुं क्ली, (दण्ड इव कायतीति । कै +

कः ।) श्लोकविशेषः । छन्दोभेदः । इत्यमर-
टीकासारसुन्दरी ॥ अस्य विवरणं छन्दः-
शब्दे द्रष्टव्यम् ॥ (ह्रस्वो दण्डः । “ह्रस्वे ।” ५ ।
३ । ८६ । इति कन् । क्षुद्रलगुडः । सोँटा
इति भाषा ॥ पुं, इक्षाकुपुत्त्रः । यथा, भाग-
वते । ९ । ६ । ४ ।
“क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः ।
तस्य पुत्त्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः ॥”
एतन्नृपसन्निवेशस्थानं दण्डकारण्यमितिख्यातम् ।
यथा, रामायणे । १ । १ । ४० ।
“रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥”)

दण्डकन्दकः, पुं, (दण्डवत् कन्दो मूलं यस्य । कप् ।)

धरणीकन्दः । इति राजनिर्घण्टः ॥

दण्डका, स्त्री, (दण्डक + स्त्रीलिङ्गत्वादत्र टाप् ।)

जनस्थानम् । दण्डकारण्यम् । इति जटाधरः ॥
(यथा, रामायणे । २ । ३० । ३९ ।
“मम सन्ना मतिः सीते ! नेतुं त्वां दण्डकावनम् ।
वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥”)

दण्डकाकः, पुं, (दण्डो यमदण्ड इव काकः ।

अशुभसूचकत्वादस्य तथात्वम् ।) द्रोणकाकः ।
इति हेमचन्द्रः ॥

दण्डढक्का, स्त्री, (दण्डताड्यमाना ढक्का ।) वाद्य-

विशेषः । दामामा इति नागरा इति च
भाषा । तत्पर्य्यायः । नाली २ घटी ३ याम-
नाली ४ यमेरुका ५ यामघोषः ६ । इति
त्रिकाण्डशेषः ॥ दम्ममः ७ दुन्दुभिः ८ दुन्दुः ९
गभीरिका १० । इति शब्दरत्नावली ॥

दण्डताम्री, स्त्री, (दण्डेन ताड्यमाना ताम्री ताम्र-

निर्म्मितवाद्यम् ।) ताम्रीवाद्यम् । इति शब्द-
रत्नावली ॥

दण्डधरः, पुं, (दण्डस्य धरः । दण्डं धारयति ।

धृञ् धारणे + पचाद्यचि णिलुक् । इत्युज्ज्वल-
दत्तः । २ । २२ ।) यमः । इत्यमरः । १ । १ । ६२ ॥
(यथा, राजतरङ्गिण्याम् । ४ । ६५९ ।
“ब्रह्मदण्डकृतं दण्डं भुक्त्वा दण्डधराधिपः ।
अकाण्डदण्डस्रष्टाथ ययौ दण्डधरान्तिकम् ॥”)
राजा । इति जटाधरः ॥ (यथा, रघुः । ९ । ३ ।
“बलनिषूदनमर्थपतिञ्च तं
श्रमनुदं मनुदण्डधरान्वयम् ॥”)
त्रि, लगुडधारकः ॥ (शासकः । यथा, महा-
भारते । १२ । २३ । ४३ ।
“एवमेतन्मया कार्य्यं नाहं दण्डधरस्तव ॥”
चतुर्थोपाययुक्तः । यथा, भागवते । ४ । २१ । २२ ।
“अहं दण्डधरो राजा प्रजानामिव योजितः ॥”)

दण्डधारः, पुं, (दण्डं धरतीति । धृ + “कर्म्मण्यण् ।”

३ । २ । १ । इत्यण् ।) पृथ्वीनाथः । (यथा,
गोः रामायणे । २ । ८८ । ७ ।
“उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केरलाः ।
दण्डधाराश्च सामुद्रा रत्नान्युपहरन्तु ते ॥”)
प्रेताधिपः । इति मेदिनी । रे, २६६ ॥ (सनाम-
ख्यातनृपविशेषः । स तु क्रोधवर्द्धनस्यासुर-
स्यांशेन जातः । यथा, महाभारते । १ । ६७ । ४७ ।
“क्रोधवर्द्धन इत्येव यस्त्वन्यः परिकीर्त्तितः ।
दण्डधार इति ख्यातः सोऽभवन्मनुजेश्वरः ॥”
धृतराष्ट्रपुत्त्राणामेकतमः । यथा, तत्रैव धृत-
राष्ट्रपुत्त्रनामकथने । १ । ६७ । १०२ ।
“निषङ्गी कवची पाशी दण्डधारो धनुर्ग्रहः ॥”)
पृष्ठ २/६७६
त्रि, दण्डधरः ॥ (शासकः । यथा, राज-
तरङ्गिण्याम् । ४ । १०९ ।
“दण्डधारे त्वयि क्षाप ! क्षितिमेतां प्रशासति ।
को वैरस्नेहयोः पारमनासाद्यावसीदति ॥”)

दण्डनायकः, पुं, (दण्डं राज्ञां चतुर्थोपायं नय-

तीति । नी + ण्वुल् ।) सेनानीः । स चतुरङ्ग-
बलाध्यक्षः । इति हेमचन्द्रः । ३ । ३८९ ॥
(यथा, राजतरङ्गिण्याम् । ७ । ९६९ ।
“कन्दर्पे कोटभृत्यानां भिन्नानां सङ्ग्रहोद्यते ।
कुध्यन् राजपुरीं राजा व्यसृजद्दण्डनायकम् ॥”)

दण्डनीतिः, स्त्री, (दण्डेन नीयते या । यद्बा, दण्डो

नीयतेऽनयेति । नी + कर्म्मणि करणे वा क्तिन् ।)
व्यर्यशास्त्रम् । इत्यमरः । १ । ६ । ५ ॥ तत्
चाणक्यादिप्रणीतं नीतिशास्त्रम् । इति भरतः ।
तस्य निरुक्तिर्यथा, --
“दण्डेन नीयते चेदं दण्डं नयति वा पुनः ।
दण्डनीतिरिति ख्याता त्रील्लोँ कानतिवर्त्तते ॥
तच्च ब्रह्मकृतशतसहस्राध्यायपरिमितम् ।
तद्यथा, --
“ततोऽध्यायसहस्राणां शतञ्चक्रे सुबुद्धिजम् ।
यत्र धर्म्मस्तथैवार्थः कामश्चैवाभिवर्णितः ॥
त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा ।
चतुर्थो भोक्ष इत्येव पृथगर्थः पृथग्गुणः ॥
मोक्षस्यापि त्रिवर्गोऽन्यः प्रोक्तः सत्वं रजस्तमः ।
स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः ॥
नात्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च ।
सहायाः कारणञ्चैव षड्वर्गो नीतिजः स्मृतः ॥
त्रयी चान्वीक्षिकी चैव वार्त्ता च भरतर्षभ ! ।
दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥
अमात्यरक्षा प्रणिधी राजपुत्त्रस्य लक्षणम् ।
चारश्च विविधोपायः प्रणिधेयः पृथग्विधः ॥
सामभेदप्रदानञ्च ततो दण्डश्च पार्थिव ।
उपेक्षा पञ्चमी चात्र कार्त्स्न्येन समुदाहृता ॥
मलश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च ।
विभ्रमश्चैव मन्त्रस्य सिद्ध्यसिद्ध्योश्च यत् फलम् ॥
सन्धिश्च विविधाभिख्यो हीनो मध्यस्तथोत्तमः ।
भयं सत्कारवित्ताख्यं कार्त्स्न्येन परिवर्णितम् ॥
यात्राकालश्च चत्वारस्त्रिवर्गस्य च विस्तरः ।
विजयो धर्म्मयुक्तश्च तथार्थविजयश्च ह ॥
आसुरश्चैव विजयस्तथा कार्त्स्न्येन वर्णितः ।
लक्षणं पञ्चवर्गस्य त्रिविधञ्चात्र वर्णितम् ॥
प्रकागश्चाप्रकाशश्च दण्डीऽथ परिशब्दितः ।
प्रकाशोऽष्टविधस्तत्र गुह्यश्च बहुविस्तरः ॥
रया नागा हयाश्चैव पादाताश्चैव पाण्डव ! ।
विष्टिनांवश्चराश्चेह देशिका इति चाष्टमम् ॥
अङ्गान्येतानि कौरव्य ! प्रकाशानि बलस्य च ।
जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः ॥
अर्गे चाभ्यवहार्य्ये वाप्युपांशुस्त्रिविधः स्मृतः ।
अस्तिर्म्मित्रमुदामीन इत्येतेऽप्यनुत्वर्णिताः ॥
कृतम्नो मार्गगुणश्चैय तथा भूमिगुणाश्च ह ।
आत्मरक्षणमाश्वासः सर्गाणां चान्ववेक्षणम् ॥
कल्पना विविधाश्चापि नृनागरथवाजिनाम् ।
व्यूहाश्च विविधाभिख्या विविधं युद्धकौशलम् ॥
उत्पाताश्च निपाताश्च सुयुद्धं सुपलायनम् ।
शस्त्राणां पालनं ज्ञानं तथैव भरतर्षभ ! ॥
बलव्यसननिर्युक्तं तथैव बलहर्षणम् ।
पीडा चापदकालश्च पत्तिज्ञानञ्च पाण्डव ! ॥
तथा खातविधानञ्च योगसञ्चार एव च ।
चौरैराटविकैश्चोग्रैः परराष्ट्रस्य पीडनम् ॥
अग्निदैरसदैश्चैव प्रतिरूपककारकैः ।
श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ॥
दूषणेन च नागानां आशङ्काजननेन च ।
आराधनेन भक्तस्य प्रत्ययोपार्जनेन च ॥
सप्ताङ्गस्य च राज्यस्य ह्रासवृद्धी समञ्जसम् ।
दूतसामर्थयोगाश्च राष्ट्रस्य च विवर्द्धनम् ।
अरिमध्यस्थमित्राणां सम्यक् चोक्तं प्रपञ्चनम् ॥
अवमर्द्दः प्रतीघातस्तथा चैव बलीयसाम् ।
व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम् ॥
श्रमो व्यायामयोगश्च त्यागो द्रव्यस्य संग्रहः ॥
अभृतानाञ्च भरणं भृतानाञ्चान्नवेक्षणम् ।
अर्थस्य काले दानञ्च व्यसने चाप्रसङ्गिता ॥
तथा राजगुणाश्चैव सेनापतिगुणाश्च ह ।
कारणञ्च त्रिवर्गस्य गुणदोषास्तथैव च ॥
दुष्टेप्सितञ्च विविधं वृत्तिश्चैवानुजीविनाम् ।
शङ्कितत्वञ्च सर्व्वस्य प्रमादस्य च वर्ज्जनम् ॥
अलब्धलाभो लब्धस्य तथैव च विवर्द्धनम् ।
प्रदानञ्च विवृद्धस्य पात्रेभ्यो विधिवत्तदा ॥
विसर्गोऽर्थस्य धर्म्मार्थं कामहेतुकमुच्यते ।
चतुर्थं व्यसनाघाते तच्चैवात्रानुवर्णितम् ॥
क्रोधजानि तथोग्राणि कामजानि तथैव च ।
दशोक्तानि कुरुश्रेष्ठ ! व्यसनान्यत्र चैव ह ॥
मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ ! ।
कामजान्याहुराचार्य्याः प्रोक्तानीह स्वयम्भुवा ॥
वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च ।
निग्रहोऽथात्मनस्त्यागमर्थदूषणमेव च ॥
यन्त्राणि विविधान्येव क्रियास्तेषाञ्च वर्णिताः ।
अवमर्द्दः प्रतीघातः केतनानाञ्च भञ्जनम् ।
चैत्यद्रुमावमर्द्दश्च रोधः कर्म्मान्तनाशनम् ॥
उपस्कारोऽथ वसनं तथोपायाश्च वर्णिताः ।
पनवानकशङ्खानां भेरीणाञ्च युधिष्ठिर ! ॥
उपार्ज्जनञ्च द्रव्याणां परिमर्द्दश्च तानि षट् ।
लब्धस्य च प्रशमनं सताञ्चैवाभिपूजनम् ॥
विद्वद्भिरेकीभावश्च दानहोमविधिज्ञता ।
मङ्गलालभनञ्चैव शरीरस्य प्रतिक्रिया ॥
आहारयोजनञ्चैव नित्यमास्तिक्यमेव च ।
एकेन च पथोत्थेयं सत्यत्वं मधुरा गिरः ॥
उत्सवानां समाजानां क्रियाः केतनजास्तथा ।
प्रत्यक्षाश्च परोक्षाश्च सर्व्वाधिकरणेष्वथ ॥
वृत्तिर्भरतशार्दूल ! नित्यञ्चैवान्ववेक्षणम् ।
अदण्ड्यत्वं च विप्राणां युक्त्या दण्डनिपातनम् ॥
अनुजीविस्वजातिभ्यो गुणेभ्यश्च समुद्भवः ।
रक्षणञ्चैव पौराणां राष्ट्रस्य त्त विवर्द्धनम् ॥
मण्डलस्था च या चिन्ता राजन् ! द्वादश-
राजिका ॥
द्वासप्ततिविधा चैव शरीरस्य प्रतिक्रिया ।
देशजातिकुलानाञ्च धर्म्माः समनुवर्णिताः ॥
धर्म्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णितः ।
उपायश्चात्र लिप्सा च विविधा भूरिदक्षिण ! ॥
मूलकर्म्मक्रिया चात्र मायायोगश्च वर्णितः ।
दूषणं स्रोतसाञ्चैव वर्णितञ्च स्थिराम्भसाम् ॥
यैर्यैरुपायैर्लोकस्तु न चलेदार्य्यवर्त्मनः ।
तत् सर्व्वं राजशार्दूल ! नीतिशास्त्रेषु वर्णितम् ॥
एतत् कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः ।
देवानुवाच संहृष्टः सर्व्वान् शक्रपुरोगमान् ॥
उपकाराय लोकस्य त्रिवर्गस्थापनाय च ।
नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता ॥
दण्डेन सहिता ह्येषा लोकरक्षणकारिका ।
निग्रहानुग्रहरता लोकाननुचरिष्यति ॥”
इति महाभारते राजधर्म्मः ॥
दुर्गा । यथा, --
“नयानयगतालोके विकल्प निलयामला ।
दण्डनाद्गमनाद्वापि दण्डनीतिरिति स्मृता ॥”
इति देवीपुराणे ४५ अध्यायः ॥

दण्डपांशुलः, पुं, (दण्डेन दण्डधारणेन पांशुलो

नीचः ।) द्बारपालः । इति शब्दरत्नावली ॥

दण्डपाणिः, पुं, (दण्डः पाणौ यस्य ।) यमः ।

(यथा, भागवते । १ । १७ । ३५ ।
“परीक्षितैवमादिष्टः स कलिर्जातवेपथुः ।
तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥”)
काशीस्थशिवगणविशेषः । स पूर्णभद्रयक्षपुत्त्रः
हरिकेशनामा शिवमाराध्य शिववरेण काश्यां
दण्डनायकत्वमवाप्तवान् । यथा, --
“भक्तस्य धीरस्य तपोनिधेर्द्ददौ
हरो वराणां निकरं तदा मुदा ।
क्षेत्रस्य यक्षास्य मम प्रियस्य भो
भवाधुना दण्डधरो वरान्मम ॥
स्थिरस्त्वमद्यादि दुरात्मदण्डकः
सुपालकः पुण्यकृताञ्च मतुप्रियः ।
त्वं दण्डपाणिर्भव नामतोऽधुना
सर्व्वान् गणान् शाधि ममाज्ञयोत्कटान् ॥”
“त्वत्सात्कृतक्षेत्रवरेऽद्य यक्षराट्
कस्त्वामनाराध्य सुमुक्तिभाग्जनः ।
सभाजनं प्रागत एव ते चरेत्
ततः समर्च्चां मम भक्त आदरात् ॥
मद्भक्तियुक्तोऽपि विना त्वदीयां
भक्तिं न काशीवसतिं लभेत ।
गणेषु देवेषु हि मानवेषु
तदग्रमान्यो भव दण्डपाणे ! ॥”
इति काशीखण्डे ३२ अध्यायः ।
(स्वनामख्यातश्चन्द्रवंशीयनृपविशेषः । यथा,
मात्स्ये । ५० । ८७ ।
“वहीनरात्मजश्चैव दण्डपाणिर्भविष्यति ॥”
अयन्तु मासत्रयाधिकचत्वारिंशद्वर्षपर्य्यन्तं राज्यं
चकार । यथा, राजावल्याम् १ परिच्छेदे ।
“चत्वारिंशत् समाश्चैव सोऽपि मासत्रयाधिकाः ।
बुभुजे पृथिवीमेतां दण्डपाणिर्महाबलः ॥”
पृष्ठ २/६७७
दण्डधरे, त्रि । यथा, महाभारते । १ । १३९ । २८ ।
“भीमसेनो महाबाहुर्द्दण्डपाणिरिवान्तकः ।
प्रविवेश महासेनां मकरः सागरं यथा ॥”)

दण्डपारुष्यं, क्ली, (दण्डेन यत् पारुष्यं परुषता ।

दण्ड्यतेऽनेनेति दण्डो देहस्तेन यत् पारुष्यं
विरुद्धाचरणमिति मिताक्षरा ।) राज्ञां सप्त-
व्यसनान्तर्गतव्यसनविशेषः । इति हेमचन्द्रः ।
३ । ४०३ ॥ अष्टादशविवादान्तर्गतविवाद-
विशेषः । तत्तु ताडनादि । इति मनुटीकायां
कुल्लूकभट्टः ॥ (यथा, मनुः । ८ । २७८ ।
“अत ऊद्ध्व प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥”)

दण्डपालः, पुं, (दण्डं शरीरं पालयतीति । पालि

+ अण् ।) अर्द्धशफरमत्स्यः । दाँडिका इति
भाषा । इति हारावली । १९० ॥ (दण्डेन
पालयतीति । पालि + अच् ।) द्वारपालः ॥

दण्डपालकः, पुं, (दण्डपालवत् कायतीति । कै +

कः ।) शकुलमत्स्यः । इति हारावली ।
१९१ ॥

दण्डबालधिः, पुं, (दण्ड इव बालधिर्यस्य ।) हस्ती ।

इति शब्दरत्नावली ॥

दण्डभृत्, पुं, (दण्डं चक्रभ्रामणार्थं लगुडादिकं

बिभर्त्तीति । भृ + क्विप् तुगागमश्च ।) कुम्भ-
कारः । इति त्रिकाण्डशेषः ॥ (दण्डं दमनं
बिभर्त्तीति ।) दण्डधारके, त्रि ॥

दण्डयात्रा, स्त्री, (दण्डाय शत्रुदमनाय या यात्रा

प्रयाणम् ।) दिग्विजयः । संयानम् । वर-
यात्रा । इति मेदिनी । रे, २६५ ॥

दण्डयामः, पुं, (दण्डं यच्छतीति । यम + अण् ।)

यमः । दिनम् । अगस्त्यः । इति मेदिनी । मे,
६० ॥

दण्डरी, स्त्री, डङ्गरीफलम् । इति राजनिर्घण्टः ॥

दण्डवादी, [न्] पुं, (दण्डेन वदतीति । वद +

णिनिः ।) दर्व्वटः । द्बारपालः । इति हारा-
वली । १२८ ॥ दण्डवक्तरि, त्रि ॥

दण्डवासी, [न्] पुं, (दण्डेन वसतीति । वस +

णिनिः ।) द्वारपालः । इति त्रिकाण्डशेषः ॥
एकग्रामाधिकृतजनः । इति जटाधरः ॥

दण्डविष्कम्भः, पुं, (दण्डं मन्थानदण्डं विष्कभ्नाति

निबध्नाति यत्र । वि + स्कम्भ + अधिकरणे
घञ् । वेः स्कभ्नातेर्नित्यमिति षत्वम् ।) यत्र
स्तम्भादौ आकर्षणार्थं रज्वा दण्डो निबध्यते
सः । घोलमओया खुँटी इति भाषा । तत्-
पर्य्यायः । कुठरः २ । इत्यमरः । २ । ९ । ७४ ॥

दण्डवृक्षकः, पुं, (पत्रविहीनत्वात् दण्ड इव वृक्षः ।

ततः स्वार्थे कन् ।) स्नुही । इति राज-
निर्घण्टः ॥

दण्डहस्तं, क्ली, (दण्ड इव हस्तो वृन्तरूपो

यस्य ।) तगरपुष्पम् । इति राजनिर्घण्टः ॥

दण्डाजिनं, क्ली, शाठ्यम् । इति शब्दार्थकल्प-

तरुः ॥ (कपटिनां बहिर्दृश्यादिकं यतीनां
दण्डाजिनवत् आय्यलिङ्गत्वेन प्रतीयमानत्वात्
तदर्थोऽत्रोपचर्य्यते । दण्डञ्च अजिनञ्च द्बयोः
समाहारः । यतीनां दण्डं मृगचर्म्म च । यथा,
देवीभागवते । १ । १९ । ३१ ।
“दण्डाजिनकृता चिन्ता यथा तव वनेऽपि च ।
तथैव राज्यचिन्ता मे चिन्तयानस्य वा न वा ॥”)

दण्डादण्डि, व्य, (दण्डैश्च दण्डैश्च प्रहृत्य प्रवृत्तं युद्धम् ।

“इच् कर्म्मव्यतिहारे ।” ५ । ४ । १२७ ।
इति इच् ।) परस्परदण्डकरणकप्रहाररूप-
युद्धम् । इति व्याकरणम् ॥ लाठालाठि इति
भाषा ॥

दण्डारः, पुं, (दण्डं ऋच्छतीति । ऋ + अण् ।)

वार्हनम् । मत्तहस्ती । शरयन्त्रकम् । कुम्भ-
कारस्य चक्रम् । इति मेदिनी । रे, १६८ ॥

दण्डाहतं, क्ली, (दण्डेन आहतम् ।) घोलम् ।

इत्यमरः । २ । ९ । ५३ ॥ (दण्डेन ताडिते, त्रि ॥)

दण्डिकः, पुं, (दण्डोऽस्त्यस्येति । दण्ड + “अत इनि-

ठनौ ।” ५ । २ । ११५ । इति ठन् ।) दण्ड-
धारकः । छडिवरदार इति आसावरदार इति
च भाषा । मत्स्यविशेषः । डानिकणा माछ
इति भाषा । अस्य गुणाः । कफवायुपित्त-
नाशित्वम् । तिक्तत्वम् । लघुत्वञ्च । इति राज-
वल्लभः ॥ (दण्डदातरि नियामके, त्रि । यथा,
महाभारते । ६ । ११ । ३६ ।
“न तत्र राजा राजेन्द्र ! न दण्डो न च दण्डिकः ।
स्वधर्म्मेणैव धर्म्मज्ञ ! ते रक्षन्ति परस्परम् ॥”)

दण्डिका, स्त्री, (दण्डवदाकृतिरस्त्यस्याः । दण्ड +

ठन् + टाप् ।) हारविशेषः । इति जटाधरः ॥
रज्जुः । यथा, अङ्गुल्योत्कर्षं दण्डिकां छिनत्ति ।
इति सुपद्मव्याकरणम् ॥ दण्डिका रज्जुरिति
तट्टीकाकारः ॥

दण्डितः, त्रि, (दण्डः सञ्जातोऽस्येति । दण्ड +

“तदस्य सञ्जातं तारकादिभ्य इतच् ।” ५ । २ । ३६ ।
इति इतच् ।) कृतदण्डः । तत्पर्य्यायः ।
दापितः २ साधितः ३ । इति हेमचन्द्रः ॥

दण्डी, [न्] पुं, (दण्डोऽस्त्यस्येति । दण्ड + “अत-

इनिठनौ ।” ५ । २ । ११५ । इति इनिः ।)
जिनविशेषः । इति त्रिकाण्डशेषः ॥ (स तु कवी-
नामन्यतमः काव्यादर्शदशकुमारचरितादिग्रन्थ-
प्रणेता । शङ्कराचार्य्यसमकालीनोऽयम् । यथा,
शङ्करविजये । १५ । १४० ।
“स कथाभिरवन्तिषु प्रसिद्धान्
विबुधान् बाणमयूरदण्डिमुख्यान् ।
शिथिलीकृतदुर्म्मताभिमानान्
निजभाष्यश्रवणोत्सुकांश्चकार ॥”)
यथा, कालिदासः ।
“जाते जगति वाल्मीके कविरित्यभिधीयते ।
कवी इति ततो व्यासे कवयस्त्वयि दण्डिनि ॥”
दमनकवृक्षः । इति राजनिर्घण्टः ॥ यमः ।
(यथा, महाभारते । १ । १९० । १७ ।
“तं वृक्षमादाय रिपुप्रमाथी
दण्डीव दण्डं पितृराज उग्रम् ॥”)
द्बाःस्थः । चतुर्थाश्रमी । (अस्य व्यवहारादिकं
यदुक्तं मनौ । ६ । ४१-५८ ।
“आगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः ।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥
एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् ।
सिद्धिमेकस्य संपश्यन्न जहाति न हीयते ॥
अनग्निरनिकेतः स्याद् ग्राममन्नार्थमाश्रयेत् ।
उपेक्षकोऽसङ्कसुको मुनिर्भावसमाहितः ॥
कपालं वृक्षमूलानि कुचेलमसहायता ।
समता चैव सर्व्वस्मिन्नेतन्मुक्तस्य लक्षणम् ॥
नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालमेव प्रतीक्षेत निर्द्देशं भृतको यथा ॥
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेज्जलम् ।
सत्यपूतां वदेद्बाचं मनःपूतं समाचरेत् ॥
अतिवादांस्तितिक्षेत नावमन्येत कञ्चन ।
न चेमं देहमाश्रित्य वैरं कुर्व्वीत केनचित् ॥
क्रुध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णाञ्च न वाचमनृतां वदेत् ॥
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ।
आत्मनैव सहायेन सुखार्थी विचरेदिह ॥
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥
न तापसैर्ब्राह्मणैर्व्वा वयोभिरपि वा श्वभिः ।
आकीर्णं भिक्षुकैर्व्वान्यैरागारमुपसंव्रजेत् ॥
कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ।
विचरेन्नियतो नित्यं सर्व्वभूतान्यपीडयन् ॥
अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च ।
तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥
अलावुं दारुपात्रञ्च मृण्मयं वैदलन्तथा ।
एतानि यतिपात्राणि मनुः स्वायम्भुवोऽब्रवीत् ॥
एककालञ्चरेद्भैक्षं न प्रसज्जेत विस्तरे ।
भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥
विधूमे सन्नमुषले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥
अलाभे न विषादी स्याल्लाभे चैव न हर्षयेत् ।
प्राणयात्रिकमात्रः स्यात् मात्रासङ्गाद्बिनिर्गतः ॥
अभिपूजितलाभांस्तु जुगुप्सेतैव सर्व्वशः ।
अभिपूजितलाभैश्च यतिर्म्मुक्तोऽपि बध्यते ॥”
दण्डग्रहणादेव दण्डी । भार्य्यादिषु विद्यमानेषु
दण्डग्रहणेन प्रत्यवायो जायते । यदुक्तं महा-
निर्व्वाणतन्त्रे १३ पटले ।
“स्थितायां यौवनयुतकान्तायां परमेश्वरि ! ।
सर्व्वं हि विफलं तस्य यः कुर्य्याद्दण्डधारणम् ॥
विद्यते पितरौ देवि ! यः कुर्य्याद्दण्डधारणम् ।
सन्न्यासं विफलं तस्य रौरवाख्यं गमिष्यति ॥
विद्यते बालभावेन यस्य कान्ता सुतस्तथा ।
सन्न्यासधारणं तस्य वृथा हि परमेश्वरि ! ॥
सगुरुश्चापि शिष्यश्च रौरवाख्यं प्रपद्यते ॥”
अधुनातनदण्डिनस्तु प्रायशः शङ्कराचार्य्यसम्प्र-
दायान्तर्गता अतस्तेषां निर्गुणब्रह्मोपासनैव
परमो धर्म्मः । एते तु मुण्डिनः प्रायशः परि-
हितरञ्जितवस्त्रा रुद्राक्षमालाधारिणश्च ।
दण्डिनस्तु द्बादशवर्षपर्य्यन्तं भिक्षापर्य्यटनादिकं
विधाय दण्डान् परित्यज्य परमहंसाश्रममाश्र-
पृष्ठ २/६७८
येयुः इति साम्प्रदायिकाः ॥ एतेषां काशी
एव प्रधानतमं वासस्थानम् ॥ * ॥ महादेवः ।
यथा, महाभारते । १३ । १७ । १२९ ।
“मुण्डोविरूपो विकृतो दण्डी कुण्डी विकुर्व्वणः ॥”
योगाचार्य्यविशेषः । यथा, शिवपुराणे वायु-
संहितायाम् । उत्तरभागे । १० । ५ ।
श्रीकृष्ण उवाच ।
“युगावर्त्तेषु सर्व्वेषु योगाचार्य्यच्छलेन तु ।
अवताराणि शर्व्वस्य शिष्यांश्च भगवन् ! वद ॥”
उपमन्युरुवाच ।
“महाकालश्च शूली च दण्डी मुण्डी स एव च ॥”
धृतराष्ट्रपुत्त्राणामेकतमः । यथा, महाभारते
धृतराष्ट्रपुत्त्रनामकथने । १ । ६७ । १०२ ।
“निषङ्गी कवची दण्डी दण्डधारो धनुर्ग्रहः ॥”
दण्डीत्यत्र पाशीति केचित् ॥) दण्डयुक्ते त्रि ।
इति हेमचन्द्रः । ३ । ३८५ ॥ (यथा, महा-
भारते । १३ । १४ । ३७४ ।
“दण्डी मुण्डी कुशी चीरी घृताक्तोमेखलीकृतः ॥”)

दण्डोत्पलं, क्ली, (दण्डयुक्तमुत्पलमिव ।) वृक्ष-

विशेषः । डानिपोला इति डानकुनि इति च
भाषा । अस्य गुणाः । क्षयश्वासकासनाशि-
त्वम् । अग्निदीपनत्वञ्च । इति राजवल्लभः ॥
तत्तु पीतरक्तश्वेतपुष्पभेदेन त्रिविधम् । पीतस्य
पर्य्यायः । गोवन्दनी २ गन्धवल्ली ३ सहदेवी ४
सहा ५ । रक्तस्य पर्य्यायः । विश्वदेवा १ ।
श्वेतस्य । दण्डोत्पला १ । इति रत्नमाला ॥

दण्डोत्पला, स्त्री, (दण्डोत्पल + टाप् ।) श्वेत-

पुष्पदण्डोत्पलम् । इति रत्नमाला ॥

दण्ड्यः, त्रि, (दण्ड्यते इति । दण्ड + कर्म्मणि ण्यत् ।

यद्वा, दण्डमर्हतीति । दण्ड + “दण्डादिभ्यो यत् ।”
५ । १ । ६६ । इति यत् ।) दण्डनीयः । दण्डि-
तव्यः । (यथा, मार्कण्डेये । २८ । ३४ ।
“यश्चोल्लङ्घ्य स्वकं धर्म्मं स्ववर्णाश्रमसंज्ञितम् ।
नरोऽन्यथा प्रवर्त्तेत स दण्ड्यो भूभृतो भवेत् ॥”)
तत्पर्य्यायः । दण्डार्हः २ । इति जटाधरः ॥
(यथा, रघुः । १ । २५ ।
“स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये ॥”)

दत्, पुं, दन्तः । इति शब्दचन्द्रिका । अस्य बहु-

वचने दतः ॥

दत्तं, त्रि, (दीयते इति । दा + क्तः ।) रक्षितम् ।

कृतदानम् । तत्पर्य्यायः । विसृष्टम् २ । इति
त्रिकाण्डशेषः ॥ विश्राणितम् ३ । इति शब्द-
रत्नावली ॥ (यथा, माघे । १ । १५ ।
“स्वहस्तदत्ते मुनिमासने मुनि-
श्चिरन्तनस्तावदभिन्यवीविशत् ॥”
दा + भावे क्तः ।) दाने, क्ली । तत् सप्तविधं
यथा, --
“दत्तं सप्तविधं प्रोक्तमदत्तं षोडशात्मकम् ।
पण्यमूल्यं भृतिस्तुष्ट्या स्नेहात् प्रत्युपकारतः ।
स्त्रीशुल्कानुग्रहार्थञ्च दत्तं दानविदो विदुः ॥
अदत्तन्तु भयक्रोधशोकावेशरुगन्वितैः ।
तथोत्कोचपरीहारव्यत्यासच्छलयोगतः ॥
बालमूढास्वतन्त्रार्त्तमत्तोन्मत्तापवर्ज्जितम् ।
कर्त्ता ममेदं कर्म्मेति प्रतिलाभेच्छया च यत् ॥
अपात्रे पात्रमित्युक्ते कार्य्ये चाधर्म्मसंहिते ।
यद्दत्तं स्यादवज्ञानात् तददत्तमिति स्मृतम् ॥”
इति मिताक्षरा ॥

दत्तः, पुं, राजविशेषः । स अग्निसिंहनन्दनः । इति

हेमचन्द्रः । ३ । ३६० ॥ (स तु जैनविशेषः ।
अपरः क्षत्त्रियवंशोत्पन्नो नृपविशेषः । यथा,
महाभारते । १२ । २९६ । १५ ।
“आयुर्मतङ्गो दत्तश्च द्रुपदो मात्स्य एव च ॥”
यदुवंशीयस्य राजाधिदेवस्य पुत्त्रः । यथा,
हरिवंशे । ३८ । २ ।
“राजाधिदेवपुत्त्रास्तु जज्ञिरे वीर्य्यवत्तराः ।
दत्तातिदत्तौ बलिनौ पानश्वः श्वेतवाहनः ॥”)
वैश्यस्योपाधिविशेषः । यथा, --
“शर्म्मादेवश्च विप्रस्य वर्म्मा त्राता च भूभुजः ।
भूतिर्दत्तश्च वैश्यस्य दासः शूद्रस्य कारयेत् ॥”
इत्युद्बाहतत्त्वम् ॥
अधुना कायस्थादेरुपाधिश्च । (यथा, कुल-
दीपिकायाम् ।
“गौडेऽष्टौ कीर्त्तिमन्तश्चिरवसतिकृता मौलिका
ये हि सिद्धा
स्ते दत्ताः सेनदासाः करगुहसहिताः पालिताः
सिंहदेवाः ॥”)
भगवदवतारविशेषः । स अत्रिपुत्त्रः दत्तात्रेय इति
नाम्ना ख्यातः । इति श्रीभागवतम् ॥ (पुत्त्र-
विशेषः । यथा, देवीभागवते । १ । ६ । ४८ ।
“कुण्डः सहोढः कानीनः क्रीतः प्राप्तस्तथा वने ।
दत्तः केनापि चाशक्तौ धनग्राहिसुताः स्मृताः ॥”
तथा, महाभारते । १ । १२० । ३४ ।
“दत्तः क्रीत उपक्रीत उपगच्छेत् स्वयञ्च यः ॥”)

दत्तकः, पुं, (दत्त एव । स्वार्थे कन् ।) द्बादश-

विधपुत्त्रान्तर्गतपुत्त्रविशेषः । सपिण्डदत्तकस्य
अशौचव्यवस्था । यथा, “सापिण्डस्य पुत्त्रीकरणे
तु सपिण्डमरणादिनिमित्तं दत्तकस्य तन्मरणा-
दिनिमित्तं सपिण्डाना दशरात्रमेव निर्व्विवादम् ।
इति अनन्तभट्टकृतदत्तकदीधितिः ॥ * ॥
औरसपुत्त्रेण सह तस्य समभागित्वम् । यथा, --
“दत्तपुत्त्रे यथाजाते कदाचित्त्वौरसो भवेत् ।
पितुर्व्वित्तस्य सर्व्वस्य भवेतां समभागिनौ ॥
इत्यपि वचनं शूद्रविषयम् ।” इति दत्तकचन्द्रिका ॥
अन्यत् पोष्यपुत्त्रशब्दे द्रष्टव्यम् ॥

दत्तकपुत्त्रः, पुं, (दत्तक एव पुत्त्रः ।) द्वादशविध-

पुत्त्रान्तर्गतपुत्त्रविशेषः । यथा, याज्ञवल्क्ये ।
“दद्यान्माता पितावा यं स पुत्त्रो दत्तको भवेत् ॥”
तत्परिग्रहणस्य प्रकारो यथा, --
“शुक्रशोणितसम्भवः पुत्त्रो मातापितृनिमित्तकः ।
तस्य प्रदानविक्रयत्यागेषु मातापितरौ प्रभवतः ॥
नत्वेकं पुत्त्रं दद्यात् प्रतिगृह्णीयाद्वा स हि सन्ता-
नाय पूर्ब्बेषाम् ।
स्त्री पुत्त्रं न दद्यात् प्रतिगृह्णीयाद्वा अन्यत्रानु-
ज्ञानाद्भर्त्तुः ॥
पुत्त्रं प्रतिग्रहीष्यन् बन्धूनाहूय राजनि निवेद्य
निवेशनस्य मध्ये व्याहृतिभिर्हुत्वा प्रतिगृह्णीया-
दिति ।” इति वशिष्ठः ॥ तस्य गोत्रधनप्राप्ति-
र्यथा, --
“गोत्रऋक्थे जनयितुर्न हरेद्दत्त्रिमः सुतः ।
गोत्रऋक्थानुगः पिण्डो व्यपैति ददतः स्वघा ॥
पितुर्गोत्रेण यः पुत्त्रः संस्कृतः पृथिवीपते ! ।
आचूडान्तं न पुत्त्रः स पुत्त्रतां याति चान्यतः ॥
चूडाद्या यदि संस्कारा निजगोत्रेण वै कृताः ।
दत्ताद्यास्तनयास्ते स्युरन्यथा दास उच्यते ॥
ऊर्द्ध्वन्तु पञ्चमाद्बर्षान्न दत्ताद्याः सुता नृप ! ।
गृहीत्वा पञ्चवर्षीयपुत्त्रेष्टिं प्रथमञ्चरेत् ॥”
इत्युद्वाहतत्त्वम् ॥
दत्तको द्विविधः । केवलदत्तकः द्व्यामुष्यायणदत्त-
कश्च । केवलदत्तको जनकेन प्रतिग्रहीत्रर्थमेव
दत्तः तस्यैव पुत्त्रः । द्व्यामुष्यायणस्तु जनकप्रति-
ग्रहीतृभ्यामावयोरयमितिसंप्रतिपन्नः स उभयो-
रपि पुत्त्रः ।” इति मिताक्षरा ॥

दत्ताप्रदानिकं, क्ली, (दत्तस्य आप्रदानं ग्रहण-

मस्त्यस्य । दत्ताप्रदान + ठन् ।) अष्टादश-
विवादपदान्तर्गतविवादपदविशेषः । दत्तस्य पुन-
राहरणं यस्मिन् विवादपदे तत् । यथा, नारदः ।
“दत्त्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति ।
दत्ताप्रदानिकं नाम व्यवहारपदं हि तत् ॥”
“असम्यगविहितमार्गेण ।” इति मिताक्षरा ॥

दत्तात्मा, [न्] पुं, (दत्तः आत्मा येन ।) पुत्त्र-

विशेषः । यथा, --
“दत्तात्मा तु स्वयं दत्तः ।” इति कात्यायनः ॥ अस्य
विवरणम् । “दत्तात्मा तु पुत्त्रो यो मातापितृ-
विहीनस्ताभ्यां त्यक्तो वातवाहं पुत्त्रो भवामीति
स्वयं दत्तत्वमुपगतः ।” इति मिताक्षरा । २ । १३४ ॥
(विश्वदेवानामन्यतमः । यथा, महाभारते ।
१३ । ९२ । ३४ ।
“सोमपः सूर्य्यसावित्रो दत्तात्मा पुण्डरीयकः ॥”)

दत्तानपकर्म्म, [न्] क्ली, (दत्तस्य अनपकर्म्म

आदानं यत्र ।) दत्ताप्रदानिकम् । इति मनुः ॥

दत्तिः, स्त्री, (दा + भावे क्तिन् ।) दानम् । इति

शब्दरत्नावली ॥ (यथा, रघुः । ८ । ८६ ।
“अपशोकमनाः कुटुम्बिनी-
मनुगृह्णीष्व निवापदत्तिभिः ॥”)

दत्तेयः, पुं, (दत्ताया अपत्यं पुमान् । दत्ता + ढक् ।)

इन्द्रः । इति त्रिकाण्डशेषः ॥

दद, ङ दाने । धृतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) ङ, ददते । इति दुर्गा-
दासः ॥

ददनं, क्ली, (दद + भावे ल्युट् ।) दानम् । इति

शब्दरत्नावली ॥

दद्रुः, पुं, कच्छपः । इति संक्षिप्तसारे उणादि-

वृत्तिः ॥ (ददाति कण्डूमिति । दद + बाहुल-
कात् रुः । यद्वा, दरिद्राति दुर्गच्छत्यनेनेति ।
दरिद्रा + मृगय्वादित्वात् कुप्रत्ययेन साधुः । इत्यु-
ज्ज्वलदत्तः । १ । ९२ ।) रोगविशेषः । दाद
पृष्ठ २/६७९
इति भाषा । तस्य रूपान्तराणि । दर्द्रुः २
दद्रूः ३ दर्द्रूः ४ । इति भरतधृतशब्दभेदः ॥
तस्य लक्षणं यथा, --
“सकण्डुरागपिडकं दद्रुमव्रणमुन्नतम् ॥”
इति माधवकरः ॥
तस्यौषधम् यथा, --
“विडङ्गैडगजाकुष्ठनिशासिन्धूत्थसर्षपैः ।
मूत्राम्बुपिष्टो लेपोऽयं दद्रकुष्ठविनाशनः ॥
प्रपुन्नाडस्य वीजानि धात्री सर्ज्जरसः स्नुही ।
सौवीरपिष्टं दद्रूणामेतदुद्बर्त्तनं परम् ॥
आरग्वधस्य पत्राणि आरनालेन पेषयेत् ।
दद्रुकिट्टिमकुष्ठानि हन्ति सिध्मानमेव च ॥”
इति गारुडे १७५ अध्यायः ॥ * ॥
“एकश्च त्रिफलाभागस्तथा भागद्वयं शिव ! ।
सोमराजस्य वीजानां जग्धं पथ्या च दद्रुणुत् ॥
अम्बुतक्रं सगोमूत्रं क्वथितं लवणान्वितम् ।
कांस्यघृष्टं खरं लेपात कुष्ठदद्रुविनाशनम् ॥
हरिद्रा हरितालञ्च दूर्व्वा गोमूत्रसैन्धवम् ।
अयं लेपो हन्ति दद्रुं पामानं वै गरं तथा ॥”
इति गारुडे १९४ अध्यायः ॥ * ॥
“मरीचं त्रिवृतं कुष्ठं हरितालं मनःशिला ।
देवदारु हरिद्रे द्वे कुष्ठं मांसी च चन्दनम् ॥
विशाला करवीरञ्च अर्कक्षीरं शकृत्पलम् ।
एषाञ्च कार्षिको भागो विषस्यार्द्धपलं भवेत् ॥
प्रस्थं कटुकतैलस्य गोमूत्रेऽष्टगुणे पचेत् ।
मृत्पात्रे लौहपात्रे वा शनैर्मृद्वग्निना पचेत् ॥
पामा विचर्च्चिका चैव दद्रुविस्फोटकानि च ।
अभ्यङ्गेन प्रणश्यन्ति कोमलत्वञ्च जायते ॥”
इति च गारुडे १९८ अध्यायः ॥ * ॥
अथ दद्रुचिकित्सा ।
“कुष्ठकृमिघ्नो दद्रुघ्नो निशासैन्धवसर्षपाः ।
अम्लपिष्टः प्रलेपोऽयं दद्रुकुष्ठनिसूदनः ॥
दूर्व्वाभयासैन्धवचक्रमर्द्द-
कुठेरकाः काञ्जिकतक्रपिष्टाः ।
त्रिभिः प्रलेपैरपि बद्धमूलां
दद्रुञ्च कुष्ठञ्च विनाशयन्ति ॥”
कुठेरकः ममरी इति लोके ।
लोके गण्डिलकाख्या सिद्धार्थकश्च स्नुहीक्षीरम् ।
त्रयमिति समभागं स्यादेषां द्बिगुणस्तु दद्रुघ्नः ॥
अष्टगुणे गोतक्रे तानि प्रकृतानि संदध्यात् ।
दिवसत्रितयादूर्द्ध्वं सम्यक् निष्पेषयेत्तानि ॥
वन्योपलेन घृष्ट्वा दद्रूमालेपयेत्तेन ।
सप्ताहाल्लेपोऽयं दद्रुकण्डूमवश्यं विनाशयति ॥”
इति भावप्रकाशः ॥
(“लाक्षाकुष्ठं सर्षपाः श्रीनिकेतं
रात्रिर्व्योषं चक्रमर्द्दस्य वीजम्
कृत्वैकस्थं तक्रपिष्टः प्रलेपो
दद्रूयुक्तो मूलकाद्बीजयुक्तः ॥
सिन्धूद्भूतं चक्रमर्द्दस्य वीज-
मिक्षूद्भूतं केशरं तार्क्ष्यशैलम् ।
पिष्टो लेपोऽयङ्कपित्थाद्रसेन
दद्रून्तूर्णं नाशयत्येष योगः ॥
हेमक्षीरी व्याधिघातः शिरीषो
निम्बः सर्ज्जो वत्सकः साजकर्णः ।
शीघ्रं तीव्रा नाशयन्तीह दद्रूः
स्नानालेपोद्घर्षणेषु प्रयुक्ताः ॥”
इति च सुश्रुते चिकित्सितस्थाने नवमेऽध्याये ॥)

दद्रुकः, पुं, (दद्रुरेव । स्वार्थे कन् ।) दद्रुरोगः ।

इति शब्दरत्नावली ॥

दद्रुघ्नः, पुं, (दद्रुं दद्रुरोगं हन्तीति । हन + टक् ।)

चक्रमर्द्दकः । इत्यमरः । २ । ४ । १४७ ॥ (यथा,
भावप्रकाशे क्षुद्रकुष्ठचिकित्सायाम् ।
“वाकुची चाथ दद्रुघ्नः पिचुमर्द्दो हरीतकी ॥”
अस्य गुणा यथा, --
“दद्रुघ्नपत्रं दोषघ्नमम्लं वातकफापहम् ।
कण्डूकासकृमिश्वासदद्रुकुष्ठप्रणुल्लघु ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

दद्रुणः, त्रि, (दद्रुरस्त्यस्येति । दद्रु + “लोमादि-

पामादिपिच्छादिभ्यः शनेलचः ।” ५ । २ । १०० ।
इति नः ।) दद्रुरोगी । इत्यमरः । २ । ६ । ५९ ॥

दद्रुनाशिनी, स्त्री, (दद्रुं नाशयतीति । नश +

णिच + णिनिः । ङीप् ।) तैलिनीकीटः । इति
राजनिर्घण्टः ॥

दद्रुरोगी, [न्] त्रि, (दद्रुरोगोऽस्त्यस्येति । दद्रु-

रोग + इनिः ।) दद्रुरोगविशिष्टः । देदुया इति
भाषा । तत्पर्य्यायः । दद्रुणः २ । इत्यमरः ।
२ । ६ । ५९ ॥

दद्रूः, पुं, (दरिद्राति दुर्गच्छत्यङ्गमनेनेति । दरिद्रा +

“दरिद्राते र्यालोपश्च ।” उणां १ । ९२ । इति
ऊः रकारेकाराकाराणां लोपश्च ।) दद्रुः । इत्य-
मरटीकायां भरतः ॥

दद्रूघ्नः, पुं, (दद्रूं हन्तीति । हन + टक् ।) दद्रुघ्नः ।

इति शब्दरत्नावली ॥

दद्रूणः, त्रि, (दद्रूरस्त्यस्येति । दद्रू + पामादित्वात्

नः ।) दद्रुणः । इत्यमरटीकायां रमानाथः ॥

दध, ङ ददे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-

सकं-सेट् ।) ङ, दधते । ददे दानधृत्योः ।
आदध्यादन्धकारे रतिमतिशयिनीमिति मयूर-
भट्टोक्तम् । गणकृतानित्यात् अस्यैव ढीपरस्मैपद-
साध्यत्वमिति रमानाथः । वस्तुतस्तु डु धाञ्लि
धारणे इत्यस्यैव ख्यां साध्यम् । इति दुर्गादासः ॥

दधि, क्ली, (दधातीति । धा + “भाषायां धाञ्कृ-

सृगमिजनिनमिभ्यः ।” ३ । २ । १७१ । इत्यस्य
वार्त्तिकोक्त्या किः स च लिड्वत् ।) श्रीवासः ।
वसनम् । इति शब्दरत्नावली ॥ क्षीरोत्तरा-
वस्थाभावः । दै इति भाषा । तत्पर्य्यायः ।
क्षीरजम् २ मङ्गल्यम् ३ विरलम् ४ । इति
राजनिर्घण्टः ॥ पयस्यम् ५ । घनेतरत् दधि
द्रप्स्यम् । इत्यमरः ॥ अस्य गुणाः । अम्लत्वम् ।
गुरुत्वम् । वातदोषशमनत्वम् । संग्राहित्वम् ।
मूत्रावहत्वम् । बल्यत्वम् । शोफकफार्त्त्यरुच्य-
शमनत्वम् । वह्निशान्तिकारित्वम् । कासश्वास-
पीनसविषमज्वरशीतज्वरहितत्वम् । रक्तोद्रेक-
शुक्रवृद्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ उष्ण-
त्वम् । दीपनत्वम् । स्निग्धत्वम् । कषायानुरस-
त्वम् । पाकेऽम्लत्वम् । पित्तमेदःप्रदत्वम् । मूत्र-
कृच्छ्रप्रतिश्यायातीसाररुचिकार्श्येषु शस्तत्वञ्च ।
इति भावप्रकाशः ॥ स्वादुत्वम् । हृद्यत्वम् ।
रोचनत्वम् । मङ्गल्यत्वम् । इति राजवल्लभः ॥ * ॥
अथ पक्वदुग्धदधिगुणाः । रुच्यत्वम् । स्निग्धत्वम् ।
उत्तमगुणत्वम् । पित्तानिलापहत्वम् । सर्व्व-
धात्वग्निबलवर्द्धनत्वञ्च ॥ * ॥
निःसारदुग्धदधिगुणाः । संग्राहित्वम् । शीतल-
त्वम् । वातलत्वम् । लघुत्वम् । विष्टम्भित्वम् ।
दीपनत्वम् । रुच्यत्वम् । ग्रहणीरोगनाशित्वञ्च ॥ * ॥
बद्धदधिगुणाः । सुस्निग्धत्वम् । मधुरत्वम् ।
नातिपित्तकरत्वञ्च ॥ * ॥
शर्करासहितदधिगुणाः । श्रेष्ठत्वम् । तृष्णा-
पित्तास्रदाहनाशित्वञ्च ॥ * ॥
गुडयुक्तदधिगुणाः । वातनाशित्वम् । वृष्यत्वम् ।
वृंहणत्वम् । तर्पणत्वम् । गुरुत्वञ्च । इति भाव-
प्रकाशः ॥ * ॥
वातजतृष्णानाशित्वम् । इति चक्रदत्तः ॥ * ॥
रात्रौ दधिसेवने विशेषो यथा, रात्रौ दधि न
भुञ्जीत किन्तु सघृतशर्करं समुद्गसूपं सक्षौद्रं
उष्णं सामलकं भुञ्जीत । रक्तपित्तकंफोत्थेषु
विकारेषु च अम्बुघृतान्वितमपि दधि न हितम् ॥
ऋतुविशेषे विधिनिषेधौ । हेमन्तशिशिरवर्षासु
दधि शस्तं शरद्ग्रीष्मवसन्तेषु प्रायशो विगर्हि-
तम् ॥ * ॥
अविधिना दधिसेवने दोषः । ज्वरासृक्पित्त-
वीसर्पकुष्ठपाण्डुभ्रमकामलारोगप्राप्तिः ॥ * ॥
अथ गोदधिगुणाः । विशेषस्वादुत्वम् । बल्य-
त्वम् । रुचिप्रदत्वम् । पवित्रत्वम् । दीपनत्वम् ।
स्निग्धत्वम् । पुष्टिकारित्वम् । वायुनाशित्वम् ।
अशेषदधिमध्ये गुणाधिकत्वञ्च ॥ * ॥
माहिषदधिगुणाः । सुस्निग्धत्वम् । श्लेष्मलत्वम् ।
वातपित्तनाशित्वम् । स्वादुपाकित्वम् । अभि-
ष्यन्दित्वम् । गुरुत्वम् । रक्तकफदूषणत्वञ्च ॥ * ॥
छागीदधिगुणाः । उत्तमत्वम् । ग्राहित्वम् ।
त्रिदोषनाशित्वम् । श्वासकासार्शःक्षयकार्श्येषु
शस्तत्वम् । दीपनत्वञ्च । इति भावप्रकाशः ॥ * ॥
आविकदधिगुणः । दुर्नामकफव्याधिप्रकोपन-
त्वम् ॥ अश्वीदधिगुणाः । वातनाशित्वम् ।
दीपनत्वम् । चक्षुर्हितत्वञ्च ॥ * ॥
औष्ट्रकदधिगुणाः । क्षारत्वम् । अत्यम्लत्वम् ।
कटुपाकित्वञ्च ॥ * ॥
हस्तिनीदधिगुणाः । वीर्य्योष्णत्वम् । कषाय-
त्वम् । कफवातनाशित्वञ्च ॥ * ॥
मानुष्यदघिगुणाः । मधुरत्वम् । बल्यत्वम् ।
स्निग्धत्वम् । सन्तर्पणत्वञ्च । इति राजवल्लभः ॥ * ॥
अथ दधिभेदाः ।
“आदौ मन्दं ततः स्वादु स्वाद्बम्लञ्च ततः परम् ।
अम्लञ्चतुर्थमत्यम्लं पञ्चमं दधि पञ्चधा ॥” * ॥
मन्दादीनां लक्षणानि गुणाश्च ।
“मन्दं दुग्धवदव्यक्तरसं किञ्चिद्घनं भवेत् ।
पृष्ठ २/६८०
मन्दं स्यात् सृष्टविण्मूत्रं दोषत्रयविदाहकृत् ॥
यत् सम्यग् घनतां यातं व्यक्तं स्वादुरसं भवेत् ।
स्वाद्वम्लस्य गुणा ज्ञेयाः सामान्यदधिवज्जनैः ॥
यत्तिरोहितमाधुर्य्यं व्यक्ताम्लत्वं तदम्लकम् ।
अम्लन्तु दीपनं पित्तरक्तश्लेष्मविवर्द्धनम् ॥
तदत्यम्लं दन्तरोमहर्षकण्ठादिदाहकृत् ।
अत्यम्लं दीपनं रक्तपित्तपुष्टिकरं परम् ॥”
इति भावप्रकाशः ॥ * ॥
“लवणमधुरसर्पिःशर्करामुद्गधात्री-
कुसुमरसविहीनं नैतदश्नन्ति नित्यम् ।
न च शरदि वसन्ते नोष्णकाले न रात्रौ
न दधि कफविकारे पित्तदोषेऽपि नाद्यात् ॥
त्रिकटुकयुतमेतद्राजिकाचूर्णमिश्रं
कफहरमनिलघ्नं वह्निसन्धुक्षणञ्च ।
तुहिनशिशिरकाले सेवितञ्चातिपथ्यं
रचयति तनुदार्ढ्यं कान्तिसत्वञ्च नॄणाम् ॥
दधिमधुरमीषदम्लं वाहितञ्च नात्युष्णम् ।
यावद् यावन्मधुरं दोषहरं तावदुष्णमिदम् ॥”
इति राजनिर्घण्टः ॥ * ॥
“दघि यत् स्वादु तन्मेदःकफाभिष्यन्दकारणम् ।
दध्यम्लमतियद्रक्तदूषणं कफपित्तकृत् ॥
विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत् ।
दधि त्वसारं रूक्षन्तु ग्राहि विष्टम्भि वातलम् ॥
पीनसे चातिसारे च शीतके विषमज्वरे ।
अरुचौ मूत्रकृच्छ्रे च कार्श्ये च दधि शस्यते ॥”
इति राजवल्लभः ॥ * ॥
(ऋतुभेदे दधिविशेषगुणा यथा, --
“शारदं दधिगुर्व्वम्लं रक्तपित्तविवर्द्धनम् ।
शोफं तृष्णां ज्वरं शूलं करोति विषमज्वरम् ॥
इति शारददधिगुणाः ॥ * ॥
गुरु स्निग्धञ्च मधुरं कफकृद्बलवर्द्धनम् ।
वृष्यं मेध्यञ्च हैमन्तं पुष्टिदं तुष्टिवृद्धिदम् ॥
इति हैमन्तदधिगुणाः ॥ * ॥
शैशिरं सघनञ्चाम्लं मधुरं गुरु एव च ।
वृष्यं बलकरं पित्तश्रमापहरणं परम् ।
इति शैशिरदधिगुणाः ॥ * ॥
वासन्तं मधुरं स्निग्धं किञ्चिदम्लं कफात्मकम् ।
बलहृद्वीर्य्यहा प्रोक्तं वसन्ते न प्रशस्यते ।
इति वासन्तदधिगुणाः ॥ * ॥
लघु चाम्लं भवेद्ग्रीष्मे चात्युष्णं रक्तपित्तकृत् ।
शोषभ्रमपिपासाकृद्दधियुक्तं न ग्रीष्मके ॥
इति ग्रीष्मदधिगुणाः ॥ * ॥
वार्षिकं हितकृत् प्रोक्तं दधि शस्तं न दोषलम् ।
शोषवातभ्रमान् हन्ति श्रमातीसारनाशनम् ॥”
इति वार्षिकदधिगुणाः ॥ * ॥
“हिक्काश्वासप्लीहार्शानामतिसारे भगन्दरे ।
शस्तं प्रोक्तं दधि ह्येषां लवणेन विमूर्च्छितम् ॥
इति दधिभोजनविधिः ॥” * ॥
इति हारीते प्रथमे स्थानेऽष्टमेऽध्याये ॥
“रोचनं दीपनं वृष्यं स्नेहनं बलवर्द्धनम् ।
पाकेऽम्लमुष्णं वातघ्नं मङ्गल्यं वृंहणं दधि ॥
पीनसे चातिसारे च शीतके विषमज्वरे ।
अरुचौ मूत्रकृच्छ्रे च कार्श्ये च दधि शस्यते ॥”
“त्रिदोषं मन्दकं जातं वातघ्नं दधि शुक्रलम् ॥”
इति चरके शूत्रस्थाने २७ अध्याये ॥
“दधि तु मधुरमम्लमत्यम्लञ्चेति तत्कषायानुरसं
स्निग्धमुष्णं पीनसविषमज्वरातिसारारोचक-
मूत्रकृच्छ्रकार्श्यापहं वृष्यं प्राणकरं माङ्गल्यञ्च ॥
महाभिष्यन्दि मधुरं कफमेदोविवर्द्धनम् ।
कफपित्तकृदम्लं स्यादत्यम्लं रक्तदूषणम् ॥
विदाहि सृष्टविण्मूत्रं मन्दजातं त्रिदोषकृत् ।
स्निग्धं विपाके मधुरं दीपनं बलवर्द्धनम् ॥
वातापहं पवित्रञ्च दधि गव्यं रुचिप्रदम् ।
दध्याजं कफपित्तघ्नं लघुवातक्षयापहम् ॥
दुर्नामश्वासकासेषु हितमग्नेः प्रदीपनम् ।
विपाके मधुरं वृष्यं वातपित्तप्रसादनम् ॥
बलासवर्द्धनं स्निग्धं विशेषाद्दधि माहिषम् ।
विपाके कटु सक्षारं गुरु भेद्योष्ट्रिकं दधि ॥
वातमर्शांसि कुष्ठानि क्रिमीन् हन्त्युदराणि च ।
कोपनं कफवातानां दुर्नाम्नाञ्चाधिकं दधि ॥
रसे पाके च मधुरमत्यभिष्यन्दि दोषलम् ।
दीपनीयमचक्षुष्यं वाडवं दधि वातलम् ॥
रूक्षमुष्णं कषायञ्च कफमात्रापहञ्च तत् ।
स्निग्धं विपाके मधुरं बल्यं सन्तर्पणं गुरु ॥
चक्षुष्यमग्न्यं दोषघ्नं दधि नार्य्या गुणोत्तरम् ।
लघु पाके बलासघ्नं वीर्य्योष्णं पित्तनाशनम् ॥
कषायानुरसं नाग्या दधि वर्च्चोविवर्द्धनम् ।
दधीन्युक्तानि यानीह गव्यादीनि पृथक् पृथक् ॥
विज्ञेयमेषु सर्व्वेषु गव्यमेव गुणोत्तरम् ।
वातघ्नं कफकृत् स्निग्धं वृंहणं न च पित्तकृत् ॥
कुर्य्याद्भक्ताभिलाषञ्च दधि यत् सुपरिश्रुतम् ।
शृतात् क्षीरात्तु यज्जातं गुणवद्दधि तत् स्मृतम् ॥
वातपित्तहरं रुच्यं धात्वग्निबलवर्द्धनम् ।
दघ्नः सरो गुरुर्वृष्यो विज्ञेयोऽनिलनाशनः ॥
वह्नेर्विधमनश्चापि कफशुक्रविवर्द्धनः ।
दधि त्वसारं रूक्षञ्च ग्राहि विष्टम्भि वातलम् ॥
दीपनीयं लघुतरं सकषायं रुचिप्रदम् ।
शरद्ग्रीष्मवसन्तेषु प्रायशो दधि गर्हितम् ॥
हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते ॥”
इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)
धारणकर्त्तरि, त्रि । इति मुग्धबोधम् ॥

दधिकूर्च्चिका, स्त्री, (दधिजाता कूर्च्चिका ।) अर्द्धो-

दकोष्णदुग्धे दध्यम्लसंयोगात् जाता । इति
केचित् ॥ उष्णदुग्धे दध्यम्लसंयोगात् जाता
इत्यन्ये ॥ छेना इति भाषा । अस्या गुणाः ।
वातनाशित्वम् । ग्राहित्वम् । रूक्षत्वम् ।
दुर्ज्जरत्वञ्च । इति राजवल्लभः ॥ (पर्य्यायोऽस्या
यथा, --
“दध्ना सह पयः पक्वं यत् स्यात्तद्दधिकूर्च्चिका ॥”
इति वैद्यकरत्नमालायाम् ॥)

दधिचारः, पुं, (दधिं चालयति विलोडयतीति ।

दधि + चल + णिच् + अण् । लस्य रत्वम् ।)
दधिमथनदण्डः । तत्पर्य्यायः । वैशाखः २
तक्राटः ३ करघर्षणः ४ । इति हारावली । ३४ ॥

दधिजं, क्ली, (दध्नो जायते इति । जन + “पञ्च-

म्यामजातौ ।” ३ । २ । ९८ । इति डः ।)
नवनीतम् । इति राजनिर्घण्टः ॥ (नवनीत-
शब्देऽस्य विशेषो ज्ञातव्यः ॥)

दधित्थः, पुं, (दधिवर्णो द्रवस्तिष्ठत्यस्मिन्निति । स्था

+ “सुपिस्थः ।” ३ । २ । ४ । इति कः । पृषो-
दरादित्वात् साधुः ।) कपित्थः । इत्यमरः ।
२ । ४ । २१ ॥ (यथा, --
“तद्वद्दधित्थविल्वाम्रं जम्बुमध्यैः प्रपञ्चयेत् ॥”
इति वाभटे चिकित्सास्थाने नवमेऽध्याये ॥
“दधित्थविल्वचाङ्गेरी तक्रदाडिमसाधिता ।
पाचनी ग्राहिणी पेया सवाते पाञ्चमूलिका ॥”
इति चरके सूत्रस्थाने द्बितीयेऽध्याये ॥)

दधित्थाख्यः, पुं, (दधित्थं आख्याति कपित्थद्रवं

अनुकरोतीति । आ + ख्या + कः ।) शरल-
द्रवः । इति रत्नमाला ॥ लोवान् इति भाषा ॥

दधिधेनुः, स्त्री, (दधिनिर्म्मिता धेनुः ।) दानार्थ-

दध्यादिनिर्म्मिता धेनुः । यथा, वराहपुराणे ।
“दधिधेनोर्म्महाराज ! विधानं शृणु साम्प्रतम् ।
अनुलिप्ते महीभागे गोमयेन नराधिप ! ॥
गोचर्म्ममात्रे तु पुनः पुष्पप्रकरशोभिते ।
कुशैरास्तीर्य्य वसुधां कृष्णाजिनकुशोत्तराम् ॥
दधिकुम्भं सुसंस्थाप्य सदा धान्यचयोपरि ।
चतुर्थांशेन वत्सन्तु सौवर्णमुखमण्डितम् ॥
आच्छाद्य वस्त्रयुग्मेन पुष्पगन्धैस्तु पूजिताम् ।
ब्राह्मणाय कुलीनाय साधुवृत्ताय धीमते ॥
क्षमादिगुणयुक्ताय दद्यात्तां दधिधेनुकाम् ।
पुच्छदेशोपविष्टस्तु मुद्रिकाकर्णमात्रकैः ॥
पादुकोपानहौ छत्रं दत्त्वा मन्त्रमनुस्मरेत् ।
दधिक्राव्नेतिमन्त्रेण दधिधेनुं प्रदापयेत् ॥
एवं दधिमयां धेनुं दत्त्वा राजर्षिसत्तम ! ।
एकाहारो दिनं तिष्ठेद्दघ्ना च नृपनन्दन ! ॥
यजमानो वसेद्राजन् त्रिरात्रञ्च द्बिजोत्तम ! ।
दीयमानां प्रपश्यन्ति ते यान्ति परमां गतिम् ॥
यत्र क्षीरवहा नद्यो यत्र पायसकर्द्दमाः ।
मुनय ऋषयः सिद्धास्तत्र गच्छन्ति धेनुदाः ॥
य इदं श्रालयेद्भक्त्या शृणुयाद्वापि मानवः ।
सोऽश्वमेधफलं प्राप्य विष्णुलोकं स गच्छति ॥”

दधिपुष्पिका स्त्री, (दधीव शुभ्रं पुष्पमस्याः ।

कप् । टापि अत इत्वम् ।) श्वेतापराजिता ।
इति राजनिधण्टः ॥

दधिपुष्पी, स्त्री, (दधीव पुष्पमस्याः । जातित्वात्

ङीष् ।) कोलशिम्बी । इति राजनिर्घण्टः ॥

दधिफलः, पुं, (दधीव शुभ्रो द्रवः फले यस्य ।)

कपित्थवृक्षः । इत्यमरः । २ । ४ । २१ ॥

दधिमण्डः पुं, (दध्नः मण्डः ।) मस्तु । इति रत्न-

माला ॥ मात् इति भाषा ॥

दधिमण्डोदः पुं, (दधिमण्ड इव उदकं यत्र ।

उदकस्य उदादेशः ।) दधिसमुद्रः । (यथा,
भागवते । ५ । १ । ३३ ।
“क्षीरोदेक्षुरसोदसुरोदघृतोदक्षीरोददधिमण्डोद-
शुद्धोदाः सप्त जलधयः ॥”)
पृष्ठ २/६८१

दधिमुखः पुं, (दधिवत् शुभ्रं मुखं यस्य ।) वानर-

विशेषः । स सुग्रीवश्वशुरः तस्य मधुवनपाल-
कश्च । इति रामायणम् ॥ (यथा, महाभारते ।
३ । २८२ । ७ ।
“श्रीमान् दधिमुखो नाम हरिवृद्धोऽति वीर्य्यवान् ॥”
नागविशेषः । यथा, महाभारते । १ । ३५ । ८ ।
“सुरामुखो दधिसुखस्तथा विमलपिण्डकः ॥”
अयन्तु दर्व्वी कराणां सर्पाणामन्यतमः । इति
सुश्रुते कल्पस्थाने ४ अध्याये ॥)

दधिशोणः, पुं, वानरः । इति त्रिकाण्डशेषः ॥

दधिस(श)क्तवः, पुं, दध्युपसिक्ताः सक्तवः । करम्भः ।

इत्यमरः । २ । ९ । ४८ ॥ दैछातु इति भाषा ॥
नित्यबहुवचनान्तोऽयम् ॥ (यथा, महाभारते ।
१३ । १०४ । ९१ ।
“न पाणौ लवणं विद्बान् प्राशीयान्न च रात्रिषु ।
दधिसक्तून् न भुञ्जीत वृथामांसञ्च वर्जयेत् ॥”)

दधिसारं, क्ली, (दध्नः सारम् ।) नवनीतम् । इति

हेमचन्द्रः । ३ । ७२ ॥

दधिस्नेहः, पुं, (दध्नः स्नेहः ।) दधिसरः । तत्-

पर्य्यायः । सरः २ दध्युत्तरगम् ३ कट्वरम् ४ ।
इति रत्नमाला ॥

दधिस्वेदः, पुं, (दध्नः स्वेद इव ।) घोलम् । इति

जटाधरः ॥

दधीचः, पुं, दधीचिमुनिः । इति शब्दभेदप्रकाशः ॥

(यथा, महाभारते । १ । १३८ । १२ ।
“दथीचस्यास्थितो वज्रं कृतं दानवसूदनम् ॥”)

दधीचिः, पुं, मुनिविशेषः । स अथर्व्वमुनेरौरसात्

कर्द्दमकन्यायां शान्तिनाम्न्यां जातः । वृत्र-
वधार्थं देवैरस्यास्थ्ना वज्रं निर्म्मितम् । इति
श्रीभागवतम् ॥ यथा, --
“ऋतेऽस्थिभ्यो दधीचस्य निहन्तुं त्रिदशद्बिषः ।
तस्मात् यत्नादृषिश्रेष्ठो याच्यतां सुरसत्तमाः ॥
दधीचेऽस्थीनि देहीति तैर्व्वधिष्यथ दानवान् ।
तत् श्रुत्वा सहसा देवैर्याचितो मुनिभिस्तथा ॥
ददौ चास्थीनिं देवेभ्यो दधीचिः सुमनास्तदा ।
प्राणायामं ततः कृत्वा देहं त्यक्त्वा सुभास्वरान् ॥
सर्व्वलोकान् क्षयान् प्राप्तो येभ्यो नावर्त्तनं पुनः ।
तस्यास्थिभिरथो शक्रः प्रहृष्टः सुमनास्तथा ॥
कारयामास दिव्यानि तानि प्रहरणान्युत ।
वज्रासिशूलचक्रञ्च परिघा विविधा गदाः ॥
विश्वकर्म्मा सुराणान्तु परिघाद्यायुधानि च ॥”
इति वह्निपुराणे दानावस्थानिर्णयनामाध्यायः ॥

दधीच्यस्थि, क्ली, (दधीचेरस्थि ।) वज्रम् । हीर-

कम् । इति त्रिकाण्डशेषः ॥

दधृक् [ष्] त्रि, (धृष्णोतीति । धृष प्रागल्भ्ये +

“ऋत्विग्दधृगिति ।” ३ । २ । ५९ । इति क्विन्
द्वित्वादिकञ्च निपात्यते ।) धृष्टः । इति त्रिकाण्ड-
शेषः ॥ (धर्षकः । यथा, ऋग्वेदे । ५ । ६६ । ३ ।
“रातहव्यस्य सुष्टुतिं दधृक्स्तोमैर्मनामहे ॥”)

दध्नः, पुं, (दधते जीवेभ्यः पापपुण्यफलाफलं

ददातीति । दध दाने + बाहुलकात् नः ।)
यमः । इति शब्दरत्नावली ॥

दध्याकरः, पुं, (दध्नः आकर इव ।) दधिसमुद्रः ।

इति शब्दार्थकल्पतरुः ॥

दध्यानी, स्त्री, (दधिवत् शुभ्रतां आनयतीति ।

आ + नी + क्विप् ।) सुदशना । इति रत्नमाला ॥
सुदर्शनगुलञ्च इति भाषा । दएखए इति
केचित् । पुराति इति केचित् । मदनमस्त इति
हिन्दी भाषा ॥

दध्युत्तरं, क्ली, (दध्नः उत्तरं शेषजातम् ।) दधि-

स्नेहः । इति शब्दचन्द्रिका ॥ (यथा, हरिवंशे ।
७८ । ९२ ।
“पयसः सर्पिषश्चैव दध्नो दध्युत्तरस्य च ।
यथाकामं प्रदानाय भोज्यादिश्रयणाय च ॥”)

दध्युत्तरगं, क्ली, (दघ्न उत्तरं चरमावस्थां गच्छ-

तीति । गम + डः ।) दधिस्नेहः । इति रत्न-
माला ॥

दध्युदः, पुं, (दधिवदुदकं यस्य । उत्तरपदस्य च

इत्युदकस्योदादेशः ।) दधिसमुद्रः । इति जटा-
धरः ॥

दनुः, स्त्री, कश्यपपत्नी । सा दक्षकन्या दानवमाता

च । इति त्रिकाण्डशेषः ॥ (यथा, मत्स्यपुराणे
६ अध्याये ।
“कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्त्रपौत्त्रकान् ।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा ॥
सुरभिर्विनता तद्वत् ताम्रा क्रोधवशा इरा ।
कद्रूर्विश्वा मुनिस्तद्वत्तासां पुत्त्रान्निबोधत ॥”
“दनुः पुत्त्रशतं लेभे कश्यपाद् बलदर्पितम् ।
विप्रचित्तिः प्रधानोऽभूत् येषां मध्ये महाबलः ॥
द्विमूर्द्धा शकुनिश्चैव तथा शङ्कुशिरोधरः ।
अयोमुखः शम्बरश्च कपिलो वामनस्तथा ॥
मरीचिर्मेघवांश्चैव इरा गर्भशिरास्तथा ।
विद्रावणश्च केतुश्च केतुवीर्य्यः शतह्रदः ॥
इन्द्रजित् सत्यजिच्चैव वज्रनाभस्तथैव च ।
एकचक्रो महाबाहुर्वज्राक्षस्तारकस्तथा ॥
असिलोमा पुलोमा च बिन्दुर्बाणो महासुरः ।
स्वर्भानुर्वृषपर्व्वा च एवमाद्या दनोः सुताः ॥”
दानवविशेषे, पुं । यथा, गोः रामायणे कबन्ध-
स्योक्तौ । ३ । ७५ । २४ ।
“श्रियोमां मध्यमं पुत्त्रं दनुं नाम्ना च दानवम् ॥”)

दनुजः, पुं, (दनोर्जायते इति । जन + डः ।) असुरः ।

इत्यमरः । १ । १ । १२ ॥ (यथा, भागवते ।
६ । ९ । ४० ।
“तवैव विभूतयो दितिदनुजादयश्चापि ॥”)

दनुजद्विट्, [ष्] पुं, (दनुजानां असुराणां द्बिट्

शत्रुः । यद्बा, दनुजान् द्वेष्टीति । द्बिष् + क्विप् ।)
देवः । इति शब्दरत्नावली ॥ (दानवशत्रौ, त्रि ।
यथा, प्रयोगरत्नमालायां शब्दप्रकरणस्यादौ ।
“नमो नन्दकुमार पराय दनुजद्बिषे ॥”)

दनुसूनुः, पुं, (दनोः सूनुः पुत्त्रः ।) असुरः । इति

जटाधरः ॥

दन्तः, पुं, (दम + “हसिमृग्रिणिति ।” उणां ।

३ । ८६ । इति तन् ।) अद्रिकटकः । कुञ्जः ।
इति मेदिनी । ते, २३ ॥ शैलशृङ्गम् । इति
त्रिकाण्डशेषः ॥ चर्व्वणसाधनास्थि । दाँत इति
भाषा । गर्भस्थस्य षष्ठे मासि गुह्यदन्तपङ्क्ति-
र्भवति । इति सुखबोधः ॥ तत्पर्य्यायः । रदनः २
दशनः ३ रदः ४ । इत्यमरः । २ । ६ । ९१ ॥ द्बिजः ५
खरुः ६ । इति शब्दरत्नावली ॥ * ॥ तत्शुक्ल-
कारकौषधं यथा, --
हरिरुवाच ।
“हरितालं यवक्षारं पत्राङ्गं रक्तचन्दनम् ।
जाती हिङ्गुलकं लाक्षा पक्वतैलेन पेषयेत् ॥
हरीतकीकषायेन मृष्ट्वा दन्तान् प्रलेपयेत् ।
दन्ताः स्युर्लोहिताः पुंसः श्वेता रुद्र ! न संशयः ॥”
इति गारुडे १८३ अध्यायः ॥ * ॥
“शङ्खमामलकीपत्रं धातक्याः कुसुमानि च ।
पिष्ट्वा तत् पयसा सार्द्धं सप्ताहं धारयेन्मुखे ॥
स्निग्धाः श्वेताश्च दन्ताश्च भवन्ति विमलप्रभाः ॥”
इति तत्रैव १८५ अध्यायः ॥ * ॥
“मूलं गोक्षुरकस्यैव चर्व्वित्वा नीललोहित ! ।
दन्तकीटव्यधां नश्येदन्धासुरविमर्द्दन ! ॥”
इति च गारुडे १९३ अध्यायः ॥ * ॥
सदन्तजातस्य शुभाशुभफलं यथा, --
अथ जातभद्रादि । तत्र दन्तजन्मचिन्ता ।
“जातः सदन्तः पितृमातृहन्ता
तातं विहन्यात् प्रथमे तु मासे ।
अम्बां द्वितीये सहजं तृतीये
मासे चतुर्थे शुभकारकः स्यात् ॥
मिष्टान्नभोजी मुभगः सुताख्ये
षष्ठे सुखी पण्डितकल्पबुद्धिः ।
ततोऽधिकः स्यात् बलवान् द्युनाख्ये
मासेऽष्टमे वित्तसुखैर्विहीनः ॥
सुरप्रतापी नवमे मृत्युश्च दशमे तथा ।
एकादशे द्वादशे च सुखी च सुभगो भवेत् ॥
अष्टौ पुत्तलिकान् कृत्वा सुगन्धैर्गन्धकैस्तथा ।
स्रोतःसु संक्रमे चापि स्नापयेत् शुक्लपुष्पकैः ॥
स्नानं संक्रमणस्याधः शम्भोर्द्दर्शनमन्ततः ।
होमं विप्रार्च्चनञ्चैवमशुभे दन्तदर्शने ॥”
इति ज्योतिस्तत्त्वम् ॥
रतिक्रीडायां तस्याघातस्थानानि यथा, --
“स्तनयोर्गण्डयोश्चैव ओष्ठे चैव तथाधरे ।
दन्ताघातः प्रकर्त्तव्यः कामिनीनां सुखावहः ॥”
इति कामशास्त्रम् ॥ * ॥
अथ दन्तरोगाणां निदानादि यथा, --
“शोणितं दन्तवेष्टेभ्यो यस्याकस्मात् प्रवर्त्तते ।
दुर्गन्धीनि सकृष्णानि प्रक्लेदीनि मृदूनि च ॥
दन्तमांसानि शीर्य्यन्ते पचन्ति च परस्परम् ।
शीतादो नाम स व्याधिः कफशोणितसम्भवः ॥ १ ॥
दन्तयोस्त्रिषु वा यस्य श्वयथुर्जायते महान् ।
दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः ॥ २ ॥
स्रवन्ति पूयरुधिरं चला दन्ता भवन्ति च ।
दन्तवंष्टः स विज्ञेयो दुष्टशोणितसम्भवः ॥ ३ ॥
श्वयथुर्द्दन्तमूलेषु रुजावान् कफरक्तजः ।
लालास्रावी स विज्ञेयः शौषिरो नाम नामतः ॥
कण्डूमान् शैषिरो गदः । इति च पाठः ॥ ४ ॥
पृष्ठ २/६८२
दन्ताश्चलन्ति वेष्टेभ्यस्तालु चाप्यवदीर्य्यते ।
दन्तमांसानि पच्यन्ते मुखञ्च परितुद्यते ॥
यस्मिन् स सर्व्वजो व्याधिर्महाशैशिरसंज्ञितः ॥ ५ ॥
दन्तमांसानि शीर्य्यन्ते यस्मिन् ष्ठीवति चाप्यसृक् ।
पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ॥ ६ ॥
वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति च ।
अभ्याहताः प्रस्रवन्ति शोणितं दन्तवेदना ॥
आध्मायन्ते स्रुते रक्ते मुखं पूति च जायते ।
यस्मिन् सोपकुशो नाम पित्तरक्तकृतो गदः ॥ ७ ॥
घृष्टेषु दन्तमांसेषु संरम्भो जायते महान् ।
भवन्ति दन्ताश्च चलाः स वैदर्भोऽभिघातजः ॥ ८ ॥
मारुतेनाधिको दन्तो जायते तीव्रवेदनः ।
खलिवर्द्धनसंज्ञोऽसौ जाते रुक् च प्रशाम्यति ॥ ९ ॥
शनैः शनैः प्रकुरुते वायुर्दन्तसमाश्रितः ।
करालान् विकृतान् दन्तान् करालो न स
सिध्यति ॥ १० ॥
हानव्ये पश्चिमे दन्ते महान् शोथो महारुजः ।
लालास्रावी कफकृतो विज्ञेयः सोऽधिमां-
सकः ॥ ११ ॥
दन्तमूलगता नाड्यः पञ्च ज्ञया यथेरिताः ।
दीर्य्यमाणेष्विव रुजा यस्य दन्तेषु जायते ॥
दालनो नाम स व्याधिः सदागतिनिमित्तजः ॥ १२ ॥
कृष्णच्छिद्रश्चलः स्रावी ससंरम्भो महारुजः ।
अनिमित्तरुजो वातात् स ज्ञेयः कृमिदन्तकः ॥ १३ ॥
वक्त्रं वक्रं भवेद्यस्य दन्तभङ्गश्च जायते ।
कफवातकृतो व्याधिः स भञ्जनकसंज्ञितः ॥ १४ ॥
शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्विजाः ।
पित्तमारुतकोपेन दन्तहर्षः स नामतः ॥ १५ ॥
(दन्तमांसैर्मलस्रावैर्वाह्यान्त्रः श्वयथुर्गुरुः ।
सदाहरुक्स्रवेद्भिन्नः पूयास्रं दन्तविद्रधिः ॥)
मलो दन्तगतो यस्तु कफमारुतशोषितः ।
शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ॥ १६ ॥
कपालेष्विव दीर्य्यत्सु दन्तानां सैव शर्करा ।
कपालिकेति पठिता सदा दन्तविनाशिनी ॥ १७ ॥
योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः ।
श्यावतां नीलतां वापि गतः स श्यावदन्तकः ॥” १८
इति माधवकरः ॥

दन्तकः, पुं, (दन्त एव । स्वार्थे कन् ।) पर्व्वत-

शृङ्गम् । नागदन्तः । इति हेमचन्द्रः । ४ ।
१०० ॥ (दन्तः । इति व्युत्पत्तिलब्धोऽर्थः ॥ त्रि,
दन्तेषु प्रसितः । दन्त + “स्वाङ्गेभ्यः प्रसिते ।
५ । २ । ६६ । इति कन् ॥)

दन्तकर्षणः, पुं, (दन्तान्कर्षतीव यः । कृष् + ल्युः ।)

जम्बीरः । इति शब्दरत्नावली ॥

दन्तकाष्ठं, क्ली, (दन्तधावनार्थं यत् काष्ठम् ।)

विकङ्कतवृक्षः । इति राजनिर्घण्टः ॥ दन्तधाव-
नार्थकाष्ठम् । तद्यथा नरसिंहपुराणे ।
“दन्तकाष्ठस्य वक्ष्यामि समासेन प्रशस्तताम् ।
सर्व्वे कण्टकिनः पुण्याः क्षीरिणश्च यशस्विनः ॥”
महाभारते ।
“तिक्तं कषायं कटुकं सुगन्धि कण्टकान्वितम् ।
क्षीरिणो वृक्षगुल्माद्या भक्षयेद्दन्तधावनम् ॥”
निषिद्धकाष्ठानि यथा, --
“गुवाकतालहिन्तालास्तथा ताडी च केतकी ।
खर्ज्जूरनारिकेलौ च सप्तैते तृणराजकाः ॥
तृणराजशिरापत्रैर्यः कुर्य्याद्दन्तघावनम् ।
तावद्भवति चाण्डालो यावद्गङ्गां न पश्यति ॥”
तस्य स्थौल्यं परिमाणञ्चाह विष्णुः ।
“कनिन्यग्रसमं स्थौल्यं सकूर्च्चं द्बादशाङ्गुलम् ।
प्रातर्भूत्वा च यतवाक् भक्षयेद्दन्तधावकम् ॥”
मरीचिः ।
“द्वादशाङ्गुलन्तु विप्राणां क्षत्त्रियाणां नवाङ्गुलम् ।
अष्टाङ्गुलञ्च वैश्यानां शूद्राणान्तु षडङ्गुलम् ॥
चतुरङ्गुलमानेन नारीणां विधिरुच्यते ।
अन्तरप्रभवाणाञ्च षडङ्गुलमुदाहृतम् ॥”
इत्याह्निकतत्त्वम् ॥

दन्तकाष्ठकं, क्ली, (ह्रस्वं काष्ठं काष्ठकम् । दन्त-

धावनयोग्यं काष्ठकम् ।) आहुल्यवृक्षः । इति
राजनिर्घण्टः ॥

दन्तच्छदः, पुं, (दन्ताश्छाद्यन्तेऽनेनेति । छद संवरणे

+ णिच् + “पुंसि संज्ञायां घः प्रायेण ।” । ३ । ३ ।
११८ । इति घः । “छादेर्घेऽद्व्युपसर्गस्य ।” ६ ।
४ । ९६ । इति ह्रस्वः ।) ओष्ठः । इति हलायुधः ॥
(यथा, ऋतुसंहारे हेमन्तवर्णनायाम् । १२ ।
“दन्तच्छदैर्दन्तविधातचिह्नैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्द्दयमङ्गनानां
रतोपभोगो नवयौवनानाम् ॥”)

दन्तच्छदोपमा, स्त्री, (दन्तच्छदस्य ओष्ठस्य उपमा

सादृश्यं यत्र । यद्वा, उपमीयतेऽनयेति उपमा ।
दन्तच्छदस्य उपमा सादृश्यस्थलम् ।) विम्बी ।
इति राजनिर्घण्टः ॥

दन्तधावनं, क्ली, (दन्तानां धावनम् ।) दन्त-

मार्ज्जनम् । (दन्तानां धावनं यस्मात् ।) दन्त-
काष्ठम् । यथा, गारुडे २१४ अध्याये ।
“उषःकाले तु सम्प्राप्ते शौचं कृत्वा यथार्थवत् ।
ततः स्नानं प्रकुर्व्वीत दन्तधावनपूर्ब्बकम् ॥
मुखे पय्युषिते नित्यं भवत्यप्रयतो नरः ।
तस्मात् सर्व्वप्रयत्नेन भक्षयेद्दन्तधावनम् ॥
कदम्बविल्वखदिरकरवीरवटार्ज्जुनाः ।
तगरं बृहती जातिकरञ्जार्कातिमुक्तकाः ॥
जम्बूमघूकापामार्गशिरीषोडुम्बराशनाः ।
क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने ॥
कटुतिक्तकषायाश्च धनारोग्यसुखप्रदाः ।
प्रक्षाल्य भुक्त्वा च शुचौ देशे त्यक्त्वा तदाचमेत् ॥
अमावास्यां तथा षष्ठ्यां नवम्यां प्रतिपद्यपि ।
वर्ज्जयेद्दन्तकाष्ठन्तु तथैवार्कस्य वासरे ॥
अभावे दन्तकाष्ठस्य निषिद्धायां तथा तिथौ ।
अपां द्वादशगण्डूषैः कुर्व्वीत मुखशोधनम् ॥”
दन्तशुद्धिः । तस्य विधिर्यथा, --
“प्रातर्भुङ्क्त्वा च मृद्बग्रं कषायकटुतिक्तकम् ।
भक्षयेद्दन्तपवनं दन्तमांसान्यवाधयन् ॥” * ॥
तस्य काष्ठानि यथा, --
“केऽप्यत्र करवीराम्रकरञ्जवकुलाशनान् ।
दन्तकाष्ठार्थमन्ये तु सर्व्वान् कण्टकिनोऽभ्यधुः ॥
खदिरश्च कदम्बश्च करञ्जश्च वटस्तथा ।
तिन्तिडी वेणुपृष्ठञ्च आम्रनिम्बौ तथैव च ॥
अपामार्गश्च विल्वश्च अर्कश्चोडुम्बरस्तथा ।
एते प्रशस्ताः कथिता दन्तधावनकर्म्मणि ॥” * ॥
तस्य निषिद्धकाष्ठानि यथा, --
“गुवाकतालहिन्तालखर्ज्जूरैः केतकीयुतैः ।
नारिकेलेन ताड्या च न कुर्य्याद्दन्तधावनम् ॥” * ॥
तस्य दिग्भेदेन शुभाशुभफलं यथा, --
“मृत्युः स्याद्दक्षिणास्येन पश्चिमास्येन चामयः ।
पूर्ब्बास्येनोत्तरास्येन सम्पदो दन्तधावनात् ॥” * ॥
तस्य तिथिविशेषे निषेधो यथा, --
“प्रतिपद्दर्शषष्ठीषु नवम्येकादशीषु च ।
दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम् ॥” * ॥
दन्तधर्षणानन्तरं चक्षुःसेचनं यथा, --
“दन्तानूर्द्ध्वमधो घृष्ट्वा प्रातः सिञ्चेच्च लोचने ।
तोयपूर्णमुखस्तेन दृष्टिराशु प्रसीदति ॥” * ॥
रोगविशेषे दन्तकाष्ठवर्ज्जनं यथा, --
“अर्द्दिती कर्णशूली च दन्तरोगी नवज्वरी ।
शोषी कासी च मूर्च्छार्त्तो दन्तकाष्ठं विवर्ज-
येत् ॥” * ॥
तस्य गुणा यथा, --
“निहन्ति वक्त्रवैरस्यं जिह्वादन्ताश्रितं मलम् ।
आरोग्यं रुचिमाधत्ते सद्यो दन्तविशोधनम् ॥”
इति राजवल्लभः ॥ * ॥
“कृतशौचस्ततः प्राज्ञः कुर्य्याद्दन्तस्य धावनम् ।
जिह्वाया मार्जनञ्चापि रसालच्छदनादिभिः ॥
दक्षिणाभिमुखो भूत्वा पश्चिमाभिमुखस्तथा ।
न दन्तधावनं कुर्य्यात् कुर्य्याच्चेन्नारकी भवेत् ॥
मध्यमानामिकाभ्याञ्च वृद्धाङ्गुष्ठेन च द्बिजः ।
दन्तस्य धावनं कुर्य्यात् तर्जन्या न कदाचन ॥
अश्वत्थवटविल्वानां धात्र्याः काष्ठिकया बुधः ।
न दन्तधावनं कुर्य्यात्तथेन्द्रसुरसस्य च ॥
नित्यक्रियाफलं प्रेप्सुस्त्वरया दन्तधावनम् ।
प्रभाते कुरुते प्राज्ञः सूर्य्योदयविवर्ज्जिते ॥
सूर्य्योदये द्विजश्रेष्ठ ! यः कुर्य्याद्दन्तधावनम् ।
नित्यक्रियाफलं तस्य सर्व्वमेव विनश्यति ॥
यः स्नानसमये कुर्य्यात् जैमिने ! दन्तधावनम् ।
निराशाः पितरो यान्ति तस्य देवाः सुरर्षयः ॥
दन्तस्य धावनं कुर्य्याद्यो मध्याह्नापराह्णयोः ।
तस्य पुष्पं न गृह्णन्ति देवताः पितरो जलम् ॥
स्नानकाले पुष्करिण्यां यः कुर्य्याद्दन्त धावनम् ।
तावज्ज्ञेयः स चण्डालो यावद्गङ्गां न पश्यति ॥
भगवत्युदिते सूर्य्ये यः कुर्य्याद्दन्त धावनम् ।
तद्दन्तकाष्ठीं पितरो भुक्त्वा गच्छन्ति दुःखिनः ॥
उपवासदिने विप्र ! पितृश्राद्बदिने तथा ।
न ख तत्फलमाप्नोति दन्तधावनकृन्नरः ॥
प्रभाते मार्जयेद्दन्तान् वाससा रसनां तथा ।
कुर्य्याद्द्वादश विप्रेन्द्र ! कललानि जलैर्बधः ॥
उपवासे पितृश्राद्धे विधिनानेन जैमिने ! ।
दन्तधावनकृन्मर्त्यः संपूर्णं लभते फलम् ॥”
इति पाद्मे क्रियायोगसारः ॥
पृष्ठ २/६८३

दन्तधावनः, पुं, (धावयत्यनेनेति । धावि + ल्युट् ।

दन्तानां धावनः ।) खदिरवृक्षः । गुच्छकरञ्जः ।
इति राजनिर्घण्टः ॥ वकुलः । इति शब्द-
चन्द्रिका ॥

दन्तपत्रं, क्ली, (दन्ता इव पत्राणि यस्य ।) कुण्ड-

लम् । इति शब्दरत्नावली ॥ (यथा कुमारे ।
७ । २३ ।
“कर्णावसक्तामलदन्तपत्रं
माता तदीयं मुखमुन्नमय्य ॥”)

दन्तपत्रकं, क्ली, (दन्त इव शुभ्रं पत्रं दलं यस्य ।

कप् ।) कुन्दपुष्पम् । इति शब्दचन्द्रिका ॥

दन्तपुष्पं, क्ली, (दन्त इव शुभ्रं पुष्पमस्य ।) कतक-

फलम् । इति शब्दचन्द्रिका ॥

दन्तफलं, क्ली, (दन्त इव शुक्लं फलमस्य ।) कत-

कम् । इति शब्दचन्द्रिका ॥

दन्तफलः, पुं, (दन्त इव शुक्लं फलमस्य ।) कपित्थः ।

इति राजनिर्घण्टः ॥

दन्तफला, स्त्री, (दन्तवत् शुभ्रं फलं यस्याः ।

टाप् ।) पिप्पली । इति राजनिर्घण्टः ॥

दन्तभागः, पुं, (दन्तसहितो भागः । शाकपार्थि-

वादिवत् समासः ।) गजाग्रभागः । गजस्य
मुखतः स्कन्धपर्य्यन्तो योऽग्रभागः स दन्त-
सहितः । इत्यमरभरतौ ॥

दन्तमलं, क्ली, (दन्तलग्नं दन्तस्य वा मलम् ।)

दन्तलग्नक्लेदः । तत्पर्य्यायः । पुष्पिका २ । इति
हारावली । १९५ ॥

दन्तमूलिका, स्त्री, (दन्त इव शुक्लं मूलमस्याः ।

कप् + टापि अत इत्वञ्च ।) दन्तीवृक्षः । इति
शब्दरत्नावली ॥

दन्तरोगः, पुं, (दन्तस्य रोगः ।) रदनामयः ।

तन्निदानादि दन्तशब्दे द्रष्टव्यम् । तस्यौषधं यथा,
“काकजङ्घाशिग्रुमूले मुखेन विधृते शिव ! ।
चर्व्वित्वा दन्तरोगाणां विनाशो हि भवेद्धर ! ॥”
दन्तरोगाणामित्यत्र दन्तकीटानामिति पुस्तका-
न्तरे पाठः ॥ इति गारुडे १८९ अध्यायः ॥
अपि च गारुडे १९८ अध्याये ।
“शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् ।
शतपुष्पी वचा कुष्ठं दारु शिग्रु रसाञ्जनम् ॥
सौवर्च्चलं यवक्षारं सामुद्रं सैन्धवं तथा ।
भुजग्रन्थि विडं मुस्तं मधु शुक्रं चतुर्गुणम् ॥
मातुलुङ्गरसञ्चैव कदलीरसमेव च ।
तैलमेभिर्विपक्तव्यं कर्णशूलापहं परम् ।
वाधिर्य्य कर्णनादश्च पूयस्रावश्च दारुणः ।
पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः ॥
क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! ।
क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ॥”
अन्यच्च ।
“तैलं लाक्षारसं क्षीरं पृथक् प्रस्थमितं पचेत् ।
द्रव्यैः पलमितैरेतैः क्वाथैश्चापि चतुर्गणैः ॥
लोध्रकट्फलमञ्जिष्ठापद्मकेशरपद्मकैः ।
चन्दनोत्पलयष्ट्याह्वैस्तत्तैलं वदने धृतम् ॥
दालनं दन्तचालञ्च दन्तमोक्षं कपालिकाम् ।
शीतादं पूतिवक्त्रञ्च विरुचिं विरसास्यताम् ॥
हन्यादाशु गदानेतान् कुर्य्याद्दन्तानपि स्थिरान् ।
लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम् ॥
इति लाक्षाद्यं तैलम् ।
जयेद्विस्रावणैः स्विन्नमबलं कृमिदन्तकम् ।
तथा च पीतैर्व्वातघ्नैः स्नेहगण्डूषधारणैः ॥
भद्रदार्व्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः ।
कृमिदन्तापहं कोष्णं हिङ्गुदन्तान्तरे स्थितम् ॥
बृहतीभूमिकदम्बीपञ्चाङ्गुलकण्टकारिकाक्वाथः ।
गण्डूषस्तैलयुतः कृमिदन्तकवेदनाशमकः ॥
नीली वायसजङ्घा कटुतुम्बीमूलमेकैकम् ।
संचूर्ण्य दशनविधृतं दशनकृमिपातनं प्राहुः ॥
स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य च ।
निर्यूहाश्चानिलाघ्नानां दन्तहर्षप्रमर्दनाः ॥
त्रैवृतस्य सर्पिषः त्रिवृता पक्वस्य सर्पिषः कवल
इत्यर्थः ।
स्नैहिकोऽत्र हितो धूमो नस्यं स्नैहिकमेव च ।
पेया रसयवाग्वश्च क्षीरसन्तानिकाघृतम् ॥
शिरोवस्तिहितश्चापि क्रमो यश्चानिलापहः ।
अत्र दन्तहर्षे ।
अच्छिद्रदन्तमूलानि शर्करामुद्धरेद्भिषक् ।
लाक्षाचूर्णैर्म्मधुयुतैस्ततस्तान् प्रतिसारयेत् ॥
दन्तहर्षक्रियां चात्र कुर्य्यान्निरवशेषतः ।
कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता ॥
अत्र दन्तशर्करायाम् । एषा क्रिया दन्तहर्ष-
क्रिया ।
फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् ।
तथातिकठिनं भक्ष्यं दन्तरोगी विवर्ज्जयेत् ॥”
इति भावप्रकाशः ॥

दन्तवस्त्रं, क्ली, (दन्तानां वस्त्रमिवाच्छादकत्वात् ।)

ओष्ठः । इति हेमचन्द्रः । ३ । २४५ ॥

दन्तवासाः [स्] पुं, (दन्तस्य वासो वस्त्रमिवा-

वरकत्वात् ।) ओष्ठः । इति त्रिकाण्डशेषः ॥
(यथा, कुमारे । ५ । ३४ ।
“अपि त्वदावर्ज्जितवारिसम्भृतं
प्रबालमासामनुवन्धि वीरुधाम् ।
चिरोज्जितालक्तकपाटलेन ते
तुलां यदारोहति दन्तवाससा ॥”)

दन्तवीजकः, पुं, (दन्ता इव वीजानि यस्य । ततः

स्वार्थे कन् ।) दाडिमः । इति राजनिर्घण्टः ॥

दन्तशटः, पुं, (दन्तेषु शट इव म्लानिजनकत्वात् ।)

दन्तशठः । इत्यमरटीकायां मथुरानाथः ॥

दन्तशठः, पुं, (दन्तेषु शठ इव ग्लानिकारक-

त्वात् ।) जम्बीरः । कपित्थः । कर्म्मरङ्गकः ।
नागरङ्गकः । इति मेदिनी । ठे, १९ ॥ (यथा,
सुश्रुते । १ । ४६ ।
“ऐरावतं दन्तशठमम्लं शोणितपित्तकृत् ॥”)
अम्लः । इति हेमचन्द्रः । ६ । २४ ॥

दन्तशठा, स्त्री, (दन्तेषु शठा ।) चाङ्गेरी । इति

मेदिनी । ठे, १९ ॥ (यथा, भावप्रकाशे ।
“चाङ्गेरी चुक्रिका दन्तशटाम्बष्ठाम्ललोणिका ॥”)
क्षुद्राम्लिका । इति राजनिर्घण्टः ॥

दन्तशर्करा, स्त्री, (दन्तस्य शर्करेव ।) दन्तरोग-

विशेषः । कफवायुशोषितदन्तगतमलम् । पाथुरि
इति भाषा ॥ (तस्य लक्षणं यथाह माधवकरः ।
“मलो दन्तगतो यस्तु कफमारुतशोषितः ।
शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ॥”
यथा च सुश्रुते निदानस्थाने १६ अध्याये ।
“शर्करेव स्थिरीभूतो मलो दन्तेषु यस्य वै ।
सा दन्तानां गुणघ्नी तु विज्ञेया दन्तशर्करा ॥”)
तस्यौषधम् यथा, --
“गोरक्षकर्कटीमूलं पिष्टं वास्योदकेन च ।
पीतं दिनत्रयेणैव नाशयेत् दन्तशर्कराम् ॥”
इति गारुडे १९० अध्यायः ॥

दन्तशाणः, पुं, (दन्तानां शाण इव । चिक्कणता-

जनकत्वात् ।) निश्चुक्कणम् । इति त्रिकाण्डशेषः ॥
मिषि इति भाषा ॥

दन्तशिरा, स्त्री, (दन्तानां शिरा यत्र ।) माढी ।

इति शब्दरत्नावली ॥

दन्तशूलः, पुं, (दन्तस्य शूल इव । शूलवेधनवद्-

वेदनादायकत्वात् ।) दशनवेदना । तस्यौषधम् ॥
यथा, --
“त्रिफलानिम्बयष्ट्याह्वं कटुकारग्वधैः शृतम् ।
पाययेन्मधुना मिश्रं दन्तशूलोपशान्तये ॥”
इति गारुडे १७४ अध्यायः ॥

दन्तहर्षः, पुं, (दन्तानां हर्षो यस्मात् ।) दन्त-

रोगविशेषः । इति माधवकरः ॥ (अस्य लक्षणं
यथा, सुश्रुते निदानस्थाने १६ अध्याये ।
“दशनाः शीतमुष्णञ्च सहन्ते स्पर्शनं न च ।
यस्य तं दन्तहर्षन्तु व्याधिं विद्यात् समीरणात् ॥”
दन्तग्लानिः । यथा, --
“यस्य वै स्नातमात्रस्य हृदयं पीड्यते भृशम् ।
जायते दन्तहर्षश्च तं गतायुषमादिशेत् ॥”
इति वायुपुराणम् ॥)

दन्तहर्षकः, पुं, (दन्तान् हर्षयतीति । हृष +

णिच् + ण्वुल् ।) जम्बीरः । इति जटाधरः ॥

दन्तहर्षणः, पुं, (दन्तान् हर्षयतीति । हृष +

णिच् + ल्युः ।) जम्बीरः । इति त्रिकाण्डशेषः ॥

दन्ताघातः, पुं, (दन्तानाहन्तीति । आ + हन +

अण् ।) निम्बूकः । इति राजनिर्घण्टः ॥ दशना-
घातः । (यथा, गणेशध्याने ।
“दन्ताघातविदारितारिरुधिरैः सिन्दूरशोभा-
करम् ॥”)
रतिक्रीडायां तस्य स्थानानि दन्तशब्दे द्रष्टव्यानि ॥

दन्तार्ब्बुदं, क्ली, पुं, (दन्तस्य अर्ब्बुदमिव ।) दन्त-

रोगभेदः । तत्पर्य्यायः । दन्तमूलम् २ दन्त-
शोफः ३ द्विजव्रणः ४ । इति राजनिर्घण्टः ॥

दन्तायुधः, पुं, (दन्त एव आयुधं यस्य ।) शूकरः ।

इति त्रिकाण्डशेषः ॥

दन्तालिका, स्त्री, (दन्तान् अलति पर्य्याप्नोतीति ।

अल + ण्वुल् । टापि अत इत्वम् ।) वल्गा ।
इति त्रिकाण्डशेषः ॥

दन्तावलः, पुं, (अतिशयितौ दन्तौ अस्य ।

दन्त + “दन्तशिखात् संज्ञायाम् ।” ५ । २ । ११३ ।
पृष्ठ २/६८४
इति वलच् । “वले ।” ६ । ३ । ११८ । इति
दीर्घः ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥
(यथा, मनुटीकायां कुल्लूकभट्टः । ७ । १०६ ।
“सिंहः प्रबलमतिस्थूलमपि दन्तावलं हन्तुमा-
क्रमति ॥”)

दन्तिका, स्त्री, (दन्ती एव । स्वार्थे कन् टाप् पूर्ब्ब-

ह्रस्वश्च ।) दन्तीवृक्षः । इत्यमरः । २ । ४ । १४४ ॥

दन्तिजा, स्त्री, दन्तिका । इति शब्दरत्नावली ॥

दन्तिनी, स्त्री, (दन्तस्तदाकारो मूलेऽस्त्यस्याः ।

दन्त + इनिः + ङीप् ।) दन्तीवृक्षः । इति राज-
निर्घण्टः ॥

दन्तिमदः, पुं, (दन्तिनी मदः ।) हस्तिमदः । इति

राजनिर्घण्टः ॥

दन्ती, स्त्री, (दाम्यत्यनयेति । दम + “हसि-

मृग्रिण्वेति ।” उणां । ३ । ८६ । इति तन् । ततो
गौरादित्वात् ङीष् ।) स्वनामख्यातवृक्षः । तत्-
पर्य्यायः । शीघ्रा २ श्येनघण्टा ३ निकुम्भी ४
नागस्फोता ५ दन्तिनी ६ उपचित्रा ७ भद्रा ८
रूक्षा ९ रेचनी १० अनुकूला ११ निःशल्या १२
चक्रदन्ती १३ विशल्या १४ मधुपुष्पा १५ एरण्ड-
फला १६ तरुणी १७ एरण्डपत्रिका १८ अणु-
रेवती १९ विशोधनी २० कुम्भी २१ उडुम्बर-
दला २२ । इति राजनिर्घण्टः ॥ निकुम्भः २३ ।
दन्तिका २४ प्रत्यक्पर्णी २५ उदूम्बरपर्णी २६ ।
इत्यमरः । २ । ८ । ३४ ॥ अस्या गुणाः । कटु-
त्वम् । उष्णत्वम् । शूलामत्वग्दोषार्शोव्रणाश्मरी-
शल्यशोधनत्वम् । दीपनत्वञ्च । इति राज-
निर्घण्टः ॥ अष्ठीलिकाध्मानगुल्मोदरनाशित्वम् ।
सारकत्वञ्च । इति राजवल्लभः ॥ अथ लघुदन्ती ।
“लघ्वी दन्ती विशल्या च स्यादुडम्बरपर्ण्यपि ।
अथैरण्डफला शीघ्रा श्येनघण्टा घुणप्रिया ॥
वाराहाङ्गी च कथिता निकुम्भश्च मकूलकः ॥”
अथ बृहद्दन्ती ।
“एरण्डपत्रविठपा द्रवन्ती सम्बरी वृषा ।
चित्रोपचित्रा न्यग्रोधी प्रत्यक्पर्णाखुकर्ण्यपि ॥ * ॥
दन्तीद्वयं सरं पाके रसे च कटु दीपनम् ।
गुदाङ्कुराश्मशूलास्रकण्डूकुष्ठविदाहनुत् ॥
तीक्ष्णोष्णं हन्ति पित्तास्रकफशोथोदरक्रिमीन् ॥
लघुदन्तीफलगुणाः ।
क्षुद्रदन्तीफलं तु स्यान्मघुरं रसपाकयोः ।
शीतलं सृष्टविण्मूत्रगरशोथकफापहम् ॥”
इति भावप्रकाशः ॥

दन्ती, [न्] पुं, (प्रशस्तौ दन्तौ स्तः अस्येति ।

दन्त + इनिः ।) हस्ती । इत्यमरः । २ । ८ । ३४ ॥
(यथा, देवीभागवते । २ । ९ । ४५ ।
“मन्त्रिपुत्त्रः स्थितस्तत्र स्थापयामास दन्तिनः ॥”
स्त्रियां ङीप् । यथा, आर्य्यासप्तशत्याम् । ६५२ ।
“स्नेहक्षतिर्जिगीषा समरः प्राणव्ययावधिः करि-
णाम् ।
न वितनुते कमनर्थं दन्तिनि ! तव यौवनोद्भेदः ॥”)

दन्तीवीजं, क्ली, (दन्त्या इव वीजमस्य ।) जय-

पालः । इति राजनिर्घण्टः ॥

दन्तुरः, त्रि, (उन्नता दन्ताः सन्त्यस्येति । “दन्त

उन्नत उरच् ।” ५ । २ । १०६ । इति उरच् ।)
उन्नतदन्तः । देँतो इति भाषा ॥
“कदाचिद्दन्तुरो मूर्खः कदाचिल्लोमशः सुखी ।
कदाचित् तुन्दिलो दुःखी कदाचिच्चञ्चलासती ॥”
इति सामुद्रकम् ॥
उन्नतानतः । इति मेदिनी । रे, १६६ ॥

दन्तुरच्छदः, पुं, (दन्तुर उन्नतानतश्छदो यस्य ।)

बीजपूरः । इति राजनिर्घण्टः ॥

दन्तोलूखलिकः, त्रि, (दन्त एव उलूखलः ।

सोऽस्त्यस्येति । “अत इनिठनौ ।” ५ । २ । ११५ ।
इति ठन् ।) वानप्रस्थविशेषः । दन्तमात्रेण छित्त्वा
यो भक्षति सः । इति श्रीभागवतम् ॥ (यथा,
मनुः । ६ । १७ ।
“अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा ॥”)

दन्त्यः, त्रि, (दन्तेषु भवः । दन्त + “शरीरावय-

वाच्च ।” ४ । ३ । ५५ । इति यत् ।) दन्तोद्भवः ।
इति व्याकरणम् ॥ (यथा, शिक्षायाम् । १७ ।
“स्युर्मूर्द्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥”
दन्तेभ्योहितः । “शरीरावयवाद्यत् ।” ५ । १ । ६ ।
इति यत् । दन्तहितजनकः । यथा, सुश्रुते ।
१ । ४६ ।
“दन्त्योऽग्निमेधाजननोऽल्पमूत्र-
स्तन्योऽथ केश्योऽनिलहा गुरुश्च ॥”)

दन्दशूकः, पुं, (गर्हितं दशतीति । दन्श + यङ् +

“यजजपदशां यङः ।” ३ । २ । १६६ । इति
ऊकः ।) सर्पः । (यथा, वैद्यकरत्नमालायाम् ।
“चक्षुःश्रवा दन्दशूको गूढपात् पन्नगोरगाः ॥”)
राक्षसः । इति मेदिनी । के, १९३ ॥ (हिंस्रे, त्रि ।
यथा, भट्टिः । १ । २६ ।
“इषुमति रघुसिंहे दन्दशूकान् जिघांसौ
धनुररिभिरसह्यं मुष्टिपीडं दधाने ॥”)

दन्भ, उ न दम्मे । इति कविकल्पद्रुमः ॥ (स्वां-

परं-अकं-सेट् । उदित्त्वात् क्त्वावेट् ।) दम्भः
परवञ्चनहेतुव्यापारः । उ, दम्भित्वा दब्ध्वा । न,
दभ्नोति खलश्छलयति इत्यर्थः । इति दुर्गा-
दासः ॥

दन्भ, क ङ संघाते । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं-सकं-सेट् ।) क ङ, दम्भयते । सङ्घातो
राशीकरणम् । इति दुर्गादासः ॥

दन्श, औ दंशने । इति कविकल्पद्रमः ॥ (भ्वां-

परं-सकं-अनिट् ।) औ, अदाङ्क्षीत् । दशति
विम्बफलं शुकशावकः । दंशनमित्यनुस्वारहीनं
पठित्वा तन्निर्द्देशात् अनटि नकारलोप इत्याहुः ।
अतएव दशनो दन्तः । नाहिर्द्दंशयते कञ्चि-
द्विद्यया गरुडाख्यया । इति हलायुघः । भट्ट-
मल्लमते दंशनमिह सन्नाहः । तेन अदंशयन्न-
वहितशौर्य्यदंशनास्तनूरयं नय इति वृष्णिभू-
भृतः । इति माघः । तनूः कवचवृताश्चक्रुरि-
त्यर्थः । अत्र परस्मैपदं चिन्त्यमिति वल्लभः ।
वस्तुतस्तु दंशं फरोतीति ञौ साध्यम् । इति
दुर्गादासः ॥

दभ, इ क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) इ क, दम्भयति । नोदः
प्रेरणम् । इति दुर्गादासः ॥

दभ, क नोदे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) क, दाभयति । इति दुर्गादासः ॥

दभ्रं, त्रि, (दभ्नोतीति । दन्भ दम्भे + “स्फायि-

तञ्चीति ।” उणां । २ । १३ । इति रक् ।) अल्पम् ।
इत्यमरः । ३ । १ । ६१ ॥ (यथा, निघण्टुः । ३ । २ ।
“ऋहन् । ह्रस्वः । निघृष्वः । मायुकः । प्रतिष्ठा ।
कृधु । वम्रकः । दभ्रम् । अभकः । क्षुल्लकः ।
अल्प इत्येकादशह्रस्वनामानि ॥” यथा, ऋग्वेदे ।
१ । ८१ । २ ।
“असि दभ्रस्य चिद्वृधः ॥”)
समुद्रे, पुं । इत्युणादिकोषः ॥

दम, भ य उ इर् शमे । इति कविकल्पद्रुमः ॥ (दिवां-

परं-अकं-सकञ्च-सेट् । उदित्वात् क्त्वावेट् ।)
भ य, दाम्यति । उ, दमित्वा दान्त्वा । इर्,
अदमत् अदमीत् । अस्मात् पुषादित्वात् नित्यं
ङ इत्यन्ये । शमः शान्तीभावः । दाम्यति मुनिः ।
शम इतिपदस्य ञ्यन्तस्यापि सम्भवे शान्ती-
करणेऽप्ययमिति धातुप्रदीपः । दमित्वाप्यरि-
सङ्घातान् । इति दुर्गादासः ॥

दमः, पुं, (दमनमिति । दम + भावे घञ् । “नो-

दात्तोपदेशस्येति ।” ७ । ३ । ३४ । इति वृद्ध्य-
भावः ।) दण्डः । इत्यमरः । २ । ८ । २१ ॥
दण्डस्य लक्षणं यथा, --
“दमनाद्दण्डनाच्चैव तस्माद्दण्डं विदुर्ब्बुधाः ।
यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः ।
प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥”
इति मत्स्यपुराणम् ॥
(यथा, मनुः । ८ । १९२ ।
“निक्षेपस्यापहर्त्तारं तत्समं दापयेत् दमम् ॥”)
तपःक्लेशसहिष्णुता । तत्पर्य्यायः । दान्तिः २
दमथः ३ । इत्यमरः । ३ । २ । ३ ॥ दमनम् ।
तत्तु वाह्येन्द्रियनिग्रहः । इति वेदान्तसारः ॥
विषयाद्व्यावृत्तस्य मनसो यथेष्टविनियोगयोग्यता ।
इति केचित् ॥ दमस्य लक्षणं यथा, --
“कुत्सितात् कर्म्मणो विप्र ! यच्च चित्तनिवारणम् ।
स कीर्त्तितो दमः प्राज्ञैः समस्ततत्त्वदर्शिभिः ॥”
इति पाद्मे क्रियायोगसारः ॥
(यथा, मनुः । ६ । ९२ ।
“धृतिःक्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
धीर्विद्या सत्यमक्राधा दशकं धर्म्मलक्षणम् ॥”)
कर्द्दमः । इति मेदिनी । मे, १४ ॥ (गृहम् ।
इति निघण्टुः । ३ । ४ ॥ यथा, ऋग्वेदे । १ । ७५ । ५ ।
“अग्ने यक्षि स्वं दमम् ॥”
महर्षिविशेषः । यथा, महाभारते । १३ । २६ । ५ ।
“विश्वामित्रः स्थूलशिराः सम्बर्त्तः प्रमतिर्दमः ॥”
मरुत्तस्य राज्ञः पुत्त्रः । यथा, भागवते । ९ । २ । २९ ।
“मरुत्तस्य दमः पुत्त्रस्तस्यासीद्राजवर्द्धनः ॥”
मरुत्तस्य पौत्त्रः । इति मार्कण्डेयपुराणम् । यथा
तत्रैव । १३४ । १ -- ५ ।
पृष्ठ २/६८५
“एवं स राजा धर्म्मात्मा नरिष्यन्तोऽभवत् पुरा ।
मरुत्ततनयो विप्र ! विख्यातबलपौरुषः ॥”
“नरिष्यन्तस्य तनयो दुष्टारिदमनो दमः ।
शक्रस्येव बलं तस्य दयाशीलं मुनेरिव ॥
वाभ्रव्यामिन्द्रसेनायां स जज्ञे तस्य भूभृतः ।
नववर्षाणि जठरे स्थित्वा मातुर्महायशाः ॥
यद्ग्राहयामास दमं मातरं जठरे स्थितः ।
दमशीलश्च भविता यतश्चायं नृपात्मजः ॥
ततस्त्रिकालविज्ञानः स हि तस्य पुरोहितः ।
दम इत्यकरोत् नाम नरिष्यन्तसुतस्य तु ॥
स दमो राजपुत्त्रस्तु धनुर्व्वेदमशेषतः ।
जगृहे नरराजस्य सकाशाद्वृषपर्व्वणः ॥”
अस्य विशेषविवरणन्तु तत्रैवाध्याये विशेषतो
द्रष्टव्यम् ॥ भीमस्य राज्ञः पुत्त्रविशेषः । यथा,
महाभारते । ३ । ५३ । ९ ।
“कन्यारत्नं कुमारांश्च त्रीनुदारान् महायशाः ।
दमयन्तीं दमं दान्तं दमनञ्च सुवर्च्चसम् ॥”
विष्णुः । यथा, तत्रैव । १३ । १४९ । १०५ ।
“धनुर्धरो धनुर्व्वेदो दान्तो दमयिता दमः ॥”)

दमकः, त्रि, (दमयतीति । दम + णिच् + ण्वुल् ।)

दमनकर्त्ता । इति व्याकरणम् ॥ (यथा मनुः ।
३ । १६२ ।
“हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति ॥”)

दमघोषः, पु, चन्द्रवंशीयराजविशेषः । स चेदि-

देशपतिः शिशुपालपिता च । इति पुराणम् ॥
(यथा, भागवते । ९ । २४ । ३९ ।
“दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् ॥”)

दमघोषसुतः, पुं, (दमघोषस्य सुतः ।) शिशु-

पालः । इति त्रिकाण्डशेषः ॥

दमथः, पुं, (दमु उपशमे + “बाहुलकात् दॄशमि-

दमिभ्यश्च ।” ३ । ११४ । इति अथः । इत्युज्ज्वल-
दत्तः ।) दमः । दण्डः । इत्युणादिकोषः ॥

दमनं, क्ली, (दम + भावे ल्युट् ।) दण्डः । यथा,

“अत्युच्छ्रितस्य दमनमुचितञ्च श्रुतौ श्रुतम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

दमनः, पुं, (दाम्यतीति । दम + ल्युः ।) पुष्प-

विशेषः । दोना इति भाषा । तत्पर्य्यायः ।
पुष्पचामरः २ । इति त्रिकाण्डशेषः ॥ (यथा,
“दमनस्तु वरस्तिक्तो हृद्यो वृष्यः सुगन्धिकः ।
ग्रहणाद्विषकुष्ठास्रक्लेदकण्डूत्रिदोषजित् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
वीरः । उपशान्तः । इति शब्दरत्नावली ॥
कुन्दवृक्षः । इति राजनिर्घण्टः ॥ (ऋषि-
विशेषः । यथा, महाभारते । ३ । ५३ । ६ ।
“तमभ्यच्छत् ब्रह्मर्षिर्दमनो नाम भारत ! ।
तं स भीमः प्रजाकामस्तोषयामास धर्म्मवित् ॥”
अस्य भीमस्य पुत्त्रविशेषः । यथा, तत्रैव । ३ ।
५३ । ९ ।
“कन्यारत्नं कुमारांश्च त्रीनुदारात् महायशाः ।
दमयन्तीं दमं दान्तं दमनञ्च सुवर्च्चसम् ॥”
विष्णुः । यथा, महाभारते । १३ । १४९ । ३४ ।
“मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ॥”
“स्वाधिकारात् प्रमाद्यन्तीः प्रजा दमयितुं शीलं
यस्य वैवस्वतादिरूपेण स दमनः ।” इति
तद्भाष्ये शङ्कराचार्य्यः ॥ महादेवः । यथा,
महाभारते । १३ । १७ । १३६ ।
“महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥”)

दमनकः, पुं, (दमन एव । स्वार्थे कन् ।) वृक्ष-

विशेषः । दोना दति भाषा । तत्पर्य्यायः ।
दमनः २ दान्तः ३ गन्धोत्कटा ४ मुनिः ५
जटिला ६ दण्डी ७ पाण्डुरागः ८ ब्रह्मजटा ९
पुण्डरीकः १० तापसपत्री ११ पत्री १२ पवि-
त्रकः १३ देवशेखरः १४ कुलपत्रः १५ विनीतः १६
तपस्विपत्रः १७ । इति राजनिर्घण्टः ॥ मुनि-
पुत्त्रः १८ तपोधनः १९ गन्धोत्कटः २० ब्रह्म-
जटी २१ कुलपुत्त्रकः २२ । इति भावप्रकाशः ॥
अस्य गुणाः । शीतलत्वम् । तिक्तत्वम् । कषाय-
त्वम् । कटुत्वम् । कुष्ठदोषद्बन्द्बत्रिदोषविष-
विस्फोटविकारहरत्वञ्च । इति राजनिर्घण्टः ॥
हृद्यत्वम् । वृष्यत्वम् । सुगन्धित्वम् । ग्रहण्यस्र-
क्लेदकण्डूनाशित्वञ्च । इति भावप्रकाशः ॥ (क्ली,
षडक्षरच्छन्दोविशेषः । यथा, चिन्तामणिधृत-
वचनम् ।
“द्विगुणनगणमिह वितनु हि ।
दमनकमिति गदति शुचि हि ॥”
एकादशाक्षरच्छन्दोविशेषोऽपि । यथा, तत्रैव ।
“द्विजवरगणयुगममलं तदनु च कलय कर-
तलम् ।
फणिपतिवरपरिगदितं दमनकमिदमति-
ललितम् ॥”)

दमनकारोपणोत्सवः, पुं, (दमनकस्य आरोप-

णार्थं य उत्सवः ।) श्रीकृष्णस्य दमनकार्पणार्थ-
महापूजारूपोत्सवः । यथा, --
“चैत्रस्य शुक्लद्बादश्यां दमनारोपणोत्सवम् ।
विदध्यात्तद्बिधिर्बौधायनाद्युक्तोऽत्र लिख्यते ॥
मधोः सितैकादश्याञ्च प्रातःकृत्यं समाप्य च ।
गत्वा दमनकारामं तत्राशोकं स्मरं यजेत् ॥
तत्र मन्त्रः ।
अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशन ! ।
शीकार्त्तिं हर मे नित्यमानन्दं जनयस्व मे ॥
नेष्यामि कृष्णपूजार्थं त्वां कृष्णप्रीतिकारकम् ।
इति संप्रार्थ्य नत्वा च गृह्णीयाद्दमनं शुभम् ॥
प्रोक्ष्य तत् पञ्चगव्येन प्रक्षाल्याद्भिः प्रपूज्य च ।
वस्त्रेणाच्छाद्य वेदादिघोषेण गृहमानयेत् ॥ * ॥
अथ दमनकाधिवासविधिः ।
कृष्णस्याग्रे समुद्धृत्य सर्व्वतोभद्रमण्डलम् ।
निघाय दमनं तत्र रात्रौ तदधिवासयेत् ॥
तत्र मन्त्रः ।
पूजार्थं देवदेवस्य विष्णोर्लक्ष्मीपतेः प्रभोः ।
दमन ! त्वमिहागच्छ सान्निध्यं कुरुते नमः ॥ इति
सबीजं कामदेवञ्च तथा भस्मशरीरकम् ।
अनङ्गं मन्मथञ्चैव वसन्तसखमेव च ॥
स्मरं तथेक्षुचापञ्च पुष्पबाणञ्च पूजयेत् ।
प्रागादिदिक्षु रत्याढ्यं विधिवद्दमने क्रमात् ॥
अष्टोत्तरशतं कामगायत्त्र्या चाभिमन्त्र्य तत् ।
दत्त्वा पुष्पाञ्जलिं कामदेवं वन्देत मन्त्रवत् ॥
मन्त्रश्चायम् ।
नमोऽस्तु पुष्पबाणाय जगदाह्लादकारिणे ।
मन्मथाय जगन्नेत्रे रतिप्रीतिप्रदायिने ॥ इति ॥
आमन्त्रितोऽसि देवेश ! पुराणपुरुषोत्तम ! ।
प्रातस्त्वां पूजयिष्यामि सान्निध्यं कुरु केशव ! ॥
निवेदयाम्यहं तुभ्यं प्रातर्द्दमनकं शुभम् ।
सर्व्वथा सर्व्वदा विष्णो ! नमस्तेऽस्तु प्रसीद मे ॥
इत्थमामन्त्र्य देवेशं दत्त्वा पुष्पाञ्जलिं पुनः ।
गोतनृत्यादिना रात्रौ कुर्य्याज्जागरणं मुदा ॥ * ॥
अथ दमनकार्पणविधिः ।
प्रातःस्नानादि निर्व्वर्त्य नित्यपूजां विधाय च ।
दमनारोपणार्थञ्च महापूजां समाचरेत् ॥
ततो दमनकं भक्त्या पाणिभ्यां परिगृह्य च ।
घण्टादिवाद्यघोषेण श्रीकृष्णाय समर्पयेत् ॥
तत्र मन्त्रः ।
देवदेव जगन्नाथ वाञ्छितार्थप्रदायक ! ।
कृत्स्नान् पूरय मे कृष्ण कामान् कामेश्वरीप्रिय ! ॥
इदं दमनकं देव गृहाण मदनुग्रहात् ।
इमां सांवत्सरीं पूजां भगवन्निह पूरय ॥ इति ॥
ततो दामनकीं मालां गन्धादीनि समर्प्य च ।
गीतादिनोत्सवं कृत्वा श्रीकृष्णं प्रार्थयेदिदम् ॥
मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः ।
इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ! ॥
वनमालां यथा देव ! कौस्तुभं सततं हृदि ।
तद्बद्दामनकीं मालां पूजाञ्च हृदये वहेत्यादि ॥
भगवन्तं प्रणम्याथ गुरुं संपूज्य भक्तितः ।
संपूज्य ब्राह्मणान् शक्त्या भूञ्जीत सह बन्धुभिः ॥
पारणाहे न लभ्येत द्वादशी घटिकापि चेत् ।
तदा त्रयोदशी ग्राह्या पवित्रा दमनार्पणे ॥
न कृष्णे दमनारोपः स्यान्मधौ विघ्नतो यदि ।
वैशाख्यां श्रावणे मासि कर्त्तव्यं वा तदर्पणम् ॥
अतएवोक्तं ब्रह्मणा देवीपुराणे ।
चैत्रादौ कारयेत् पूजां सम्यग्वत्स ! यथाविधि ॥
गन्धधूपार्घ्यनैवेद्यैर्म्माल्यैर्द्दमनकोद्भवैः ।
सहोमं पूजयेद्देवं सर्व्वान् कामानवाप्नुयात् ॥
सर्व्वतीर्थाभिषेकस्य फलं प्राप्नोति मानवः ॥”
इति श्रीहरिभक्तिविलासे १४ विलासः ॥

दमनी, स्त्री, (दम्यतेऽग्निरनया । दम + ल्युट् ।

स्त्रियां ङीप् ।) अग्निदमनीवृक्षः । इति राज-
निर्घण्टः ॥

दमयन्ती, स्त्री, (दमयति नाशयति अमङ्गलादिक-

मिति । दम + णिच् + शतृ + ङीप् ।) भद्र-
मल्लिका । इति शब्दमाला ॥ नलराजपत्नी ।
सा विदर्भदेशीयभीमराजकन्या । (यथा, महा-
भारते । ३ । ५३ । ५-९ ।
“तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः ।
शूरः सर्व्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ॥
स प्रजार्थे परं यत्नमकरोत् सुसमाहितः ।
तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ! ॥
तं स भीमः प्रजाकामस्तोषयामास धर्म्मवित् ।
पृष्ठ २/६८६
महिष्या सह राजेन्द्र ! सत्कारेण सुवर्च्चसम् ॥
तस्मै प्रसन्नो दमनः सभार्य्याय वरं ददौ ।
कन्यारत्नं कुमारांश्च त्रीनुदारान् महायशाः ॥
दमयन्तीं दमं दान्तं दमनञ्च सुवर्च्चसम् ।
उपपन्नान् गुणैः सर्व्वैर्भीमान् भीमपराक्रमान् ॥
दमयन्ती तु रूपेण तेजसा यशसा श्रिया ।
सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥”
अस्या विशेषविवरणन्तु तमेवाध्यायमारभ्य
विस्तरशो द्रष्ठव्यम् ॥)

दमितः, त्रि, (दम्यते स्म इति । दम + क्तः ।

“वा दान्तशान्तेति ।” ७ । २ । २७ । इति
पक्षे इट् ।) दान्तः । इत्यमरः । ३ । १ । ९७ ॥
(यथा, हरिवंशे । ६७ । ५६ ।
“यथेयं सरिदम्भोदा भवेच्छिवजलाशया ।
व्रजोपभोग्या च यथा नागे वै दमिते मया ॥”)
क्लेशसहमात्रम् । इति भरतः ॥ भारवाहनादि-
क्लेशसहः । इति सुभूतिः ॥

दमी, [न्] त्रि, (दमोऽस्यास्तीति । दम + इनिः ।)

दमनविशिष्टः । (तीर्थविशेषे, क्ली । तत्प्रव-
र्त्तक-ऋषिभेदे, पुं, । यथा, महाभारते । ३ । ८२ ।
७१ -- ७४ ।
“प्रदक्षिणमुपावृत्य गच्छेत भरतर्षभ ! ।
तीर्थं कुरुवरश्रेष्ठ ! त्रिषु लोकेषु विश्रुतम् ॥
दमीति नाम्ना विख्यातं सर्व्वपापप्रमोचनम् ।
यत्र ब्रह्मादयो देवा उपासन्ते महेश्वरम् ॥
तत्र स्नात्वार्च्चयित्वा च रुद्रं देवगणैर्वृतम् ।
जन्मप्रभृति यत् पापं तत् स्नातस्य प्रणश्यति ॥
दमी चात्र नरश्रेष्ठ ! सर्व्वदेवैरभिष्टुतः ।
तत्र स्नात्वा नरश्रेष्ठ ! हयमेधमवाप्नुयात् ॥”
दमीत्यत्र द्रिमीति क्वचित् पाठः ॥)

दमुनाः, [स्] पुं, (दाम्यतीति । अन्तर्भूतण्यर्थात्

दमधातोः + “दमेरुनसिः ।” उणां । ४ । २३४ ।
इति उनसिः ।) अग्निः । इत्यमरः । १ । १ । ५९ ॥
शुक्राचार्य्यः । इत्युणादिकोषः ॥

दमूनाः, [स्] पुं, (दमुनस् + अन्येषामपि दृश्यते

इति पत्त्रे दीर्घः । यद्वा, दमेरूनसिरिति पठित्वा
ऊनसिप्रत्ययः ।) अग्निः । इति शब्दरत्नावली ॥
(त्रि, दमनीयः । यथा, ऋग्वेदे । १ । १४१ । ११ ।
“अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न
पपृचासि धर्णसिम् ॥”
दानमनाः । दान्तचित्तः । यथा, तत्रैव । ५ । ४ । ५ ।
“जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञ-
मुपयाहि विद्वान् ॥”)

दम्पती, पुं, (जाया च पतिश्च । राजदन्तादिगणे

पाठात् जायाया दम्भावो वा निपात्यते ।)
भार्य्यापती । इत्यमरः । २ । ६ । ३८ ॥ (यथा,
मनुः । ३ । ११६ ।
भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि ।
भुञ्जोयातां ततः पश्चादवशिष्टन्तु दम्पती ॥”)

दम्भः, पुं, (दभ्यते इति । दम्भ दम्भे + घञ् ।)

कपटः । (यथा, पञ्चतन्त्रे । १ । २२२ ।
“मुगुप्तस्यापि दम्भस्य ब्रह्माप्यन्तं न गच्छति ॥”
अयन्तु अधर्म्मात् मृषागर्भे संजोतः । यथा,
भागवते । ४ । ८ । २ ।
“मृषाऽधर्म्मस्य भार्य्यासीद्दम्भं मायाञ्च शत्रुहन् ! ।
असूत मिथुनं तत्तु निरृतिर्जगृहेऽप्रजाः ॥”)
कल्कम् । शाटोपाहङ्कतिः । इति शब्दरत्ना-
वली ॥ (यथा, गीतायाम् । १६ । १७ ।
“आत्मसम्भाविता स्तब्धा धनमानमदान्विताः ।
यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्ब्बकम् ॥”
धर्म्मानुत्साहः । यथा, मनुः । ४ । १६३ ।
“नास्तिक्यं वेदनिन्दाञ्च देवतानाञ्च कुत्सनम् ।
द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्ण्यञ्च वर्जयेत् ॥”
महादेवः । यथा, महाभारते । १३ । १७ । ७८ ।
“दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ॥”)

दम्भोलिः, पुं, (दम्भ नोदे + भावे असुन् । दम्भसि

प्रेरणे अलति पर्य्याप्नोतीति । अल + इन् ।)
वज्रम् । इत्यमरः । १ । १ । ५० ॥

दम्यः, पुं, (दम्यते इति । दम + यत् ।) वत्स-

तरः । स तु प्राप्तदमनकालो गौः । इत्यमरः ।
२ । ९ । ६२ ॥ अनड्वान् । इति राजनिर्घण्टः ॥
(यथा, महाभारते । १३ । ६६ । ४ ।
“शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥”)
दमनीये, त्रि ॥

दय, ञि ङ ग्रहणे । गतौ । वधे । दाने । अवने ।

इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं-सकं-सेट् ।)
अवनं पालनम् । ञि, दयितोऽस्ति । ङ दयते
दीनं दयालुः । तेषां दयसे न कस्मात् । अत्र
कर्म्मणि षष्ठी । इति दुर्गादासः ॥

दयः, पुं, (दय + बाहुलकात् अप ।) दया । इति

शब्दरत्नावली ॥

दया, स्त्री, (दय + भिदाद्यङ् । ततष्टाप् ।) करुणा ।

अस्या लक्षणं यथा, पाद्मे क्रियायोगसारे ।
“यत्नादपि परक्लेशं हर्त्तुं या हृदि जायते ।
इच्छा भूमिसुरश्रेष्ठ ! सा दया परिकीर्त्तिता ॥”
अपि च मत्स्यपुराणे ।
“आत्मवत् सर्ब्बभूतेषु यो हिताय शुभाय च ।
वर्त्तते सततं हृष्टः क्रिया ह्येषा दया स्मृता ॥” * ॥
“परे वा बन्धुवर्गे वा मित्रे द्बेष्टरि वा सदा ।
आत्मवद्वर्त्तितव्यं हि दयैषा परिकीर्त्तिता ॥”
इत्येकादशीतत्त्वम् ॥
(इयं हि शक्तीनामन्यतमा । यथा, देवीभाग-
वते । १ । १५ । ६० ।
“श्रद्धा मेधा स्वधा स्वाहा क्षुधा निद्रा दया
गतिः ।
“संस्थिताः सर्व्वतः पार्श्वे महादेव्याः पृथक्
पृथक् ॥”)

दयाकूर्च्यः, पुं, (दयायां कूर्च्यः शीर्षमिव प्रधानम् ।)

बुद्धः । इति हेमचन्द्रः । २ । १४८ ॥

दयालुः, त्रि, (दयते इति । दय + “स्पृहिगृहीति ।”

३ । २ । १५८ । इति आलुच् ।) दयायुक्तः ।
तत्पर्य्यायः । कारुणिकः २ कृपालुः ३ सूरतः
४ । इत्यमरः । ३ । १ । १५ ॥ (यथा, रघुः । १० । १९ ।
“दयालुमनघस्पृ ष्टं पुराणमजरं विदुः ॥”)

दयितं त्रि, (दय्यते स्मेति । दय + क्तः ।) प्रियम् ।

इत्यमरः । ३ । १ । ५३ ॥ (यथा, आर्य्यासप्त-
शत्याम् । २८८ ।
“दृष्टमदृष्टप्रायं दयितं कृत्वा प्रकाशितन्त्वनया ।
हृदयं करेण ताडितमथ मिथ्याव्यञ्जितत्रपया ॥”
यथा च पञ्चतन्त्रे । २ । १८९ ।
“दयितजनविप्रयोगो वित्तवियोगश्च केन सह्याः
स्युः ।
यदि सुमहौषघकल्पो वयस्यजनसङ्गमो न
स्यात् ॥”)

दयितः, पुं, (दय + क्तः ।) पतिः । इति जटा-

धरः ॥

दयिता, स्त्री, (दयित + टाप् ।) भार्य्या । इति

हलायुधः ॥ (यथा, रघुः । २ । ३ ।
“निवर्त्त्य राजा दयितां दयालु-
स्तां सौरभेयीं सुरभिर्यशोभिः ॥”)

दर, व्य, (दीर्य्यते इति । दॄ + अप् ।) ईषदर्थः ।

इति मेदिनी । रे, ४७ ॥ (यथा, आर्य्यासप्त-
शत्याम् । ३०० ।
“दरतरलेऽक्षिणि वक्षसि दरोन्नते तव मुखे च
दरहसिते ।
आस्तां कुसुमं वीरः स्मरोऽधुना चित्रधनु-
षापि ॥”
“अक्षिणि नेत्रे ईषच्चञ्चले सति । तवेषदुन्नमिते
वक्षसि मुखे च किञ्चिद्धसितवति सति ।” इति
तट्टीका ॥)

दरं, क्ली, शङ्खः । यथा । विष्णुं वन्दे दरकमल-

कौमोदकीचक्रपाणिमिति क्रमदीपिका ॥

दरः, पुं क्ली, (दीर्य्यते वक्षोऽनेन । दॄ + “ग्रहवृदॄ-

निश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।)
भयम् । (यथा, आर्य्यासप्तशत्याम् । २९५ ।
“दरनिद्राणस्यापि स्मरस्य शिल्पेन निर्गता-
सून् मे ।
मुग्धे ! तव दृष्टिरसावर्ज्जुनयन्त्रेषुरिव हन्ति ॥”)
गर्त्तः । इत्यमरः । ३ । ३ । १८४ ॥ (शङ्खः ।
यथा, भागवते । १ । ११ । २ ।
“स उच्चकाशे धवलोदरो दरो-
ऽप्युरुक्रमस्याधरशोणशोणिमा ।
दाध्मायमानः करकञ्जसंपुटे
यथाब्जषण्डे कलहंस उत्स्वनः ॥”)
कन्दरे, पुं स्त्री । इत्यमरटीकायां भरतः ॥
(स्त्रियां ङीप् । यथा, ऋतुसंहारे । १ । २५ ।
“ध्वनति पवनविद्धः पर्व्वतानां दरीषु
स्फुटति पटुनिनादः शुष्कवंशस्थलीषु ॥”)

दरकण्टिका, स्त्री, (दर ईषत् कण्टो यस्याः

कप् । टापि अत इत्वम् ।) शतावरी । इति
राजनिर्घण्टः ॥

दरणिः, पुं, (दॄ विदारणे + “दृणातेरप्यनिः ।” २ ।

१०३ । इति उज्ज्वलदत्तोक्त्या अनिः ।) कूल-
भङ्गः । भाङ्गन इति भाषा । तत्पर्य्यायः ।
कूलहण्डः २ । इति शब्दरत्नावली ॥ कूल-
तण्डुलः ३ । इति भूरिप्रयोगः ॥
पृष्ठ २/६८७

दरत्, [द्] स्त्री, (दृणातीति । दॄ विदारणे +

“शॄदभसोऽदिः ।” उणां । १ । १२९ । इति
अदिः ।) प्रपातः । भयम् । पर्व्वतः । इति
मेदिनी । दे, ३० ॥ म्लेच्छजातिः । इति
लिङ्गादिसंग्रहे अमरः ॥ (देशविशेषः । यथा,
राजतरङ्गिण्याम् । १५७ ।
“दरत्तुरस्काधिपयोर्यः केशरिवराहयोः ।
हिमवद्बिन्ध्ययोरासीदार्य्यावर्त्त इवान्तरे ॥”)
हृत् । तीरम् । इति सिद्धान्तकौमुद्यामुणादि-
वृत्तिः ॥

दरदं, क्ली, (दर ईषत् दायति शुध्यतीति । दै +

कः ।) हिङ्गुलम् । इति राजनिर्घण्टः ॥ (क्वचित्
पुंलिङ्गेऽपि दृश्यते । अस्य पर्य्यायो यथा, --
“रक्तं मर्कटशीर्षञ्च हिङ्गुलं दरदो रसः ॥”
इति वैद्यकरत्नमालायाम् ॥
पर्य्यायान्तरं यथा, --
“हिङ्गुलन्दरदं म्लेच्छं चित्राङ्गञ्चूणपारदम् ।
दरदस्त्रिविधः प्रोक्तश्चर्म्मारः शुकतुण्डकः ॥
हंसपादस्तृतीयः स्याद्गुणवानुत्तरोत्तरम् ।
चर्म्मारः शुक्लवर्णः स्यात् सपीतः शुकतुण्डकः ॥
जवाकुसुमसङ्काशो हंसपादो महोत्तमः ॥”
इति भावप्रकाशस्य पूर्ब्बस्वण्डे प्रथमे भागे ॥
“दरदं तण्डुस्थूलं कृत्वा मृत्पात्रके त्रिदिनम् ।
भार्ञ्च जम्बीररसैश्चाङ्गेर्य्या वा रसैर्बहुधा ॥
ततश्च जम्बीरवारिणा चाङ्गेर्य्या रसेन परिप्लुतम् ।
कृत्वा स्थालीमध्ये निधाय तदुपरिकठिनीघृष्टम् ॥
चारु शरावं तत्र त्रिंशद्वारं जलं देयं उष्णे हेयं
तथैव तदूर्द्ध्वपातनेन निर्म्मलं शिवजः ॥”
“हिङ्गुले हिङ्गुलुर्याति दरदः शुकतुण्डकः ।
रसगन्धकसम्भूतो हिङ्गुलो दैत्यरक्तकः ॥
अम्लवर्गद्रवैः पिष्ट्वा दरदो माहिषेण च ।
दुग्धेन सप्तधा पिष्टः शुष्कीभूतो विशुध्यति ॥
अन्यच्च ।
मेषीदुग्धेन दरदमम्लवर्गैर्विभावितम् ।
सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥
अन्यमतम् ।
दरदं दोलिकायन्त्रे पक्वं जम्बीरजैर्द्रवैः ।
सप्तवारमजामूत्रैर्भावितं शुद्धिमेति हि ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥)

दरदः, पुं, (दरं भयं ददातीति । दा + कः ।) देश-

विशेषः । भयम् । म्लेच्छजातिभेदः । इति
शब्दरत्नावली ॥ (अयन्तु पूर्ब्बं क्षत्त्रिय आसीत्
पश्चात् क्रमशः उपनयनादिक्रियालोपात् शूद्र-
त्वादिकं प्राप्तः । यदुक्तं मनौ । १० । ४३-४४ ।
“शनकैस्तु क्रियालोपादिमाः क्षत्त्रियजातयः ।
वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥
पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा जवनाः शकाः ।
पारदा पह्नवाश्चीनाः किराता दरदाः खशाः ॥”)

दरिः, स्त्री, (दॄ + इन् ।) दरी । इति शब्द-

रत्नावली ॥ (तक्षककुलोत्पन्ने सर्पे, पुं । इति
महाभारतम् ॥)

दरितः, त्रि, (दरो भयमस्य सञ्जातः । दर +

तारकादित्वात् इतच् ।) भीतः । इति हेम-
चन्द्रः । ३ । २९ ॥

दरिद्रः, पुं, (दरिद्राति दुर्गच्छतीति । दरिद्रा +

अच् ।) निर्धनः । तत्पर्य्यायः । निस्वः २
दुर्विधः ३ दीनः ४ दुर्गतः ५ । इत्यमरः । ३ । १ ।
४९ ॥ कीकटः ६ दुस्थः ७ । इति जटाधरः ॥
अस्तमितः ८ । इति दानधर्म्मः । तस्य कारणं
यथा, --
“अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ।
अदत्त्वा हेमधेनूश्च दरिद्रो जायते नरः ॥”
इति पाद्मे भूखण्डम् ॥
“दरिद्रो यस्त्वसन्तुष्टः कृपणो योऽजितेन्द्रियः ॥”
इति श्रीभागवतम् ॥

दरिद्रा, क्ष लु दुर्गत्याम् । इति कविकल्पद्रुमः ॥

(अदां-परं-अकं-सेट् ।) दुर्गतिरकिञ्चनीभावः ।
क्ष लु, उपर्य्युपरि पश्यन्तः सर्व्व एव दरिद्रति ।
इति दुर्गादासः ॥

दरिद्रायकः, त्रि, (दरिद्रातीति । दरिद्रा + ण्वुल् ।)

दरिद्रः । इति मुग्धबोधम् ॥

दरिद्रितः, त्रि, (दरिद्रा + कर्त्तरि क्तः ।) दरिद्रः ।

दारिद्र्ययुक्तः ॥

दरिद्रिता, [ऋ] त्रि, (दरिद्रा + तृच् ।) दरि-

द्रायकः । दरिद्राधातोः कर्त्तरि तृन्प्रत्ययः ॥

दरोदरं, क्ली, (दरो भयं तज्जनकं उदरं यस्य ।

प्रायशः सर्व्वग्रासकत्वादेवास्य तथात्वम् ।)
दुरोदरम् । इत्यमरटीकायां भरतः ॥

दरोदरः, पुं, (दरजनकमुदरं यस्य ।) दुरोदरः ।

इत्यमरटीकायां भरतः ॥ (यथा, उणादि-
सूत्रटीकायां उज्ज्वलदत्तधृतगोवर्द्दनः । ५ । १९ ।
“आश्रित्य दुर्गं गिरिकंदरोदरं
क्रीडन्त्यमुस्मिन् सततं दरोदरम् ॥”)

दर्द्दरः, पुं, पर्व्वतः । (यथा, रामायणे । २ ।

९१ । २४ ।
“मलयं दर्द्दरञ्चैव ततः स्वेदनुदो निलः ॥”
क्वचित् दर्दुरोऽपि पाठः ॥) ईषद्भग्नभाजने,
त्रि । इति मेदिनी । रे, १६६ ॥

दर्द्दराम्रः, पुं, व्यञ्जनविशेषः । तत्पर्य्यायः । मीना-

म्रीणः २ । इति शब्दमाला ॥

दर्द्दरीकं, क्ली, (दारयतीव कर्णौ । दॄ + णिच् +

“फर्फरीकादयश्च ।” उणां । ४ । २० । इति
ईकन्प्रत्ययेन साधुः ।) वाद्यम् । इत्युणादि-
कोषः ॥

दर्द्दरीकः, पुं, (दारयतीव कर्णौ इति । दॄ +

णिच् + “फर्फरीकादयश्च ।” उणां । ४ । २० ।
इति ईकन्प्रत्ययेन साधुः ।) मेघः । वाद्यभेदः ।
भेकः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

दर्द्दुरं, क्ली, ग्रामजालम् । इति मेदिनी । रे, १६७ ॥

दर्द्दुरः, पुं, (दृणाति कर्णौ शब्देनेति । दॄ +

“मकुरदर्द्दुरौ ।” उणां । १ । ४१ । इति उरच्
प्रत्ययेन निपातनात् साधुः ।) भेकः । इत्यमरः ।
१ । १० । २४ ॥ (यथा, --
“भद्रं कृतं कृतं मौनं कोकिलैर्जलदागमे ।
दर्द्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् ॥”
इत्युद्भटः ॥)
मेघः । वाद्यभाण्डभेदः । पर्व्वतविशेषः । इति
मेदिनी । रे, १६७ ॥ (यथा, रघौ । ४ । ५१ ।
“स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ ।
स्तनाविव दिशस्तस्याः शैलौ मलयदर्द्दुरौ ॥”)
राक्षसः । इति संक्षिप्तसारे उणादिवृत्तिः ॥
(अभ्रकधातुभेदः । यथा, भावप्रकाशे ।
“पिनाकं दर्द्दुरं नागं वज्रञ्चेति चतुर्व्विधम् ॥”
“दर्द्दरं स्वग्निनिक्षिप्तं कुरुते दर्द्दुरध्वनिम् ।
गोलकान् बहुशः कृत्वा स स्यान्मृत्युप्रदायकः ॥”)

दर्द्दुरा, स्त्री, (दृणाति दारयति वा असुरानिति ।

दॄ + उरच् प्रत्ययेन निपातनात् साधुः । तत-
ष्टाप् ।) चण्डिका । इति मेदिनी । रे, १६७ ॥

दर्द्दूः, पुं, (दरिद्राति दुर्गच्छत्यङ्गमनेनेति । दरिद्रा +

“दरिद्राते र्यालोपः ।” उणां । १ । ९० । इति ऊः ।
रकारेकारयकाराणां लोपश्च ।) दद्रुरोगः ।
इति शब्दरत्नावली ॥

दर्द्रुः, पुं, (दरिद्रा + बाहुलकात् उः । र्यालोपश्च ।)

दद्रुरोगः । इत्युणादिकोषः ॥

दर्द्रुघ्नः, पुं, (दर्द्रुं हन्तीति । दर्द्रु + हन् + टक् ।)

चक्रमर्द्दकः । इति शब्दरत्नावली ॥

दर्द्रुणः, त्रि, (दर्द्रुरस्यास्तीति । दर्द्रु + “लोमादि-

पामादिपिच्छिलादिभ्यः शनेलचः ।” ५ । २ । १०० ।
इति पामादिषु पाठात् नः । ततो णत्वञ्च ।)
दद्रुरोगी । इत्यमरटीकायां भरतः ॥

दर्द्रूः, पुं, (दरिद्रा + ऊः । र्यालोपश्च ।) दद्रुरोगः ।

इत्युणादिकोषः ॥

दर्द्रूणः, त्रि, (दर्द्रूरस्यास्तीति । दर्द्रू + नः ।) दद्रु-

रोगी । इत्यमरटीकायां भरतः ॥

दर्द्रूरोगी, [न्] त्रि, (दर्द्रूरोगोऽस्यास्तीति । दर्द्रू-

रोग + इनिः ।) दद्रुरोगी । इत्यमरटीकायां
भरतः ॥

दर्पः, पुं, (दृप्यते इति । दृप् + भावे घञ् ।)

उच्छृङ्खलत्वम् । इति नीलकण्ठः । कस्तूरी ।
इति मेदिनी । पे, ७ ॥ उष्मा । इति त्रिकाण्ड-
शेषः ॥ अहङ्कृतिः । तत्पर्य्यायः । गर्व्वः २ अह-
ङ्कारः ३ अवलिप्तता ४ अभिमानः ५ ममता ६
मानः ७ चित्तोन्नतिः ८ स्मयः ९ । इति हेम-
चन्द्रः । २ । २३१ ॥ * ॥
“अहङ्कारश्च सर्व्वेषां पापबीजममङ्गलम् ।
ब्रह्माण्डेषु च सर्व्वेषां गर्व्वपर्य्यन्तमुन्नतिः ॥
येषां येषां भवेद्दर्पो ब्रह्माण्डेषु परात्परे ।
विज्ञाय सर्व्वं सर्व्वात्मा तेषां शास्ताहमेव च ॥
क्षुद्राणां महताञ्चैव येषां गर्व्वो भवेत् प्रिये ! ।
एवंविधमहं तेषां चूर्णीभूतं करोमि च ॥
चकार दर्पभङ्गञ्च महाविष्णोः पुरा विभुः ।
ब्रह्मणश्च तथा विष्णोः शेषस्य च शिवस्य च ॥
धर्म्मस्य च यमस्यापि शाम्बस्य चन्द्रसूर्य्ययोः ।
गरुडस्य च वह्नेश्च गुरोर्दूर्व्वाससस्तथा ॥
दौवारिकस्य भक्तस्य जयस्य विजयस्य च ।
पृष्ठ २/६८८
सुराणामसुराणाञ्च भवतः कामशक्रयोः ॥
लक्ष्मणस्यार्ज्जुनस्यापि बाणस्य च भृगोस्तथा ।
सुमेरोश्च समुद्राणां वायोश्च वरुणस्य च ॥
सरस्वत्याश्च दुर्गायाः पद्मायाश्च भुवस्तथा ।
सावित्र्याश्चैव गङ्गाया मनसायास्तथैव च ॥
प्राणाधिष्ठातृदेव्याश्च प्रियायाः प्राणतोऽपि च ।
प्राणाधिकाया राधाया अन्येषामपि का कथा ।
हत्वा दर्पञ्च सर्व्वेषां प्रसादञ्च चकार सः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

दर्पकः, पुं, (दर्पयति हर्षयति मोहयति वेति ।

दृप हर्षमोहनयोः + णिच् + ण्वुल् ।) काम-
देवः । इत्यमरः । १ । १ । २३ ॥

दर्पणं, क्ली, (दर्पयति सन्दीपयतीति । दृप् +

णिच् + ल्युः) चक्षुः । इति जटाधरः ॥ (भावे
ल्युट् ।) सन्दीपनम् । इति दृपधात्वर्थदर्शनात् ॥

दर्पणः, पुं, क्ली, (दर्पयति सन्दीपयतीति । दृप् +

णिच् + “नन्दिग्रहीति ।” ३ । १ । १३४ । इति
ल्युः ।) रूपदर्शनाधारः । आर्शि इति भाषा ।
तत्पर्य्यायः । मुकुरः २ आदर्शः ३ । इत्यमरः ।
२ । ७ । १४० ॥ आत्मदर्शः ४ नन्दरः ५
दर्शनम् ६ प्रतिविम्बातम् ७ । इति शब्दरत्ना-
वली ॥ कर्कः ८ कर्करः ९ । दति जटाधरः ॥
(यथा, चाणक्ये । १०९ ।
“यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् ।
लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥”)
अस्य गुणः । आयुःश्रीकारित्वम् । पापनाशि-
त्वञ्च । इति राजवल्लभः ॥ पुं, पर्व्वतभेदः । नद-
विशेषः । यथा, --
और्व्व उवाच ।
“ततः पूर्ब्बं महाराज ! दर्पणो नाम पर्व्वतः ।
कुवेरो यत्र वसति धनपालैः समं सदा ।
यस्मिन्नास्ते मध्यभागे रोहिणो रोहिताकृतिः ।
यस्मिँल्लोहादिकं स्पृष्टं स्वर्णतां याति तत्क्षणात् ॥
यन्नातिदूरे स्रवति दर्पणो नाम वै नदः ।
हिमाद्रिप्रभवो नित्यं लौहित्यसदृशः फले ॥
समुत्पन्नं हि लौहित्यं सर्व्वैर्देवगणैर्हरिः ।
सर्व्वतीर्थोदकैः सम्यक् स्नापयामास तं सुतम् ॥
तस्य स्नानसमुद्भूतः पापदर्पस्य पाटनः ।
तेनायं दर्पणो नाम पुरा देवगणैः कृतः ॥
तस्मिन् स्नात्वा नदवरे योऽर्च्चयेद्दर्पणाचले ।
कुवेरं प्रतिपत्तिथ्यां कार्त्तिके शुक्लपक्षतः ॥
स याति ब्रह्मसदनमिह भूतिशतैर्युतः ॥”
इति कालिकापुराणे ८१ अध्यायः ॥

दर्पारम्भः, पुं, (दर्पस्य आरम्भः) अहङ्कारा-

रम्भः । तत्पर्य्यायः । मटस्फटिः २ । इति
जटाधरः ॥

दर्भः, पुं, (दृणाति विदारयतीति । “दॄदलिभ्यां

भः ।” उणां ३ । १५१ । इति भः ।) कुशः ।
इत्यमरः । २ । ४ । १६६ ॥ उलपतृणम् । इति रत्न-
माला ॥ काशः । इति शब्दरत्नावली ॥ * ॥
(“कुशो दर्भस्तथा बर्हिः सूच्यग्रो यज्ञभूषणः ।
ततोऽन्यो दोधेपत्रः स्यात् चुरपत्रस्तथैव च ॥
दर्भद्वयं त्रिदोषघ्नं मधुरन्तुवरं हिमम् ।
मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुकप्रदरास्रजित् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
“हरिताः सपिञ्जलाश्चैव पुष्टाः स्निग्धाः समा-
हिताः ।
गोकर्णमात्रास्तु कुशाः सकृच्छिन्नाः समूलकाः ॥
पितृतीर्थेन देयाः स्युर्दूर्व्वाश्यामाकमेव च ।
काशाः कुशा बल्वजाश्च तथान्ये तीक्ष्णरोमशाः ।
मौञ्जाश्च शाद्बलाश्चैव षड्दर्भाः परिकीर्त्तिताः ॥
सपिञ्जलाः साग्राः तीक्ष्णरोमशा इति बल्व-
जानां विशेषणम् । शाद्वला इति सर्व्वेषां विशे-
षणम् । तेन तेषामभावे शूकतृणशरशीर्य्यवल्वज-
नलशुण्ठवर्जं सर्व्वतृणानीति गोभिलेन तद्ब्यति-
रिक्तवल्वजानां निषेधो बोद्धव्यः । शूकानि
फलपुष्पमञ्जर्य्यस्तानि येषां तृणानां सन्ति तानि
शूकतृणानि इति भट्टनारायणचरणाः ॥ गो-
कर्णमिता विस्तृताङ्गुष्ठानामिकापरिमाणाः ।
रत्निप्रमाणाः शस्ता वै पितृतीर्थेन संस्कृताः ।
उपमूले तथा लूनाः प्रस्तरार्थे कुशोत्तमाः ॥
इति वायुपुराणम् ॥ * ॥
वज्यप्रतिप्रसवमाह हारीतः ।
पथि दर्भाश्चितौ दर्भा ये दर्भा यज्ञभूमिषु ।
स्तरणासनपिण्डेषु षड्दर्भान् परिवर्जयेत् ॥
पिण्डार्थं ये स्तृता दर्भा यैः कृतं पितृतर्पणम् ।
मूत्रोच्छिष्टप्रलिप्ते च त्यागस्तेषां विधीयते ॥
धृतैः कृते च विण्मूत्रे त्यागस्तेषां विधीयते ।
धृतैरित्युपलक्षनेन तृतीया धृतैर्दर्भैरुपलक्षितेन
पुरुषेण ॥
नीवीमध्ये च ये दर्भा ब्रह्मसूत्रे च ये धृताः ।
पवित्रांस्तान् विजानीयाद्यथा कायस्तथा
कुशाः ॥
आचम्य प्रयतो नित्यं पवित्रेण द्बिजोत्तमः ।
नोच्छिष्टन्तु भवेत्तत्तु भुक्तशेषं विवर्जयेत् ॥
कृतं समापितमित्यर्थः ॥ * ॥
दर्भवटुलक्षणमाह रत्नाकरे गृह्यसंग्रहः ।
ऊर्द्ध्वकेशो भवेद्ब्रह्मा लम्बकेशस्तु विष्टरः ।
दक्षिणावर्त्तको ब्रह्मा वामावर्त्तस्तु विष्टरः ॥
शान्तिदीपिकायाम् ।
सप्तभिर्नवभिर्वापि सार्द्धद्बितयवेष्टितम् ।
ॐकारेणैव मन्त्रेण द्बिजः कुर्य्यात् कुशद्बिजम् ॥
नवभिरित्यत्र पञ्चभिरिति कर्म्मोपदेशिन्यां
पाठः । दर्भसंख्याविशेषाभिधानं छन्दोगेतर-
परम् ।
यज्ञवास्तुनि मुष्ट्याञ्च स्तम्भे ब्रह्मवटौ तथा ।
दर्भसंख्या न विहिता विष्टरास्तरणेष्वपि ॥
इति गोभिलपरिशिष्टीयवचनात् ।” इति श्राद्ध-
तत्त्वम् ॥

दर्भटं, क्ली, (दृभ्यते निभृतस्थाने विरच्यते इति ।

दृभ ग्रन्थने + बाहुलकात् अटन् ।) निभृत-
गृहम् । इति त्रिकाण्डशेषः ॥

दर्भपत्रः, पुं, (दर्भस्य कुशस्येव पत्राणि यस्य ।)

काशः । इति राजनिर्घण्टः ॥

दर्भाह्वयः, पुं, (दर्भं आह्वयते स्पर्द्धते सदृशत्वात् ।

आ + ह्वे + अच् ।) मुञ्जः । इति राजनिर्घण्टः ॥
(मुञ्जशब्देऽस्य विवरणं ज्ञातव्यम् ॥)

दर्व्वः, पुं, (दृणाति विदारयतीति । दॄ + “कॄगॄशॄदॄ-

भ्यो वः ।” उणां १ । १५५ । इति वः ।) राक्षमः ।
हिंस्रः । इति संक्षिप्तसारे उणादिवृत्तिः ॥
(जातिविशेषः । यथा, महाभारते । २ । ५१ । १३ ।
“कैरता दरदा दर्व्वाः शूरा वैयामकास्तथा ।
औदुम्बरा दुर्व्विभागाः पारदाः सह वाह्लिकैः ॥”
स्त्रियां टाप् । उशीनरपत्नीभेदः । यथा, हरि-
वंशे । ३१ । २२ ।
“उशीनरस्य पत्न्यस्तु पञ्च राजषिवंशजाः ।
नृगा कृमी नवा दर्व्वा पञ्चमी च दृषद्वती ॥”)

दर्व्वरीकः, पुं, (दॄ विदारे + “फर्फरीकादयश्च ।”

उणां । ४ । २० । इति ईकन्प्रत्ययेन निपा-
नात् साधुः ।) इन्द्रः । वायुः । वाद्यभेदः ।
इति संक्षिप्तसारे उणादिवृत्तिः ॥

दर्व्वटः, पुं, (दर्व्वाय हिंसायै अटतीति । अट +

अच् । शकन्ध्वादित्वात् अलोपः ।) दण्डवादी ।
इति हारावली । १२८ ॥

दर्व्विः, स्त्री, (दृणाति विदारयत्यनेनेति । दॄ +

“वृदॄभ्यां विन् ।” उणां ४ । ५३ । इति विन् ।)
व्यञ्जनादिदारकः । हाता इति भाषा । तत्-
पर्य्यायः । कम्बिः २ खजाका ३ । इत्यमरः ।
२ । ९ । ३४ ॥ दर्व्वी ४ कम्बी ५ स्वजाकजः ६ ।
फणा । इति शब्दरत्नावली ॥

दर्व्विकः, पुं, (दर्व्वि + स्वार्थे कन् । अभिघानात्

पुंस्त्वम् ।) दर्व्वी । इति द्विरूपकोषः ॥

दर्व्विका, स्त्री, (दर्व्वि + स्वार्थे कन् + टाप् ।)

दार्व्विका । इत्यमरटीकायां रायमुकुटः ॥
खजाका । इति द्विरूपकोषः ॥ कज्जलम् । यथा,
“सौवीरं जाम्बलं तुत्थं मयूरश्रीकरं तथा ।
दर्व्विका मेघनीलश्च अञ्जनानि भवन्ति षट् ॥”
तल्लक्षणम् यथा, कालिकापुराणे ६८ अध्याये ।
“स्रवद्रूपन्तु सौवीरं जाम्बलं प्रस्तरं तथा ।
मयूरश्रीकरं रत्नं मेघनीलन्तु तैजसम् ॥
घृष्ट्वा निष्पाद्य चैतानि शिलायां तैजसेऽथवा ।
प्रदद्यात् सर्व्वदेवेभ्यो देवीभ्यश्चापि पुत्त्रक ! ॥
धृततैलादियोगेन ताम्रादौ दीपवह्निना ।
यदञ्जनं जायते तु दर्व्विका परिकीर्त्तिता ॥

दर्व्वी, स्त्री, (दर्व्वि + वा ङीष् ।) दर्व्विः । इति

शब्दरत्नावली ॥ (यथा, उत्तरगीतायाम् ।
२ । ३७ ।
“आलोच्य चतुरो वेदान् धर्म्मशास्त्राणि सर्व्वदा ।
योऽहंब्रह्म न जानाति दर्व्वी पाकरसं यथा ॥”)

दर्व्वीकरः, पुं, (दर्व्वीं फणां करोतीति कृ + “कृञो

हेतुताच्छील्यानुलोम्येषु ।” ३ । २ । २० । इति टः ।
यद्वा, दर्व्वी फणा कर इवास्य ।) सर्पः । इत्य-
मरः । १ । ८ । ८ ॥ (यथा, सुश्रुते कल्पस्थाने
चतुर्थाध्याये ।
“दर्व्वीकरा मण्डलिनो राजिमन्तश्च पन्नगाः ।
तेषु दर्व्वीकरा ज्ञेया विंशतिः षट् च पन्नगाः ॥”
पृष्ठ २/६८९
“रथाङ्गलाङ्गलच्छत्त्रस्वस्तिकाङ्कुशधारिणः ।
ज्ञेया दर्व्वीकराः सर्पाः फणिनः शीघ्रगामिनः ॥”
तत्र दर्व्वीकरभेदा यथा, --
“दर्व्वीकराः कृष्णसर्पो महाकृष्णः कृष्णोदरः श्वेत-
कपोतो महाकपोतो बलाहकी महासर्पः शङ्ख-
पाली लोहिताक्षो गवेधुकः परिसर्पः खण्डफणः
ककुदः पद्मो महापद्मो दर्भपुष्पो दधिमुखः पुण्ड-
रीको भ्रुकुटीमुखो विष्किराः पुष्पाभिकीर्णो
गिरिसर्प ऋजुसर्पः श्वेतोदरो महाशिरा अल-
गर्द्द आशीविष इति ॥”
एतद्विषजनितलक्षणादिकं यथा, --
“तत्र दर्व्वीकरविषेण त्वङ्नयननखदशनमूत्र-
पुरीषदंशकृष्णत्वं रौक्ष्यं शिरसो गौरवं सन्धि-
वेदना कटीपृष्ठग्रीवादौर्व्वल्यं जृम्भणं वेपथुः
स्वरावसादो घुर्घुरको जडता शुष्कोद्गारः कास-
श्वासौ हिक्का वायोरूर्द्ध्वगमनं शूलोद्वेष्टनं तृष्णा
लालास्रावः फेनागमनं स्रोतोऽवरोधस्तास्ताश्च
वातवेदना भवन्ति ॥” दर्व्वीकरदष्टानां विष-
वेगादिकमाह यथा, --
“तत्र सर्व्वेषां सर्पाणां विषस्य सप्तवेगा भवन्ति ।
तत्र दर्व्वीकराणां प्रथमे वेगे विषं शोणितं दूषयति
तत् प्रदुष्टं कृष्णतामुपैति तेन कार्ष्ण्यपिपीलिका-
परिसर्पणमिव चाङ्गे भवति । द्वितीये मांसं
दूषयति तेनात्यर्थं कृष्णता शोफो ग्रन्थयश्चाङ्गे
भवन्ति तृतीये मेदो दूषयति तेन दंशक्लेदः
शिरोगौरवं स्वेदश्चक्षुर्ग्रहणञ्च । चतुर्थे कोष्ठमनु-
प्रविश्य कफप्रधानान् दोषान् दूषयति । तेन तन्द्रा
प्रसेकसन्धिविश्लेषा भवन्ति । पञ्चमे अस्थीन्यनु-
प्रविशति प्राणमग्निञ्च दूषयति तेन पर्व्वभेदो
हिक्कादाहश्च भवति । षष्ठे मज्जानमनुप्रवि-
शति ग्रहणीञ्चात्यर्थं दूषयति । तेन गात्राणां
गौरवमतिसारो हृत्पीडा मूर्च्छा च भवति ।
सप्तमे शुक्रमनुप्रविशति व्यानञ्चात्यथं कोपयति ।
कफञ्च सूक्ष्मस्रोतोभ्यः प्रच्यावयति तेन श्लेष्मवर्त्ति-
प्रादुर्भावः कटिपृष्ठभङ्गश्च सर्व्वचेष्टाविघातो
लालास्वेदयोरतिप्रवृत्तिरुच्छासनिरोधश्च भवति ॥”
अथ दर्व्वीकरदष्टस्य चिकित्सामाह तत्रैव ।
“फणिनां विषवेगे तु प्रथमे शोणितं हरेत् ।
द्वितीये मधुसर्पिभ्यां पाययेतागदं भिषक् ॥
नस्य कर्म्माञ्जने युञ्ज्यात् तृतीये विषनाशने ।
वान्तं चतुर्थे पूर्ब्बोक्तां यवागूमथ दापयेत् ॥
शीतोपचारं कृत्वादौ भिषक् पञ्चमषष्ठयोः ।
दापयेच्छोधनं तीक्ष्णं यवागूञ्चापि कीर्त्तिताम् ॥
सप्तमे त्ववपीडेन शीरस्तीक्षेण शोधयेत् ।
तीक्ष्णमेवाञ्जनं दद्यात् तीक्ष्णशस्त्रेण मूर्द्ध्व्नि च ॥
कुर्य्यात् काकपदं चर्म्म सासृग्वा पिशितं
क्षिपेत् ॥”)
खजाकाकारके, त्रि ॥

दर्शः, पुं, (दृश्येते उपर्य्यधोमावापन्नसमसूत्रपात-

न्यायेन राश्येकांशावच्छेदेन सहावस्थितौ चन्द्र-
सूर्य्यौ यत्र । दृश् + अधिकरणे घञ् ।) अमा-
वस्या । इत्यमरः । १ । ४ । ८ ॥
“अन्योऽन्यं चन्द्रसूर्य्यौ तु दर्शनाद्दर्श उच्यते ॥”
इति मत्स्यपुराणम् ॥
(अयं शिनीवाल्यां विधातृपत्न्यां तस्मात् जातः ।
यथा, भागवते । ६ । १८ । ३ ।
“धातुः कुहूः शिनीवाली राका चानुमतिस्तथा ।
सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥”
दृश + भावे घञ् ।) अवलोकनम् । इति
मेदिनी । शे, ७ ॥ (यथा, महाभारते । १३ ।
१४४ । ४५ ।
“दुर्द्दर्शाः केचिदाभान्ति नराः काष्ठमया इव ।
प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥”)
पक्षान्तकृतयागविशेषः । स यागत्रयात्मकः ।
यथा । “आग्नेयाष्टाकपालैन्द्रदध्यैन्द्रपयोयागा-
स्त्रयोऽमावास्यायां स च यावज्जीवं कर्त्तव्यः
कौण्डपायिकर्त्तव्यो माससाध्यश्च ।” इति मल-
मासतत्त्वम् ॥

दर्शकः, पुं, (दर्शयति नृपादिसमीपगमनपथमिति ।

दृश् + णिच् + ण्वुल् ।) द्वारपालः । इत्य-
मरः । २ । ८ । ६ ॥ (जातिविशेषः । यथा,
महाभारते । ६ । ९ । ५३ ।
“काश्मीरा सिन्धुसौवीरा गान्धारा दर्शकास्तथा ॥”)
त्रि, दर्शयिता । (यथा, कुमारे । ६ । ५२ ।
“विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ॥”)
प्रवीणः । इति मेदिनी । के, १०३ ॥ (प्रका-
शकः । यथा, हितोपदेशे । १ । ११ ।
“अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्व्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥”
दृश + ण्वुल् । द्रष्टा । यथा, महाभारते ।
१ । १४१ । १७ ।
“एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः ।
राजन्राज्यं सपत्नेषु नित्योद्विग्नः समाचरेत् ॥”)

दर्शतः, पुं, (दृश्यते गगनमार्गे इति । दृश +

“भृमृदृशीति ।” उणां । ३ । ११० । इति
अतच् ।) सूर्य्यः । चन्द्रः । इति सिद्धान्त-
कौमुद्यामुणादिवृत्तिः ॥ (दर्शनीये, त्रि । यथा,
ऋग्वेदे । १ । १४४ । ७ ।
“यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः संदृष्टौ
पितु मा इव क्षयः ॥”)

दर्शनं, क्ली, (दृश्यतेऽनेनेति । दृश् + करणे ल्युट् ।)

नयनम् । स्वप्नः । बुद्धिः । धर्म्मः । उपलब्धिः ।
दर्पणः । (दृश्यते यथार्थतत्त्वमनेनेति ।)
शास्त्रम् । इति मेदिनी । ने, ७३ ॥ शास्त्रन्तु
षड्विधम् । वैशेषिकन्यायमीमांसासाङ्ख्यपात-
ञ्जलवेदान्तरूपम् । एतानि तत्त्वज्ञानार्थं वेदान्
विचार्य्य कणादगोतमजैमिनिकपिलपतञ्जलि-
वेदव्यासाख्यैर्मुनिषट्कैः कृतानि ॥ इज्या । इत्य-
जयः ॥ वर्णः । दति त्रिकाण्डशेषः ॥ चाक्षुष-
ज्ञानम् । देखा इति भाषा । तत्पर्य्यायः ।
निर्व्वर्णनम् २ निध्यानम् ३ आलोकनम् ४ ईक्ष-
णम् ५ । इत्यमरः । ३ । २ । ३१ ॥ निभा-
लनम् ६ । इति जटाधरः ॥ * ॥ (यथा, भाग-
वते । १ । ६ । ३४ ।
“आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥”)
पुण्यदर्शनानि यथा, --
नन्द उवाच ।
“येषाञ्च दर्शने पुण्यं पापञ्च यस्य दर्शने ।
तत् सर्व्वं वद सर्व्वेश ! श्रोतुं कौतूहलं हि मे ॥
श्रीभगवानुवाच ।
सुब्राह्मणानां तीर्थानां वैष्णवानाञ्च दर्शने ।
देवताप्रतिमादर्शात् तीर्थस्नायी भवेन्नरः ॥
सूर्य्यस्य दर्शने भक्त्या सतीनां दर्शने तथा ।
सन्न्यासिनां यतीनाञ्च तथैव ब्रह्मचारिणाम् ॥
भक्त्या गवाञ्च वह्नीनां गुरूणाञ्च विशेषतः ।
गजेन्द्राणाञ्च सिंहानां श्वेताश्वानान्तथैव च ॥
शुकानाञ्च पिकानाञ्च खञ्जनानान्तथैव च ।
हंसानाञ्च मयूराणां चासानां शङ्खपक्षिणाम् ।
वत्सप्रयुक्तधेनूनामश्वत्थानां तथैव च ।
पतिपुत्त्रवतीनाञ्च नराणां तीर्थयायिनाम् ॥
प्रदीपानां सुवर्णानां मणीनाञ्च विशेषतः ।
मुक्तानां हीरकाणाञ्च माणिक्यानां महाशय ! ॥
तुलसीशुक्लपुष्पाणां दर्शनं पापनाशनम् ।
फलानि शुक्लधान्यानि घृतं दधि मधूनि च ॥
पूर्णकुम्भञ्च लाजाञ्च राजेन्द्रं दर्पणं जलम् ।
मालाञ्च शुक्लपुष्पाणां दृष्ट्वा पुण्यं लभेन्नरः ॥
गोरोचनाञ्च कर्पूरं रजतञ्च सरोवरम् ।
पुष्पोद्यानं पुष्पितञ्च दृष्ट्वा पुण्यं लभेन्नरः ॥
देवाश्रितं देवघटं सुगन्धिपवनं तथा ।
शङ्खञ्च दुन्द्वभिं दृष्ट्वा सद्यः पुण्यं लभेन्नरः ॥
शुक्लपक्षस्य चन्द्रस्य पीयुषं चन्दनं तथा ।
कस्तूरीं कुङ्कुमं दृष्ट्वा नन्द ! पुण्यं लभेन्नरः ॥
पताकामक्षयवटं तरुं देवोत्थितं शुभम् ।
देवालयं देवखातं दृष्ट्वा पुण्यं लभेन्नरः ॥
शुक्तिं प्रवालं रजतं स्फाटिकं कुशमूलकम् ।
गङ्गामृदं कुशं ताम्रं दृष्ट्वा पुण्यं लभेन्नरः ॥
पुराणपुस्तकं शुद्धं सबीजं विष्णुयन्त्रकम् ।
स्निग्धदूर्व्वाक्षतं रत्नं दृष्ट्वा पुण्यं लभेन्नरः ॥
तपस्विनं सिद्धमन्त्रं समुद्रं कृष्णसारकम् ।
यज्ञं महोत्सवं दृष्ट्वा सुपुण्यं लभते नरः ॥
गोमूत्रं गोमयं दुग्धं गोधूलिं गोष्ठगोस्पदम् ।
पक्वशस्यान्वितं क्षेत्रं दृष्ट्वा पुण्यं लभेन्नरः ॥
रुचिरां पद्मिनीं श्यामां न्यग्रोधपरिमण्डलाम् ।
सुवेशकां सुवसनां दिव्यभूषणभूषिताम् ॥
वेश्यां क्षेमङ्करीं गन्धं सदूर्व्वाक्षततण्डुलम् ॥
सिद्धान्नं परमान्नञ्च दृष्ट्वा पुण्यं लभेद्ध्रुवम् ॥
कार्त्तिकीपूर्णिमायाञ्च राधिकाप्रतिमां शुभाम् ।
संपूज्य दृष्ट्वा नत्वा च करोति जन्मखण्डनम् ॥
हिङ्गुलायां तथाष्टम्यामिषे मासि सिते शुभे ।
श्रीदुर्गाप्रतिमां दृष्ट्वा करोति जन्मखण्डनम् ॥
शिवरात्रौ च काश्याञ्च विश्वनाथस्य दर्शनम् ।
कृत्वोपवासं पूजाञ्च करोति जन्मखण्डनम् ॥
जन्माष्टमीदिने भक्तो दृष्ट्वा मां बिल्वमाधवम् ।
प्रणम्य पूजां कृत्वा च करोति जन्मखण्डनम् ॥
उपोष्य व्रजभूमौ च भाण्डीरे मालतीवने ।
संपूज्य राधां माञ्चैव करोति जन्मखण्डनम् ॥
पृष्ठ २/६९०
पौषे मासि शुक्लरात्रौ यत्र तत्र स्थले नरः ।
पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मखण्डनम् ॥
सप्तजन्म भवेत्तस्य पुत्त्रः पौत्त्रो धनेश्वरः ॥
उपोष्यैकादशीं स्नात्वा प्रभाते द्बादशीदिने ।
दृष्ट्वा काश्यामन्नपूर्णां करोति जन्मखण्डनम् ॥
दत्त्वा विष्णुपदे पिण्डं विष्णुं यश्च प्रपूजयेत् ।
पितॄणां स्वात्मनश्चैव करोति जन्मखण्डनम् ॥
प्रयागे मुण्डनं कृत्वा यश्च पितॄन् प्रतर्पयेत् ।
उपोष्य नैमिषारण्ये करोति जन्मखण्डनम् ॥
उपोष्य पुष्करे स्नात्वा किंवा वदरिकाश्रमे ।
संपूज्य दृष्ट्वा मामेव करोति जन्मखण्डनम् ॥
सिद्धां कृत्वा च वदरीं भुङ्क्ते वदरिकाश्रमे ।
दृष्ट्वा मत्प्रतिमां नन्द ! करोति जन्मखण्डनम् ॥
दोलायमानं गोविन्दं दृष्ट्वा वृन्दावने च माम् ।
दृष्ट्वा संपूज्य नत्वा च करोति जन्मखण्डनम् ॥
भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम् ।
संपूज्य नत्वा भक्तश्च करोति जन्मखण्डनम् ॥
रथस्थञ्च जगन्नाथं यो द्रक्ष्यति कलौ नरः ।
संपूज्ज भक्त्या नत्वा च करोति जन्मखण्डनम् ॥
उत्तरायणसंक्रान्त्यां प्रयागे स्नानमाचरेत् ।
संपूज्य नत्वा मामेव करोति जन्मखण्डनम् ॥
कार्त्तिकीपूर्णिमायाञ्च दृष्ट्वा मत्प्रतिमां शुभाम् ।
उपोष्य पूजां कृत्वा च करोति जन्मखण्डनम् ॥
चन्द्रभागासमीपे च माघ्याञ्च मां नयेत् शनैः ।
राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम् ॥
रामेश्वरं सेतुवन्धे आषाढीपूर्णिमादिने ॥
उपोष्य दृष्ट्वा संपूज्य करोति जन्मनः क्षयम् ॥
दीननाथं दिनकरं लोलार्के चोत्तरायणे ।
उपोष्य दृष्ट्वा संपूज्य करोति जन्मनः क्षयम् ॥
कृषिकोष्ठे सुवसने कलविङ्के सुगह्वरे ।
विस्यन्दके राजकोष्ठे नन्दके पुष्पभद्रके ॥
पार्व्वतीप्रतिमां दृष्ट्वा कार्त्तिकेयं गणेश्वरम् ।
नन्दिनं शङ्करं दृष्ट्वा करोति जन्मनः क्षयम् ॥
त्रिकूटे मणिभद्रे च पश्चिमोदधिसन्निधौ ।
समुपोष्य दधि प्राश्य मां दृष्ट्वा मुक्तिमाप्नुयात् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

दर्शनीयः, त्रि, (दृश्यते इति । दृश् + अनीयर् ।)

मनोज्ञः । इति धरणिः ॥ (यथा, महाभारते ।
११ । १५ । ३०
“अङ्गुल्यग्राणि ददृशे देवी पटान्तरेण सा ।
ततः स कुनखीभूतो दर्शनीयनखो नृपः ॥”)
दर्शनयोग्यः । इति व्याकरणम् ॥ (यथा, पञ्च-
तन्त्रे । ४ । ४० ।
“शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्त्रक ! ।
यस्मिन् कुले त्वमुत्पन्नो गजस्तत्र न हन्यते ॥”)

दर्शयामिनी, स्त्री, (दर्शस्यामावास्याया इव

यामिनी रात्रिः ।) तमिस्रा । अन्धकाररात्रिः ।
इति हेमचन्द्रः । २ । ५७ ॥ (दर्शस्य यामिनी
इति विग्रहे । अमवास्यारात्रिश्च ॥)

दर्शयिता, [ऋ] त्रि, (दर्शयतीति । दृश +

णिच् + “ण्वुल्तृचो ।” ३ । १ । १३३ । इति
तृच् ।) दर्शकः । (यथा, महाभारते । ६ । ३ । ६१ ।
“प्रसादये त्वामतुलप्रभाव !
त्वं नो गतिर्दशयिता च धीरः ॥”)
प्रतीहारः । इति भरतः ॥

दर्शविपत्, [द्] पुं, (दर्शे अमावस्यायां विपत्

प्रणाशोऽदर्शनं यस्य ।) चन्द्रः । इति हारा-
वली । १३ ॥

दर्शितः, त्रि, (दृश् + णिच् + क्तः ।) दर्शनं कारितः ।

तत्पर्य्यायः । प्रकाशितः २ आविष्कृतः ३ प्रक-
टितः ४ । इति हेमचन्द्रः ॥ (यथा, आर्य्या-
सप्तशत्याम् । २८९ ।
“दर्शितयमुनोच्छ्राये भ्रूविभ्रमभ्राजि वलति तव
नयने ।
क्षिप्तहले हलधर इव सर्व्वं पुरमर्ज्जितं सुतनु ॥”)

दल, क भेदे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) क, दालयति गात्रं वाणः । इति
दुर्गादासः ॥

दल, मि भेदे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-अकं च सेट् ।) मि, दलयत्यष्टौ कुलक्ष्मा-
भृतः । इति मुरारिः । दालयति । भेदो विदा-
रणम् । दलति कुठारः काष्ठम् । क्वचिद्विदीर्णी-
भावे विकसने चायम् । श्रीमद्राघवबाहुदण्ड-
विदलत्कोदण्डचण्डध्वनिरिति महानाटकम् ।
दरविदलितमल्लीवल्लिचञ्चत्परागेति जयदेवः ।
इति दुर्गादासः ॥

दलं, क्ली, (दलतीति । दल + अच् ।) उत्सेधः ।

खण्डम् । (यथा, मनुः । ८ । २९९ ।
“भार्य्या पुत्त्रश्च दासश्च शिष्यो भ्राता च सोदरः ।
प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥”)
शस्त्रीच्छदः । अपद्रव्यम् । पत्रम् । इति मेदिनी ।
ले, २६ ॥ (यथा, आर्य्यासप्तशत्याम् । ६९२ ।
“हृत्वा तटिनि ! तरङ्गैर्भ्रमितश्चक्रेषु नाशये
निहितः ।
फलदलवल्कलरहितस्त्वयान्तरीक्षे तरुस्त्यक्तः ॥”)
घनम् । इति शब्दरत्नावली ॥ तमालपत्रम् ।
इति राजनिर्घण्टः ॥ अर्द्धम् । इति लीलावती ॥
(पुं, इक्ष्वाकुकुलोत्पन्नपरिक्षिन्नामराज्ञः पुत्त्रः ।
स च मण्डूकराजकन्यासम्भूतः । यथा, महा-
भारते । ३ । १९२ । ४४ ।
“अथ कस्यचित् कालस्य तस्यां कुमारास्त्रय-
स्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति ॥”
वृक्षविशेषः । तत्पर्य्याया यथा, --
“वातपोतः पलाशः स्याद्वानप्रस्थश्च किंशुकः ।
राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः ॥”
इति वैद्यकरत्नमालायाम् ॥)

दलकोषः, पुं, (दलान्येव कोषा यस्य । तस्य पुष्पेषु

कोषाभावात् तथात्वम् ।) कुन्दपुष्पवृक्षः । इति
शब्दमाला ॥

दलनिर्म्मोकः, पुं, (दलति विदारयतीति दलं वल्क-

लम् । तदेव निर्म्मोक इवास्य ।) भूर्ज्जवृक्षः ।
इति शब्दमाला ॥

दलनी, स्त्री, (दल्यते अनेनेति । दल + करणे

ल्युट् । ङीप् ।) लोष्टम् । इति शब्दरत्नावली ॥
डेला इति भाषा ॥ (दलति विदारयतीति । दल +
कर्त्तरि ल्युः ङीप् च ।) भेदकर्त्तरि, त्रि । यथा, --
“सा दुर्गा भवभीतिरीतिशमनी लोकत्रय-
त्रायिणी
भूयाद्वः प्रतिपक्षपक्षदलनी वाञ्छाफलोल्ला-
सिनी ॥”
इति विद्वन्मोदतरङ्गिणी ॥

दलपः, पुं, (दल्यते असौ दल्यते अनेन वा ।

दल + “उषिकुटिदलिकटिखजिभ्यः कपन् ।”
उणां । ३ । १४३ । इति कपन् ।) स्वर्णम् ।
शस्त्रम् । इत्युणादिकोषः ॥ (दलं यूथं पातीति ।
पा + कः । दलपतिः ॥)

दलपुष्पा, स्त्री, (दलानि पत्रानीव पुष्पाण्यस्याः ।)

केतकी । इति राजनिर्घण्टः ॥ (केतकीशब्देऽस्या
विवरणं विज्ञेयम् ॥)

दलसारिणी, स्त्री, (सारोऽस्त्यस्या इति । सार +

इनिः । ङीप् च । दले पत्रे सारिणी ।) केमुकः ।
इति रत्नमाला ॥

दलसूचिः, पुं, (दलस्य सूचिरिव ।) कण्टकम् ।

इति हारावली । ९१ ॥

दलस्नसा, स्त्री, (दलस्य स्नसा स्नायुः ।) पत्र-

शिरा । तत्पर्य्यायः । माढिः २ । इति हेम-
चन्द्रः । ४ । १९० ॥

दलाढकः, पुं, (दलैराढक इव ।) स्वयं जात-

तिलः । पृश्नी । गैरिकम् । फेनः । खातकम् ।
नागकेशरः । महत्तरः । इति मेदिनी । के,
१८२ ॥ कुन्दः । करिकर्णः । शिरीषः । वात्या ।
इति हेमचन्द्रः ॥

दलाढ्यः, पुं, (दलेन भेदेन आढ्यः ।) पङ्ककर्व्वटः ।

इति त्रिकाण्डशेषः ॥ दलदलि इति भाषा ॥

दलामलं, क्ली, (दलेन अमलम् ।) मरुवकवृक्षः ।

दमनवृक्षः । इति मेदिनी । ले, १५५ ॥ मदन-
वृक्षः । इति शब्दरत्नावली ॥

दलाम्लं, क्ली, (दलेषु अम्लो रसो यस्य ।) चुक्रम् ।

इति राजनिर्घण्टः ॥

दलिः, स्त्री, पुं, (दल्यते इति । दल + “सर्व्वधातुभ्य

इन् ।” उणां । ४ । ११७ । इति इन् ।) लोष्ट्रम् ।
इति शब्दरत्नावली ॥ दला इति डेला इति च
भाषा ॥

दलिकं, क्ली, (दल्यत भिद्यते इति । दल + इन् +

संज्ञायां कन् ।) काष्ठम् । इति हेमचन्द्रः ।
४ । १८८ ॥

दलितं, त्रि, (दलमस्य जातम् । दल + तारका-

दित्वात् इतच् । प्रफुल्लम् । इति हेमचन्द्रः । ४ ।
१९४ ॥ (दल + क्त ।) खण्डितम् । यथा, --
दलिताञ्जनमेघपुञ्जेत्यादि क्रमदीपिका ॥ (यथा च
प्रबोधचन्द्रोदये । २ । ३५ ।
“दलितकुचनखाङ्गमङ्गपालीं
रचय ममाङ्कमुपेत्य पीवरोरु ! ॥”
विक्षिप्तम् । यथा, आर्य्यासप्तशत्याम् । ३०२ ।
“दलिते पलालपुञ्जे वृषभं परिभवति गृहपतौ
कुपिते ॥”)
पृष्ठ २/६९१

दलेगन्धिः, पुं, (दले गन्धो यस्य समासान्त इत् ।

सप्तम्या अलुक् च ।) सप्तपर्णवृक्षः । इति
त्रिकाण्डशेषः ॥

दल्भः, पुं, (दलति विशीर्णो भवत्यनेनेति । दल +

“दृदलिभ्यां भः ।” उणां । ३ । १५१ । इति
भः ।) प्रतारणा । पापम् । मुनिभेदः । इत्यु-
णादिकोषः ॥ चक्रम् । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥

दल्मिः, पुं, (दलति विदारयति असुरानिति ।

दल + “दल्मिः ।” उणां । ४ । ४७ । इति मिः ।)
इन्द्रः । इति हेमचन्द्रः । २ । ८६ ॥ (दल्यते
अनेनेति ।) वज्रम् । इति सिद्धान्तकौमुद्या-
मुणादिवृत्तिः ॥

दव, इ व्रजे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) इ, दन्व्यते । व्रजो गतिः । इति
दुर्गादासः ॥

दवः, पुं, (दुनोति पीडयतीति । दु + अच् ।)

वनम् । वनाग्निः । इत्यमरः । ३ । ३ । २०५ ॥
(यथा, भागवते । ८ । ६ । १३ ।
“दृष्ट्वा गता निर्वृतिमद्य सर्व्वे
गजा दवार्त्ता इव गाङ्ग्यमम्भः ॥”)
अग्निः । इत्यमरटीकायां नीलकण्ठः ॥ (दु
उपतापे + “ऋदोरप् ।” ३ । ३ । ५७ । इत्यप् ।)
उपतापः । इति केचित् ॥

दवथुः, पुं, (दवनमिति । टु दु उपतापे + “ट्वितो-

ऽथुच् ।” ३ । ३ । ८९ । इति भावे अथुच् ।) परि-
तापः । इति जटाधरः ॥ (यथा, काशीखण्डे ।
२९ । ८९ ।
“दुरोदरघ्नी दावार्च्चिर्द्रवद्रव्यैकशेवधिः ।
दीनसन्तापशमनी दात्री दवथुवैरिणी ॥”
दूयतेऽनेनेति । करणे अथुच् ।) चक्षुरादि-
दाहः । इति राजनिर्घण्टः ॥

दवाग्निः, पुं, (दवानां वनानां अग्निः । यद्वा, दव

एवाग्निः ।) दावानलः । इति द्विरूपकोषः ॥
(यथा, मेघदूते । ५५ ।
“तञ्चेद्बायौ सरति सवलस्कन्धसंघट्टजन्मा-
वाधेतोल्का क्षयितचमरी बालभारोदवाग्निः ॥”)

दविष्ठः, त्रि, (अयमेषामतिशयेन दूर इति । दूर +

इष्ठन् । “स्थूलदूरयुवेति ।” ६ । ४ । १५६ । इति
रस्य लुप् ऊकारस्य च गुणः ।) सुदूरः ।
अत्यन्तदूरवर्त्ती । इत्यमरः । ३ । १ । ६९ ॥

दवीयान्, [स्] त्रि, (इदमनयोरतिशयेन दूरम् ।

दूर + ईयसुन् । स्थूलदूरेत्यादिना साधुः ।)
सुदूरः । इत्यमरः । ३ । १ । ६९ ॥ (यथा,
प्रद्युम्नविजये । २ । १६ ।
“कोऽस्मिन् दवीयांसमपीन्दुविम्बं
न वेद चूडामणिमिन्दुमौलेः ।
पातालधामानमपि प्रवृद्धं
न वाडवं सुन्दरि ! वेद को वा ॥”)

दश, इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरां-

परं-अकं-सेट् । इ क, दंशयति । त्विषि दीप्तौ ।
इति दुर्गादासः ॥

दश, इ क ङ दर्शे । दंशने । इति कविकल्पद्रुमः ॥

(चुरां-आत्मं-सकं-सेट् ।) इ क ङ, दंशयते ।
दर्शो दर्शनम् । इति दुर्गादासः ॥

दश, [न्] त्रि, (दंशयति दीप्यते इति । दन्शि

+ बाहुलकात् कनिन् । “दन्श दंशने । न
लोपः ।” इत्युज्ज्वलदत्तः । १ । १५६ ।) संख्या-
विशेषः । द्विगुणितपञ्च १० । (यथा, महाभारते ।
३ । १३४ । १७ ।
“दिशो दशोक्ताः पुरुषस्य लोके
सहस्रमाहुर्दशपूर्णं शतानि ।
दशैव मासान् बिभ्रति गर्भवत्यो
दशैरका दश दाशा दशार्हाः ॥”)
दशवाचकानि यथा । हस्ताङ्गुलिः १ शम्भुवाहुः
२ रावणमस्तकम् ३ कृष्णावतारः ४ दिक् ५
विश्वदेवः ६ अवस्था ७ चन्द्राश्वः ८ पंक्तिः ९ ।
इति कविकल्पलता ॥ बहुवचनान्तोऽयं शब्दः ।
तत्संख्याविशिष्टः । इत्यमरः । २ । ६ । ९१ ॥

दशकण्ठः, पुं, (दश कण्ठा गला यस्य ।)

रावणः । इति शब्दरत्नावली ॥ (यथा, रघुः ।
८ । २९ ।
“दशपूर्ब्बरथं यमाख्यया
दशकण्ठारिरिपुं विदुर्बुधाः ॥”)

दशकन्धजित्, पुं, (दशकन्धं रावणं जयतीति ।

जि + क्विप् तुक् च ।) रामः । इति त्रिकाण्ड-
शेषः ॥

दशकन्धरः, पुं, (दश कन्धरा ग्रीवा यस्य ।) रावणः ।

इति हेमचन्द्रः । ३ । ३७० ॥ (यथा, भागवते ।
२ । ७ । २३ ।
“अस्मत्प्रसादसुमुखः कलया कलेश
इक्ष्वाकुवंश अवतीर्य्य गुरोर्निदेशे ।
तिष्ठन् वनं सदयितानुज आविवेश
यस्मिन् विरुध्य दशकन्धर आर्त्तिमार्छत् ॥”

दशग्रीवः, पुं, (दश ग्रीवा यस्य ।) रावणः । इति

शब्दमाला ॥ (यथा, महाभारते । ३ । २७४ । १० ।
“दशग्रीवस्तु सर्व्वेषां श्रेष्ठो राक्षसपुङ्गवः ।
महोत्साहो महावीर्य्यो महासत्त्वपरा-
क्रमः ॥”)
एकादशमन्वन्तरीयवृषनामकेन्द्रशत्रुविशेषः ।
यथा, --
“रुद्रपुत्त्रस्य ते पुत्त्रान् वक्ष्याम्येकादशस्य तु ।
सर्व्वत्रगः सुशर्म्मा च देवानीकः पुरुर्गुरुः ॥
क्षत्त्रबद्धा दृढायुश्च आर्द्रकः पुत्त्रकस्तथा ।
हविष्मांश्च हविष्यश्च वरुणो विश्वविस्तरः ॥
विष्णुश्चैवाग्नितेजाश्च ऋषयः सप्त कीर्त्तिताः ।
विहङ्गमाः कामगमा निर्म्माणरुचयस्तथा ॥
एकैकस्त्रिंशकस्तेषां गणाश्चेन्द्रश्च वै वृषः ।
दशग्रीवो रिपुस्तस्य स्त्रीरूपी घातयिष्यति ॥”
इति गरुडे ८७ अध्यायः ॥
(असुरविशेषः । यथा महाभारते । २ । ९ । १४ ।
“दशग्रीवश्च बाली च मेघवासा दशारवः ॥”
दमघोषस्य पुत्त्रविशेषः । यथा, हरिवंशे ।
११६ । २२ ।
“दमघोषस्य पुत्त्रास्तु पञ्च भीमपराक्रमाः ।
भगिन्यां वासुदेवस्य श्रुतश्रवसि जज्ञिरे ।
शिशुपालो दशग्रीवोरैभ्योऽथोपदिशो
बली ॥”)

दशतिः, स्त्री, (दशावृत्या दश । निपातनात्

साधुः ।) शतम् । इति महाभारते दानधर्म्मः ॥
(यथा, महाभारते । १ । १६ । १३ ।
“कालेन महता कद्रुरण्डानां दशतीर्दश ।
जनयामास विप्रेन्द्र ! द्वे चाण्डे विनता तथा ॥”
“यथा नव दशावृत्या नवतिस्तथा दश दशा-
वृत्या दशतिः शतमित्यर्थः । दश दशतीर्दश-
शतानीत्यर्थः ॥” इति तत्र नीलकण्ठः ॥)

दशधा, व्य, (दशानां प्रकारः । दश + “संख्याया

विधार्थे धा ।” ५ । ३ । ४२ । इति धा ।) दश
प्रकारम् । इति व्याकरणम् ॥ (यथा, मनुः ।
९ । १५२ ।
“सर्व्वं वा रिक्थजातन्तु दशधा परिकल्प्य च ।
धर्म्म्यं विभागं कुर्व्वीत विधिनानेन धर्म्म-
वित् ॥”)

दशनं, क्ली, (दश्यते इव शरीरमनेनेति । दन्श +

करणे ल्युट् । दहदशेति निर्द्देशात् क्वचिद-
कित्यपि नलोपः ।) कवचम् । शिखरे, पुं ।
इति मेदिनी । ने, ७४ ॥

दशनः, पुं, क्ली, (दश्यतेऽनेनेति । दन्श--

ल्युट् । दहदशेति निर्द्देशात् अत्र अकित्यपि न-
लोपः ।) दन्तः । इत्यमरभरतौ ॥ (यथा,
रघुः । ५ । ५२ ।
“उवाच वाग्मी दशनप्रभाभिः
संवर्द्धितोरःस्थलतारहारः ॥”)

दशनवासः, [स्] क्ली, (दशनानां वास इव आच्छा-

दकत्वात् ।) ओष्ठः । इत्यमरः । २ । ६ । ९० ॥

दशनाढ्या, स्त्री, (दशनः आढ्यो यस्याः ।

एतत् सेवनेन हि दन्तस्य दार्ढ्यात् अस्य तथा-
त्वम् ।) चुक्रिका । इति शब्दचन्द्रिका ॥

दशनोच्छिष्टः, पुं, निश्वासः । (दशनेन उच्छिष्टः ।)

अधरचुम्बनम् । इति मेदिनी । टे, ६३ । दन्त-
त्यक्ते, त्रि ॥

दशपारमिताधरः, पुं, बुद्धः । इति हेमचन्द्रः । २ ।

१४७ ॥

दशपुरं, क्ली, (दश दिशः पिपर्त्तीति । पॄ +

कः ।) कैवर्त्तीमुस्तकम् । इत्यमरः । २ । ४ ।
१३१ ॥ (दश पुरो यत्र । “ऋक्पूरब्धूः
पथामानक्षे ।” ५ । ४ । ७४ । इति अः ।)
देशभेदः । स मालवदेशैकखण्डः । पुरभेदः ।
इति मेदिनी । रे, २६६ ॥ (यथा, मेघदूते ।
४९ ।
“कुन्दक्षेपानुगमधुकरश्रीयुषामात्मविम्बं
पात्रीकुर्व्वन् दशपुरबधूनेत्रकौतूहलानाम् ॥”)

दशपूरम् क्ली, (दश दिशः पूरयतीति । पूर +

अन् ।) दशपुरम् । इत्यमरटीकायां भरतः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/द&oldid=43975" इत्यस्माद् प्रतिप्राप्तम्