शब्दकल्पद्रुमः/तुज

विकिस्रोतः तः
पृष्ठ २/६३२

तुज, हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) तोजति । इति दुर्गादासः ॥

तुज, इ प्राणे । बले । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-अकं-सकं च-सेट् ।) पञ्चमस्वरी । इ,
तुञ्ज्यते । प्राणो जीवनम् । हिंसायाच्ञायामिति
कश्चित् । इति दुर्गादासः ॥

तुज, इ क भाषट्टार्थे । इति कविकल्पद्रुमः ॥

(चुरां-परं-अकं-सकं च-सेट् ।) पञ्चमस्वरी ।
इ क, तुञ्जयति । भा दीप्तिः । षट्टार्थो निके-
तनहिंसाबलदानानि । इति दुर्गादासः ॥

तुट, शि कलहे । इति कविकल्पद्रुमः ॥ (तुदां-

परं-अकं-सेट् ।) शि, तुटति अतुटीत् नीचः
परस्परं वचसा । तुतोट । इति दुर्गादासः ॥

तुटुमः, पुं, (तुटति नाशयति द्रव्यजातमिति ।

तुट + बाहुलकात् उमः ।) उन्दुरुः । इति
त्रिकाण्डशेषः ॥

तुड, इ ङ वधे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) पञ्चमस्वरी । इ, तुण्ड्यते ।
ङ, तुण्डते । वधो निष्पीडनमिति रमानाथः ।
तुण्डते पान्थं पिकः । इति दुर्गादासः ॥

तुड, ऋ वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) पञ्चमस्वरी । ऋ, अतुतोडत् ।
वधो द्बिधाकरणमिति गोविन्दभट्टः । तोडति
मल्लो मल्लाङ्गं भिनत्तीत्यर्थः । इति दुर्गादासः ॥

तुड, शि भेदे । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) शि, तुडति अतुडीत् तुतोड ।
उपहनने इति कश्चित् । इति दुर्गादासः ॥

तुड्ड, नादरे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) पञ्चमस्वरी डद्वयान्तः । नादरः
अनादरः । तुड्डति । फलाभावान्न ऋदनुबन्धः ।
इति दुर्गादासः ॥

तुण, श जैह्म्ये । इति कविकल्पद्रुमः ॥ (तुदां-परं-

सकं-सेट् ।) जैह्म्यमिह कुटिलीकरणम् । श,
तुणति तृणं वायुः । तोणिता । इति दुर्गादासः ॥

तुणिः, पुं, (तुणति सङ्कोचयतीति । तुण जैह्म्ये +

“सर्व्वधातुभ्य इन् ।” उणां । ४ । ११७ । इति
इन् ।) कुणिः । तुन्नवृक्षः । इत्यमरटीकायां
स्वामी ॥ (अस्य पर्य्याया गुणाश्च यथा, --
“तुणिस्तुन्नक आपीनस्तुणिकः कच्छकस्तथा ।
कुठेरकः कान्तलको नन्दिवृक्षश्च नन्दकः ॥
तुणी रक्तः कटुः पाके कषायो मधुरो लघुः ।
तिक्तो ग्राही हिमो वृष्यो व्रणकुष्ठास्रपित्तजित् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

तुण्डं, क्ली, (तुण्डते निष्पीडयति अभ्यन्तरस्थ-

द्रव्यमिति । तुण्ड + पचाद्यच् ।) मुखम् ।
इत्यमरः । २ । ६ । ८९ ॥ (चञ्चुः । यथा,
देवीभागवते । २ । १ । २६ ।
“आमिषं स तु विज्ञाय शीघ्रमभ्यद्रवत् खगम् ।
तुण्डयुद्धमथाकाशे तावुभौ समचक्रतुः ॥”
पुं महादेवः । यथा, हरिवंशे भविष्यपर्व्वणि ।
१५ । १५ ।
“नमस्तुण्डाय तुष्याय नमस्तुटितुटाय च ॥”
राक्षसविशेषः । यथा, महाभारते । ३ । २८४ । ९ ।
“तुण्डेन च नलस्तत्र पटुशः पनसेन च ॥”)

तुण्डकेरिका, स्त्री, कार्पासी । इति राजनिर्घण्टः ॥

तुण्डकेरी, स्त्री, (प्रशस्तं तुण्डम् । प्रशंसायां कन् ।

तदीर्त्ते ईरयति वा तत्तुल्यशोभाधारणात् ।
ईर + कर्म्मण्यण् । स्त्रियां ङीष् ।) विम्बिका ।
इत्यमरटीकायां भरतः ॥ तेलाकुचा इति
भाषा ॥

तुण्डिः, पुं, (तुण्डते निष्पीडयति मध्यस्थद्रव्य-

मिति । तुण्ड + “सर्व्वधातुभ्य इन् ।” उणां
४ । ११७ । इतीन् ।) मुखम् । चञ्चुः ।
इत्युणादिकोषः ॥ नाभौ स्त्री । इति शब्दरत्ना-
वली ॥

तुण्डिका, स्त्री, (तुण्डिरेव । तुण्डि + स्वार्थे कन्

टाप् च ।) नाभिः । विम्बिका । इति शब्द-
रत्नावली ॥ (अस्या गुणा यथा, --
“तुण्डिका चाग्निरुचिकृद्वातपित्तनिवारणी ॥”
इति हारीते प्रथमे स्थाने दशमेऽध्याये ॥)

तुण्डिकेरी, स्त्री, कार्पासी । विम्बिका । इत्य-

मरः । २ । ४ । ११६ ॥ (अस्या पर्य्यायाः यथा,
“तुष्टी रक्तफला विम्बी तुण्डिकेरी च विम्बिका ॥”
इति वैद्यकरत्नमालायाम् ॥)
अस्या रूपान्तराणि । तुण्डिकेरिका तुण्डि-
केरिः तुण्डकेरी तुण्डिकेशी । इत्यमरटीका ॥

तुण्डिकेशी, स्त्री, विम्बिका । इति शब्दचन्द्रिका ॥

तुण्डिभः, त्रि, (तुण्डिर्वृद्धा नाभिरस्य । “तुन्दिवलि-

वटेर्भः ।” ५ । २ । १४० । इति भः । “मूर्द्धन्योपधो-
ऽयं तुण्डिः ।” इति माधवः ।) वृद्धनाभिः ।
बृहन्नाभियुक्तः । इत्यमरः । २ । ६ । ६१ ॥

तुण्डिलः, स्त्री, (तुण्डिरस्त्यस्येति । सिध्मादित्वात्

इलच् ।) वृद्धनाभिः । इत्यमरः । २ । ६ । ६१ ॥
मुखरः । इत्युणादिकोषः ॥

तुत्थ, त् क स्तृतौ । इति कविकल्पद्रुमः ॥ (अदन्त

चुरां-परं-सकं-सेट् ।) आद्ये पञ्चमस्वरः शेषो
दन्त्यवर्गाद्ययुक्तस्थकारः । तुत्थयति तुत्थापयति ।
स्तृतिराच्छादनम् । इति दुर्गादासः ॥

तुत्थं, क्ली, (तुदति पीडयत्यनेन । तुद + “पातॄ-

तुदेति ।” उणां २ । ७ । इति थक् । यद्बा,
तुत्थ आच्छादने + अच् ।) खर्परीतुत्थम् ।
उपघातुमेदः । तुतिया इति भाषा । तत्-
पर्य्यायः । नीलाञ्जनम् २ हरिताश्मम् ३ तुत्थ-
कम् ४ मयूरग्रीवकम् ५ ताम्रगर्भम् ६ अमृ-
तोद्भवम् ७ मयूरतूत्थम् ८ शिखिकण्ठम् ९
नीलम् १० । इति राजनिर्घण्टः ॥ तुत्थाञ्जनम्
११ शिखिग्रीवम् १२ वितुन्नकम् १३ मयूर-
कम् १४ । इत्यमरः । २ । ९ । १०१ ॥ तूतकम् १५
मृषातुत्थम् १६ मृतामदम् १७ । इति शब्द
चन्द्रिका ॥ अस्य गुणाः । कटुत्वम् । कषाय-
त्वम् । उष्णत्वम् । श्वित्रनेत्रामयनाशित्वम् ।
सर्व्वविषदोषशमनत्वम् । वान्तिकारकत्वञ्च ।
इति राजनिर्घण्टः ॥ क्षारत्वम् । निर्म्मलत्वम् ।
लघुत्वम् । भेदकत्वम् । कृमिकण्डुकुष्ठकफनाशि-
त्वञ्च । इति राजवल्लभः ॥ * ॥
“तुत्थं वितुन्नकं चापि शिखिग्रीवं मयूरकम् ।
तुत्थं ताम्रोपधातुर्हि किञ्चित्ताम्रेण तद्भवेत् ॥
किञ्चित्ताम्रगुणं तस्माद्बक्ष्यमाणगुणञ्च तत् ।
तुत्थकं कटुकं क्षारं कषायं वामकं लघु ॥
लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत् ।
विषाश्मकुष्ठकण्डूघ्नं खर्परं चापि तद्गुणम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥
(अस्य शोधनविधिर्यथा, --
“ओतोर्व्विष्ठासमं तुत्थं सक्षौद्रं टङ्गणाङ्घ्रियुक् ।
त्रिधा सुपुटितं शुद्धं वान्तिभ्रान्तिविवर्ज्जितम् ॥”
अन्यच्च ।
“गन्धकेन समं तुत्थं तुत्थार्द्धेनार्द्धयामकम् ।
वान्तिभ्रान्ती यदा न स्तस्तदा सिद्धिं विनिर्द्दि-
शेत् ॥”
शोधितस्यास्य गुणा यथा, --
“तुत्थं सकटुकक्षारं कषायं विशदं लघु ।
लेखनं भेदि चक्षुष्यं कण्डूक्रिमिविषापहम् ॥”
इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि-
कारे ॥)
रसाञ्जनम् । ग्रावा । इत्युणादिकोषः ॥ अग्निः ।
इति संक्षिप्तसारे उणादिवृत्तिः ॥ अग्नौ पुं ।
इति हेमचन्द्रः ॥

तुत्थकं, क्ली, (तुत्थमेव । स्वार्थे कन् ।) तुत्थम् ।

इति शब्दचन्द्रिका ॥ (अस्य गुणा यथा, --
“तुत्थकं कटुकं क्षारं कषायं वामकं लघु ।
लेखनम्भेदनं शीतं चक्षुष्यं कफपित्तहृत् ।
विषाश्मकुष्ठकण्डूघ्नं खर्परञ्चापि तद्गुणम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

तुत्था, स्त्री, (तुत्थ + टाप् ।) नीलीवृक्षः । क्षुद्रैला ।

इत्यमरः । २ । ४ । ९५ ॥ महानीली । इति
राजनिर्घण्टः ॥

तुत्थाञ्जनं, क्ली, (तुत्थयति तुत्थ्यते वा । तुत्थ +

अच् । तुत्थञ्च तदञ्जनञ्चेति कर्म्मधारयः ।)
उपघातुविशेषः । तुत्थम् । इत्यमरः । २ । ९ । १०१ ॥

तुद, ञ श औ व्यथे । इति कविकल्पद्रुमः ॥

(तुदां-उभं-सकं-अनिट् ।) ञ श, तुदति तुदते ।
औ, तोत्ता । व्यथ इह ञ्यन्तस्य रूपम् ।
तुदोद गदया चारिम् । इति भट्टिः ॥ विधु-
न्तुदः । इति दुर्गादासः ॥

तुन्दं, क्ली, (तुदतीति । तुद + “अब्दादयश्च ।”

उणां ४ । ९८ । इति दन् तुदेर्नुम्च इत्युक्तेर्नुम्
ततो दस्य लोपः ।) उदरम् । इत्यमरः ।
२ । ६ । ७७ ॥

तुन्दकूपिका, स्त्री, (क्षुद्रः कूपः कूपिका । तुन्दस्य

उदरस्य कूपिकेव ।) नाभिः । इति हेमचन्द्रः ।
३ । २ । ७० ॥

तुन्दकूपी, स्त्री, (तुन्दस्य उदरस्य कूपी क्षुद्रकूप

इव ।) नाभिः । इति त्रिकाण्डशेषः ॥

तुन्दपरिमार्ज्जः, त्रि, (तुन्दमुदरं परिमार्ष्टीति ।

परि + मृज + अण् ।) तुन्दपरिमृजः । इत्य-
मरटीकायां रमानाथः ॥ (अलसादन्यत्र तुन्द-
परिमार्ज्ज एव ।” इति सिद्धान्तकौमुदी । पां
३ । २ । ५ ॥)
पृष्ठ २/६३३

तुन्दपरिमृजः, त्रि, (तुन्दमुदरं परिमार्ष्टीति ।

परि + मृज + “तुन्दशोकयोः परिमृजापनुदोः ।”
३ । २ । ५ । इत्यत्र “आलस्यसुखाहरणयो-
रिति वक्तव्यम् ।” इति वार्त्तिकोक्त्या कः ।)
अलसः । इत्यमरः । २ । १० । १८ ॥

तुन्दि, क्ली, (तुद + इन् बाहुलकात् नुम् च ।)

उदरम् । इति हेमचन्द्रः । ३ । १६८ ॥ गन्धर्व्व-
विशेषे, पुं । इति जटाधरः ॥

तुन्दिः, स्त्री, (तुद् + इन् बाहुलकात् नुम् च ।)

नाभिः । इति त्रिकाण्डशेषः ॥

तुन्दिकः, त्रि, (अतिशयितं तुन्दमुदरमस्त्यस्य ।

“तुन्दादिभ्य इलच्च ।” ५ । २ । ११७ । इति
चकारात् ठन् ।) विशालजठरो जनः । इति
शब्दरत्नावली ॥

तुन्दिका, स्त्री, (तुन्दमुदरं आश्रयत्वेनास्त्यस्याः ।

तुन्द + ठन् टाप् च ।) नाभिः । इति शब्द-
रत्नावली ॥

तुन्दितः, त्रि, तुण्डिलः । इति भरतस्य द्विरूप-

कोषः ॥

तुन्दिभः, त्रि, (तुन्दिर्वृद्धा नाभिरस्त्यस्येति । तुन्दि

+ “तुन्दिवलिवटेर्भः ।” ५ । २ । १३९ । इति
भः ।) तुन्दिलः । इति शब्दरत्नावली ॥

तुन्दिलः, त्रि, (तुन्दं विशालमुदरमस्त्यस्येति ।

तुन्द + “तुन्दादिभ्य इलच्च ।” ५ । २ । ११७ ।
इतीलच् ।) विशालजठरो जनः । भुँडे इति
भाषा ॥ तत्पर्य्यायः । पिचिण्डिलः २ बृहत्-
कुक्षिः ३ तुन्दिकः ४ तुन्दिभः ५ तुन्दी ६ ।
इति शब्दरत्नावली ॥

तुन्दिलफला, स्त्री, (तुन्दिलवत् फलमस्याः ।)

त्रपुषी । इति राजनिर्घण्टः ॥

तुन्दी, स्त्री, (तुन्दि + वा ङीष् ।) नाभिः । इति

शब्दरत्नावली ॥

तुन्दी, [न्] त्रि, (तुन्दं विशालमुदरमस्त्यस्येति ।

“तुन्दादिभ्य इलच्च ।” ५ । २ । ११७ । इति
चकारात् इनिः ।) तुन्दिलः । इति शब्द-
रत्नावली अमरश्च ॥

तुन्नः, पुं, (तुद्यते इति । तुद + क्तः ।) नन्दी-

वृक्षः । तुँद इति भाषा । इत्यमरः । २ । ४ ।
१२७ ॥ त्रि, व्यथितः । (यथा, रामायणे ।
२ । १४ । २३ ।
“स तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः ।
राजा प्रचोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥”
छिन्ने । द्विधाकृते च ॥)

तुन्नवायः, पुं, (तुन्नं छिन्नं वयतीति । वे + “ह्वावा-

मश्च ।” ३ । २ । २ । इत्यण् ।) सौचिकः ।
इत्यमरः । २ । १० । ६ ॥ दरजी इति भाषा ॥
(यथा, मनुः । ४ । २१४ ।
“शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ॥”)

तुन्प, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) तुम्पति । इति दुर्गादासः ॥

तुन्प, श वधे । क्लेशे । इति कविकल्पदूमः ॥

(तुदां-सकं-अकं च-सेट् ।) श, तुपति तुतुम्प ।
तुप प श तुन्प श क्लिशि वधे इत्येताभ्यामेव
तुम्पति तुपतीति सिद्धौ तुन्प वधे इत्यस्य
भ्वादौ पाठस्तु वेदे शबन्तस्य शान्तस्य चोच्चा-
रणभेदार्थः । इति दुर्गादासः ॥

तुन्फ, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) तुम्फति । इति दुर्गादासः ॥

तुन्फ, श वधे । क्लेशे । इति कविकल्पद्रुमः ॥

(तुदां-परं-सकं-अकं च-सेट् ।) श, तुफति
तुतुम्फ । इति दुर्गादासः ॥

तुप, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) तोपति । इति दुर्गादासः ॥

तुप, इ क अर्द्दने । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) पञ्चमस्वरी । इ क, तुम्प-
यति । अर्द्दनं वधः । इति दुर्गादासः ॥

तुप, प श क्लेशे । वधे । इति कविकल्पद्रुमः ॥

(तुदां-परं-अकं-सकं च-सेट् ।) प श, तुम्पति
तुतोप । इति दुर्गादासः ॥

तुफ, वधे । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) तोफति । इति दुर्गादासः ॥

तुफ, प श क्लेशे । वधे । इति कविकल्पद्रुमः ॥

(तुदां-परं-अकं-सकं च-सेट् ।) प श, तुम्फति
तुतोफ । इति दुर्गादासः ॥

तुब, इ कि अर्द्दे । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-परं-सकं-सेट् ।) तवर्गाद्यादिः । पञ्चम-
स्वरी । इ, तुम्ब्यते । कि, तुम्बयति तुम्बति ।
अर्द्दो वधः । इति दुर्गादासः ॥

तुभ, ऌ ङ हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) ऌ, अतुभत् । ङ, तोभते ।
इति दुर्गादासः ॥

तुभ, य ग हिंसे । इति कविकल्पद्रुमः ॥ (दिवां-

क्र्यां च-परं-सकं-सेट् ।) य, तुभ्यति । ग,
तुभ्नाति । तुतोभ । इति दुर्गादासः ॥

तुमुरः, पुं क्ली, (तुमुलः । रस्य लः ।) तुमुलः ॥

इत्यमरटीकायां रायमुकुटः ॥ (क्षत्त्रियजाति-
विशेषः । यथा, मात्स्ये । ११३ । ५३ ।
“तुमुरास्तुम्बराश्चैव पङ्गमा नैषधैः सह ॥”)

तुमुलं, क्ली, (तु सौत्रो धातुः + बाहुलकात्

मुलक् ।) रणसङ्कुलम् । सङ्कीर्णयुद्धम् । इत्य-
मरमेदिनीकरौ ॥ परस्परसम्बाधो रणसंघट्टः ।
इति भरतः ॥ (यथा, देवीभागवते । ५ । ४१ । २८ ।
“तत्राभूत्तुमुलं युद्धं देवदानवसैन्ययोः ॥”)

तुमुलः, पुं, (तु + बाहुलकात् मुलक् ।) कलि-

वृक्षः । इति मेदिनी । ले, ९८ ॥ व्याकुलो
रणः । इति त्रिकाण्डशेषः ॥ (प्रचण्डे उग्रे
सङ्कुलमात्रे च त्रि । यथा, राजतरङ्गिण्याम् ।
४ । ५४१ ।
“एकस्य करुणाक्रन्दैः सैन्यस्यान्यस्य गर्ज्जितैः ।
सरित्तरङ्गघोषैश्च बभूवुस्तुमुला दिशः ॥”
तथा, महाभास्ते । १ । ५३ । १२ ।
“ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ॥”)

तुम्बः, पुं स्त्री, (तुम्बति नाशयत्यरुचिमिति ।

तुम्ब अर्द्दने + अच् ।) अलावुः । इत्यमर-
टीकायां भरतः ॥ (अलावोः शुष्कत्वक् ।
यथा, हरिवंशे । ६४ । ५ ।
“सशिक्यतुम्बकरकौ गोपवेणुप्रवादकौ ॥”)

तुम्बकः, पुं, (तुम्बति अरुचिमिति । तुम्ब + ण्वुल् ।)

अलावुः । इति शब्दरत्नावली ॥ राजालावुः ।
इति राजनिर्घण्टः ॥

तुम्बा, स्त्री, (तुम्ब + टाप् ।) अलावुः । इति

शब्दरत्नावली ॥ (यथा, अम्बाष्ठके । ७ ।
“कुम्बावतीसमविडम्बा गलेन नवतुम्बाभवीण-
सविधा
शं बाहुलेयशशिविम्बाभिराममुखसंवाधित-
स्तनभरा ॥”)
गवी । इति त्रिकाण्डशेषः ॥

तुम्बिः, स्त्री, (तुम्बति नाशयत्यरुचिमिति । तुबि

अर्द्दने + “सर्व्वधातुभ्य इन् ।” उणां ४ । ११७ ।
इतीन् ।) अलावुः । इति शब्दरत्नावली ॥
(अलावुशब्देऽस्या विवरणं ज्ञातव्यम् ॥)

तुम्बिका, स्त्री, (तुम्ब अर्द्दने + ण्वुल् । टापि अत

इत्वम् ।) अलावुः । इति शब्दरत्नावली ॥
कटुतुम्बी । इति राजनिर्घण्टः ॥

तुम्बिनी, स्त्री, (तुम्बति नाशयत्यरुचिमिति ।

तुम्ब + णिनिः ङीप् ।) कटुतुम्बी । इति राज-
निर्घण्टः ॥

तुम्बी, स्त्री, (तुम्बि + कृदिकारादिति वा ङीष् ।)

अलावुः । इत्यमरः । २ । ४ । १५६ ॥ (यथा,
शान्तिशतके । ३ । १६ ।
“अरे चेतोमीन ! भ्रमणमधुना यौवनजले
त्यज त्वं स्वच्छन्दं युवतिजलधौ पश्यसि न किम् ।
तनूजालीजालं स्तनयुगलतुम्बीफलयुगं
मनोभूः कैवर्त्तः क्षिपति परितस्त्वां प्रति
मुहुः ॥”
“अलावुः कथिता तुम्बी द्बिधा दीर्घा च वर्त्तुला ।
मिष्टं तुम्बीफलं हृद्यं पित्तश्लेष्मापहं गुरु ॥
वृष्यं रुचिकरं प्रोक्तं धातुपुष्टिविवर्द्धनम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
कुलिकवृक्षः । इति रत्नमाला ॥

तुम्बीपुष्पं, क्ली, (तुम्ब्याः पुष्पमिव पुष्पमस्य ।) लता-

म्बुजम् । अलावुपुष्पम् । इति हारावली । २०२ ॥

तुम्बुकं, क्ली, (तुम्ब + बाहुलकात् उकः ।) अलावु-

फलम् । इति हड्डचन्द्रः ॥

तुम्बुकः, पुं, (तुम्ब + बाहुलकात् उकः ।) अलावुः ।

इति भरतधृतहड्डचन्द्रः ॥

तुम्बुरी, स्त्री, (तुम्बवदाकारं रातीति । रा + कः ।

ङीप् । पृषोदरादित्वादुत्वम् ।) कुक्कुरी । धन्या-
कम् । इति मेदिनी । रे, १६३ ॥

तुम्बुरु, क्ली, कुस्तुम्वुरु । इत्यमरटीकायां भरतः ॥

(यथा, वैद्यके ।
“तुम्बुरुभृङ्गषष्ठ्याह्वकन्दकं कटुरोहिणी ॥”
अस्य तैलगुणाः ।
“तुम्बुरुत्थं करञ्जोत्थं ज्योतिष्मत्युद्भवन्तथा ।
अर्शकुष्ठकृमिश्लेष्मशुक्रमेदोऽनिलापहम् ॥”
इति हारीते प्रथमे स्थाने नवमे ऽध्याये ॥)
पृष्ठ २/६३४

तुम्बुरुः, पुं क्ली, गन्धर्व्वविशेषः । स्वर्गगायकः । इति

जटाधरः ॥ (यथा, महाभारते । १ । १२३ । १५ ।
“गन्धर्व्वैः सहितः श्रीमान् प्रागायत च तुम्बुरुः ॥”
तपस्विविशेषः । यथा, हरिवंशे । १२६ । ९ ।
“अर्च्चिष्मांस्तुम्बु रुश्चैव भारिश्च वदतां वरः ।
नेतारो देवदेवानामेते हि तपसान्विताः ॥”)
अहदुपासकविशेषः । इति हेमचन्द्रः ॥ फलवृक्ष-
विशेषः । तत्फलन्तु त्याप्तमुखं मरीचवत् । तत्
पर्य्यायः । शूलघ्नः २ । इति रत्नमाला ॥
सौरजः ३ सौरः ४ वनजः ५ सानुजः ६ द्बिजः
७ तीक्ष्णकल्कः ८ तीक्ष्णफलः ९ तीक्ष्णपत्रः १०
महामुनिः ११ स्फुटलः १२ सुगन्धिः १३ ।
अस्य गुणाः । मधुरत्वम् । तिक्तत्वम् । कटुत्वम् ।
उष्णत्वम् । कफवातशूलगुल्मोदराध्मानक्रिमि-
नाशित्वम् । वह्निदीपनत्वञ्च । इति राज-
निर्घण्टः ॥ तद्वृक्षपर्य्यायास्तत्फलगुणाश्च ।
“तुम्बुरुः सौरभः सौरो वनजः सानुजोऽन्धकः ।
तुम्बु रु प्रथितं तिक्तं कटुपाके हि तत् कटु ॥
रूक्षोष्णं दीपनं तीक्ष्णं रुच्यं लघु विदाहि च ।
वातश्लेष्माक्षिकर्णौष्ठशिरोरुग्गुरुताकृमीन् ॥
कुष्ठशूलारुत्तिश्वासप्लीहकृच्छ्राणि नाशयेत् ॥”
इति भावप्रकाशः ॥

तुर, लि र वेगे । इति कविकल्पद्रुमः ॥ (ह्वां-

परं-अकं-सेट् ।) ह्रस्वी । लि, तुतोर्त्ति । र,
वैदिकः । वेगः शीघ्रगमनम् । अदादिवर्ज्ज-
धातुभ्यः शपो विधानेनैव सिद्धे अदादेः शपं
विधाय तल्लुक्करणं निष्ठायां भावादिढे वोदुङो-
ऽव्वत इत्यनेन गुणार्थमिति चतुर्भुजः । तेन
तोरितं तुरितमिति । तन्मते रुदेरपि रोदितं
रुदितमिति स्यात् । इति दुर्गादासः ॥

तुरः, त्रि, (तुतोर्त्ति वेगेन गच्छतीति । तुर +

कः ।) वेगवान् । इति तुरगशब्दटीकायां
भरतः ॥ (यथा, ऋग्वेदे । ७ । ५६ । १९ ।
“इमे तुरं मरुतो रामयन्तीमे सहः सहस
आ नमन्ति ॥”
“तुरं कर्म्मसु क्षिप्रवन्तम् ।” इति सायनः ॥
क्षिप्रस्तोत्रकारी । यथा, ऋग्वेदे । ८ । २६ । ४ ।
“उपस्तोमान्तुरस्य दर्शथः श्रिये ॥”
“तुरस्य क्षिप्रं स्तोत्रं कुर्व्वतः ।”
इति सायनः ॥)

तुरगः, पुं, (तुर वेगे + भावे घञर्थे कः । तुरेण

वेगेन गच्छतीति । गम + अन्येष्वपीति डः ।)
चित्तम् । घोटकः । इति मेदिनी । गे, ३८ ॥
(यथा, रघुः । ३ । ५१ ।
“ततः प्रहस्यापभयः पुरन्दरं
पुनर्वभाषे तुरगस्य रक्षिता ॥”)

तुरगगन्धा, स्त्री, (तुरगस्य गन्ध इव गन्धो

यस्याः ।) अश्वगन्धा । इति रत्नमाला ॥ (अश्व-
गन्धाशब्देऽस्या-विवरणमाख्यातम् ॥)

तुरगब्रह्मचर्य्यकं, क्ली, (तुरगस्येव ब्रह्मचर्य्यम् ।

ततः स्वार्थे कन् ।) अभावादङ्गनात्यागः । इति
त्रिकाण्डशेषः ॥

तुरगलीलकः, पुं, (तुरगस्येव लीला यस्य ततः

कन् ।) तालप्रभेदः । यथा, सङ्गीतदामोदरः ।
“द्रुतद्वन्द्वं विरामान्तं लघुस्तुरगलीलके ॥”

तुरगी [न्] त्रि, (तुरगो घोटको वाहनत्वेना-

स्त्यस्येति । तुरग + इनिः ।) अश्वारोहः ।
इति हेमचन्द्रः । ३ । ४२५ ॥

तुरगी, स्त्री, (तुरगवत् गन्धोऽस्त्यस्याः । अर्श

आदित्वात् अच् ततो गौरादित्वात् ङीष् ।)
अश्वगन्धा । इति मेदिनी । गे, ३८ ॥ अश्वस्त्री ।
इति व्याकरणम् ॥

तुरङ्गः, पुं स्त्री, (तुरेण वेगेन गच्छतीति । तुर +

गम् + “गमे सुपि वाच्यः ।” ३ । २ । ३८ ।
इत्यस्य वार्त्तिकोक्त्या खच् । “खच्च डिद्वा
वाच्यः ।” इति डित् । “अरुर्द्विषदिति ।” ६ ।
३ । ६७ । इति मुम् ।) घोटकः । इत्यमरः ।
२ । ८ । ४३ ॥ (यथा, पञ्चतन्त्रे । १ । ३१४ ।
“मृगा मृगैः सङ्गमनुव्रजन्ति
गावश्च गोभिस्तुरगास्तुरङ्गैः ॥”)
चित्तम् । इति शब्दरत्नावली ॥

तुरङ्गकः, पुं, (तुरङ्ग इव कायतीति । कै + कः ।)

घोषकाकृतिः । इति रत्नमाला ॥ हस्तिघोषा
इति ख्यातः ॥

तुरङ्गद्वेषणी, स्त्री, (द्विष भावे ल्युट् । तुरङ्गेन

सह द्वेषणं शत्रुता यस्य । ततो ङीप् ।) घोट-
केन सह स्वभाववैरिभावादेवास्यास्तथात्वम् ।)
महिषी । इति राजनिर्घण्टः ॥ (तुरङ्गद्विषणी
तुरङ्गद्वेषिणी इत्यपि च कुत्रचिद् दृश्यते ॥)

तुरङ्गप्रियः, पुं, (तुरङ्गाणां घोटकानां प्रियः ।)

यवः । इति राजनिर्घण्टः ॥

तुरङ्गमः, पुं, स्त्री, (तुरेण वेगेन गच्छतीति । गम

+ खच् + मुम् च ।) घोटकः । इत्यमरः । २ ।
८ । ४३ ॥ (यथा, रघुः । ७ । ४७ ।
“तुरङ्गमस्कन्धनिषण्णदेहं
प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष ॥”)

तुरङ्गवक्त्रः, पुं, (तुरङ्गस्येव वक्त्रं वदनं यस्य ।)

किन्नरः । इति जटाधरः ॥

तुरङ्गवदनः, पुं, (तुरङ्गस्येव वदनं यस्य ।) किन्नरः ।

इत्यमरः । १ । २ । ७४ ॥

तुरङ्गारिः, पुं, (तुरङ्गस्य अरिः शत्रः । अश्वनाशक-

त्वादस्य तथात्वम् ।) करवीरः । इति रत्नमाला ॥

तुरङ्गिका, स्त्री, (तुरङ्गवत् आकृतिरस्त्यस्य

फलादौ । तुरङ्ग + ठन् ।) देवदालीलता ।
इति राजनिर्घण्टः ॥ (गुणादयोऽस्या देवदाली-
शब्दे ज्ञातव्याः ॥)

तुरङ्गी, स्त्री, (तुरङ्गस्तद्गन्धोऽस्त्यस्याः । अच् ।

गौरादित्वात् ङीष् ।) अश्वगन्धा । इति शब्द-
रत्नावली ॥ घोटिकावृक्षः । इति राजनिर्घण्टः ॥

तुरायणः, त्रि, (तुरेण वेगेन अयनं यत्र । “पूर्ब्ब-

पदात् संज्ञायामगः ।” ८ । ४ । ३ । इति णत्वम् ।)
परायणः । इत्यमरटीकायां स्वामी ॥ (क्ली,
यज्ञविशेषः । इति सिद्धान्तकौमुदी ॥ यथा,
कात्यायनश्रौतसूत्रे । २४ । ८ । १ । २ ।
“तुरायणं वैशाखपञ्चम्याम् । चैत्रस्य वा ॥”
यथा, महाभारते । १३ । १०३ । ३५ ।
तुरायणं हि व्रतमप्यधृष्य-
मक्रोधनोऽकरवं त्रिंशतोऽब्दान् ॥”)

तुराषाट्, [ह्] पुं, (तुरं वेगवन्तं साहयति

अभिभवतीति । सह + णिच् + क्विप् । “सहेः
साडः सः ।” ८ । ३ । ५६ । इति षत्वम् ।
अन्येषामपीति पूर्ब्बपदस्य दीर्घः ।) इन्द्रः ।
इत्यमरः । १ । १ । ४७ ॥ अस्य रूपान्तरम् ।
तुराषाड् ॥ (यथा, देवीभागवते । १ । ११ । ६३ ।
“तुराषाडपि तच्छ्रुत्वा क्रोधयुक्तो बभूव ह ॥”)

तुरिः, स्त्री, (तुतोर्त्ति द्रुतं गच्छतीति । तुर +

इन् ।) तुरी । इति शब्दरत्नावली ॥

तुरी, स्त्री, (तुरि + कृदिकारादिति वा ङीष् ।)

तन्त्रवायस्य काष्ठनिर्म्मितोपकरणविशेषः । तत्-
पर्य्यायः । तन्त्रकाष्ठम् २ तुलिः ३ तुली ४
तुरिः ५ । इति शब्दरत्नावली ॥ (यथा,
आर्य्यासप्तशत्याम् । ४४३ ।
“मेदिन्यां तव निपतति न पदं बहुवल्लभेति
गर्व्वेण ।
अश्लिष्य कैर्न तरुणैस्तुरीव वसनैर्विमुक्तासि ॥”)

तुरीयं, क्ली, (चतुर्णां पूरणम् । चतुर्थस्थानस्थित-

त्वादस्य तथात्वम् ।) ब्रह्म । इति वेदान्तसारः ॥
“अज्ञानतदुपहितचैतन्ययोराधारभूतं अनुप-
हितचैतन्यम् । यथा । वनवृक्षतदवच्छिन्ना-
काशयोर्जलजलाशयतद्गतप्रतिविम्बाकाशयोर्वा
आधारभूतानुपहिताकाशवदनयोरज्ञानतदुप-
हितचैतन्ययोराधारभूतं यदनुपहितं चैतन्यं
तत्तुरीयमित्युच्यते । शान्तं शिवमद्वैतं चतुर्थं
मन्यन्ते । इत्यादि श्रुतेः ।” इति वेदान्तसारः ॥
(शुक्लयजुर्व्वेदान्तर्गतोपनिषद्बिशेषः । यथा, मुक्ति-
कोपनिषदि ।
“तुरीयातीतसंन्यासपरिव्राजाक्षमालिका ॥”)

तुरीयः, त्रि, (चतुर्णां पूरणः । चतुर् + “चतुर-

श्छयतावाद्यक्षरलोपश्च ।” ५ । २ । ५१ ।
इत्यस्य वार्त्तिकोक्त्या छः । चस्य लोपश्च ।)
चतुर्थः । इति मुग्धबोधम् ॥ (यथा, देवी-
भागवते । १ । १९ । ८ ।
“जाग्रत् स्वप्नसुषुप्तिश्च तव राजन् ! भवन्ति हि ।
अवस्थास्तु यथाकालं तुरीया तु कथं नृप ! ॥”
तारकः । इति सायनः ॥ यथा, ऋग्वेदे । ३ ।
४ । ९ ।
“तन्नस्तुरीयमध पोषयित्नु
देव त्वष्टर्वि रराणः स्यस्व ॥”)

तुरीयवर्णः, पुं, (तुरीयश्चतुर्थो वर्णः ।) शूद्रः ।

इति हलायुधः ॥

तुरुष्कः, पुं, गन्धद्रव्यभेदः । शिलारस इति

ख्यातः । तत्पर्य्यायः । यवनः २ धूम्रः ३ धूम्र-
वर्णः ४ सुगन्धिकः ५ सिह्लकः ६ सिह्लसारः ७
पीतसारः ८ कपिः ९ पिण्याकः १० कपिजः
११ कल्कः १२ पिण्डितः १३ पिण्डितैलकः १४
करेवरः १५ कृत्रिमकः १६ लेपनः १७ सिह्लः
पृष्ठ २/६३५
१८ कपिचञ्चलः १९ यावलः २० तैलाख्यः २१
पिण्डिकः २२ जावः २३ यावतः २४ । इति
शब्दरत्नावली ॥ * ॥ अस्य गुणाः । सुरभित्वम् ।
तिक्तत्वम् । कटुत्वम् । स्निग्धत्वम् । कुष्ठकफ-
पित्ताश्मरीकृच्छ्रमूत्राघातज्वरार्त्तिनाशित्वञ्च ।
इति राजनिर्घण्टः ॥ अन्यच्च “अथ शिलारसः ।
सिह्लकस्तु तुरुष्कः स्याद्यतोऽपवनदेशजः ।
कपितैलञ्च स ख्यातस्तथा च कपिनामकः ॥
सिह्लकः कटुकः स्वादुः स्निग्धोष्णः शुक्रकान्ति-
कृत् ।
वृष्यः कण्डूस्वेदकुष्ठज्वरदाहग्रहापहः ॥”
इति भावप्रकाशः ॥
(अस्य शोधनविधिर्यथा, --
“तुरुष्को मधुना भाव्यः काश्मीरञ्चापि सर्पिषा ॥”
इति वैद्यकचक्रपाणिसंग्रहे वातरोगाधिकारे ॥)
म्लेच्छजातिविशेषः । इति मेदिनी । के, १०२ ॥
तुरुक् इति भाषा । देशविशेषः । तुरक्-
स्तान् इति पारस्य भाषा । तत्पर्य्यायः ।
शाखिः २ । इति हेमचन्द्रः । ४ । २५ ॥
श्रीवासवृक्षः । इति विश्वः ॥ (घोटकविशेषः ।
यथा, अश्ववैद्यके । ६ । ११ ।
“तुरुष्कः कीर्त्तितो वाजी स्थूलवक्रमुखश्च यः ॥”)

तुर्य्यः, त्रि, (चतुर्णां पूरणः । चतुर् + “चतुरश्छ-

यतावाद्यक्षरलोपश्च ।” ५ । २ । ५१ । इत्यस्य
वार्त्तिकोक्त्या यत् चस्य लोपश्च ।) चतुर्थः । इति
मुग्धबोधम् ॥ (यथा, भागवते । ७ । ९ । ३२ ।
“योगेन मीलितदृगात्मनिपीतनिद्र-
स्तुर्य्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे ॥”)

तुर्व्व, ई हिंसे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् ।) ह्रस्वी । तूः तुरौ तुरः । ई,
तूर्णः । इति दुर्गादासः ॥

तुर्व्वसुः, पुं, ययातिराजपुत्त्रः । (अयं हि देव-

यानीगर्भसम्भूतः । शापग्रस्तस्य पितुर्ययातेर्जरां
नासौ गृहीतवान् ।) यथा, --
ययातिरुवाच ।
“यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ।
तस्मात् प्रजासमुच्छेदं तुर्व्वसो ! तव यास्यति ॥
संकीर्णाचारधर्म्मेषु प्रतिलोमचरेषु च ।
पिशिताशिषु लोकेषु नूनं राजा भविष्यसि ॥
गुरुदारप्रयुक्तेषु तिर्य्यग्योनिगतेषु च ।
पशुधर्म्मेषु म्लेच्छेषु पापेषु च भविष्यसि ॥”
इति मत्स्यपुराणम् ॥

तुल, कि उन्मितौ । इति कविकल्पद्रुमः ॥ (चुरां-

पक्षे भ्वां-परं-सकं-सेट् ।) उन्मितिः परि-
माणम् । कि, तोलयति तोलति काञ्चनं बणिक् ।
त्वदीयं सौन्दर्य्यं तुहिनगिरिकन्ये ! तुलयितुमिति
शङ्करोक्तम् । तुलां करोति इति ञौ साध्यम् ।
इति दुर्गादासः ॥

तुलसारिणी, स्त्री, (तुलेन वेगेन सरतीति । सृ +

णिनि + ङीप् ।) तृणम् । इति शब्दमाला ॥

तुलसी, स्त्री, (तुलां सादृश्यं स्यति नाशयतीति ।

सो + कः । गौरादित्वात् ङीष् । सर्व्वोत्तमत्वा-
देव सादृश्याभावादस्यास्तथात्वम् । यदुक्तं ब्रह्म-
वैवर्त्ते प्रकृतिखण्डे । १५ । १५ ।
“नरा नार्य्यश्च तां दृष्ट्वा तुलनां दातुमक्षमाः ।
तेन नाम्ना च तुलसीं तां वदन्ति पुराविदः ॥”
अस्या अन्यानिरुक्तिरुक्ता बृहद्धर्म्मपुराणे । ७ । ६३ ।
“तकारो मरणं प्रोक्तं तद्योगः स्यादुकारतः ।
मृता लसति सेत्येवं तुलसीत्येव गीयते ॥”)
स्वनामख्यातवृक्षः । तत्पर्य्यायः । सुभगा २
तीव्रा ३ पावनी ४ विष्णुवल्लभा ५ सुरेज्या ६
सुरसा ७ कायस्था ८ सुरदुन्दूभिः ९ सुरभिः १०
बहुपत्री ११ मञ्जरी १२ हरिप्रिया १३ अपेत-
राक्षसी १४ श्यामा १५ गौरी १६ त्रिदशमञ्जरी १७
भूतघ्नी १८ भूतपत्री १९ । इति राजनिर्घण्टः ॥
पर्णासः २० वृन्दा २१ कठिञ्जरः २२ कुठेरकः २३ ।
इति शब्दरत्नावली ॥ वैष्णवी २४ पुण्या २५
पवित्रा २६ माधवी २७ अमृता २८ पत्रपुष्पा २९
सुगन्धा ३० गन्धहारिणी ३१ । इति भरत-
धृतमधुमित्रः ॥ सुरवल्ली ३२ प्रेतराक्षसी ३३
सुवहा ३४ ग्राम्या ३५ सुलभा ३६ बहु-
मञ्जरी ३७ देवदुन्दूभिः ३८ । इति भाव-
प्रकाशः ॥ * ॥ क्षुद्रपत्रतुलस्याः पर्य्यायः ।
खरपत्रः १ जम्बीरः २ पत्रपुष्पः ३ फणिज्-
झकः ४ अल्पपत्रः ५ समीरणः ६ । इति रत्न-
माला ॥ मरुवकः ७ प्रस्थपुष्पः ८ । इत्यमरः ।
२ । ४ । ७९ ॥ * ॥ गन्धतुलस्याः पर्य्यायः ।
सुगन्धकः १ गन्धनामा २ तीक्ष्णगन्धः ३ फणिज्-
झकः ४ गन्धफणिज्झः ५ सुगन्धः ६ देव-
दुन्दूभिः ७ एते रक्ततुलस्याः पर्य्यायाः । इति
लोकव्यवहारः ॥ * ॥ विल्वगन्धतुलस्याः पर्य्यायः ।
वैकुण्ठकः १ विल्वगन्धः २ अल्पमानकः ३ ॥ * ॥
श्वेततुलस्याः पर्य्यायः । अर्ज्जकः १ श्वेतपर्णासः २
गन्धपत्रः ३ कुठेरकः ४ अस्रार्ज्जकः ५ तीक्ष्णः ६
तीक्ष्णगन्धः ७ सितार्ज्जकः ८ ॥ * ॥ कृष्णतुलस्याः
पर्य्यायः । कृष्णार्ज्जकः १ कृष्णवर्णी २ कालमानः ३
करालकः ४ कालपर्णी ५ सुरभिः ६ मानकः ७
कालमानकः ८ ॥ * ॥ वर्व्वरीतुलस्याः पर्य्यायः ।
सुरभिः १ तुलसीद्वेषा २ सुरसा ३ अपेत-
राक्षसी ४ । इति रत्नमाला ॥ वर्व्वरी ५
कवरी ६ तुङ्गी ७ खरपुष्पा ८ अजगन्धिका ९ ।
इत्यमरः । २ । ४ । १४९ ॥ * ॥ सामान्यतुलस्या गुणाः ।
कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । सुरभित्वम् ।
श्लेष्मवातजन्तुभूतकृमिवान्तिनाशित्वम् । रुचि-
कारित्वञ्च । इति राजनिर्घण्टः ॥ दाहपित्त-
कारित्वम् । दीपनत्वम् । कुष्ठकृच्छ्रास्रपार्श्व-
रुङ्नाशित्वञ्च । शुक्ला कृष्णा च तुलसी गुणै-
स्तुल्या । इति भावप्रकाशः ॥ * ॥ अस्या उत्-
पत्तिर्यथा । गोलोके इयं तुलसी गोपी श्रीकृष्ण-
प्रिया श्रीकृष्णेन सह अस्याः क्रीडां दृष्ट्वा राधा
शशाप त्वं मानवीं योनिं याहि । तच्छ्रुत्वा सा
खिन्ना । गोविन्दस्तामुवाच त्वं भारते तपस्तप्त्वा
ममांशं नारायणं लभिष्यसि । सा पृथिव्यां
धर्म्मध्वजराजपत्न्यां माधव्यां कार्त्तिकीपूर्णि-
मायां जाता नरा नार्य्यश्च तां दृष्ट्वा तुलनां
दातुमयोग्यास्तेन इह लोकेऽपि तुलसीति नाम्ना
ख्याता । सा तपस्तप्तुं वनं गता । तदानीं राधा-
शापात् सुदामगोपालो दानवीं योनिं प्राप्य
शङ्खचूडनाम्ना ख्यातः । सोऽपि ब्रह्मणो वरात
सर्व्वावध्यत्वं प्राप्तवान् परन्तु यदा तव पत्न्याः
सतीत्वनाशो भविष्यति तदा मरिष्यसीति ब्रह्मा
तमुक्तवान् । स तुलसीमुवाह देवानामधिकार
जहार । देवाः ब्रह्मसभां गताः । ब्रह्मा तैः
सार्द्धं शिवलोकं गतवान् । शिवस्तैः सार्द्धं
वैकुण्ठं गतवान् । नारायणो ब्रह्माणमुवाच
मम शूलं गृहीत्वा शिवो युद्धार्थं तत्र गच्छतु
अहञ्च शङ्खचूडरूपेण तत्पत्न्याः सतीत्वभङ्गं
करिष्यामीति श्रुत्वा शिवस्तत्र जगाम, स
शिवेन सह युद्धे नियुक्तस्तदानीं नारायणस्तत्-
पत्नीं तद्रूपेण धर्षितवान् । पश्चात् सा नारायणं
ज्ञात्वा शशाप त्वं पाषाणो भव जन्मान्तरे
आत्मानं विस्मरिष्यसि इत्युक्त्रा तच्चरणे पपात
रुरोद च । तदा नारायणस्तामुवाच त्वमिदं
शरीरं त्यक्त्वा रमासदृशी भव मया सह क्रीड
इयं तनुर्गण्डकी नदी भवतु तव केशसमूह-
स्तुलसीनामा पुण्यवृक्षो भवतु तदा तत् सर्व्व-
मभूत् । एतद्विवरणन्तु ब्रह्मवैवर्त्ते प्रकृतिखण्डे
१५ अध्यायमारभ्य विस्तरशो द्रष्टव्यम् ॥ * ॥
पद्मपुराणमते जलन्धरपत्नीवृन्दालावण्यदर्श-
नेन विष्णुर्मुग्धः । तन्मोहवारणार्थं देवा महा-
देवशरणङ्गताः । महादेवस्तानुवाच मायामारा-
धय । ते मायां तुष्टुयुः माया तानुवाच अहं रजः-
सत्वतमोगुणैर्गौरीलक्ष्मीस्वधारूपेण तिष्ठामि ।
ता युष्माकं कार्य्यं विधास्यन्ति तच्छ्रुत्वा देवास्तासां
समीपमागत्य प्रणेमुः तास्तेभ्यो वीजानि ददु-
र्वाक्यानि जगदुश्च यत्र विष्णुस्तिष्ठति तत्रे-
मानि वीजानि वपत देवास्तथा चक्रुस्तद्बीजेभ्य-
स्त्रयो वृक्षा अभवन् धात्री मालती तुलसी च
धात्री स्वधांशभूता मालती लक्ष्म्यंशभूता तुलसी
गौर्य्यंशभूता ॥ * ॥ तुलस्या माहात्म्यं यथा ।
ब्रह्मोवाच ।
“तुलस्याः शृणु माहात्म्यं पापघ्नं सर्व्वकामदम् ।
यत् पुरा विष्णुना प्रोक्तं तत्ते वक्ष्याम्यशेषतः ॥
सम्प्राप्तं कार्त्तिकं दृष्ट्वा नियमेन जनार्द्दनः ।
पूजनीयो महद्भिश्च कोमलैस्तुलसीदलैः ॥
दृष्टा स्पृष्टा तथा ध्याता कार्त्तिके नमितार्च्चिता ।
रोपिता सेविता नित्यं पापं हन्ति युगार्ज्जितम् ॥
अष्टधा तुलसी यैस्तु सेविता द्बिजसत्तम ! ।
युगकोटिसहस्राणि ते वसन्ति हरेर्गृहे ॥
रोपिता तुलसी यावत् कुरुते मूलविस्तृतम् ।
तावद्युगसहस्राणि तनोति सुकृतं हरिः ॥
तुलसीदलपुव्पाणि यो दद्याद्धरये मुने ! ।
कार्त्तिके सकलं पापं सोऽत्र जन्मार्ज्जितं दहेत् ॥
रोपिता तुलसी यावत् वर्द्धते वसुधातले ।
तावत्कल्पसहम्ग्नणि विष्णुलोके महीयते ॥
यत् फलं सव्वः सर्व्वपत्रेण यत् फलम् ।
पृष्ठ २/६३६
तुलस्यास्तद्दलार्द्धेन पुण्यं स्याद्बिष्णुपूजने ॥
तुलसीगन्धमादाय यत्र गच्छति मारुतः ।
दिशो दश पुनात्याशु भूतग्रामांश्चतुर्व्विधान् ॥
तुलसीकाननोद्भूता छाया यत्र भवेन्मुने ! ।
तत्र श्राद्धं प्रदातव्यं पितॄणां तृप्तिहेतवे ॥
तुलसीवीजनिकरो यस्मिन् पतति वै मुने ! ।
तत् स्थानं परमं ज्ञेयं पितॄणां प्रीतिवर्द्धनम् ॥
यस्मिन् गृहे द्बिजश्रेष्ठ ! तुलसीतलमृत्तिका ।
तत्रैव नोपसर्पन्ति भूतले यमकिङ्कराः ॥
तुलसीमृत्तिकालिप्तो यदि प्राणान् परित्यजेत् ।
यमेन नेक्षितुं शक्यो मुक्तः पापशतैरपि ॥
तुलसीमृत्तिकालिप्तं ललाटं यस्य दृश्यते ।
कुलं स्पृशति नो तस्य कलिर्मुनिवरोत्तम ! ॥
यः कश्चित्तुलसीमूले कार्त्तिके केशवप्रियः ।
दीपं ददाति विप्रेन्द्र ! स लभेद्वैष्णवं पदम् ॥
तुलसीकाननञ्चैव गृहे यस्यावतिष्ठते ।
तद्गृहं तीर्थभूतं हि नायान्ति यमकिङ्कराः ॥
दर्शनं नर्म्मदायास्तु गङ्गास्नानं तथैव च ।
तुलसीवनसं सर्गः सममेतत्त्रयं स्मृतम् ॥
रोपणात् पालनात् सेवाद्दर्शनात् स्पर्शनान्नृणाम् ।
तुलसी दहते पापं वाङ्मनःकायसञ्चितम् ॥
तुलसीमञ्जरीभिर्यः कुर्य्याद्धरिहरार्च्चनम् ।
न स गर्भगृहं याति मुक्तिभागी भवेन्नरः ॥
पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।
वासुदेवादयो देवा वसन्ति तुलसीदले ॥
तुलसीमञ्जरीयुक्तो यस्तु प्राणान् विमुञ्चति ।
यमो न वीक्षितुं शक्तो युक्तः पापशतैरपि ॥”
इति पाद्मोत्तरखण्डम् ॥ * ॥
“यत्रैकस्तुलसीवृक्षस्तिष्ठति द्विजसत्तम ! ।
तत्रैव त्रिदशाः सर्व्वे ब्रह्मविष्णुशिवादयः ॥
केशवः पत्रमध्येषु पत्राग्रेषु प्रजापतिः ।
पत्रवृन्ते शिवस्तिष्ठेत् तुलस्याः सर्व्वदैव हि ॥
लक्ष्मीः सरस्वती चैव गायत्त्री चण्डिका तथा ।
शची चान्या देवपत्न्यस्तत्पुष्पेषु वसन्ति वै ॥
इन्द्रोऽग्निः शमनश्चैव नैरृ तो वरुणस्तथा ।
पवनश्च कुवेरश्च तच्छाखायां वसन्त्यमी ॥
आदित्यादिग्रहाः सर्व्वे विश्वेदेवाश्च सर्व्वदा ।
वसवो मनवश्चैव तथा देवर्षयोऽखिलाः ॥
विद्याधराश्च गन्धर्व्वाः सिद्धाश्चाप्सरसस्तथा ।
तुलसीपत्रमाश्रित्य सर्व्वदा निवसन्ति वै ॥
चिन्वन्ति तृणजातीनि तुलसीमूलजानि वै ।
तद्देहस्था ब्रह्महत्याश्चिनोति तत्क्षणाद्धरिः ॥
ग्रीष्मकाले द्विजश्रेष्ठ ! सुगन्धैः शीतलैर्जलैः ।
तुलसीसेचनं कृत्वा नरो निर्व्वाणमाप्नुयात् ॥
चन्द्रातपं वा छत्रं वा तुलस्यै यस्तु यच्छति ।
विशेयतो निदाघेषु स मुक्तः सर्व्वपातकैः ॥
वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनः ।
सन्यथेत् सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः ॥
कदाचित्तुलसीं दुग्धैः सेचयेद्यो नरोत्तमः ।
तस्य वेश्मनि विप्रर्षे ! लक्ष्मीर्भवति निश्चला ॥
गोमयैस्तुलसीमूले यः कुर्य्यादनुलेपनम् ।
सम्मार्जनञ्च कुरुते तस्य पुण्यफलं शृणु ॥
रजांसि तस्य यावन्ति दूरीभूतानि जैमिने ! ।
तावत्कल्पसहस्राणि मोदते ब्रह्मणा सह ॥
यद्धर्म्मकर्म्म कुरुते मनुजः पृथिव्यां-
नारायणप्रियतमां तुलसीं विना च ।
तत् सर्व्वमेव विफलं भवति द्विजेन्द्र !
पद्मेक्षणोऽपि न हि तुष्यति देवदेवः ॥
यस्य स्यात् तुलसीपत्रं मुखे शिरसि कर्णयोः ।
मृत्युकाले द्बिजश्रेष्ठ ! तस्य स्वामी न भास्करिः ॥”
इति पाद्मे क्रियायोगसारः ॥ * ॥
“स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः ।
तुलसीपत्रतोये च योऽभिषेकं समाचरेत् ॥
गवामयुतदानेन यत् फलं लभते नरः ।
तुलसीपत्रदानेन तत् फलं कार्त्तिके सति ॥
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् ।
रत्नयानं समारुह्य वैकुण्ठं स प्रयाति च ॥
त्रिकालं तुलसीपत्रं शुद्धं पर्युषितं सति ।
श्राद्धे व्रते वा दाने वा प्रतिष्ठायां सुरार्च्चने ॥
भूगतं तोयपतितं यद्दत्तं विष्णवे सति ।
शुद्धन्तु तुलसीपत्रं क्षालनादन्यकर्म्मणि ॥” * ॥
तुलसीचयननिषेधकालो यथा, --
“पूर्णिमायाममायाञ्च द्बादश्यां रविसंक्रमे ।
तैलाभ्यङ्गे च स्नातेन मध्याह्ने निशिसन्ध्ययोः ॥
अशौचेऽशुचिकाले च रात्रिवासान्वितेऽपि वा ।
तुलसीं ये च चिन्वन्ति ते छिन्दन्ति हरेः
शिरः ॥” * ॥
तुलसीस्पर्शनेन मिथ्याप्रतिज्ञायां मिथ्याशपथे च
दोषो यथा, --
“तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति ।
स याति कालसूत्रञ्च यावच्चन्द्रदिवाकरौ ॥
करोति मिथ्याशपथं तुलस्या यो हि मानवः ।
स याति कुम्भीपाकञ्च यावदिन्द्राश्चतुर्द्दश ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ।
तुलसीपत्रचयने मन्त्रा यथा, --
“मातस्तुलसि गोविन्दहृदयानन्दकारिणि ! ।
नारायणस्य पूजार्थं चिनोमि त्वां नमोऽस्तु ते ॥
कुसुमैः पारिजाताद्यैः सुगन्धैरपि केशवः ।
त्वया विना नैव तृप्तिं चिनोमि त्वामतः शुभे ॥
त्वया विना महाभागे समस्तं कर्म्म निष्फलम् ।
अतस्तुलसि देवि ! त्वां चिनोमि वरदा भव ॥
चयनोद्भवदुःखं यद्देवि ! ते हृदि वर्त्तते ।
तत् क्षमस्व जगन्मातस्तुलसि ! त्वां नमाम्यहम् ॥
कृताञ्जलिरिमान्मन्त्रान् पठित्वा वैष्णवो जनः ।
करतालत्रयं दत्त्वा चिनुयात्तुलसीदलम् ॥
शनैः शनैस्तथाकारैश्चीयते तुलसीदलम् ।
यथा न कम्पते शाखा तुलस्या द्बिजसत्तम ! ॥
पत्राणां चयने विप्र ! भग्नशाखा यथा भवेत् ।
तथा हृदि व्यथा विष्णोर्द्दीयते तुलसीपतेः ॥”
इति पाद्मे क्रियायोगसारः ॥ * ॥
तुलसीकाष्ठमालामाहात्म्यं यथा, --
“तुलसीकाष्ठनिर्म्माणमालां गृह्णन्ति ये नराः ।
पदे पदेऽश्वमेधानां लभते निश्चितं फलम् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
“सात्वतैस्तुलसीकाष्ठमाला कुञ्जसमुद्भवा ।
धार्य्या नित्यं प्रयत्नेन त्वेतद्भक्तस्य लक्षणम् ॥
हरिभक्तस्य तुलसीकुञ्जकाष्ठसमुद्भवा ।
चिह्नार्थमात्मनो माला पुरा कृष्णेन दर्शिता ॥”
इति पाद्मोत्तरखण्डम् ॥ * ॥
गणेशपूजने तुलसीनिषेधो यथा । तुलसीं प्रति
गणेशवाक्यम् ।
“पुष्पाणां सारभूता त्वं भविष्यसि मनोरमे ! ।
कलांशेन महाभागे ! स्वयं नारायणप्रिया ॥
प्रिया त्वं सर्व्वदेवानां कृष्णस्य च विशेषतः ।
पूजा विमुक्तिदा नॄणां मम त्याज्या च सर्व्वदा ॥”
इति ब्रह्मवैवर्त्ते गणेशखण्डम् ॥ * ॥
तुलस्याः स्तवो यथा, --
नारायण उवाच ।
“वृन्दां वृन्दावनीं विश्वपूजितां विश्वपावनीम् ।
पुष्पसारां नन्दिनीञ्च तुलसीं कृष्णजीवनीम् ॥
एतन्नामाष्टकञ्चैतत् स्तोत्रं नानार्थसंयुतम् ।
यः पठेत्ताञ्च संपूज्य सोऽश्वमेधफलं लभेत् ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
महादेवाय तस्याः पत्रदानफलं यथा, --
“गयाश्राद्धफलं दातुः पितॄणां परितोषदम् ।
तत्फलं स्याच्छतगुणं तुलसीपत्रदानतः ॥”
इति बृहद्धर्म्मपुराणे १० अध्यायः ॥ * ॥
तस्यास्तन्मञ्जर्य्याश्च हरिहरपूजने मुक्तिप्रदत्वं
पाद्मे देवदूतविकुण्डलसंवादे ।
“तुलसीमञ्जरीभिर्य्यः कुर्य्याद्धरिहरार्च्चनम् ।
न स गर्भगृहं याति मुक्तिभागी भवेन्नरः ॥”
इति श्रीहरिभक्तिविलासे ७ विलासः ॥ * ॥
तत्पत्रेण शक्तिपूजाविधिर्यथा, --
“वाजिदन्तकपत्रैश्च पुष्पौघैरपि चण्डिकाम् ।
तुलसीकुसुमैः पत्रैरर्च्चयेच्छ्रीविवृद्धये ॥”
इति श्रीकालिकापुराणे ६८ अध्यायः ॥ * ॥
अथ तुलसीग्रहणविधिः । वायुपुराणे ।
“अस्नात्वा तुलसीं छित्त्वा यः पूजां कुरुते नरः ।
सोऽपराधी भवेत् सत्यं तत् सर्व्वं निष्फलं भवेत् ॥”
तत्रादौ मन्त्रः । स्कान्दे ।
“तुलस्यमृतजन्मासि सदां त्वं केशवप्रिया ।
केशवार्थे चिनोमि त्वां वरदा भव शोभने ॥
त्वदङ्गसम्भवैः पत्रैः पूजयामि यथा हरिम् ।
तथा कुरु पवित्राङ्गि कलौ मलविनाशिनि ! ॥”
गारुडे च ।
“मोक्षैकहेतो धरणीप्रशस्ते
विष्णोः समस्तस्य गुरोः प्रियेति ।
आराधनार्थं वरमञ्जरीकं
लुनामि पत्रं तुलसि ! क्षमस्व ॥
इत्युक्त्वा तुलसीं नत्वा चित्वा दक्षिणपाणिना ।
पत्राण्येकैकशो न्यस्येत् सत्पात्रे मञ्जरीरपि ॥”
तन्माहात्म्यञ्च स्कान्दे ।
“मन्त्रेणानेन यः कुर्य्याद् गृहीत्वा तुलसीदलम् ।
पूजनं वासुदेवस्य लक्षकोटिफलं लभेत् ॥”
किञ्च ।
“शालग्रामशिलार्च्चार्थं प्रत्यहं तलसीक्षितौ ।
पृष्ठ २/६३७
तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः ॥”
इति ॥ * ॥
“संक्रान्त्यादौ निषिद्धोऽपि तुलस्यवचयः स्मृतः ।
परं श्रीविष्णुभक्तैस्तु द्वादश्यामेव नेष्यते ॥” * ॥
अथ तुलस्यवचयनिषेधकालः । विष्णु धर्म्मोत्तरे ।
“न छिन्द्यात् तुलसीं विप्रा द्बादश्यां वैष्णवः
क्वचित् ॥”
गारुडे ।
“भानुवारं विना दूर्व्वां तुलसीं द्वादशीं विना ।
जीवितस्याविनाशाय न विचित्वीत धर्म्मवित् ॥”
पाद्मे च ।
श्रीकृष्णसत्यासंवादीयकार्त्तिकमाहात्म्ये ।
“द्वादश्यां तुलसीपत्रं धात्रीपत्रञ्च कार्त्तिके ।
लुनाति स नरो गच्छेन्निरयानतिगर्हितान् ॥”
अतएवोक्तम् ।
“देवार्थे तुलसीच्छेदो होमार्थे समिधान्तथा ।
इन्दूक्षये न दुष्येत गवार्थे तु तृणस्य च ॥
एवं कृत्वा महापूजामङ्गोपाङ्गादिकं प्रभोः ।
क्रमाद्यथा सम्प्रदायं तत्तत्स्थानेषु पूजयेत् ॥”
इति श्रीहरिभक्तिविलासे ७ षिलासः ॥ * ॥
अथ तुलसीविवाहः प्रतिष्ठाविधिश्च ।
श्रीवशिष्ठ उवाच ।
“विवाहं संप्रवक्ष्यामि तुलस्यास्तु यथाविधि ।
यथोक्तं पञ्चरात्रे वै ब्रह्मणा भाषितं पुरा ॥
आदावेव वनेऽवाप्य तुलसीं स्वगृहेऽपि वा ।
वर्षत्रयेण पूर्णेन ततो यजनमारभेत् ॥
सौम्यायने प्रकर्त्तव्यं गुरुशुक्रोदये तथा ।
अथवा कार्त्तिके मासि भीष्मपञ्चदिनेषु च ॥
वैवाहिकेषु ऋक्षेषु पूर्णिमायां विशेषतः ।
मण्डपं कारयेत्तत्र कुण्डवेदीं तथा पुनः ॥
शान्तिकञ्च प्रकर्त्तव्यं मातॄणां स्थापनं तथा ।
मातृश्राद्धादिकं सर्व्वं विवाहवत् समाचरेत् ॥
ब्राह्मणांश्च शुचिस्नातान् वेदवेदाङ्गपारगान् ।
ब्रह्मा चादेशकश्चैव चत्वारश्च तथर्त्विजः ॥
वैष्णवेन विधानेन वर्द्धनीकलसं यजेत् ।
मण्डपं कारयेत्तत्र लक्ष्मीनारायणं शुभम् ॥
ग्रहयज्ञं पुरः कृत्वा मातणां यजनं तथा ।
कृत्वा नान्दीमुखं श्राद्धं सौवर्णं स्थापयेद्धरिम् ॥
कृत्वारोप्य च तुलसीं लग्ने त्वस्तमिते रवौ ।
वासः शतेन मन्त्रेण वस्त्रयुग्मेन वेष्टयेत् ॥
यदा वध्नेति मन्त्रेण कङ्कणं पाणिपल्लवे ।
कोऽदादिति च मन्त्रेण पाणिग्राहो विधीयते ॥
ततः कुण्डे समागत्य आचार्य्यः सहसा द्विजैः ।
आचार्य्यो वेदिकाकुण्डे जुहुयाच्च नवाहुतीः ॥
विवाहकर्म्मवत् सर्व्वं वैष्णवं देशिकोत्तमैः ।
कर्त्तव्यश्च ततो होमो विशेषाद्विधिपूर्ब्बकम् ॥”
ॐ नमो भगवते केशवाय नमः स्वाहा ।
नारायणाय स्वाहा । माधवाय । गोविन्दाय ।
विष्णवे । मधुसूदनाय । त्रिविक्रमाय । वाम-
नाय । श्रीधराय । हृषीकेशाय । पद्मनाभाय ।
दामोदराय । उपेन्द्राय । अनिरुद्धाय । अच्यु-
ताय । अनन्ताय । गदिने । चक्रिणे । विष्वक्-
सेनाय । वैकुण्ठाय । जनार्द्दनाय । मुकुन्दाय ।
अधोक्षजाय स्वाहा । इति होमः ॥
यजमानः सपत्नीको ह्यन्ये ये गोत्रबान्धवाः ।
प्रदक्षिणाश्च कर्त्तव्याश्चत्वारो विष्णुना सह ॥
तुलस्याः पाणिग्रहणे वेदिकायां विभावसौ ।
शतकुम्भं जपेत् सूक्तं पावभानीं विशेषतः ॥
तथैव शान्तिकाध्यायं नवसूक्तं तथैव च ।
जीवसूक्तं पुनर्ज्जप्ता तथा वैष्णवसंहिताम् ॥
शङ्खझल्लरिनिर्घोषैर्भेरीतूर्य्यस्य निस्वनैः ।
गायन्ते मङ्गला नार्य्यो माङ्गल्यं विधिमाचरेत् ॥
दद्यात् पूर्णाहुतिं पश्चादभिषेकविधिं ततः ।
ब्राह्मणे वृषभं दद्यादाचार्य्यं परिधाप्य च ॥
गां पटञ्च तथा शय्यामाचार्य्याय प्रदापयेत् ।
ऋत्विग्भ्यो दापयेद्बस्त्राण्येषां दद्याच्च दक्षि-
णाम् ॥
एवं प्रतिष्ठितां देवीं विष्णुना च समर्च्चयेत् ।
आजन्मोपार्ज्जितं पापं दर्शनेन प्रणश्यति ॥
रोपयेत्तुलसीं यस्तु सेवयेच्च प्रयत्नतः ।
प्रतिष्ठाप्य यथोक्तेन विष्णु ना सह मानवः ॥
स मोक्षं लभते जन्तुर्विष्णु लोकं तथाक्षयम् ।
प्राप्नोति विपुलान् भोगान् विष्णुना सह
मोदते ॥
प्रतिष्ठा श्रीतुलस्यास्तु लिखिता विष्ण यामले ॥”
इति श्रीहरिभक्तिविलासे २० विलासः ॥

तुलसीद्वेषा, स्त्री, (तुलसीं द्वेष्टि तुल्यगन्धत्वात्

स्पर्द्धते इति । द्विष + अण् । ततष्टाप् ।)
वर्व्वरी । इति रत्नमाला ॥ (वर्व्वरीशब्देऽस्या
गुणादिकं ज्ञेयम् ॥)

तुला, स्त्री, (तोल्यतेऽनया । तुल उन्माने भिदा-

द्यङ् । अतुलोपमाभ्यामिति निर्द्देशात् गुणा-
भावः ।) सादृश्यम् । (यथा, रघुः । ८ । १५ ।
“नभसा निभृतेन्दूना तुला-
मुदितार्केण समारुरोह तत् ॥”)
मानम् । (यथा, पञ्चतन्त्रे । २ । ८४ ।
“सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति
सारतां तस्य ।
हस्ततुलयापि निपुणाः पलपरिमाणं
विजानन्ति ॥”)
गृहाणां दारुबन्धाय पीठिका । पलशतम् ।
(यथा, अमरकोषे । २ । ९ । ८७ ।
“तुला स्त्रियां पलशतं भारः स्यात् विंशति-
स्तुला ॥”)
भाण्डम् । इति मेदिनी । ले, २५ ॥ मेषादि-
द्वादशराश्यन्तर्गतसप्तमराशिः । तत्पर्य्यायः ।
यूकः २ युक् ३ धटः ४ तौली ५ तुलाभृत् ६ ।
इति ज्योतिषम् ॥ सा चित्राशेषपादद्वयस्वाती-
समुदाययुक्तविशाखाप्रथमपादत्रयेण भवति ।
तदधिष्ठातृदेवता तुलाधारिपुरुषः । अस्याः
शिरस उदयः नानावर्ण उष्णस्वभावः । सा
पश्चिमदिकस्वामिनी वायुराशिः स्निग्धा
चिक्कणा निःशब्दा वनचारिणी अल्पसन्ताना
अल्पस्त्रीसङ्गा शूद्रवर्णा समानाङ्गा च । तत्र
जातस्य फलम् । वक्ता विद्यावरः स्त्रीदुःखितः ।
इति जातकम् ॥ जन्मकालीनचन्द्राश्रितैतद्राशि-
फलम् ।
“वृषतुरङ्गगजक्रयविक्रयो
द्विजसुरार्च्चनदानमनाः पुमान् ।
शशिनि तौलिगते बहुदारभा-
ग्विभवसञ्चितचित्रितविक्रमः ॥”
इति कोष्ठीप्रदीपः ॥
तस्या उदये तन्नामकलग्नं भवति । तस्य
गणितप्राप्तपरिमाणं दशव्यङ्गुलाधिकपञ्चाङ्गुल-
प्रभे देशे वर्त्तमानोनविंशायनांशे षट्त्रिंशत्
पलाधिकपञ्चदण्डाः । इति ज्योतिषम् ॥ तत्र
जातफलम् ।
“तुलालग्ने पुमान् जातः सुधीः सत्कर्म्मतत्परः ।
विद्बान् सर्व्वकलाविज्ञो धनाढ्यो जनपूजितः ॥”
इति कोष्ठीप्रदीपः ॥ * ॥
परीक्षाविशेषः । यथा नारदः ।
“ब्राह्मणस्य धटो देयः क्षत्त्रियस्य हुताशनः ।
वैश्यस्य सलिलं देयं शूद्रस्य विषमेव तु ॥
साधारणः समस्तानां कोषः प्रोक्तो मनीषिभिः ।
विषवर्ज्जं ब्राह्मणस्य सर्व्वेषान्तु तुला स्मृता ॥” *
अथ तस्या उत्पत्तिविधिः । यज्ञियं वृक्षं यूप-
वन्मन्त्रपूर्ब्बकं छित्त्वा लोकपालेभ्यः प्रणम्य
पण्डितैः चतुर्हस्ता चतुरस्रा ऋज्वी तुला कार्य्या
तत्र त्रिषु स्थानेषु बलयानि दातव्यानि । तत्र
षड्ढस्तौ स्तम्भौ कृत्वा हस्तद्बयव्यवधानेन
दक्षिणोत्तरयोर्दिशोर्हस्तद्बयनिखननं कृत्वा पट्ट-
धारककीलकाग्रस्तम्भयोरुपरि अन्तद्वयच्छिद्रं
मध्यनिवेशितलौहाङ्कुशपट्टकं निधाय तत्पट्ट-
कस्य मध्यस्थिताङ्कुशेन तुलामध्यबलयस्थलौहं
संयुञ्ज्यात् । एवञ्च सति स्तम्भयोरन्तरतिर्य्यक्
तुलादण्डस्तिष्ठति तुलाग्रस्थिताभ्यामायसकील-
काभ्यां शिक्यद्वयरज्जुबन्धनं कुर्य्यात् । तुलायाः
पार्श्वयोः प्राक्प्रत्यक्दिशोस्तोरणस्तम्भौ तुलातो
दशाङ्गुलोच्छ्रायौ कार्य्यौ तोरणयोरुपरिसूत्र-
संनद्धौ मृण्मयावधोमुखौ धटमस्तकचुम्बिनाव-
वलम्बौ कार्य्यौ । तुलादण्डः पूर्ब्बपश्चिमयोर्धार्य्यः ।
पूर्ब्बशिक्ये शिलां तोलयेत् पश्चिमे कर्त्तारं
तुलाया उपरि जलं देयं यदि जलं न प्लवते
तदा तुला समा ज्ञेया ॥ * ॥ अथैतत्प्रयोगः ।
कृतोपवासः कृतस्नानादिः प्राड्विवाको ब्राह्मणः
कार्य्यं पृच्छेत् निवेदितं विवेचयेत् । ततोऽभि-
युक्तं तोलयित्वावतार्य्य धर्म्मावाहनादिकं
कुर्य्यात् । ॐ तत् सदित्युच्चार्य्य ब्राह्मणत्रयं
गन्धादिना पूजयित्वा तान् स्वस्तिपुण्याहमृद्धिं
प्रत्येकं त्रिर्व्वाचयित्वा दिव्याङ्गभूतहोमार्थं ब्रह्म-
चतुष्टयं ऋत्विक्चतुष्टयञ्च पाद्यादिभिरभ्यर्च्च्य
वृणुयात् । अशक्तावेकं ब्रह्माणमेकं ऋत्वि-
जञ्च । ततस्तुलां सपताकां ध्वजालङ्कृतां भूमौ
निघाय तस्यां प्राङ्मुखः प्राड्विवाकः पुष्पा
क्षतमादाय ॐ भूर्भुवः स्वरित्युच्चार्य्य ।
एह्येहि भगवन् धर्म्म ! दिव्ये ह्यस्मिन् समाविश ।
पृष्ठ २/६३८
सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः ॥
इति मन्त्रेण धर्म्ममावाह्य इदमर्घ्यं ॐ धर्म्माय
नमः इत्यादिप्रयोगेणार्घ्यपाद्याचमनीयमधुपर्का-
चमनीयवस्त्रयज्ञोपवीताचमनीयमुकुटकटक-
भूषणान्तं दत्त्वा तथैवार्घ्यादिभूषणान्तं प्रणवादि-
नमोऽन्तेनस्वस्वनाम्ना पूर्ब्बस्यां इन्द्राय दक्षिणस्यां
यमाय पश्चिमे वरुणाय उत्तरस्यां कुवेराय
आग्नेय्यां अग्नये नैरृत्यां निरृतये वायव्यां वायवे
ऐशान्यां ईशानाय । इन्द्रस्य दक्षिणपार्श्व अष्ट-
वसुभ्यः प्रत्येकं नामभिः । तत्र धवाय ध्रुवाय
सोमाय आपाय अनिलाय अनलाय प्रत्यूषाय
प्रभासाय । इन्द्रेशानयोर्म्मध्ये तथा द्बादशादि-
त्येभ्यः तत्र घात्रे अर्य्यम्णे मित्राय वरुणाय
अंशवे भगाय इन्द्राय विवस्वते पूष्णे पर्ज्जन्याय
त्वष्ट्रे विष्णवे । अग्निपश्चिमभागे तथैकादश-
रुद्रेभ्यः तत्र वीरभद्राय शम्भवे गिरीशाय
अजैकपदे अहिव्रध्नाय पिनाकिने अपराजिताय
भुवनाधीश्वरायं कपालिने स्थाणवे भवाय । यम-
रक्षसोर्म्मध्ये तथा मातृभ्यः तत्र ब्राह्म्यै माहेश्वर्य्यै
कौमार्य्यौ वैष्णव्यै वाराह्यै माहेन्द्र्यै चामुण्डायै
निरृत्यत्तरे गणेशाय वरुणोत्तरे अष्टमरुद्भ्यः
तत्र श्वसनाय स्पर्शनाय वायवे अनिलाय मारु-
ताय प्राणाय प्राणेशाय जीवाय घटोत्तरभागे
दुर्गायै पाद्यादिभूषणान्त दत्त्वा धर्म्माय गन्ध-
पुष्पधूपदीपनैवेद्यानि पूर्ब्बवद्दत्त्वा इन्द्रादिदुर्गा-
न्तेभ्यो गन्धादिकं दद्यात् । ततश्चतुर्द्द्रिक्षु चतुर्भि-
रृत्विग्भिश्चतुरोऽग्नीन् अशक्तावेकर्त्विजै-
कमग्निं प्राड्विवाकः गृह्योक्तविधिना संस्थाप्य
प्रणवपुटितां सव्याहृतिकां गायत्त्रीं स्वाहान्ता-
मुच्चार्य्य घृतेन पायसेन समिद्भिर्म्मिलिताभिरष्टो-
त्तरशतं अष्टाविंशतिं अष्टौ वा जुहुयात् ।
ततो दक्षिणां दद्यात् । एवं हवनान्तां देवपूजां
विधाय शोध्यं कृतोपवासं आर्द्रवाससं पश्चिम-
शिक्ये कृत्वा इष्टकांश्च पूर्ब्बशिक्ये कृत्वा उत्तोल्य
घटोपरि जलदानेन साम्यमवगम्य अवतारयेत् ।
ततः प्राड्विवाकः तद्दिनकज्जलमस्या विच्छेदा-
ङ्कादिशून्यां पङ्क्तिद्वयेन समसंख्याक्षरेण
आदित्यचन्द्रावनिलो नलश्च
द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्म्मोऽपि जानाति नरस्य वृत्तम् ॥
इति चतुश्चत्वारिंशदक्षरमन्त्रसमेतार्मभियुक्तार्थ-
करणाकरणरूपमिदमस्मै दत्तमिदमृणमस्मान्-
मया न गृहीतमित्यादिरूपां प्रतिज्ञां लिपिपत्रे
विलिख्य तत् पत्रं शोध्य शिरोगतं कुर्य्यात् ।
ततः प्राड्विवाको धटमामन्त्रयेदेभिः ।
त्वं घटो ब्रह्मणा मृष्टः परीक्षार्थं दुरात्मनाम् ।
घकाराद्धर्म्ममूर्त्तिस्त्वं टकारात् कुटिलं नरम् ॥
धृतो घारयते यस्माद्धटस्तेनाभिधीयते ।
त्वं वेत्सि सर्व्वभूतानां पापानि सुकृतानि च ॥
त्वमेव देव ! जानीषे न विदुर्यानि मानवाः ।
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति ॥
तदेनं संशयादस्माद्धर्म्मतस्त्रातुमर्हसि ॥”
तुलाधारकञ्च नियमेदनेन ।
“ब्रह्मध्ना ये स्मृता लोका ये लोकाः कूटसाक्षिणः ।
तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥”
शोध्यस्तु तुलामभिमन्त्रयेदनेन ।
त्वं तुले ! सत्यधामासि पुरा देवैर्विनिर्म्मिता ।
तत् सत्यं वद कल्याणि ! संशयान्मां विमोचय ॥
यद्यस्मिन् पापकृन्मातस्ततो मां त्वमधो नय ।
शुद्धश्चेद्गमयोर्द्ध्वं मां सर्व्वं वेत्सि कृताकृतम् ॥
ततः प्राड्विवाकः पूर्ब्बाननं तं पूर्ब्बवद्धटमारो-
पयेत् । आरोपितं मा कान्ते पक्षस्यान्ते पर्य्या-
काशे देशे स्वाप्सीः कान्तं वक्त्रं वृत्तं पूर्णं चन्द्रं
मत्वा रात्रौ चेत् । क्षुत्क्षामः प्राटंश्चेतश्चेतो
राहुः क्रूरः प्राद्यात्तस्माद्ध्वान्ते हर्म्मस्यान्ते शय्यै-
कान्ते कर्त्तव्या इत्यस्य पञ्चधा पाठकालस्तत्र
शुद्धाशुद्धज्ञानाय स्थापयेत् । ततः प्रतिमान-
द्रव्यादूर्द्ध्वावस्थाने शुद्धः । अधोऽवस्थाने त्वशुद्धः ।
समावस्थाने अल्पदोषः । सन्देहे पुनःपरीक्षा
देया । कक्षकीलकशिक्यपादाक्षादीनां दृष्ट-
कारणव्यतिरेकेण छेदे भङ्गे वाप्यशुद्धिमादि-
शेत् । ततः पुरोहिताचार्य्यादीन् दक्षिणादिभि-
स्तोषयेत् ।” इति दिव्यतत्त्वम् ॥

तुलाकोटिः, स्त्री, (तुलां सादृश्यं कोटयते इति ।

कुट + इन् ।) नूपुरः । (यथा, माघे । १२ । ४४ ।
“लीलाचलत्स्त्रीचरणारुणोत्पल-
स्खलत्तुलाकोटिनिनादकोमलः ॥”
तुलया मानेन कुटतीति । कुट कौटिल्ये +
इन् ।) मानभेदः ॥ अर्वुदः । इति हेमचन्द्रः ।
३ । ३२९ ॥

तुलाकोटी, स्त्री, (तुलाकोटि + कृदिकारादिति वा

ङीष् ।) तुलाकोटिः । इत्यमरटीकायां भरतः ॥

तुलाकोषः, पुं, (तुलायाः परिमाणस्य कोष इव ।)

तुलापरीक्षा । इति मिताक्षरा ॥

तुलाधारः, पुं, (तुलां धरति धारयति वा । तुला +

धृ + “कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।)
तुलाराशिः । बणिजि, त्रि । इति मेदिनी । रे,
२६४ ॥ तुलागुणः । इति हेमचन्द्रः ॥ (स्वनाम-
ख्यातो बणिग्धर्म्मा पुरुषविशेषः । यथा, महा-
भारते । १२ । २६० । ८ ।
“तुलाधारो बणिग्धर्म्मा वाराणस्यां महायशाः ।
सोऽप्येवं नार्हते वक्तुं यथा त्वं द्बिजसत्तम ! ॥”)

तुलापुरुषदानं, क्ली, (तुलापुरुषस्य तुलोन्मितपुरुष-

भारसमपरिमितद्रव्यस्य दानम् । यद्वा, तुला-
पुरुषविधिना दानम् ।) षोडशमहादानान्तर्गत-
दानविशेषः । यथा, --
“आद्यन्तु सर्व्वदानानां तुलापुरुषसंज्ञितम् ॥”
तस्य कालो यथा, --
“नोक्तानि यानि गुह्यानि महादानानि षोडश ।
तानि ते संप्रवक्ष्यामि यथावदनुपूर्ब्बशः ॥
तुलापुरुषयागोऽयं येषामादौ विधीयते ।
अयने विषुवे चैव व्यतीपाते दिनक्षये ॥
युगादिषूपरागेषु तथा मन्वन्तरादिषु ।
संक्रास्त्यां पौर्णमास्याञ्च द्बादशीष्वष्टकासु च ॥
यज्ञोत्सवविवाहेषु दुःस्वप्नाद्भुतदर्शने ।
द्रव्यब्राह्मणलाभो वा श्रद्धा वा यत्र जायते ॥”
तस्य देशो यथा, --
“तीर्थे वायतने गोष्ठकूपारामसरित्सु च ।
गृहे वाथ वने वापि तडागे रुचिरेऽथवा ॥
महादानानि देयानि संसारभयभीरुणा ॥”
अस्य विधानं यथा, --
“पुण्यां तिथिमथासाद्य कृत्वा ब्राह्मणवाचनम् ।
मण्डपं रचयेद्बिद्बान् षोडश द्बादश वा करान् ॥
मण्डपं कारयेद्बिद्बांश्चतुर्भद्रासनं बुधः ।
सप्तहस्ता भवेद्वेदी मध्ये पञ्चकराथ वा ॥
तन्मध्ये तोरणं कुर्य्यात् सारदारुमयं शुभम् ।
कुर्य्यात् कुण्डानि चत्वारि चतुर्द्दिक्षु विचक्षणः ॥”
तुलारोपणप्रस्तावे ।
“रश्मिभिस्तोरणाग्रे तु बन्धयेच्च विधानतः ।
सुमेखलायोनिसमायुतानि
संपूर्णकुम्भानि सहासनानि ।
सुताम्रकुण्डद्वयसंयुतानि
सयज्ञपात्राणि सहस्रुवाणि ॥
हस्तप्रमाणानि तिलाज्यपूर-
पुष्पोपहाराणि सुशोभनानि ।
पूर्ब्बोत्तरे हस्तमिता च वेदी
ग्रहादिदेवेश्वरपूजनाय ॥
अर्घ्यार्च्चनं ब्रह्मशिवाच्युतानां
तत्रैव कार्य्यं फलवस्त्रमाल्यैः ।
ब्रह्मशिवाच्युतानां प्रतिमासु पूजा कार्य्या इत-
रेषां स्थण्डिले कार्य्या ।
लोकेशवर्णाः परितः पताका-
मध्ये ध्वजं किङ्किणिकायुतं स्यात् ॥
द्वारेषु कार्य्याणि च तोरणानि
चत्वार्य्यपि क्षीरवनस्पतीनाम् ।
द्बारेषु कुम्भद्बयमत्र कार्य्यं
स्रग्गन्धधूपाम्बररत्नयुक्तम् ॥ * ॥
यत्पूर्ब्बं सारदारुमयं कुर्य्यादित्युक्तं तस्येदानी-
मनुष्ठानमाह ।
सालेङ्गुदीचन्दनदेवदारु-
श्रीपर्णिविल्वप्रियकाञ्चनोत्थम् ।
स्तम्भद्बयं हस्तयुगावखातं
कृत्वा दृढं पञ्चकरोच्छ्रितं तत् ॥
तदन्तरं हस्तचतुष्टयं स्या-
दथोत्तरायाञ्च तदङ्गमेव ॥ * ॥
चतुर्हस्ता तुला कार्य्या पादौ कार्य्यौ तथाविधौ ।
अन्तरन्तु तयोर्हस्तौ भवेदध्यर्द्धमेव च ॥
समानजातिश्च तुलावलम्ब्या
हैमेन मध्ये पुरुषेण युक्ता ।
हैमेन पुरुषेणेति सुवर्णनिर्म्मितबासुदेवाकृति-
नेति बोद्धव्यम् ।
दैर्घ्येण सा हस्तचतुष्टयं स्यात्
पूर्णत्वमस्यास्तु दशाङ्गुली स्यात् ॥
सुवर्णपत्राभरणा च कार्य्या
सुलोहपाशद्वयशृङ्खलाभिः ।
पृष्ठ २/६३९
युता सुवर्णेन तु रत्नमाला
विभूषिता माल्यविलेपनाढ्या ॥
चक्रं लिखेद्बारिजगर्भयुक्तं
नानारजोभिर्भुवि कीर्णपुष्पम् ।
वितानकञ्चोपरि पञ्चवर्णं
संस्थापयेत् पञ्चपताकशोभम् ॥
इति तुलानिर्म्माणमुक्तम् ॥ * ॥
अथ द्बिजा वेदविदश्च कार्य्याः
सुवामवेशान्वयशीलयुक्ताः ।
विधानदक्षाः पटवोऽनुकूला
ये चार्य्यदेशप्रभवा द्विजेन्द्राः ॥
गुरुश्च वेदाङ्गविदार्य्यदेश-
समुद्भवः शीलकुलाभिरूपः ।
कार्य्यः पुराणाभिरतोऽतिदक्षः
प्रसन्नगम्भीरसरस्वतीकः ॥
पूर्ब्बेण ऋग्वेदविदौ यथास्तां
यजुर्व्विदौ दक्षिणतश्च शस्तौ ।
स्थाप्यौ द्विजौ सामविदौ च पश्चा-
दथर्व्वणावुत्तरतश्च कार्य्यौ ॥
विनायकादिग्रहलोकपाल-
वस्वष्टकादित्यमरुद्गणानाम् ।
ब्रह्माच्युतेशानवनस्पतीनां
स्वमन्त्रतो होमचतुष्टयं स्यात् ॥
जप्यानि सूक्तानि तथैव चैषा-
मनुक्रमेणापि यथा स्वरूपम् ।
अभ्यर्च्चयेल्लोकपतीन् क्रमेण
मन्त्रैरमीभिर्यजमानयुक्तः ॥
इत्यावाह्य सुरान्दद्यादृत्विग्भ्यो हेमभूषणम् ।
कुण्डलानि च हैमानि सूत्राणि कटकानि च ॥
द्विगुणं गुरवे दद्याद्भूषणाच्छादनादिकम् ।
जपेयुः शान्तिकाध्यायं जापकाः सर्व्वतो दिशम् ॥
उपोषितास्ततः सर्व्वे कृत्वैवमधिवासनम् ।
आदावन्ते च मध्ये च कुर्य्याद्ब्राह्मणवाचनम् ॥
ततो मङ्गलशब्देन स्नापितो वेदपुङ्गवैः ।
त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः ॥
शुक्लमाल्याम्बरो भूत्वा तां तुलामभिमन्त्रयेत् ।
नमस्ते सर्व्वदेवानां शक्तिस्त्वं शक्तिमास्थिता ।
साक्षीभूता जगद्धात्रा निर्म्मिता विश्वयोनिना ॥
एकतः सर्व्वसत्यानि तथा भूतशतानि च ।
धर्म्माधर्म्मकृतां मध्ये स्थापितासि जगद्धिते ॥
त्वं तुले ! सर्व्वभूतानां प्रमाणमिह कीर्त्तिता ।
मां तोलयन्ती संसारादुद्धरस्व नमोऽस्तु ते ॥
योऽस्य तत्त्वाधिपो देवः पुरुषः पञ्चविंशकः ।
स एवाधिष्ठितो देवि ! त्वयि तस्मान्नमोऽस्तुते ॥
नमो नमस्ते गोविन्द ! तुलापुरुषसंज्ञक ! ।
त्वं हरे ! तारयस्वास्मानस्मात् संसारसागरात् ॥
पुण्यं कालमथासाद्य कृत्वाधिवासनं पुनः ।
षुनः प्रदक्षिणं कृत्वा तां तुलामारुहेद्बुधः ॥
सखड्गचर्म्मः कवची सर्व्वाभरणभूषितः ।
धर्म्मराजमथादाय हैमं सूर्य्येण संयुतम् ॥
कराभ्यां मृदुमुष्टिभ्यामास्ते पश्यन् हरेर्मुखम् ।
ततोऽपरे तुलाभागे न्यसेयुर्द्विजपुङ्गवाः ॥
सा स्यादभ्यधिकं यावत् काञ्चनं चातिनिर्म्मलम्
पुष्टिकामस्तु कुर्व्वीत भूमिसंस्थन्नरेश्वर ! ॥
क्षणमात्रं ततः स्थित्वा पुनरेतदुदीरयेत् ।
नमस्ते साक्षीभूतानां साक्षीभूते सनातनि ! ॥
पितामहेन देवि ! त्वं निर्म्मिता परमेष्ठिना ।
त्वया धृतं जगत् सर्व्वं सहस्थावरजङ्गमम् ॥
सर्व्वभूतात्मभूतस्थे नमस्ते विश्वधारिणि ।
ततोऽवतीर्य्य गुरवे पूर्ब्बमर्द्धं निवेदयेत् ॥
प्राप्य तेषामनुज्ञाञ्च तथान्येभ्योऽपि दापयेत् ।
दीनानाथविशिष्टादीन् पूजयेत् ब्राह्मणैः सह ॥
न चिरं घारयेद्गेहे हेम संप्रोक्षितं बुधः ।
तिष्ठद्भयावहं यस्माच्छोकव्याधिकरं नृणाम् ॥
शीघ्रं परस्वीकरणात् श्रेयः प्राप्नोति पुष्कलम् ॥”
तस्य द्रव्यविशेषेण फलं यथा, --
“अष्टानामपि धातूनां यस्तुलां कुरुते नरः ।
सर्व्वपापैः प्रमुच्येत मनोवाक्कायसम्भवैः ॥
यावद्धातु स्थितं तत्र तावत् कोटिशतानि च ।
मोदते तत्र वर्षाणां स्वर्गलोके न संशयः ॥
अथ मानुष्यमाक्रम्य कदाचित् कालपर्य्यये ।
धनधान्यसमृद्धो वै जायते महतां कुले ॥
आत्मनस्तु तुलां कृत्वा सुवर्णं यः प्रयच्छति ।
स तारयेत् पितृगणान् दश पूर्ब्बान् दशापरान् ॥
आत्मनस्तु तथा तद्वत् फलभाग्जायते नरः ।
जन्मप्रभृति यत् पापं मातृकं पैतृकं तथा ॥
सुवर्णदानात् दारिद्र्यं न पश्यति कदाचन ।
रजतस्य तुलां कृत्वा सुकृती यः प्रयच्छति ॥
तावद्बर्षप्रमाणेन निर्म्मलः स्वर्गभाग्भवेत् ।
अनन्तरं भवेद्राजा पृथिव्यां नात्र संशयः ॥
सुवर्णहारी कुष्ठी वा सर्व्वव्याधियुतोऽपि वा ।
ताम्रस्य तु तुलां कृत्वा मुच्यते नात्र संशयः ॥
स तु वर्षसहस्रं वै स्वर्गलोके महीयते ।
कांस्यस्य तु तुलां कृत्वा विप्रेभ्यो यः प्रयच्छति ॥
स तु इन्द्रपदं प्राप्य ऊर्व्वश्या सह मोदते ।
आयसस्य तुलां कृत्वा दाता रत्नाधिपो भवेत् ॥
लभते ह्युत्तमस्थानं बलवान् जायते सदा ।
रैत्यस्य तु तुलां कृत्वा यो ददाति द्बिजातये ॥
सोऽप्सरःशतसंकीर्णे विमाने दिवि मोदते ।
सीसकस्य तुलां कृत्वा यो ददातीह मानवः ॥
स गन्धर्व्वपदं गच्छेत् नानाभरणभूषितः ।
रङ्गस्य तु तुलां कृत्वा विप्रेभ्यो यः प्रयच्छति ॥
विमुक्तः सर्व्वपापेभ्यश्चन्द्रसायुज्यमाप्नुयात् ।
घृतस्य तु तुलां कृत्वा ये प्रयच्छन्ति मानवाः ॥
तेजस्विनोऽभिजायन्ते गोभिश्च चिरजीविनः ।
तैलस्य तु तुलां कृत्वा यो वै दद्याद् द्बिजा-
तये ॥
अरागित्वं सुखित्वं वै आयुष्मानपि जायते ।
अन्नदः सर्व्वसौभाग्यं सर्व्वान् कामान् मधुप्रदः ॥
अनेन विधिना यस्तु तुलापुरुषमाचरेत् ।
प्रतिलोकाधिपस्थाने प्रतिमन्वन्तरं वसेत् ॥
विमानेनार्कवर्णेन किङ्किणीजालमालिना ।
पूज्यमानोऽप्सरोभिश्च ततो विष्णुपुरं व्रजेत् ॥
कल्पकोटिशतं यावत्तस्मिल्लोके महीयते ॥
कर्म्मक्षयादिह पुनर्भुवि राजराजो
भूपालमौलिमणिराजितपादपीठः ।
श्रद्धान्वितो भवति यज्ञसहस्रयाजी
दीप्तप्रतापजितसर्व्वमहीपलोकः ॥
यो दीप्यमानमपि पश्यति तन्नियुक्तः
कालान्तरे स्मरति वाचयतीह लोके ।
यो वा शृणोति पठतीन्द्रसमानरूपः
प्राप्नोति वासवपुरं परदेवजुष्टम् ॥”
इति दानसागरः ॥

तुलावीजं, क्ली, (तुलायास्तोलनस्य वीजं मूलम् ।

यद्वा, तुलायै परिमाणाय वीजम् ।) गुञ्जा । इति
त्रिकाण्डशेषः ॥

तुलिः, स्त्री, (तुरिः । रस्य लः ।) तुरी । इति

शब्दरत्नावली ॥ तूलिका । इत्यमरटीकासार-
सुन्दरी ॥

तुलिका, स्त्री, (तोलयति सादृश्यं गच्छतीति ।

तुल + बाहुलकात् इकन् । स च कित् ।) खञ्ज-
निका । इति त्रिकाण्डशेषः ॥

तुलिनी, स्त्री, (तूलमस्ति फलेऽस्याः । तुल + इनिः ।

ङीप् । पृषो ह्रस्वः ।) शाल्मलिः । इति रत्नमाला ॥

तुलिफला, स्त्री, (तूलि तूलयुक्तं फलं यस्याः । पृषो-

दरादित्वात् ह्रस्वः ।) शाल्मलिः । इति रत्न-
माला ॥

तुली, स्त्री, (तुरी + रस्य लः ।) तुरी । इति

शब्दरत्नावली ॥

तुल्यः, त्रि, (तुलया सम्मितः । “नौवयोधर्म्मेति ।”

४ । ४ । ९१ । इति यत् ।) सादृश्ययुक्तः । तत्-
पर्य्यायः । समः २ सदृक्षः ३ सदृशः ४ सदृक् ५
साधारणः ६ समानः ७ । इत्यमरः । २ । १० । ३७ ॥
सधर्म्मः ८ सम्मितः ९ स्वरूपः १० । इति जटा-
धरः ॥ (यथा, पञ्चतन्त्रे । १ । २७८ ।
“तुल्यार्थं तुल्यसामर्थ्यं मर्म्मज्ञं व्यवसायिनम् ।
अर्द्धराज्यहरं भृत्यं यो न हन्यात् स हन्यते ॥”)
उत्तरपदस्थास्तुल्यवाचका यथा । निभः १
सङ्काशः २ नीकाशः ३ प्रतीकाशः ४ उपमा ५ ।
इत्यमरः । २ । १० । ३८ ॥ भूतः ६ रूपः ७
कल्पः ८ । इति भरतः ॥ प्रभः ९ । इति शब्द-
रत्नावली ॥ (पुं, स्वनामख्यातो गन्धर्व्वविशेषः ।
यथा, महाभारते । १ । १०१ । ७ ।
“गन्धर्व्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ॥”)

तुल्यपानं, क्ली, (तुल्यैरात्मीयजनैः सह पानम् ।)

आत्मीयेन जनेन सह मिलित्वा एककाले कृतं
पानम् । तत्पर्य्यायः । सपीतिः २ । इत्यमरः ।
२ । ९ । ५५ ॥

तुवरः, पुं क्ली, (तवति हिनस्ति रोगानिनि ।

तु + बाहुलकात् ष्वरच्प्रत्ययेन साधुः ।) कषाय-
रसः । इत्यमरः । १ । ५ । ९ ॥ त्रि, कषाययुक्तः ।
(यथा, सुश्रुते १ । ४५ ।
“नातिसान्द्रद्रवं तक्रं स्वाद्बम्लं तुवरं रसे ॥”)
श्मश्रुहीनः । इत्युणादिकोषः ॥

तुवरथावनालः, पुं, (तुवरः कषायो यावनालः ।)

घान्यविशेषः । तत्पर्य्यायः । तुवरः २ कषाय-
पृष्ठ २/६४०
यावनालः ३ रक्तयावनालः ४ लोहितकुस्तुम्बुरु-
धान्यम् ५ । अस्य गुणाः । कषायत्वम् । उष्ण-
त्वम् । विरेचकत्वम् । संग्राहित्वम् । वातशमन-
त्वम् । विदाहित्वम् । शोषकारित्वञ्च । इति
राजनिर्घण्टः ॥

तुवरिका, स्त्री, (तुवरः कषायरसोऽस्त्यस्याः ।

तुवर + ठन् ।) सुराष्ट्रजमृत्तिका । इत्यमरः ।
२ । ४ । १३१ ॥ (तुवर्य्येव । तुवरी + स्वार्थे
कन् ह्रस्वश्च ।) आढकी । इति भरतः ॥

तुवरी, स्त्री, (तुवर + षित्त्वात् ङीष् ।) आढकी ।

(यथा, वैद्यकरत्नमालायाम् ।
“आढकी तुवरी ज्ञेया ॥”
वर्व्वरी तुलसी । तत्पर्य्यायाश्च यथा, --
“वर्व्वरी तुवरी तुङ्गी खरपुष्पाजगन्धिका ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
सौराष्ट्रमृत्तिका । तत्पर्य्यायः । मृत् २ सौराष्ट्री ३
मृत्स्ना ४ आसङ्गः ५ मसी ६ सुराष्ट्रजा ७
मृत्तालकम् ८ काली ९ मृत्तिका १० सुर-
मृत्तिका ११ स्तुत्या १२ काक्षी १३ सुजाता १४ ।
अस्या गुणाः । तिक्तत्वम् । कटुत्वम् । कषाय-
त्वम् । उष्णत्वम् । लेखनत्वम् । चक्षुष्यत्वम् ।
ग्राहित्वम् । छर्दिपित्तजृम्भानाशित्वञ्च । इति
राजनिर्घण्टः ॥
“तुवरी ग्राहिणी शीता लघ्वी कफविषास्रजित् ।
तीक्ष्णोष्णा वह्निदा कण्डूकुष्ठकोठकृमिप्रणुत् ॥”
इति भावप्लकाशः ॥

तुवरीशिम्बः, पुं, (तुवरी आढकीव शिम्बः ।

तुवरीसदृशत्वात् तथात्वम् । यद्वा, तुवर्य्या इव
शिम्बा फलत्वक् यस्य ।) चक्रमर्द्दकवृक्षः । इति
शब्दचन्द्रिका ॥

तुविः, स्त्री, तुम्बी । इति शब्दमाला ॥ (बहु-

शब्दार्थः । इति निघण्टुः । ३ । १ ॥ “तवति-
र्वृद्ध्यर्थः सौत्रो धातुः । ‘अच इः ।’ उणां
४ । १३८ । इति इः । वृद्धिर्हि बहुः ।” इति
तट्टीका ॥ “उरु । तुवि । पुरु । भूरि । शश्वत् ।
विश्वम् । परीणसा । व्यानशिः । शतम् । सह-
स्रम् । सलिलम् । कुविदिति द्वादश बहु-
नामानि ॥” इति निघण्टुः । ३ । १ ॥ यथा,
ऋग्वेदे । ३ । ३० ।
“तुविकूर्मिरृधावान् ॥”)

तुष, ऌ य औ ञि तुष्टौ । इति कविकल्पद्रुमः ॥

(दिवां-परं-अकं-अनिट् ।) ऌ, अतुषत् । य,
तुष्यति । औ, तोष्टा । ञि, तुष्टोऽस्ति । इति
दुर्गादासः ॥

तुषः, पुं, (तुष + “इगुपधज्ञेति ।” ३ । १ । १३५ ।

इति कः ।) धान्यत्वक् । (यथा, प्रबोधचन्द्रो-
दये द्वितीयाङ्के ।
“ब्रीहीन् जिहासति सितोत्तमतण्डुलाढ्यान्
को नाम भोस्तुषकणोपहितान् हितार्थी ॥”)
विभीतकवृक्षः । इत्यमरः । २ । ४ । ५८ ॥

तुषग्रहः, पुं, (तुषेण गृह्यते इति । ग्रह + कर्म्मणि

अप् ।) अग्निः । इति त्रिकाण्डशेषः ॥

तुषसारः, पुं, (तुषं सरति अनुसरतीति । सृ +

अण् । तुषपुञ्जाभ्यन्तरे क्रमशः सञ्चारादस्य
तथात्वम् ।) अग्निः । इति शब्दमाला ॥

तुषानलः, पुं, (तुषस्यानलः ।) तुषाग्निः । तत्-

पर्य्यायः । कुकूलः २ । इति हेमचन्द्रः । ४ । १६७ ॥
(यथा, धूर्त्तसमागमे ।
“तुषानलकणप्रायाश्च भूरेणवः ॥”)

तुषारः, पुं, (तुष्यत्यनेन शस्यादिरिति । तुष तुष्टौ

+ “तुषारादयश्च ।” उणां ३ । १३९ । इति
आरन् स च कित् ।) हिमम् । (यथा, ऋतु-
संहारे । ४ । १ ।
“विलीनपद्मः प्रपतत्तुषारो
हेमन्तकालः समुपागतः प्रिये ! ॥”
तौषारलक्षणगुणाश्च यथा, --
“अपि नद्याः समुद्रान्ते वह्निरापस्तदुद्भवाः ।
धूमावयवनिर्मुक्तास्तुषाराख्यास्तु ताः स्मृताः ॥
अपि नद्याः समुद्रान्ते वह्निः नदीमारभ्य समुद्र-
पर्य्यन्ते वह्निरास्ते तदुद्भवाः । वह्निभवा धूमा-
वयवनिर्मुक्ता धूमांशरहिताः । आपस्तुषा-
राख्याः । तुष इति लोके । तुषार इति च ।
अपथ्याः प्राणिनां प्रायः भूरुहाणान्तु न हिताः ।
तुषाराम्बु हिमं रूक्षं स्याद्वातलमपित्तलम् ।
कफोरुस्तम्भकण्ठाग्निमेहगण्डादिरोगनुत् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे द्बितीये भागे ॥)
देशभेदः । (तद्देशोद्भवे, पुं भूस्नि । यथा,
मात्स्ये । १२० । ४५ ।
“तुषारान् वर्वरान् कारान् पह्नवान् पारदान्
शकान् ॥”)
शीकरः । हिमभेदः । इति हेमचन्द्रः । ६ । २१ ॥
(यथा, माघे । १ । १५ ।
“न यावदेतावुदपश्यदुत्थितौ
जनस्तुषाराञ्जनपर्व्वताविव ॥”)
कर्पूरभेदः । इति राजनिर्घण्टः ॥ शीतले, त्रि ।
यथा, नैषधे । ३ । ९३ ।
“अपां हि तृप्ताय न वारिधारा
स्वादुः सुगन्धिः स्वदते तुषारा ॥”

तुषितः, पुं, (तुष्यतीति । तुष तुष्टौ + बाहुलकात्

कितच् । यद्वा, तुष + क्विप् । तुट् सन्तोषो
ऽस्य जातः । तारकादित्वात् इतच् ।) देव-
गणविशेषः । इत्यमरः । १ । १ । १० ॥ ते
षट्त्रिंशत् स्मृताः । इति भरतः ॥ केषाञ्चिन्मते
द्वादश । ते तु मन्वन्तरभेदे विभिन्ननामानः ।
यथा, --
“प्राणापानसमानाश्च उदानो व्यान एव च ।
चक्षुः श्रोत्ररसा घ्राणस्पर्शौ बुद्धिर्म्मनस्तथा ।
द्वादशैते तु तुषिता देवाः स्वारोचिषेऽन्तरे ॥”
इति सारसुन्दरी ॥
(यथाच विष्णुपुराणे । १ । १५ । १२७-१३३ ।
“पूर्व्वमन्वन्तरे श्रेष्ठा द्वादशासन् सुरोत्तमाः ।
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ॥
उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः ।
समवायीकृताः सर्व्वे समागम्य परस्परम् ॥
आगच्छत द्रुतं देवा अदितिं संप्रविश्य वै ।
मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति ॥
एवमुक्त्वा तु ते सर्व्वे चाक्षुषस्यान्तरे मनोः ।
मारीचात् कश्यपात् जातास्तेऽदित्या दक्षकन्यया ।
तत्र विष्णुश्च शक्रश्च जज्ञाते पुनरेव च ।
अर्य्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥
विवस्वान् सविता चैव मित्रो वरुण एव च ।
अंशो भगश्चादितिजा आदित्या द्वादश स्मृताः ॥
चाक्षुषष्यान्तरे पूर्ब्बमासन् ये तुषिताः सुराः ।
वैवस्वतेऽन्तरे ते वै आदित्या द्वादश स्मृताः ॥”
तथा च मत्स्यपुराणे । ६ । ३ -- ४ ।
“तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः ।
वैवस्वतेऽन्तरे चैते आदित्या द्वादश स्मृताः ॥
इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणो यमः ।
विवस्वान् सविता पूषा अंशुमान् विष्णुरेव च ॥”
तथा, भागवते । ४ । १ । ७ ।
“तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ।
इध्मः कविर्विभुः स्वाहा सुदेवो रोचनो द्बिषट् ।
तुषिता नाम ते देवा आसन् सायम्भुवान्तरे ॥”)

तुषोत्थं, क्ली, (तुषादुत्तीष्ठतीति । उत् + स्था +

कः ।) तुषोदकम् । इति राजनिर्घण्टः ॥

तुषोदकं, क्ली, (तुषादुत्थितमुदकम् ।) काञ्जि-

कम् । इति हारावली । ११५ ॥ काञ्जिक-
भेदः । अस्य लक्षणं यथा, --
“तुषोदकं यवैरामैः सतुषैः शकलीकृतैः ॥”
यवैरुदकसहितैः सन्धानवर्गोक्तत्वात् ॥
अस्य गुणाः । दीपनत्वम् हृद्यत्वम् । पाण्डु-
क्रिमिगदवस्तिशूलनाशित्वम् । तीक्ष्णत्वम् ।
उष्णत्वम् । पाचनत्वम् । पित्तरक्तकारित्वञ्च ।
इति भावप्रकाशः ॥ (यथाच ।
“तुषोदकं वातहरं प्रभेदि
प्रकोपयेद्रक्तपित्तं सदैव ।
विपाचनं स्याज्जरणं कृमिघ्न-
मजीर्णहन्तृ कटुकं विपाके ॥”
इति हारीते प्रथमे स्थानेऽष्टमेऽध्याये ॥)

तुष्टः, त्रि, (तुष + कर्त्तरि क्तः ।) तोषप्राप्तः ।

यथा, पुराणे ।
“तस्मिंस्तुष्टे जगत्तुष्टं प्रीणिते प्रीणितं जगत् ॥”
(यथाच हितोपदेशे ।
“सर्व्वा एवापदस्तस्य यस्य तुष्ट न मानसम् ॥”)

तुष्टिः, स्त्री, (तुष + भावे क्तिन् ।) तोषः । (यथा,

मनुः । २ । ६ ।
“वेदोऽखिलो धर्म्ममूलं स्मृतिशीले च तद्बिदाम् ।
आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥”)
अधिगतार्थादन्यत्र तुच्छत्वबुद्धिः । इति चण्डी-
टीकायां नागोजीभट्टः ॥ (सा च नवविधा ।
इति सांख्याचार्य्याः ॥ तथाचोक्तम् ।
“आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकाल-
भाग्याख्याः ।
वाह्याविषयोपरमात् पञ्च नव तुष्टयोऽभिमताः ॥”
इयमेव पुराणमते दक्षस्य प्रजापतेः कन्या
धर्म्मस्य पत्नी च । यथा, मार्कण्डेये । ५० । १९ । २१ ।
पृष्ठ २/६४१
“प्रसूत्याञ्च तथा दक्षश्चतस्रो विंशतिस्तथा ।
ससर्ज्ज कन्यास्तासाञ्च सम्यङ्नामानि मे शृणु ॥
श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ।
बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्त्तिस्त्रयो-
दशी ॥
पत्न्यर्थे प्रतिजग्राह धर्म्मो दाक्षायणीः प्रभुः ॥”)
मातृकाविशेषः । इति भवदेवभट्टः ॥ (शक्ति-
विशेषः । यथा, देवीभागवते । १ । १५ । ६१ ।
“तुष्टिः पुष्टिः क्षमा लज्जा जृम्भा तन्द्रा च शक्तयः ।
संस्थिताः सर्व्वतः पार्श्वे महादेव्याः पृथक्
पृथक् ॥”)

तुष्टुः, पुं, (तुष + बाहुलकात् तुक् ।) कर्ण-

मणिः । इति शब्दचन्द्रिका ॥

तुस, ध्वाने । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) तोषति । इति दुर्गादासः ॥

तुसः, पुं, (तुषः । पृषोदरादित्वात् सत्वम् ।) तुषः ।

इत्यमरटीकायां रमानाथः ॥

तुस्तं, क्ली, धूलिः । इति लिङ्गादिसंग्रहे बुस्तशब्द-

टीकायां सारसुन्दरी ॥

तुह, इर् अर्द्दने । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् ।) इर्, अतुहत् अतोहीत् ।
अर्द्दनमिह वधः । इति दुर्गादासः ॥

तुहिनं, क्ली, (तोहति अर्द्दति तुह्यतेऽनेनेति वा ।

तुह + “वेपितुह्योर्ह्रस्वश्च ।” उणां । २ । ५२ ।
इति इनन् गुणे कृते ह्रस्वश्च ।) हिमम् । इत्य-
मरः । १ । ३ । १८ ॥ (यथा, आर्य्यासप्त-
शत्याम् । ६३२ ।
“सा श्यामा तन्वङ्गी दहता शीतोपचारतीव्रेण ।
विरहेण पाण्डिमानं नीता तुहिनेन दूर्व्वेव ॥”)
चन्द्रतेजः । इत्युणादिकोषः ॥ (यथा, पञ्च-
तन्त्रे । २ । ५८ ।
“किं चन्दनैः सकर्परैस्तुहिनैः शीतलैश्च किम् ।
सर्व्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ॥”
शीतले, त्रि । यथा, आर्य्यासप्तशत्याम् । ३६६ ।
“प्रसरतु शरत्त्रियामा जगन्ति धवलयतु धाम
तुहिनांशोः ।
पञ्जरचकोरिकाणां कणिकाकल्पोऽपि न
विशेषः ॥”)

तुहिनांशुतैलं, क्ली, (तुहिनांशोः कर्पूरस्य तैलम् ।)

कर्पूरतैलम् । इति राजनिर्घण्टः ॥

तूड, ऋ अनादरे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् ।) षष्ठस्वरी । ऋ, अतुतूडत् ।
इति दुर्गादासः ॥

तूण, क सङ्कोचे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-अकं-सेट् ।) दन्त्यवर्गाद्यादिः । क, तूणयति
चक्षुः सङ्कुचितं स्यादित्यर्थः । इति दुर्गादासः ॥

तूण, क ङ पूरणे । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं-सकं-सेट् ।) क ङ, तूणयते । इति दुर्गा-
दासः ॥

तूण, त् क सङ्कोचे । इति कविकल्पद्रुमः ॥ (अदन्त-

चुरां-परं-अकं-सेट् ।) दीर्घी मूर्द्धन्योपधः ।
अतुतूणत् । इति दुर्गादासः ॥

तूणः, पुं स्त्री, (तूण्यते पूर्य्यते बाणैरिति । तूण +

पूरणे घञ् ।) बाणाधारः । तत्पर्य्यायः । उपा-
सङ्गः २ तूणीरः ३ निषङ्गः ४ इषुधिः ५ । इत्य-
मरः । २ । ८ । ८८ ॥ तूणी ६ । इति शब्द-
रत्नावली ॥ (यथा, महाभारते । ३ । १७ । ३ ।
“तूणखड्गधरः शूरो बद्धगोधाङ्गुलित्रवान् ॥”)

तूणकं, क्ली, (तूणयति सङ्कुचितं भवति समा-

निकापदद्वयमिति । तूण + ण्वुल् ।) छन्दो-
विशेषः । यथा, छन्दोमञ्जर्य्याम् ।
“तूणकं समानिकापदद्वयं विनान्तिमम् ॥”

तूणी, स्त्री, (तूण्यते पूर्य्यते बाणैरिति । तूण +

कर्म्मणि घञ् । गौरादित्वात् ङीष् ।) तूणः ।
इति शब्दरत्नावली ॥ (यथा, रघुः । ९ । ५६ ।
“तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति ॥”
वेदनाविशेषः । यथा, सुश्रुते निदानस्थाने
१ अध्याये ।
“अधो या वेदना याति वर्चोमूत्राशयोत्थिता ।
भिन्दन्तीव गुदोपस्थं सा तूणीत्युपदिश्यते ॥”)

तूणी, [न्] पुं, (तूणवदाकृतिरस्त्यस्येति । तूण +

इनिः ।) नन्दीवृक्षः । इति राजनिर्घण्टः ॥
(अस्य पर्य्याया यथा, --
“तूणी तुन्नक आपीनस्तुणिकः कच्छकस्तथा ।
कुठेरकः कान्तलको नन्दिवृक्षश्च नन्दकः ॥”
गुणाश्चास्य यथा, --
“तुणी रक्तः कटुः पाके कषायो मधुरो लघुः ।
तिक्तो ग्राही हिमो वृष्यो व्रणकुष्ठास्रपित्त-
जित् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
तूणयुक्ते, त्रि ॥ (यथा, हरिवंशे भविष्यपर्व्वणि ।
१८ । ३५ ।
“आरुह्य भगवान् विष्णुर्गरुडं पक्षिपुङ्गवम् ।
शङ्खी चक्री गदी खड्गी शार्ङ्गी तूणी तलत्र-
वान् ॥”)

तूणीकः, पुं, (तूणी तूण इव कायतीति । कै +

कः ।) नन्दीवृक्षः । इति राजनिर्घण्टः ॥

तूणीरः, पुं, (तूण्यते पूर्य्यते बाणैरिति । तूण +

बाहुलकात् ईरन् ।) तूणः । इत्यमरः । २ । ८ ।
८८ ॥ (यथा, महाभारते । ७ । २८ । १६ ।
“तस्य पार्थो धनुश्छित्त्वा तूणीरान् सन्निकृत्य च ।
त्वरमाणो द्विसप्तत्या सर्व्वमर्म्मस्वताडयत् ॥”
क्लीवलिङ्गेऽपि दृश्यते । यथा, तत्रैव । ६ । ५१ ।
५१ ।
“तूणीराण्यथ यन्त्राणि विचित्राणि धनूंषि च ॥”)

तूतकं, क्ली, तुत्थम् । इतिशब्दचन्द्रिका ॥ तुतिया

इति भाषा ॥ (तुत्थशब्देऽस्य गुणादिकं ज्ञात-
व्यम् ॥)

तूदः, पुं, (तुदतीति । तुद व्यथने + “इगुपधेति ।”

३ । १ । १३५ । इति कः । पृषोदरादित्वात्
दीर्घः ।) तूलवृक्षः । इति राजनिर्घण्टः ॥

तूर, य ङ ई हिंसे । वेगे । इति कविकल्पद्रुमः ।

(दिवां-आत्मं-सकं-वेगे अकं-सेट् ।) य ङ,
तूर्य्यते । ई, तूर्णः । इति दुर्गादासः ॥

तूरं, क्ली, (तूर्य्यते ताड्यते इति । तूर + घञ् ।)

वाद्यम् । इति हेमचन्द्रः । २ । २०० ॥

तूरी, स्त्री, (तूरं वाद्यविशेषस्तदाकृतिः पुष्पादौ

अस्त्यस्येति । तूर + अच् । गौरादित्वात् ङीष् ।)
धुस्तूरवृक्षः । इति भावप्रकाशः ॥

तूर्णं, क्ली, (त्वर सम्भ्रमे + क्तः । पक्षे इडभावः

“ज्वरत्वरेति ।” ६ । ४ । २० । इत्यूट् । “रदाभ्यां
निष्ठातो नः पूर्ब्बस्य च दः ।” ८ । २ । ४२ ।
इति तस्य नः ।) शीघ्रम् । (यथा, देवीभाग-
वते । १ । १० । ३१ ।
“तां दृष्ट्वा चपलापाङ्गीं समीपस्थां वराप्सराम् ।
पञ्चबाणपरीताङ्गस्तूर्णमासीद्धृतव्रतः ॥”)
तद्बति, त्रि । इत्यमरः । १ । २ । ६८ ॥

तूर्णिः, पुं, (त्वरते त्वरणं वा । त्वर + “बहिश्रिश्रु-

युद्रुग्लाहात्वरिभ्यो नित् ।” उणां । ४ । ५१ ।
इति निः स च नित् ।) मलम् । इत्युणादि-
कोषः । २ । १४१ ॥ त्वरा । इति हेमचन्द्रः ।
२ । २३६ ॥ श्लोकः । मनः । इति संक्षिप्तसारे
उणादिवृत्तिः ॥ (क्षिप्रे, त्रि । इति निघण्टुः ।
२ । १५ ॥ यथा, ऋग्वेदे । १० । ८८ । ६ ।
“मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति
प्रजानन् ॥”
“तूर्णिस्त्वरमाणः ।” इति सायनः ॥)

तूर्य्यं, क्ली, (तूर्य्यते ताड्यते इति । तूर् + ण्यत् ।)

वाद्यम् । इति हेमचन्द्रः । २ । २८६ ॥ (यथा,
महाभारते । १ । ११३ । ४४ ।
“स तूर्य्यशतशङ्खानां भेरीणाञ्च महास्वनैः ।
हर्षयन् सर्व्वशः पौरान् विवेश गजसाह्व-
यम् ॥”)

तूर्य्यखण्डः, पुं, (तूर्य्यस्य खण्ड इव ।) द्रगडवाद्यम् ।

इति हारावली । २२२ ॥ (क्वचित् तूर्य्यगण्डोऽपि
पाठः ॥)

तूल, क ङ पूरणे । इति कविकल्पद्रुमः ॥ (चुरां-

आत्मं-सकं-सेट् ।) दीर्घी । क ङ, तूलयते । इति
दुर्गादासः ॥

तूल, क निष्कर्षे । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) दीर्घी । निष्कर्ष इह इयत्ता-
परिच्छेदः । क, तूलयति काञ्चनं बणिक् । इति
दुर्गादासः ॥ (क्वचित् तूल कि निष्कर्षे इति
पाठोऽपि दृश्यते । कि, तूलति तूलयति ॥)

तूलं, क्ली, (तूलयते पूरयति सर्व्वं व्यापकत्वात् ।

तूल पूरणे + कः ।) आकाशम् । इति मेदिनी ।
ले, २५ ॥ अश्वत्थाकारवृक्षविशेषः । पलाश-
पिपल इति तूत इति च भाषा ॥ तत्पर्य्यायः ।
तूदः २ ब्रह्मकाष्ठम् ३ ब्राह्मणेष्टः ४ पूषकः ५
ब्रह्मदारु ६ सुपुष्पम् ७ सुरूपम् ८ नीलवृन्त-
कम् ९ क्रमुकः १० विप्रकाष्ठम् ११ मदसारः १२ ।
इति राजनिर्घण्टः ॥ पूगः १३ । तत्पक्वफल-
गुणाः । गुरुत्वम् । स्वादुत्वम् । हिमत्वम् ।
पित्तानिलनाशित्वञ्च । तदामफलगुणाः । गुरु-
त्वम् । सारकत्वम् । अम्लत्वम् । उष्णत्वम् ।
रक्तपित्तकारित्वञ्च । इति भावप्रकाशः ॥ मधु-
पृष्ठ २/६४२
राम्लत्वम् । दाहप्रशमनत्वम् । वृष्यत्वम् । कषा-
यत्वम् । कफनाशित्वञ्च । इति राजनिर्घण्टः ॥

तूलं, क्ली पुं, (तूल्यते इयत्तया परिच्छिद्यते इति ।

तूल + कर्म्मणि घञ् । यद्बा, तूलयते स्वल्पोऽपि
बहुस्थानं पूरयतीति । तूल + “इगुपधेति ।” कः ।)
कार्पासादितूलः । (इति मेदिनी । ले, २६ ॥)
तत्पर्य्यायः । पिचुः २ । इत्यमरः । २ । ९ । १०६ ॥
पिचुलः ३ पिचुतूलः ४ तूलपिचुः ५ । इत्यमर-
टीका ॥ पिचुतूलम् ६ । इति त्रिकाण्डशेषः ॥
(यथा, देवीभागवते । ५ । १० । ३६ ।
“विपरीतं यदा दैवं तृणं वज्रसमं भवेत् ।
विधिश्चेत् सुमुखः कामं कुलिशं तूलवत्तदा ॥”)

तूलकं, क्ली, (तूल + खार्थे कन् ।) तूलः । इति

हेमचन्द्रः । ४ । २० । ५ ॥

तूलकार्म्मुकं, क्ली, (तूलाय तूलस्फोटनाय कार्म्मुक-

मिव ।) तूलस्फोटनार्थधनुः । धुनखरा इति
भाषा । तत्पर्य्यायः । पिञ्जलम् २ । इति त्रिकाण्ड-
शेषः ॥

तूलचापः, पुं, (तूलाय तूलस्फोटनाय चाप इव ।)

तूलकार्म्मुकम् । इति शब्दरत्नावली ॥

तूलनालिका, स्त्री, (तूलनिर्म्मिता नालिका नाली ।)

पिञ्जिका । इति त्रिकाण्डशेषः ॥ पाँइज इति
भाषा ॥

तूलनाली, स्त्री, (तूलनिर्म्मिता नाली ।) तूल-

नालिका । इति भूरिप्रयोगः ॥

तूलपिचुः, पुं, (तूलप्रधानः पिचुस्तूलवृक्षः ।)

तूलः । इत्यमरटीकायां भरतः ॥

तूलवृक्षः, पुं, (तूलस्य तूलप्रधानो वा वृक्षः ।)

शाल्मली । इति राजनिर्घण्टः

तूलशर्करा, स्त्री, (तूलस्य शर्करेव ।) कार्पास-

वीजम् । इति शब्दमाला ॥

तूलसेचनं, क्ली, (तूलस्य सेचनम् ।) सूत्रकर्त्तनम् ।

इति शब्दमाला ॥ काटना इति भाषा ॥

तूला, स्त्री, (तूलयते पूरयति स्थानमिति । तूल +

अच् + ततः स्त्रियां टाप् ।) कार्पासी । इति
राजनिर्घण्टः ॥ वर्त्तिः । इति शब्दरत्नावली ॥

तूलिः, स्त्री, (तूलतीति । तूल निष्कर्षे + “इगुप-

धात् कित् ।” उणां । ४ । ११९ । इति इन् स च
कित् ।) स्वनामख्यातचित्रकरोपकरणम् । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

तूलिका, स्त्री, (तूलिरेव । स्वार्थे कन् ।) चित्र-

करोपकरणम् । तूली इति भाषा । (यथा,
कुमार । १ । ३२ ॥
“उन्मीलितं तूलिकयेव चित्र
सूर्य्यांशुभिर्भिन्नमिवारविन्दम् ॥”)
तत्पर्य्यायः । ईषिका २ । इत्यमरः । २ । १० । ३३ ॥
तुलिः ३ तूली ४ ईषीका ५ इषीका ६ । वीर-
णादिशलाका । इत्यन्ये । आवात्ततमनावर्त्तितं
सुवर्णं ज्ञातुं यन्निक्षिप्यते तत्रेत्यन्य । आवर्त्तित-
सुवण द्रवाकारं यत्र निक्षिप्यत तत्रेति केचित् ।
इति भरतः ॥ (तूलमस्त्यस्या इति । तूल +
ठन् ।) शय्योपकरणम् । इति मेदिनी । के,
१०२ ॥ तोषक् इति भाषा । (यथा, कथासरित्-
सागरे । २६ । ७८ ।
“प्रविश्य चान्तः सद्रन्तपर्य्यङ्के न्यस्ततूलिके
पटावगुण्ठिततनुं शयानां काञ्चिदैक्षत ॥”
तथा च काशीखण्डे । ४ । ९७ ।
“कञ्चुकं तूलगर्भञ्च तूलिकां सूपवीतिकाम् ॥”)
वर्त्तिः । इति शब्दरत्नावली ॥

तूलिनी, स्त्री, (तूलोऽस्त्यस्याः । तूल + इनिः ।

ङीप् ।) लक्ष्मणाकन्दः । इति राजनिर्घण्टः ॥
शाल्मलिवृक्षः । इति भावप्रकाशः ॥ (तद्यथा,
“ताम्बूलं कटुतैलमुष्णभवनं तूलीपटी तूलिनी ॥”
इति वैद्यकपथ्यापथ्यविधौ शिशिराद्याचारे ॥)

तूलिफला, स्त्री, (तूलि तूलयुक्तं फलमस्याः ।)

शाल्मलिः । इति रत्नमाला ॥

तूली, स्त्री, (तूलयतीति । तूल + इन् कृदिकारा-

दिति वा ङीप् ।) नीली । वर्त्तिः । इति शब्द-
रत्नावली ॥ तूलिका । इत्यमरटीकायां भरतः ॥
(यथा, --
“उच्चैस्तूलीविलासं सुललितशयनं प्राणि-
नामाभिरामम् ॥”
इति वैद्यकपथ्यापथ्यविधौ हेमन्तकृत्ये ॥)

तूवरः, पुं, (तु सौत्रो धातुः + बाहुलकात् ष्वरच्

दीर्घश्च ।) काले अजातशृङ्गो गौः । नेडा गरु
इति भाषा । अश्मश्रुपुरुषः । इत्यमरः । ३ । ३ ।
१६४ ॥ माकुन्दिया इति भाषा । पुरुषव्यञ्जन-
त्यक्तः । कषायरसः । इति मेदिनी । वे, १६४ ॥

तूवरिका, स्त्री, (तूवरी + स्वार्थे कन् टाप् पूर्ब्ब-

ह्रस्वश्च ।) तुवरिका । इत्यमरटीकायां रमा-
नाथः ॥

तूवरी, स्त्री, (तूवर + षित्वात् ङीष् ।) आढकी ।

सौराष्ट्रमृत्तिका । इत्यमरटीकायां भरतः ॥

तूष, तुष्टौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-अकं-

सेट् ।) षष्ठस्वरी । तूषन्ति कुलदेवताः । इति
दुर्गादासः ॥

तूष्णीं, [म्] व्य, मौनम् । इत्यमरः । ३ । ४ । ९ ॥

(यथा, मनुः । ८ । १४७ ।
“यत्किञ्चिद्दशवर्षाणि सन्निधौ प्रेक्षते धनी ।
भुज्यमानं परैस्तुष्णीं न स तल्लब्धुमर्हति ॥”)

तूष्णींशीलः, त्रि, (तुष्णीं मौनं शीलं स्वभावो

यस्य ।) मौनी । तत्पर्य्यायः । तूष्णीकः २ ।
इत्यमरः । ३ । १ । ३९ ॥

तूष्णीकः, त्रि, (तुष्णीं शीलं यस्य । “शीले को

मलोपश्च ।” ५ । ३ । ७३ । इत्यस्य वार्त्तिकोक्त्या
कः मलोपश्च ।) तूष्णींशीलः । इत्यमरः । ३ । १ । ३९ ॥
(यथा, महाभारते । ५ । ३४ । २३ ।
“आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥”)

तूष्णीकां [म्] व्य, (तूष्णीम् + अकच्प्रकरणे

“तूष्णीमः काम् वक्तव्यः ।” इति वार्त्तिकोक्त्या
काम् । मित्त्वादन्त्यादचः परः ।) मौनम । इत्य-
मरः । ३ । ४ । ९ ॥

तूस्तं, क्ली, (तुस शब्दे + बाहुलकात् तुसेरपि तन्

दीर्घश्च । इत्यज्जलदत्तः । ३ । ८६ ।) धूलिः ।
(“तूस्तानि विनिहन्ति वितूस्तयति पन्थानं
वातः ।” इति मुग्धबोधम् ॥) जटा । इति
मेदिनी । ते, २२ ॥ पापम् । सूक्ष्मम् । इति
शब्दरत्नावली ॥

तृक्ष, इत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा-पर-

सकं-सेट् ।) सप्तमस्वरी । तृक्षति । इत्यां गतौ ।
इति दुर्गादासः ॥

तृखं, क्ली, जातीफलम् । इति शब्दचन्द्रिका ॥

तृट्, [ष्] स्त्री, (तृष + क्विप् ।) इच्छा । तृष्णा ।

(यथा, ऋतुसंहारे । १ । ११ ।
“मृगाः प्रचण्डातपतापिता भृशं
तृषा महत्या परिशुष्कतालवः ॥”)
कामकन्या । इति मेदिनी । षे, १३ ॥

तृण, द ञ उ भक्षे । इति काविकल्पद्रुमः ॥ (तनां-

उभं-सकं-सेट् । क्त्वावेट् ।) द ञ, तृणोति
तर्णोति तृणुते तर्णुते । उ, तर्णित्वातृत्वा । इति
दुर्गादासः ॥

तृणं, क्ली, (तृण्यते भक्ष्यते गवादिभिरिति । तृण +

घञ् । संज्ञापूर्ब्बकत्वात् न गुणः । यद्बा, तृह
हिंसायाम् + “तृहेः क्नो हलोपश्च ।” उणां ५ । ८ ।
इति क्नप्रत्ययो हकारलोपश्च ।) नडादि ।
चिनाखड इति ख्यातम् । इति केचित् । इति
भरतः ॥ तत्पर्य्यायः । अर्ज्जुनम् २ । इत्यमरः ।
२ । ५ । १६७ ॥ त्रिणम् ३ खटम् ४ खेट्टम् ५
हरितम् ६ ताण्डवम् ७ । इति शब्दरत्नावली ॥ * ॥
(यथा, पञ्चतन्त्रे । १ । ३४ ।
“जातस्य नदीकूले तस्य तृणस्यापि जन्म कल्याणम् ।
यत् सलिलमज्जनाकुलजनहस्तालम्बनं भवति ॥”)
गोभ्यस्तृणदानफलं यथा, --
“तीर्थस्नानेषु यत् पुण्यं यत् पुण्यं विप्रभोजने ।
यत् पुण्यञ्च महादाने यत् पुण्यं हरिसेवने ॥
सर्व्वव्रतोपवासेषु सर्व्वेष्वेव तपःसु च ।
भुवः पर्य्यटने यत्तु सत्यवाक्येषु यद्भवेत् ॥
यत् पुण्यं सर्व्वयज्ञेषु दीक्षायाञ्च लभेन्नरः ।
तत् पुण्यं लभते प्राज्ञो गोभ्यो दत्त्वा तृणानि च ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥ * ॥
धनिष्ठादिपञ्चनक्षत्रेषु गृहनिमित्ततृणकाष्ठा-
हरणे दोषा यथा, --
“अग्निचौरभयं रोगो राजपीडा धनक्षतिः ।
संग्रहे तृणकाष्ठानां कृते वस्वादिपञ्चके ॥”
इति ज्योतिःसारसंग्रहः ॥
(गन्धद्रव्यविशेषः । रामकर्पूर इति भाषा ॥
अस्य पर्य्याया यथा, --
“कुतृणञ्च सुगन्धञ्च तृणं शीतं सुशीतलम् ॥”
इति वैद्यकरत्नमालायाम् ॥)

तृणकुङ्कुमं, क्ली, (तृणसम्भूतं कुङ्कुमम् ।) सुगन्ध-

द्रव्यभेदः । तत्पर्य्यायः । तृणासृक् २ गन्धि ३
तृणशोणितम् ४ तृणपुष्पम् ५ गन्धाधिकम् ६
तृणोत्थम् ७ तृणगौरम् ८ लोहितम् ९ । अस्य
गुणाः । कटुत्वम् । उष्णत्वम् । कफमारुतशोफ-
कण्डूतिपामाकुष्ठामदोषनाशित्वम् । परमभास्व-
रत्वम् । इति राजनिर्घण्टः ॥
पृष्ठ २/६४३

तृणकुटी, स्त्री, (तृणाच्छादिता कुटी ।) तृणा-

च्छादितगृहम् । तत्पर्य्यायः । कायमानम् २ ।
इति त्रिकाण्डशेषः ॥ तृणौकः ३ । इति हेमचन्द्रः ॥

तृणकूर्म्मः, पुं, (तृणस्य कूर्म्म इव ।) तुम्बी । इति

शब्दमाला ॥

तृणकेतुः, पुं, (तृणेषु केतुर्ध्वज इव ।) वंशः । इति

हारावली । १०८ ॥

तृणकेतुकः, पुं, (तृणकेतु + स्वार्थे कन् ।) वंशः ।

इति राजनिर्घण्टः ॥

तृणगोधा, स्त्री, (तृणस्य गोधेव क्षुद्रत्वात् ।)

चित्रकोलः । कृकलासः । इति मेदिनी । धे,
४६ ॥ तृणजलौका । इति केचित् ॥

तृणग्रन्थिः स्त्री, (तृणस्य ग्रन्थिरिव ग्रन्थिर्यस्य ।)

स्वर्णजीवन्ती । इति राजनिर्घण्टः ॥

तृणग्राही, [न्] पुं, (तृणं गृह्णातीति । ग्रह +

णिनिः ।) नीलमणिः । इति राजनिर्घण्टः ॥
मणिविशेषः । इति शब्दार्थकल्पतरुः ॥ काफुर-
दाना इति भाषा । तत्पर्य्यायः । शूकापूट्टः २
तृणमणिः ३ । इति हारावली ॥

तृणजम्भा, [न्] त्रि, (तृणं जम्भो भक्ष्यं यस्य ।

“जम्भा सुहरिततृणसोमेभ्यः ।” ५ । ४ । १२५ ।
इति निपातनात् साधुः ।) तृणभक्षकः । (तृण-
मिव जम्भो दन्तो यस्य ।) तृणवर्णदन्तयुक्तः ।
इति सिद्धान्तकौमुदी ॥

तृणता, स्त्री, धनुः । (तृणस्य भावः । तृण +

भावे तल् ।) तृणत्वम् । इति मेदिनी । ते,
११३ ॥

तृणद्रुमः, पुं, (तृणप्रधानो द्रुमः । तृणमिव द्रुमो

वा ।) तालः । गुवाकः । ताली । केतकी ।
खर्ज्जूरः । खर्ज्जूरी । नारिकेलः । हिन्तालः ।
एषां निर्यासगुणाः । शीतलत्वम् । लघुत्वम् ।
मोहनत्वम् । बलकारित्वम् । हृद्यत्वम् । तृष्णा-
सन्तापनाशित्वञ्च । इति राजनिर्घण्टः ॥

तृणधान्यं, क्ली, (तृणबहुलं धान्यम् ।) धान्य-

विशेषः । उडिधान इति भाषा । तत्पर्य्यायः ।
नीवारः २ । इत्यमरः । २ । ९ । २५ ॥

तृणध्वजः, पुं, (तृणेषु ध्वज इव दीर्धत्वात् ।)

वंशः । इत्यमरः । २ । ४ । १६० ॥

तृणनिम्बः, पुं, (तृणाकारो निम्बः ।) नेपाल-

निम्बः । इति राजनिर्घण्टः ॥

तृणपत्रिका, स्त्री, (तृणस्येव पत्रमस्त्यस्याः ।

ठन् टाप् च ।) इक्षुदर्भा । इति राजनिर्घण्टः ॥

तृणपत्री, स्त्री, (तृणमिव पत्रमस्याः । ङीष् ।)

गुण्डाशिनी । इति राजनिर्घण्टः ॥

तृणपुष्पं, क्ली, (तृणस्य पुष्पमिव ।) तृणकुङ्कु-

मम् । इति राजनिर्घण्टः ॥

तृणपुष्पी, स्त्री, (तृणमिव पुष्पमस्याः । ङीष् ।)

सिन्दूरपुष्पीवृक्षः । इति राजनिर्घण्टः ॥

तृणपूली, स्त्री, (तृणस्य पूलः संहतिर्यत्र । ततो

गौरादित्वात् ङीष् । तृणनिर्म्मितत्वादस्य तथा-
त्वम् ।) चञ्चा । इति हारावली । १९९ ॥
चाँच इति भाषा ॥

तृणमणिः, पुं, (तृणेषु मणिः ।) तृणग्राही ।

इति हारावली । २१६ ॥

तृणमत्कुणः, पुं, लग्नकः । इति त्रिकाण्डशेषः ॥

जामिन् इति भाषा ॥

तृणराजः, पुं, (तृणेषु राजते शोभते इति । राज

+ अच् । तृणानां राजा वा समासे टच् ।)
तालवृक्षः । इत्यमरः । २ । ५ । १६८ ॥ (यथा,
आर्य्यासप्तशत्याम् । ५६७ ।
“श्रीः श्रीफलेन राज्यं तृणराजेनाल्पसाम्यतो लब्धम् ।
कुचयोः सम्यक् साम्यात् गतो घटश्चक्रवर्त्तित्वम् ॥”)
नारिकेलः । इति राजनिर्घण्टः ॥

तृणवल्वजा, स्त्री, (तृणरूपा वल्वजा ।) वल्वजा ।

इति राजनिर्घण्टः ॥

तृणवीजः, पुं, (तृणस्य वीजमिव वीजमस्य ।)

श्यामाकः । इति रत्नमाला ॥

तृणवीजोत्तमः, पुं, (तृणवीजेषु उत्तमः ।)

श्यामाकः । इति राजनिर्घण्टः ॥

तृणशीतं, क्ली, (तृणेषु शीतं शीतलम् ।) कत्तृ-

णम् । गन्धतृणम् । इति रत्नमाला ॥

तृणशीता, स्त्री, (तृणेषु शीता शीतला ।) जल-

पिप्पली । इति राजनिर्घण्टः ॥

तृणशून्यं, क्ली, (तृणेन शून्यम् ।) मल्लिका ।

केतकीफलम् । इति मेदिनी । ये, ११९ ॥
(एतद्गुणा यथा, --
“नीपं सभार्गवं पीलु तृणशून्यं विकङ्कतम् ।
प्राचीनामलकञ्चैव दोषघ्नङ्गरहारि च ॥”
इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥)
तृणरहिते, त्रि ॥

तृणषट्पदः, पुं, (तृणमिव षट् पदा यस्य ।)

वरोलः । इति हारावली । २१७ ॥ बोल्ता
इति भाषा ॥

तृणसारा, स्त्री, (तृणवत् सारो यस्याः । असा-

रत्वात् तथात्वम् ।) कदली । इति हारा-
वली । १०५ ॥

तृणसिंहः, पुं, (तृणेषु सिंह इव तन्नाशकत्वात् ।)

कुठारः । इति शब्दार्थकल्पतरुः ॥

तृणहर्म्म्यः, पुं, (तृणाच्छादितो हर्म्म्यः ।) तृण-

युक्ताट्टालिका । अट्टालिकोपरि तृणनिर्म्मित-
गृहम् । तत्पर्य्यायः । मयटः २ । इति हारा-
वली । २२३ ॥

तृणांह्रिपः, पुं, (तृणरूपोऽंह्रिपो वृक्षः ।) मन्था-

नकतृणम् । इति राजनिर्घण्टः ॥

तृणाग्निः, पुं, (तृणजातोऽग्निः । शाकपार्थिववत्

समासः ।) तृणजाताग्निः । तत्पर्य्यायः । वत्-
सलः २ । इति त्रिकाण्डशेषः ॥

तृणाञ्जनः, पुं, (तृणमिव अञ्जनो ज्येष्ठी ।

तृणवदाकृतित्वादस्य तथात्वम् ।) कृकलासः ।
इति त्रिकाण्डशेषः ॥

तृणाढ्यं, क्ली, (तृणेषु आढ्यं पुष्टत्वात् ।) पर्व्वत-

तृणम् । इति राजनिर्घण्टः ॥

तृणाम्लं, क्ली, (तृणेषु अम्लम् ।) लवणतृणम् ।

इति राजनिर्घण्टः ॥

तृणासृक्, [ज्] पुं, (तृणेषु असृगिव रक्तवर्ण-

त्वात् ।) तृणकुङ्कुमम् । इति राजनिर्घण्टः ॥

तृणेक्षुः, पुं, (तृणेषु इक्षुरिव ।) वल्वजा । इति

राजनिर्घण्टः ॥

तृणोत्तमः, पुं, (तृणेषु उत्तमः ।) उखर्व्वलतृणम् ।

इति राजनिर्घण्टः ॥

तृणोद्भवः, पुं, (तृणैः सह उद्भवतीति । उत् +

भू + अच् ।) नीवारः । इति राजनिर्घण्टः ॥

तृणौकः, [स्] क्ली, (तृणनिर्म्मितमोको वसति-

स्थानम् ।) कायमानम् । तृणनिर्म्मितगृहम् ।
इति हेमचन्द्रः । ४ । ६२ ॥ खडुया घर इति
भाषा ॥

तृणौषधं, क्ली, (तृणात्मकं औषधम् ।) एल-

बालुकाख्यगन्धद्रव्यम् । इति शब्दचन्द्रिका ॥

तृण्या, स्त्री, (तृणानां समूहः । “पाशादिभ्यो

यः ।” ४ । २ । ४९ । इति यः ।) तृणसमूहः ।
इत्यमरः । २ । ५ । १६८ ॥

तृतीयः, त्रि, (त्रयाणां पूरणः । त्रि + “त्रेः सम्प्र-

सारणञ्च ।” ५ । २ । ५५ । इति तीयः सम्प्र-
सारणञ्च ।) त्रयाणां पूरणः । इति व्याकर-
णम् ॥ तेसरा इत्यादि भाषा । (यथा, मनुः ।
२ । ३५ ।
“चूडाकर्म्म द्बिजातीनां सर्व्वेषामेव धर्म्मतः ।
प्रथमेऽब्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात् ॥”)

तृतीयप्रकृतिः, स्त्री, तृतीया प्रकृतिः । इत्यमर-

टीकायां भरतः ॥

तृतीया, स्त्री, (त्रयाणां पूरणी । त्रि + “त्रेः

सम्प्रसारणञ्च ।” ५ । २ । ५५ । इति तीयः
सम्प्रसारणञ्च । ततष्टाप् ।) तिथिविशेषः ।
सा चन्द्रमण्डलस्य तृतीयकलाक्रियारूपा तत्-
क्रियोपलक्षितः कालो वा । इति तिथ्यादि-
तत्त्वम् ॥
अस्यां जातस्य फलं यथा, --
“सकलगुणगभीरो भूमिपालानुरागी
पवनगरविगाही सर्व्वलोकोपकारी ।
परविषयनिवासी कौतुकी सत्यवादी
भवति निखिलविद्यो यस्तृतीयाप्रसूतः ॥”
इति कोष्ठीप्रदीपः ॥
वा वैशाखस्य शुक्ला अक्षयतृतीयां । यथा,
स्मृतिः ।
“वैशाखे मासि राजेन्द्र ! शुक्लपचे तृतीयिका ।
अक्षया सा तिथिः प्रोक्ता कृत्तिकारोहिणी-
युता ॥
तस्या दानादिकं पुण्यं अक्षयं समुदाहृतम् ॥”
भविष्ये ।
या शुक्ला कुरुशार्द्दूल ! वैशाखे मासि वै तिथिः ।
तृतीया साक्षया लोके गीर्व्वाणैरभिवन्दिता ॥
योऽस्यां ददाति करकान् वारिवाजसमन्वितान् ।
स याति पुरुषो वीर ! लोकान् वै हेममालिनः ॥
करकान् कुम्भान् । वाजमन्नम् । हेममालिनः
सूर्य्यस्य ॥ ब्रह्मपुराणे ।
“यः पश्यति तृतीयायां कृष्णं चन्दनचर्च्चितम् ।
पृष्ठ २/६४४
वैशाखस्य सिते पक्षे स यात्यच्युतमन्दिरम् ॥”
स्कन्दपुराणम् ।
“वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता ।
तत्र मां लेपयेद्गन्धलेपनैरतिशोभनैः ॥” * ॥
ब्रह्मपुराणम् ।
“वैशाखशुक्लपक्षे तु तृतीयायां जनार्द्दनः ।
यवानुत्पादयामास युगञ्चारब्धवान् कृतम् ॥
ब्रह्मलोकात्त्रिपथगां पृथिव्यामवतारयत् ।
तस्यां कार्य्यो यवैर्होमो यवैर्व्विष्णुं समर्च्चयेत् ॥
यवान् दद्यात् द्विजातिभ्यः प्रयतः प्राशयेद्-
यवान् ।
पूजयेत् शङ्करं गङ्गां कैलासञ्च हिमालयम् ॥
भगीरथञ्च नृपतिं सागराणां सुखावहम् ।
स्नानं दानं तपः श्राद्धं जपहोमादिकञ्च यत् ॥
श्रद्धया क्रियते तत्र तदानन्त्याय कल्प्यते ॥
अत्रानन्त्यफलश्रुतेः पूर्ब्बवचने नक्षत्रयोगः फला-
तिशयार्थः ।” इति तिथ्यादितत्त्वम् ॥ * ॥
पाद्मे श्रीवराहधरणीसंवादे ।
“त्रेतायुगं तृतीयायां शुक्लायां मासि माधवे ।
प्रवृत्तञ्च त्रयीधर्म्माः प्रवृत्तास्ते प्रवर्त्तिताः ॥
अक्षया सोच्यते लोके तृतीया हरिवल्लभा ।
स्नाने दानेऽर्च्चने श्राद्धे जपे पूर्ब्बजतर्पणे ॥
येऽर्च्चयन्ति यवैर्व्विष्णुं श्राद्धं कुर्व्वन्ति यत्नतः ।
तस्यां ददति दानानि धन्यास्ते वैष्णवा नराः ॥”
इति श्रीहरिभक्तिविलासे १४ । १३४ ॥

तृतीयाकृतं, त्रि, (तृतीयं कर्षणं कृतम् । “कृञो

द्बितीयतृतीयशम्बवीजात् कृतौ ।” ५ । ४ । ५८ । इति
डाच् ।) वारत्रयकृष्टक्षेत्रम् । इत्यमरः । २ । ९ । ९ ॥
तिनवार चाष देओया क्षेत इति भाषा ॥

तृतीयाप्रकृतिः, स्त्री, (तृतीया प्रकृतिः । “संज्ञा-

पूरण्याश्च ।” ६ । ३ । ३८ । इति न पुंवद्भावः ।)
नपुंसकम् । इत्यमरः । २ । ६ । ३९ ॥

तृद, हिंसे । (भ्वां-परं-सकं-सेट् ।) तर्द्दति । इति

दुर्गादासः ॥

तृद, उ ञ ध इर् । अनादरे । हिंसे । इति कवि-

कल्पद्रुमः ॥ (रुधां-उभं-सकं-सेट् । उदित्वात्
क्त्वावेट् ।) उ, तर्द्दित्वा तृत्त्वा । ञ ध, तृणत्ति
तृन्ते । इर, अतृदत् अतर्द्दीत् । इति दुर्गादासः ॥

तृन्प, श प्रीणने । इति कविकल्पद्रुमः ॥ (तुदां

परं-सकं-सेट् ।) प्रीणनमिह प्रीतीभावः । श,
तृपति तृम्पति वा लाभाल्लोकः । ततृम्प । इति
दुर्गादासः ॥

तृन्फ, श प्रीणने । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) श, तृफति तृम्फति । ततृम्फ ।
इति दुर्गादासः ॥

तृन्ह, ऊ श हिंसे । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-वेट् ।) सप्तमस्वरी । ऊ, अतृंहीत्
अतृङ्क्षीत् । श, तृहति । इति दुर्गादासः ॥

तृप, कि सन्दीपने । प्रीणने । इति कविकल्पद्रुमः ॥

(चुरां-पक्षे भ्वां-परं-सकं-सेट् ।) कि, तर्पयति
तर्पति । योऽग्नित्रयं तर्पयतीति हलायुधः ।
इति दुर्गादासः ॥

तृप, न प्रीणने । इति कविकल्पद्रुमः ॥ (स्वां-परं-

सकं-सेट् ।) प्रीणनं प्रीतीकरणम् । न, तृप्नोति
पितरं पुत्त्रः । ततर्प । इति दुर्गादासः ॥

तृप, प श प्रीणने । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) प श, तृम्पति ततर्प । इति
दुर्गादासः ॥

तृप, ञि ऌ य ऊ प्रीणने । इति कविकल्पद्रुमः ॥

(दिवां-परं-अकं-सकं च-वेट् ।) ञि, तृप्तोऽस्ति । ऌ,
अतृपत् । अस्य ऌदित्वेऽपि कृषमृशस्पृशेत्यादि-
विशेषविधानात् पक्षे ट्यांसिस्तेन अतार्प्सीत्
अत्राप्सीत् अतर्पीदित्यपि । य, तृप्यति । ऊ,
तर्पिष्यति तर्प्स्यति । प्रीणनमिह प्रीतीभावः
प्रीतीकरणञ्च । स्यन्दीनि तृप्यतु मधूनि पिब-
न्निवायमिति श्रीहर्षः । पितॄनतार्प्सीन्नृपरक्ततोयै-
रिति भट्टिः । इति दुर्गादासः ॥

तृपत्, पुं, (तृप्नोति प्रीणयतीति । तृप + “संश्च-

त्तृ पद्वेहत् ।” उणां २ । ८५ । इति अतिप्रत्ययेन
निपातनात् साधुः ।) चन्द्रः । इत्युणादिकोषः ॥
छत्रम् । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
(प्रीणयति, त्रि । यथा, ऋग्वेदे । २ । २२ । १ ।
“तृपत्सोमपिबद्वितृना सुतं यथावशत् ।”
“तृप प्रीणने तुदादिः । आगमानुशासनस्या-
नित्यत्वान्नुमभावः तृप्यन् इन्द्रः ॥” इति सायनः ॥)

तृपला, स्त्री, (तृप्यतीति । तृप प्रीणने + “कल-

स्तृपश्च ।” उणां १ । १०६ । इति कलः । तत-
ष्टाप् ।) लता । इत्युणादिकोषः ॥ त्रिफला ।
इति संक्षिप्तसारे उणादिवृत्तिः ॥ (क्षिप्रप्रहा-
रिणि, त्रि । यथा, ऋग्वेदे । ९ । ९७ । ८ ।
“प्रहंसासस्तृपलं मन्युमच्छामादस्तं वृषगणाः
अयासुः ॥”
“तृपलशब्दः क्षिप्रवाची । तदुक्तं यास्केन ।
तृपलप्रभर्म्मा क्षिप्रप्रहारीति । क्षिप्रप्रहारिणं
मन्युम् ।” इति सायनः ॥)

तृप्तः, त्रि, (तृप प्रीणने + क्तः ।) तृप्तियुक्तः ।

इत्यमरः । ३ । १ । १०३ ॥ (यथा, नैषधे ।
३ । ९३ ।
“शुद्धान्तसम्भोगनितान्ततुष्टे
न नैषधे कार्य्यमिदं निगाद्यम् ।
अपां हि तृप्ताय न वारिधारा
स्वादुः सुगन्धिः स्वदते तुषारा ॥”)

तृप्तिः, स्त्री, (तृप प्रीणने + भावे क्तिन् ।) भक्ष-

णादिनाकाङ्क्षानिवृत्तिः । तत्पर्य्यायः । सौहि-
त्यम् २ तर्पणम् ३ । इत्यमरः । २ । ९ । ५६ ॥
प्रीणनम् ४ आसितम्भवम् ५ । इति शब्द-
रत्नावली ॥ (यथा, देवीभागवते । १ । १ । २० ।
“श्रुतान्यन्यानि सर्व्वज्ञ ! तन्मुखान्निःसृतानि च ।
नैव तृप्तिं व्रजामोऽद्य सुधापानेऽमरा यथा ॥”)

तृप्रः, पुं, (तृप्यत्यनेनेति । तृप + “स्कायितञ्चीति ।”

उणां २ । १३ । इति रक् ।) घृतम् । इत्यु-
णादिकोषः ॥ पुरोडाशः । इति संक्षिप्तसारे
उणादिवृत्तिः ॥ (तर्पके, त्रि । यथा, ऋग्वेदे ।
८ । २ । ५ ।
“न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम् ।
अपस्पृण्वते सुहार्दम् ॥” “तृप्रास्तर्पका अन्ये
चरुपुरोडाशादयश्च यमिन्द्रं नापस्पृण्वते न
न प्रीणयन्ति अपि तु प्रीणयन्त्येव तमिन्द्रं स्तुमः
इति शेषः ।” इति तद्भाष्ये सायनः ॥)

तृफ, प श प्रीणने । इति कविकल्पद्रुमः ॥ (तुदां-

परं-सकं-सेट् ।) प श, तृम्फति ततर्फ । इति
दुर्गादासः ॥

तृफला, स्त्री, (तृम्फति प्रीणातीति । तृफ + “कल-

स्तृपश्च ।” उणां १ । १०६ । इति चकारात्
तृफतेरपि कलः ।) त्रिफला । इति त्रिकाण्ड-
शेषः ॥

तृफूः, पुं, (तृफति पीडयतीति । तृफ क्लेशे +

“खर्ज्जादिभ्य ऊः ।” १ । ४६६ । इत्युणादिकोष-
टीकाधृतसूत्रेण ऊः । निपातनात् न गुणः ।)
सर्पजातिः । इत्युणादिकोषः ॥

तृष, इर् य तृञि षि । इति कविकल्पद्रुमः ॥

(दिवां-परं-सकं-सेट् ।) इर्, अतृषत् अत-
र्षीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये ।
य, तृष्यति । ञि, तृषितोऽस्ति । तृट् आकाङ्क्षा ।
तथा च । इच्छाकाङ्क्षा स्पृहेहा तृट् वाञ्छा
लिप्सा मनोरथः । इत्यमरसिंहः । तदुप-
स्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णयेति
रघुः । तृष्यति धनं लोकः । तृषि पिपासाया-
मिति प्राञ्चः । तृष्यति तोयं पान्थः । इति
रमानाथः । इति दुर्गादासः ॥

तृषा, स्त्री, (तृष + क्विप् पक्षे टाप् ।) तृष्णा ।

(अस्याः निवारणोपायो यथा, --
“काश्मर्य्यं पद्मकोशीरं द्राक्षामधुकचन्दनम् ।
बालकं शर्करायुक्तं क्वाथं पित्ततृषापहम् ॥
वटद्रुमो रोध्रसिता च चन्दनं
सदाडिमं तण्डुलधावनेन ।
पिष्टं सुशीतेन जलेन वापि
पीतञ्च पित्तोत्थतृषापहञ्च ॥”
इति हारीते चिकित्सितस्थाने चतुर्द्दशेऽध्याये ॥
भुक्तोद्भवायास्तृषाया हेतुर्यथा, --
“स्निग्धं तथाम्लं लवणञ्च भुक्तं
गुर्व्वन्नमेवाशु तृषां करोति ॥”
इति वैद्यकमाधवकरकृतरुग्विनिश्चये तृष्णाधि-
कारे ॥) इच्छा । (यथा, हितोपदेशे । १ । २६६ ।
“लोभेन बुद्धिश्चलति लोभो जनयते तृषाम् ।
तृषार्त्तो दुःखमाप्नोति परत्रेह च मानवः ॥”)
कामकन्या । इति शब्दरत्नावली ॥ लाङ्ग-
लिकीवृक्षः । इति शब्दचन्द्रिका ॥

तृषाभूः, स्त्री, (तृषाया भूरुत्पत्तिस्थानम् ।)

क्लोम । इति शब्दचन्द्रिका ॥

तृषाहं, क्ली, (तृषां हन्तीति । हन + डः ।)

जलम् । इति शब्दचन्द्रिका ॥

तृषाहा, स्त्री, (तृषां हन्तीति । हन + डः +

टाप् ।) मधुरिका । इति शब्दचन्द्रिका ॥

तृषितः, त्रि, (तृट् तृषा वा सञ्जातास्य । तारका-

दित्वात् इतच् ।) तृष्णायुक्तः । तत्पर्य्यायः ।
पृष्ठ २/६४५
तर्षितः २ सतृट् ३ । इति त्रिकाण्डशेषः ॥
(यथा, देवीभागवते । २ । ८ । २० ।
“तृषितश्च परिश्रान्तः क्षुधितश्चोत्तरासुतः ॥”
भावे क्तः ।) तृषायाम्, क्ली ॥

तृषितोत्तरा, स्त्री, (तृषितः उत्तरो यस्याः ।)

अशनपर्णी । इति शब्दचन्द्रिका ॥

तृष्णक्, [ज्] त्रि, (तृष्यति आकाङ्क्षतीति । तृष्

+ “स्वपितृषोर्नजिङ् ।” ३ । २ । १७२ । इति
नजिङ् ।) लुब्धः । इत्यमरः । ३ । १ । २२ ॥
(तृषितः । यथा, ऋग्वेदे । १ । ८५ । ११ ।
“असिञ्चन्नुत्सं गोतमाय तृष्णजे ॥”)

तृष्णा, स्त्री, (तृष + “तृषिशुषिरादिभ्यः कित् ।”

उणां ३ । १२ । इति नः स च कित् ।) अना-
त्मीयस्वीकारेच्छा । इति चण्डीटीकायां नागोजी-
भट्टः ॥ सा लिप्सा । (यथा, रघुः । ८ । २ ।
“तदुपस्थितमग्रहीदजः
पितुराज्ञेति न भोगतृष्णया ॥”)
पानेच्छा । इति मेदिनी । णे, १६ ॥ तत्-
पर्य्यायः । उदन्या २ पिपासा ३ तृट् ४ तर्षः ५
इत्यमरः । ३ । ३ । ५१ ॥ तृषा ६ । इति शब्द-
रत्नावली ॥ तर्पणम् ७ । इति जटाधरः ॥ * ॥
रोगविशेषः । तन्निदानं यथा, --
“वातात् पित्तात् कफात् तृष्णा सन्निपातात्
द्रवक्षयात् ।
षष्ठी स्यादुपसर्गाच्च वातपित्ते तु कारणम् ॥
सर्व्वासु तत् प्रकोपो हि सौम्यधातुप्रशोषणात् ।
सर्व्वदेहे भ्रमात् कम्पतापकृद्दाहमोहकृत् ॥
जिह्वामूलगलक्लोमतालुतोयवहाः शिराः ।
संशोष्य तृष्णा जायन्ते तासां सामान्यलक्ष-
णम् ॥ * ॥
मुखशोषो जलातृप्तिरन्नद्वेषः स्वरक्षयः ।
कण्ठोष्ठजिह्वाकार्क्कश्यं जिह्वानिष्क्रमणं क्लमः ।
प्रलापश्चित्तविभ्रंशो मृद्ग्रहोक्तास्तथामयाः ।
मरुतः क्षामता दैन्यं शङ्खतोदः शिरोभ्रमः ॥
गन्धाज्ञानास्यवैरस्यश्रुतिनिद्राबलक्षयाः ।
शीताम्बुफेनवृद्धिश्च पित्तान्मूर्च्छास्यतिक्तता ॥
रक्तेक्षणत्वं सततं शोषो दाहोऽतिधूमकः ।
कफं रुणद्धि कुपितस्तोयवाहिषु मारुतः ॥
स्रोतःसु स कफस्तेन पङ्कवच्छोष्यते ततः ।
शूकैरिवाचितः कण्ठो निद्रामधुरवक्त्रता ॥
आत्मनः शिरसो जाड्यं स्तैमित्यच्छर्द्द्यरोचका ।
आलस्यमविपाकश्च यः स स्यात् सर्व्वलक्षणः ॥
आमोद्भवा च भक्ष्यस्य संरोधाद्बातपित्तजा ।
उष्णक्रान्तस्य सहसा शीताम्भो भजतस्तृषा ॥
तृष्णा वोर्द्ध्वं गतं कोष्ठं कुर्य्यात् पित्तरुजैव सा ।
या च पानातिपानोत्था तीक्ष्णाग्नेः स्नेह-
पाकजा ॥
स्निग्धकट्वम्ललवणभोजनेन कफोद्भवा ।
तृष्णारसक्षयोक्तेन लक्षणेन क्षयात्मिका ॥
शोषमोहज्वराद्यस्य दीर्घरोगोपसर्गतः ।
यातृष्णा जायते तीव्रा सोपसर्गात्मिका स्मृता ॥”
इति गारुडे तृष्णानिदानम् १५९ अध्यायः ॥ * ॥
तदौषधं यथा, --
“त्रिफलापिप्पलीचूर्णं भक्षितं मधुना युतम् ।
भोजनादौ हि समधु पिपासां त्वरितं हरेत् ॥”
इति तत्रैव १९४ अध्यायः ॥ * ॥
अपि च । “अथ तृष्णाधिकारः । तत्र तृष्णाया
निदानपूर्ब्बिकां सम्प्राप्तिमाह ।
भयश्रमाभ्यां वलसङ्क्षयाद्वा
ऊर्द्ध्वं चितं पित्तविवर्द्धनैश्च ।
पित्तं सवातं कुपितं नराणां
तालुप्रपन्नं जनयेत् पिपासाम् ॥
स्रोतःस्वपां वाहिषु दूषितेषु
दोषैश्च तृट् सम्भवतीह जन्तोः ।
तिस्रः स्मृतास्ताः क्षतजा चतुर्थी
क्षयात्तथान्यामसमुद्भवा च ॥
भुक्तोद्भवा सप्तमिकेति तासां
निबोध लिङ्गान्यनुपूर्ब्बशस्तु ॥
नराणां चितं स्वस्थान एव सञ्चितं पित्तं
सवातं पित्तविवर्द्धनैः कट्वम्लोष्णादिभिः कुपि-
तम् । भयश्रमाभ्यां बलसङ्क्षयादुपवासादेश्च
वातः कुपितः । तद्द्वयं ऊर्द्ध्वं प्रसरन् तालु-
प्रपन्नं सत् पिपासां जनयेत् । न केवलं तालु-
न्येव दूषिते तृषा भवति । किन्तु जलवाहि-
स्रोतःस्वपि । अत आह । स्रोतःस्वित्यादि ।
नन्वत्र बहुवचनं युक्तम् । यतो जलवहे द्वे
स्रोतसी सुश्रुतेनोक्ते । उच्यते । तयोरेवानेक-
प्रतानयोगान्न दोषः । अपां वाहिषु स्रोतः-
स्विति जिह्वादेरप्युपलक्षणम् । यत आह चरकः
रसवाहिनीश्च धमनीर्जिह्वा हृदयगलतालुक्लोम
च । संशोष्य नॄणां देहे कुरुतस्तृष्णामतिबलौ
पित्तानिलाविति ॥ सङ्ख्यामाह । तिस्र इत्यादि ॥
तृष्णायाः सामान्यं लक्षणमाह ।
सततं यः पिबेत्तोयं न तृप्तिमधिगच्छति ।
मुहुः काङ्क्षति तोयन्तु तं तृष्णार्द्दितमादिशेत् ॥
वातजाया लक्षणमाह ।
क्षामास्यता मारुतसम्भवायां
तोदस्तथा शङ्खशिरःसु चापि ।
स्रोतोनिरोधो विरसञ्च वक्त्रं
शीताभिरद्भिश्च विवृद्धमेति ॥
शङ्खशिरःसु शङ्खयोः शिरसि च । स्रोतोनिरोधो
रसाम्बुवाहिधमनीनिरोधः ॥ * ॥ पित्तजामाह ।
मूर्च्छ्रान्नविद्वेषविलापदाहा
रक्तेक्षणत्वं प्रततश्च शोषः ।
शीताभिनन्दा मुखतिक्तता च
पित्तात्मिकायां परिधूपनञ्च ॥
विलापः प्रलापः । प्रततश्च शोषः अविरतश्च
शोषः । शीताभिनन्दा शीतेच्छा । परिधूपनं
कण्ठाद्धूमनिर्गम इव ॥
कफजामाह ।
वास्पावरोधात् कफसंवृतेऽग्नौ
तृष्णा वलासेन भवेन्नरस्य ।
निद्रागुरुत्वं मधुरास्यता च
तयार्द्दितः शुष्यति चातिमात्रम् ॥
अग्नौ जठराग्नौ । कफसंवृते स्वकारणकुपितेन
कफेनोपरिष्टादाच्छादिते । वास्पावरोधात् अग्ने-
रुष्मावरोधात् । अवरुद्धानलोष्मणाम्बुवहस्रोतः-
शोषणात् वलासेन कफेन नरस्य तृष्णा भवेत् ।
तया तृष्णया अर्द्दितः पीडितः । शुष्यति कृशो
भवति ॥ * ॥
क्षतजामाह ।
क्षतस्य रुक्शोणितनिर्गमाभ्यां
तृष्णा चतुर्थी क्षतजा मता तु ।
क्षतस्य शस्त्रादिक्षतयुक्तस्य । रुक् पीडा ॥ * ॥
क्षयजामाह ।
रसक्षयाद्या क्षयसम्भवा सा
तयाभिभूतस्तु निशादिनेषु ।
पेपीयतेऽम्भः स सुखं न याति
तां सन्निपातादिति केचिदाहुः ॥
रसक्षयोक्तानि च लक्षणानि
तस्यामशेषेण भिषग्व्यवस्येत् ।
रसक्षयलक्षणानि सुश्रुतेनोक्तानि ॥ रसक्षये
हृत्पीडा कम्पः शोषः शून्यता तृष्णा चेति ।
व्यवस्येत् जानीयात् ॥ * ॥
आमजामाह ।
त्रिदोषलिङ्गामसमुद्भवा च
हृच्छूलनिष्ठीवनसादकर्त्री ॥ * ॥
भुक्तोद्भवामाह ।
स्निग्धं तथाम्लं लवणञ्च भुक्तं
गुर्व्वन्नमेवाशु तृषां करोति ।
लवणञ्चेति चकारात् कटु च ॥ * ॥
उपसर्गजामाह ।
क्षीणस्वरः प्रताम्यन् दीनाननहृदयशुष्कगलतालुः ।
भवति खलु सोपसर्गात् तृष्णा सा शोषिणी कष्टा ॥
शोषिणी धातुशोषिणी ॥ * ॥
उपसर्गानाह ।
ज्वरो मोहः क्षयः श्वासो वाधिर्य्यं कास एव च ।
वहिर्निर्गतजिह्वात्वं सप्तैते तदुपद्रवाः ॥ * ॥
तद्युक्ताया अरिष्टत्वञ्चाह ।
ज्वरमोहक्षयकासश्वासाद्युपसृष्टदेहानाम् ।
सर्व्वास्त्वतिप्रसक्ता रोगकृशानां वमिप्रसक्तानाम् ॥
घोरोपद्रवयुक्तास्तृष्णा मरणाय विज्ञेयाः ।
आदिशब्दादतीसारादीनां ग्रहणम् । अति-
प्रसक्ताः निरन्तराः । घोरोपद्रवयुक्ताः अतीव-
मुखशोषादियुताः ॥ * ॥
अथ तृष्णायाश्चिकित्सा ।
वातघ्नमन्नपानं मृदु लघु शीतञ्च वाततृष्णायाम् ।
तृष्णायां पवनोत्थायां सगुडं दधि शस्यते ।
स्वादु तिक्तं द्रवं शीतं पित्ततृष्णापहं परम् ॥ * ॥
मुस्तपर्प्प टकोदीच्यछत्राख्योशीरचन्दनैः ।
शृतं शीतं जलं दद्यात् तृड्दाहज्वरशान्तये ॥
छत्रा धान्याकम् । कश्चिद्धात्रीञ्च दद्यात् ।
चन्दनमत्र धवलं दद्यात्तस्यातितृष्णाहरत्वात् ।
शृतमर्द्धपक्वमत्र कर्त्तव्यम् । इति षडङ्गपानम् ॥ १ ॥
लाजोदकं मधुयुतं शीतं गुडविमर्द्दितम् ।
काश्मरीशर्करायुक्तं पिबेत् तृष्णार्द्दितो नरः ॥ २ ॥
पृष्ठ २/६४६
आस्तरणमार्द्रवासः प्रावरणं चाद्रेमेव स्यात् ।
तेन पिपासा शाम्यति दाहश्चोग्रोऽपि देहिनां
नियतम् ॥ ३ ॥
गोस्तनीक्षुरसक्षीरयष्टीमधुमधूत्पलैः ।
नियतं नासिकापीतैस्तृष्णा शाम्यति दारुणा ॥ ४ ॥
वैषद्यं जनयत्यास्ये सन्दधाति मुखे जलम् ।
तृष्णादाहप्रशमनं मधुगण्डूषधारणम् ॥ ५ ॥
जिह्वातालुगलक्लोमशोषे मूर्द्धनि दापयेत् ।
केशरं मातुलुङ्गस्य घृतसैन्धवसंयुतम् ॥ ६ ॥
दाडिमं वदरं लोध्रं कपित्थं वीजपूरकम् ।
पिष्टा मूद्धान लेपस्तु पिपासादाहनाशनः ॥ ७ ॥
वारि शीतं मधुयुतमाकण्ठाद्बा पिपासितम्
पाययेद्बामयेच्चापि तेन तृष्णा प्रशाम्यति ॥ ८ ॥
प्रातः सशर्करः पेयो हिमो धान्याकसम्भवः ।
जयेत् तृष्णां तथा दाहं भवेत् स्रोतोविशो-
धनम् ॥ ९ ॥
आमलं कमलं कुष्ठं लाजाश्च वटरोहकम् ।
एतच्चूर्णस्य मधुना गुटिकां धारयेन्मुखे ॥
तृष्णां प्रवृद्धां हन्त्येषा मुखशोषञ्च दारुणम् ॥ १० ॥
क्षतोद्भवां रुग्विनिवारणेन
जयेत् क्षतानामसृजश्च पातैः । ११ ।
क्षयोत्थितां क्षीरजलं निहन्या-
न्मांसोदकं वा मधुरोदकं वा ॥ १२ ॥
आमोद्भवां विल्ववचायुतानां
जयेत् कषायैरथ दीपनानाम् १३ ।
गुव्वन्नजामुल्लिखनैर्ज्जयेच्च
क्षयं विना सर्व्वकृताञ्च तृष्णाम् ॥
उल्लिखनैः लेखनद्रव्यैः ॥ १४ ॥
स्निग्धेऽन्ने भुक्ते या तृष्णा स्यात्तां गुडाम्बुना
शमयेत् ।
अतिरोगदुर्ब्बलानां तृष्णां शमयेन्नृणामिहाशु
पयः ॥
पयोऽत्र दुग्धम् ॥ १५ ॥
मूर्च्छाच्छर्द्दितृषादाहस्त्रीमद्यभृशकर्षिताः ।
पिबेयुः शीतलं तोयं रक्तपित्ते मदात्यये ॥ १६ ॥
सात्म्यान्नपानभैष्यज्यैस्तृष्णां तस्य जयेत् पुनः ।
तस्यां जितायामन्योऽपि व्याधिः शक्यश्चिकित्-
सितुम् ॥ १७ ॥ * ॥
तृष्यन् पूर्ब्बामयक्षीणो न लभेत जल यदि ।
मरणं दीर्घरोगं वा प्राप्नुयात् त्वरितं नरः ॥
तृषितो मोहमायाति मोहात् प्राणान् विमुञ्चति ।
तस्मात् सर्व्वास्ववस्थासु न क्वाचद्बारि वारयेत् ॥
अन्नेनापि विना जन्तुः प्राणान् धारयत चिरम् ।
तोयाभावात् पिपासार्त्तः क्षणात् प्राणैर्व्विमुच्यते ॥
इति तृष्णाधिकारः ॥” इति भावप्रकाशः ॥
(अथास्याः पथ्यापथ्यनियमः ॥ पथ्यानि यथा, --
“शोधनं शमनं निद्रां स्नानं कवलधारणम् ।
जिह्वाधःसिरयोर्द्दाहो दीपदग्धहरिद्रया ॥
कोद्रवाः शालयः पेया विलेपी लाजशक्तवः ।
अन्नमण्डो धन्वरसाः शर्करा वागषाडवौ ॥
भृष्टैर्मुद्गैर्मसूरैर्व्वा चणकैर्वा कृतो रसः ।
रम्भापुष्पं तैलकूर्च्चं द्राक्षापर्पटपल्लवाः ॥
कपित्थं कोलमम्लीका कुष्माण्डकमुपोदिका ।
खर्ज्जरं दाडिमं धात्री कर्कटी नलदाम्बु च ॥
जम्बीरं करमर्द्दञ्च वीजपूरं गवां पयः ।
मधूकपुष्पं ह्रीवेरं तिक्तानि मधुराणि च ॥
बालतालाम्बु शीताम्बु पयः पेटीप्रपानकम् ।
माक्षिकं सरसां तोयं शताह्वा नागकेशरम् ।
एलाजातीफलं पथ्या कुस्तुम्बुरु च टङ्गणम् ।
घनसारो गन्धसारः कौमुदी शिशिरानिलः
चन्दनार्द्रप्रियाश्लेषो रत्नाभरणधारणम् ।
हिमानुलेपनञ्च स्यात् पथ्यमेतत्तृषातुरे ॥”
अपथ्यानि यथा, --
“स्नेहाञ्जनस्वेदनधूमपान-
व्यायामनस्यातपदन्तकाष्ठम् ।
गुर्व्वन्नमम्लं लवणं कषायं
कटु स्त्रियं दुष्टजलानि तीक्ष्णम् ॥
एतानि सर्व्वाणि हिताभिलाषी
तृष्णातुरो नैव भजेत् कदाचित् ॥”
इति वैद्यकपथ्यापथ्यविधिग्रन्थे तृष्णाधिकारे ॥)

तृष्णाक्षयः, पुं, (तृष्णाया विषयलिप्सायाः क्षयो

नाशो यत्र ।) शान्तिः । इति हेमचन्द्रः । २ ।
२१८ ॥ (यथा, शब्दार्थचिन्तामणिधृतवचनम् ।
“यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् ।
तृष्णाक्षयसुखस्यैव कलां नार्हति षोडशीम् ॥”
तृष्णायाः पिपासायाः क्षयः ।) पिपासा-
नाशश्च ॥

तृष्णारिः, पुं, (तृष्णायाः पिपासायाः अरिः

शत्रुः ।) पर्पटः । इति राजनिर्घण्टः ॥

तृह, ध ऊ श हिंसे । इति कविकल्पद्रुमः ॥ (रुधां-

तुदां च-परं-सकं-वेट् ।) सप्तमस्वरी । ध,
तृणेढि । (यथा, भट्टिः ।
“तृणेटु रामः सह लक्षणेन ॥”)
ऊ, अतर्हीत् अतृक्षत । श, तृहति । इति
दुर्गादासः ॥

तॄ, तर । अभिभवे । प्लुत्याम् । इति कविकल्प-

द्रुमः ॥ (भ्वां-परं-सकं-प्लतौ अकं-सेट् ।) तरः ।
प्लवनपूर्ब्बकदेशान्तरगमनम् । प्लुतिर्म्मज्जना-
भावः । तरति नदीं भेलया पान्थः । तरति
सकलदुःखं वामनं भावयद्यः । तरति शुष्क-
काष्ठं जले मज्जति नेत्यर्थः ॥ इति दुर्गादासः ॥

ते, व्य, त्व्या, इति त्रिकाण्डशेषः ॥ (गौरी ।

यथा, सङ्गीतदामोदरः ।
“तेशब्देनोच्यते गौरी नशब्देनोच्यते हरः ।
तन माङ्गलिकश्चाय शब्दस्तेन इति स्मृतः ॥”)

तेजः, [स्] क्ली, (तेजयति तेज्यतेऽनेन वा ।

तिज निशाने + “सर्व्वधातुभ्योऽसुन् ।” उणां ।
४ । १८८ । इति असुन् ।) दीप्तिः । (यथा,
माघे । २ । ६२ ।
“अन्यदुच्छङ्खलं सत्त्वमन्यच्छास्त्रनियान्त्रितम् ।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥”)
प्रभावः । (यथा, महाभारते । ६ । १४ । ४८ ।
“तस्मान्नूनं महावीर्य्याद्भार्गवाद्युद्धदुर्म्मदात् ।
तेजोवीर्य्यबलैर्भूयान् शिखण्डी द्रुपदात्मजः ॥”)
पराक्रमः । (यथा, महाभारते । ३ । २८ । ६ ।
“न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा ।
इति तात ! विजानीहि द्बयमेतदसंशयम् ॥”)
रेतः । इति मेदिनी । से, २५ ॥ (यथा, रघुः ।
“अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः
सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् ॥”
“तत्र स्त्रीपुंसयोः संयोगे तेजः शरीराद्बायु-
रुदीरयति । ततस्तेजोऽनिलसन्निपाताच्छुक्रं च्युतं
योनिमभिप्रतिपद्यते संसृज्यते चार्त्तवेन ।”
“तत्र तेजोधातुः सर्व्ववर्णानां प्रभवः स यदा
गर्भोत्पत्तावब्धातुप्रायो भवति तदा गर्भं गौरं
करोति पृथिवीधातुप्रायः कृष्णं पृथिव्याकाश-
धातुप्रायः कृष्णश्यामं तोयाकाशधातुप्रायो
गौरश्यामम् ॥” इति सुश्रुते शारीरस्थाने
द्वितीयेऽध्याये ॥ सारः । यथा, मुश्रुते । १ । १५ ।
रसादीनां शुक्रान्तानां धातूनां यत् परं तेज-
स्तत् खल्वोजस्तदेव बलमित्युच्यते स्वशास्त्र-
सिद्धान्तात् ॥”
“यत् परं तेजः इति यदुत्कृष्टं सारः ।”
इति तट्टीका ॥
शारीराग्निसम्भूतपदार्थविशेषः । तद्यथा, --
“तेजोऽप्याग्नेयं क्रमशः पच्यमानानां धातूना-
मभिनिर्वृत्तमन्तरस्थं स्नेहजातं वसाख्यं स्त्रीणां
विशेषतो भवात तेन मार्द्दवसौकुमार्य्यमृद्व-
ल्परोमतोत्साहदृष्टिस्थितिपक्तिकान्तिदीप्तयो
भवन्ति तत् कषायतिक्तशीतरूक्षविष्टम्भिवेग-
विघातव्यवायव्यायामव्याधिकर्षणैश्च विक्रियते ॥”
इति च सुश्रुते सूत्रस्थाने पञ्चदशेऽध्याये ॥)
त्विट् । (देहजकान्तिः । यथा, वाजसनेय-
संहितायाम् । १ । ३१ ।
“तेजोऽसि शुक्रमस्यमृतमसि ।
धामनामासि प्रियं देवानामनाधृष्टं देवयजन-
मसि ॥”
“हे आज्य ! त्वं तेजोऽसि शरीरकान्तिहेतु-
त्वात्तेजस्त्वम् ।” इति महीधरः ॥) नवनीतम् ।
अग्निः । इति हेमचन्द्रः । २ । १५ ॥ सुवर्णम् ।
मज्जा । पित्तम् । इति राजनिर्घण्टः ॥ अस-
हनम् । यथा, साहित्यदर्पणे । ३ । ६४ ।
“अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् ।
प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥”
पञ्चमहाभूतान्तर्गतृतीयमहाभूतम् । यथा, --
“तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते ।
अधिभूतं ततो रूपं सूर्य्यस्तत्राधिदैवतम् ॥”
इत्याश्वमेधिकपर्व्व ॥
अस्य धर्म्माः रूपम् १ द्रवत्वम् २ प्रत्यक्ष-
योगित्त्वम् ३ ॥ अस्य गुणाः । स्पर्शः १ संख्या २
परिमाणम् ३ पृथक्त्वम् ४ संयोगः ५ विभागः ६
परत्वम् ७ अपरत्वम् ८ रूपम् ९ द्रवः १०
वगः ११ । अस्य नैमित्तिकद्रवत्वम् । अस्य स्पर्श
उष्णः । रूपं शुक्लभास्वरम् । इदं द्बिधा ।
परमाणुस्वरूपं नित्यम् । सावयवमनित्यम् ।
अनित्यं त्रिधा देहः इन्द्रियं विषयः । इति
भाषापरिच्छेदः ॥ (विष्णुः । यथा, महा-
भारते । १३ । १४९ । ४३ ।
पृष्ठ २/६४७
“ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः ॥”
शिवः । यथा, तत्रैव । १३ । १७ । ५२ ।
“तेजोऽपहारी बलहा मुदितोऽर्थोऽजितोऽवरः ॥”
द्रिसप्ततिसाध्यमौलिककायस्थानामन्यतमः । तत्र
अकारान्तोऽयम् । यथा, कुलदीपिकायाम् ।
“खामः क्षोमो घर वैओषो
वीदस्तेजश्चार्णव आशः ॥”)

तेजःफलः, पुं, (तेजसे बलाय तेजःप्रदं वा फल-

मस्य ।) वृक्षविशेषः । तेजफल इति भाषा ।
तत्पर्य्यायः । बहुफलः २ शाल्मलीफलः ३
स्तवकफलः ४ स्तेयफलः ५ गन्धफलः ६ कण्ट-
वृक्षः ७ । अस्य गुणाः । कटुत्वम् । तीक्ष्ण-
त्वम् । सुगन्धित्वम् । दीपनत्वम् । वातश्लेष्मा-
रुचिनाशित्वम् । बालरक्षाकरत्वञ्च । इति
राजनिर्घण्टः ॥

तेजनः, पुं, (तेजयति अग्निमिति । तिज + णिच्

+ ल्युः ।) वंशः । इत्यमरः । २ । ४ । १६१ ॥
मुञ्जः । भद्रमुञ्जः । इति राजनिर्घण्टः ॥
(बाणादीनां फलके । यथा, मनुः । ७ । ९० ।
“न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥”
उद्दीपने, क्ली । यथा, सुश्रुते चिकित्सा-
स्थाने । २४ अध्याये ।
“सिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ॥”)

तेजनकः, पुं, (तेजयतीति । तिज + णिच् + ल्युः

संज्ञायां कन् । यद्बा, तेजनेन फलकेन काय-
तीति । कै + कः ।) शरः । इत्यमरः । २ । ४ । १६२ ॥

तेजनी, स्त्री, (तेजयतीति । तिज + णिच् + ल्युः ।

गौरादित्वात् ङीष् ।) मूर्व्वा । इत्यमरः ।
२ । ४ । ८३ ॥ (अस्याः पर्य्याया यथा, --
“तेजनी पिलुनी देवा तिक्तवल्ली पृथक्त्वचा ।
धनुः श्रेणी मधुरसा मूर्व्वा निर्द्दहनीति च ॥”
इति वैद्यकरत्नमालायाम् ।
पर्य्यायान्तरं यथा, --
“मूर्व्वा मधुरसा देवी मोरटा तेजनी स्रुवा ।
मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ॥”
इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥)
ज्योतिष्मती । इति शब्दरत्नावली ॥ (तेजवती ।
अस्या पर्य्यायाः यथा, --
“तेजस्विनी तेजवती तेजोह्वा तेजनी तथा ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

तेजपत्रं, क्ली, (तेजयतीति । तिज + णिच् + अच् ।

तेजं पत्रमस्य ।) स्वनामख्यातवृक्षः । तज इति
तेजपात इति च भाषा । तत्पर्य्यायः । गन्ध-
जातम् २ पत्रम् ३ पत्रकम् ४ । इति शब्दरत्ना-
वली । अस्य गुणाः । कफवाय्वार्शोहृल्लासारुचि-
नाशत्वम् । इति राजवल्लभः ॥ अमरोक्त-
पर्य्यायास्त्वक्पत्रशब्दे द्रष्टव्याः ॥ तस्य नाम-
गुणाः ।
“त्वक्पत्रञ्च वराङ्गं स्याद्भृङ्गं चोचं तथोत्कटम् ।
त्वचं लघूष्णं कटुक स्वादु तिक्तञ्च रूक्षकम् ॥
पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम् ।
हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृत् ॥”
इति भावप्रकाशः ॥

तेजलः, पुं, (तेजति अतिशयेन पालयति शावका-

निति । तेज पालने + बाहुलकात् कलच् ।)
कपिञ्जलपक्षी । इति राजनिर्घण्टः ॥

तेजस्करं, त्रि, (तेजः करोतीति । तजस् + कृ +

टः ।) तेजोवृद्धिकारकद्रव्यम् । इति वैद्यकम् ॥

तेजस्विनी, स्त्री, (तेजो विद्यतेऽस्याः । तजस् +

विनिः स्त्रियां ङीप् ।) ज्योतिष्मती । इति शब्द-
रत्नावली ॥ महाज्योतिष्मती । इति राज-
निर्घण्टः ॥ (तेजवल्कल इति च । तत्पर्य्याया
यथा, --
“तेजस्विनी तेजवती तेजोह्वा तेजनी तथा ॥”
अस्या गुणा यथा, --
“तेजस्विनी कफश्वासकाशास्यामयवातहृत् ।
पाचन्युष्णा कटुस्तिक्ता रुचिवह्निप्रदीपनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

तेजस्वी, [न्] त्रि, (तेजोऽस्त्यस्येति । विनिः ।)

तेजोयुक्तः । यथा, --
“महातपस्वी तेजस्वी ब्रह्मचारी च सुव्रती ।
युष्मद्बिधोक्तं शास्त्रञ्च पठित्वान्यश्च पण्डितः ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥
(इन्द्रस्य पुत्त्रविशेषः । यथा, महाभारते ।
१ । १९८ । २९ ।
“शान्तिश्चतुर्थस्तेषां वैतेजस्वी पञ्चमः स्मृतः ॥”)

तेजितः, त्रि, (तिज + क्तः ।) तीक्ष्णीकृतः ।

शाणान इति भाषा । तत्पर्य्यायः । निशितः २
क्षुतः ३ शाणितः ४ । इत्यमरः । ३ । १ । ९१ ॥
शान्तः ५ शाणादिमार्ज्जितः ६ । इति शब्द-
रत्नावली ॥ क्ष्णुतः ७ निशातः ८ शितः ९
शातः १० । इति जटाधरः ॥

तेजीयान्, [स्] त्रि, (तेजो विद्यतेऽस्य । तेजस् +

ईयसुन् ।) तेजोयुक्तः । यथा, --
“अज्ञानी पुरुषः शश्वज्जडितश्च स्वकर्म्मणा ।
तेजीयसां न दोषाय वह्नेः सर्व्वभुजो यथा ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

तेजोमन्यः, पुं, (तेजो मथ्नातीति । मन्थ + कर्म्म-

ण्यण् ।) गणिकारिका । इति रत्नमाला ॥

तेजोरूपं, क्ली, (तेजः सर्व्वप्रकाशकं चैतन्यं रूपं

यस्य ।) ब्रह्म । यथा, --
“अशरीरं विग्रहवदिन्द्रियवदतीन्द्रियम् ।
यदसाक्षि सर्व्वसाक्षि तेजोरूपं नमाम्यहम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥

तेजोवती, स्त्री, (तेजोऽस्त्यस्या इति । तेजस् +

मतुप् मस्य वः ।) गजपिप्पली । इति शब्द-
रत्नावली ॥ चविका । इति रत्नमाला ॥ महा-
ज्योतिष्मती । इति राजनिर्घण्टः ॥ तेजल इति
तेजवल्कल इति च भाषा । तस्याः पर्य्यायगुणाः ।
“तेजस्विनी तेजवती तेजोह्वा तेजनी तथा ।
तेजस्विनी कफश्वासकासास्यामयवातहृत् ॥
पाचन्युष्णा कटुस्तिक्ता रुचिवह्निप्रदीपनी ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
(अग्नेर्विमानम् । यथा, ब्रह्माण्डे ३८ अध्याये ।
“महाविमानं प्रथितं भास्करं जातवेदसः ।
सा हि तेजोवती नाम हुताशस्य महासमा ॥”)

तेजोवृक्षः, पुं, (तेजोयुक्तो वृक्षः । अग्न्युत्पादकत्वा-

दस्य तथात्वम् ।) क्षुद्राग्निमन्थः । इति राज-
निर्घण्टः ॥

तेन, व्य, तद्धेतुना । इत्यमरटीकायां भरतः ॥ सेइ

निमित्ते इति भाषा ॥

तेनः, पुं, (ते गौरी न शिवो यत्र ।) गानाङ्ग-

विशेषः । यथा, सङ्गीतदामोदरे ।
“तेनेति शब्दस्तेनः स्यात् मङ्गलानां प्रदर्शकः ।
ते शब्देनोच्यते गौरी नशब्देनोच्यते हरः ॥
तेन माङ्गालकश्चायं शब्दस्तेन इति स्मृतः ॥”

तेप, ऋ ङ कम्पे । च्युतौ । इति कविकल्पद्रुमः ॥

(भ्वां-आत्मं-अकं-सेट् ।) ऋ, अतितेपत् । ङ,
तेपते वृक्षः । तितेपे । इति दुर्गादासः ॥

तेमः, पुं, (तिम आर्द्रीभावे + भावे घञ् ।) आर्द्री-

भावः । इत्यमरः । ३ । २ । २९ ॥

तेमनं, क्ली, (तिम + भावे ल्युट् ।) आर्द्रीकरणम् ।

व्यञ्जनम् । इति मेदिनी । ने, ७२ ॥

तेमनी, स्त्री, (तिम्यतेऽनेनेति । तिम + ल्युट् + ङीप् ।)

चुल्लीभेदः । इति हेमचन्द्रः ॥

तेव, ऋ ङ देवने । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-अकं-सेट् ।) देवनमिह क्रीडा । ऋ,
अतितेवत् । ङ, तेवते । तेवते बालः कन्दूकै-
र्नित्यमिति हलायुधः । देवनमिह रोदनमिति
भट्टमल्लः । इति दुर्गादासः ॥

तेवनं, क्ली, (तेव्यते दीव्यतेऽस्मिन्निति । तेव क्रीडा-

याम् + अधिकरणे ल्युट् ।) केलिकाननम् ।
(भावे ल्युट् ।) क्रीडा । इति मेनिनी । ने, ७१ ॥
(यथा, शब्दार्थचिन्तामणिधृतरामायणबचनम् ।
“तेवनेन वनं गत्वा नदीस्तीर्त्त्वा बहूदकाः ॥”)

तैक्ष्ण्यं, क्ली, (तीक्ष्णस्य भावः । तीक्ष्ण + ष्यञ् ।)

तीक्ष्णता । इति व्याकरणम् ॥ (यथा, सुश्रुते ।
१ । ५ ।
“शौर्य्यमाशुक्रियाशास्त्रतैक्ष्ण्यमस्वेदवेपथू ॥”
कठोरता । यथा, रामायणे । २ । २१ । ४४ ।
“तदेतां विसृजानार्य्यां क्षत्त्रघर्म्माश्रितां मतिम् ।
धर्म्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥”
क्रूरता । यथा, मनुः । ४ । १६३ ।
“द्वेषं दम्भञ्च मानञ्च क्रोधं तैक्ष्ण्यञ्च वर्जयेत् ॥”
“मात्सर्य्यं धर्म्मानुत्साहामिमानकोपक्रौर्य्याणि-
त्यजेत् ।” इति तट्टीकायां कुल्लूकभट्टः ॥)

तैजसं, क्ली, (तेजसो विकारः । तेजस् + “तस्य

विकारः ।” ४ । ३ । १३४ । इत्यण् ।) घृतम् ।
इति स्मृतिः ॥ धातुद्रव्यम् । इत्यमरः । २ । ९ । ९९ ॥
(यथा, मनुः । ५ । १११ ।
“तैजसानां मणीनाञ्च सर्व्वस्याश्ममयस्य च ॥”
तीर्थविशेषः । यथा, महाभारते । ९ । ४६ । १०३ ।
“तैजसं नाम तत्तीर्थं यत्र पूर्ब्बमपाम्पतिः ।
पृष्ठ २/६४८
अभिषिक्तः सुरगणैर्व्वरुणो भरतर्षभ ! ॥”
तेजःसम्बन्धिनि, त्रि । यथा, रघुः । ११ । ४३ ।
“तैजसस्य धनुषः प्रवृत्तये
तोयदानिव सहस्रलोचनः ॥”)

तैजसः, पुं, (तेजसो विकारः । तेजस् + अण् ।)

सूक्ष्मशरीरव्यष्ट्युपहितचैतन्यम् । यथा, --
“एतद्व्यष्ट्युपहितं चैतन्यं तैजसो भवति तेजो-
मयान्तःकरणोपहितत्वात् ॥” इति वेदान्त-
सारः ॥ (तैजसाहङ्कारविशेषः । यथा, भाग-
वते । २ । ५ । २४ ।
“सोऽहङ्कार इति प्रोक्तो विकुर्व्वन् समभूत्त्रिधा ।
वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ॥”
घोटकविशेषः । तल्लक्षणादिकं यथा, भोज-
राजकृतयुक्तिकल्पतरौ ।
“ये क्रोधशीला भृशवेगयुक्ता
मुक्ता दिनात् क्रोशशतं व्रजन्ति ।
ते तैजसाः पुण्यवतां प्रदेशे
भवन्ति पुण्यैरपि ते मिलन्ति ॥”
सुमतिपुत्त्रः । यथा, ब्रह्माण्डे ३६ अध्याये ।
“तैजसस्तत्सुतश्चापि प्रजापतिरमित्रजित् ॥”)

तैजसावर्त्तनी, स्त्री, (आवर्त्ततेऽत्र । आ + वृत् +

ल्युट् स्त्रियां ङीप् । तैजसानां धातुद्रव्यानां
सुवर्णादीनां आवर्त्तनी ।) मूषा । इत्यमरः ।
२ । १० । ३३ ॥ तैजसगलानं मूची इति भाषा ॥

तैतिलं, क्ली, ववाद्येकादशकरणान्तर्गतचतुर्थकर-

णम् । तत्र जातफलं यथा, --
“कलासु दक्षो ललनाभिलाषी
सुमूर्त्तिसन्तर्जितकामदेवः ।
वक्ता गुणज्ञः कुशलः सुशील-
श्चेत्तैतिलाख्यं करणं प्रसूतौ ॥”
इति कोष्ठीप्रदीपः ॥

तैतिलः, पुं, गण्डकः । इति मेदिनी । ने, ९९ ॥

तैत्तिरं, क्ली, (तित्तिरीणां पक्षिणां समूहः ।

तित्तिरि + “अनुदात्तादेरञ् ।” ४ । २ । ४४ ।
इति अञ् ।) तित्तिरिगणः । इत्यमरः । २ ।
६ । ४३ ॥ (यथा, गोः रामायणे । २ । १०० । ६३ ।
“वाप्यो मैरेयपूर्णाश्च भृष्टमांसचयैर्वृताः ।
प्रतप्तैः पैटरैश्चैव मार्गमायूरतैत्तिरैः ॥”)

तैत्तिरः, पुं, (तित्तिर एव । खार्थे अण् ।)

तित्तिरिपक्षी । इति राजनिर्घण्टः ॥ (गर्भिणी
एतन्मांसाशनाद्यादृशं सुतं जनयेत् तद्यथा,
“नित्यभीतञ्च तैत्तिरात् ॥”
इति सुश्रुते शारीरस्थाने तृतीयाध्याये ॥)

तैत्तिरीयकः, पुं, (तैत्तिरं तित्तिरिप्रोक्तयजुर्व्वेदीय-

शाखामधीते वेत्ति वा । छण् । ततः स्वार्थे
कन् ।) तैत्तिरीयी । यजुर्व्वेदीयशाखाविशेष-
वेत्ता ॥ (उपनिषद्बिशेषे, की । तत्तु कृष्णयजु-
र्व्वेदान्तर्गतम् । इति मुक्तिकोपनिषत् ॥)

तैत्तिरीया, स्त्री, (तित्तिरिणा प्रोक्ता । छण् ।)

यजुर्व्वेदस्य शाखाविशेषः । यथा, --
“देवरातसुतः सोऽपि छर्द्दित्वा यजुषां गणम् ।
ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान् ॥
यजूंषि तित्तिरा भूत्वा तल्लोलुपतया ददुः ।
तैत्तिरीया इति यजुःशाखा आसन् सुपेशलाः ॥”
इति श्रीभागवतम् ॥

तैरणी, स्त्री, (तीरे नमतीति । नम + डः । ततः

स्वार्थे अण् । स्त्रियां गौरादित्वात् ङीष् ।)
क्षुपविशेषः । तत्पर्य्यायः । तैरणः २ तैरः ३
कुनीली ४ रागदः ५ । अस्य गुणाः । शिशिर-
रत्वम् । तिक्तत्वम् । व्रणनाशित्वम् । अरुण-
रङ्गदत्वञ्च । इति राजनिर्घण्टः ॥

तैलं, क्ली, (तैलं तैलवत् स्नेहोऽस्त्यस्येति । अच् ।)

सिह्लकः । इति रत्नमाला ॥ (तिलस्य तत्-
सदृशस्य वा विकारः । तिल + “तस्य विकारः ।”
४ । ३ । १३४ । इत्यण् ।) तिलादिजातस्नेहः ।
यथा, भावप्रकाशे ।
“तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम् ॥”
तत्पर्य्यायः । म्रक्षणम् २ स्नेहः ३ अभ्य-
ञ्जनम् ४ । इति हेमचन्द्रः । ३ । ८१ ॥ अस्य
गुणाः । कषायत्वम् । मधुरत्वम् । त्वच्यत्वम् ।
उष्णत्वम् । व्यवायित्वम् । पित्तकारित्वम् । वद्ध-
विन्मूत्रत्वम् । श्लेष्मावर्द्धकत्वम् । सर्व्ववात-
विकारनाशित्वम् । मेधाग्निबलवर्द्धनत्वञ्च ।
“नास्ति तैलात् परं किञ्चित् भेषजं मारुता-
पहम् ॥”
इति राजनिर्घण्टः ॥
पक्वपुरातनतैलस्य गुणः । महद्गुणत्वम् ।
किञ्चिद्गन्धहीनत्वञ्च । द्रव्यसंयोगे संस्कृततैलस्य
सर्व्वरोगनाशित्वम् ॥ अवगाहने युक्ततैलस्य
गुणः । शरीरबलकारित्वम् । शिंरामुखरोम-
कूपधमनीनाडीद्वारा तृप्तिकारित्वञ्च । नित्यं
मस्तके अधिकतैलदानगुणाः । शिरःशूल-
खालित्यपालित्यनाशित्वम् । केशमूलस्य दृढता-
कारित्वम् । केशस्यापतनघनताकृष्णतादीर्घता-
कारित्वम् । इन्द्रियप्रसन्नताग्निशुद्धिकारित्वञ्च ॥
नित्यं कर्णे तैलपूरणस्य गुणाः । मन्याहनु-
संग्रहोच्चैःश्रुतिवाधिर्य्यकर्णवातजरोगाजनक-
त्वम् ॥ मर्द्दने तैलस्य गुणः । घृतादष्टगुणगुरु-
त्वम् । इति राजवल्लभादिः ॥ * ॥
“प्रातःस्नाने व्रते श्राद्धे द्वादश्यां ग्रहणे तथा ।
मद्यलेपसमं तैलं तस्मात्तैलं विवर्जयेत् ॥”
इति कर्म्मलोचनम् ॥
“घृतञ्च सार्षपं तैलं यत्तैलं पुष्पवासितम् ।
अदुष्टं पक्वतैलञ्च तैलाभ्यङ्गे च नित्यशः ॥”
इति तिथ्यादितत्त्वम् ॥ * ॥
वारविशेषे तैलग्रहणफलं यथा, --
रवौ हृद्रोगः सोमे कीर्त्तिलाभः कुजे मृत्युः बुधे
पुत्त्राप्तिः गुरौ अर्थहानिः शुक्रे शोकः शनौ
दीर्घायुः ॥ * ॥
अथ निषिद्धदिने तैलग्रहणदोषशान्त्यर्थदेय-
द्रव्यनियमः । रवौ पुष्पं गुरौ दूर्व्वा कुजे भूमिः
शुक्रे गोमयम् । अस्य प्रमाणं यथा, --
“अर्के नूनं दहति हृदयं कीर्त्तिलाभश्च सोमे
भौमे मृत्युर्भवति नियतं चन्द्रजे पुत्त्रलाभः ।
अर्थग्लानिर्भवति च गुरौ भार्गवे शोकयुक्त-
स्तैलाभ्यङ्गात्तनयमरणं सूर्य्यजे दीर्घमायुः ॥”
इति ज्योतिःसारसंग्रहः ॥
वारादिविशेषे तदभ्यङ्गे गुणदोषौ यथा, --
“सन्तापः कीर्त्तिरल्पायुर्धनं निधनमेव च ।
आरोग्यं सर्व्वकामाप्तिरभ्यङ्गाद्भास्करादिषु ॥
उपोषितस्य व्रतिनः कृत्तकेशस्य नापितैः ।
तावत् श्रीस्तिष्ठति प्रीता यावत्तैलं न संस्पृशेत् ॥”
इति गारुडे ११४ अध्यायः ॥ * ॥
अथ तैलवर्गः । तत्र तैलस्य स्वरूपनिरूपणम् ।
“तिलादिस्निग्धवस्तूनां स्नेहस्तैलमुदाहृतम् ।
तत्तु वातहरं सर्व्वं विशेषात्तिलसम्भवम् ॥” * ॥
अथ तिलतैलगुणाः ।
“तिलतैलं गुरु स्थैर्य्यं बलवर्णकरं परम् ।
वृष्यं विकाशि विशदं मधुरं रसपाकयोः ॥
सूक्ष्मं कषायानुरसं तिक्तं वातकफापहम् ।
वीर्य्येणोष्णं हिमं स्पर्शे बृंहणं रक्तपित्तहृत् ॥
लेखनं बद्धविम्मूत्रत्वगामाशयशोधनम् ।
दीपनं बुद्धिदं मेध्यं व्यवायि व्रणमेहनुत् ॥
श्रोत्रयोनिशिरःशूलनाशनं लघुताकरम् ।
त्वच्यं केश्यञ्च चक्षुष्यमभ्यङ्गे भोजनेऽन्यथा ॥
छिन्नभिन्नच्युतोत्पिष्टमथितक्षतपिच्चिते ।
भग्नस्फुटितविद्धाग्निदग्धाविश्लिष्टदारिते ॥
तथाभिहतनिर्भुग्नमृगव्याघ्रादिविक्षते ।
वस्तौ पानेऽन्नसंस्कारे नस्ये कर्णाक्षिपूरणे ॥
सेकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते ॥” * ॥
ननु बृंहणलेखनयोः कथं सामानाधिकरण्य-
मित्याह ।
“रूक्षादिदुष्टपवनः स्रोतः सङ्कोचयेद्यदा ।
रसेऽसम्यग्वहन् कार्श्यं कुर्य्याद्रक्ताद्यवर्द्धनम् ॥
तेषु प्रवेष्टुं सरता सौक्ष्म्यस्निग्धत्वमार्द्दवैः ।
तैलं क्षमं रसं नेतुं कृशानां तेन बृंहणम् ॥
व्यवायसूक्ष्मतीक्ष्णोष्णसरत्वैर्म्मेदसः क्षयः ।
शनैः प्रकुरुते तैलं तेन लेखनमीरितम् ॥
द्रुतं पुरीषं बध्नाति स्खलितं तत् प्रवर्त्तयेत् ।
ग्राहकं सारकं वापि तेन तैलमुदीरितम् ॥
घृतमब्दात् परं पक्वं हीनवीर्य्यं प्रजायते ।
तैलं पक्वमपक्वं वा चिरस्थायि गुणाधिकम् ॥” *
अथ सरिषबराइतैलगुणाः ।
“दीपनं सार्षपं तैलं कटुपाकरसं लघु ।
लेखनं स्पर्शवीर्य्योष्णं तीक्ष्णं पित्तास्रदूषकम् ।
कफमेदोऽनिलार्शोघ्नं शिरःकर्णामयापहम् ।
कण्डूकोठकृमिश्वित्रकुष्ठदुष्टव्रणप्रणुत् ॥
तद्वद्राजिकयोस्तैलं विशेषाम्मूत्रकृच्छ्रकृत् ।
राजिकयोः कृष्णराइ आरक्तराइ द्बयोः ॥ * ॥
अथ तोरीतैलगुणाः ।
तीक्ष्णोष्णं तुवरीतैलं लघु ग्राहि कफास्रजित् ।
वह्निकृद्बिषहृत् कण्डूकुष्ठकोठकृमिप्रणुत् ॥
मेदोदोषापहञ्चापि व्रणशोथहरं परम् ॥ * ॥
अथ तिसीतैलगुणाः ।
“अतसीतैलमाग्नेयं स्निग्धोष्णं कफपित्तकृत् ।
कटुपाकमचक्षुष्यं बल्यं वातहरं गुरु ॥
पृष्ठ २/६४९
मलकृद्रसतः स्वादु ग्राहि त्वग्दोषहृत् व्रणम् ।
वस्तौ पाने तथाभ्यङ्गे नस्ये कर्णस्य पूरणे ॥
अनुपानविधौ चापि प्रयोज्यं वातशान्तये ॥ * ॥
अथ वररैतैलगुणाः ।
कुसुम्भतैलमम्लं स्यादुष्णं गुरु विदाहि च ।
चक्षुर्भ्यामहितं बल्यं रक्तपित्तकफप्रदम् ॥ * ॥
अथ खाखसवीजतैलगुणाः ।
तैलं खाखसवीजानां बल्यं वृष्यं गुरु स्मृतम् ।
वातहृत् कफकृच्छीतं स्वादुपाकरसञ्च तत् ॥ * ॥
अथ एरण्डतैलगुणाः ।
एरण्डतैलं तीक्ष्णोष्णं दीपनं पिच्छिलं गुरु ।
वृष्यं त्वच्यं वयःस्थायि मेधाकान्तिबलप्रदम् ॥
कषायानुरसं सूक्ष्मं योनिशुक्रविशोधनम् ।
विस्रं स्वादु रसे पाके सतिक्तं कटुकं सरम् ॥
विषमज्वरहृद्रोगपृष्ठगुह्यादिशूलहृत् ।
हन्ति वातोदरानाहगुल्माष्ठीलाकटीग्रहान् ॥
वातशोणितविड्बन्धव्रध्नशोथामविद्रधीन् ।
आमवातगजेन्द्रस्य शरीरवनचारिणः ।
एक एव निहन्तायमेरण्डस्नेहकेशरी ॥ * ॥
अथ रालतैलगुणाः ।
तैलं सर्ज्जरसोद्भूतं विस्फोटव्रणनाशनम् ।
कुष्ठपामाकृमिहरं वातश्लेष्मामयापहम् ॥ * ॥
अथ सर्व्वतैलगुणाः ।
तैलं स्वयोनिगुणकृद्वाग्भटेनाखिलं मतम् ।
अतः शेषस्य तैलस्य गुणा ज्ञेयाः स्वयोनिवत् ॥
इति भावप्रकाशे तैलवर्गः ॥ * ॥
अथ पुराणतैलगुणाः ।
“यामं कल्ककषायवीर्य्यमखिलं चूर्णञ्च पक्षत्रयं
षण्मासान् घृतमोदकौ सहगुडौ मासत्रयं
गुग्गुलोः ।
सिद्धानां रसभस्मनां सुविपुलं वीर्य्यन्तु वर्षत्रयं
किञ्चिद्गन्धविवर्ज्जितं गुणपरं तैलं पुराणं
महत् ॥”
इति नारायणदासकृतपरिभाषा ॥

तैलकं, क्ली, (स्वल्पं तैलम् । अल्पार्थे कन् ।)

अल्पपरिमाणतैलम् । इति व्याकरणम् ॥

तैलकन्दः, पुं, (तैलप्रधानः कन्दः ।) कन्दविशेषः ।

तत्पर्य्यायः । द्रावककन्दः २ तिलाङ्कितदलः ३
करवीरकन्दसंज्ञः ४ तिलचित्रपत्रकः ५ । अस्य
गुणाः । लोहद्रावित्वम् । कटुत्वम् । उष्णत्वम् ।
वातापस्मारविषशोफनाशित्वम् । रसस्य बन्ध-
कारित्वम् । स्नेहसिद्धिकारित्वञ्च । इति राज-
निर्घण्टः ॥

तैलकारः, पुं, (तैलं करोतीति । कृ + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इत्यण् ।) वर्णसङ्कर-
जातिविशेषः । कलु इति भाषा । स कोटक-
स्त्रीगर्भे कुम्भकाराज्जातः । इति ब्रह्मवैवर्त्ते
ब्रह्मखण्डम् ॥ तत्पर्य्यायः । धूसरः २ चाक्रिकः
३ तैली ४ । इति हेमचन्द्रः ॥ (यथा, आर्य्या-
सप्तशत्याम् । ५९२ ।
“स्नेहमयान् पीडयतः किं चक्रेणापि तैल-
कारस्य ।
चालयति पार्थिवानपि यः स कुलालः परं
चक्री ॥”
यात्राकालेऽस्य दर्शनममङ्गलसूचकम् । यथा,
ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्याये ।
“ददर्शामङ्गलं राजा पुरो वर्त्तनि वर्त्तनि ॥”
“कुम्भकारं तैलकारं व्याधं सर्पोपजीविनम् ॥”)

तैलकिट्टं, क्ली, (तैलस्य किट्टं मलम् ।) तैल-

मलम् । खलि इति ख्यातम् । तत्पर्य्यायः ।
पिण्याकः २ खलिः ३ तैलकल्कजः ४ । अस्य
गुणाः । कटुत्वम् । गौल्यत्वम् । कफवात-
प्रमेहनाशित्वञ्च । इति राजनिर्घण्टः ॥

तैलङ्गः, पुं, देशविशेषः । इति शब्दरत्नावली ॥

(यथा, शब्दार्थचिन्तामणिधृतवचनम् ।
“श्रीशैलन्तु समारभ्य चोलेशान्मध्यभागतः ।
तैलङ्गदेशो देवेशि ! ध्यानाध्ययनतत्परः ॥”)

तैलचौरिका, स्त्री, (तैलस्य चौरिकेव । चौर-

वत् तैलपानादस्यास्तथात्वम् ।) तैलपायिका ।
इति शब्दरत्नावली ॥

तैलद्रोणी, स्त्री, (तैलपूर्णा द्रोणी ।) कण्ठपर्य्यन्त-

मज्जनार्थतैलपूर्णकाष्ठादिनिर्म्मितपात्रविशेषः ।
तत्रावस्थितिगुणाः । वातरोगव्याकुण्ठरोगपङ्गु-
वाधिर्य्यमिन्मिनगद्गदधन्वङ्गस्तब्धपृष्ठप्रचलित-
पवनगात्रकम्पकपाटीग्रीवाभङ्गापतन्त्रक्षयरुधिर-
भवमूत्रकृच्छ्रवस्तिरोगेषु शस्तत्वम् । इति राज-
वल्लभः ॥

तैलपर्णकं, क्ली, (तैलं तैलयुक्तमिव पर्णमस्य ।

कप् ।) ग्रन्थिपर्णवृक्षः । इति भावप्रकाशः ॥

तैलपर्णिकं, क्ली, (तैलयुक्तं पर्णमस्त्यस्य । यद्बा,

तिलपर्णो वृक्ष उत्पत्तिस्थानत्वेनास्त्यस्येति ।
ठन् ।) हरिचन्दनम् । इत्यमरः । २ । ६ । १३१ ॥
चन्दनविशेषः । तत्तु तिलपर्णवृक्षजातं धवलं
सुशीतलम् । इति भरतः ॥ (अस्य पर्य्याय यथा,
“श्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलपर्णिकः ।
गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
वृक्षविशेषे, पुं । यथा, हरिवंशे । २२३ । ६८ ।
“कदम्बाश्चैव भव्याश्च दाडिमा वीजपूरकाः ।
कालीयका दुकूलाश्च हिङ्गवस्तैलपर्णिकाः ॥”)

तैलपर्णी, स्त्री, (तिलपर्णे वृक्षे जातः । “तत्र

जातः ।” ४ । ३ । २५ । इत्यण् ततो ङीप् ।)
चन्दनम् । श्रीवासः । (पर्य्यायोऽस्या यथा, --
“तैलपर्णी दधित्थाख्यः पिण्याको रक्तशीर्षकः ।
वेष्टो रसाह्वः श्रीवासः श्रीपिष्टसरलद्रवौ ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
सिह्लकः । इति मेदिनी । णे, ९६ ॥

तैलपा, स्त्री, (तैलं पिबतीति । पा पाने + “आतो

ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।) तैल-
पायिका । इति राजनिर्घण्टः ॥

तैलपायिका, स्त्री, (तैलं पिबतीति । पा + ण्वुल् ।

टापि अत इत्वम् ।) कीटविशेषः । तेलापोका
इति आरशुला इति च भाषा । तत्पर्य्यायः ।
पयोष्णी २ । इत्यमरः । २ । ५ । २६ ॥ तैल-
चौरिका ३ । इति शब्दरत्नावली ॥ तैलपा ४ ।
इति राजनिर्घण्टः ॥ तैलाम्बुका ५ खला-
धारा ६ । इति जटाधरः ॥ (यथा, महा-
भारते । १३ । १०४ । १११ ।
“गृहे पारावता धन्याः शुकाश्च सहसारिकाः ।
गृहेष्वेते न पापाय तथा वै तैलपायिकाः ॥”)

तैलपिपीलिका, स्त्री, (तैलप्रिया पिपीलिका ।)

पिपीलिकाभेदः । तत्पर्य्यायः । उदद्या २
कपिजाङ्घिका ३ । इति राजनिर्घण्टः ॥

तैलफलः, पुं, (तैलप्रधानं फलं यस्य ।) इङ्गुदी ।

विभीतकः । इति राजनिर्घण्टः ॥

तैलभाविनी, स्त्री, (तैलं भावयति संद्गन्धं करो-

तीति । भू + णिच् + णिनि + ङीप् ।) जाती-
पुष्पवृक्षः । इति राजनिर्घण्टः ॥

तैलमाली, स्त्री, (तैलानां माला समूहो यत्र । ततो

गौरादित्वात् ङीष् ।) वर्त्तिः । इति शब्दमाला ॥

तैलम्पाता, स्त्री, (तिलपातोऽस्यां वर्त्तते । “घञः

सास्याङ्क्रियेति ञः ।” ४ । २ । ५८ । इति
ञः । “श्येनतिलस्य पाते ञे ।” ६ । ३ । ७१ ।
इति मुम् ।) स्वधा । तिलपातोऽस्यां स्वधायां
सा । इति लिङ्गादिसंग्रहे अमरभरतौ ॥

तैलसाधनं, क्ली, (तैलं साधयति निष्पादयति

सुगन्धीकरोतीति । साध + णिच् + ल्युः ।) गन्ध-
द्रव्यविशेषः । काकला इति भाषा । तत्-
पर्य्यायः । काकोलम् २ कोलकम् ३ गन्ध-
व्याकुलम् ४ कक्कोलकम् ५ कोषफलम् ६ ।
इति शब्दचन्द्रिका ॥

तैलस्फटिकः, पुं, (तैलाक्तः स्फटिक इव । स्वच्छ-

त्वात् तथात्वम् ।) तृणमणिः । इति हेम-
चन्द्रः । ४ । १३४ ॥

तैलागुरु, क्ली, (तैलाक्तमिव अगुरु ।) दाहा-

गुरु । इति राजनिर्घण्टः ॥

तैलाटी, स्त्री, (तैलेन तैलप्रदानेन अटति दूरी-

भवतीति । अट गतौ + अच् + गौरादित्वात्
ङीष् ।) वरटा । इति हेमचन्द्रः । ४ । २८१ ॥

तैलाम्बुका, स्त्री, (तैलं अम्बु जलमिव पेयं यस्याः ।

कप् । टाप् च ।) तैलपायिका । इति जटाधरः ॥

तैलिकः, पुं, (तैलं पण्यत्वेनास्त्यस्य । तैल + ठन् ।)

तैलकारः । इति व्याकरणम् ॥ (अस्य अपाङ्-
क्तेयत्वमुक्तम् । यथा, मनुः । ३ । १५८ ।
“समुद्रयायी वन्दी च तैलिकः कूटकारकः ॥”)

तैलिनी, स्त्री, (तैलं भक्ष्यत्वेन आश्रयत्वेन बा

अस्त्यस्येति । तैल + इनि + ङीप् ।) कीटभेदः
तत्पर्य्यायः । तैलकीटः २ षड्विन्ध्या ३ दर्द्रु-
नाशिनी ४ । इति राजनिर्घण्टः ॥ दशावर्त्तिः ।
इति शब्दमाला ॥

तैलिशाला, स्त्री, (तैलिनस्तिलसम्बन्धिनस्तैलकारस्य

वा शाला गृहम् ।) यन्त्रगृहम् । इति हेम-
चन्द्रः । ४ । ६३ ॥ घाणिघर इति भाषा ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/तुज&oldid=43969" इत्यस्माद् प्रतिप्राप्तम्