शब्दकल्पद्रुमः/त

विकिस्रोतः तः
पृष्ठ २/५७७

, तकारः । स व्यञ्जनषोडशवर्णः । तवर्गप्रथम-

वर्णश्च । (अर्धमात्राकालेनोच्चार्य्यः ।) अस्यो-
च्चारणस्थानं दन्तः । इति व्याकरणम् ॥ (अस्यो-
च्चारणे दन्तमूलेन जिह्वाग्रस्य स्पर्शः आभ्य-
न्तरप्रयत्नः । विवारश्वासघोषाः बाह्यप्रयत्नाः ।
मातृकान्यासेऽस्य वामस्फिचि न्यासक्रिया
स्यात् । वङ्गीयवर्णमालायां) तस्य लेखनप्रकारो
यथा, --
“आदौ बिन्दुस्ततो मध्ये कुण्डलीत्वमवाप्य सा ।
दक्षाद्बामगता नित्या ब्रह्मविष्ण्वीशरूपिणी ॥
ध्यानमस्य प्रवक्ष्यामि शृणुष्व कमलानने ! ।
चतुर्भुजां महाशान्तां महामोक्षप्रदायिनीम् ॥
सदा षोडशवर्षीयां रक्ताम्बरधरां पराम् ।
नानालङ्कारभूषां वा सर्व्वसिद्धिप्रदायिनीम् ॥
एवं ध्यात्वा तकारन्तु तन्मन्त्रं दशधा जपेत् ॥”
इति वर्णोद्धारतन्त्रम् ॥ * ॥
अस्य स्वरूपं यथा, कामधेनुतन्त्रे ।
“तकारं चञ्चलापाङ्गि ! स्वयं परमकुण्डली ।
पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा ॥
त्रिशक्तिसहितं वर्णं आत्मादितत्त्वसंयुतम् ।
त्रिबिन्दुसहितं वर्णं पीतविद्युत्समप्रभम् ॥”
तस्य ३२ द्बात्रिंशन्नामानि यथा, --
“तः पूतना हरिः शुद्धिः शक्ती शक्तिर्जटी ध्वजा ।
वामस्फिक्वामकट्यौ च कामिनी मध्यकर्णकः ॥
आषाढी तण्डतुस्नश्च कामिका पृष्ठपुच्छकः ।
रत्नकश्च श्याममुखी वाराही मकरोऽरुणा ॥
सुगतोऽर्द्धमुखा बुद्धजानुश्च क्रोडपुच्छकः ।
गन्धो विश्वामरुच्छत्रश्चानुराधा च सौरकः ॥
जयन्तिपुलको भ्रान्तिरनङ्गमदनातुरा ॥”
इति नानातन्त्रशास्त्रम् ॥

तं, क्ली स्त्री, (त + भावे डः ।) तरणम् । (तरति

भवसागरमनेनेति । तॄ + करणे डः ।) पुण्यम् ।
इति मेदिनी । ते, १ ॥

तः, पुं, (तर्द्दति तम्बति वा हिनस्ति द्रव्यादिहर-

णेन जनानिति । तर्द्द तम्ब वा + डः ।) चौरः ।
अमृतम् । पुच्छम् । क्रोडः । म्लेच्छः । इति
मेदिनी । ते, १ ॥ गर्भः । शठः । इति शब्दरत्ना-
वली ॥ रत्नम् । सुगतः । योधः । गौरविवर्ज्जित-
पुच्छम् । क्रोष्टुपुच्छम् । इत्येकाक्षरकोषः ॥

तक, सहने । हासे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-हासे अकं-सेट्) तकति । इति दुर्गा-
दासः ॥

तक, इ दौस्थ्ये । इति कविकल्पद्रुमः (भ्वां-परं-

अकं-सेट् ।) दौस्थ्यं दुःखेन जीवनम् । इ,
तङ्क्यते दरिद्रेण दुःखेन जीव्यते इत्यर्थः ।
तङ्कति दीनः दुःखेन जीवति इत्यर्थः । इति
दुर्गादासः ॥

तकिलः, त्रि, (तक् + “मिथिलादयश्च ।” उणां ।

१ । ५६ । इति इलच् नलोपश्च ।) धूर्त्तः ।
इत्युणादिकोषः ॥

तकिला, स्त्री, (तकिल + टाप् ।) औषधम् ।

इत्युणादिकोषः ॥

तक्यः, त्रि, (तकं हासमर्हतीति । तक + यत् ।)

हास्यः । (तक सहने + “तकिशसि चयति
जनिभ्यो यद्बाच्यः ।” ६ । ४ । ६५ । इत्यस्य
सूत्रस्य वार्त्तिकोक्त्या यत् ।) सहनीयः ॥

तक्रं, क्ली, (तनक्ति सङ्कोचयति दुग्धं पादाम्बु-

दधिरूपेण परिणमयतीत्यर्थः । “स्कायितञ्चीति ।”
उणां । २ । १३ । इति रक् न्यङ्क्वादित्वात् कुत्वं
च ।) पादाम्बुसंयुतदधि । इत्यमरः । २ । ९ । ५३ ॥
तत्पर्य्यायः । गोरसजम् २ घोलम् ३ काल-
सेयम् ४ विलोडितम् ५ दण्डाहतम् ६ अरि-
ष्टम् ७ अम्लम् ८ उदश्वित् ९ मथितम १०
द्रवः ११ । इति राजनिर्घण्टः ॥ तत् पञ्च-
विधम् । तेषां भिन्नानि नामानि लक्षणानि च
यथा, --
“ससरं निर्जलं घोलं मथितं त्वसरोदकम् ।
तक्रं पादजलं प्रोक्तमुदश्विदर्द्धवारिकम् ॥
छच्छिका सरहीनं स्यादच्छा प्रचुरवारिका ॥”
तेषां गुणाः ।
“वातपित्तहरं घोलं मथितं कफपित्तनुत् ।
तक्रं ग्राहि कषायाम्लं स्वादुपाकरसं लघु ॥
वीर्य्योष्णं दीपनं वृष्यं प्रीणनं वातनाशनम् ।
ग्रहण्यादिमतां पथ्यं भवेत् संग्राहि लाघवात् ॥
किञ्च स्वादु विपाकित्वान्न च पित्तप्रकोपणम् ।
कषायोष्णविकाशित्वाद्रौक्ष्याच्चापि कफापहम् ॥
न तक्रसेवी व्यथते कदाचि-
न्न तक्रदग्धाः प्रभवन्ति रोगाः ।
यथा सुराणाममृतं सुखाय
तथा नराणां भुवि तक्रमाहुः ॥
उदश्वित् कफकृद्बल्यं श्रमघ्नं परमं मतम् ।
छच्छिका शीतला लघ्वी पित्तश्रमतृषाहरी ॥
वातनुत् कफकृत् सा तु दीपनी लवणान्विता ॥”
अथोद्धृतघृतस्तोकोद्धृतघृतानुद्धृतघृतानां तक्राणां
गुणाः ।
“समुद्धृतं घृतं तक्रं पथ्यं लघु विशेषतः ।
स्तोकोद्धृतघृतं तस्माद्गुरु वृष्यं कफापहम् ॥
अनुद्धृतघृतं सान्द्रं गुरु पुष्टिकफप्रदम् ॥” * ॥
अथ दोषविशेषे व्याधिविशेषे च तक्र-
विशेषाः ।
“वातेऽम्लं शस्यते तक्रं शुण्ठीसैन्धवसंयुतम् ।
पित्ते स्वादुसितायुक्तं सव्योषमवृषं कफे ॥
हिङ्गुजीरयुतं घोलं सैन्धवेन सुसंयुतम् ।
भवेदतीव वातघ्नमर्शोऽतीसारहृत् परम् ॥
सुरुच्यं पुष्टिदं बल्यं वस्तिशूलविनाशनम् ।
मूत्रकृच्छ्रे तु सगुडं पाण्डुरोगे सचित्रकम् ॥” * ॥
अथामपक्वतक्रगुणाः ।
“तक्रमामं कफं कोष्ठे हन्ति कण्ठे करोति च ।
पीनसश्वासकासादौ पक्वमेव प्रयुज्यते ॥” * ॥
अथ तक्रसेवननिमित्तानि ।
“शीतकालेऽग्निमान्द्ये च तथा वातामयेषु च ।
अरुचौ स्रोतसां रोधे तक्रं स्यादमृतोपमम् ॥
तत्तु हन्ति गरच्छर्द्दिप्रसेकविषमज्वरान् ।
पाण्डुमेदोग्रहण्यर्शोमूत्रग्रहभगन्दरान् ॥
मेहं गुल्ममतीसारं शूलप्लीहोदरारुचीः ।
श्वित्रकोठधृतव्याधीन् कुष्ठशोथतृषाकृमीन् ॥”
अथातक्रविषयाः ।
“नैव तक्रं क्षते दद्यान्नोष्णकाले न दुर्ब्बले ।
न मूर्च्छाभ्रमदाहेषु न रोगे रक्तपैत्तिके ॥” * ॥
अथ गव्यादीनां तक्राणां विशिष्टगुणाः ।
“यान्युक्तानि दधीन्यष्टौ तद्गुणं तक्रमादिशेत् ॥”
इति भावप्रकाशः ॥
पृष्ठ २/५७८
(“गव्यन्त्रिदोषशमनं तक्रं श्रेष्ठन्तदुच्यते ।
दीपनं रुचिकृन्मेध्यमर्शोदरविकारजित् ॥”
इति गव्यतक्रगुणाः ॥
“माहिषं कफकृत् किञ्चिद्घनं शोफकरं नृणाम् ।
प्लीहार्शोग्रहणीगुल्मपाण्ड्वामयविनाशनम् ॥”
इति माहिषतक्रगुणाः ॥
“छागलं लघु संस्निग्धं त्रिदोषशमनं परम् ।
गुल्माशग्रिहणीशूलं पाण्ड्वामयविनाशनम् ॥”
इति छागीतक्रगुणाः ॥
“तथाच त्रिविधं तक्रं कथ्यते शृणु पुत्त्रक ! ।
यथायोगेन तत् सम्यक् शस्यते येषु रोगिषु ॥
समुद्धतघृतं तक्रमर्द्धोद्धृतघृतञ्च तत् ।
अनुद्धृतघृतञ्चान्यदित्येतत्त्रिविधं मतम् ॥
सर्व्वं लघु च पथ्यञ्च त्रिदोषशमनं परम् ।
ततः परं वृष्यतमं क्रमेण समुदीरितम् ।
समुद्धृतघृतन्तक्रं लघु पथ्यतमं मतम् ॥
गरोदरार्शोग्रहणीपाण्डुरोगज्वरातुरे ।
वर्च्चोमूत्रग्रहे वापि प्लीहाव्यापदमेहिषु ॥
हितं संप्रीणनं बल्यं पित्तरक्तविबोधकृत् ॥
अर्द्धोद्धृतघृतं तस्माद्वृष्यं गुरु कफप्रदम् ।
मधुरं पित्तरक्तघ्नं श्रमघ्नं परमं मतम् ॥
अनुद्धृतघृतं सान्द्रं गुरु विद्यात् कफावहम् ।
बलप्रदन्तु क्षीणानामामशोफातिसारकृत् ॥”
इति त्रिविधतक्रगुणाः ॥ * ॥
“तक्रं ग्राहि कषायाम्लं वीर्य्योष्णं दीपनं लघु ।
श्रमापहरणं स्निग्धं ग्रहण्यर्शोऽतिसारनुत् ॥
इति तक्रगुणाः प्रोक्ता न दद्याद् यत्र तच्छृणु ।
षाते शोफे च क्षीणानां नोष्णकाले शरत्सु च ॥
संमूर्च्छाभ्रमतृष्णासु तथाच रक्तपित्तके ।
न शस्तं तक्रपानञ्च करोति विविधान् गदान् ॥”
एतेषां तक्रं निषिद्धम् ॥
इति हारीते प्रथमस्थानेऽष्टमेऽध्याये ॥ * ॥)

तक्रकूर्च्चिका, स्त्री, (तक्रजाता कूर्च्चिका ।) तक्र-

योगेन ऊष्णदुग्धात् जाता । छाना इति भाषा ।
अस्या गुणाः । मलबद्धवातकारित्वम् । रूक्ष-
त्वम् । दुर्ज्जरत्वञ्च । इति राजवल्लभः ॥
(यथा सुश्रुते सूत्रस्थाने ४५ अध्याये ।
“ग्राहिणी वातला रूक्षा दुर्ज्जरा तक्रकूर्च्चिका ॥”)

तक्रमांसं, क्ली, (तक्रयोगेन पाचितं मांसम् ।)

व्यञ्जनविशेषः । एख्नि इति पारस्य भाषा ।
तस्य पाकप्रकारो यथा, --
“पाकपात्रे घृतं दत्त्वा हरिद्राहिङ्गु भर्ज्जयेत् ।
छागादेः सकलस्यापि खण्डान्यष्टौ च भर्जयेत् ॥
मिद्धियोग्यं जलं दत्त्वा पचेम्मृदुतरं यथा ।
राजिकादियुते तक्रे मांसखण्डानि धारयेत् ॥”
तस्य गुणाः ।
“तक्रमांसन्तु वातघ्नं लघु रुच्यं बलप्रदम् ।
कफघ्नं पित्तलं किञ्चित् सर्व्वाहारस्य पाचनम् ॥”
इति भावप्रकाशः ।

तक्राटः, पुं, (तक्राय तक्रोत्पादनाय अटतीति ।

अट + अच् ।) मन्थानदण्डः । इति हारा-
वली । ३४ ॥

तक्ष, त्वचो ग्राहे । इति कविकल्पद्रुमः ॥ (भ्वां-

परं-सकं-सेट् ।) त्वचो ग्राहश्चर्म्मणो ग्रहणम् ।
तक्ष त्वचने इति प्राञ्चः । त्वचनं संवरणमिति
रमानाथः । तक्षति कायं वर्म्मणा भटः । इति
दुर्गादासः ॥

तक्ष, ऊ कार्श्ये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-वेट् ।) ऊ, तक्षिष्यति तक्ष्यति । कार्श्यं
कृशकरणम् । तक्षति काष्ठं तक्षा । इति
दुर्गादासः ॥

तक्ष, ऊ न तक्षे । इति कविकल्पद्रुमः ॥ (स्वां-

परं-सकं-वेट् ।) तक्षः कृशकरणम् । ऊ, तक्षि-
ष्यति तक्ष्यति । न, तक्ष्णोति काष्ठं तक्षा । इति
दुर्गादासः ॥

तक्षकः, पुं, (तक्षतीति । तक्ष + ण्वुल् ।)

पातालस्थाष्टनागान्तर्गतनागविशेषः । स कश्य-
पात् कद्रुगर्भे जातः इन्द्रसखः । अस्य वासः
खाण्डववने आसीत् । अयं परीक्षितं दष्टवान् ।
इति श्रीभागवतम् ॥ (अयं हि क्षपणकरूपधारी
उतङ्कस्य मुनेर्गुरुदक्षिणार्थमानीते कुण्डले
ऽपहृत्य नागलोकं गतवान् । यथा, महा-
भारते । १ । ३ । १२७ ।
“तस्य तंक्षको दृढमासन्नः स तं जग्राह । गृहीत-
मात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा
सहसा घरण्यां विवृतं महाविलं प्रविवेश ॥
तक्ष तनूकरणे + “क्वुन् शिल्पिसंज्ञयोः ।” उणां ।
२ । ३२ । इति क्वुन् ।) त्वष्टा । इत्यमरः ।
३ । ३ । ४ ॥ विश्वकर्म्मा । इति शब्दरत्नावली ॥
द्रुमभेदः । इति हेमचन्द्रः ॥ सूत्रधारः । इत्य-
मरटीकासारसुन्दरी ॥ (स्वनामख्यातः प्रसेन-
जित्-पुत्त्रः । यथा, भागवते । ९ । १२ । ८ ।
“ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः ॥”
छेदके, त्रि । यथा, रामायणे । २ । ८० । २ ।
“तथा वर्द्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥”)

तक्षणं, क्ली, (तक्ष तनूकरणे + भावे ल्युट् ।)

कृशकरणम् । (यथा, मनुः । ५ । ११५ ।
“द्रवाणाञ्चैव सर्व्वेषां शुद्धिरुत्प्लवनं स्मृतम् ।
प्रोक्षणं संहतानाञ्च दारवाणाञ्च तक्षणम् ॥”)

तक्षणी, स्त्री, (तक्षत्यनेनेति । तक्ष + करणे ल्युट् ।

टित्त्वात् ङीप् ।) वासी अस्त्रम् । इति शब्द-
रत्नावली ॥

तक्षशिला, स्त्री, देशविशेषः । इति सिद्धान्त-

कौमुदी ॥ (यथा, महाभारते । १ । ३ । २२ ।
“तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः स तथा
भ्रातॄन् सन्दिश्य तक्षशिलां प्रत्यभिप्रतस्थे ॥”)

तक्षा, [न्] पुं, (तक्षति तनूकरोतीति । तक्ष +

“कविन् युवृषितक्षिराजीति ।” उणां १ । १५६ ।
इति कनिन् ।) त्वष्टा । इत्यमरः । २ । १० । ९ ॥
(यथा, माघे । १२ । २५ ।
“स्रस्ताङ्गसन्धौ विगताक्षपाटवे
रुजा निकामं विकलीकृते रथे ।
“आप्तेन तक्ष्णा भिषजेव तत्क्षणं
प्रचक्रमे लङ्घनपूर्ब्बकः क्रमः ॥”)

तग, इ स्खलने । कम्पे । गतौ । इति कविकल्प-

द्रुमः ॥ (भ्वां-परं-अकं-गतौ तु सकं-सेट् ।)
इ, कर्म्मणि तङ्ग्यते । इति दुर्गादासः ॥

तगरं, नदीवृक्षः । पिण्डतगर इति कोङ्कणे

प्रसिद्धः । तगरमूल इति ख्यातञ्च । तत्-
पर्य्यायः । कालानुशारिवा २ वक्रम् ३ कुटि-
लम् ४ शठम् ५ महोरगम् ६ नतम् ७ जिह्मम्
८ दीपनम् ९ तगरपादिकम् १० । इति रत्न-
माला ॥ विनम्रम् ११ कुञ्चितम् १२ षण्ढम् १३
नहुषाख्यम् १४ दण्डहस्तम् १५ वर्हणम् १६
पिण्डीतगरकम् १७ पार्थिवम् १८ राजहर्ष-
णम् १९ कालानुसारकम् २० क्षत्त्रम् २१
दीनम् २२ । अस्य गुणाः । शीतलत्वम् । तिक्त-
त्वम् । दृष्टिदोषविषार्त्तिभूतोन्मादभयनाशित्वम् ।
पथ्यत्वञ्च ॥ आहुल्यवृक्षः । इति राजनिर्घण्टः ॥
गन्धद्रव्यविशेषः । तस्य पर्य्यायगुणाः ।
“कालानुसार्य्यं तगरं कठिनं लघु संनतम् ।
अपरं पिण्डतगरं दण्डहस्ति च वर्हणम् ॥
तगरद्बयमुष्णं स्यात् स्वादु स्निग्धं लघु स्मृतम् ।
विषापस्मारमृर्द्धाक्षिरोगदोषत्रयापहम् ॥”
इति भावप्रकाशः ॥

तगरः, पुं, (तं क्रोडभागं गिरतीति । गॄ + अच् ।)

पुष्पवृक्षविशेषः । टगर इति भाषा । तत्-
पर्य्यायः । सितपुष्पः २ । कालपर्णः ३ कटु-
च्छदः ४ । इति शब्दरत्नावली ॥ (यथा, महा-
भारते । १३ । १०४ । ८५ ।
“प्रियङ्गुचन्दनाभ्याञ्च विल्वेन तगरेण च ।
पृथगेवानुलिम्पेत केशरेण च बुद्धिमान् ॥”)
मदनवृक्षः । इति राजनिर्घण्टः ॥

तगरपादिकं, क्ली, (तगरस्य पादो मूलदेश इव

विद्यतेऽत्र इति ठन् ।) तगरम् । इति रत्न-
माला ॥

तङ्कः, पुं क्ली, (टङ्क + पृषोदरात् साधुः ।) पाषाण-

दारणः । इत्यमरटीकायां रमानाथः ॥ (तकि
कृच्छ्रजीवने + भावे घञ् ।) प्रियविरहज-
स्तापः । भयम् । इति लिङ्गादिसंग्रहटीकायां
भरतः ॥

तज्वी, स्त्री, (तं पुच्छाकारं जवति गच्छतीति ।

जु + क्विप् ङीष् ।) हिङ्गुपत्री । इति राज-
निर्घण्टः ॥

तट, उच्छ्राये । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

अकं-सेट् ।) उच्छ्राय उच्चीभावः । तटति
पुलिनम् । इति दुर्गादासः ॥

तट, क आहतौ । इति कविकल्पद्रुमः ॥ (चुरां-

परं-सकं-सेट् ।) क, ताटयति । इति दुर्गा-
दासः ॥

तटं, क्ली, (तटति उच्छ्रितं भवतीति । तट उच्छ्राये

+ पदाद्यच् ।) क्षेत्रम् । इति मेदिनी । टे, १६ ॥
(प्रदेशः । यथा, महाभारते । १ । ३६ । ३ ।
“गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ॥”)

तटः, त्रि, (तटति उच्छ्रितो भवतीति तट् +

अच् ।) तीरम् । इत्यमरः । १ । १० । ७ ॥
पृष्ठ २/५७९
तड् इति भाषा ॥ (यथा, हरिवंशे । ६७ । ५५ ।
“कर्त्तव्यमार्गौ भ्राजेते ह्नदस्यास्य तटावुभौ ॥”
महादेवे, पुं । सर्व्वोच्छ्रितत्वादस्य तथात्वम् ।
यथा, महाभारते । १२ । २८४ । ३६ ।
“नमस्तटाय तट्यायः तटानाम्पतये नमः ॥”)

तटस्थं, क्ली, लक्षणविशेषः । तस्य स्वरूपं यथा,

तद्भिन्नत्वे सति तद्बोधकत्वम् । तथाच ।
“स्वरूपं तटस्थं द्बिधालक्षणं स्यात्
स्वरूपस्य बोधो यतो लक्षणाभ्याम् ।
स्वरूपे प्रविष्टात् स्वरूपेऽप्रविष्टात्
यथा काकवन्तो गृहाः खं विलञ्च ॥”
इति वेदान्तकारिका ॥
(तटे तिष्ठतीति । स्था + कः ।) तटस्थिते,
त्रि ॥ (उदासीनः । यथा, नैषधे । ३ । ५५ ।
“धिक् चापले वत्सिमवत्सलत्वं
यत्प्रेरणादुत्तरलीभवन्त्या ।
समीरसङ्गादिव नीरभङ्ग्या
मया तटस्थस्त्वमुपद्रुतोऽसि ॥”
समीपस्थः । यथाह बलः ।
“तटस्थः स्यादुदासीने तीरस्थनिकटस्थयोः ॥”)

तटाकः, पुं, (तटमकति गच्छतीति । अक +

“कर्म्मण्यण् ।” ३ । २ । १ । इत्यण् ।) तडागः ।
पद्मादियुक्तसरः । इति शब्दरत्नावली । (यथा,
वैराग्यशतके । ४६ ।
“प्रादेशमात्रमुदरं परिपूरयितुं कियानयं यत्नः ।
चुलकेनाम्भः पातुं खनितव्यः किं तटाकोऽपि ॥”)

तटिनी, स्त्री, (तटमस्त्यस्या इति । तट + “अत

इनिठनौ ।” ५ । २ । ११५ । इति इनि-
स्ततो ङीप् ।) नदी । इत्यमरः । १ । १० । ३० ॥
(यथा, आर्य्याशप्तशत्याम् । ६९२ ।
“हृत्वा तटिनि ! तरङ्गैर्भ्रमितश्चक्रेषु नाशये
निहितः ।
फलदलवल्कलरहितस्त्वयान्तरिक्षे तरुस्त्यक्तः ॥”)

तटी, स्त्री, (तटति उच्छ्रिता भवतीति । तट +

अच् । ङीष् ।) तीरम् । इत्यमरः । १ । १० । ७ ॥
(यथा, साहित्यदर्पणे । ३ । ८६ ।
“मालयञ्च श्मशानञ्च नद्यादीनां तटी तथा ॥”)

तड, इ ङ आहतौ । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) इ, तण्ड्यते । ङ, तण्डते ।
इति दुर्गादासः ॥

तड, क त्विषि । आहतौ । इति कविकल्पद्रुमः ॥

(चुरां-परं-अकं-सकं च-सेट् ।) क, ताड-
यति । त्विषि दीप्तौ । इति दुर्गादासः ॥

तडगः, पुं, (तण्ड्यते आहन्यते ऊर्म्मिभिरिति ।

तड + आगः । पृषोदरादित्वात् आलोपे साधुः ।)
तडागः । इति द्बिरूपकोषः ॥

तडाकः, पुं, (तण्ड्यते आहन्यते ऊर्म्मिमालाभि-

रिति । तडि आहतौ + “पिनाकादयश्च ।”
उणां ४ । १५ । इति आकप्रत्ययेन निपातनात्
साधुः ।) तडागः । इति शब्दरत्नावली ॥

तडाका, स्त्री, (तडाक + स्त्रियां टाप् ।) नदी-

समुद्राणां तटभागः । (तडि आहतौ + भावे
आकः ।) आघातः । इति संक्षिप्तसारे उणादि-
वृत्तिः ॥ (प्रभा । इत्युज्ज्वलदत्तः । ४ । १५ ॥)

तडागः, पुं क्ली, (तड + तडागादयश्च । इति

आगप्रत्ययेन निपातनात् साधुः ।) यन्त्रकूटकः ।
इति मेदिनी । गे, ३६ ॥ (तण्ड्यते आहन्यते
ऊर्म्मिमालाभिरिति । तडि आहतौ + कर्म्मणि
आकः ।) पद्मादियुक्तं सरः । तत्पर्य्यायः ।
पद्माकरः २ । इत्यमरः । १ । १० । २८ ॥
तडाकः ३ तटाकः ४ । इति शब्दरत्नावली ॥
तडगः ५ । इति द्बिरूपकोषः ॥ शञ्चशत-
घनुःपरिमाणजलाशयः । चतुर्द्दिक्षु पञ्चचत्वा-
रिंशद्धस्तान्यूनतायां सहस्रद्बितयहस्तान्यूनत्वेन
तडागः । इति नव्यवर्द्धमानधृतो वशिष्ठः ॥ * ॥
तस्य जलगुणाः । वायुकारित्वत् । स्वादुत्वम् ।
कषायत्वम् । पाके कटुत्वम् । शिशिरहिमकाले
प्रशस्तत्वञ्च । इति राजवल्लभः ॥ * ॥ तस्योत्-
सर्गविधिर्यथा, --
पुलस्त्य उवाच ।
“शृणु राजन्महाबाहो ! तडागादिषु यो विधिः ।
पुराणेष्वितिहासेषु मन्यते राजसत्तम ! ॥
प्राप्य पक्षं शुभं शुक्लमागते चोत्तरायणे ।
पुण्येऽह्नि विप्रैः क्रियते कृत्वा ब्राह्मणवाचनम् ॥
प्राक्प्रस्रवणादम्भस्तडागस्य समीपतः ॥
चतुर्हस्तसमा वेदी चतुरस्रा समन्ततः ।
तथा षोडशहस्तः स्यान्मण्डपश्च चतुर्मुखः ॥
वेद्या उत्तरतो गर्त्तारत्निमात्रा तु मेखला ।
नवसप्ताथवा पञ्च योनिवक्त्रा नृपात्मज ! ॥
वितस्तिमात्रा योनिः स्यात् षट्सप्ताङ्गुल-
विस्तृता ।
सर्व्वे स्वहस्तमात्राः स्युस्त्रिपर्व्वोच्छ्रितमेखलाः ॥
सर्व्वे च सर्व्ववर्णाः स्युः पताकाध्वजसंयुताः ।
अश्वत्थोडम्बरप्लक्षवटशाखाकृतानि च ॥
मण्डंपस्य प्रतिदिशं द्बाराण्येतानि कारयेत् ॥
शुभास्तत्राष्ट होतारो द्बारपालास्तथापरे ।
अष्टौ तु जापकाः कार्य्या ब्राह्मणा वेदपारगाः ॥
सर्व्वलक्षणसम्पूर्णा मन्त्रविद्बिजितेन्द्रियाः ।
कुलशीलसमायुक्ताः स्थापिता द्बिजसत्तमाः ॥
प्रतिस्तम्भेषु कलसा यज्ञोपस्करणानि च ।
व्यजनञ्चासनं शुभ्रं ताम्रपात्रं सुविस्तरम् ॥
आचार्य्यः प्रक्षिपेद्भूम्यामनुचन्द्रं विचक्षणः ।
त्र्यरत्निमात्रो यूपः स्यात् क्षीरिवृक्षविनिर्म्मितः ॥
यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता ॥
हेमालङ्करिणः कार्य्याः पञ्चविंशतिऋत्विजः ॥
कुण्डलानि च हैमानि केयूरकटकानि च ।
तथाङ्गुलीपवित्राणि वासांसि विविधानि च ॥
दद्युः समानि सर्व्वेषामाचार्य्ये द्बिगुणं पुनः ।
दद्याच्छयनसंयुक्तमात्मनश्चापि यत् कृतम् ॥
सौवर्णौ कूर्म्ममकरौ राजतौ मत्स्यडुण्डुभौ ।
तथा कुलीरमण्डूका वायसः शिशुमारकः ॥
एवमासाद्य तत् सर्व्वं स्वर्णपात्रं विशाम्पते ! ।
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ॥
सर्व्वौषध्युदकस्नातः पाठितो वेदपुङ्गवैः ।
यजमानः सपत्नीकः पुत्त्रपौत्त्रसमन्वितः ॥
पश्चिमं द्बारमासाद्य प्रविशेद्यागमण्डपम् ।
ततो मङ्गलशब्देन भेरीणां निस्वनेन च ॥
रजसा मण्डलं कुर्य्यात् पञ्चवर्णेन चार्च्चितम् ।
षोडशारं ततश्चक्रं पद्मरागसुशोभनम् ॥
वेद्यामुपरि तत् कृत्वा ग्रहान् ग्रहपतींस्तथा ।
संन्यसेन्महतः सर्व्वान् प्रतिदिक्षु विचक्षणः ॥
तत् पात्रं स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितम् ।
ब्रह्माणञ्च शिवं विष्णुं तत्त्वेन स्थापयेद्बुधः ॥
विनायकञ्च विन्यस्य कमलामम्बिकां ततः ।
शान्त्यर्थं सर्व्वलोकानां भूतग्राममशेषतः ।
पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाधिवासनम् ।
कुम्भांश्च रत्नगर्भांश्च वासोभिः परिवेष्टयेत् ॥
गन्धपुष्पैरलङ्कृत्य द्बारपालान् समन्ततः ।
पठध्वमिति तान् ब्रूयादाचार्य्यमपि पूजयेत् ॥
बह्वृचौ पूर्ब्बतः स्थाप्यौ दक्षिणे च यजुर्व्विदौ ।
पश्चिमे सामगौ स्थाप्याबुत्तरेणाप्यथर्व्वगौ ॥
उदङ्मुखो दक्षिणतो यजमान उपाविशेत् ।
पठध्वमिति तान् ब्रूयात् यजध्वमिति याजकम् ॥
उत्कृष्टमन्त्रपाठेन तिष्ठध्वं मन्त्रजापकाः ।
एवमादिश्य तान् सर्व्वान् पर्युष्याग्निं स
मन्त्रवित् ॥
जुहुयादाहूतीर्म्मन्त्रैराज्यञ्च समिधस्तथा ।
ऋत्विद्भिश्चैव होतव्यं वारुणैरेव सर्व्वतः ॥
वैराजं पौरुषं सूक्तं पौण्ड्रं चन्द्रं सुसंहितम् ।
शैशवं पञ्चनिधनं गायन्ति ज्येष्ठसामगाः ॥
वामदेवं बृहत्साम रौरवं सरथन्तरम् ।
गवां व्रतं विकर्णञ्च रक्षोघ्नं नरथन्तथा ॥
गायन्ति सामगा राजन् ! पश्चिमद्बारमाश्रिताः ।
अथर्व्वगाश्चोत्तरतः शान्तिकं पौष्टिकं तथा ॥
जपन्ते मनसा देवमाश्रिता वरुणं प्रभुम् ।
पूर्ब्बेद्युरभितो मन्त्रैरेवं कृत्वाधिवासनम् ॥
गजाश्वरथ्यावल्मीकसंग्रामरथगोकुलात् ।
मृदमादाय दद्याच्च प्रक्षिपेच्च यथा तथा ॥
रोचनाञ्च ससिद्धार्थान् गन्धान् गुग्गुलमेव च ।
स्नपनं तस्य कर्त्तव्यं पञ्चगव्यसमन्वितम् ॥
मूर्द्ध्नि कर्त्तुर्म्महामन्त्रैरेवं कृत्वा विधानतः ।
एवं रक्षति राज्यार्थान् विधियुक्तेन कर्म्मणा ॥ * ॥
ततः प्रभाते विमले संजाते तु गवां शतम् ।
ब्राह्मणेभ्यः प्रदातव्यं होमान्ते वाथवा पुनः ॥
पञ्चाशद्बाथ षट्त्रिंशत् पञ्चविंशतिरेव च ।
ततः संवत्सरे प्राप्ते शुद्धे लग्ने सुशोभने ॥
वेदशब्दैश्च गान्धर्व्वैर्व्वाद्यैश्च विविधैः पुनः ।
कनकालङ्कृतां कृत्वा जले गामवतारयेत् ॥
सामगाय च सा देया ब्राह्मणाय विशाम्पते ! ।
पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम् ॥
तत्र निःक्षिप्य मकरं मत्स्यादींश्चैव सर्व्वशः ।
धृतांश्चतुर्भिर्व्विप्रैश्च वेदवेदाङ्गपारगैः ॥
महानदीजलोपेतान् दध्यक्षतविभूषितान् ।
उत्तराभिमुखो युक्तो जलमध्ये प्रकालयेत् ॥
आथर्व्वणेन सुस्नातः पुनर्म्मासांस्तथैव च ।
आपो हि ष्ठेतिमन्त्रेण क्षिपेदागत्य मण्डपम् ॥
पृष्ठ २/५८०
पूजयित्वा सुरांस्तत्र वलिं दद्यात् समन्वितः ।
पुनर्द्दिनानि होतव्यं चत्वारि राजसत्तम ! ॥
चतुर्थीकर्म्म कर्त्तव्यं देयं तत्रापि शक्तितः ।
कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च ॥
ऋत्विग्भ्यस्तु समं दद्यात् मण्डपं विभजेत् पुनः ।
होमपात्रञ्च शय्याञ्च आचार्य्याय निवेदयेत् ॥
ततः सहस्रं विप्राणामथवाष्टशतं तथा ।
भोजयेच्च यथाशक्त्या पञ्चाशद्बाथ विंशतिः ॥
एवमेव पुराणेषु तडागविधिरुच्यते ।
कूपवापीषु सर्व्वासु तथा पुष्करिणीषु च ॥
एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च ।
मन्त्रतस्तु विशेषः स्यात् प्रासादोद्यानभूमिषु ॥
अयन्तु ऋत्विगाचार्य्यविधिदृष्टेन कर्म्मणा ।
अल्पेष्वेकाग्निवत् कार्य्यं वित्तशाठ्यादृते नृणाम् ॥”
तडागे कालविशेषे जलस्थितेः फलं यथा, --
“प्रावृट्काले स्थितं तोयमग्निष्टोमसमं स्मृतम् ।
शरत्काले स्थितं तोयं यदुक्तफलदायकम् ॥
वाजपेयफलसमं हेमन्तशिशिरस्थितम् ।
अश्वमेधसमं प्राहुर्व्वसन्तसमयस्थितम् ॥
ग्रीष्मेऽपि तु ख्यितं तोयं राजसूयफलाधिकम् ॥”
तडागकरणे फलं यथा, --
“एतान्महाराज ! विशेषधर्म्मान्
करोति योऽर्घ्यान्त्वथ शुद्धबुद्धिः ।
स याति ब्रह्मालयमेककल्पं
दिवं पुनर्याति तथैव दिव्यम् ॥”
इति पाद्मे सृष्टिखण्डम् ॥

तडाघातः, पुं, (तटे आघातः । पृषोदरात् टस्य

डत्वम् ।) ऊर्द्ध्वीकृत्य हस्तिशुण्डाघातः । यथा,
“उच्चैःकरिकराक्षेपे तडाघातं विदुर्ब्बुधाः ॥”
इति कुमारसम्भवटीका ॥

तडित्, स्त्री, (ताडयत्यभ्रमिति । तड आघाते +

“ताडेर्णिलुक् च ।” उणां । १ । १०० । इति
इतिप्रत्ययः णेर्लुक् च ।) विद्युत् । इत्यमरः । १ । ३ ।
९ ॥ (यथा, रघुः । ९ । ५४ ।
“अथ नभस्य इव त्रिदशायुधं
कनकपिङ्गतडिद्गुणसंयुतम् ।
धनुरधिज्यमनाधिरुपाददे
नरवरो रवरोषितकेशरी ॥”)

तडित्वान्, [त्] पुं, (तडित् विद्युदस्त्यस्येति ।

तडित् + मतुप् । मस्य वः ।) मेघः । मुस्तकम् ।
इत्यमरः । १ । ३ । ७, २ । ४ । १५९ ॥ (विद्यद्-
विशिष्टे, त्रि । यथा, --
“समुदितन्निचयेन तडित्वतीं
लघयता शरदम्बुदसंहतिम् ॥”
इति किरातार्ज्जुनोये । ५ । ४ ॥)

तण्डकः पुं, (तण्डते नृत्यतीति । तण्ड + ण्वुल् ।)

खञ्जनपक्षी । फेनः । समासप्रायवाक् । गृहदारु ।
तरुस्कन्धः । मायाबहुलके, त्रि । इति मेदिनी ।
के, ९८ ॥

तण्डकः, पुं क्ली, (तण्ड + ण्वुल् ।) परिष्कारः । इति

लिङ्गादिसंग्रहे अभरः ॥

तण्डुः, पुं, शिवद्बारपालविशेषः । इति हलायुधः ॥

तण्डुरीणः, पुं, कीटमात्रम् । (तण्डुले भवः ।

तण्डुल + छः । लस्य रः ।) तण्डुलोदकम् ।
वर्व्वरे, त्रि । इति मेदिनी । णे, ९५ ॥

तण्डुलः, पुं, (तण्ड्यते आहन्यते इति । तड आघाते

+ “सानसिवर्णसीति ।” उणां ४ । १०७ । इति
उलच् । यद्बा, “वृञ्लुटितनितडिभ्य उलन्
तण्डश्च ।” उणां । ५ । ९ । इतिउलन् तण्डादेशश्च ।)
विडङ्गम् । इति मेदिनी । ले, ९६ ॥
(“पुंसि क्लीवे विडङ्गः स्यात् कृमिघ्नो जन्तुनाशनः ।
तण्डुकश्च तथा वेल्लममोघा चित्रतण्डुला ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
तण्डुलीयशाकम् । इति शब्दरत्नावली ॥
घान्यादिनिकरः । इति मेदिनी । ले, ९६ ॥
चाउल इति भाषा । (यथा, पञ्चतन्त्रे । ३ । ५५ ।
“सङ्गतिः श्रेयसी पुंसां स्वपक्षे च विशेषतः ।
तुषैरपि परिभ्रष्टा न प्ररोहन्ति तण्डुलाः ॥
सुदुर्ज्जरः स्वादुरसो बृंहणस्तण्डुलो नवः ।
सन्धानकृन्मेहहरः पुराणस्तण्डुलः स्मृतः ॥
द्रव्यसंयोगसंस्कारविकारान् समवेक्ष्य तु ।
यदाकारणमासाद्य भोक्तॄणां छन्दतोऽपि वा ॥
अनेकद्रव्ययोनित्वाच्छास्त्रतस्तान् विनिर्द्दिशेत् ॥”
इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)
भृष्टतण्डुलगुणाः । सुगन्धित्वम् । कफनाशित्वम् ।
रूक्षत्वम् । पित्तकारित्वञ्च । इति राजवल्लभः ॥

तण्डुलपरीक्षा, स्त्री, (तण्डुलेन परीक्षा ।) नव-

विधदिव्यान्तर्गतदिव्यविशेषः । चालपडा इति
भाषा । तद्विधानं यथाह पितामहः ।
“चौर्य्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः ।
तण्डुलान् कारयेच्छुक्लांच्छालेर्न्नान्यस्य कस्य चित् ॥
मृण्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ।
स्नानोदकेन संमिश्रान् रात्रौ तत्रैव वासयेत् ॥
प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् ।
तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत्त्रिधा ॥
भूर्ज्जस्यैव तु नान्यस्य अभावे पिप्पलस्य तु ।
शोणितं दृश्यते यस्य हनुस्तालु च शीर्य्यते ॥
गात्रञ्च कम्पते यस्य तमशुद्धं विनिर्द्दिशेत् ॥”
स्नानोदकेन देवतास्नानोदकेन । तथा च
कात्यायनः ।
“देवतास्नानपानीयस्निग्धतण्डुलभक्षणे ।
शुद्धनिष्ठीवनात् शुद्धो नियम्योऽशुचिरन्यथा ॥”
शिरोरोपितपत्रकं तण्डुलान् भक्षयित्वा निष्ठी-
वयेत् प्राड्विवाकः इति । निष्ठीवयेदिति ण्यन्तात्
सिद्धम् । तुलानिरूपितं सर्व्वदिव्यसाधारणञ्च
धर्म्मवाहनादिहवनान्तं पूर्ब्बवदिहापि कर्त्तव्यम् ॥
शिरोरोपितपत्रलेख्यमन्त्रादि यथा, --
“तञ्चार्थमभियुक्तस्य लेखयित्वा तु पत्रके ।
मन्त्रेणानेन सहितं कुर्य्यात्तस्य शिरोगतम् ॥
आदित्यचन्द्रावनिलोऽनलश्च
द्यौर्भूमिरापो हृदयं यमश्च ।
अहश्च रात्रिश्च उभे च सन्ध्ये
धर्म्मो हि जानाति नरस्य वृत्तम् ॥”
इति दिव्यतत्त्वम् ॥

तण्डुला, स्त्री, (तण्ड्यते आहन्यते इति । तण्ड +

उलच् ततष्टाप् ।) महासमङ्गा । विडङ्गम् ।
इति राजनिर्घण्टः ॥

तण्डुलाम्बु, क्ली, (तण्डुलस्य अम्बु ।) तण्डुलोदकम् ।

चेलुनि इति भाषा । तत्पर्य्यायः । ज्जेष्ठाम्बु २ ।
इति वैद्यकपरिभाषा ॥ तण्डुलोत्थम् ३ । इति
राजनिर्घण्टः ॥ यथा, वैद्यकचक्रपाणिसंग्रहे
ग्रहण्यधिकारे ।
“पिबेत् समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना ॥”

तण्डुली, स्त्री, (तण्डुल + ङीष् ।) यवतिक्ता

लता । शशाण्डुलीकर्कटी । तण्डुलीयशाकः ।
इति राजनिर्घण्टः ॥ (विवृतिरस्यास्तण्डुलीय-
शब्दे ज्ञातव्या ॥)

तण्डुलीकः, पुं, (तण्डुलीव कायतीति । कै + कः ।)

तण्डुलीयशाकः । इति शब्दरत्नावली ॥

तण्डुलीयः, पुं, (तण्डुलाय हितः । तण्डुल +

“विभाषा हविरपूपादिभ्यः ।” ५ । १ । ४ ।
इति छः ।) पत्रशाकविशेषः । क्षुदियानटिया
इति चाँपानटिया इति च वङ्गभाषा । चवराइ
इति अल्पमरुषा इति च हिन्दी भाषा । तत्-
पर्य्यायः । अल्पमारिषः २ । इत्यमरः । २ । ४ ।
१३६ ॥ तण्डुलीकः ३ तण्डुलः ४ । इति शब्द-
रत्नावली ॥ भण्डीरः ५ तण्डली ६ तण्डुलीयकः
७ ग्रन्थिलः ८ बहुवीर्य्यः ९ मेघनादः १० घन-
स्वनः ११ सुशाकः १२ पथ्यशाकः १३ स्फूर्जथुः १४
स्वनिताह्वयः १५ वीरः १६ तण्डुलनामा १७ ।
अस्य गुणाः । शिशिरत्वम् । मधुरत्वम् । विष-
पित्तदाहभ्रमनाशित्वम् । रुचिकारित्वम् । दीप-
नत्वम् । पथ्यत्वञ्च । तद्दलगुणाः । हिमत्वम् ।
अर्शःपित्तरक्तविषकासविनाशित्वम् । ग्राहक-
त्वम् । मधुरत्वम् । विपाके दाहशोषशमनत्वम् ।
रुचिदातृत्वञ्च । इति राजनिर्घण्टः ॥ विड-
ङ्गम् । ताप्यम् । इति मेदिनी । ये, ११९ ॥
अस्य पर्य्यायगुणाः ।
“तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः ।
भण्डीरस्तण्डुलीवीजो विषघ्नश्चाल्पमारिषः ॥
तण्डुलीयो लघुः शीतो रूक्षः पित्तकफास्रजित् ।
सृष्टमूत्रमलो रुच्यो दीपनो विषहारकः ॥”
तद्भेदः । जलतण्डुलीयं शास्त्रे कञ्चटमिति प्रसिद्धम् ।
“पानीयतण्डुलीयन्तु कञ्चटं समुदाहृतम् ।
कञ्चटं तिक्तकं रक्तपित्तानिलहरं लघु ॥”
इति भावप्रकाशः ॥

तण्डुलीयकः, पुं, (तण्डुलीय + स्वार्थे कन् ।) तण्डु-

लीयशाकः । (यथा, हारीते १ स्थाने १० अः ।
“स्वादुः पाके त्वसृक्पित्तविषघ्नस्तण्डुलीयकः ।
हन्ति वातं विड्विबन्धं मूत्रवातकफे हितः ॥”)
विडङ्गम् । इति राजनिर्घण्टः ॥

तण्डुलीयिका, स्त्री, (तण्डुलीय + स्वार्थे कन् स्त्रियां

टाप् । कापि अत इत्वञ्च ।) विडङ्गम् । इति
राजनिर्घण्टः ॥

तण्डुलुः, स्त्री, (तण्डुल + पृषोदरात् उत्वे साधुः ।)

विडङ्गम् । इति शब्दरत्नावली ॥
पृष्ठ २/५८१

तण्डुलेरः, पुं, (तण्डुल + बाहुलकात् स्वार्थे ढ्र ।)

तण्डुलीयशाकः । इति हेमचन्द्रः । ४ । २५० ॥

तण्डुलोत्थं, क्ली, (तण्डुलात् तण्डुलप्रक्षालनात्

उत्तिष्ठतीति । उत् + स्था + कः ।) तण्डुलाम्बु ।
इति राजनिर्घण्टः ॥

तण्डुलोदकं, क्ली, (तण्डुलस्य तण्डुलक्षालनस्य

उदकम् । तण्डुलक्षालितं उदकं वा ।) तण्डु-
लाम्बु । यथा, वैद्यकपरिभाषायाम् ।
“जलमष्टगुणं दत्त्वा पलं कण्डिततण्डुलात् ।
भावयित्वा ततो देयं तण्डुलोदककर्म्मणि ॥”
(अस्य गुणा यथा, --
“सन्धानं शीतलं बल्यं महातिसारनाशनम् ।
सुस्वादु शीतलञ्चैव बृंहणं तण्डुलोदकम् ॥”
इति हारीते प्रथमे स्थानेऽष्टमेऽध्याये ॥)

तण्डुलौघः, पुं, (तण्डुलानामोघ इव यत्र ।) वेष्टवंशः ।

इति शब्दचन्द्रिका ॥ वेउडवाँश इति भाषा ।
तण्डुलसमूहश्च ॥

तत्, व्य, हेतुः । इत्यमरः । ३ । ४ । ३ ॥ (यथा,

रघुः । ३ । ४६ ।
“तदङ्गमग्र्यं मघवन् ! महाक्रतो-
रमुं तुरङ्गं प्रतिमोक्तुमर्हसि ॥”)

तत्, [द्] त्रि, बुद्धिस्थपरामर्शः । सेइ इति

भाषा । सर्व्वनामशब्दोऽयम् । इति व्याकरणम् ॥
(यथा, किरातार्ज्जुनीये । २ । २ ।
“अपि वागधिपस्य दुर्व्वचं
वचनन्तद्विदधीत विस्मयम् ॥”)

तत्, क्ली, ब्रह्मणो नामविशेषः । यथा, --

“ॐ तत् सदिति निर्द्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः ।
प्रवर्त्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ॥”
इति श्रीभगवद्गीतायाम् । १७ । २३-२५ ॥

ततं, क्ली, (तनोति मनोऽनेनेति । तन + “तनि-

मृङ्भ्यां किच्च ।” उणां । ७ । ८८ । इति तन् ।)
वीणादिवाद्यम् । इत्यमरः । १ । ७ । ४ ॥

ततः, त्रि, (तन्यते स्म इति । तन् + क्तः ।) विस्तृतः ।

(यथा, महाभारते । ४ । ५ । १ ।
“ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः ॥”)
व्याप्तः । (यथा, भगवद्गीतायाम् । ८ । २२ ।
“यस्यान्तःस्थानि भूतानि येन सर्व्वमिदं ततम् ॥”)
वायौ, पुं । इति मेदिनी । ते, २० ॥

ततः, [स्] व्य, (तद् + “पञ्चम्यास्तसिल् ।” ५ ।

३ । ७ । इति तसिल् । यद्वा, सर्व्वविभक्तिषु
तसिल् ।) हेतुः इत्यमरः । ३ । ४ । ३ ॥
(यथा, महाभारते । १२ । ३४८ । ७९ ।
“हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः ॥”
आदिः । परिप्रश्नः । पञ्चम्यर्थः । (यथा, मनुः ।
१२ । ८५ ।
“सर्व्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् ।
तद्ध्यग्र्यं सर्व्वविद्यानां प्राप्यते ह्यमृतं ततः ॥”
सप्तम्यर्थः । यथा, मनुः । ४ । १५ ।
“न विद्यमानेष्वर्थेषु नार्त्त्यामपि यतस्ततः ॥”
तृतीयार्थः । यथा, नारदपञ्चरात्रे । २ । ६ ।
“आराधितो यदि हरिस्तपसा ततः किं
नाराधितो यदि हरिस्तपसा ततः किम् ॥”)
कथान्तरम् । आनन्तर्य्यम् । इति विश्वः ॥ (यथा,
महाभारते । ४ । ५ । २ ।
“ततस्ते दक्षिणं तीरमन्वगच्छन् पदातयः ॥”)

ततपत्री, स्त्री, (ततं विस्तृतं पत्रमस्याः ।) कदली-

वृक्षः । इति शब्दचन्द्रिका ॥

ततमः, त्रि, (तेषां मध्ये निर्द्धारितो योऽसौ ।

तद् + “वा बहूनां जातिपरिप्रश्ने डतमच् ।)
५ । ३ । ९३ । इति डतमच् ।) बहुषुमध्ये सः ।
अनेकेर मध्ये सेइ इति भाषा । (यथा,
ऐतरेयोपनिषदि । ३ । १२ । १३ ।
“स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्श-
मिति ॥”)

ततरः, त्रि, (तयोर्मध्ये निर्द्धारतो योऽसौ । तद् +

“किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् ।”
५ । ३ । ९२ । इति डतरच् ।) द्बयोर्मध्ये सः ।
दुयेर मध्ये सेइ इति भाषा ॥

ततस्त्यं, त्रि, (ततस्तत्रभवमिति । ततस् + “अव्यया-

त्त्यप् ।” ४ । २ । १०४ । इत्यस्य “अमेह-
क्वतसित्रेभ्य एव ।” इति वार्त्तिकोक्तेः त्यप्
प्रत्ययः ।) तत्रभवम् । तत्सम्बन्धि । इति व्याक-
रणम् ॥ तार इति भाषा ॥

ततिः, स्त्री, (तन् + भावे क्तिन् ।) श्रेणी । इति

हेमचन्द्रः । ६ । ५९ ॥ (यथा, विष्णुपादादि-
केशान्तवर्णनस्तोत्रे । १५ ।
“अस्माकं विस्मयार्हाण्यखिलमुनिजनप्रार्थ-
नीयानि सेयं
दद्यादाद्यानवद्या ततिरतिरुचिरामङ्गलान्यङ्गु-
लीनाम् ॥”)

तति, त्रि, (तत् परिमाणमेषामिति । तद् + डति ।)

तत्परिमाणम् । ततगुलि इति भाषा । बहु-
वचनान्तोऽयम् । इति व्याकरणम् ॥

तत्कालः, पुं, (स चासौ कालश्चेति ।) वर्त्तमान-

कालः । तत्पर्य्यायः । तदात्वम् १ । इत्यमरः ।
२ । ८ । २९ ॥ (यथा, कथासरित्सागरे । २ । ८३ ।
“वर्षस्य वेश्म वसुभिः स किलादरेण
तत्कालमेव समपूरयदुन्नतश्रीः ॥”)

तत्कालधीः, त्रि, (तस्मिन् काले कार्य्यकाले

धीरुपस्थिता बुद्धिर्य्यस्य ।) प्रत्युत्पन्नमतिः ।
उपस्थितबुद्धिः । इति हेमचन्द्रः । ३ । ८ ॥

तत्क्रियः, त्रि, (सा क्रिया निसर्गतो वेतनमृते

यस्येति ।) कर्म्मकारः । वेतनं विना भारवहादि-
कर्त्ता । इत्यमरः ॥

तत्क्षणः, पुं, (स चासौ क्षणश्चेति स एव क्षणो

वा ।) सद्यः । इत्यमरः । ३ । ४ । ९ ॥ (यथा,
रघुः ३ । १४ ।
“दिशः प्रसेदुर्म्मरुतो वबुः सुखाः
प्रदक्षिणार्च्चिर्हविरग्निराददे ।
बभूव सर्व्वं शुभशंसि तत्क्षणं
भवो हि लोकाभ्युदयाय तादृशाम् ॥”)

त(त्व)त्त्वं, क्ली, (तनोति सर्व्वमिदमिति । तन् +

क्विप् तुक् च । पृषोदरादित्वात् साधुः । यद्बा,
“सर्व्वं खल्विदं ब्रह्म ।” “ब्रह्मैवेदं सर्व्वम् ।”
इति श्रुतेस्तस्य ब्रह्मणो भावः इति । तत् + त्व ।)
स्वरूपम् । परमात्मा । विलम्बितनृत्यम् । इति
मेदिनी । वे, ९ ॥ वाद्यप्रभेदः । इति विश्वः ॥ वस्तु ।
इति त्रिकाण्डशेषः ॥ चेतः । इति धरणिः ॥ * ॥
चतुर्व्विंशतितत्त्वानि यथा । क्षितिः १ आपः २
तेजः ३ मरुत् ४ व्योम ५ गन्धः ६ रसः ७ रूपम् ८
स्पर्शः ९ शब्दः १० नेत्रम् ११ नासिका १२
जिह्वा १३ कर्णः १४ त्वक् १५ हस्तः १६ पादः १७
मुखम् १८ पायुः १९ लिङ्गम् २० प्रकृतिः २१
मनः २२ बुद्धिः २३ अहङ्कारः २४ । इति पुराण-
तन्त्रे ॥ तत्तु नानामुनिभिर्न्नानाविधमुक्तम् । तत्र
त्रीणि तत्त्वानि यथा । सत्वम् १ रजः २ तमः ३ ।
चतुर्व्विधानि यथा । तेजः १ आपः २ पृथ्वी ३
आत्मा ४ । पञ्चविधानि यथा । शब्दः १ स्पर्शः २
रसः ३ गन्धः ४ रूपम् ५ । षड्विधानि यथा ।
क्षितिः १ आपः २ तेजः ३ वायुः ४ आकाशम् ५
परमात्मा ६ । सप्तविधानि यथा । क्षितिः १
आपः २ तेजः ३ वायुः ४ आकाशम् ५ जीवः ६
आत्मा ७ । नवविधानि यथा । पुरुषः १
प्रकृतिः २ महत्तत्त्वम् ३ अहङ्कारः ४ नभः ५
वायुः ६ ज्योतिः ७ आपः ८ क्षितिः ९ ।
एकादशविधानि यथा । श्रोत्रम् १ त्वक् २
चक्षुः ३ घ्राणम् ४ जिह्वा ५ वाक् ६ पाणिः ७
उपस्थः ८ पायुः ९ अङ्घ्रिः १० मनः ११ ।
त्रयोदशविधानि यथा । नभः १ वायुः २ ज्योतिः
३ आपः ४ क्षितिः ५ श्रोत्रम् ६ त्वक् ७ चक्षुः
८ घ्राणम् ९ जिह्वा १० मनः ११ जीवात्मा
१२ परमात्मा १३ । षोडशविधानि यथा ।
नभः १ वायुः २ ज्योतिः ३ आपः ४ पृथ्वी ५
शब्दः ६ स्पर्शः ७ रूपम् ८ रसः ९ गन्धः १०
श्रोत्रम् ११ त्वक् १२ चक्षुः १३ जिह्वा १४
घ्नाणम् १५ मनः १६ । सप्तदशविधानि यथा ।
पूर्ब्बोक्तानि षोडश १६ आत्मा च १७ । पञ्च-
विंशतितत्त्वाति यथा । पूर्ब्बोक्तानि सप्तदश १७
पुरुषः १८ प्रकृतिः १९ महान् २० अहङ्कारः
२१ मुखम् २२ पाणिः २३ उपस्थः २४ पायुः
२५ । षड्विंशतिविधानि यथा । पूर्ब्बोक्तानि
पञ्चविंशतिः २५ जीवः २६ । सप्तविंशति-
विधानि यथा । पूर्ब्बोक्तानि षड्विंशतिः २६
ईश्वरः २७ । इति श्रीभागवतम् ॥

तत्त्वज्ञानं, क्ली, (तत्त्वस्य ब्रह्मतत्त्वस्य ज्ञानम् ।)

बुद्धिगुणविशेषः । तत्तु ब्रह्मज्ञानम् । इति हेम-
चन्द्रः । २ । २२५ ॥ यथा, --
“प्रमाणप्रमेयसंशय-प्रयोजनदृष्टान्त-सिद्धान्ता-
वयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छल-
जातिनिग्रहस्थानानां षोडशपदार्थानां तत्त्व-
ज्ञानान्निःश्रेयसाधिगमः ।” इति गोतमसूत्रे । १ ॥
पृष्ठ २/५८२

तत्त्वन्यासः, पुं, (तत्त्वानां न्यासः ।) विष्णुपूजा-

विषयकन्यासविशेषः । यथा, --
“मादिकान्तानथार्णांश्च जीवाद्येकैकशो वदेत् ।
नमः परायेत्युच्चार्य्य ततस्तत्त्वात्मने नमः ॥
जीवं प्राणं द्बयं प्रोक्त्वा सर्व्वाङ्गेषु प्रविन्यसेत् ।
ततो हृदयमध्ये च तत्त्वत्रयञ्च विन्यसेत् ॥
इत्यच्युतीकृततनुर्व्विदधीत तत्त्व-
न्यासं मपूर्ब्बकपराक्षरनत्युपेतम् ।
भूयः पराय च तदाह्वयमात्मने च
नत्यन्तमुद्धरतु तत्त्वमनुक्रमेण ॥
सकलवपुषि जीवं प्राणमायोज्य मध्ये
न्यसतु मतिमहङ्कारं मनश्चेति मन्त्री ।
कमुखहृदयगुह्याङ्घ्रिष्वथोशब्दपूर्ब्बं
गुणगणमथ कर्णादिस्थितं श्रोत्रपूर्ब्बम् ॥
वागादीन्द्रियवर्गमात्मनिलये त्वाकाशपूर्ब्बं गणं
मूर्द्धास्ये हृदये शिरे चरणयोर्हृत्पुण्डरीकं हृदि ॥
शं बीजं हृत्पुण्डरीकतत्त्वं हृदि प्रविन्यसेत् ।
हं बीजं सूर्य्यमण्डलतत्त्वं हृदि प्रविन्यसेत् ॥
सं बीजं चन्द्रमण्डलतत्त्वं तत्र प्रविन्यसेत् ।
रं बीजं वह्निमण्डलतत्त्वं तत्रैव विन्यसेत् ॥
षं बीजं परमेष्ठितत्त्वं वासुदेवञ्च मूर्द्धनि ।
यं बीजमथ पुंस्तत्त्वं सङ्कर्षणमथो मुखे ॥
लं बीजं विश्वतत्त्वञ्च प्रद्युम्नञ्च हृदि न्यसेत् ।
वं बीजं निवृत्तितत्त्वञ्च अनिरुद्धमुपस्थके ॥
लं बीजं सर्व्वतत्त्वञ्च पादे नारायणं न्यसेत् ।
क्ष्रौं बीजं कोपतत्त्वञ्च नृसिंहं सर्व्वगात्रके ॥
एवं तत्त्वानि विन्यस्य प्राणायामं समाचरेत् ॥”
अस्य फलं यथा, --
“तत्त्वन्यासं ततः कुर्य्यात् साधकः सिद्धिहेतवे ।
कृतेन येन देवस्य रूपतामेव यात्यसौ ॥”
इति गौतमीयतन्त्रम् ॥

तत्परः, त्रि, (सः परोऽस्य । यद्बा, तदेव परं सर्व्वो-

त्तममस्य ।) आसक्तः । इत्यमरः । ३ । १ । ९ ॥
(यथा, भागवते । ४ । १५ । ६ ।
“एष साक्षाद्धरेरंशो जातो लोकरिरक्षया ।
इयञ्च तत्परा हि श्रीरनुजज्ञेऽनपायिनी ॥”)

तत्परायणः, त्रि, (तदेव परमयनमस्य ।) तदा-

सक्तः । यथा, --
“शुद्धा भवन्ति यद्यन्येऽन्त्यजाः कृष्णपरायणाः ॥”
इति पद्मोत्तरखण्डम् ॥

तत्फलः, पुं, (तदेव फलमस्य । यद्बा, तनोति तन्यते

वा । तन + क्विप् तुक् च । तत् विस्तृतं फलमस्य ।)
कुवलयम् । कुष्ठनामौषधिः । चौरनाम-
सुगन्धिद्रव्यम् । इति धरणिः ॥

तत्र, इ कुटुम्बधारणे । इति प्राञ्चः । (भ्वां-परं-

अकं-सेट् ।) द्वावेतौ धारणेऽर्थे वर्त्तेते । इति
चान्द्राः । केचित्तु कुटुम्बधातुममन्यमानास्तत्रि-
धातुः कुटुम्बस्य धारणेऽर्थे वर्त्तते इत्याहुः ।
तन्त्र धारणे इत्यनेनैवेष्टसिद्धे इदनुबन्धो वेदेषू-
च्चारणभेदार्थः । इति दुर्गादासः ॥

तत्र इ सादे । मोहे । (भ्वां-परं-अकं-सेट् ।)

दन्त्यवर्गाद्योपधः । तन्त्रीः । दन्त्यवर्गतृतीयो-

तत्र इ सादे । मोहे । (भ्वां-परं-अकं-सेट् ।)

दन्त्यवर्गाद्योपधः । तन्त्रीः । दन्त्यवर्गतृतीयो-
पधः । इति केचित् । तन्द्रीः । सौत्रधातुरयम् ।
इति दुर्गादासः ॥
पधः । इति केचित् । तन्द्रीः । सौत्रधातुरयम् ।
इति दुर्गादासः ॥

तत्र, इ क ङ धारणे । इति कविकल्पद्रुमः ॥

(चुरां-आत्मं-सकं-सेट् ।) आदिमध्ययोस्तकारः
शेषो रेफयुक्तः । धारणं धरणम् । भाषायामस्य
विस्तारणे प्रायः प्रयोगः । इ क ङ, तन्त्रयते
तन्तून् तन्त्रवायः । इति दुर्गादासः ॥

तत्र, व्य, (तस्मिन्निति । तद् + “सप्तम्यास्त्रल् ।”

५ । ३ । १० । इति त्रल् ।) तस्मिन् । तयोः । तेषु ।
इति आकरणम् ॥ सेखाने इति भाषा । (यथा,
मनुः । २ । ११२ ।
“धर्म्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
तत्र विद्या न वप्तव्या शुभं बीजमिवोषरे ॥”)

तत्रत्यः, त्रि, तत्र भवः । (तद् + “अव्ययात्त्यप् ।”

४ । २ । १०४ । इत्यस्य “अमेहक्वतसित्रेभ्य एव ।”
इति वार्त्तिकोक्त्या त्यप् ।) तस्मिन्नुत्पन्नः । इति
मुग्धबोधव्याकरणम् ॥ (यथा, कथासरित्-
सागरे । ५ । ९९ ।
“प्राप्तस्यैवे च तत्रत्यो जनोऽरोदीत् पुरो मम ॥”)

तत्रभवान्, [त्] त्रि, (इतराभ्योऽपि दृश्यन्ते

इति प्राग्दीव्यतीयः प्रथमार्थे त्रल् । ततः
सुप्सुपेतिसमासः ।) श्लाघ्यः । इति जटाधरः ॥

तथा, व्य, (तेन प्रकारेण । तद् + “प्रकारवचने

थाल् ।” ५ । ३ । २३ । इति थाल् । तेन प्रकारे-
णेत्यर्थः । यथा, मनुः । १ । ४ ।
“स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः ।
प्रत्युवाचार्च्च्य तान् सर्व्वान् महर्षीन् श्रूयता-
मिति ॥”)
साम्यम् । इत्यमरः । ३ । ४ । ९ ॥ (यथा,
मनुः । ६ । ९० ।
“यथा नदीनदाः सर्व्वे सागरे यान्ति संस्थितिम् ।
तथैवाश्रमिणः सर्व्वे गृहस्थे यान्ति संस्थितिम् ॥”)
अभ्युपगमः । पृष्टप्रतिवाक्यम् । समुच्चयः ।
(यथा, देवीभागवते । १ । २ । २६ ।
“सपादलक्षञ्च तथा भारतं मुनिना कृतम् ।
इतिहास इति प्रोक्तं पञ्चमं वेदसम्मतम् ॥”)
निश्चयः । इति मेदिनी । थे, ३६ ॥ (यथा,
रघुः । १ । २९ ।
“तं वेधा विदधे नूनं महाभूतसमाधिना ।
तथा हि सर्व्वे तस्यासन् परार्थैकफला गुणाः ॥”)

तथागतः, पुं, (यथा पुनरावृत्तिर्न भवति तथा

तेन प्रकारेण गतः । यद्वा, तथा सत्यं गतं
ज्ञानं यस्य । सुप्सुपेति समासः ।) बुद्धः ।
इत्यमरः । १ । १ । १३ ॥ (यथा, सर्व्वदर्शनसंग्रहे ।
“यथा गतास्ते मुनयः शिवां गतिं
तथा गतिं सोऽपि गतस्तथागतः ॥” * ॥
तथा तेन प्रकारेणागतः ।) पूर्ब्बोक्तप्रकारेणा-
गते, त्रि ॥ (यथा, महाभारते । ३ । ७७ । ५ ।
“ततो वभूव नगरे सुमहान् हर्षजः स्वनः ।
जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम् ॥”)

तथाच, व्य, (तथा च, च च इति द्बन्द्वसमासः ।) पूर्ब्बो-

क्तार्थदृढीकरणम् । इति संक्षिप्तसारव्याकरणम् ॥
(यथा, मनुः, । ९ । १९ ।
“तथाच श्रुतयो बह्व्यो निगीता निगमेष्वपि ॥”
अव्ययद्वयेनैव सिद्धेः कैश्चिदयं शब्दो न मन्यते ॥)

तथैव, व्य, (तथा च एव च ।) तद्बदेव । सेइ

प्रकार इति भाषा । यथा, चाणक्ये । ४२ ।
“अस्ति पुत्त्रो वशे यस्य भार्य्या भर्त्तुस्तथैव च ॥”
अव्ययद्बयेनैव सिद्धेः कैश्चिच्छब्दोऽयं न मन्यते ॥)

तथ्यं, क्ली, (तथा साधु । तथा + “तत्र साधुः ।”

४ । ४ । ९८ । इति यत् ।) सत्यम् । (यथा,
मनुः । ८ । २७४ ।
“काणं वाप्यथवा खञ्जमन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥”)
तद्बति त्रि । इत्यमरः । १ । ६ । २२ ॥ (यथा,
महाभारते । ७ । १५७ । ३ ।
“यदर्ज्जुनगुणांस्तथ्यान् कीर्त्तयानं नराधम ! ।
शूरद्वेषात् सुदुर्ब्बुद्धे ! त्वं भर्त्सयसि मातुलम् ॥”)

तदा, व्य, (तस्मिन् काले । “तदो दा च ।” ५ ।

३ । १९ । इति दा ।) तस्मिन् काले । इत्य-
मरः । ३ । ४ । २२ ॥ सेइ समये इति भाषा ॥
(यथा, मनुः । १ । ५५ ।
“न च स्वं कुरुते कर्म्म तदोद्क्रामति मूर्त्तितः ॥”)

तदात्वं, क्ली, (तदा इत्यस्व भावः । तदा + “तस्य

भावस्त्वतलौ ।” ५ । १ । ११९ । इति त्व ।)
तत्कालः । वर्त्तमानकालः । इत्यमरः । २ । ८ । २९ ॥
(यथा, महाभारते । २ । ५९ । १४ ।
“स चोपभोगलोभान्धो हिरण्यार्थे परन्तप ! ।
आयतिञ्च तदात्वञ्च उभे सद्यो व्यनाशयत् ॥”)

तदानीं, [म्] व्य, (तस्मिन् काले । “तदो

दा च ।” । ५ । ३ । १९ । इति चकारात्
दानीम् ।) तस्मिन् काले । इत्यमरः । ३ । ४ । २२ ॥
(यथा, ऋग्वेदे । १० । १२९ । १ ।
“नासदासीन्नोसदासीत्तदानीं
नासीद्रजो नो व्योमा परो यत् ॥”)

तदामुखं, क्ली, (तदा तस्मिनेव काले मुखं यस्य ।)

आरम्भः । इति भूरिप्रयोगः ॥

तद्दिनं, [म्] व्य, (तत् प्रखरकिरणत्वेन प्रसिद्धं

दिनं दिनांशः ।) दिनमध्यम् । (तत्तदेव दिनम् ।)
प्रतिदिनम् । इति हेमचन्द्रः ॥ (तदेव दिनम् ।)
पूर्ब्बोक्तदिने, क्ली ॥

तद्धनः, त्रि, (तदेव अव्ययेनाहीनं धनं यस्य ।)

कृपणः । इति हेमचन्द्रः । ३ । ३२ ॥ (तदेव
धनमिति विग्रहे पूर्ब्बोक्तधने, क्ली ॥)

तद्बलः, पुं, (तस्मिन् लक्ष्ये एव बलं यस्य ।)

बाणविशेषः । इति हेमचन्द्रः । ३ । ४४४ ॥

तन, उ कि उपकृतौ । श्रद्धाषाते । शब्दोपतापयोः ।

इति कविकल्पद्रुमः ॥ (चुरां पक्षे भ्वां-परं-अकं-
सकं च-सेट् । उदित्त्वात् क्त्वावेट् ।) उ, तनित्वा
तत्वा । कि, तानयति तनति । उपकृतिरुप-
कारः । अघातो हिंसावर्ज्जनम् । सुनीतिरिति
गोविन्दभट्टः । उपसर्गार्द्दैर्घके । दैर्घकं दीर्घी-
करणम् । वितानयति यः कीर्त्तिं वितनत्यमल-
यशः । इति हलायुधः । इति दुर्गादासः ॥
पृष्ठ २/५८३

तन, द ञ उ विस्तृतौ । इति कविकल्पद्रुमः ॥

(तनां-उभं-सकं-सेट् । उदित्वात् क्त्वावेट् ।)
द ञ, तनोति तनुते पुण्यं ऋषिः । उ, तनित्वा
तत्वा । इति दुर्गादासः ॥

तनयः, पुं, (तनोति विस्तारयति कुलमिति ।

तन् + “वलिमलितनिभ्यः कयन् ।” उणां । ४ ।
९९ । इति कयन् ।) पुत्त्रः । इत्यमरः । २ । ६ ।
२७ ॥ (यथा, मनुः । ३ । १६ ।
“शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च ॥”)

तनया, स्त्री, (तनोति कुलमिति । तन + कयन् +

टाप् ।) कन्या । इत्यमरः । २ । ६ । २७ ॥
(यथा, भागवते । १ । १६ । २ ।
“स उत्तरस्य तनयामुपयेमे इरावतीम् ॥”)
चक्रकुल्यालता । इति शब्दचन्द्रिका ॥

तनिष्ठः, त्रि, अयमनयोरतिशयेन तनुः । (तनु

+ इष्ठन् ।) क्षुद्रः । इति व्याकरणम् ॥

तनीयान् [स्] त्रि, अयमेषामतिशयेन तनुः ।

(तनु + ईयसुन् ।) अल्पः । इति व्याकरणम् ॥

तनुः, स्त्री, (तनोति तन्यते इति वा । तन +

“भृमृशीतॄचरीति ।” उणां । १ । ७ । इति उः ।)
शरीरम् । (वथा, विष्णुपुराणे । १ । १७ । ५ ।
“देवाः स्वर्गं परित्यज्य तत्त्रासात् मुनिसत्तम ! ।
विचेरुरवनौ सर्व्वे विभ्राणा मानुषीं तनुम् ॥”)
त्वक् । इति मेदिनी । ने, ९ ॥ स्त्री । इति
राजनिर्घण्टः ॥

तनुः, त्रि, (तन + “भृमृशीति ।” उणां १ । ७ ।

इत्युः ।) अल्पः । विरलः । (यथा, मनुः । ३ । १० ।
“तनुलोमकेशदशनां मृद्बङ्गीमुद्बहेत् स्त्रियम् ॥”)
कृशः । इति मेदिनी । ने, ९ ॥ (यथा, आर्य्या-
शप्तशत्याम् । ५२५ ।
“वितरन्ती रसमन्तर्ममार्द्रभावं तनोषि तनुगात्रि ! ॥”)

तनुः, [स्] क्ली, (तनोति तन्यते वा । तन +

“अर्त्तिपॄवपियजितनिधनितपिभ्यो नित् ।” उणां
२ । ११८ । इति उसिः स च नित् ।) शरी-
रम् । इत्युणादिकोषः ॥

तनुक्षीरः, पुं, (तनौ क्षीरं बहुलनिर्य्यासो यस्य ।)

आम्रातकः । इति राजनिर्घण्टः ॥

तनुच्छायः, पुं, (तनुर्विरला स्वल्पा छाया यस्य ।)

जालवर्व्वूरकवृक्षः । इति राजनिर्घण्टः ॥ (तनो-
श्छाया ।) शरीरच्छायायां क्ली स्त्री च ॥

तनुजः, पुं, (तनोः शरीरात् जायते इति । जन

+ “अन्येष्वपि दृश्यते ।” ३ । २ । १०१ । इति
डः ।) पुत्त्रः । इति हलायुधः ॥ (यथा, पञ्च-
तन्त्रे । ५ । २२ ।
“स्वामी द्वेष्टि सुसेवितोऽपि सहसा
प्रोज्झन्ति सद्बान्धवा
द्योतन्ते न गुणास्त्यजन्ति तनुजाः
स्फारीभवन्त्यापदः ।
भार्य्या नो तमवंशजापि भजते
नो यान्ति मित्राणि च
न्यायारोपितविक्रमानपि नरान् येषां
न हि स्याद्धनम् ॥”)

तनुजा, स्त्री, (तनोः शरीरात् जायते इति । जन

+ डः + टाप् ।) कन्या । इति शब्दरत्नावली ॥

तनुत्रं, क्ली, (तनुं त्रायते इति । त्रै + “आतो-

ऽनुपसर्गे कः ।” ३ । २ । ३ । इति कः ।)
वर्म्म । इत्यमरः । २ । ८ । ६४ ॥

तनुत्राणं, क्ली, (त्रायतेऽनेनेति । त्रै + करणे

ल्युट् । तनोः शरीरस्य त्राणम् ।) तनुत्रम् ।
इति हलायुधः ॥ (यथा, महाभारते । ३ ।
१७४ । ४ ।
“इदञ्च मे तनुत्राणं प्रायच्छन्मघवान् प्रभुः ॥”)
शरीररक्षणञ्च ॥

तनुत्वचा, स्त्री, (तनुः तन्वी त्वक् वल्कलमस्याः ।)

क्षुद्राग्निमन्थः । इति राजनिर्घण्टः ॥

तनुपत्रः, पुं, (तनूनि पत्राणि यस्य ।) इङ्गुदी-

वृक्षः । इति राजनिर्घण्टः ॥

तनुभस्त्रा, स्त्री, (तनोः शरीरस्य भस्त्रा इव ।

निश्वासवायुनिर्गमात्तथात्वम् ।) नासिका ।
इति शब्दरत्नावली ॥

तनुरसः, पुं, (तनोर्देहस्य रस इव तनोर्निगतो

रस इति वा ।) घर्म्मः । इति हारावली । १५४ ॥

तनुरुट्, [ह्] क्ली, (तनौ शरीरे रोहतीति ।

रुह + क्विप् ।) तनूरुहम् । इति शब्दरत्ना-
वली ॥

तनुरुहं, क्ली, (तनौ रोहति उत्पद्यते इति ।

रुह + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ ।
इति कः ।) तनूरुहम् । इति शब्दरत्नावली ॥

तनुलः, त्रि, (तन्यते स्म इति । तन + उलच् ।)

विस्तृतः । इति संक्षिप्तसारे उणादिवृत्तिः ॥

तनुवातः, पुं, (तनुः क्षीणो वातः वायुर्यत्र ।)

नरकविशेषः । इति हेमचन्द्रः । ५ । २ ॥

तनुवीजः, पुं, (तनु क्षीणं स्वल्पमात्रं वा वीज-

मस्य ।) राजवदरः । इति राजनिर्घण्टः ॥

तनुव्रणः, पुं, (तनुः क्षुद्रः स्वल्पः व्रणो यत्र ।)

वल्मीकरोगः । इति शब्दरत्नावली ॥

तनुसञ्चारिणी, स्त्री, (तनु अल्पमात्रं यथा स्यात्

तथा सञ्चरतीति । सम् + चर + णिनिः ङीप्
च ।) बालिका स्त्री । इति शब्दमाला ॥

तनूः, स्त्री, (तनु + ऊङ् ।) शरीरम् । इत्य-

मरः । २ । ६ । ७१ ॥

तनूकृतः, त्रि, (अतनुस्तनुरकारि । कृ + कर्म्मणि

क्तः ।) तष्टः । अल्पीकृतः । इत्यमरः । ३ । १ । ९९ ॥

तनूजः, पुं, (तन्वाः शरीरात् जायते इति । जन +

डः ।) पुत्त्रः । इति जटाधरः ॥ (यथा, रघुः ।
५ । ५३ ।
“अवेहि गन्धर्व्वपतेस्तनूजं
प्रियंवदं मां प्रियदर्शनस्य ॥”
स्त्री, कन्या ॥)

तनूनपं, क्ली, (तन्वा ऊनं कृशं पातीति । पा +

कः ।) घृतम् । इति शब्दचन्द्रिका ॥

तनूनपात्, [द्] पुं, (तनूनपं घृतं अत्तीति । अद् +

विच् क्विबित्येके । यद्बा, तनूं स्वशरीरं न पात
यतीति । पत + णिच् + क्विप् । “नभ्राण्नपात् ।”
६ । ३ । ७५ । इति निपातितः ।) अग्निः ।
(यथा, ऋग्वेदे । ३ । २९ । ११ ।
“तनूनपादुच्यते गर्भ आसुरो
नराशंसो भवति यद्बिजायते ॥”)
चित्रकवृक्षः । इत्यमरः । २ । ४ । ८० ॥

तनूरुहं, क्ली, (तन्वां रोहतीति । रुह + कः ।)

रोम । (यथा, भागवते । ७ । ८ । २२ ।
“चन्द्रांशुगौरैश्छुरितं तनूरुहै-
र्विष्वग्भुजानीकशतं नखायुधम् ॥”
तथाच शिवपुराणे । वायुसंहितायाम् । १ । १४ ।
“नमश्चकार तं दृष्ट्वा हृष्टसर्व्वतनूरुहः ॥”)
पतत्रम् । इति मेदिनी । हे, ३० ॥

तनूरुहः, पुं, (तन्वाः शरीरात् रोहति उत्-

पद्यते । रुह + कः ।) पुत्त्रः । गरुत् । (यथा,
बृहत्संहितायाम् । ६३ । १ ।
“कुक्कुटस्त्वृजुतनूरुहाङ्गुलि-
स्ताम्रवक्त्रनखचूलिकः सितः ॥”)
लोम । इति हेमचन्द्रः ॥

तनूह्नदः, पुं, (तन्वाः तन्वां वा ह्रद इव ।) पात्युः ।

इति त्रिकाण्डशेषः ॥

तन्च, उ इतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-

सकं-सेट् ।) उ, तञ्चित्वा तक्त्रा । इति दुर्गादासः ॥

तन्च, उ घ सङ्कुचि । इति कविकल्पद्रुमः ॥ (रुधां-

परं-अकं-सेट् ।) उ, तञ्चित्वा तक्त्रा । ध,
तनच्मि व्योम विस्तृतम् । इति दुर्गादासः ॥

तन्ज, उ घ सङ्कोचे । इति कविकल्पद्रुमः ॥ (रुधां-

परं-अकं-सेट् ।) उ, तञ्जित्वा तक्त्वा । ध, तनज्मि
व्योम विस्तृतम् । इति दुर्गादासः ॥

तन्तुः, पुं, (तन्यते विस्तीर्य्यते इति तनोति वा । तन

+ “सितनिगमीति ।” उणां १ । ७० । इति
तुन् ।) सूत्रम् । इत्यमरः । २ । १० । २८ ॥ (यथा,
महाभारते । १२ । ४७ । २२ ।
“यस्मिन् नित्यं तते तन्तौ दृढे स्रगिव तिष्ठति ॥”)
ग्राहः । इति हेमचन्द्रः ॥ सन्ततिः । यथा, --
“अन्तःस्थः सर्व्वभूतानामात्मा योगेश्वरो हरिः ।
स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे ॥”
इति श्रीभागवतम् ॥

तन्तुकः, पुं, (तन्तुरिव तन्तुनेव वा कायतीति । कै +

कः । तन्तु + संज्ञायां कन् वा ।) तन्तुभः ।
सर्षपः । इत्यमरटीकायां रमानाथः ॥ (यथा,
सुश्रुते कल्पस्थाने ४ अध्याये । “पिङ्गलस्तन्तुक-
पुष्पपाण्डुः षडगोऽग्निको वभ्रुकषायः ॥”)

तन्तुकाष्ठं, क्ली, (तन्तुसमन्वितं काष्ठम् ।) तूली ।

इति शब्दरत्नावली ॥ ताँतेर काट इति भाषा ॥

तन्तुकी, स्त्री, (तन्तुरिव कायतीति । कै + कः ङीप्

च ।) नाडी । इति राजनिर्घण्टः ॥

तन्तुकीटः, पुं, (तन्तूत्पादकः कीट इति शाक-

पार्थिववत् मध्यपदलोपी समासः ।) कोषकारः ।
इति जटाधरः ॥ गुटिपोका इति भाषा ॥

तन्तुणः, पुं, (तन + बाहुलकात् तुनन् निपातनात्

णत्वं दन्त्यनकारान्त इत्येके ।) ग्राहः । इति
हेमचन्द्रः ॥ हाङ्गर इति माषा ॥
पृष्ठ २/५८४

तन्तुपर्व्व, [न्] क्ली, (तन्तुः यज्ञोपवीतिः तत्प्रदा-

नाय यत् पर्व्व तिथिरित्यर्थः ।) परमेश्वरोप-
वीतिदानतिथिः । सा श्रावणी पूर्णिमा । इति
तिथ्यादितत्त्वम् ॥

तन्तुनागः, पुं, (तन्तुर्नाग इव ।) ग्राहः । इति

हेमचन्द्रः ॥

तन्तुनिर्यासः, पुं, (तन्तुनेव निर्य्यासः तन्तुवत् निर्य्यासो

यस्य वा ।) तालः । इति शब्दरत्नावली ॥

तन्तुभः, पुं, (तन्तुरिव भातीति । भा + कः ।) सर्षपः ।

इत्यमरः । २ । ९ । १७ ॥ वत्सः । इति जटाधरः ॥

तन्तुरं, क्ली, (तन्तुरस्त्यस्येति । तन्तु + कुञ्जादित्वात्

रः ।) मृणालम् । इति शब्दरत्नावली ॥

तन्तुलं, क्ली, (तन्तुरम् । रस्य लत्वम् ।) मृणा-

लम् । इति हेमचन्द्रः ॥

तन्तुवापः, पुं, (तन्तून् वपतीति । वप + “कर्म्म-

ण्यण् ।” ३ । २ । १ । इति अण् ।) तन्त्रवायः ।
इति जटाधरः ॥ ताँति इति भाषा ॥ तन्त्रम् ।
इति शब्दमाला ॥ ताँत् इति भाषा ॥

तन्तुवायः, पुं, (तन्तून् वयति विस्तारयति जाला-

कारेणेति । वे + “संज्ञायाञ्च ।” ६ । २ । ७७ ।
इत्यण् ।) लूता । इत्यमरः । २ । ६ । १३ ॥ (तन्तून्
वयतीति । वे + “कर्म्मण्यण् ।” ३ । २ । १ ।
इत्यण् ।) तन्त्रवायः । इति शब्दरत्नावली ॥
(यथा, मनुः । ८ । ३९७ ।
“तन्तुवायो दशपलं दद्यादेकपलाधिकम् ॥”)

तन्तुविग्रहा, स्त्री, (विगृह्यतेऽसौ । वि + ग्रह +

अप् । विग्रहो देहः । तन्तुभिनिर्म्मितो विग्रहो-
ऽस्याः ।) कदली । इति त्रिकाण्डशेषः ॥

तन्तुशाला, स्त्री, (तन्तुवपनार्थं या शाला गृह-

मित्यर्थः ।) तन्तुवपनगृहम् । ताँत्घर इति
भाषा । तत्पर्य्यायः । गर्त्तिका २ । इति हेम-
चन्द्रः ॥

तन्तुसन्ततं, त्रि, (तन्तुनातन्तुभिर्व्वा सन्ततं व्याप्तम् ।)

सूत्रविस्तृतवस्त्रादि । सिङ्गान कापड इति
भाषा । तत्पर्य्यायः । ऊतम् २ स्यूतम् ३
उतम् ४ । इत्यमरः । ३ । १ । १०१ ॥

तन्तुसारः, पुं, (तन्तुः एव सारो यत्र ।) गुवाक-

वृक्षः । इति त्रिकाण्डशेषः ॥

तन्त्रं, क्ली, (तनोति तन्यते इति वा । तन +

कर्त्त्रादौ यथायथं ष्ट्रन् । तत्रि कुटुम्बधारणे +
घञ् वा ।) कुटुम्बकृत्यम् । (कुलप्रतिष्ठादिक-
स्थितिः । यथा, महाभारते । १३ । ४८ । ६ ।
“सर्व्वानुपायानथ सम्प्रधाय
समुद्धरेत् स्वस्य कुलस्य तन्त्रम् ॥”)
सिद्धान्तः । ओषधिः । प्रधानम् । तन्त्रवायः ।
परिच्छदः । श्रुतिशाखाविशेषः । हेतुः । उभ-
यार्थप्रयोजकम् । इतिकर्त्तव्यता । इति मेदिनी ॥
राष्ट्रम् । परच्छन्दः । करणम् । अर्थसाधकः ।
तन्तुः । सैन्यम् । स्वराष्ट्रचिन्ता । इति हेम-
चन्द्रः ॥ (यथा, माघे । २ । ८८ ।
“तन्द्रावापविदा योगैर्मण्डलान्यधितिष्ठता ॥”)
प्रबन्धः । इति शब्दरत्नावली ॥ शपथः । इति
धरणिः ॥ धनम् । गृहम् । वपनसाधनम् ।
(यथा, महाभारते । १ । ३ । १४० । “तदापश्यत्
स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्तौ ॥”)
कुलम् । इति नानार्थध्वनिमञ्जरी । (शास्त्रम् ।
इति विश्वः । यथा, देवीभागवते । २ । ११ । १९ ।
“अवैरज्ञमतन्त्रज्ञं बालचेष्टासमन्वितम् ॥”
व्यवहारः । नियमादिः । यथा, महाभारते ।
१ । १०३ । २६ ।
“शुत्वा त्वं प्रतिपद्यस्व प्राज्ञैः सह पुरोहितैः ।
आपद्धर्म्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ॥”)
शिवोक्तशास्त्रम् । तच्च चतुःषष्टिसंख्यकम् ।
यथा, --
“सिद्धीश्वरं महातन्त्रं कालीतन्त्रं कुलार्णवम् ।
ज्ञानार्णवं नीलतन्त्रं फेत्कारीतन्त्रमुत्तमम् ॥
देव्यागमं उत्तराख्यं श्रीक्रमं सिद्धियामलम् ।
मत्स्यसूक्तं सिद्धसारं सिद्धिसारस्वतं तथा ॥
वाराहीतन्त्रं देवेशि ! योगिनीतन्त्रमुत्तमम् ।
गणेशविमर्षिणी तन्त्रं नित्यातन्त्रं शिवागमम् ॥
चामुण्डाख्यं महेशानि ! मुण्डमालाख्यतन्त्रकम् ।
हंसमाहेश्वरं तन्त्रं निरुत्तरमनुत्तमम् ॥
कुलप्रकाशकं देवि ! कल्पं गान्धर्व्वकं शिवे ! ।
क्रियासारं निबन्धाख्यं स्वतन्त्रं तन्त्रमुत्तमम् ॥
सम्मोहनं तन्त्रराजं ललिताख्यं तथा शिवे ! ।
राधाख्यं मालिनीतन्त्रं रुद्रयामलमुत्तमम् ॥
बृहत्श्रीक्रमं तन्त्रं गवाक्षं सुकुमुदिनी ।
विशुद्धेश्वरतन्त्रञ्च मालिनीविजयं तथा ॥
समयाचारतन्त्रञ्च भैरवीतन्त्रमुत्तमम् ।
यीगिनीहृदयं तन्त्रं भैरवं परमेश्वरि ! ॥
सनत्कुमारकं तन्त्रं योनितन्त्रं प्रकीर्त्तितम् ।
तन्त्रान्तरञ्च देवेशि ! नवरत्नेश्वरं तथा ॥
कुलचूडामणितन्त्रं भावचूडामणीयकम् ।
तन्त्रदेवप्रकाशञ्च कामाख्यानामकं तथा ॥
कामधेनु कुमारी च भूतडामरसंज्ञकम् ।
मालिनीविजयं तन्त्रं यामलं ब्रह्मयामलम् ॥
विश्वसारं महातन्त्रं महाकालं कुलामृतम् ।
कुलोड्डीशं कुब्जिकाख्यं यन्त्रचिन्तामणीयकम् ॥
एतानि तन्त्ररत्नानि सफलानि युगे युगे ।
कालीविलासकादीनि तन्त्राणि परमेश्वरि ! ॥
कालकल्पे सुसिद्धानि अश्वक्रान्तासु भूमिषु ।
महाचीनादितन्त्राणि अविकल्पे महेश्वरि ! ॥
सुसिद्धानि वरारोहे ! रथक्रान्तासु भूमिषु ॥”
इति महासिद्धिसारस्वतम् ॥ * ॥
अपि च ।
“चतुःषष्टिश्च तन्त्राणि यामलादीनि पार्व्वति ! ।
सफलानीह वाराहे ! विष्णुक्रान्तासु भूमिषु ॥
कल्पभेदेन तन्त्राणि कथितानि च यानि च ।
पाषण्डमोहनायैव विफलानीह सुन्दरि ! ॥”
इति महाविश्वसारतन्त्रम् ॥
तत्रागमस्य लक्षणं यथा, --
“सृष्टिश्च प्रलयश्चैव देवतानां यथार्च्चनम् ।
साधनञ्चैव सर्व्वेषां पुरश्चरणमेव च ॥
षट्कर्म्मसाधनञ्चैव ध्यानयोगश्चतुर्व्विधः ।
सप्तभिर्लक्षणैर्युक्तमागमं तद्विदुर्बुधाः ॥” * ॥
यामलस्य लक्षणम् ।
“सृष्टिश्च ज्योतिषाख्यानं नित्यकृत्यप्रदीपनम् ।
क्रमसूत्रं वर्णभेदो जातिभेदस्तथैव च ॥
युगधर्म्मश्च संख्यातो यामलस्याष्टलक्षणम् ॥” * ॥
तन्त्रस्य लक्षणम् ।
“सर्गश्च प्रतिसर्गश्च मन्त्रनिर्णय एव च ।
देवतानाञ्च संस्थानं तीर्थानाञ्चैव वर्णनम् ॥
तथैवाश्रमधर्म्मश्च विप्रसंस्थानमेव च ।
संस्थानञ्चैव भूतानां यन्त्राणाञ्चैव निर्णयः ॥
उत्पत्तिर्व्विबुधानाञ्च तरूणां कल्पसंज्ञितम् ।
संस्थानं ज्योतिषाञ्चैव पुराणाख्यानमेव च ॥
कोषस्य कथनञ्चैव व्रतानां परिभाषणम् ।
शौचाशौचस्य चाख्यानं नरकाणाञ्च वर्णनम् ॥
हरचक्रस्य चाख्यानं स्त्रीपुंसोश्चैव लक्षणम् ।
राजधर्म्मो दानधर्म्मो युगधर्म्मस्तथैव च ॥
व्यवहारः कथ्यते च तथा चाध्यात्मवर्णनम् ॥
इत्यादिलक्षणैर्युक्तं तन्त्रमित्यभिधीयते ॥” * ॥
तस्य माहात्म्यम् ।
“विष्णुर्व्वरिष्ठो देवानां ह्नदानामुदधिस्तथा ।
नदीनाञ्च यथा गङ्गा पर्व्वतानां हिमालयः ॥
अश्वत्थः सर्व्ववृक्षाणां राज्ञामिन्द्रो यथा वरः ।
देवीनाञ्च यथा दुर्गा वर्णानां ब्राह्मणो यथा ॥
तथा समस्तशास्त्राणां तन्त्रशास्त्रमनुत्तमम् ॥
सर्व्वकामप्रदं पुण्यं तन्त्रं वै वेदसम्मितम् ।
कीर्त्तनं देवदेवस्य हरस्य मतमेव च ॥
पावनं श्रद्दधानानामिह लोके परत्र च ॥” * ॥
तस्य श्लोकसंख्या यथा, --
“न शक्यं विस्तराद्बक्तुमपि वर्षशतैरपि ।
संक्षेपाद्वै प्रवक्ष्यामि लोककल्पोक्तवर्त्मना ॥
दिवि देवे नवलक्षं पाताले ब्रह्मशासने ॥
लक्षमात्रं भारते च क्षितौ तन्त्राणि यानि च ।
आगमं त्रिविधं प्रोक्तं चतुर्थमैश्वरं स्मृतम् ॥
कल्पश्चतुर्व्विधः प्रोक्तः आगमो डामरस्तथा ।
यामलश्च तथा तन्त्रं तेषां भेदाः पृथक पृथक् ॥
मुक्तकाख्यं प्रपञ्चश्च सारदाख्यञ्च नारदः ।
महार्णवश्च कपिलो योगः कल्पः कपिञ्जलः ॥
अमृतशुद्धिर्वीरश्च सिद्धसंवरणन्तथा ।
प्रथमोऽष्टसहस्रन्तु श्लोका दश प्रकीर्त्तिताः ॥
द्बितीयो मुक्तकस्तत्र षट्सहस्राणि संख्यया ।
श्लोकाः शतार्द्धसंख्यातास्तृतीयस्त्रिसहस्रकः ॥
शतद्बयं साधिकञ्च श्लोकानां पञ्चविंशतिः ।
त्रिंशोत्तरसहस्राणि श्लोकानां भानुसंख्यया ॥
प्रपञ्चे प्रथमे तन्त्रे द्बितीये वसुसंख्यया ।
सहस्राणि तथा श्लोकाः सप्तविंशतिसंख्यया ॥
भूतनेत्रसहस्राणि तृतीये पञ्चसहस्रकम् ।
शतत्रयं पङ्क्तिश्लोकाः प्रपञ्चः कथितस्त्रिधा ॥
कलासंख्या सहस्राणि शारदायाः प्रकीर्त्तिताः ।
पञ्चविंशाधिकाः श्लोका वसुश्लोकाश्च नारदे ॥
विंशतिश्च सहस्राणि षट्सहस्राणि संख्यया ।
वसुश्लोकाश्च कथिताः कपिले श्लोकसंख्यया ॥
त्रयोदशसहस्राणि कालोत्तरशतत्रयम् ।
पृष्ठ २/५८५
श्लोकसंख्यासमुद्दिष्टं योगे कल्पे च संख्यया ॥
वाणसंख्यासहस्राणि श्लोका नवतिः कीर्त्तिताः ।
श्लोकानान्तु सहस्राणि अष्टाविंशतिसंख्यया ॥
श्लोकाश्च भानुसंख्यातास्तन्त्रेऽपि च कपिञ्जले ।
अमृतशुद्धौ सहस्राणि पञ्चश्लोकाधिकानि च ॥
पञ्चैव कथिता नेत्रसंख्यातानि यथाथतः ।
वीरागमे षडधिकानि शतानि परिसंख्यया ॥
सहस्राणि च तावन्ति श्लोकानान्तु यथार्थतः ।
पञ्चाधिकसहस्राणि श्लोकानामृतुसंख्यया ॥
सिद्धसम्बरणोक्तानि ऐश्वरेण यथा पुरा ॥ * ॥
डामरः षड्विधो ज्ञेयः प्रथमो योगडामरः ॥
श्लोकास्तत्र त्रयस्त्रिंशत् तथा पञ्चशतानि च ।
त्रिविंशतिसहस्राणि श्लोकानि चेह संख्यया ।
एकादशसहस्राणि संख्याताः शिवडामरे ॥
श्लोकाः सप्तैव निश्चित्य ईश्वरेणैव भाषिताः ।
तावत्श्लोकसहस्राणि पञ्चश्लोकशतानि च ।
गुणोत्तराणि दुर्गाया डामरे कथितानि च ॥
नवश्लोकसहस्राणि नवश्लोकशतानि च ।
सारस्वते तथा श्लोकाः पञ्चैव परिकीर्त्तिताः ॥
स्वरसंख्यासहस्राणि श्लोकानां ब्रह्मडामरे ।
पञ्चोत्तरशतान्यत्र संख्यातानि शिवेन तु ॥
षष्टिः श्लोकसहस्राणि गान्धर्व्वे डामरोत्तमे ।
श्लोकाश्च षष्टिसंख्याता ब्रह्मणाव्यक्तयोनिना ॥
यामलाः षट्च संख्यातास्तत्रादावादियामले ।
द्बात्रिंशच्च सहस्राणि त्रयस्त्रिंशत्शतानि च ॥
द्बितीये ब्रह्मसंज्ञे ते द्वाविंशतिश्च संख्यया ।
सहस्राणि शतान्यत्र तान्येव कथितानि च ॥
तावत्संख्यासहस्राणि शतानि परिसंख्यया ।
विंशतिश्च तथा संख्या श्लोकाश्च विष्णुयामले ॥
कालसंख्यासहस्राणि वेदसंख्याशतानि च ।
पञ्चषष्टिस्तथा श्लोकाः कनिष्ठे रुद्रयामले ॥
नवश्लोकसहस्राणि त्रयोदशशतानि च ।
द्बाविंशतिस्तथा श्लोका गणेशे यामलोत्तमे ॥
रविसंख्यासहस्राणि आदित्याख्ये तु यामले ।
तन्त्रे नीलपताकायां सहस्राणि च पञ्च च ॥
पञ्चविंशतिश्लोकाश्च कथिता वामकेश्वरे ।
त्रयोदशसहस्राणि द्बे शते विंशतिस्तथा ॥
श्लोका मृत्युञ्जये तन्त्रे संख्यातास्तन्त्रवेदिभिः ।
गजसंख्यासहस्राणि त्रीणि संख्याशतानि च ॥
सप्तश्लोकास्तथैवात्र तन्त्रे योगार्णवोत्तमे ।
दशश्लोकसहस्राणि तावन्त्येव शतानि च ॥
मायाख्ये च महातन्त्रे यथार्थतः प्रकीर्त्तिताः ।
पञ्चश्लोकसहस्राणि तावन्त्येव शतानि च ॥
शतार्द्धसंख्यया श्लोका दक्षिणामूर्त्तितन्त्रके ।
दशश्लोकसहस्राणि तावन्त्येव शतानि च ॥
त्रयोदश तथा श्लोकाः कालिकाख्ये च तन्त्रके ।
कामेश्वर्य्यास्तन्त्रवरे सहस्राणि त्रयं महत् ॥
श्लोकानां संख्यया चात्र तन्त्रराजे च संख्यया ।
नवश्लोकसहस्राणि नवश्लोकशतानि च ॥
द्वाविंशति सहस्राणि हरगौर्य्योश्च तन्त्रके ।
तथा च विंशतिः श्लोकास्तन्त्रेऽस्मिन् परि-
कीर्त्तिताः ।
अर्कसंख्यासहस्राति द्बितीये तन्त्रवेदिभिः ।
अष्टाविंशतिश्च श्लोकाः सङ्ख्यातास्तन्त्रनिर्णये ॥
कुब्जिकाख्ये महातन्त्रे श्लोकाश्च दशसंख्यया ।
सहस्राणि तथा सप्तसङ्ख्यातानि मनीषिभिः ॥
द्वितीये षट्सहस्राणि तदर्द्धञ्च कनिष्ठके ।
अर्कसंख्यासहस्राणि तथाङ्कुशशतानि च ॥
तावद्देव्या महातन्त्रे सङ्ख्यातानि द्बिजोत्तमैः ।
द्बाविंशतिसहस्राणि द्बाविंशतिशतानि च ॥
कात्यायन्यास्तु तन्त्रस्य सङ्ख्यातानि मनीषिभिः ।
वसुश्लोकसहस्राणि तावन्त्येव शतानि च ॥
प्रत्यङ्गिंरायास्तन्त्रे च निश्चितानि यथार्थतः ।
भूतसङ्ख्यासहस्राणि तथाहि तच्छतानि च ॥
महालक्ष्म्यास्तन्त्रराजे पञ्चश्लोकाश्च कीर्त्तिताः ।
गजसंख्यासहस्राणि श्लोकाश्च ऋतुसङ्ख्यया ॥
त्रिपुरार्णवे महातन्त्रे लिखिताः परमर्षिभिः ।
सरस्वत्याः सहस्रे द्वे द्वे शते सङ्ख्यया स्मृते ॥
पञ्चश्लोकास्तथैवात्र विज्ञातव्या द्विजातिभिः ।
द्वाविंशतिसहस्राणि आद्ये तन्त्रोत्तमोत्तरे ॥
अङ्कसङ्ख्याशतान्यत्र श्लोकाः पञ्चदशैव तु ।
द्बाविंशतिसहस्राणि तथा बाणशतानि च ।
द्बात्रिंशच्च तथा श्लोका योगिन्यास्तन्त्रराजके ।
द्बितीये षट्सहस्राणि तथा च त्रिशतानि च ॥
त्रयः श्लोकास्तथैवात्र वाराह्यास्तन्त्र उत्तमे ।
ऊर्म्मिसङ्ख्यासहस्राणि तत्त्वसङ्ख्याशतानि च ॥
गवाक्षे तन्त्रराजेऽस्मिन् श्लोका हि तत्त्वसङ्ख्यया ।
वर्णसङ्ख्यासहस्राणि द्वे शते परिनिश्चिते ॥
श्लोकास्त्रयश्च सङ्ख्यातास्तन्त्रे नारायणीयके ।
वेदसङ्ख्यासहस्राणि तान्येव च शतानि च ॥
श्लोका नवतिसङ्ख्याता मृडानीतन्त्रराजके ।
तृतीये त्रिसहस्राणि त्रिशतानि कनिष्ठके ॥
त्रिंशत्श्लोकाश्च सङ्ख्याता ज्ञातव्यास्तन्त्र-
वेदिभिः ॥”
उपतन्त्राणि यथा, --
“बौद्धोक्तान्युपतन्त्राणि कापिलोक्तानि यानि च ।
अद्भुतानि च एतानि जैमिन्युक्तानि यानि च ॥
वशिष्ठः कपिलश्चैव नारदो गर्ग एव च ।
पुलस्त्यो भार्गवः सिद्धो याज्ञवल्क्यो भृगुस्तथा ॥
शुक्रो बृहस्पतिश्चैव अन्ये ये मुनिसत्तमाः ।
एभिः प्रणीतान्यन्यानि उपतन्त्राणि यानि च ॥
न सङ्ख्यातानि तान्यत्र धर्म्मविद्भिर्म्महात्मभिः ।
सारात्सारतराण्येव सङ्ख्यातानि निबोधत ॥”
इति वाराहीतन्त्रम् ।
(आगमतत्त्वविलासोक्ततन्त्रनामानि यथा, --
“स्वतन्त्रतन्त्रं फेत्कारीतन्त्रमुत्तरतन्त्रकम् ।
नीलतन्त्रं वीरतन्त्रं कुमारीतन्त्रमुज्ज्वलम् ॥
कालीनारायणीतन्त्रे तारिणीतन्त्रमुत्तमम् ।
बालातन्त्रञ्च समयातन्त्रं भैरवतन्त्रकम् ॥
भैरवीत्रिपुरातन्त्रे वामकेश्वरतन्त्रकम् ।
कुक्कुटेश्वरतन्त्रञ्च मातृकातन्त्रमेव च ॥
सनत्कुमारतन्त्रञ्च विशुद्धेश्वरतन्त्रकम् ।
सम्मोहनाख्यतन्त्रञ्च गौतमीयञ्च तन्त्रकम् ॥
बृहद्गोतमीयतन्त्रं भूतभैरवतन्त्रकम्
चामुण्डापिङ्गलातन्त्रे वाराहीतन्त्रकं तथा ॥
मुण्डमालाख्यतन्त्रञ्च योगिनीतन्त्रमुत्तमम् ।
मालिनीविजयं तन्त्रं तन्त्रं स्वच्छन्दभैरवम् ॥
महातन्त्रं शक्तितन्त्रं तन्त्रं चिन्तामणिं परम् ।
उन्मत्तभैरवं तन्त्रं त्रैलोक्यसारतन्त्रकम् ॥
विश्वसाराह्वयं तन्त्रं तथा तन्त्रामृताभिधम् ।
महाफेत्कारीयतन्त्रं वायवीयञ्च तोडलम् ॥
मालिनीललितातन्त्रे त्रिशक्तितन्त्रकं तथा ।
राजराजेश्वरीतन्त्रं महामोहस्वरोत्तरम् ॥
गवाक्षतन्त्रं गान्धर्व्वं तन्त्रं त्रैलोक्यमोहनम् ।
हंसमाहेश्वरं हंसपरमेश्वरतन्त्रकम् ॥
कामधेन्वाख्यतन्त्रञ्च तन्त्रं वर्णविलासकम् ।
मायातन्त्रं मन्त्रराजं कुब्जिकातन्त्रमुत्तमम् ॥
विज्ञानलतिकां लिङ्गागमं कालोत्तरं तथा ॥”
  • * * *
“ब्रह्मजामलकञ्चादिजामलं रुद्रजामलम् ॥
बृहज्जामलकं सिद्धजामलं कल्पसूत्रकम् ।
मत्स्यसूक्तं कल्पसूक्तं कामराजं शिवागमम् ॥
उड्डीशञ्च कुलोड्डीशमुड्डीशं वीरभद्रकम् ।
भूतडामरकं तद्बत् डामरं यक्षडामरम् ॥
कालिकाकुलसर्व्वस्वं कुलसर्व्वस्वमेव च ।
कुलचूडामणिं दिव्यं कुलसारं कुलार्णवम् ॥
कुलामृतकुलावल्यौ तथा कालीकुलार्णवम् ।
कुलप्रकाशं वाशिष्ठं सिद्धसारस्वतं तथा ॥
योगिनीहृदयं कालीहृदयं मातृकार्णवम् ।
योगिनीजालकुरकं तथा लक्ष्मीकुलार्णवम् ॥
तारार्णवं चन्द्रपीठं मेरुचन्द्रं चतुःशतीम् ।
तत्त्वबोधं महोग्रञ्च स्वच्छन्दसारसंग्रहम् ॥
ताराप्रदीपं सङ्केतचन्द्रोदयमतिस्फुटम् ।
षट्त्रिंशत्तत्त्वकं लक्ष्यनिर्णयं त्रिपुरार्णवम् ॥
विष्णुधर्म्मोत्तरं मन्त्रदर्पणं वैष्णवामृतम् ।
मानसोल्लासकं पूजाप्रदीपं भक्तिमञ्जरीम् ॥
भुवनेश्वरीं पारिजात प्रयोगसारमुत्तमम् ।
कामरत्नं क्रियासारं तथैवागमदीपिकाम् ॥
भावचूडामणिग्रन्थं तन्त्रचूडामणिं परम् ।
बृहच्छ्रीक्रमसंज्ञञ्च तथा श्रीक्रमसंज्ञकम् ॥
सिद्धान्तशेखरं ग्रन्थं तां गणेशविमर्शिनीम् ।
मन्त्रमुक्तावलीं तत्त्वकौमुदीं तन्त्रकौमुदीम् ॥
मन्त्रतन्त्रप्रकाशाख्यं श्रीरामार्च्चनचन्द्रिकाम् ।
शारदातिलकं ज्ञानार्णवं सारसमुच्चयम् ॥
कल्पद्रुमं ज्ञानमालां पुरश्चरणचन्द्रिकाम् ।
आगमोत्तरकं तत्त्वसागरं सारसंग्रहम् ॥
देवप्रकाशिनीं तन्त्रार्णवञ्च क्रमदीपिकाम् ।
तारारहस्यं श्यामाया रहस्यं तन्त्ररत्नकम् ॥
तन्त्रप्रदीपं ताराया विलासं विश्वमातृकाम् ।
प्रपञ्चसारं तं तन्त्रसारं रत्नावलीं तथा ॥”
कालतन्त्रम् । वासनाजालम् । यथा, महा-
भारते । १ । ३ । १४२ ।
“तन्त्रञ्चेदं विश्वरूपे युवत्यौ
वयतस्तन्तून् सततं वर्त्तयन्तौ ॥”
“तन्त्रं कालतन्त्रं विश्वोपादाननिमित्तादिकारण-
समूहसम्बन्धम् ॥” इति दुर्घटार्थप्रकाशिन्यां
पृष्ठ २/५८६
विमलबोधः ॥ “इह तन्त्रं वासनाजालम् ।”
इति नीलकण्ठः ॥)

तन्त्रकं, क्ली, (तन्त्रात् सूत्रवापात् अचिराप-

हृतम् । तन्त्र + “तन्त्रादचिरापहृते । ५ । २ ।
७१ । इति कन् ।) नूतनवस्त्रम् । इत्यमरः ।
२ । ६ । ११२ ॥

तन्त्रकाष्ठं, क्ली, (तन्त्रस्थं काष्ठम् ।) तन्त्रवायस्य

तुरी । इति त्रिकाण्डशेषः ॥

तन्त्रता, स्त्री, (तन्त्रस्य भावः । तन्त्र + तल् ।)

अनेकमुद्दिश्य सकृत्प्रवृत्तिः । यथा । “आग्नेया-
ष्टाकपालेन्द्रदध्यैन्द्रपयोयागानां त्रयाणां आग्ने-
याष्टाकपालोपांशुयागाग्नीसोमीयैकादशकपाल-
यागानां त्रयाणां सकृत् सकृदनुष्ठितेन प्रया-
जाद्यङ्गेनोपकारः सिध्यति ।” “तथा नानाब्रह्म-
वधसत्त्वे सर्व्वोद्देशेन सकृत् प्रायश्चित्ते कृते ब्रह्म-
वधजन्यपापनाशः ।” “तन्त्रताया हेतुश्च ।
अदृष्टार्थैकजातीयकर्म्मणः कालदेशकर्त्रादीनां
प्रयोगानुबन्धवैधहेतुभूतानामभेदे उद्देश्य-
विशेषाग्रह इति । एवञ्च ।
‘स्नातोऽधिकारी भवति दैवे पैत्रे च कर्म्मणि ।
पवित्राणां तथा जाप्ये दाने च विधिदर्शितः ॥’
इति विष्णूक्तम् ॥
‘अस्नात्वा नाचरेत् कर्म्म जपहोमादि किञ्चन ।’
इति दक्षोक्तञ्च क्रियाङ्गस्नानं कर्त्तृसंस्कार-
द्वारैव तद्दिनकर्त्तव्याशेषकर्म्मार्थमेकमेव न तु
प्रतिकर्म्म कर्त्तव्यम् ।” इति प्रायश्चित्ततत्त्वम् ॥

तन्त्रवापः, पुं, (तन्यते विस्तीर्य्यते इति तन्त्रं

सूत्रम् । तत् वपतीति । वप + “कर्म्मण्यण् ।”
३ । २ । १ । इत्यण् ।) तन्त्रवायः । तन्त्रे,
पुं क्ली । इति शब्दरत्नावली ॥

तन्त्रवायः, पुं, (तन्त्रेण वयतीति । वे ञ तन्तुसन्ताने

+ “ह्वावामश्च ।” ३ । २ । २ । इत्यण् ।) वर्ण-
सङ्करजातिविशेषः । ताँति इति भाषा । अस्योत्-
पत्तिर्य्यथा, पराशरपद्धतौ ।
“ताम्रकुट्टाच्छङ्खकार्य्यां मणिकारश्च जायते ।
मणिकारात् ताभ्रकुट्ट्यां मणिबन्धोऽप्यजायत ।
मणिवन्धान्मणिकार्य्यां तन्त्रवायाश्च जग्मिरे ॥”
तत्पर्य्यायः । कुविन्दः २ । इत्यमरः । २ । १० । ६ ॥
तन्त्रवापः ३ । इति भरतः ॥ तन्तुवापः ४ । इति
जटाधरः ॥ तन्तुवायः ५ । इति शब्दरत्नावली ॥
लूता । इत्यमरटीकायां स्वामी ॥

तन्त्रिका, स्त्री, (तन्त्री एव । तन्त्री + स्वार्थे कन् ।

पूर्ब्बह्नस्वश्च ।) गुडूची । इत्यमरः । २ । ४ । ८२ ॥
(यथास्याः पर्य्यायाः ।
“गुडूचीमधुपर्णी स्यादमृतामृतवल्लरी ।
छिन्ना च्छिन्नरुहा च्छिन्नोद्भवा वत्सादनीति च ॥
जीवन्ती तन्त्रिका सोमा सोमवल्ली च कुण्डली ।
चक्रलक्षणिका वीरा विशल्या च रसायनी ॥
चन्द्रहासी वयस्था च मण्डली देवनिर्म्मिता ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

तन्त्रिपालकः, पुं, जयद्रथराजः । इति शब्द-

माला ॥

तन्त्रीः, स्त्री, (तन्त्रयति मोहयति लोकानिति ।

तन्त्र + “अवितॄस्तृतन्त्रिभ्य ईः ।” उणां । ३ ।
१५८ । इति ईः ।) वीणागुणः । (यथा, रामा-
यणे । २ । ३९ । २९ ।
“नातन्त्रीर्विद्यते वीणा नाचक्रो विद्यते रथः ॥”
बीणा । यथा, तत्रैव । १ । २ । १८ ।
“पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः ।
शोकार्त्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥”)
गुडूची । देहसिरा । इति मेदिनी ॥ नदी-
विशेषः । युवतीभेदः । इति शब्दरत्नाबली ॥
रज्जुः । इति हेमचन्द्रः ॥ (यथा, मनुः । ४ । ३८ ।
“न लङ्घयेद्वत्सतन्त्रीं न प्रधावेच्च वर्षति ।
न चोदके निरीक्षेत स्वं रूपमिति धारणा ॥”)

तन्द्रवायः, पुं, (तन्त्रवायः निपातनात् तस्य दः ।)

तन्त्रवायः । इत्यमरटीकायां रायमुकुटः ॥

तन्द्रा, स्त्री, (तत् द्रातीति । तत् + द्रा + कः ।

निद्रातन्द्रेति नान्तत्वं निपात्यते । यद्बा, तन्द्र
अवसादे + भावे घञ् ततष्टाप् ।) निद्रा ।
आलस्यम् । इति हेमचन्द्रः ॥ (यथा, हठ-
योगप्रदीपिकायाम् । ३ । ३९ ।
“न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा ॥”)
तस्या निदानं यथा । “तमोवातकफात्तन्द्रा ।”
इति । लक्षणञ्च ।
“इन्द्रियार्थेष्वसंवित्तिर्गौरवं जृम्भणं क्लमः ।
निद्रार्त्तस्येव यस्येहा तस्य तन्द्रा विनिर्द्दिशेत् ॥”
इति माधवकरः ॥
(कारणपूर्ब्बकमस्याः सम्प्राप्तिर्लक्षणं चिकित्-
सितञ्च यथा, चरके सिद्धिस्थाने नवमेऽध्याये ।
“मधुरस्निग्धगुर्व्वम्लसेवनाच्चिन्तनाद्भयात् ।
शोकाद्व्याध्यनुषङ्गाच्च वायुनोदीरितः कफः ॥
यदासौ समवस्कन्द्य हृदयं हृदयाश्रयान् ।
समावृणोति ज्ञानादींस्तदा तन्द्रोपजायते ॥
हृदये व्याकुलीभावो वाक्चेष्टेन्द्रियगौरवम् ।
मनोबुद्ध्यप्रसादश्च तन्द्राया लक्षणं मतम् ॥
कफघ्नं तत्र कर्त्तव्यं शोधनं शमनानि च ।
व्यायामो रक्तमोक्षश्च भोज्यञ्च कटुतिक्तकम् ॥”)

तन्द्रालुः, त्रि, (तत् द्रातीति । तत् + द्रा + “स्पृहि

गृहीति ।” ३ । २ । १५८ । इति आलुच् तत्-
शब्दस्य नान्तत्वं निपात्यते ।) निद्रालुः । इति जटा-
धरः ॥ (यथा, सुश्रुते उत्तरतन्त्रे ३९ अध्याये ।
“अपि जाग्रत् स्वपन् जन्तुस्तन्द्रालुश्च प्रलाप-
वान् ॥”)

तन्द्रिः, स्त्री, (तदि सौत्रो धातुः + “वङ्क्र्या-

दयश्च ।” उणां । ४ । ६६ । इति क्रिन् ।)
निद्रा । आलस्यम् । इत्युणादिकोषः ॥ (यथा,
भागवते । ३ । २० । ४० ।
“सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा ।
दिग्वाससोमुक्तकेशान् वीक्ष्य चामीलयद्दृशौ ॥”)

तन्द्रिका, स्त्री, (तन्द्रिरेव । स्वार्थे कन् टाप् च ।)

तन्द्रिः । इति शब्दरत्नावली ॥

तन्द्री, स्त्री, (तन्द्रि + “कृदिकारादिति ।” वा

ङीष् ।) अत्यन्तश्रमादिना सर्व्वाङ्गेन्द्रियाप्रभु-
त्वम् । अत्यन्तश्रमादिना सर्व्वाङ्गनिमीलनं
निःसहतेति यावत् इत्यन्ये । इति भरतः ॥ तत्-
पर्य्यायः । प्रमीला २ । इत्यमरः ॥ तन्द्रा ३
तन्द्रिः ४ । इति तट्टीका ॥ तन्द्रिका ५ विषया-
ज्ञानम् ६ । इति राजनिर्घण्टः ॥ (यथा,
महाभारते । ३ । ३०३ । १९ ।
“निक्षिप्य राजपुत्त्री तु तन्द्रीं मानं तथैव च ।
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधणे ॥”)
निद्रा । इति मेदिनी । रे, ४२ ॥ (केचित्तु तन्त्र-
धातोर्बाहुलकात् ईप्रत्ययेन तन्द्रीरिति पदं कल्प-
यन्ति यथा, चरके सूत्रस्थाने त्रयोदशेऽध्याये ।
“पाण्डुता गौरवं जाड्यं पुरीषस्याविपक्वता ।
तन्द्रीररुचिरुत्क्लेशः स्यादतिस्निग्धलक्षणम् ॥”)

तन्निः, स्त्री, (तन्नयतीति । नी + बाहुलकात्

डिः ।) चक्रकुल्या । इति रत्नमाला ॥ तन्वि-
रपि पाठः ॥

तन्मात्रं, क्ली, (तदेवेति । तत् + एवार्थे मात्रच् ।

यद्बा, सा मात्रा यस्य ।) अपञ्चीकृतरूप-
रसगन्धस्पर्शशब्दानां संज्ञा । यथा, --
“इमान्येव सूक्ष्मभूतानि तन्मात्राण्यपञ्चीकृतानि
चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि
चोत्पद्यन्ते ।” इति वेदान्तसारः । २७ ॥ तट्टीका
यथा । “नन्वव्याकृतात् पञ्चतन्मात्राणि क्रमेण
जायन्ते इति हि स्मृतीतिहासपुराणेषु प्रसिद्धि-
स्तत् कथमाकाशादेरिहोत्पत्तिराम्नायते इति
तत्राह एतान्येवेति । एतान्येवाकाशादीनि
सूक्ष्मभूतानि व्यवहाराक्षमाणि शब्दादिताव-
न्मात्रैकस्वभावानि अपञ्चीकृतानि परमसंसृ-
ष्टानि चेति स्मृत्यादिषूच्यन्ते महर्षिभिरित्यर्थः ॥”
इति विद्बन्मनोरञ्जिनी ॥ * ॥ अपि च ।
“भूतादिस्तु विकुर्व्वाणः सर्गं तन्मात्रिकं ततः ।
ससर्ज्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् ॥”
इति विष्णुपुराणे १२ अध्यायः ॥

तन्यतुः, पुं, (तनोति विस्तारयति तमः शब्दं वा ।

तनु विस्तारे + “ऋतन्यञ्जिवनीति ।” उणां । ४ ।
२ । इति यतुच् ।) रात्रिः । वाद्यम् । इत्यु-
णादिकोषः ॥ (वायुः । इत्युज्ज्वलदत्तः ॥ अशनिः ।
इति माघवः ॥ विद्युत् । इति दयानन्दः ॥ यथा,
ऋग्वेदे । १ । ५२ । ६ ।
“वृत्रस्य यत् प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वो
रिन्द्रतन्यतुम् ॥”)

तन्वी, स्त्री, (तनुः + “वोतो गुणवचनात् ।” ४ ।

१ । ४४ । इति ङीष् ।) कृशाङ्गी । यथा, --
“तव तन्वि ! कुचावेतौ नियतौ चक्रवर्त्तिनौ ।
आसमुद्रकरग्राही भवान् यत्र करप्रदः ॥”
इति कालिदासः ॥
शालपर्णी । इति राजनिर्घण्टः ॥ (चतुर्व्विंशत्य-
क्षरवृत्तिविशेषः । इति छन्दोमञ्जरी ॥ तस्या
लक्षणादिकं छन्दःशब्दे द्रष्टव्यम् ॥)

तप, क दाहे । इति कविकल्पद्रुमः ॥ (चुरां-परं-

सकं-सेट् ।) क, तापयति । अयमात्मनेपदीत्येके ॥
इति दुर्गादासः ॥
पृष्ठ २/५८७

तप, ङ ञ दाहे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-उभंच-सकं-सेट् ।) ङ, तपते । ञ,
तपति तपते । अयमात्मनेपदीत्यन्ये । इति दुर्गा-
दासः ॥

तप, औ दवैश्ययोः । इति कविकल्प-

द्रुमः ॥ (भ्वां-परं-सकं-अकंच-
अनिट् । दिवादिपक्षे आत्मं ।) दव उप-
तापः । “तपति तनुगात्रि ! मदनस्त्वाम् ।” औ,
अताप्सीत् । य ङ, तप्यते धनी ईश्वरः स्यादि-
त्यर्थः । औ, अतप्त । दिवादिपक्षे ऐश्वर्य्य एव
इत्यन्ये । इति दुर्गादासः ॥

तप, य ङ औ दवैश्ययोः । इति कविकल्प-

द्रुमः ॥ (भ्वां-परं-सकं-अकंच-
अनिट् । दिवादिपक्षे आत्मं ।) दव उप-
तापः । “तपति तनुगात्रि ! मदनस्त्वाम् ।” औ,
अताप्सीत् । य ङ, तप्यते धनी ईश्वरः स्यादि-
त्यर्थः । औ, अतप्त । दिवादिपक्षे ऐश्वर्य्य एव
इत्यन्ये । इति दुर्गादासः ॥

तपः, [स्] क्ली, (तपति तापयति वा । तप उप-

तापे + “सर्व्वधातुभ्योऽसुन् ।” उणां । ४ । १८८ ।
इति असुन् ।) वैधक्लेशजनकं कर्म्म । यथा, --
“उमेऽतिचपला पुत्त्रि ! न क्षमं तावकं वपुः ।
सोढुं क्लशस्वभावस्य तपसः सौम्यदर्शने ॥”
इति तिथ्यादितत्त्वे मत्स्यपुराणवचनम् ॥ * ॥
तत्फलं यथा, --
“तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः ।
दुर्भगत्वं वृथा लोको वहते सति साधने ॥”
इति च तत्रैव तद्वचनम् ॥ * ॥
अपि च । मरीचिरुवाच ।
“ब्राह्मणस्य तपोमूलं यज्ञः स्वाध्याय एव च ।
तस्मादग्ने ! फलं ब्रूहि तपसोऽध्ययनस्य च ॥
वह्निरुवाच ।
स्वाध्यायतपसोर्वक्ष्ये तन्मे निगदितं शृणु ।
तपसो हि परं नास्ति तपसा विन्दते महत् ॥
तपसा क्षीयते पापं मोदते सह दैवतैः ।
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः ॥
तपसा सर्व्वमाप्नोति तपसा विन्दते परम् ।
ज्ञानविज्ञानसम्पन्नः सौभाग्यं रूपमेव च ॥
तपसा लभते सर्व्वं तथैवाध्ययनेन च ।
तस्मात् स्वधर्म्मसंयुक्तो नित्यं सिध्यति पण्डितः ॥
धर्म्मात् सुखमवाप्नोति इह लोके परत्र च ॥”
इत्याद्ये वह्निपुराणे नित्याह्निकस्नानविधि-
नामाध्यायः ॥ तपस्या । तत्त्रिविधम् । शारीरं
वाचिकं मानसञ्च । यथा, --
“देवद्बिजगुरुप्राज्ञपूजनं शौचमार्ज्जवम् ।
ब्रह्मचर्य्यमहिंसा च शारीरं तप उच्यते ॥ १ ॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितञ्च यत् ।
स्वाध्यायाभ्यसनञ्चैव वाङ्मयं तप उच्यते ॥ २ ॥
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥” ३ ॥
तदपि त्रिविधम् । सात्त्विकं राजसं तामसञ्च
यथा, --
“श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ १ ॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ २ ॥
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥” ३ ॥
इति श्रीभगवद्गीतायाम् । १७ । १४ -- १९ ॥ * ॥
जनलोकादूर्द्ध्वलोकः । यथा, --
“अस्योपरि तपोलोकस्तेजोमय उदाहृतः ।
वैराजा यत्र ते देवा वसेयुर्द्देवपूजिताः ॥
वासुदेवे मनो येषां वासुदेवेऽर्पितक्रियाः ।
तपसा तोष्य गोविन्दमभिलाषविवर्ज्जिताः ॥
तं तपोलोकमासाद्य वसन्ति विजितेन्द्रियाः ।
शिलोञ्छवृत्तयो ये वै दन्तोलूखलिकाश्च ये ॥
येऽश्मकुट्टाश्च मुनयः शीर्णपर्णाशिनश्च ये ।
ग्रीष्मे पञ्चाग्नितपसो वर्षासु स्थण्डिलेशयाः ॥
हेमन्ते शिशिरे वा ये क्षिपन्ति सलिले क्षपाः ।
कुशाग्रनीरबिन्दूंश्च तृषिता यतयोऽपिबन् ॥
वाताशिनोऽतिक्षुधिताः पादाङ्गुष्ठाग्रभूस्पृशः ।
ऊर्द्ध्वहस्ता रविदृशस्त्वेकाङ्घ्रिस्थाननिश्चलाः ॥
ये वै दिवानिरुच्छ्वासा मासोच्छ्वासाश्च ये परे ।
मासोपवासं कुर्व्वन्ति चातुर्म्मास्यव्रताश्च ये ॥
ऋत्वन्ते तोयपाना ये ये षण्मासोपवासकाः ।
ये च वर्षानिमेषा वै वर्षधाराम्बुतर्षकाः ॥
स्थाणुसाम्योपसंप्राप्ता मृगकण्डूतिसौख्यदाः ।
जटाटवीकोटरान्तः कृतनीडाण्डजाश्च ये ॥
प्ररूढवल्मिकाङ्गाश्च स्नायुनद्धास्थिसञ्चयाः ।
लताप्रतानैः परितो वेष्टितावयवाश्च ये ॥
शस्यानि च प्ररूढानि यदङ्गेषु महीपते ! ।
इत्येतैर्न्नियमैर्य्ये तु क्लिष्टात्मानस्तपोधनाः ॥
ब्रह्मायुषस्तपोलोके ते वसन्त्यकुतोभयाः ॥”
इति पद्मपुराणम् ॥ * ॥
चान्द्रायणादिव्रतम् । धर्म्मः । इति मेदिनी । से, २४ ॥

तपः, पुं, (तपति तापयति वा । तप सन्तापे +

पचाद्यच् ।) ग्रीष्मः । इत्यमरः । १ । ४ । १९ ॥
(यथा, माघे । १ । ६६ ।
“तपेन वर्षाः शरदा हिमागमो
वसन्तलक्ष्म्या शिशिरः समेत्य च ।
प्रसूनकॢप्तिं दधतः सदर्त्तवः
पुरेऽस्य वास्तव्यकुटुम्बितां ययुः ॥”)

तपःकरः, पुं, (तपः करोतीति । कृ + टः ।)

तपस्वी मत्स्यः । इति शब्दरत्नावली ॥ तपस्या-
कारके, त्रि ॥

तपःक्लेशसहः, त्रि, (तपसः क्लेशं सहते इति ।

सह + अच् ।) दान्तः । इत्यमरः । २ । ७ । ४३ ॥

तपःस्थली, स्त्री, (तपसः स्थली ।) काशी । इति

त्रिकाण्डशेषः ॥

तपती, छाया नाम सूर्य्यपत्नी । इति त्रिकाण्ड-

शेषः ॥ सूर्य्यकन्या । सा पूरुवंशीयऋक्षराज-
पुत्त्रसम्बरणभार्य्या । इति श्रीभागवतम् ॥ (यथा,
महाभारते । १ । ९४ । ४७ ।
“ततः सम्बरणात् सौरी सुषुवे तपती कुरुम् ॥”
अस्या विशेषविवरणादिकं तत्रैव १७२ अध्याये
द्रष्टव्यम् ॥)

तपनः, पुं, (तपतीति । तप + कर्त्तरि ल्युः ।)

सूर्य्यः । (यथा, महाभारते । ३ । ३ । ६२ ।
“सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः ॥”)
भल्लातकवृक्षः । अग्न्यादिदाहात्मकनरकः ॥
ग्रीष्मः । इति हेमचन्द्रः ॥ तापः । इति धरणिः ॥
अर्कवृक्षः । क्षुद्राग्निमन्थवृक्षः । सूर्य्यकान्त-
मणिः । इति राजनिर्घण्टः ॥ (यथा, आर्य्या-
सप्तशत्याम् । २६ ।
“अनयनपथे प्रिये ! न व्यथा यथा दृश्य एव
दुष्प्रापे ।
म्लानैवकेवलं निशि तपनशिला वासरे ज्वलति ॥”
अग्निविशेषः । यथा, हरिवंशे । १७८ । ३१ ।
“ते जातवेदसः सर्व्वे कल्मासः कुसुमस्तथा ।
दहनः शोषणश्चैव तपनश्च महाबलः ॥”
स्त्रीणां सत्त्वजे अलङ्कारविशेषे, क्ली । तल्लक्षणं
यथा साहित्यदर्पणे । ३ । ११६ ।
“तपनं प्रियविच्छेदे स्मरावेशोत्थचेष्टितम् ॥”
उदाहरणं यथा, तत्रैव, --
“श्वासान्मुञ्चति भूतले विलुठति त्वन्मार्गमालोकते
दीर्घं रोदिति विक्षिपत्यत इतः क्षामां भुजा-
वल्लरीम् ।
किञ्च प्राणसमानकाङ्क्षितवती स्वप्नेऽपि ते
सङ्गमं
निद्रां वाञ्छति न प्रयच्छति पुनर्द्दग्धो विधि-
स्तामपि ॥”)

तपनच्छदः, पुं, (तपनः अतिरूक्षश्छदो यस्य ।)

आदित्यपत्रवृक्षः । इति राजनिर्घण्टः ॥

तपनतनया, स्त्री, (तपनस्तापको वह्निस्तनयो

यस्याः । वह्निगर्भत्वादस्यास्तथात्वम् ।) शमी-
वृक्षः । (तपनस्य सूर्य्यस्य तनया ।) यमुना ।
इति राजनिर्घण्टः ॥

तपनमणिः, पुं, (तपनः सूर्य्यस्तत्प्रियो मणिः ।)

सूर्य्यकान्तमणिः । इति राजनिर्घण्टः ॥

तपनात्मजा, स्त्री, (तपनस्य सूर्य्यस्य आत्मजा

कन्या ।) गोदावरी नदी । इति हेमचन्द्रः ॥
यमुना च ॥

तपनी, स्त्री, (तपनः सूर्य्यो जनकतयास्त्यस्या इति

अच् । ततो गौरादित्वात् ङीष् ।) गोदावरी ।
इति हेमचन्द्रः ॥

तपनीयं, क्ली, (तप + अनीयर् । वह्नौ शोधनीय-

परीक्षणीयत्वादस्य तथात्वम् ।) स्वर्णम् । इत्य-
मरः । २ । ९ । ९४ ॥ (यथा, रघुः । १८ । ४१ ।
“तस्मादधः किञ्चिदिवावतीर्णा-
वसंस्पृशन्तौ तपनीयपीठम् ॥”)

तपनीयकं, क्ली, (तपनीय + स्वार्थे कन् ।) सुव-

र्णम् । इति राजनिर्घण्टः ॥

तपनेष्टं, क्ली, (तपनस्यं सूर्य्यस्य इष्टम् । सूर्य्यप्रिय-

त्वादस्य तथात्वम् ।) ताम्रम् । इति राज-
निर्घण्टः ॥

तपसः, पुं, (तपतीति । तप + “अत्यविचमि-

तमीति ।” उणां । ३ । ११७ । इति असच् ।)
चन्द्रः । इति त्रिकाण्डशेषः ॥ पक्षी । इति
सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥

तपस्तक्षः, पुं, (तपस्तपस्यां तक्षति तनूकरोतीति ।

तक्ष तनूकरणे + अण् । स्वर्व्वेश्यादिप्रेरणेन
तपस्विनां तपोविघ्नकरणादस्य तथात्वम् ।)
इन्द्रः । इति हेमचन्द्रः । २ । ८७ ॥
पृष्ठ २/५८८

तपस्यं, क्ली, (तपसि ग्रीष्मे भवम् । तपस् + यत् ।)

कुन्दपुष्पम् । इति शब्दचन्द्रिका ॥ (तपश्चर-
तीति । तपस् + कृतौ क्यङ् । ततो भावे घञ् ।
तपश्चरणम् । यथा, महाभारते । १३ । १० । १३ ।
“अथास्य बुद्धिरभवत् तपस्ये भरतर्षभ ! ॥”)

तपस्यः, पुं, (तपसि ग्रीष्मे साधुः । तपस् + “तत्र

साधुः ।” ४ । ४ । ९८ । इति यत् ।) फाल्-
गुनमासः । इत्यमरः । १ । ४ । १५ । (यथा,
सुश्रुते सूत्रस्थाने ६ अध्याये । “तत्र माघादयो
द्बादशमासाः द्बिमासिकमृतुं कृत्वा षडृतवो
भवन्ति । ते शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः ।
तेषां तपस्तपस्यौ शिशिरः ॥”) अर्ज्जुनः । इति
हेमचन्द्रः ॥ (तामसस्य मनोः पुत्त्रविशेषः ।
यथा, हरिवंशे । ७ । २४ ।
“द्युतिस्तपस्यः सुतपास्तपोमूलस्तपोशनः ।
तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः ।
तामसस्य मनोरेते दश पुत्त्रा महाबलाः ॥”)

तपस्या, स्त्री, (तपश्चरतीति । “कर्म्मणो रोमन्थ-

तपोभ्यां वर्त्तिचरोः ।” ३ । १ । १५ । इति
क्यङ् । ततः “अ प्रत्ययात् ।” ३ । ३ । १०२ ।
इति अ ततष्टाप् ।) तपः । तत्पर्य्यायः ।
व्रतादानम् २ परिव्रज्या ३ नियमस्थितिः ४ ।
इति हेमचन्द्रः ॥ व्रतचर्य्या ५ । इति मेदिनी ॥

तपस्विनी, स्त्री, जटामांसी । इत्यमरः । २ । ४ ।

१३४ ॥ (तपस्वितुल्यजटायुक्तत्वादस्यास्तथात्वम् ।
यथा, वैद्यकरत्नमालायाम् ।
“नलदं नन्दिनी पेषी मांसी कृष्णजटा जटी ।
किरातिनी च जटिला लोमशा तु तपस्विनी ॥”)
कटुरोहिणी । इति हेमचन्द्रः ॥ महाश्राव-
णिका । इति भावप्रकाशः ॥ (तपोऽस्या
अस्तीति । तपस् + “तपःसहस्राभ्यां विनीनी ।”
५ । २ । १०२ । इति विनिः । ततः स्त्रियां
ङीप् ।) तपोयुक्ता स्त्री ॥ (यथा, रामायणे ।
३ । २ । ७ ।
“पत्नीं स च महावृद्धां सिद्धां शुद्धां
तपस्विनीम् ।
अनसूयां महाभागां सर्व्वभूतहिते रताम् ॥”
दीना । दुःखिता । यथा, भागवते । १ । ९ । ४४ ।
“ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् ।
पितरं सान्त्वयामास गान्धारीञ्च तपस्विनीम् ॥”
पतिव्रता । यथा, नैषधे । १ । १३५ ।
“मदेकपुत्त्रा जननी जरातुरा
नवप्रसूतिर्व्वरटा तपस्विनी ।
गतिस्तयोरेष जनस्तमर्द्दय-
न्नहो विधे ! त्वां करुणा रुणद्धि न ॥”
“वरटा हंसी मम स्त्री नवा नूतना प्रसूतिः
प्रसवो यस्यास्तादृशी सापि स्वतो जीवितुमस-
मर्था तर्हि पत्यन्तरेण तस्या जीविका भवे-
दित्यपि निषेधयति यतस्तपस्विनी पतिव्रता मम
मरणानन्तरं पत्यन्तराश्रयणाभावात् तस्या
जीवनं शिशूनां पोषणञ्च दुर्घटमेव भवेदिति
भावः ॥” इति तट्टीका ॥)

तपस्विपत्रः, पुं, (तपस्विप्रियं पत्रमस्य ।) दम-

नकवृक्षः । इति राजनिर्घण्टः ॥

तपस्वी, [न्] त्रि, (तपोऽस्यास्तीति । तपस् +

“तपःसहस्राभ्यां विनीनी ।” ५ । २ । १०२ ।
इति विनिः ।) तपोयुक्तः । तत्पर्य्यायः ।
तापसः २ पारिकाङ्क्षी ३ । इत्यमरः । २ । ७ । ४२ ॥
पारकाङ्क्षी ४ पारिकाङ्क्षकः ५ । इति शब्द-
रत्नावली ॥ तपोधनः ६ । (यथा, मनुः । ४ ।
१६२ ।
“न हिंस्याद्ब्राह्मणान् गाश्च सर्व्वांश्चैव तपस्विनः ॥”)
आनुकम्प्यः । इति मेदिनी । ने, १८५ ॥

तपस्वी, [न्] पुं, (तपस् + अस्त्यर्थे विनिः ।)

नारदः । इति शब्दरत्नावली ॥ मत्स्यविशेषः ।
तपास्या माछ इति भाषा । तत्पर्य्यायः । तपः-
करः २ चेष्टकः ३ चेष्टः ४ । इति शब्द-
चन्द्रिका ॥ (चाक्षुषस्य मनोः पुत्त्रविशेषः । यथा,
हरिवंशे । २ । १८ ।
“ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवान् कविः ॥”)
घृतकरञ्जवृक्षः । इति राजनिर्घण्टः ॥

तपाः, [स्] पुं, (तपत्यस्मिन्निति । तप + असुन् ।)

ग्रीष्मः । इत्यमरटीकायां नयनानन्दः ॥
माघमासः । शिशिरकालः । इति मेदिनी ।
से, २४ ॥ (यथा, सुश्रुते सूत्रस्थाने ६ अध्याये ।
“तेषां तपस्तपस्यौ शिशिरः ॥”)

तपात्ययः, पुं, (तपस्य ग्रीष्मस्य अत्ययो यत्र ।)

वर्षाकालः । इति हेमचन्द्रः । २ । ७१ ॥ (यथा,
कुमारे । ५ । २३ ।
“तपात्यये वारिभिरुक्षिता नवै-
र्भुवा सहोष्माणममुञ्चदूर्द्ध्वगम् ॥”)

तपितं, त्रि, (तप्यते स्मेति । तप दाहे + क्तः ।)

तप्तम् । इति द्विरूपकोषः ॥ (यथा, हरि-
वंशे । २३४ । २९ ।
“तपितकनकविन्दुपिङ्गलाक्षो
दितितनयोऽसुरसैन्ययुद्धनेता ॥”)

तपुः, [स्] पुं, (तपति तापयतीति वा । तप +

“अर्त्तिपॄवपीति ।” उणां । २ । ११८ । इति
उसिः ।) अग्निः । सूर्य्यः । इत्युणादिकोषः ॥
(शत्रः । इत्युज्ज्वलदत्तः ॥ तापयुक्ते तापने च,
त्रि । यथा, ऋग्वेदे । १ । ३६ । १६ ।
“तपुर्जम्भ यो अश्मध्रुक् ॥”)

तपोधनः, पुं, (तप एव धनं यस्य ।) तपस्वी ।

इति मेदिनी ॥ (यथा, मनुः । ११ । २४२ ।
“यत्किञ्चिदेनः कुर्व्वन्ति मनोवाङ्मूर्त्तिभिर्ज्जनाः ।
तत् सर्व्वं निर्द्दहन्त्याशु तपसैव तपोधनाः ॥”)
दमनकवृक्षः । इति राजनिर्घण्टः ॥ (यथास्य
पर्य्यायाः ।
“उक्तो दमनको दान्तो मुनिपुत्त्रस्तपोधनः ।
गन्धोत्कटो ब्रह्मजटो विनीतः कुलपत्रकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

तपोधना, स्त्री, (तपो ग्रीष्मकाल एव धनमिव

यस्याः ।) मुण्डीरी । इति मेदिनी ॥ (तपो-
धने, त्रि । यथा, महाभारते । ५ । १८८ । २० ।
“षण्मासान् वायुभक्षा च स्थाणुभूता
तपोधना ॥”)

तपोवटः, पुं, ब्रह्मावर्त्तदेशः । इति त्रिकाण्डशेषः ॥

तप्तः, त्रि, (तप्यते स्मेति । तपौ सन्तापे + क्तः ।)

तापयुक्तः । तत्पर्य्यायः । सन्तापितः २ दूनः
३ धूपायितः ४ धूपितः ५ । इति हेमचन्द्रः ॥
(यथा, हठयोगप्रदीपिकायाम् । १ । १० ।
“अशेषतापतप्तानां समाश्रयमठो हठः ॥”)

तप्तकुम्भः, पुं, (तप्तः सन्तापितः कुम्भो यत्र ।)

नरकविशेषः ॥ (यथा, मार्कण्डेये । १२ । ३४-३९ ।
“अतःपरं भीमतरं तप्तकुम्भं निबोध मे ।
समन्ततस्तप्तकुम्भा वह्निज्वालासमावृताः ॥
ज्वलदग्निचयोद्वृत्ततैलायश्चूर्णपूरिताः ।
तेषु दुष्कृतकर्म्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥
क्वाथ्यन्ते विस्फुटद्गात्रगलन्मज्जजलाविलाः ।
स्फुटत्कपालनेत्रास्थिछिद्यमाना विभीषणैः ॥
गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः ।
पुनः सिमसिमायन्त्रे तैलेनैक्यं व्रजन्ति च ॥
द्रवीभूतैः शिरागात्रस्नायुमांसत्वगस्थिभिः ।
ततो याम्यैर्नरैराशु दर्व्व्याघट्टनघट्टिताः ॥
कृतावर्त्ते महातैले मथ्यन्ते पापकर्म्मिणः ।
एष ते विस्तरेणोक्तस्तप्तकुम्भो मया पितः ! ॥”)

तप्तकृच्छ्रः, पुं क्ली, (तप्तेन जलदुग्धादिना आच-

रितं कृच्छ्रं कष्टं यत्र । यद्बा, तप्तेनाचरितं
कृच्छ्रम् ।) व्रतविशेषः । यथा, “पयोघृतमुदकं
वायुतप्तं प्रतित्र्यहं पिबेत् स तप्तकृच्छ्रः ।”
इति गौतमः ॥ (द्वादशाहसाध्यव्रतमेतत् । यथा,
मनुः । ११ । २१५ ।
“तप्तकृच्छ्रं चरन् विप्रो जलक्षीरधृतानिलान् ।
प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः ॥”
“तप्तकृच्छ्रं चरन् द्बिजातिः त्र्यहमुष्णोदकं
त्र्यहमुष्णगोक्षीरं त्र्यहमुष्णघृतं त्र्यहमुष्णवायुं
एकवारं स्नानं कुर्व्वन् संयतवान् पिबेत् । अत्र
पराशरोक्तविशेषः ।
षट्पलन्तु पिबेदम्भस्त्रिपलन्तु पयः पिबेत् ।
पलमेकं पिबेत् सर्पिस्तप्तकृच्छ्रं विधीयते ॥”
इति तट्टीकायां कुल्लूकभट्टः ॥)

तप्तपाषाणकुण्डं, क्ली, (तप्तानां पाषाणानां कुण्डमिव ।)

नरकविशेषः । इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

तप्तबालुकः, पुं, (तप्ता बालुका यत्र ।) नरक-

विशेषः । इति पुराणम् ॥ (उत्तप्तबालुकामये,
त्रि । यथा, भागवते । ३ । ३० । २२ ।
“क्षुत्तृड्परितोऽर्कदवानलानिलैः
संतप्यमानः पथि तप्तबालुके ॥)

तप्तमाषकं, क्ली, (तप्तं माषमितं सुवर्णादिकं

यत्र कप् ।) परीक्षाविशेषः । तद्विधिर्यथा ।
पितामहः ।
“कारयेदायसं पात्रं ताम्रं वा षोडशाङ्गुलम् ।
चतुरङ्गुलखातन्तु मृण्मयं वाथ मण्डलम् ॥
मण्डलं सूर्य्यमण्डलाकारं वर्त्तुलमिति यावत् ।
पूरयेद्घृततैलाभ्यां विंशत्या तु पलैस्तु तत् ।
सुवर्णमाषकं तस्मिन् सुतप्ते निःक्षिपेत्ततः ॥
पृष्ठ २/५८९
अङ्गुष्ठाङ्गुलियोगेन उद्धरेत्तप्तमाषकम् ।
कराग्रं यो न धुनुयात् विस्फोटो वा न जायते ।
शुद्धो भवति धर्म्मेण पितामहवचो यथा ॥
कल्पान्तरमाह ।
सौवर्णे राजते ताम्रे आयसे मृण्मयेऽपि वा ।
गव्यं घृतमुपादाय तदग्नौ तापयेच्छुचिः ॥
सौवर्णीं राजतीं ताम्रीमायसीञ्च सुशोधिताम् ।
सलिलेन सकृद्धौतां प्रक्षिपेत्तत्र मुद्रिकाम् ॥
भ्रमद्वीचितरङ्गाढ्ये न नस्वस्पर्शगोचरे ।
परीक्षेतार्द्रपर्णेन चुचुकारं सघोषकम् ॥
ततश्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत् ।
परं पवित्रममृतं घृत ! त्वं यज्ञकर्म्मसु ॥
दह पावक ! पापं त्वं हिमशीतः शुचौ भव ।
उपोषितं ततः स्नातमार्द्रवाससमागतम् ॥
ग्राहयेन्मुद्रिकां तान्तु घृतमध्यगतान्तथा ।
प्रदेशिनीञ्च तस्याथ परीक्षेयुः परीक्षकाः ॥
यस्य विस्फोटका न स्युः शुद्धोऽसावन्यथाशुचिः ॥
प्रयोगस्तु । मध्यविधाष्टयवतण्डुलमध्यमिता-
ङ्गुलिषोडशाङ्गुलमितप्रस्तारे तथाविधाङ्गुलि-
चतुष्टयखाते ताम्रादिघटितेऽशक्तौ मृण्मये वा
चक्राकारे वर्त्तुले पात्रे लौकिकाष्टरत्तिकाधिक-
माषद्बयाधिकत्रयस्त्रिंशत्तोलकरूप- ३३ । २ । ८ ।
वैदिकपलदशकमितं घृतं एवं तैलञ्च
निक्षिप्य लौकिकचतुरत्तिकाधिकपञ्चमाषक-
षट्षष्टितोलकरूप- ६६ । ५ । ४ । वैदिकविंशति-
पलपरिमितं केवलं गव्यं घृतं वा निक्षिप्य
तस्मिन् सुतप्ते सकृद्धौतां पञ्चरत्तिकामितां
काञ्चनमुद्रिकां रजतादिकां वा निक्षिपेत् ।
धर्म्मावाहनादिहवनान्तं तुलोक्तं सदक्षिणं
कर्म्म कृत्वा, --
ओम् परं पवित्रममृतं ! घृत त्वं यज्ञकर्म्मसु ।
दह पावक ! पापं त्वं हिमशीतः शुचौ भव ॥
इत्यनेनाभिमन्त्रयेत् प्राड्विवाकः । ततः कृतोप-
वासः स्नातार्द्रवासाः शोध्यशिरसि प्रतिज्ञापत्रं
निधाय, --
ओम् त्वमग्ने ! सर्व्वभूतानामन्तश्चरसि पावक ! ।
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम ॥
इत्यनेनाभिमन्त्र्य आर्द्रपत्रनिक्षेपकृतचुचुक-
शब्दात् घृतात् मुद्रिकां तर्ज्जन्यङ्गुष्ठाभ्यां उत्तो-
लयेत् । घृततैलाभ्यां वा तप्तमाषकमुत्तोलयेत् ।
अदग्धञ्चेत्तदा शुद्ध इति । ततो दक्षिणां दद्यात् ॥”
इति दिव्यतत्त्वम् ॥

तप्तमुद्रा, स्त्री, (तप्ता अग्निसन्तप्ता मुद्रा ।) शरीर-

धार्य्याग्नितप्तधातुमयभगवदायुधचिह्नम् । यथा,
“आषाढशुक्लद्बादश्यां हरौ शिशयिषौ सति ।
वैष्णवः पारणं कृत्वा तप्तमुद्राश्च धारयेत् ॥
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्चैकान्तितर्द्धये ।
कुर्व्वन्नात्मार्पणं तप्तमुद्राभिर्देहमङ्कयेत् ॥ * ॥
तप्तमुद्राधारणं वाराहे तप्तमुद्राप्रसङ्गे ।
चक्रादिधारणं पुंसां परं सम्बन्धवेदनम् ।
पातिव्रत्यनिमित्तं हि बलयादिविभूषणमिति ॥ *
अथ तप्तमुद्राधारणनित्यता । वायुपुराणे ।
अग्निनैव च सन्तप्तं चक्रमादाय वैष्णवः ।
धारयेत् सर्व्ववर्णानां हरिसालोक्यसिद्धये ॥”
ब्रह्माण्डे ।
कृत्वा धातुमयीं मुद्रां तापयित्वा स्वकां तनूम् ।
चक्रादिचिह्नितां भूप ! धारयेद्वैष्णवो नरः ॥
नारदीयपञ्चरात्रे ।
द्बादशारन्तु षट्कोणं बलयत्रयसंयुतम् ।
हरेः सुदर्शनं तप्तं धारयेत्तद्बिचक्षणः ॥
सौपर्णे च श्रीभगवद्गरुडसम्बादे तप्तमुद्राप्रकरणे ।
गरुत्मन्नविशेषेण सर्व्ववर्णेष्वयं विधिः ।
विप्रो वा क्षत्त्रियो वापि वैश्यः शूद्रस्तथैव च ॥
पाद्मे ।
अग्निहोत्रं यथा नित्यं वेदस्याध्ययनं यथा ।
ब्राह्मणस्य तथैवेदं तप्तचक्रादिधारणम् ॥
किञ्च । तत्रैवोत्तरखण्डे श्रीशिवोमासम्बादे ।
शङ्खचक्राङ्कनं कुर्य्याद्ब्राह्मणो बाहुमूलयोः ।
हुताग्निनैव सन्तप्य सर्व्वपापापनुत्तये ॥
चक्रं वा शङ्खचक्रे वा तथा पञ्चायुधानि वा ।
धारयित्वैव विधिवद्ब्रह्मकर्म्म समारभेत् ॥ * ॥
किञ्च । तत्प्रसङ्ग एव ।
अधृत्वा विधिना चक्रं ब्राह्मणः प्राकृतो भवेत् ॥
किञ्च ।
न तस्य किञ्चिदश्नीयादपि कृत्यसहस्रिणः ।
सर्व्ववेदविदो वापि सर्व्वशास्त्रविशारदः ॥
अधृत्वा विधिना चक्रं ब्राह्मणः पतितो भवेत् ॥
किञ्च ।
तप्तेनैवाङ्कनं कुर्य्यात् ब्राह्मणस्य विधानतः ।
श्रौतस्मार्त्तादिसिद्ध्यर्थं मन्त्रसिद्ध्यै तथैवच ॥
हरेः पूजाधिकारार्थं चक्रं धार्य्यं विधानतः ।
वैष्णवत्वस्य सिद्ध्यर्थं भक्तिसिद्ध्यै विशेषतः ॥
किञ्च ।
उपवीतादिवद्धार्य्याः शङ्खचक्रादयस्तथा ।
ब्राह्मणस्य विशेषेण वैष्णवस्य विशेषतः ॥ * ॥
श्रुतयश्च । यो ह वै सुश्लोकमौलेर्धर्म्माननुतिष्ठ-
मानोऽग्निनाचक्रं धत्ते । अग्निर्व्वै सहस्रारः सह-
स्रारो नेमिर्न्नेमिना तप्ततनुः सायुज्यं सलोक-
तामाप्नोतीति ॥
चक्रं विभर्त्ति वपुषाभितप्तं
बलं देवानाममृतस्य विष्णोः ।
स एति नाकं दुरितं विधूय
विशन्ति यद्यतयो वीतरागा इति ॥”
ऋक्परिशिष्टे । अतप्ततनुर्नतदामो अश्नुतेऽश्नुता
सह इद्वहन्तस्तत्समासतेति यजुः ॥ ऋग्वेदीया-
श्वलायनशाखायाञ्च ।
प्रतद्बिष्णोरब्जचक्रे सुतप्ते
जन्माम्भोधिं वर्त्तते चर्षणीन्द्राः ।
मूले बाह्वोर्द्दधतेऽन्ये पुराणा
लिङ्गान्यन्ये तप्तायुधान्यर्पयन्ते इति ॥
छन्दोगपरिशिष्टे । सहोवाच यज्ञवल्क्यस्तत्-
पुमानात्महिताय प्रेम्णा हरिम्भजेत् । सुश्लो-
कमौलेर्धर्म्माण्यङ्गेष्वग्निनाधत्ते इति शतपथी
श्रुतिः ॥
अथर्व्वपरिशिष्टे तप्तचक्रादिप्रकरणे ।
देवासो यत्र वितनेन बाहुना
सुदर्शनेन प्रयताः स्वर्गमायन् ।
येनाङ्किता मनवो लोकसृष्टिं
वितन्वते ब्राह्मणास्तद्बहन्तीति ॥ * ॥
किञ्च । पाद्मे श्रीशिवेन तप्तमुद्राप्रसङ्गे ।
विष्णुचक्राङ्कितं विप्रं पूजयेत् सर्व्वकर्म्मणि ।
विष्णुचक्रविहीनन्तु प्रयत्नेन विवर्ज्जयेत् ॥
नारदीये तप्तमुद्राप्रसङ्गे ।
श्रीकृष्णचक्राङ्कविहीनगात्रः
श्मशानतुल्यः पुरुषोऽथ नारी ।
दृष्ट्वा नरस्तं नृपते ! सवासाः
स्नात्वा समर्च्चेद्धरिमङ्ग सद्य इति ॥ * ॥
बह्व्यश्च वेङ्कटाचार्य्यपादप्रभृतिभिर्ब्बुधैः ।
श्रुतयः स्मृतयोऽप्यत्र विख्याता लिखिताः पराः ॥
अतएव तदनादरे दोषाः । पाद्मे ।
तप्तचक्राङ्कितं दृष्ट्वा ये निन्दति नराधमाः ।
अवलोक्य मुखं तेषामादित्यमवलोकयेत् ॥
अग्निपुराणे च । दशरथहतपुत्त्रविप्रविलापे ।
शिलाबुद्धिः कृता किंवा प्रतिमायां हरेर्म्मया ।
किं मया पथि दृष्टस्य विष्णुभक्तस्य कर्हिचित् ॥
तन्मद्राङ्कितदेहस्य चेतसा नादरः कृतः ।
येन कर्म्मविपाकेन पुत्त्रशोको ममेदृशः ॥ * ॥
अथ तप्तमुद्राधारणमाहात्म्यं सौपर्णे ।
अशुचिर्व्वाप्यनाचारः सर्व्वधर्म्मबहिष्कृतः ।
प्रतप्तशङ्खचक्राभ्यामङ्कितः पङ्क्तिपावनः ॥
वाराहे तप्तमुद्राधारणप्रसङ्गे ।
म्लेच्छदेशे शुभे वापि चक्राङ्को यत्र तिष्ठति ।
योजनानि तथा त्रीणि मम क्षेत्रं वसुन्धरे ! ॥
ब्रह्माण्डे ।
आयुधैर्व्वैष्णवैः सर्व्वैस्तापितैः स्वतनुं यदि ।
चिह्नयेद्वैष्णवो यस्तु स याति परमां गतिम् ॥
पाद्मे च तत्रैव ।
अग्नितप्तं पवित्रञ्च धृत्वा तु बाहुमूलयोः ।
त्यक्त्रा यमपुरं घोरं यान्ति विष्णोः परं पदम् ॥
हुताग्नितप्तचक्रेण शरीरं यस्य चिह्नितम् ।
तेन तीर्थानि यज्ञाश्च लभ्यन्ते नात्र संशयः ॥
अग्नितप्तेन चक्रेण ब्राह्मणो बाहुमूलयोः ।
अङ्कयित्वा जपन्मन्त्रं संसारान्मोक्षभाग्भवेत् ॥
अग्नितप्तेन चक्रेण बाहुमूलेषु लाञ्छिताः ।
ते सर्व्वे पापनिर्म्मुक्ता यान्ति विष्णोः परं पदम् ॥
किञ्च ।
अप्राकृता महात्मानो विष्णुचक्रेण लाञ्छिताः ।
विष्णुचिह्नविहीनास्तु प्राकृताः पतिताः स्मृताः ॥
इति ॥
इत्थं निषेधवचनं निर्मूलं सदनादृतम् ।
समूलं यच्च तत् सम्यग्विध्यभावादितत्परम् ॥ * ॥
अथ तप्तमुद्राधारणविधिः ।
तप्तमुद्राधारणार्थमुपचारैस्तु पञ्चभिः ।
कृष्णमभ्यर्च्च्य संपूज्य चक्रशङ्खौ तथा नमेत् ॥
तत्र मन्त्रः ।
सुदर्शन ! नमस्तेऽस्तु पाञ्चजन्य नमोऽस्तु ते इति ।
पृष्ठ २/५९०
अग्निमभ्यर्च्च्य मूलेन हुत्वा चाज्याहुतीः कृती ।
चक्रशङ्खगदादीनि शस्त्राण्यग्नौ प्रतापयेत् ॥
तत्तम्मन्त्रैरथावाह्य तान्यभ्यर्च्च्य प्रणम्य च ।
गुरुं कृष्णञ्च संवन्द्य भक्त्या विज्ञापयेदिदम् ॥
उच्छिष्टभोजनादेव किङ्करः शरणागतः ।
तप्तचक्रगदादीनि तवाङ्कानीश ! धारये ॥ इति ॥
अथ चक्रादीनामावाहनादिमन्त्रः ।
ओम् नमो भगवते सुदर्शनाय निर्णाशितसकल-
रिपुध्वजाय भगवन्नारायणकराम्भोरुहस्पर्श-
दुर्ललिताय ।
एह्येहि त्वं सहस्रार चक्रराज सुदर्शन ! ।
यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नमः ॥
ओम् नमो भगवते पाञ्चजन्याय विष्णुशङ्खाय
गम्भीरधीरध्वन्याकुलीकृतकौरववाहिनीनाथाय
त्रिरेखादक्षिणावर्त्ताय त्रिप्रशस्ताय ।
एह्येहि पाञ्चजन्य ! त्वं नारायणकरास्थत ! ।
यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नमः ॥
ओम् रं णं मं नं पाञ्चजन्याय नमः ॥ ओम्
भगवते खड्गाय नन्दकाय त्रैलोक्यपावित्र्याय
जयिने सकलसुरासुरसुन्दरीनेत्रोत्पलार्च्चिताय ॥
एह्येहि खड्गरत्न ! त्वं नन्दकाख्य सुरार्च्चित ! ।
यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नमः ॥
ओम् खड्गाय नमः ॥ ओम् नमो भगवत्यै
कौमोदक्यै गदायै दानवेन्द्रनिसूदनायै भगवद्-
भट्टारकवासुदेवलालितायै ।
एह्ये हि त्वं गदे ! देवि कौमोदक्यायुधेश्वरि ! ।
यज्ञभागं प्रगृह्णस्व पूजाञ्चैव नमो नमः ॥
ओम् रं खं चं कं सं गदायै नमः ॥ एवं पद्माय
नमः । सशराय शार्ङ्गाय नमः । इति ॥ * ॥
अथ धारणमन्त्रः ।
सुदर्शन ! महाध्वान सूर्य्यकोटिसमप्रभ ! ।
अज्ञानान्धस्य मे नित्यं विष्णोर्म्मार्गं प्रदर्शय ॥
तथा ।
पाञ्चजन्य ! निजध्वानध्वस्तपातकसञ्चय ।
पाहि मां पापिनं घोरसंसारार्णवपातिनमिति ॥
इत्थमुच्चारयन् मन्त्रं दक्षिणादिक्रमेण तु ।
भुजयोश्चक्रपूर्ब्बाणि कृष्णशस्त्राणि धारयेत् ॥
कलत्रादिपरीवारान् निजान् सर्व्वांश्च वैष्णवः ।
भगवत्यर्पयन् तप्तमुद्राभिस्ताभिरङ्कयेत् ॥
तथा च । वाराहे ।
अङ्कयेत्तप्तचक्राद्यैरात्मनो बाहुमूलयोः ।
कलत्रापत्यभृत्येषु पश्वादिषु च सम्पदे ॥
किञ्च ।
आयसं विधिवत् कृत्वा पञ्चायुधविधानतः ।
तत्तन्मन्त्रेण मन्त्रज्ञः प्रतिष्ठाप्य पृथक् पृथक् ॥
ललाटे च गदा धार्य्या मूर्द्ध्नि चापं शरन्तथा ।
नन्दकञ्चैव हृन्मध्ये शङ्खचक्रे भुजद्बये ॥
किञ्च ।
दक्षिणे तु भुजे विप्रो विभृयाद्वै सुदर्शनम् ।
सव्ये च शङ्खं विभृयादिति ब्रह्मविदो विदुः ॥
अथ चक्रादिप्रतिकृतिद्रव्यम् । नवप्रश्नपञ्च-
रात्रे ।
सौवर्णं राजतं ताम्रं कांस्यमायसमेव वा ।
चक्रं कृत्वा तु मेधावी धारयेत विचक्षण इति ॥
एवमेव प्रबोधन्यां द्वादश्यां भगवत्परैः ।
तप्तमुद्रा ध्रुवं धार्य्या द्बारकायां विशेषतः ॥
इति श्रीहरिभक्तिविलासे १५ विलासः ॥

तप्तरूपकं, क्ली, (तप्तं वह्निशोधितं रूपकं रूप्यम् ।)

शुद्धरौप्यम् । इति राजनिर्घण्टः ॥

तप्तशूर्म्मिकुण्डं, क्ली, (तप्ता अग्निमयी शूर्म्मिः

लौहप्रतिमूर्त्तिर्यत्र । तथाविधं कुण्डं यस्मिन् ।)
नरकविशेषः । इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

तप्तसुराकुण्डं, क्ली, (तप्तायाः सुरायाः कुण्डमिव ।)

नरकविशेषः । इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥

तम, उ इर् भ य खेदे । इच्छायाम् । इति कवि-

कल्पद्रुमः ॥ (दिवां-परं-अकं-सेट् ।) उ,
तमित्वा तान्त्वा । इर्, अतमत् अतमीत् ।
अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । भ य,
ताम्यति लोकः उत्तप्तः स्यादित्यर्थः । इति
दुर्गादासः ॥

तमं, क्ली, (ताम्यत्यस्मादनेन वा । तम + अपा-

दाने करणे वा संज्ञायां घः ।) अन्धकारः । इति
शब्दरत्नावली ॥ पादाग्रम् । इति शब्द-
चन्द्रिका ॥

तमः, पुं, (ताम्यत्यनेनेति । तम + संज्ञायां घः ।)

तमोगुणः । इत्यमरटीकायां रायमुकुटः ॥
तमालवृक्षः । इति शब्दचन्द्रिका ॥ (राहुः ।
इत्यमरः । १ । ३ । २६ । यथा, ज्योतिषे होरायाम् ।
“भृगुतमबुधजीवैरिति । कितवस्तमस्येति
वराहः ॥” इति उणादिवृत्तिटीकायां उज्-
ज्वलदत्तः । ४ । १८८ ॥)

तमः, [स्] क्ली, (ताम्यत्यनेनेति । तम + “सर्व्व-

धातुभ्योऽसुन् ।” उणां । ४ । १८८ । इति
असुन् ।) प्रकृतेर्गुणविशेषः । यथा, --
“सत्त्वं रजस्तम इति दृश्यन्ते पुरुषे गुणाः ।
कालसञ्चोदितास्तेऽपि परिवर्त्तन्त आत्मनि ॥
प्रभूतञ्च यदा सत्त्वं मनोबुद्धीन्द्रियाणि च ।
तदा कृतयुगं विद्याद्दाने तपसि यद्रतिः ॥
यदा कर्म्मसु कार्य्येषु शक्तिर्यशसि देहिनाम् ।
तदा त्रेता रजोवृत्तिरिति जानीहि शौनक ! ॥
यदा लोभस्त्वसन्तोषो मानो दम्भोऽथ मत्सरः ।
कर्म्मणाञ्चापि काम्यानां द्बापरस्तद्रजस्तमः ॥
यदा सदानृतं तन्द्री निद्राहिंसादिसाघनम् ।
शोकमोहभयं दैन्यं स कलिस्तु तदा स्मृतः ॥”
इति गारुडे २२७ अध्यायः ॥ * ॥
अपि च ।
“तमस्त्वज्ञानजं विद्धि मोहनं सर्व्वदेहिनाम् ।
प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ! ॥
सत्त्वं सुखे सञ्जयति रजः कर्म्मणि भारत ! ।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥
रजस्तमश्चाभिभूय सत्त्वं भवति भारत ! ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥”
“अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्यतानि जायन्ते विवृद्धे कुरुनन्दन ! ॥
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोकानमलान् प्रतिपद्यते ॥
रजसि प्रलयं गत्वा कर्म्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥
कर्म्मणः सुकृतस्याहुः सात्त्विकं निर्म्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥
सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥
ऊर्द्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तस्था अधो गच्छन्ति तामसाः ॥”
इति श्रीभगवद्गीतायाम् । १४ । ८१८ ॥
तत्तु आवरकं मोहहेतुः । इत्यमरभरतौ ॥
अस्य कार्य्यं संहारः । इति श्रीधरस्वामी ॥
तस्य धर्म्मो यथा । प्रमादः १ मोहः २ भयम् ३
क्लान्तिः ४ विषादः ५ शोकः ६ अरतिः ७
अनार्य्यता ८ । इति मोक्षधर्म्मः ॥ श्रमः ९
तन्द्रा १० । इत्याश्वमेधिकपर्व्व ॥ अन्धकारः ।
(यथा, महाभारते । १ । १०५ । १० ।
“तमसा लोकमावृत्य नौगतामेव भारत ! ॥”)
तत्पर्य्यायः । तमसम् २ निशाचर्म्म ३ नीलपङ्कम् ४
रजोबलम् ५ दिवान्तकः ६ वियद्भूतिः ७ खलुक् ८
वृत्रः ९ । इति त्रिकाण्डशेषः ॥ रजोरसम् १०
दिनान्तरम् ११ अन्धकम् १२ । इति शब्दरत्नावली ॥
अमरोक्तपर्य्यायोऽन्धकारशब्दे द्रष्टव्यः ॥ शोकः ।
इति मेदिनी । से, २४ ॥ पापम् । इति हेमचन्द्रः ॥
(राहुः । इति मेदिनी । से, २४ ॥ यथा, रषुः ।
८ । ३७ ।
“निमिमील नरोत्तमप्रिया
हृतचन्द्रा तमसेव कौमुदी ॥”)

तमङ्गकः, पुं, इन्द्रकोषः । मञ्चकः । इति हेमचन्द्र-

स्त्रिकाण्डशेषश्च ॥

तमतः, त्रि, (तम + “भृमृदृशियजिपर्व्विपच्यमि-

तमीति ।” उणां । ३ । ११० । इति अतच् ।)
तृषितः । वाञ्छितः । इत्युणादिकोषः ॥

तमप्रभः, पुं, (तम इव प्रभाऽस्य अस्मिन् वा ।)

नरकभेदः । इति हेमचन्द्रः ॥

तमरं, क्ली, (तमं रातीति । रा + कः ।)

वङ्गम् । इति हेमचन्द्रः ॥

तमराजः, पुं, (तम इव राजते । राज + अच् ।)

शर्कराविशेषः । नवात इति ख्यात इति केचित् ।
तत्पर्य्यायः । शालकः २ । तस्य गुणः । तृष्णा-
ज्वरदाहरक्तपित्तनाशित्वम् । इति राजवल्लभः ॥

तमसं, क्ली, (तम + “अत्यविचमितमीति ।”

उणां । ३ । ११७ । इति असच् ।) अन्धकारः ।
इति त्रिकाण्डशेषः ॥ नगरम् । इति संक्षिप्त-
सारे उणादिवृत्तिः ॥

तमसः, पुं, (तम + असच् ।) कूपः । अन्धकारः ।

इति संक्षिप्तसारे उणादिवृत्तिः ॥

तमसा, स्त्री, (तमैव जलमस्त्यस्याः । अच् टाप्

च ।) नदीविशेषः । इति संक्षिप्तसारेउणादि-
वृत्तिः ॥ (यथा, महाभारते । ३ । २२१ । २४ ।
“तमसा नर्म्मदा चैव नदी गोदावरी तथा ॥”)
पृष्ठ २/५९१

तमस्ततिः, स्त्री, (तमसस्ततिः समूहः ।) अन्ध-

कारसमूहः । इति तमिस्राशब्दार्थे मेदिनी ॥

तमस्विनी, स्त्री, (तमो विद्यतेऽस्यामिति विनिः

ङीप् च ।) रात्रिः । (यथा, महाभारते ।
४ । २१ । ३८ ।
“अदृश्यमानस्तस्याद्य तमस्विन्यामनिन्दिते ! ।
नागोविल्लमिवाक्रम्य पोथयिष्याम्यहं शिरः ॥”)
हरिद्रा । इत्यमरः । २ । ९ । ४१ ॥

तमा, स्त्री, (तमोऽस्त्यस्यामिति । तम + अच्

टाप् च ।) रात्रिः । इति हेमचन्द्रः ॥ तमाल-
वृक्षः । इति शब्दचन्द्रिका ॥

तमाः, [स्] पुं, राहुः । इति मेदिनी । से, २४ ॥

तमालं, क्ली, (तम्यते काङ्क्ष्यते इति । तमु काङ्क्षा-

याम् + “तमिविशिविडीति ।” उणां । १ । ११७ ।
इति कालन् ।) पत्रकम् । इति राजनिर्घण्टः ॥

तमालः, पुं, (तमु काङ्क्षायाम् + कालन् ।) वृक्ष-

विशेषः । तत्पर्य्यायः । कालस्कन्धः २ तापिञ्छः
३ । इत्यमरः । २ । ४ । ६८ ॥ तापिञ्जः ४ । इति
भरतः ॥ नीलतालः ५ तमालकः ६ नीलध्वजः ७
कालतालः ८ महाबलः ९ । (यथा, भागवते ।
३ । १३ । ३३ ।
“तमालनीलं सितदन्तकोट्या
क्ष्मामुत्क्षिपन्तं गजलीलयाङ्ग ॥”)
अस्य गुणाः । मधुरत्वम् । बल्यत्वम् । वृष्यत्वम् ।
शिशिरत्वम् । गुरुत्वम् । कफपित्ततृषादाह-
श्रमशान्तिकरत्वञ्च । इति राजनिर्घण्टः ॥
तिलकम् । (यथा, कुट्टनीमते । १६ ।
“यस्यामुपवनवीथ्यां तमालपत्राणि युवतिवदने च ।
नखरप्रहाररणितं तन्त्रीवाद्येषु सुरतकलहेषु ॥”
तमालस्तापिञ्छवृक्षः युवतिवदनपक्षे तिलक-
मिति ॥) खड्गः । वरुणवृक्षः । इति मेदिनी ।
ले, ९७ ॥ क्वष्णखदिरः । इति शब्दचन्द्रिका ॥
वृक्षभेदे वंशत्वचि च पुं क्ली । इति लिङ्गादि-
संग्रहे अमरभरतौ ॥

तमालकं, क्ली, (तमालपत्रवत् वर्णेन कायतीति ।

कै + कः ।) सुनिषण्णशाकम् । इति त्रिकाण्ड-
शेषः ॥ (तमालमेव । स्वार्थे कन् ।) पत्रकम् ।
इति राजनिर्घण्टः ॥ तेजपात इति भाषा ॥

तमालकः, पुं, क्ली, (तमाल एव । स्वार्थे कन् ।)

तमालवृक्षः । (यथा, रामायणे । २ । ९१ । ५० ।
“ततः सरलतालाश्च तिलकाः सतमालकाः ।
प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः ॥”)
वंशत्वक् । इति शब्दरत्नावली ॥

तमालपत्रं, क्ली, (तमालस्य पत्रमिव वर्णोऽस्या-

स्तीति । अर्श आदित्वात् अच् ।) तिलकम् ।
पत्रकम् । (यथास्य पर्य्यायाः ।
“पत्रन्तमालपत्रञ्च तथा स्यात् पत्रनामकम् ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
तमालवृक्षः । इति मेदिनी । रे, ३०२ ॥ (तमा-
लस्य पत्रम् । यथा, रघुः । ६ । ६४ ।
“तमालपत्रास्तरणासु रन्तुं
प्रसीद शश्वन्मलयस्थलीषु ॥”)

तमालिका, स्त्री, (तमालाः सन्त्यत्र । तमाल +

ठन् ।) तामलिप्तदेशः । इति त्रिकाण्डशेषः ॥
ताम्रवल्ली । भूम्यामलकी । इति राजनिर्घण्टः ॥

तमालिनी, स्त्री, (तमालो तमालवर्णोऽस्त्यस्या

इति । इनिः ततो ङीप् ।) भूम्यामलकी । इति
राजनिर्घण्टः ॥ तामलिप्तदेशः । इति हेम-
चन्द्रः ॥

तमाली, स्त्री, (तम + कालन् । गौरादित्वात्

ङीष् ।) ताम्रवल्ली । वरुणवृक्षः । इति राज-
निर्घण्टः ॥

तमिः, स्त्री, (तम्यते ग्लायतेऽत्र । तम + “सर्व्व-

धातुभ्य इन् ।” उणां । ४ । ११७ । इतीन् ।)
रात्रिः । इत्यमरटीकायां भरतः ॥

तमिस्रं, क्ली, (तमोऽस्त्यत्र । “ज्योत्स्नातमिस्रेति ।”

५ । २ । ११४ । इति निपातनात् साधुः । यद्वा,
तमिस्रा अस्त्याश्रयत्वेनास्य अच् ।) अन्धकारम् ।
इत्यमरः ॥ (यथा, महाभारते । ४ । २१ । १७ ।
“यदेतन्नर्त्तनागारं मत्स्यराजेन कारितम् ।
दिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथागृहम् ॥
तमिस्रे तत्र गच्छेथा गन्धर्व्वास्तन्न जानते ॥”)
क्रोधः । इति मेदिनी । रे, ६१ ॥ (नरकविशेषः ।
यथा, भागवते । ४ । ७ । ४४ ।
“अमङ्गलानाञ्च तमिस्रमुल्वणं
विपर्य्ययः केन तदेव कस्यचित् ॥”)

तमिस्रपक्षः, पुं, (तमिस्रमन्धकारं तत्प्रधानः

पक्षः ।) कृष्णपक्षः । यथा, तमिस्रपक्षत्रुटि-
कूटभक्षितमिति श्रीहर्षः ॥

तमिस्रा, स्त्री, (तमोबहुत्वमस्ति अस्याम् ।

“ज्योत्स्नातमिस्रेति ।” ५ । २ । ११४ । इति
निपातनात् साधुः ।) अन्धकाररात्रिः । कृष्ण-
पक्षनिशा । इत्यमरः ॥ तमोयुक्तरात्रिमात्रम् ।
इति रायमुकुटः ॥ दर्शरात्रिः । इति वाच-
स्पतिः ॥ तमस्ततिः । इति मेदिनी । रे, १६१ ॥
(यथा, रघुः । ५ । १३ ।
“सूर्य्ये तपत्यावरणाय दृष्टेः
कल्पेत लोकस्य कथं तमिस्रा ॥”)

तमी, स्त्री, (तमिः कृदिकारादिति वा ङीष् ।)

रात्रिः । (यथा, माघे । ९ । २३ ।
“ददृशेऽपि भास्कररुचाह्नि न यः
स तमीं तमोभिरभिगम्य तताम् ॥”)
हरिद्रा । इत्यमरः । २ । ९ । ४१ ॥

तमोघ्नः, पुं, (तमोऽन्धकारं मोहमज्ञानं वा

हन्तीति । हन + टक् ।) वह्निः । सूर्य्यः । (यथा,
महाभारते । ७ । १४४ । १३६ ।
“स देवशत्रूनिव देवराजः
किरीटमाली व्यधमत् समन्तात् ।
यथा तमांस्यभ्युदितस्तमोघ्नः
पूर्ब्बप्रतिज्ञां समवाप्य वीरः ॥”)
चन्द्रः । बुद्धः । केशवः । शम्भुः । इति मेदिनी ।
ने, ७१ ॥

तमोज्योतिः, [स्] पुं, (तमसि ज्योतिर्यस्य ।)

ज्योतिरिङ्गणः । इति शब्दरत्नावली ॥

तमोनुत्, [द्] पुं, (तमोऽन्धकारं नुदतीति ॥

नुद् + क्विप् ।) अग्निः । सूर्य्यः । चन्द्रः । दीपः
इति शब्दरत्नावली ॥ (तमोनाशके, त्रि यथा
महाभारते । १३ । १६६ । ८ ।
“एवमुक्तस्तदात्रिर्वै तमोनुदभवच्छशी ।
अभवत् सौम्यभावाच्च सामवत् प्रियदर्शनः ॥”)

तमोनुदः, पुं, (तमोऽन्धकारं नुदतीति । नुद् +

“इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।)
सूर्य्यः । इति शब्दरत्नावली ॥ (अग्निः । चन्द्रः ।
इति विश्वः ॥ यथा, रघुः । ३ । ३३ ।
“नरेन्द्रकन्यास्तमवाप्य सत्पतिं
तमोनुदं दक्षसुता इवाबभुः ॥”
प्रकृतिप्रेरकः । यथा, मनुः । १ । ६ ।
“ततः स्वयम्भुर्भगवानव्यक्तो व्यञ्जयन्निदम् ।
महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥”)

तमोपहः, पुं, (तमोऽन्धकारं अपहन्तीति । अप +

हन् + “अपे क्लेशतमसोः ।” ३ । २ । ५० ।
इति डः ।) सूर्य्यः । चन्द्रः । बुद्धिः । अग्निः ।
इति मेदिनी । हे, ३० ॥ (अज्ञाननाशके, त्रि ।
यथा, किरातार्ज्जुनीये । ५ । २२ ।
“आगमादिव तमोपहादितः
सम्भवन्ति मतयो भवच्छिदः ॥”)

तमोभित्, [द्] पुं, (तमस्तिमिरं भिनत्ति

स्वज्योतिःप्रकाशनेन नाशयतीति । भिद् +
क्विप् ।) खद्योतः । इति शब्दमाला ॥

तमोमणिः, पुं, (तमसि अन्धकारे मणिरिव ।)

खद्योतः । इति त्रिकाण्डशेषः ॥ गोमेदकमणिः ।
इति राजनिर्घण्टः ॥

तमोलिप्ती, स्त्री, (तमसा लिप्यते इति । लिप +

क्तः निपातनात् ङीप् ।) देशविशेषः । तमो-
लुक इति भाषा ॥ तत्पर्य्यायः । तामलिप्तः २
वेलाकुलम् ३ तमालिका ४ । इति शब्दरत्ना-
वली ॥ तामलिप्तम् ५ तामलिप्ती ६ । इति
त्रिकाण्डशेषः ॥ दामलिप्तम् ७ तमालिनी ८
स्तम्बपूः ९ विष्णुगृहम् १० । इति हेमचन्द्रः ॥

तमोविकारः, पुं, (तमसैव विकारो यत्र ।) रोगः ।

इति राजनिर्घण्टः ॥

तमोहरः, पुं, (तमो हरतीति । हृ + अच् ।

तमस्य हर इति वा ।) चन्द्रः । इति शब्दरत्ना-
वली ॥ (अग्निः । सूर्य्यः । इति व्युत्पत्तिलब्धो-
ऽर्थः ॥)

तम्पा, स्त्री, (तम्बति गच्छतीति । तम्ब + अच् ।

पृषोदरादित्वात् साधुः ।) गौः । इति हेम-
चन्द्रः । ४ । ३३ ॥

तम्ब, गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं-सकं-

सेट् ।) ओष्ठ्यवर्गशेषोपघः । तम्बति । इति
दुर्गादासः ॥

तम्बा, स्त्री, (तम्बति गच्छतीति । तम्ब + अच् ।)

गौः । इति हेमचन्द्रः । ४ । ३३२ ॥

तय, ङ गतौ । रक्षे । इति कविकल्पद्रुमः ॥ (भ्वां-

आत्मं-सकं-सेट् ।) ङ, तयते । इति दुर्गा-
दासः ॥
पृष्ठ २/५९२

तरः, पुं, (तॄतरणे + “ऋदोरप् ।” ३ । ३ । ५७ । इति

अप् ।) तरणम् । (यथा, मनुः । ८ । ४०४ ।
“पणं यानं तरे दाप्यं पौरुषोऽर्द्धपणं तरे ॥”)
कृशानुः । इति मेदिनी । रे, ४० ॥ वृक्षः ।
इति भूरिप्रयोगः ॥ (“तरतमौ द्विबहूनामेकोत्-
कर्षे ।” इति मुग्धबोधसूत्रात् प्रत्ययविशेषश्च ॥)

तरः, [स्] क्ली, (तॄ प्लवनतरणयोः + करणादौ

यथायथं असुन् ।) बलम् । (यथा, रघुः ।
११ । ७७ ।
“तिष्ठतु प्रधनमेवमप्यहं
तुल्यबाहुतरसा जितस्त्वया ॥”)
वेगः । तीरम् । प्लवगः । इति शब्दरत्नावली ॥

तरक्षः, पुं, (तरक्षु + पृषोदरात् उलोपः ।) तरक्षुः ।

इत्यमरटीकायां भरतः ॥ (यथा, बृहत्संहि-
तायाम् । १२ । ६ ।
शैलकूटैस्तरक्षर्क्षशार्द्दूलशाखामृगाध्यासितैः ॥)

तरक्षुः, पुं, (तरं बलं मार्गं वा क्षिणोति ।

क्षिणु हिंसायाम् + मितद्र्वादित्वात् डुः ।) व्याघ्र-
विशेषः । नेकडे वाघ इति भाषा ॥ तत्-
पर्य्यायः । तर्क्षुः २ मृगादनः ३ तरक्षुकः ४ ।
इति शब्दरत्नावली ॥ (यथा, हरिवंशे । १६३ । १४ ।
“ततो मायां परां चक्रे देवशत्रुः प्रतापवान् ।
सिहान् व्याघ्रान् वराहांश्चतरक्षूनृक्षवा-
नरान् ॥”)

तरक्षुकः, पुं, (तरक्षु + स्वार्थे कन् ।) तरक्षुः ।

इति शब्दरत्नावली ॥

तरङ्गः, पुं, (तरति प्लवते इवि । तॄ + “तरत्यादि-

भ्यश्च ।” उणां । १ । ११९ । इति अङ्गच् ।)
वायुना नाद्यादिजलस्य तिर्य्यगूर्द्ध्वप्लवनम् । ढेउ
इति भाषा ॥ तत्पर्य्यायः । भङ्गः २ ऊर्म्मिः ३
वीचिः ४ । इत्यमरः ॥ ऊर्म्मी ५ वीची ६
विचिः ७ लहरी ८ हली ९ विलिः १० । इति
भरतः ॥ लहरिः ११ । इति सारसुन्दरी ॥
जललता १२ भृण्डिः १३ । इति हारावली ॥
उत्कलिका १४ ऊर्म्मिका १५ । इति जटा-
घरः ॥ वस्तम् । हयादीनां समुत्फालः । इत्यु-
णादिकोषः ॥

तरङ्गिणी, स्त्री, (तरङ्गो वीचिरस्त्यस्या इति ।

तरङ्ग + “अत इनिठनौ ।” इति इनिः ।)
नदी । इत्यमरः । १ । १० । ३० ॥ (यथा, माघः ।
“तरङ्गिणी वेणिरिवायता भुवः ॥”)

तरणं, क्ली, (तॄ + भावे ल्युट् ।) प्लवनपूर्ब्बक-

देशान्तरगमनम् । इति दुर्गादासः ॥ पारगम-
नम् । सन्तरणम् । यथा, मोहमुद्गरे । ६ ।
“क्षणमपि सज्जनसङ्गतिरेका
भवति भवार्णवतरणे नौका ॥”

तरणः, पुं, (तीर्य्यतेऽनेनेति । तॄ + करणे ल्युट् ।)

भेलकः । इति त्रिकाण्डशेषः ॥ स्वर्गः । इति
शब्दसन्दर्भसिन्धुः ॥

तरणिः, स्त्री, (तीर्य्यतेऽनयेति । तॄ + “अर्त्तिसृधृ-

धमीति ।” उणां । २ । १०३ । इति अनिः ।)
नौका । (यथा, आर्य्यासप्तशत्याम् । ३९० ।
“त्वामनुधावति तरणिस्तदपि गुणाकर्षतरले-
यम् ॥”)
घृतकुमारी । इत्यमरः । ४ । २ । ७३ ॥

तरणिः, पुं, (तरति पापमनेनेति । तॄ + अणिः ।)

सूर्य्यः । (यथा, देवीभागवते । ३ । ६ । २८ ।
“इत्युक्त्वा तरणिः कुन्तीं तन्मनस्कां सुलज्जिताम् ।
भुक्त्वा जगाम देवेशो वरं दत्त्वाभिवाञ्छितम् ॥”)
अर्कवृक्षः । इत्यमरः ॥ भेलकः । (यथा, वोप-
देवप्रशंसाश्लोकः ।
“सोऽयं व्याकरणार्णवैकतरणिश्चातुर्य्यचिन्तामणि-
र्जीयात् कोविदगर्व्वपर्व्वतपविः श्रीवोपदेवः
कविः ॥”)
किरणः । इति हेमचन्द्रः ॥

तरणिपेटकः, पुं, (तरणिः पेटक इव ।) काष्ठाम्बु-

वाहिनी । इति जटाधरः ॥

तरणिरत्नं, क्ली, (तरणिः सूर्य्यस्तत्प्रियं रत्नम् ।)

माणिक्यम् । इति राजनिर्घण्टः ॥

तरणी, स्त्री, (तरणिः । कृदिकारादिति वा ङीष् ।)

नौका । इति शब्दरत्नावली ॥ पद्मचारिणी ।
इति शब्दचन्द्रिका ॥ घृतकुमारी । इत्यमर-
टीकायां भरतः ॥

तरण्डः, पुं, क्ली, (तरति प्लवत इति । त प्लवनतर-

णयोः + बाहुलकात् अण्डन् ।) । वडिशीसूत्र-
बद्धकाष्ठादि । प्लवः । नौका । इति मेदिनी ।
डे, २९ ॥ कुम्भतुम्बीरम्भादिसञ्चरः । इति
शब्दरत्नावली ॥

तरण्डः, पुं, देशविशेषः । इति शब्दरत्ना-

वली ॥

तरण्डपादा, स्त्री, (तरण्डः प्लवनशीलः पादः

प्रायेण तुरीयांशो यस्याः ।) नौका । इति
शब्दरत्नावली ॥

तरण्डी, स्त्री, (तरत्यनयेति । त + अण्डन् । गौरा-

दित्वात् ङीष् ।) नौका । इति शब्दरत्नावली ॥
(तरण्डा । इति हारावलीधृतपाठः । ५५ ॥)

तरत्, [द्] स्त्री, (तरत्यनेनेति । त + बाहु-

लकाददिः ।) प्लवः । (तरतीति । तॄ + कर्त्तरि
अदिः ।) कारण्डवपक्षी । इति मेदिनी । दे, २९ ॥

तरदी, स्त्री, कण्टकिवृक्षभेदः । तत्पर्य्यायः ।

तारदी २ तीव्रा ३ खर्वुरा ४ रक्तवीजका ५ ।
अस्या गुणाः । तिक्तत्वम् । मधुरत्वम् । गुरु-
त्वम् । बल्यत्वम् । कफनाशित्वञ्च । इति राज-
निर्घण्टः ॥

तरन्तः, पुं, (तरतीति । त + “तॄभूवहिवसीति ।”

उणां । ३ । १२८ । इति झच् ।) भेकः । आसारः ।
(तीर्य्यते इति । + कर्म्मणि झच् ।) समुद्रः ।
इत्युणादिकोषः ॥

तरन्ती, स्त्री, (तीर्य्यतेऽनयेति । तॄ + झच् । ततो

ङीष् ।) तरिः । इत्युणादिकोषः ॥

तरपण्यं, क्ली, (तॄ + भावे अप् । तरस्तरणं तस्य

पण्यम् ।) आतरः । इत्यमरः । १ । १० । ११ ॥
नौका भाडा इति भाषा ॥

तरम्बुजं, क्ली, (तरं तरलं अम्बुवत् जायतेऽत्र ।

जन + बहुलवचनात् डः ।) फलविशेषः । तर-
मूज इति ख्यातः । यथा, उत्तरकामाख्यातन्त्रे ।
“ज्यैष्ठे मासि महेशानि ! पौर्णमास्यां निशार्द्धके ।
तृष्णातुरा महाकाली भ्रमन्ती पितृकानने ॥
तज्ज्ञात्वा ब्रह्मणा तस्यै फलं दत्तं तरम्बुजम् ।
तत्फलभक्षणात्तृप्ता वरदा सा हरप्रिया ॥
यो मे दद्यात् फलं रम्यं स चिरायुश्चतुर्युगम् ॥”

तरलः, पुं, (तॄ + “वृषादिभ्यश्चित् ।” उणां । १ ।

१०८ । इति कलप्रत्ययश्चिच्च ।) हारः । हार-
मध्यमणिः । (यथा, महाभारते । ८ । ९४ । १९ ।
“प्रकीर्णका विप्रकीर्णाश्च राजन् !
प्रवालमुक्तातरलाश्च हाराः ॥”)
तलम् । इत्यजयपालः ॥ (जनपदविशेषः ।
तद्देशवासिनि बहुवचनान्तः । यथा, महा-
भारते । ८ । ८ । २० ।
“वत्सान् कलिङ्गान् तरलानश्मकानृषिकानपि ॥”)

तरलः, त्रि, (तॄ + कलच् ।) चलः । (यथा

नैषधे । ५ । २४ ।
“आः स्वभावमधुरैरनुभावै-
स्तावकैरतितरां तरलाः स्मः ॥”)
षिड्गः । भास्वरः । इति मेदिनी । ले, ९५ ॥
मध्यशून्यद्रव्यम् । इति धरणिः । द्रवीभूतश्च ॥

तरललोचना, स्त्री, (तरले चञ्चले लोचने यस्याः ।)

चञ्चलनयना नारी । इति हेमचन्द्रः ॥

तरला, स्त्री, (तॄ + कलच् टाप् च ।) यवागूः ।

सुरा । इति मेदिनी । ले, ९६ ॥ मधुमक्षिका ।
इति हेमचन्द्रः ॥

तरलितं, त्रि, (तरलं तारल्यमस्य जातम् । तरल +

इतच् । तरल इवाचरति तारलं करोतीति ।
तरल + क्विप् + णिच् + क्त इति केचित् ।)
जाततारल्यम् । तत्पर्य्यायः । प्रेङ्खोलितम् २
लुलितम् ३ प्रेङ्खितम् ४ द्रुतम् ५ चलितम् ६
कम्पितम् ७ धूतम् ८ वेल्लितम् ९ आन्दोलि-
तम् १० । इति हेमचन्द्रः ॥ (यथा, गीतगोविन्दे ।
१२ । १५ ।
“व्यालोलः केशपाशस्तरलितमलकैः स्वेदलोलौ
कपोलौ ॥”)

तरवारिः, पुं, (तरं समागतविपक्षबलं वारय-

तीति । वृ + णिच् + इन् ।) खड्गः । तरवार
इति भाषा । इति हेमचन्द्रः । ३ । ४४५ ॥
अथ खड्गपरीक्षा ।
“अङ्गं रूपं तथा जातिर्नेत्रारिष्टे च भूमिका ।
ध्वनिर्म्मानमिति प्रोक्तं खड्गज्ञानाष्टकं शुभम् ॥
अभिन्ने दृश्यते यादृक् विभिद्य घटिते तथा ।
यदेव दृश्यते चिह्नं तदङ्गं संप्रचक्षते ॥
नीलकृष्णादिकं खड्गे रूपमित्यभिधीयते ।
तेनैव यत् प्रतीतं स्यात् तज्जातिरिति गद्यते ॥
अङ्गातिरिक्तं यज्जातिस्तन्माहात्म्योपसूचकम् ।
तन्नेत्रमिति जानीयात् खड्गे खड्गविशारदाः ॥
अङ्गातिरिक्तं खड्गादियच्छुद्धत्वापसूचकम् ।
तदरिष्टमिति प्राहुर्भूमिरङ्गादिधारणम् ॥
पृष्ठ २/५९३
यः खड्गे जायते शब्दो नखदण्डादिनाहते ।
स ध्वनिस्तुलनामानं ज्ञानमष्टविधन्त्विदम् ॥
पञ्चाद्या निपुणैः खड्गे सम्भाव्यन्तेऽपि कृत्रिमाः ।
अन्त्यावकृत्रिमौ ज्ञेयौ तावेव सहजाविति ॥
शतमङ्गानि चत्वारि रूपाणि जायतस्तथा ।
त्रिंशन्नेत्राणि जानीयादरिष्टानि तथैव च ॥
भूमिश्च द्बिविधा ज्ञेया ध्वनिरष्टविधो मतः ।
मानन्तु द्बिविधं प्रोक्तमित्येषां संग्रहो मतः ॥” ॥
अथ खड्गस्य शताङ्गगणना लौहार्णवे ।
“रूप्यस्वर्णगजोरुवूकदमनस्थूलाङ्गकृष्णारुण-श्वेता-
म्भोजगदातिलानलकणाग्रन्थिस्थिरातैत्तिराः ।
मालाजीरकषट्पदोर्द्ध्वमरिचव्यालाश्ववर्हाञ्जन-
क्षौद्रक्षुद्रकमक्षिकातुषयवव्रीहिक्षुमासर्षपाः ॥
सिंहीतण्डुलगोशिराशिवनखग्राहाक्षिकेशोपल-
द्रोणीकाककपालपत्रतुवरीविम्बीफलीसर्षपाः ।
नीलीरक्तवचारसोनसुमनाजिङ्गीशमीरोहित-
प्रोष्ठीमारिषमार्कवाखुरतडिन्मेघाद्रिगुङ्गाशराः ॥
दूर्व्वाविल्वमसूरटुण्टुकशटीमार्जारिकाकेतकी-
मूर्व्वावज्रकलायचम्पकबलान्यग्रोधवंशासनाः ।
ज्येष्ठीजालपिपीलिकानलरजः कुष्माण्डरोम-
स्पृही
कर्कन्धुर्व्वकुलारनालमहिषस्वच्छर्त्तुवक्रा इति ॥
प्रोक्ता लौहविशारदेन मुनिना खड्गस्य भेदाः
क्रमात् ॥”
अथ तस्य चत्वारि रूपाणि ।
“नीलः कृष्णः पिशङ्गश्च धूम्रश्चेति चतुर्व्विधः ।
वर्णप्रकर्षः खड्गानां कथितो मुनिपुङ्गवैः ॥”
अथ चतस्रो जातयः ।
“ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्चेति चतुर्व्विधः ।
जातिभेदो विनिर्द्दिष्टः खड्गानां मुनिपुङ्गवैः ॥”
अथ त्रिंशन्नेत्राणि ।
“चक्रं पद्मं गदा शङ्खो डमरुर्द्धनुरङ्कुशः ।
छत्रं पताका वीणा च मत्स्यलिङ्गध्वजेन्दवः ॥
कुम्भः शूलश्च शार्द्दूलः सिंहः सिंहासनं गजः ।
हंसो मयूरो जिह्वा च दशनः खड्ग एव च ॥
पुत्त्रिका चामरं शैलः पुष्पमाला भुजङ्गमः ।
त्रिंशदेतानि नेत्राणि खड्गानां कथितानि वै ॥”
अथ त्रिंशदरिष्टानि ।
“छिद्रं काकपदं रेखा भिन्नं भेकश्च मूषिकः ।
विडालः शर्करा नीली मशको भृङ्गसूचिके ॥
त्रिबिन्दुः कालिका दारी कपोतः काक एव च ।
खर्परः शकली क्रोडी कुशपत्रकजालिके ॥
करालकङ्कखर्ज्जूरशृङ्गपुच्छखनित्रकम् ।
लाङ्गलं वडिशाख्यञ्च मुनिना तत्त्ववेदिना ॥
प्रोक्तोन्येतान्यरिष्टानि खड्गानां त्रिंशदेव हि ॥”
अथ द्बिविधा भूमिः ।
“दिव्यभौमविभागेन भूमिस्तु द्बिविधा भवेत् ।”
अथाष्ठधा ध्वनिः ।
“हंसकांस्याभ्रढक्कानां काकतन्त्रीखराश्मनाम् ।
ध्वनयोऽष्टविधाः प्रोक्ता नागार्ज्जुनमुनेर्मताः ॥”
अथ द्बिविधं मानम् ।
“उत्तमाधमभेदेन मानं तद्द्विविधं भवेत् ।
इति प्रोक्तानि सूत्राणि खड्गानां ज्ञानहेतवे ॥
एतानि तत्त्वतो ज्ञात्वा भवेन्नृपतिपूजितः ॥”
इति सूत्राध्यायः ॥ * ॥
तत्र प्रथमतोऽङ्गानां लक्षणानि निबोधत ॥
लौहप्रदीपे ।
“रूप्यपत्रसमा भूमिरङ्गं श्वेतं प्रतीयते ।
ऊर्द्ध्वं तर्त्तुं महामूल्यं रूप्यवज्रमुषन्ति तम् ॥
एष खड्गवरो दद्याल्लक्ष्मीमायुर्यशो बलम् । १ ।
स्वर्णरेखा वली तन्वी यद्भूमौ निकषोपमा ।
स्वर्णवज्रमिति प्राहुरायुर्लक्ष्मीजयप्रदम् ॥ २ ॥
गजशुण्डाकृतिर्भूमौ कृष्णायामङ्गसम्भवः ।
गजवज्रमिति प्राहू रक्तस्पर्शे तु तद्बिशेत् ॥
ज्वरादिव्याधिशमनं तस्य प्रक्षालनाम्भसा ।
अपि क्षीणोऽपि भूपालस्तद्बीर्य्यात् साधयेन्
महीम् ॥ ३ ॥
एरण्डबीजप्रतिममङ्गं भूमिः सितेतरा ।
रुवुवज्रमिदं नाम्ना शत्रुदर्पक्षयङ्करः ॥
एतस्य स्पर्शमात्रेण नरः सम्यग्विमुच्यते ।
महिषाख्यमिदं वज्रं केचिदाहुर्मनीषिणः ॥ ४ ॥
अङ्गं दमनपत्राभं खड्गे यस्मिन् प्रतीयते ।
विद्याद्दमनवज्रञ्च तज्ज्ञेयं द्बिविधं बुधैः ॥
नीला शुभ्रा भवेद्भूमिस्तत्र नीला गरीयसी ।
तस्मिन् पर्य्युषितं तोयं गन्धे दमनकोपमम् ॥
तत्प्रभावान्महीपालः कृत्स्नां पृथ्वीं हि साध-
येत् ॥ ५” ॥
शार्ङ्गधरस्य ।
“एका स्थूला सिता रेखा भूमिर्न्नीला दृढा यदि ।
स्थूलाङ्गमङ्गवज्रं तद्बिद्याल्लक्ष्मीयशःप्रदम् ॥
एतत्क्षते भवेच्छोथः स्थूलश्चिरतरस्थितिः ।
एतं महान्तमपरे वदन्ति खड्गकोविदाः ॥ ६ ॥
घृष्टायां दृश्यते भूमौ अङ्गञ्च प्रतिविम्बितम् ।
अङ्गवज्रं भवेत्तस्य द्बिधाभूमिः सितासिता ॥ ७” ॥
लौहप्रदीपेऽपि ।
“निरङ्गं रूप्यपत्राभमीषन्मणिनिभञ्च यत् ।
दुर्ल्लभं तन्महामूल्यं कान्तलौहं प्रचक्षते ॥
कृष्णा भूमिर्भवेत् स्वच्छा पीता वज्राङ्गसङ्गता ।
कृष्णावज्रमिति प्राहुस्तत्क्षते मोह उच्यते ॥”
प्रदीपेऽपि ।
“कृष्णा भूमिः सुवर्णाभमीषच्छुक्लाङ्गसङ्गतम् ।
डाहुलीवज्रकं विद्यात् कालसंज्ञमथापरे ॥ ८ ॥
अरुणं सूक्ष्ममूर्द्धञ्चेदङ्गं भूमिः सितेतरा ।
अरुणाख्यमिदं वज्रं शत्रुदर्पनिसूदनम् ॥
सूर्य्यांशुस्पर्शमात्रेण वह्निरूपां वमेत् शिखाम् ।
तस्य स्मर्शनमात्रेण पद्मकोषः स्फुटेन्निशि ॥
दुर्ल्लभं तन्मनुष्याणां भाग्यैः कुत्रापि लभ्यते ।
तद्योजनसहस्रस्य रिष्टं नाशयति ध्रुवम् ॥ ९ ॥
श्वेतास्तिस्रो यदा रेखा आमूलादुपलक्ष्यते ।
श्वेताङ्गमिति तद्बिद्याद्यशोलक्ष्मीबलप्रदम् ॥ १० ॥
अम्भोजदलसङ्काशमङ्गं भूमिः सितेतरा ।
अम्भोजवज्रं तज्ज्ञेयं कथितं मुनिपुङ्गवैः ॥ ११ ॥
अङ्गं यस्य गदाकारं भूमिश्चैव सितेतरा ।
गदावज्रमिदं ब्रूयात् तत्क्षते शूलसम्भवः ॥ १२ ॥
अङ्गं कृष्णतिलाकारं भूमिश्चैव सितासिता ।
तिलवज्रमिदं ज्ञेयं लक्ष्मीबलयशःप्रदम् ॥
तत्क्षते तिलतैलाभा वसा प्रच्यवतेऽधिकम् । १३ ।
धूम्रवर्णा भवेद्भूमिरङ्गं वह्निशिखोपमम् ॥
अग्निवज्रमिदं ज्ञेयं शत्रूणां दाहकारकम् ।
अत्र शीतोदकं न्यस्तं तप्तं भवति च क्षणात् ॥
शाणे वह्निं वमेद्यस्तु तथा सूर्य्यांशुसङ्गमात् ।
तत्क्षते बलवान् दाहो दग्धवच्च व्रणो भवेत् ॥
एतत् परमभाग्येन लभ्यते धरणीतले । १४ ।
भूमिः सिता तिला वापि अङ्गञ्चेत् पिप्पली-
प्रभम् ॥
कणावज्रमिदं ज्ञेयमन्तर्दाहस्तु तत्क्षते । १५ ।
कृष्णाभूमिर्यदैवाङ्गे दृश्यते ग्रन्थिसञ्चयः ॥
ग्रन्थिवज्रमिदं ज्ञेयं वैरिपक्षविनाशनम् ।
तत्क्षते बलवान् दाहस्तृषा च ज्वर एव च ॥ १६ ॥
शालपर्णीदलाकारमङ्गं कृष्णासिपुत्त्रिका ।
स्थिरावज्रमिदं प्राहुस्तत्क्षते वेपथुर्भवेत् ॥ १७ ॥
यदा तित्तिरिपक्षाभमङ्गं भूमिः सितेतरा ।
एतत्तिरिरिवज्रं स्यात् तत्क्षते बहुवेदनम् ॥ १८ ॥
वनमालासमा यस्मिन् माला खड्गे प्रदृश्यते ।
मालाङ्गमिति तद्विद्यात्तत्तोयं गन्धवद्भवेत् ॥
अत्र तप्तोदकं न्यस्तं शीतं भवति तत्क्षणात् ।
एष दाहपरीतानामृते पित्तहतात्मनाम् ॥
भवेत् परमभैषज्यं भाग्येनैतद्धि लभ्यते । १९ ।
यदा जीरकसङ्काशमङ्गं मूमिः सितासिता ॥
एतज्जीरकवज्रं स्यात्तत्क्षते तत्क्षणाज्ज्वरः । २० ।
भूमिः सितासितक्षेत्रा अङ्गं भृङ्गाभमिष्यते ॥
तत्र चेन्मध्यमन्यस्तं शेषमाप्नोति केवलम् ।
एतद्भ्रमरवज्रस्यात्तत्क्षते स्याद्बिसूचिका ॥ २१ ॥
ऊर्द्ध्वगं कपिलाभासमङ्गं यस्मिन् प्रतीयते ।
ऊर्द्ध्ववज्रमिदं प्राहुर्विषवेगनिसूदनम् ॥”
लौहप्रदीपेऽपि ।
“ऊर्द्ध्वगं कपिलाभासमङ्गं यस्मिन् प्रतीयते ।
लाङ्गलाङ्गन्तु तद्बिद्यात् स्पर्शे तस्याहिनाशनम् ॥
२२ ॥
अङ्गं मरीचसङ्काशं भवेद्भू मिः सितेतरा ।
मरीचाङ्गमिदं वज्रं तत्क्षते कटुरक्तता ॥
तत्प्रक्षालनतोयेन नश्यन्ति पीनसादयः । २३ ।
यदा सर्पफणाकारमङ्गं भूमिस्तु निर्म्मला ॥
भुजङ्गवज्रं तद्बिद्यात्तत्क्षते विषवद्रुजा ।
तस्य स्पर्शनमात्रेण भेकः प्राणैर्विमुच्यते ॥
एकस्यास्य प्रसादेन कृत्स्नां शास्ति महीं नृपः ।
२४ ।
यदाश्वखुरसङ्काशमङ्गं भूमिस्तु निर्म्मला ॥
अश्वाङ्गमिति तंविद्यात् खड्गं परमदुर्ल्लभम् ।
तस्य संयोगमात्रेण वाजी मन्दोऽपि धावति ॥
तस्य क्षालनतोयेन हयानां रोगनाशनम् ।
एतत्क्षते भृशं मूर्च्छा दाहश्च भ्रम एव च ॥ २५ ॥
मयूरपिच्छसदृशमङ्गं भूमिः सितेतरा ।
वर्हाङ्गमिति तं विद्यात्तत्क्षते वान्तिरिष्यते ॥
सर्पाणामिह सर्व्वेषामस्य स्पर्शासहिष्णुता ।
एतदेव नृपतिभिर्भाम्यैः कुत्रापि लभ्यते ॥ २६ ॥
पृष्ठ २/५९४
भूमिरञ्जनसङ्काशा धारा चास्य सिता भवेत् ।
अञ्जनाख्यमिदं प्रायः सर्व्वदैवोपलभ्यते ॥”
लौहप्रदीपेऽपि ।
“धारा शुभ्रा भवेद्यस्य भूमिः कज्जलसन्निभा ।
कृष्णरङ्गैश्चितं वापि विद्यात् कज्जलवज्रकम् ॥ २७ ॥
मधुवर्णसमा भूमिरङ्गं वा मधुबिन्दुवत् ।
क्षौद्राख्यभिति जानीयात् जयलक्ष्मीयशःप्रदम् ॥”
शार्ङ्गधरेऽपि ।
“निम्नकक्षो भवेद्यत्र रात्रिन्दिवविलेपितः ।
मधुरो मधुवर्णाभः स खड्गो देववल्लभः ॥
विशेषाच्चात्र रज्यन्ति सततं मक्षिकादयः । २८ ।
आसीमकोणिका यस्य क्षुद्राङ्गं कुण्डलीकृतम् ॥
क्षुद्रवज्रकनामानं प्राह नागार्ज्जुनो मुनिः ।
इदं कुण्डलवज्रञ्च प्राह लौहार्णवे मुनिः ॥
अस्य क्षतेषु बलवान् दाहः समवलोकितः । २९ ।
यदङ्गं मक्षिकाकारं भूमिश्चैव सितासिता ॥
स्नेहः शुष्यति चैवात्र मक्षिकाङ्गं तमादिशेत् । ३० ।
अङ्गं यदा तुषाकारं या च भूमिः सितासिता ॥
तुषवज्रमिदं ख्यातं प्राह नागार्ज्जुनोमुनिः । ३१ ।
अङ्गं यवफलाकारं भूमिः कृष्णा सिता तथा ॥
यवाङ्गमिति तं विद्यात्तत्स्पर्शे कण्डूसम्भवः ।
एष स्वड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः ॥ ३२
अङ्गं व्रीहिप्रसूनाभं भूमिर्धूम्रा क्षतेऽतिरुक् ।
तद्व्रीहिवज्रं जानीयाच्छत्रूणां भयवर्द्धनम् ३३ ॥
अतसीफलसङ्काशमङ्गं भूमिः सितासिता ।
अतसीवज्रमाहुस्तं तत्क्षते शिरसो रुजा ३४ ॥
यदा सषपबीजाभमङ्गं भूमिः सितासिता ।
खरधारः खरस्पर्शः सर्षपाङ्गः स दुर्ल्लभः ॥ ३५ ॥
सिंह्याकारं भवेद्यस्य अङ्गं भूमिः सितासिता ।
सिंहीवज्रन्तु तद्बिद्यात्तत्क्षते प्रलपेन्नरः ॥
एतद्धावनतोयेन कासरोगोपनाशनम् ॥ ३६ ॥
अङ्गं तण्डुलसङ्काशं भूमिर्धूम्रा सितासिता ।
तण्डुलाङ्गमिमं विद्याद्यशःश्रीबलवर्द्धनम् ।
एतत्पर्य्युषितं तोयं तण्डुलोदकसन्निभम् ॥
अस्य प्रभावान्मनुजो भ्रष्टां हि लभते श्रियम् ॥ ३७
अङ्गञ्चेद्गोक्षुराकारं भूमिराघातनिःसहा ॥
खड्गाधममिदं विद्याद्गोवज्रं नाम नामतः ॥ ३८ ॥
स्थला दीर्घाः शिराः कृष्णा भूमिश्चैव सिता-
सिता ॥
शिराङ्गमिति तं ब्रूयादेनं खड्गाधमं बुधाः । ३९ ।
शिवलिङ्गाकृतिश्चाङ्गे धारा चैव सिताथवा ॥
शिवाङ्गमिति तं ब्रूयाच्छत्रुपक्षनिसूदनम् ॥ ४० ॥
यदा व्याघ्रनखाकारमङ्गं भूमिस्तु पिङ्गला ॥
नखवज्रमिदं ब्रूयात्तत्क्षते श्वययुर्भवेत् ।
एतदामिषसंस्पर्शात् प्रविशेत् स्वयमेव हि ॥ ४१ ॥
ग्राहपुच्छोपमन्त्वङ्गं भूमिर्धूम्रा खराकृतिः ।
ग्राहाङ्गमिति जानीयाच्छत्रुवंशोपनाशनम् ॥
अस्य स्पर्शनमात्रेण जीवन्मतस्या जहत्यसून् ॥ ४२ ॥
यदा मनुजनेत्राभमङ्गं भूमिः सितासिता ॥
नेत्राङ्गमिति जानीयात् संग्रामे विजयप्रदम् ।
एतद्धावनतोयेन नूनमन्धोऽपि पश्यति ॥ ४३ ॥
अङ्गं केशसमं यस्य भूमिर्धूम्रा सितासिता ।
केशाङ्गमिति जानीयात् क्लेशदुःखभयापहम् ॥ ४४ ॥
निरङ्गं स्थूलप्रकृतिमुपलाङ्गं विदुर्ब्बुधाः ।
एतद्धि प्रायशो लोके दृश्यते द्बिजसत्तम ! ॥” ४५
पद्मपुराणस्य ।
“निरङ्गा निशिता धारा शाणे वह्निं वमत्यपि ।
द्रोणीवज्रमिदं ज्ञेयं पृथिव्यां नातिदुर्ल्लभम् ॥ ४६ ॥
अङ्गं काकपदाकारं भूमिराघातनिःसहा ।
एष स्वड्गाधमस्त्याज्यो काकाङ्गो भूति-
मिच्छता ॥ ४७ ॥
यदा कपालमङ्गेषु दृश्यते स्पर्शतः खरम् ।
एतद्धि दुःखजनकं कपालाङ्गं बुधस्त्यजेत् ॥ ४८ ॥
तन्वीपत्रा वलाङ्का या सुवर्णाङ्गासिपुत्त्रिका ।
पत्रवज्रकमाहुस्तं आयुर्व्वेदविदो जनाः ॥”
लौहार्णवेऽपि ।
“सुपर्णसन्निभा भूमिरङ्गं कालं प्रतीयते ।
तत् पत्रवज्रं काकस्य सुपर्णमुपजायते ॥ ४९ ॥
तुवरीदलसङ्काशमङ्गं यस्मिन् प्रतीयते ।
बुवरीवज्रमाहुस्तं तत्क्षते शिरसो भ्रमः ॥
एष खड्गाधमस्त्याज्यो यदीच्छेज्जीवनं निजम् ॥
५० ॥
विम्बीदलसमा भूमिरङ्गं विम्बीफलोपमम् ॥
विम्बीवज्रन्तु तद्बिद्यात्तज्जलं तिक्तमुच्यते ।
पित्तश्लेष्मविकाराणां प्रशमाय प्रयुज्यते ॥ ५१ ॥
प्रियङ्गुसदृशन्त्वङ्गं भूमिश्च कपिलाकृतिः ।
फलवज्रमिदं प्रोक्तं शाणे धूम्रं वमत्यपि ॥ ५२ ॥
अङ्गं सर्षपपुष्पाभं भूमिश्चैव सितासिता ।
एतत् सर्षपवज्रं स्यात् शाणे वह्निं वमत्यपि ॥
अपि कुण्डलिकां याति एतदत्यन्तकोमलम् ।
एतत्प्रसादात् क्षितिपः कृत्स्नां साधयते महीम् ॥
५३ ॥
नीलीरससमा भूमिरङ्गं नीलीतरङ्गवत् ।
नीलीवज्रमिदं दृष्टं शाणे वह्निशिखां वमेत् ॥
एष खड्गवरो नॄणामरिष्टभयनाशनः ॥ ५४ ॥
रक्तास्तिस्रो महारेखा भूमिश्चैव सितासिता ॥
रक्ताङ्गमिति जानीयाद्वैरिपक्षविनाशनम् ।
शाणेन यस्तु रक्तांवा नीलांवा वमते शिखाम् ॥
रक्तस्पर्शनमात्रेण स्वयमेव निकृन्तति ।
क्षतेऽस्य रक्तश्वयथुस्तृषा दाहश्च जायते ॥ ५५ ॥
अङ्गं वचादलसमं भूमिश्चैव सितासिता ।
वचावज्रमिदं ज्ञेयं तत्क्षताद्बिषनाशनम् ॥
एष खड्गवरो राज्ञा साधनीयः प्रयत्नतः ॥ ५६ ॥
रसोनादुत्तमं ह्यङ्गं भूमिस्तस्य दलोपमा ॥
रसोनवज्रं जानीयात् शाणे वह्निं वमत्यपि ।
अस्य धावनतोयेन आमवातविनाशनम् ॥ ५७ ॥
निरङ्का निर्म्मला भूमिर्धारा तीक्ष्णा खरः स्वरः ।
सुमनावज्रमेतत् स्याद्भुवि नात्यन्तदुर्ल्लभम् ॥ ५८ ॥
मञ्जिष्ठासदृशा दीर्घास्तन्व्यो रेखाः सुविस्तराः ।
जिङ्गीवज्रमिदं नाम सर्व्वकामार्थसाधनम् ॥ ५९ ॥
अङ्गं शमीपत्रसमं भूमिर्धूम्रा सितासिता ।
शमीवज्रमिदं ज्ञेयं शनैश्चरमुदावहम् ॥
शाणेषु वमते वह्निं सहते वह्निपीडनम् ॥ ६० ॥
रोहितवल्कलसदृशमङ्गं भूमिः सितासितावापि ।
धूम्रा गम्भीरस्वरयुक्तं धारा तीक्ष्णा सिता
भवेद्रेखा ॥
रोहिताख्यमिदं वज्रं सर्व्वारिष्टविनाशनम् ।
वह्निसंस्पर्शमात्रेण किञ्चिच्चिमिचिमायते ।
इत्ययं दुर्ल्लभः खड्गो देवानामपि कथ्यते ॥ ६१ ॥
शफरीवल्कलाकारमङ्गं भूमिः सितासिता ।
प्रोष्ठीवज्रमिदं प्रोक्तं न्यस्तं तरति वारिणि ॥
एष खड्गोत्तमो राज्ञां विपक्षकुलनाशकः ।
कदाचिल्लभ्यते भाग्यैर्लभ्यते लभ्यते मही ॥ ६२ ॥
अङ्गं मारिषपत्राभं भूमिः स्याद्बिषमच्छविः ।
इत्ययं मारिषाङ्गः स्यात् पृथिव्यां नातिदुर्लभः ॥
६३ ॥
भृङ्गराजस्य पुष्पाभमङ्गं भूमिर्द्दलप्रभा ।
आघातं सहते नैव एष खड्गाधमो मतः ॥ ६४ ॥
धारा तीक्ष्णा खुराकारा भूमिरङ्गविवर्ज्जिता ।
आघातं सहते घोरं शाणे वह्निं वमत्यपि ।
खुराङ्गमिति जानीयात् पृथिव्यां नातिदुर्ल्ल-
भम् ॥ ६५ ॥
निर्मला समला भूमिर्भवेच्चैव कदा कदा ।
मन्दा तीव्रा मवेद्धारा तडिद्बज्रस्य लक्षणम् ॥ ६६ ॥
नीलाञ्जनसमा भूमिरङ्गं जलतरङ्गवत् ।
मेघाङ्गमिति जानीयाच्छाणे शीतं भवत्यपि ॥
एष खड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः ।
भर्त्तुः प्रतापं शमयेद्रविविम्बं यथा घनः ॥ ६७ ॥
मन्दा धारा भृशं गाढा भूमिरङ्गविवज्जिता ।
पर्व्वताङ्गमिदं नाम सर्व्वत्रैवोपलभ्यते ॥ ६८ ॥
अङ्गं गुञ्जाफलसमं भूमिर्म्मीनदलोपमा ।
गुञ्जावज्रमिदं पृष्ठं तप्तं भवति घर्षणे ॥
शाणे सिन्दूरसङ्काशं रजो वमति चासकृत् ।
एष खड्गवरो राज्ञा भाग्यादेवोपयुज्यते ॥
अस्य प्रभावात्तन्नास्ति यन्न साधयते नृपः ॥ ६९ ॥
अङ्गं तनुशराकारं भूमिश्चैव सितासिता ।
धारा तीक्ष्णा वमति च शाणे वह्निसमाः
शिखाः ।
शरवज्रमिदं ज्ञेयं राज्ञां वाञ्छितसिद्धये ॥ ७० ॥
दूर्व्वादलनिभा भूमिर्धारा तीक्ष्णा खरः स्वरः ।
शाणेन वमते वह्निं दूर्व्वावज्रं सुदुर्ल्लभम् ॥ ७१ ॥
अङ्गं विल्वदलाकारं भूमिश्चैव सितासिता ।
विल्ववज्रमिदं शाणे नीलपीते वमेच्छिखे ॥
एष खड्गवरः प्रोक्तः शत्रूणां कुलनाशनः ॥ ७२ ॥
मसूरदलसङ्काशा भूमिरङ्गं मसूरवत् ।
मसूराङ्गमिदं शाणे रजो वमति चारुणम् ॥ ७३ ॥
शोणपुष्पनिभा रेखा दीर्घा भूमिः सितेतरा ।
शोणाङ्गमिति जानीयात् खड्गं परमदुर्ल्ल-
भम् ॥ ७४ ॥
शटीदलसमा भूमिरङ्गं तत्कुसुमोपमम् ।
शटीवज्रमिदं प्रायो लभ्यते गुणवत्तरम् ॥ ७५ ॥
मार्ज्जाररोमसदृशमङ्गं भूमिः सितेतरा ।
मार्ज्जाराङ्गमिदं नाम्ना रोगशोकभयावहम् ।
एष खड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः ॥
७६ ॥
केतकीपत्रसदृशमङ्गं यस्मिन् प्रतीयते ।
पृष्ठ २/५९५
विद्यात् केतकवज्रं तत् वाराणससमुद्भवम् ॥” ७७
लौहप्रदीपस्य ।
“अङ्गं मूर्व्वातन्तुनिभं भूमिर्मूर्वादलच्छविः ।
शाणेन वमते शुक्लां शिखां मौर्वी भवेत्ततः ॥
मौर्व्व्यङ्गमिदमुत्कृष्टं यशःकृईर्त्तिबलावहम् ॥ ७८ ॥
लिङ्गं तीक्ष्णं खरं गाढं शाणे वह्नेर्व्वमेत् कणम् ॥
छिनत्त्यन्यविधं लौहं वज्राङ्गमिति तद्बदेत् ॥ ७९ ॥
कलायपुष्पसदृशमङ्गं मूमिः सितासिता ।
कलायवज्रं जानीयात् तत्क्षते पाक इष्यते ॥ ८० ॥
अङ्गं चम्पकपुष्पाभं भूमिः कृष्णा तथा सिता ।
शिखां शाणे वमेच्छीतं तिक्तं तस्य जलं भवेत् ।
इदं चम्पकवज्रं स्यात् सर्व्वत्र विजयप्रदम् ॥ ८१ ॥
अङ्गं बलादलसमं भूमिः शुक्ला तथेतरा ।
बलावज्रमिदं ज्ञेयं नानाभावं भवेद्द्रुतम् ॥
इत्ययं वातरोगाणां नाशने परमौषधम् ॥ ८२ ॥
अङ्गं वटारोहसमं भूमिर्व्वटदलच्छविः ।
वटवज्रमिदं ज्ञेयं खरं खड्गाधमं बुधैः ।
एतस्य स्पर्शमात्रेण नरो मुच्येत सम्पदा ॥ ८३ ॥
वंशनीलीसमा भूमिः खरधारा सिताकृतिः ।
वंशाङ्गमिति जानीयाद्वंशवृद्धिकरं परम् ॥ ८४ ॥
भूमिः शालदलाकारा अङ्गं लघु सितासितम् ।
शालाङ्ग एष खड्गः स्यात् पूज्यः सर्व्वार्थदायकः ।
अयं शाणे वमेद्बह्निं धारा चाप्यथवा भवेत् ॥ ८५ ॥
भूमिः सितासिता वापि अङ्गं ज्येष्ठीसमं लघु ।
ज्येष्ठीवज्रमिदं निन्द्यं न स्पृश्यं वा हितेच्छुभिः ॥
८६ ॥
पुराणजालसदृशमङ्गं भूमिः सितासिता ॥
जालवज्रमिदं पूज्यं शत्रुसम्पत्तिनाशनम् ।
यदि शाणे वमेन्नीलां शिखां वह्निं वमेच्च वा ॥
तदैष दुर्ल्लभः खड्गो नान्यथा भयहेतुकः ॥ ८७ ॥
अङ्गं पिपीलिकाकारं भूमिर्धूम्रा तथासिता ॥
पिपीलिकाङ्ग इत्येष तत्क्षते कण्डुसम्भवः ।
स्वयं यदि भवेद्धूम्रः शाणे पूज्यतमस्तदा ॥ ८८ ॥
नलपत्रसमा भूमिरङ्गन्तत्कुसुमोपमम् ।
नलाङ्गमिति जानीयाद्भर्त्तुः सर्व्वार्थसाधकः ॥
८९ ॥
निरङ्का निर्म्मला भूमिर्घृष्टं घृष्टं वमेद्रजः ।
दृढा धारा भृशं स्थूला आघातं सहते न च ॥
रजोवज्रमिदं निन्द्यं शत्रूणां विजयावहम् ॥ ९० ॥
कुष्माण्डबीजसदृशमङ्गं भूमिः सितासिता ॥
कुष्माण्डवज्रं जानीयात्तत्क्षते वेगनिग्रहः ॥ ९१ ॥
अङ्गं नृरोमसदृशं भूमिर्धूम्रा सितासिता ।
रोमाङ्गमिति जानीयात्तत्क्षते पिडकोद्गमः ॥ ९२ ॥
भूमिः स्नुहीदलसमा अङ्गं तत्कण्टकोपमम् ॥
धारा तीक्ष्णा रवस्तीक्ष्णो लघुमानं खरा स्पॄशा ।
सुधाङ्गः खड्ग इत्येष तत्क्षते दाहतृड्भ्रमाः ॥
मुखाक्षिकर्णनासानां दाहः पाकश्च जायते ।
अयं यदि च सर्पाणां फणासूपरि विश्यते ॥
फणाविदारमाप्नोति सर्पो लोटयते शिरः ।
अस्य धावनतोयेन कुष्ठरोगविनाशनम् ॥ ९३ ॥
कर्कन्धुदलपृष्ठाभा भूमिरङ्गन्तु तत्समम् ।
कर्कन्धुवज्रं जानीयात्तत्क्षते दाहनाशनम् ॥
एष खड्गाधमस्त्याज्यो जेतव्या यदि विद्बिषः ॥
९४ ॥
रङ्गं वकुलपुष्पाभं भूमिस्तत्फलसन्निभा ॥
वकुलाङ्गमिदं पूज्यं शाणे सुरभिगन्धवत् ।
तन्नास्ति जगतीमध्ये यदनेन न साध्यते ॥ ९५ ॥
अङ्गं संमिश्रितं यस्मिन्न किञ्चिद्ब्यक्तमीक्ष्यते ।
सर्व्वेषां दर्शनं वापि तीक्ष्णधारः खरस्वरः ॥
एष काञ्जिकवज्रः स्याद्यत्नादेवोपलभ्यते ।
नैनं प्राप्यापि वर्द्धन्ते शेषाश्चित्रादयोऽपि च ॥
९६ ॥
भूमिः कृष्णानिरङ्गा चेद्धारा तीक्ष्णा दृढापि च ।
आघातं सहते घोरं रक्तं स्पर्शेन यो विशेत् ॥
शाणेन वह्निं वमति ध्रुवं वाप्यतिघर्षणात् ।
महिषाङ्गः स वै खड्गः पृथिव्यां नातिदुर्ल्लभः ॥
९७ ॥
अत्यन्तनिर्म्मला भूमिः शरीरं प्रतिविम्बितम् ।
धारा तीक्ष्णा स्वरस्तीक्ष्णः स्वच्छाङ्गं तद्बिनि-
र्द्दिशेत् ॥ ९८ ॥
तस्मिन् यदा भवेद्रेखा ऊर्द्ध्वा ऋत्वाख्यकं तदा ॥ ९९
अस्मिन्नपि भवेद्बक्रा रेखा वक्राभिधन्तु तत् ॥ १०० ॥
एतत्त्रितयमुद्दिष्टं खड्गानां प्रवरं बुधैः ।
प्रायशो लभ्यते लोके यदि सर्व्वगुणावहम् ॥
इतीदं निखिलं प्रोक्तं वज्राणां लक्षणं मया ।
प्रयत्नैर्लिखितं व्यक्तं सर्व्वेषां हितकाम्यया ॥
इतः परन्तु लौहानां लक्षणं यत्र लक्ष्यते ।
तस्य दासो भवाम्येष प्रतिज्ञेति कृता मया ॥
द्बिलिङ्गमिश्रमालोक्य मिश्राङ्गमिति निर्द्दिशेत् ।
सर्व्वेषामङ्गमालोक्य सर्व्वाङ्गमिति निर्द्दिशेत् ॥”
इति खड्गपरीक्षायामङ्गाध्यायो द्बितीयः ॥ * ॥
खड्गस्य रूपाणि यथा, --
“नीलीकलायकुसुमच्छविगृञ्जनाभा
या चन्द्रनीलमणिकाचमणिप्रभा च ।
भूमिश्च या मरकतप्रतिमावभासा
खड्गस्य नीलमिति रूपमिदं वदन्ति ॥”
तत्र चेन्निन्दितान्यङ्गान्यरिष्टानि बहून्यपि ।
दृश्यन्ते बहुदोषापि तथापि गुणवत्तरम् ॥ १ ॥
या कालकाम्बुदमसीरसकालसर्प-
शङ्कान्धकारकचभारसमा विभाति ।
भूमिश्च या भ्रमरबन्धुसमावभासा
खड्गस्य कृष्णमिति रूपमिदं वदन्ति ॥
अत्र नेत्राणि सम्पत्त्यै अरिष्टान्यशुभानि च ।
साधारणमिदं रूपं प्राह नागार्ज्जुनो मुनिः ॥ २ ॥
या प्रावृषेण्यनवभेकसमानवर्णा
गोमेदरत्नसदृशापि च यस्य भूमिः ।
खड्गस्य पिङ्गमिति रूपमिदं वदन्ति
भर्त्तुर्य्यशोबलधनक्षयकारणाय ॥ ३ ॥
या मन्दधूमसदृशा च शिरीषपुष्प-
तुल्या विभाति मलिनापि च खड्गभूमिः ।
नागार्ज्जुनो वदति धूम्रमिदं हि रूपं
भर्त्तुर्य्यशोबलधनाबलिवर्द्धनाय ॥ ४ ॥
द्बिरूपं मिश्रितं कृत्वा शङ्करं प्रवदेद्बुधः ।
त्रिभी रूपैः समेतन्तु खड्गं त्रिपुरसङ्गितम् ॥
रूपैश्चतुर्भिः संयुक्तं चतुरं खड्गमुत्तरम् ॥”
इति लौहार्णवस्य खड्गपरीक्षायां वर्णा-
ध्यायस्तृतीयः ॥ * ॥
“जातिश्चतुर्व्विधा प्रोक्ता खड्गानां या पुरा मया ।
सम्प्रत्यपि प्रयत्नेन तासां लक्षणमुच्यते ॥
शुद्धाङ्गः शुद्धवर्णश्च सुनेत्रः सुस्वरश्च यः ।
मृदुस्पर्शः सुसन्धेयस्तीक्ष्णधारो महागुणः ॥
खड्गं ब्राह्मणजातिं तं प्राह नागार्ज्जुनो मुनिः ।
अस्य क्षते भवेच्छोथो घोरः सर्व्वाङ्गगोचरः ॥
मूर्च्छा पिपासा दाहश्च ज्वरो मृत्युश्च जायते ।
अघृष्टं त्रिफलाकल्कमर्द्धरात्रिन्दिवोषितम् ।
मलिनत्वं न सन्धत्ते निर्म्मलं कुरुते परम् ।
तरुणादित्यकिरणस्पर्शादेव तृणे स्थितः ॥
दहेत् सर्व्वं न तु करं पुरुषस्य हि धारिणः ।
गायत्त्र्युच्चारमात्रेण खरतां व्रजति स्फुटम् ॥
एष खड्गवरः सर्व्वमरिष्टं नाशयेद्ध्रुवम् ।
अस्य प्रसादात् पुरुषस्त्रिलोकमपि साधयेत् ॥
तस्मादेष मनुष्याणां सुलभो न हि भूतले ।
दृश्यन्ते प्रायशः स्वर्गे कुशद्बीपे हिमालये ॥ १ ॥
धूम्रवर्णं महासारं तीक्ष्णधारं खरस्वरम् ।
सर्व्वाघातसहं सर्व्वनेत्रवर्णस्वराकरम् ॥
खड्गं क्षत्त्रियजातिं तं जानीयात् खड्गकोविदः ।
अस्य क्षते भवेद्दाहस्तृषानाहो ज्वरो भ्रमः ॥
मृत्युश्च जायते शाणे वमेद्बह्निकणान् बहून् ।
संस्कारे चाप्यसंस्कारे नैर्म्मल्यं तस्य लक्ष्यते ॥
शाणेऽप्यशाणे खरता मूर्द्ध्नि चात्यन्ततीक्ष्णता ।
रक्तस्पर्शनमात्रेण विशेदन्तरमन्तरम् ॥
अयं खड्गवरः पूज्यो मनुष्यैरपि लभ्यते ॥ २ ॥
नीलवर्णः कृष्णवर्णः संस्कारे निर्म्मलो भवेत् ॥
शाणेन खरता चास्य घाततुल्यं निकृन्तति ।
वैश्यजातिरयं खड्गः क्षते त्वङ्मात्रदर्शनम् ॥
नात्युत्कृष्टो नातिहीनं सर्व्वत्रैवोपलभ्यते ॥ ३ ॥
सजलाम्भोदसङ्काशः स्थूलधारो मृदुस्वरः ॥
संस्कारे चैव मलिनः शाणे चापि खरेतरः ।
शूद्रजातिरयं खड्गः क्षते नाल्पापि वेदना ॥
दूरादेषोऽधमस्त्याज्यो यदीच्छेद्धितमात्मनः ।
प्रायशः सर्व्वलोकेषु स्वयमेवोपदृश्यते ॥ ४ ॥
द्बयोर्लक्षणमालोक्य जारजं खड्गमादिशेत् ।
त्रयाणां लक्षणेनैव त्रिजातिं खड्गमादिशेत् ।
चतुर्णां लक्षणेनैव जातिसङ्करमुच्यते ॥”
इति लौहावर्णवस्य खड्गपरीक्षायां जात्य-
ध्यायः ॥ * ॥
अथ त्रिंशन्नेत्राणां लक्षणानि ।
“चक्राकारं यदा नेत्रं खड्गस्याङ्गे प्रदृश्यते ।
तं चक्रनेत्रं जानीयात् भर्त्तुः सर्व्वार्थसाधनम् ॥
अनेनैकेन खड्गेन कृत्स्नां साधयते महीम् ॥ १ ॥
प्रफुल्लपद्मसङ्काशं नेत्रं पद्मदलोपमम् ॥
यदि वा दृश्यते खड्गे पद्मनेत्रं समादिशेत् ।
अयं खड्गवरो यत्र तत्रैव कमलालया ॥ २ ॥
ऊर्द्ध्वा स्थूला यदा रेखा गदाकारा प्रतीयते ।
गदानेत्रमिदं विद्धि सर्व्वशत्रुनिसूदनम् ॥ ३ ॥
शङ्खाकारं यदा नेत्रं खड्मध्येऽभिदृश्यते ।
पृष्ठ २/५९६
शङ्खनेत्रमिदं सर्व्वदेवानामपि दुर्ल्लभम् ॥ ४ ॥
डमरुप्रतिमं नेत्रं यस्य भूमौ प्रतीयते ।
सर्व्वार्थसाधकं खड्गं तं विद्याद्बिजयप्रदम् ॥ ५ ॥
धनुःस्वरूपं यन्नेत्रं धनुर्नेत्रमुषन्ति तम् ।
तस्य स्पर्शनमात्रेण मन्दोऽपि प्रमुखायते ॥
अयं निशीथे विजने खड्गो झनझनायते ॥ ६ ॥
यन्नेत्रमङ्कुशाकारं तंविद्याद्गुणवत्तरम् ॥
खड्गमङ्कुशनेत्राख्यं भर्त्तुः सर्व्वार्थसाधकम् ।
अलक्ष्मीपापरक्षोघ्नं कृत्याग्रहनिवारणम् ॥ ७ ॥
छत्राकारं यदा नेत्रं छत्रनेत्रं वदन्ति तम् ।
अस्य प्रभावात् क्षीणोऽपि सार्व्वभौमोभवेन्नृपः ॥
दीनोऽपि च सुखीभूयात् सुखी भूयान्महेश्वरः ।
महेश्वरोऽपि सचिवः सचिवो मण्डलेश्वरः ॥
मण्डलेशश्चक्रवर्त्ती भवेदत्र न संशयः ॥ ८ ॥
पताकाकृतिनेत्रञ्चेत् सर्व्वसम्पत्तिकारकम् ॥
पताकानेत्रमाहुस्तं संग्रामे विजयप्रदम् ॥ ९ ॥
नेत्रं वीणाकृति यदा वीणानेत्रमुषन्ति तम् ।
निशीथे विजने खड्गो वीणावत् स्वनमावहेत् ।
अस्य प्रभावात् सर्व्वेश्या अपि वश्या भवन्ति
हि ॥ १० ॥
मत्स्याकृति यदा नेत्रं मत्स्यनेत्रमिमं विदुः ।
अस्य प्रभावात् क्षितिपः कृत्स्नां साधयते
महीम् ॥ ११ ॥
शिवलिङ्गसमं नेत्रं लिङ्गनेत्रमिमं विदुः ।
भर्त्तुः सर्व्वार्थसंसिद्ध्यै शत्रूणां नाशनाय च ॥
वामपार्श्वे तु यात्रायां धर्त्तव्योऽयं तथा रणे १२ ।
अत्र ध्वजार्द्धचन्द्रकलसानां लक्षणानि पति-
तानि । १३ । १४ । १५ ।
शूलाकृति यदा नेत्रं शूलनेत्रं वदन्ति तम् ।
सर्व्वार्थसाधकः सर्व्वारिष्टानिष्टप्रणाशनः ॥ १६ ॥
शाद्र्दूलनेत्रं तं विद्यात् शाद्र्दूलाकृतिनेत्रतः ।
शत्रुश्रेणीविनाशाय संग्रामे विजयाय च ॥ १७ ॥
सिंहाकृति यदा नेत्रं सिंहनेत्रमिमं विदुः ।
अस्य प्रभावात् क्षीणोऽपि कृत्स्नां साधयते
महीम् ॥ १८ ॥
तत् सिंहासननेत्रं स्यात् नेत्रे सिंहासनोपमे ।
अस्य प्रभावात् क्षितिपः कृत्स्नां साधयते
महीम् ॥ १९ ॥
गजाकृति यदा नेत्रं गजनेत्रं वदन्ति तम् ॥
अस्य प्रभावात् क्षीणोऽपि लभते राजसम्पदम् ॥
२० ॥
नेत्रं हंसाकृति यदा हंसनेत्रं वदन्ति तम् ।
अस्य प्रभावात् भूपालो यशःप्राप्नोत्यनुत्तमम् ॥
२१ ॥
मयूराकृतिनेत्रे द्वे तन्नेत्रमिति निर्द्दिशेत् ॥
अस्य प्रभावान्मनुजः सर्पदर्पान्निसूदयेत् ॥ २२ ॥
जिह्वाकारं यदा नेत्रं जिह्वानेत्रं वदन्ति च ॥
संग्रामखर्परेष्वेवं पिबेद्वैरिशिरोरजः ॥ २३ ॥
दन्ताकारं यदा नेत्रं दन्तनेत्रं वदन्ति तम् ॥
अयं रिपुगणं मूर्द्ध्नि चर्व्वयत्यतिभैरवम् ॥ २४ ॥
सड्गाकारं यदा नेत्रं खड्गनेत्रं वदन्ति तम् ।
तस्य प्रभावान्मनुजस्त्रिलोकीं वशयेदपि ॥ २५ ॥
मनुष्यपुत्त्रिकाकारा पुत्त्रिकानेत्रमुच्यते ॥
अयं सशैलां सद्बीपां कृत्स्नां साधयेत् क्षितिम् ।
न चेयं पुत्त्रिका किन्तु जयलक्ष्मीरिह स्वयम् ॥
तस्मान्नायं मनुष्याणामल्पभाग्येन लभ्यते ॥ २६ ॥
चामराकृतिनेत्रत्वात्तन्नेत्रमिति निर्द्दिशेत् ।
अस्य प्रभावाज्जायन्ते चामरोद्धृतसम्पदः ॥ २७ ॥
एकानेकशिखे शैलनेत्रे तन्नेत्रसंज्ञकम् ।
अपि राष्ट्रभये युद्धे विषमे वैरिसङ्कटे ।
स्थिरीकरोति धरणीं धरणीं पर्व्वतो यथा ॥ २८ ॥
पुष्पमालासमं नेत्रं पुष्पनेत्रं वदन्ति तम् ।
अस्य प्रभावात्तुष्यन्ति ग्रहाः सर्व्वाश्च देवताः ॥
२९ ॥
भुजङ्गमसमे नेत्रे सर्पनेत्रमिदं मतम् ।
अयं शत्रुगणं हन्ति यथा मर्त्त्यं भुजङ्गमः ॥ ३० ॥
सवर्णं समवर्णञ्च तत् सर्व्वं द्बिविधं मवेत् ।
सवर्णं शान्तिसम्पत्त्यै रिपुनाशे तथापरम् ॥
द्बयोरेकत्र पृष्ठे च तत् पुनर्विविधं भवेत् ।
एकलोकसुखं नेदं ददाति द्बिविधं द्बयोः ॥
मूलमध्याग्रसंस्थानात्तत् पुनर्द्बिविधं भवेत् ।
अग्रे चाग्र्यफलं ज्ञेयं मध्ये मध्यफलं मतम् ॥
मूले फलं जघन्यं स्यात् प्राह नागार्ज्जुनो मुनिः ।
एकं द्वे त्रीणि नेत्राणि नात्र संख्या व्यतिक्रमः ॥
एकं घर्म्मः स्वर्गकामौ द्बे त्रीणि च त्रिवर्गकम् ।
तत्फलानि प्रयच्छन्ति प्राह नागार्ज्जुनो मुनिः ॥
द्बिनेत्रमिति जानीयात् स्वसंज्ञां नेत्रयोर्द्वयोः ।
त्रिनेत्रञ्च त्रिभिर्ज्ञेयं बहुनेत्रमतः परम् ॥
यथोत्तरं गुणवहं खड्गमाहुरनुत्तमम् ।
दिङ्मात्रमिति निर्द्दिष्टं नेत्राणां शुभदायिनाम् ॥
तीव्राणां मङ्गलानाञ्च दर्शनञ्च शुभावहम् ॥”
इति खड्गपरीक्षायां नेत्राध्यायः पञ्चमः ॥ * ॥
“यथा नेत्रस्य संस्थानं तथारिष्टस्य लक्षयेत् ।
नेत्रेषु स्थाननियमो नारिष्टे स्थाननिर्णयः ॥
प्रशस्ताङ्गोऽपि यः खड्गोऽरिष्टेनैकेन
निन्दितः ॥”
अथ त्रिंशदरिष्टानां लक्षणानि ॥
“छिद्रवद्दृश्यते खड्गे स्वभावेन च लक्ष्यते ।
छिद्रारिष्टमिदं विद्धि भर्त्तुर्व्वीर्य्यबलापहम् ॥ १ ॥
यदा काकपदाकारमरिष्टं दृश्यते क्वचित् ।
अयं काकपदारिष्टः सर्व्वाभीष्टविनाशनः ॥ २ ॥
रेखाकारं यदारिष्टमूर्द्ध्वंवा तिर्य्यगेव वा ।
रेखारिष्टमिदं विद्धि भर्त्तुवीर्य्यबलापहम् ॥ ३ ॥
भिन्नभ्रान्तिकरं पापं भिन्नारिष्टमिदं विदुः ।
भर्त्तुः कुलं यशो राष्ट्रं नाहत्वा न व्रजेत्
स्वयम् ॥ ४ ॥
यदा भेकशिरोरूपमरिष्टं दृश्यते क्वचित् ।
भेकारिष्टमिदं नाम्ना संग्रामे भयदायकम् ५ ॥
अरिष्टे मुषिकाकारे मुषिकारिष्टमुच्यते ।
अयं खड् गाधमः कुर्य्यात् पत्युः पातालसङ्ग-
मम् ॥ ६ ॥
विडालनयनाकारो बिन्दुरेकोऽतिविस्तरः ।
विडालारिष्टमेतत् स्यात् भर्त्तुः सर्व्वार्थनाश-
नम् ॥ ७ ॥
अरिष्टं शर्कराकारं यदा स्पर्शेन बुध्यते ।
शर्करारिष्ठमेतत् स्याद्धनबुद्धिविनाशनम् ॥ ८ ॥
यदा नीलीरसाभासमरिष्टं दृश्यते क्वचित् ।
नील्यरिष्टमिदं ज्ञेयं यशोलक्ष्मीविनाशनम् ॥ ९ ॥
अरिष्ठे मशकाकारे मशकारिष्टमुच्यते ।
भर्त्तुः कुलं यशो बुद्धिं धृतिं प्रीतिञ्च नाशयेत् ॥
१० ॥
भृङ्गमाप्रतिमो विन्दुरेकोऽनेकोऽथवा यदा ।
भृङ्गमारिष्ट इत्येष धृतिस्मृतिविनाशनः ॥ ११ ॥
सूचीरूपमरिष्टञ्चेदूर्द्ध्वंवा तिर्य्यगेव वा ।
सूच्यरिष्टमिदं नाम भर्त्तुः कुलविनाशनम् ॥ १२ ॥
त्रयश्चेद्बिन्दवो राजन् ! पङ्क्तयो विषमेण वा ।
उपर्य्युपरि वाघोऽधस्त्रिबिन्द्वाख्यमरिष्टकम् ॥
तस्य स्पर्शनमात्रेण सचेलः स्नानमाचरेत् ॥ १३ ॥
कालिकारिष्टमित्येतद् धीधृतिस्मृतिनाशनम् ॥
१४ ॥
एकत्र यदि न ह्येष प्रयत्नेनापि संवृतः ।
दारी नाम महारिष्टं सर्व्वाभीष्टविनाशनम् ॥
अनेकगुणसम्पन्नः खड्गो लोकैर्न गृह्यते ॥ १५ ॥
कपोतपक्षप्रतिममरिष्टञ्चेत्तदाह्वयम् ।
भर्त्तुः कुलं यशो विद्यां बलं बुद्धिञ्च नाशयेत् ॥ १६ ॥
काकाकृति यदारिष्टं काकारिष्टं तदोच्यते ।
अनेन भर्त्तुः संग्रामे भङ्ग एवोपजायते ॥ १७ ॥
अरिष्टे खर्पराकारे खर्परारिष्टमुच्यते ।
भर्त्तुर्यशो बलं वीर्य्यं बुद्धिं प्रीतिञ्च नाशयेत् ॥ १८ ॥
यदान्यल्लोहशकलं लग्नं स्यादिव लक्ष्यते ।
शकलीति स वै खड्गः सर्व्वाभीष्टनिसूदनः ॥ १९ ॥
क्रोडीकुशपत्रकयोर्लक्षणे पतिते २० । २१ ।
यस्मिन्निम्नमिवाभाति मध्ये वा दृश्यते क्वचित् ।
जालारिष्टमिदं नाम भर्त्तुः कुलधनापहम् ॥ २२ ॥
एकैकरेखा दीर्घाग्रा यदा पल्लविनी भवेत् ।
स्पर्शे वाथ करेणाथ करालारिष्टमुच्यते ॥
अयं हि क्षितिपालानां दृष्टियोग्यो भवेन्न हि ।
दर्शनादेव नश्यन्ति यशोलक्ष्मीजयादयः ॥ २३ ॥
अरिष्टे कङ्कपत्राभे कङ्कारिष्टं तदुच्यते ।
अस्य स्पर्शनमात्रेण नश्यत्यायुर्यशो बलम् ॥ २४ ॥
खर्ज्जूरवृक्षप्रतिमं यदारिष्टन्तु लक्ष्यते ।
खर्ज्जुरारिष्टमेतत् स्याद्भर्त्तुः कुलधनापहम् ॥ २५ ॥
गोशृङ्गाभमरिष्टञ्चेत् शृङ्गारिष्टं तदुच्यते ।
अनेन भर्त्तुर्नश्यन्ति लक्ष्मीबलकुलादयः ॥ २६ ॥
गोपुच्छाकृति चेत् खड्गे अरिष्टं संप्रतीक्ष्यते ।
पुच्छारिष्टमिदं नाम भर्त्तुः सर्व्वार्थनाशनम् ॥ २७ ॥
खनित्राभमरिष्टञ्चेत् खनित्रारिष्टमुच्यते ।
शूराणामपि संग्रामे भङ्गमेतत् प्रयच्छति ॥ २८ ॥
अरिष्टे लाङ्गलाकारे लाङ्गलारिष्टमुच्यते ।
अयं पापात् पापतरः प्रेक्षणीयो न भूभुजा ॥
अयमायुः श्रियं हन्ति विद्यां बलमशेषतः ॥ २९ ॥
वडिशारिष्टस्य लक्षणं पतितम् ॥ ३० ॥
इत्यरिष्टानि प्रोक्तानि नानातन्त्रात् प्रयत्नतः ।
विचार्य्यैतानि मतिमान् खड्गं कोशे निधापयेत् ॥
दिङ्मात्रमिदमुद्दिष्टमरिष्टानां हितात्मनाम् ।
अमङ्गलानां मन्दानां दर्शनञ्चाशुभावहम् ॥
पृष्ठ २/५९७
अरिष्टमेकमेव स्याद्द्विररिष्टं शुभावहम् ।
अन्योन्यमशुभं हन्याद्विषस्य हि विषं यथा ॥
एकमारभ्य सप्तान्तमरिष्टं प्राह नान्यथा ।
यथोत्तरं द्बिगुणितं फलमाहुर्मनीषिणः ॥
इति खड्गपरीक्षायामरिष्टाध्यायः षष्ठः ॥ * ॥
अथ द्बिबिधा भूमिः ।
दिव्यमौमविभागेन भूमिर्या द्बिविधा मता ।
दिव्या दिवि समुद्भूता भौमा भूमिसमुद्भवा ॥
तल्लक्षणमशेषेण लिख्यते तन्निबोधत ।
देवदानवयोर्मध्ये खड्गसृष्टिरभूत् पुरा ॥
ते खड्गाः पुण्यदेशेषु केषु केषु प्रतिष्ठिताः ॥
दिव्यलक्षणं यथा, --
ये खड्गाः स्थूलधारा भृशमतिलघवो निर्म्म-
लाङ्गाः सुनेत्रा
ये रिष्टाश्चास्वरूपाः सुविमलतनवश्चाप्यसंस्कार-
योगात् ।
दुर्भेद्या दुर्घटाश्च ध्वनिगुणगुरवो यत्क्षते दाहपाकौ
ते दिव्याः कुर्व्वतेऽमी कुलधनविजयश्रीयशो-
वृद्धिमाशु ॥ १ ॥
अथ भौमलक्षणं बृहद्धारीते ।
पूर्ब्बं महेशेन विषाणि यानि
भुक्तानि तेषां पतितास्तु बिन्दवः ।
यस्मिन् प्रदेशे स स एव देशः
कालायसामाकरतां जगाम ॥
पुरामृतं क्षीरसमुद्रमध्या-
दुत्पाद्य संगृह्य ययुः सुरेन्द्राः ।
तद्बिन्दवो यत्र निपेतुरेष
शुद्धायसामाकरतां जगाम ॥
ये विषोत्था भृशङ्कालाः खराङ्गाः सम्भवन्ति हि ।
मूर्च्छादाहज्वरानाहशोकहिक्कावमीकराः ॥
येऽमृतोत्थाः कर्वुराङ्गा मन्दाङ्गाः संभवन्ति च ।
बलीपतितमालिन्यजराव्याधिविनाशनाः ॥
यत्रैव पतितं यत्तु तत्तदाकरताङ्गताः ॥
तद्यथा, --
वाराणसीमगधसिंहलभूमिभागे
नेपालभूमिषु तथाङ्गमहीप्रदेशे ।
सौराष्ट्रिकेऽन्यतरधन्यमहीविभागे
शुद्धायसां कृतिवराः प्रवदन्ति जन्म ॥
तद्यथा, --
वाराणसेयाः सुस्निग्धास्त्रीक्ष्णधाराः सदङ्गिनः ।
लघवः सुखसन्धेया ज्ञेयाश्चाभेद्यशालिनः ॥
मागधाः कर्कशाः स्थूलधारा गूढतराङ्गिनः ।
गुरवो दुःखसन्धेयाः खड्गा ज्ञेया विचक्षणैः ॥
नेपालदेशप्रभवा निरङ्गा निश्चलाश्च ये ।
ज्ञेयाः सदङ्गा मलिना लघवः स्थूलधारिणः ॥
कालिङ्गा गुरवः स्वच्छा व्यक्ताङ्गास्तन्तुहेतवः ।
सौराष्ट्रा निर्म्मलाः स्निग्धाः सुव्यक्ताङ्गा भृशं
खराः ॥
सिंहलद्बीपजातानां चतुर्द्धा भेद उच्यते ।
केचित् सदङ्गा गुरवः कर्कशाः स्निग्धधारिणः ॥
केचित् सदङ्गा लघवः सुस्निग्धा स्थूलधारिणः ।
एषां रूपेण मिश्रेण ज्ञेया हि द्बिजजातयः ॥
सामान्यात् द्बिगुणञ्चौड्रं कलिर्दशगुणस्ततः ।
कलेः शतगुणं भद्रं भद्राद्बज्रं सहस्रधा ।
वज्रात् षष्ठिगुणः पाण्डिर्निरविर्द्दशभिर्गुणैः ।
ततः कोटिसहस्रेण ह्ययस्कान्तः प्रशस्यते ॥”
इत्यादिकं रसायनौपयौगिकमेव न तु खड्गे
दृष्टफलम् ॥ यदाह ।
आसान्तु लौहजातीनां वज्रं खड्गाय युज्यते ।
तथाच ।
ये खड्गास्तीक्ष्णधारा भृशमतिगुरवः षड्-
गुणाढ्याः सुभेद्याः
केचित् साङ्गा निरङ्गाः कति च न समला
निर्म्मलाः केचिदेव ।
ते भौमाः कुर्व्वतेऽमी धनविजयबलं षड्गुणा
निर्गुणा वा
ते दुःखं शोकमुग्रं दधति बलकुलश्रीयशोनाश-
कास्ते ॥
इति खड्गपरीक्षायां भूम्यध्यायः सप्तमः ॥ २ * ॥
अथाष्टधा ध्वनिः ।
ध्वनिरष्टविधः प्रोक्तो यः पूर्ब्बं सूत्रसंग्रहे ।
तेषामपि लिखाम्यत्र सगुणं लक्षणाष्टकम् ॥
तद्यथा, --
पूर्ब्बे चत्वारः शुभदाः परे निन्दास्पदास्तथा ।
विचार्य्य खड्गमानञ्च कर्त्तव्यं खड्गकोविदैः ॥
घोरस्तार इति ख्यातो द्बिविधः खड्गकोविदैः ।
घोरः स्यात् सुखसम्पत्त्यै तार उच्चाटने मतः ॥
यत्र हंसरवस्येव खड्गे नखहते ध्वनिः ।
हंसध्वनिरयं खड्गः सकलार्थप्रसाधनः ॥ १ ॥
कांस्यशब्द इवाभाति यस्मिन् खड्गे हते ध्वनिः ।
कांस्यध्वनिरयं खड्गः प्राह नागार्ज्जुनो
मुनिः ॥ २ ॥
अभ्रस्य लक्षणं पतितम् ॥ ३ ॥
ढक्काशब्द इवाभाति यस्मिन् खड्गे हते ध्वनिः ।
ढक्काध्वनिरयं खड्गः सर्व्वशत्रुनिसूदनः ॥ ४ ॥
काकस्वर इवाभाति यस्मिन् खड्गे हते ध्वनिः ।
काकस्वरोऽयं खड्गः स्यात् श्रीयशःकुल-
नाशनः ॥ ५ ॥
तन्त्रीस्वरसमो यस्मिन् भवेत् खड्गे हते ध्वनिः ।
तन्त्रीध्वनिरयं खड्गः कुलश्रीधननाशनः ॥ ६ ॥
खरस्येव ध्वनिर्यस्मिन् खरध्वनिरयं मतः ।
श्रीयशोज्ञानविज्ञानजयतेजोविनाशनः ॥ ७ ॥
प्रस्तरस्येव यः खड्गः स निन्द्यः खडग-
लक्षणे ॥ ८ ॥
गभीरतारध्वनिता खड्गस्याशुभलक्षणम् ।
उत्तानमन्द्रध्वनिता खड्गस्याशुभलक्षणम् ॥
अपाङ्गनेत्रहीनोऽपि खड्गः सुध्वनिरुत्तमः ।
अन्धः कुरूपो मनुजो यथा भुवि सुगायनः ॥
सर्व्वलक्षणसम्पन्नः खड्गो यो ध्वनिवर्ज्जितः ।
स निन्द्यः सुन्दराङ्गोऽपि यथा वाक्यविवर्जितः ॥
नखेन वाथ दण्डेन तथा लौहशलाकया ।
लोष्टेन शर्कराभिर्व्वा ध्वनिविज्ञानमुच्यते ॥”
इति खड्गपरीक्षायां ध्वन्यध्यायोऽष्टमः ॥ * ॥
अथ द्बिविधं मानम् ।
यन्मानं द्बिविधं प्रोक्तं तस्य लक्षणमुच्यते ।
उत्तमाधमभेदेन भेदो हि द्बिविधो मतः ॥
उत्तमं यद्बिशालं स्याल्लघुमानं प्रकीर्त्तितम् ॥ १ ॥
अधमं तच्च यत् खर्व्वं गुरुमानं प्रकीर्त्तितम् ॥ २ ॥
तत्पुनस्त्रिविधं प्रोक्तमादिमध्यान्तभेदतः ।
यो मुष्टिविंशतिसमायततीव्रधारो
भर्त्तुर्भवेत् प्रसरतोऽपि षडङ्गुलीभिः ।
मानेन चाष्टपलिकः स हि खड्गमध्ये
नातिप्रकृष्टनविकृष्टफलप्रदः स्यात् ॥
यो द्बादशाष्टनवमुष्टिभिरायतः स्यात्
मन्दो भवेत् प्रसरतोऽपि चतुर्थभागः ।
तावत्पलैः परिमितस्तु ततोऽधिको वा
खड् गाधमो धनयशःकुलनाशनाय ॥
नागार्ज्जुनोऽपि ।
यावत्यो मुष्टयो दैर्घ्ये तदर्द्धाङ्गुलयो यदा ।
प्रसरे तच्चतुर्थांशमितिवै मानमुत्तमम् ॥
यावत्यो मुष्टयो दैर्घ्ये प्रसरे तत्त्रिभागिकः ।
पलैस्तदर्द्धैस्तुलितः स खड्गो मध्य उच्यते ॥
यावत्यो मुष्टयो दैर्घ्ये तुर्य्यांशः प्रसरे तु तत् ।
अधमः कीर्त्तितः खड्गस्तत्समो वाधिकः
पलैः ॥
भौमानामिदमुद्दिष्टं दिव्यास्तु लघवो मताः ॥”
इति खड्गपरीक्षायां मानाध्यायः ॥ * ॥
भोजस्तु ।
“दीर्घता लघुता चैव खरविस्तीर्णता तथा ।
दुर्भेद्यता सुघटता खड्गानां गुणसंग्रहः ॥
खर्व्वता गुरुता चैव मन्दता तनुता तथा ।
सुभेद्यता दुर्घटता खड्गानां दोषसंग्रहः ॥
इति निखिलमुदारमुक्तमत्र
बहुतन्त्रेषु निकृष्य खड्गयष्टेः ।
नृपतिरिति विचिन्त्य यो विधत्ते
स चिरतरां श्रियमुच्छ्रितां लभेत ॥”
इति युक्तिकल्पतरूक्तखड्गपरीक्षा समाप्ता ॥

तरसं, क्ली, (तॄ + बाहुलकात् असच् ।) मांसम् ।

इत्यमरः । २ । ६ । ६३ ॥ (यथा, कात्यायन-
श्रौतसूत्रे ।
“तरसमयाः पूर्ब्बोक्तभागाः ॥”
“तरसमया मांसमयाः ।” इति कर्कः ॥)

तरस्थानं, क्ली, (तराय अवतरणाय यत् स्थानम् ।

तरस्य स्थानं वा ।) घट्टः । इति जटाधरः ॥

तरस्वान्, [त्] त्रि, (तरो बलं वेगो वा अस्त्य-

स्येति मतुप् । मस्य वः ।) शूरः । वेगी ।
इति व्याकरणम् ॥ (चतुर्थमनुपुत्त्रविशेषः ।
यथा, हरिवंशे । ७ । ८८ ।
“तरङ्गभीरुर्व्वुष्मश्च तरस्वानुग्र एव च ।
अभिमानी प्रवीरश्च जिष्णुः सङ्क्रन्दनस्तथा ॥”)

तरस्वी, [न्] त्रि, (तरो वेगः बलं वास्त्यस्य ।

तरस् + “अस्मायामेधास्रजो विनिः ।” ५ । २ ।
१२१ । इति विनिः ।) शूरः । वेगी । इत्यमरः ।
३ । ३ । १२७ । (यथा, भागवते । ८ । १० । ३१ ।
“राहुणा च तथा सोमः पुलोम्ना युयुधेऽनिलः ।
निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी ॥”)
गरुडे वायौ च पुं । इति राजनिर्घण्टः ॥
"https://sa.wikisource.org/w/index.php?title=शब्दकल्पद्रुमः/त&oldid=43966" इत्यस्माद् प्रतिप्राप्तम्