पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १११

विकिस्रोतः तः
← अध्यायः ११० पद्मपुराणम्
अध्यायः १११
वेदव्यासः
अध्यायः ११२ →

पृथुरुवाच।
कृष्णवेण्यातटाद्यस्मात्शिवविष्णुगणैः पुरा ।
वणिक्शरीरात्कलहा निर्मिता कथिता त्वया १।
प्रभावोऽयं तयोर्नद्योः किंवा क्षेत्रस्य तस्य वा ।
तन्मे कथय धर्मज्ञ विस्मयोऽत्र महान्मम २।
नारद उवाच।
कृष्णा कृष्णतनुः साक्षाद्वेण्या देवो महेश्वरः ।
तत्संगमप्रभावं तु नालं वक्तुं चतुर्मुखः ३।
तथापि तत्समुत्पत्तिं कीर्तयिष्यामि तच्छृणु ।
चाक्षुषस्यांतरे पूर्वं मनोर्देवः पितामहः ४।
सह्याद्रिशिखरे रम्ये यजनायोद्यतोऽभवत् ।
स कृत्वा यज्ञसंभारान्सर्वदेवगणैर्वृतः ५।
युक्तो हरिहराभ्यां च तद्गिरेः शिखरं ययौ ।
भृग्वादयो मुनिगणा मुहूर्ते ब्रह्मदैवते ६।
तस्य दीक्षाविधानाय समाजं तत्र चक्रिरे ।
अथ ज्येष्ठां स्वरां पत्नीं विष्णुराह्वयत द्विजैः ७।
साशनैराययौ तावद्भृगुर्विष्णुमुवाच ह ।
भृगुरुवाच।
विष्णो स्वरा त्वयाहूता आयाति न हि सत्वरा ८।
मुहूर्त्तातिक्रमश्चायं कार्यो दीक्षाविधिः कथम् ।
विष्णुरुवाच।
नायाति चेत्स्वरा शीघ्रं गायत्र्यत्र विधीयताम् ९।
एषापि न भवत्यस्य भार्या किं पुण्यकर्मणि ।
नारद उवाच।
एवमेव हि रुद्रोऽपि विष्णोर्वाक्यममोदत १०।
तच्छ्रुत्वा स भृगुर्वाक्यं गायत्रीं ब्रह्मणस्तदा ।
निवेश्य दक्षिणे भागे दीक्षाविधिमथाकरोत् ११।
यावद्दीक्षाविधिं तस्य विधेश्चक्रुर्विधानतः ।
तावदभ्याययौ तत्र स्वरा यज्ञस्थले नृप १२।
ततस्तां दीक्षितां दृष्ट्वा गायत्रीं ब्रह्मणा सह ।
सपत्नीर्षापरा क्रोधात्स्वरा वचनमब्रवीत् १३।
स्वरोवाच।
अपूज्या यत्र पूज्यन्ते पूज्यानां च व्यतिक्रमः ।
त्रीणि तत्र भविष्यंति दुर्भिक्षं मरणं भयम् १४।
ममासने कनिष्ठेयं भवद्भिः सन्निवेशिता ।
तस्मात्सर्वे जडीभूता नानारूपा भविष्यथ १५।
इदं च दक्षिणेभागे ह्युपविष्टा मदासने ।
तस्माल्लोकैः सदाऽदृश्या तनुर्वहतु निम्नगा १६।
नारद उवाच।
ततस्तच्छापमाकर्ण्य गायत्री कंपिता तदा ।
समुत्थायाशपद्देवैर्वार्यमाणापि तां स्वराम् १७।
तव भर्त्ता यथा ब्रह्मा ममाप्येष तथा खलु ।
वृथाशपस्त्वं यस्मान्मां भव त्वमपि निम्नगा १८।
नारद उवाच।
ततो हाहाकृताः सर्वे शिवविष्णुमुखाः सुराः ।
तदा लोकत्रयं ह्येतद्विनाशं यास्यति ध्रुवम् १९।
देवा ऊचुः ।
देवि सर्वे वयं शप्ता ब्रह्माद्या यत्त्वयाधुना ।
यदि सर्वे जडीभूता भविष्यामोऽत्र निम्नगाः २०।
तदा लोकत्रयं ह्येतद्विनाशं यास्यति ध्रुवम् ।
अविवेकः कृतस्तस्माच्छापोऽयं विनिवर्त्यताम् २१।
स्वरोवाच।
नार्चितो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः ।
तस्माद्विघ्नं समुत्पन्नं मत्क्रोधजमिदं खलु २२।
नापि मद्वचनं ह्येतदसत्यं जायते खलु ।
तस्मात्स्वांशैर्जडीभूता यूयं भवत निम्नगाः २३।
आवामपि सपत्न्यौ च स्वांशाभ्यामपि निम्नगे ।
भविष्यावोऽत्र वै देवाः पश्चिमाभिमुखावहे २४।
नारद उवाच।
इति तद्वचनं श्रुत्वा ब्रह्मविष्णुमहेश्वराः ।
जडीभूताभवन्नद्यः स्वांशैरेव तदा नृप २५।
तत्र विष्णुरभूत्कृष्ण वेण्या देवो महेश्वरः ।
ब्रह्मा ककुद्मिनीगंगा पृथगेवाभवत्तदा २६।
देवा स्वानपितानंशान्जडीकृत्वा विचक्षणाः ।
सह्याद्रिशिखरेभ्यस्ताः पृथगासन्सुनिम्नगाः २७।
देवांशैः पूर्ववाहिन्यो बभूवुः सरितां वराः ।
गायत्री च स्वरा चैव पश्चिमाभिमुखे तदा २८।
योगेनाभवतां नद्यौ सावित्रीति प्रथां गते ।
ब्रह्मणा स्थापितौ तत्र यज्ञे हरिहरावुभौ २९।
महाबलातिबलिनौ नाम्ना देवौ बभूवतुः ।
तयोर्नद्योस्तु माहात्म्यं नाहं वक्तुं क्षमो नृप ।
ययुर्ब्रह्मादयो देवाः स्वांशैस्तिष्ठंति चापगाः ३०।
कृष्णोद्भवं पापहरं परं यः शृणोति यः श्रावयते च भक्त्या ।
स्यात्तस्य पुण्या सकलाक्रियापि तद्दर्शनस्नानसमुद्भवं फलम् ३१।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायामुत्तरखंडे कार्तिकमाहात्म्ये सत्य भामासंवादेकृष्णावेण्यामाहात्म्यवर्णनोनाम एकादशाधिकशततमोऽध्यायः १११।