श्रीमद्भागवतपुराणम्/स्कन्धः १०/उत्तरार्धः/अध्यायः ८९

विकिस्रोतः तः
← अध्यायः ८८ श्रीमद्भागवतपुराणम्
स्कन्धः १०/उत्तरार्धः/अध्यायः ८९
[[लेखकः :|]]
अध्यायः ९० →

अथैकोननवतितमोऽध्यायः

श्रीशुक उवाच।
सरस्वत्यास्तटे राजन्नृषयः सत्रमासत।
वितर्कः समभूत्तेषां त्रिष्वधीशेषु को महान् १।
तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृप।
तज्ज्ञप्त्यै प्रेषयामासुः सोऽभ्यगाद्ब्रह्मणः सभाम् २।
न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्वपरीक्षया।
तस्मै चुक्रोध भगवान्प्रज्वलन्स्वेन तेजसा ३।
स आत्मन्युत्थितम्मन्युमात्मजायात्मना प्रभुः।
अशीशमद्यथा वह्निं स्वयोन्या वारिणात्मभूः ४।
ततः कैलासमगमत्स तं देवो महेश्वरः।
परिरब्धुं समारेभे उत्थाय भ्रातरं मुदा ५।
नैच्छत्त्वमस्युत्पथग इति देवश्चुकोप ह।
शूलमुद्यम्य तं हन्तुमारेभे तिग्मलोचनः ६।
पतित्वा पादयोर्देवी सान्त्वयामास तं गिरा।
अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः ७।
शयानं श्रिय उत्सङ्गे पदा वक्षस्यताडयत्।
तत उत्थाय भगवान्सह लक्ष्म्या सतां गतिः ८।
स्वतल्पादवरुह्याथ ननाम शिरसा मुनिम्।
आह ते स्वागतं ब्रह्मन्निषीदात्रासने क्षणम्।
अजानतामागतान्वः क्षन्तुमर्हथ नः प्रभो ९।
पुनीहि सहलोकं मां लोकपालांश्च मद्गतान्।
पादोदकेन भवतस्तीर्थानां तीर्थकारिणा १०।
अद्याहं भगवंल्लक्ष्म्या आसमेकान्तभाजनम्।
वत्स्यत्युरसि मे भूतिर्भवत्पादहतांहसः ११।
श्रीशुक उवाच।
एवं ब्रुवाणे वैकुण्ठे भृगुस्तन्मन्द्रया गिरा।
निर्वृतस्तर्पितस्तूष्णीं भक्त्युत्कण्ठोऽश्रुलोचनः १२।
पुनश्च सत्रमाव्रज्य मुनीनां ब्रह्मवादिनाम्।
स्वानुभूतमशेषेण राजन्भृगुरवर्णयत् १३।
तन्निशम्याथ मुनयो विस्मिता मुक्तसंशयाः।
भूयांसं श्रद्दधुर्विष्णुं यतः शान्तिर्यतोऽभयम् १४।
धर्मः साक्षाद्यतो ज्ञानं वैराग्यं च तदन्वितम्।
ऐश्वर्यं चाष्टधा यस्माद्यशश्चात्ममलापहम् १५।
मुनीनां न्यस्तदण्डानां शान्तानां समचेतसाम्।
अकिञ्चनानां साधूनां यमाहुः परमां गतिम् १६।
सत्त्वं यस्य प्रिया मूर्तिर्ब्राह्मणास्त्विष्टदेवताः।
भजन्त्यनाशिषः शान्ता यं वा निपुणबुद्धयः १७।
त्रिविधाकृतयस्तस्य राक्षसा असुराः सुराः।
गुणिन्या मायया सृष्टाः सत्त्वं तत्तीर्थसाधनम् १८।
श्रीशुक उवाच।
इत्थं सारस्वता विप्रा नृणाम्संशयनुत्तये।
पुरुषस्य पदाम्भोज सेवया तद्गतिं गताः १९।
श्रीसूत उवाच।
इत्येतन्मुनितनयास्यपद्मगन्ध।
पीयूषं भवभयभित्परस्य पुंसः।
सुश्लोकं श्रवणपुटैः पिबत्यभीक्ष्णम्।
पान्थोऽध्वभ्रमणपरिश्रमं जहाति २०।
श्रीशुक उवाच।
एकदा द्वारवत्यां तु विप्रपत्न्याः कुमारकः।
जातमात्रो भुवं स्पृष्ट्वा ममार किल भारत २१।
विप्रो गृहीत्वा मृतकं राजद्वार्युपधाय सः।
इदं प्रोवाच विलपन्नातुरो दीनमानसः २२।
ब्रह्मद्विषः शठधियो लुब्धस्य विषयात्मनः।
क्षत्रबन्धोः कर्मदोषात्पञ्चत्वं मे गतोऽर्भकः २३।
हिंसाविहारं नृपतिं दुःशीलमजितेन्द्रियम्।
प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्यदुःखिताः २४।
एवं द्वितीयं विप्रर्षिस्तृतीयं त्वेवमेव च।
विसृज्य स नृपद्वारि तां गाथां समगायत २५।
तामर्जुन उपश्रुत्य कर्हिचित्केशवान्तिके।
परेते नवमे बाले ब्राह्मणं समभाषत २६।
किं स्विद्ब्रह्मंस्त्वन्निवासे इह नास्ति धनुर्धरः।
राजन्यबन्धुरेते वै ब्राह्मणाः सत्रमासते २७।
धनदारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः।
ते वै राजन्यवेषेण नटा जीवन्त्यसुम्भराः २८।
अहं प्रजाः वां भगवन्रक्षिष्ये दीनयोरिह।
अनिस्तीर्णप्रतिज्ञोऽग्निं प्रवेक्ष्ये हतकल्मषः २९।
श्रीब्राह्मण उवाच।
सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः।
अनिरुद्धोऽप्रतिरथो न त्रातुं शक्नुवन्ति यत् ३०।
तत्कथं नु भवान्कर्म दुष्करं जगदीश्वरैः।
त्वं चिकीर्षसि बालिश्यात्तन्न श्रद्दध्महे वयम् ३१।
श्रीअर्जुन उवाच।
नाहं सङ्कर्षणो ब्रह्मन्न कृष्णः कार्ष्णिरेव च।
अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः ३२।
मावमंस्था मम ब्रह्मन्वीर्यं त्र्यम्बकतोषणम्।
मृत्युं विजित्य प्रधने आनेष्ये ते प्रजाः प्रभो ३३।
एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप।
जगाम स्वगृहं प्रीतः पार्थवीर्यं निशामयन् ३४।
प्रसूतिकाल आसन्ने भार्याया द्विजसत्तमः।
पाहि पाहि प्रजां मृत्योरित्याहार्जुनमातुरः ३५।
स उपस्पृश्य शुच्यम्भो नमस्कृत्य महेश्वरम्।
दिव्यान्यस्त्राणि संस्मृत्य सज्यं गाण्डीवमाददे ३६।
न्यरुणत्सूतिकागारं शरैर्नानास्त्रयोजितैः।
तिर्यगूर्ध्वमधः पार्थश्चकार शरपञ्जरम् ३७।
ततः कुमारः सञ्जातो विप्रपत्न्या रुदन्मुहुः।
सद्योऽदर्शनमापेदे सशरीरो विहायसा ३८।
तदाह विप्रो विजयं विनिन्दन्कृष्णसन्निधौ।
मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ३९।
न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः।
यस्य शेकुः परित्रातुं कोऽन्यस्तदवितेश्वरः ४०।
धिगर्जुनं मृषावादं धिगात्मश्लाघिनो धनुः।
दैवोपसृष्टं यो मौढ्यादानिनीषति दुर्मतिः ४१।
एवं शपति विप्रर्षौ विद्यामास्थाय फाल्गुनः।
ययौ संयमनीमाशु यत्रास्ते भगवान्यमः ४२।
विप्रापत्यमचक्षाणस्तत ऐन्द्री मगात्पुरीम्।
आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीमथ ४३।
रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः।
ततोऽलब्धद्विजसुतो ह्यनिस्तीर्णप्रतिश्रुतः ।
अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता ४४।
दर्शये द्विजसूनूंस्ते मावज्ञात्मानमात्मना।
ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति ४५।
इति सम्भाष्य भगवानर्जुनेन सहेश्वरः।
दिव्यं स्वरथमास्थाय प्रतीचीं दिशमाविशत् ४६।
सप्त द्वीपान्ससिन्धूंश्च सप्त सप्त गिरीनथ।
लोकालोकं तथातीत्य विवेश सुमहत्तमः ४७।
तत्राश्वाः शैब्यसुग्रीव मेघपुष्पबलाहकाः।
तमसि भ्रष्टगतयो बभूवुर्भरतर्षभ ४८।
तान्दृष्ट्वा भगवान्कृष्णो महायोगेश्वरेश्वरः।
सहस्रादित्यसङ्काशं स्वचक्रं प्राहिणोत्पुरः ४९।
तमः सुघोरं गहनं कृतं महद्।
विदारयद्भूरितरेण रोचिषा।
मनोजवं निर्विविशे सुदर्शनं।
गुणच्युतो रामशरो यथा चमूः ५०।
द्वारेण चक्रानुपथेन तत्तमः परं परं ज्योतिरनन्तपारम्।
समश्नुवानं प्रसमीक्ष्य फाल्गुनः प्रताडिताक्षो पिदधेऽक्षिणी उभे ५१।
ततः प्रविष्टः सलिलं नभस्वता बलीयसैजद्बृहदूर्मिभूषणम्।
तत्राद्भुतं वै भवनं द्युमत्तमं भ्राजन्मणिस्तम्भसहस्रशोभितम् ५२।
तस्मिन्महाभोगमनन्तमद्भुतं।
सहस्रमूर्धन्यफणामणिद्युभिः।
विभ्राजमानं द्विगुणेक्षणोल्बणं।
सिताचलाभं शितिकण्ठजिह्वम् ५३।
ददर्श तद्भोगसुखासनं विभुं।
महानुभावं पुरुषोत्तमोत्तमम्।
सान्द्रा म्बुदाभं सुपिशङ्गवाससं।
प्रसन्नवक्त्रं रुचिरायतेक्षणम् ५४।
महामणिव्रातकिरीटकुण्डल।
प्रभापरिक्षिप्तसहस्रकुन्तलम्।
प्रलम्बचार्वष्टभुजं सकौस्तुभं।
श्रीवत्सलक्ष्मं वनमालयावृतम् ५५।
महामणिव्रातकिरीटकुण्डल।
प्रभापरिक्षिप्तसहस्रकुन्तलम्।
प्रलम्बचार्वष्टभुजं सकौस्तुभं।
श्रीवत्सलक्ष्मं वनमालयावृतम् ५६।
ववन्द आत्मानमनन्तमच्युतो जिष्णुश्च तद्दर्शनजातसाध्वसः।
तावाह भूमा परमेष्ठिनां प्रभुर्बद्धाञ्जली सस्मितमूर्जया गिरा ५७।
द्विजात्मजा मे युवयोर्दिदृक्षुणा मयोपनीता भुवि धर्मगुप्तये।
कलावतीर्णाववनेर्भरासुरान्हत्वेह भूयस्त्वरयेतमन्ति मे ५८।
पूर्णकामावपि युवां नरनारायणावृषी।
धर्ममाचरतां स्थित्यै ऋषभौ लोकसङ्ग्रहम् ५९।
इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना।
ॐ इत्यानम्य भूमानमादाय द्विजदारकान् ६०।
न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथागतम्।
विप्राय ददतुः पुत्रान्यथारूपं यथावयः ६१।
निशाम्य वैष्णवं धाम पार्थः परमविस्मितः।
यत्किञ्चित्पौरुषं पुंसां मेने कृष्णानुकम्पितम् ६२।
इतीदृशान्यनेकानि वीर्याणीह प्रदर्शयन्।
बुभुजे विषयान्ग्राम्यानीजे चात्युर्जितैर्मखैः ६३।
प्रववर्षाखिलान्कामान्प्रजासु ब्राह्मणादिषु।
यथाकालं यथैवेन्द्रो भगवान्श्रैष्ठ्यमास्थितः ६४।
हत्वा नृपानधर्मिष्ठान्घाटयित्वार्जुनादिभिः।
अञ्जसा वर्तयामास धर्मं धर्मसुतादिभिः ६५।
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे द्विजकुमारानयनं नाम एकोननवतितमोऽध्यायः।