स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०७४

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
ततो गच्छेन्महादेवि शाकल्येश्वरमुत्तमम् ॥
दैत्यसूदनवायव्ये धनुषां त्रिंशता स्थितम् ॥ १ ॥
शाकल्येन महादेवि पूजितं सर्वकामदम्॥
शाकल्योनाम राजर्षिर्यत्र तप्त्वा महत्तपः ॥२॥
समाराध्य महादेवं प्रत्यक्षीकृतवान्भवम् ॥
लिंगेऽवतारयामास प्रसन्नं तं महेश्वरम् ॥ ३ ॥
तस्मिन्दृष्टे वरारोहे सप्तजन्मकृतं नृणाम् ॥
पापं प्रणश्यते शीघ्रं तमः सूर्योदये यथा ॥ ४ ॥
तत्राष्टम्यां चतुर्द्दश्यां स्नापयेत्पयसा शिवम् ॥
पूजयेच्च विधानेन गन्धपुष्पादिभिः क्रमात् ॥ ५ ॥
हिरण्यं तत्र दातव्यं सम्यग्यात्राफलेप्सुभिः ॥
चत्वारि तस्य नामानि कथ्यमानानि मे शृणु ॥ ६ ॥
आदौ कृतयुगे देवि कीर्तितो भैरवेश्वरः ॥
ततः सावर्णिमनुना सम्यगाराधितः प्रिये ॥ ७ ॥
सावर्णिकेश्वरं नाम त्रेतायां तस्य संज्ञितम् ॥
ततस्तु द्वापरे देवि गालवेन महात्मना ॥
सम्यगाराधितस्तत्र लिंगरूपीवृषध्वजः ॥ ८ ॥
तृतीयं तस्य देवस्य गालवेश्वरसंज्ञितम् ॥
कलौ युगे तु संप्राप्ते शाकल्योनाम वै मुनिः ॥ ९ ॥
यत्र सिद्धिमनुप्राप्त ऐश्वर्यं चाणिमादिकम्॥
शाकल्येश्वरनामेति ततः ख्यातं तुरीयकम् ॥ 7.1.74.१० ॥
एवं चातुर्युगं नाम तस्य लिंगस्य कीर्तितम् ॥
पापघ्नं पुण्यदं नॄणां कीर्त्तितं सर्वकामदम् ॥ ११ ॥
तस्यैव देवदेवस्य क्षेत्रोत्पत्तिं शृणु प्रिये ॥ १२ ॥
अष्टादशधनुर्देवि समंतात्परिमण्डलम् ॥
महापापहरं देवि तत्र क्षेत्रनिवासिनाम्॥ १३ ॥
कृमिकीटपतंगानां तिरश्चामपि मोक्षदम् ॥
यत्र कूपादितोयेषु जलं सारस्वतं स्मृतम् ॥ १४ ॥
यत्र तत्र नरः स्नात्वा स्वर्गलोके महीयते ॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥ १५ ॥
तत्फलं समवाप्नोति तस्य लिंगस्य दर्शनात् ॥
सोमपर्वणि संप्राप्ते यस्तत्र शुचिरात्मवान् ॥ १६ ॥
अघोरं च जपेत्सम्यगाज्यहोमसमन्वितम् ॥
तल्लिंगस्य समीपस्थो यावन्मासावधिः प्रिये ॥ १७ ॥
महापातकयुक्तोऽपि युक्तो वाऽप्युपपातकैः ॥
स सर्वां लभते सिद्धिमुत्तमां वरवर्णिनि ॥ १८ ॥
कामिकं तत्स्मृतं लिंगं सर्वकामफलप्रदम् ॥
अघोर वक्त्रं देवस्य तत्रस्थं भैरवं महत्॥ १९ ॥
भैरवेश्वरनामेति पूर्वं ख्यातमभूद्भुवि ॥
अस्मिन्युगे तु संप्राप्ते शाकल्येश्वरनामकम् ॥7.1.74.२०।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शाकल्येश्वरमाहात्म्यवर्णनंनाम चतुःसप्ततितमोऽध्यायः ॥ ॥ ७४ ॥ ॥ ध ॥