स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २४९

विकिस्रोतः तः

वाण्युवाच ॥ ॥
तुलसी रोपिता येन गृहस्थेन महाफला ॥
गृहे तस्य न दारिद्र्यं जायते नात्र संशयः ॥ १ ॥
तुलस्या दर्शनादेव पापराशिर्निवर्तते ॥
श्रियेऽमृतकणोत्पन्ना तुलसी हरिवल्लभा ॥ २ ॥
पिबन्त्या रुचिरं पानं प्राणिनां पापहारिणी ॥
यस्या रूपे वसेल्लक्ष्मीः स्कन्धे सागरसंभवा ॥ ३ ॥
पत्रेषु सततं श्रीश्च शाखासु कमला स्वयम् ॥
इन्दिरा पुष्पगा नित्यं फले क्षीराब्धिसंभवा ॥ ४ ॥
तुलसी शुष्ककाष्ठेषु या रूपा विश्वव्यापिनी ॥
मज्जायां पद्मवासा च त्वचासु च हरिप्रिया ॥ ५ ॥
सर्वरूपा च सर्वेशा परमानन्ददायिनी ॥
तुलसी प्राशको मर्त्यो यमलोकं न गच्छति । ६ ।
शिरस्था तुलसी यस्य न याम्यैरनुभूयते ॥
मुखस्था तुलसी यस्य निर्वाणपददायिनी ॥ ७ ॥
हस्तस्थातुलसीयस्य स तापत्रयवर्जितः ॥
तुलसी हृदयस्था च प्राणिनां सर्वकामदा ॥ ८ ॥
स्कन्धस्था तुलसी यस्य स पापैर्न च लिप्यते ॥
कण्ठगा तुलसी यस्य जीवन्मुक्तः सदा हि सः ॥ ९ ॥
तुलसीसंभवं पत्रं सदा वहति यो नरः ॥
मनसा चिन्तितां सिद्धिं संप्राप्नोति न संशयः ॥ ॥ 6.249.१० ॥
तुलसींसर्वकायार्थसाधिनीं दुष्टवारिणीम् ॥
यो नरः प्रत्यहं सिञ्चेन्न स याति यमालयम् ॥ ११ ॥
चातुर्मास्ये विशेषेण वन्दितापि विमुक्तिदा ॥
नारायणं जलगतं ज्ञात्वा वृक्षगतं तथा ॥ १२ ॥
प्राणिनां कृपया लक्ष्मीस्तुलसीवृक्षमाश्रिता ॥
चातुर्मास्ये समायाते तुलसी सेविता यदि ॥ १३ ॥
तेषां पापसहस्राणि यांति नित्यं सहस्रधा ॥
गोविन्दस्मरणं नित्यं तुलसीवनसेवनम् ॥ १४ ॥
तुलसीसेचनं दुग्धै श्चातुर्मास्येऽतिदुर्लभम् ॥
तुलसीं वर्द्धयेद्यस्तु मानवो यदि श्रद्धया ॥ १५ ॥
आलवालांबुदानैश्च पावितं सकलं कुलम् ॥
यथा श्रीस्तुलसीसंस्था नित्यमेव हि वर्द्धते ॥ १६ ॥
तथातथा गृहस्थस्य कामवृद्धिः प्रजायते ॥
ब्रह्मचारीगृहस्थश्च वानप्रस्थो यतिस्तथा ॥ १७ ॥
तथा प्रकृतयः सर्वास्तुलसीसेवने रताः ॥
श्रद्धया यदि जायन्ते न तासां दुःखदो हरिः ॥ १८ ॥
एको हरिः सकलवृक्षगतो विभाति नानारसैस्तु परिभावितमूर्तिरेव ॥
वृक्षाधिवासमगमत्कमला च देवी दुःखादिनाशनकरी सततं स्मृताऽपि ॥ १९ ॥
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठ नाग रखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्यमाहात्म्ये पैजवनोपाख्याने तुलसीमाहात्म्यवर्णनंनामैकोनपञ्चाशदुत्तर द्विशततमोऽध्यायः ॥२४९॥