पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०८८

विकिस्रोतः तः
← अध्यायः ०८७ पद्मपुराणम्
अध्यायः ०८८
वेदव्यासः
अध्यायः ०८९ →

सूतउवाच-
अतःपरं कार्तिकमाहात्म्यं प्रस्तूयते ।
सूत उवाच-
एकदा द्वारकामागादृषिः कृष्णदिदृक्षया ।
पुष्पाण्यादाय दिव्यानि कल्पवृक्षोत्थितानि च १।
नारदं स्वागतेनासौ कृष्णः सत्कारमाचरत् ।
इदमर्घ्यमिदं पाद्यमित्युवाचासनंददत् २।
नारदस्तानि पुष्पाणि कृष्णायोपाजहार च ।
कृष्णः षोडशसाहस्रस्त्रीभ्यस्तानि व्यभज्यत ३।
विस्मृत्य सत्यभामां तु सर्वाभ्यस्तान्यदात्प्रभुः ।
सत्यभामा ततः क्रुद्धा क्रोधागारं समाविशत् ४।
समाज्ञाय ततः कृष्णस्तत्र गत्वा समाहितः ।
सत्यभामां मानयित्वा गरुडं मनसा स्मरन् ५।
स्मृतमात्रस्तु गरुडस्तदागत्याग्रतः स्थितः ।
आरुह्य वेगात्पत्रं तमित्युवाच प्रियां प्रभुः ६।
सत्ये त्वं माकृथाः क्रोधं त्वत्कृते देवतैः सह ।
विरुध्य देवराजानं रोपयिष्ये तवांगणे ७।
कल्पद्रुमं महाभागेऽपराधं मे क्षमां कुरु ।
इति कृत्वा प्रतिज्ञां तु कृष्णः स सत्यभामया ८।
देवलोकमगात्तूर्णं यत्र देवः स वृत्रहा ।
याचितः कल्पवृक्षार्थमुत्तरं दत्तवान्प्रभुम् ९।
नायं देवद्रुमो भूम्यां प्राप्तुं योग्यस्त्वया प्रभो ।
तदा क्रुद्धो महाबाहुर्वृक्षमुत्पाट्य मूलतः १०।
वाहमारोपयामास वेगेन बलवत्तरः ।
तदा वज्रधरो वेगाद्वज्रमुद्यम्य वीर्यवान् ११।
गरुडं ताडयामास कल्पवृक्षं त्यजेरिति ।
तदा पत्ररथः पत्रं कुलिशस्यापि गौरवात् १२।
एकं विसर्जयामास त्वरया प्रजगाम च ।
तेन वज्रप्रहारेण त्रयोभूव पतत्रिणः १३।
मयूरो नकुलश्चाषः कृष्णो द्वारावतीमगात् ।
आगत्य सत्यभामाया गृहे चैनमरोपयत् ।
तदैव नारदोऽभ्यागात्सत्यया मानितो बहु १४।
सत्यभामोवाच-
ईदृशः कल्पवृक्षोऽयं पतिरेतादृशः प्रभुः ।
भवेभवे कथं प्राप्यस्तदाख्यातु भवान्मम १५।
इति पृष्टस्तदा प्राह नारदो मुनिसत्तमः ।
प्राप्यते सत्यभामेऽयं तुलापुरुष दानतः १६।
सत्यभामा तदा कृष्णं कल्पवृक्षसमन्वितम् ।
नारदायैव सा प्रादात्तोलयित्वा विधानतः ।
सर्वोपस्करमाकृष्य नारदस्त्रिदिवं ययौ १७।
सूत उवाच-
श्रियःपतिमथामंत्र्य गते देवर्षिसत्तमे ।
हर्षोत्फुल्लानना सत्या वासुदेवमथाब्रवीत् १८।
सत्यभामोवाच-
धन्यास्मि कृतकृत्यास्मि सफलं जीवितं च मे ।
मज्जन्मनि निदाने च धन्यौ तौ पितरौ मम १९।
यौ मां त्रैलोकसुभगां जनयामासतुर्ध्रुवम् ।
षोडशस्त्रीसहस्राणां वल्लभाहं यतस्तव २०।
यस्मान्मयादिपुरुषः कल्पवृक्षसमन्वितः ।
यथोक्तविधिना सम्यङ्नारदाय समर्पितः २१।
यद्वार्तामपि जानंति भूमिसंस्थान जंतवः ।
सोऽयं कल्पद्रुमो गेहे मम तिष्ठति सांप्रतम् २२।
त्रैलोक्याधिपतेश्चाहं श्रीपतेरतिवल्लभा ।
अतोऽहं प्रष्टुमिच्छामि किंचित्त्वां मधुसूदन २३।
यदि त्वं मत्प्रियकरः कथयस्वात्र विस्तरात् ।
श्रुत्वा तच्च पुनश्चाहं करोमि हितमात्मनः २४।
यथाकल्पं त्वया देव वियुक्ता स्यां न कर्हिचित् ।
सूत उवाच-
इति प्रियावचः श्रुत्वा स्मेरास्योऽयं गदाग्रजः २५।
सत्या करे करं कृत्वागमत्कल्पतरोस्तलम् ।
निषिद्ध्यानुचरं लोकं सविलासं प्रियान्वितः २६।
प्रहस्य सत्यामामंत्र्य प्रोवाच जगतांपतिः ।
तत्प्रीति परितोषार्थं लसत्पुलकितांगजः २७।
कृष्ण उवाच-।
न मे त्वत्तः प्रियतमा काचिदन्या नितंबिनी ।
षोडशस्त्रीसहस्राणां प्रिये प्राणसमा ह्यसि २८।
त्वदर्थं देवराजेन विरोधो दैवतैः सह ।
त्वया यत्प्रार्थितं कांते शृणु यच्च महद्भवेत् २९।
अदेयमथवाकार्यमकथ्यमपि यत्पुनः ।
त्वत्कृतं तु कथं प्रश्नं कथयामि न तु प्रिये ।
पृच्छस्व सर्वं कथये यत्ते मनसि वर्तते ३०।
सत्योवाच-
दानं व्रतं तपो वापि किं तु पूर्वं मयाकृतम् ।
येनाहं मर्त्यजा मर्त्ये भवानीवाऽभवं किल ३१।
तवांगार्द्धहरा नित्यं गरुडोपरिगामिनी ।
इंद्रादिदेवतावासमगमं च त्वया सह ३२।
अतस्त्वां प्रष्टुमिच्छामि किं कृतं तु मया शुभम् ।
जन्मांतरे च किं शीला का चाहं कस्य कन्यका ३३।
श्रीकृष्ण उवाच-
शृणुष्वैकमनाः कांते यत्त्वं वै पूर्वजन्मनि ।
पुण्यं व्रतं कृतवती तत्सर्वं कथयामि ते ३४।
आसीत्कृतयुगस्यांते मायापुर्यां द्विजोत्तमः ।
आत्रेयो देवशर्मेति वेदवेदांगपारगः ३५।
आतिथेयोऽग्निशुश्रूषुः सौरव्रत परायणः ।
सूर्यमाराधयन्नित्यं साक्षात्सूर्य्य इवापरः ३६।
तस्यातिवयसश्चासीन्नाम्ना गुणवती सुता ।
अपुत्रः स स्वशिष्याय चंद्र नाम्ने ददौ सुताम् ३७।
तमेव पुत्रवन्मेने स च तं पितृवद्वशी ।
तौ कदाचिद्वनं यातौ कुशेध्महरणार्थिनौ ३८।
हिमाद्रिपादजवने चेरतुस्तौ यतस्ततः ।
तौ ततो राक्षसं घोरमायांतं समपश्यताम् ३९।
भयविह्वलसर्वांगावसमर्थौ पलायितुम् ।
निहतौ रक्षसा तेन कृतांतसमरूपिणा ४०।
तौ तु क्षेत्रप्रभावेण धर्मशीलतया पुनः ।
वैकुंठभवनं नीतौ मद्गणैर्मत्समीपगैः ४१।
यावज्जीवंतु यत्ताभ्यां सूर्यपूजादिकं कृतम् ।
तेन वै कर्मणा ताभ्यां सुप्रीतोऽहं किलाभवम् ४२।
शैवाः सौराश्च गाणेशा वैष्णवाः शक्तिपूजकाः ।
मामेव प्राप्नुवंतीह वर्षांभः सागरं यथा ४३।
एकोऽहं पंचधा जातः क्रीडयन्नामभिः किल ।
देवदत्तो यथा कश्चित्पुत्राद्याह्वाननामभिः ४४।
ततश्च तौ मद्भवनाधिवासिनौ विमानयानौ रविवर्चसावुभौ ।
मत्तुल्यरूपौ मम सन्निधानगौ दिव्यांगना चंदनभोगभोगिनौ ४५।
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्सहस्रसंहितायां श्रीकृष्णसत्यभामा संवादे अष्टाशीतितमोऽध्यायः ८८।


[सम्पाद्यताम्]

टिप्पणी

स्कन्दपुराणे कार्तिकमासमाहात्म्यम् २.४