तदृष्टशनिपातोतुं सहसा स महीपतिः । हा हा किमिदमित्यार्ता विलपन्नपतद्भुवि ॥ ४०६
पतितं च तमादाय पार्श्वगा निन्युरन्यतः। देव्योश्च वह्निसंस्कारं नीत्वा मुखको व्यधात् ॥ ४०७
लब्धसंज्ञोऽनुशोच्याथ भायै ते सुचिरं नृपः। तयोर्निर्वर्तयामास ख स्नेहादौर्वदैहिकम् ॥ ४०८
बाष्पदुर्दिनबद्धान्धकारं नीस्वा च वखरम् । द्वाभ्यां विभज्य पुत्राभ्यां पृथ्वीराज्यं ददौ द्विधा ॥ ४०९
ततो निर्गत्य नगरात्प्रकृतीरनुयायिनीः। निवर्षे जातवैराग्यः शिश्रिये तपसे वनम् ॥ ४१०
फलमूलाशनस्तत्र वसजातु यदृच्छया । भ्रमन्सोऽन्तिकमेकस्य प्राप न्यग्रोधशाखिनः ॥ ४११
तत्र प्राप्तमकस्मात्तं निर्गत्यैव तरोस्ततः । ऊचतुर्दिव्यरूपे द्वे फलमूलकरे स्त्रियौ ॥ ४१२
राजन्नेहि गृह्यैतान्यद्य मूलफलानि नौ । तच्छुत्वा सोऽब्रवीद्धृतं तावन्मे के युवामिति ॥ ४१३
ततस्ते दिव्यनायौं तमूचतुस्तर्हि नौ गृहम् । ऍहि प्रविश्य तत्रैतद्वक्ष्यामस्ते यथातथम् ॥ ४१४
तच्छुत्वा स तथेत्युक्त्वा ताभ्यां श्रीदर्शनः सह । प्रविष्टोऽत्र दर्शान्तर्दिव्यं हेममयं पुरम् ॥ ४१५
विश्रान्तस्तत्र दिव्यानि भुक्तवांश्च फलानि सः । नारीभ्यां जगदे ताभ्यामिदानीं नृपते श्रुणु ॥ ४१६
आसीत्कमलगर्भाख्यः प्रतिष्ठाने पुरा द्विजः । तस्याभूतां च भार्ये द्वे एका पथ्या बळापरा ॥ ४१७
जराक्रान्ताश्च कालेन ते भार्यापतयस्त्रयः । पर्यन्ते विविशुर्वहिं सहन्योन्यनुरागिणः ॥ ४१८
भार्यापतित्वं सर्वस्मिन्भूयाज्जन्मनि नः प्रभो । इति प्रार्थेत तर्मिश्च काले तैरनलाद्वरः ॥ ४१९
ततः कमळगभऽसौ यक्षयोनावजायत । प्रदीप्ताक्षस्य यक्षस्य पुत्रो दीप्तशिखाभिधः ॥ ४२०
कनीयानट्टहासस्य भ्राता तीव्रतपोबलात् । तदर्थं अपि ते पथ्याबले यक्षपतेः सुते ॥ ४२१
धूमकेत्वभिधानस्य जज्ञाते यक्षकन्यके । ज्योतिर्वैखाभिधानैका धूमलेखेति चापरा ॥ ४२२
कालेन च भगिन्यौ ते कन्यके प्राप्तयौवने । भर्नर्थे तपसा गत्वारण्येऽतोषयतां हरम् ॥ ४२३
स तुष्टो दर्शनं दत्त्वा देवस्ते द्वे समादिशत् । सममेव प्रविश्यानिं युवाभ्यां पूर्वजन्मनि ॥ ४२४
येन साकं वृतं भार्यापतित्वं सर्वजन्मसु । स वां यक्षोऽट्टहासस्य भ्राता दीप्तशिखाभिधः ॥ ४२५
जातः स स्खमिशापेन पुनर्मर्यत्वमागतः । जातः श्रीदर्शनो नाम तद्युवामपि गच्छतम् ॥ ४२६
भवेतां सर्वलोकेऽस्य भार्ये शापक्षये पुनः । यूयं च भार्यापतयो यक्षाः सर्वे भविष्यथ ॥ ४२७
इति गौरीपतेर्वाक्यादुभे ते यक्षकन्यके । पद्मिष्ठानङ्गमञ्जर्यावजायेतां भुवस्तले ॥ ४२८
श्रीदर्शनस्य भार्यात्वं प्राप्ते सत्यौ च ते चिरात् । एत्य तेनाट्टहासेन युक्त्या ब्राह्मणरूपिणा ॥ ४२९
श्लिष्टोक्त्या स्मारिते दैवाज्जातिं नामान्युदीर्यं यत् । तेन ते तां तनं त्यक्त्वा यक्षिणीत्वमुपागते ॥ ४३०
ते चवां त्वमिमे विद्धि भवान्दीप्तशिखश्च सः । इत्युक्त एव ताभ्यां तां जातिं श्रीदर्शनोऽस्मरत् ॥ ४३१
संपन्नश्च ततः सद्यो यक्षो दीप्तशिखोऽत्र सः । प्राप्तश्च ताभ्यां भार्याभ्यां संयोगं विधिवत्पुनः ॥ ४३२
तमिमं विद्धि मां यज्ञे विचित्रकथ ते इमे । ज्योतिर्लेखां तथा धूमलेखां जानीहि मे प्रिये ॥ ४३३
तदेवं मादृशां देववंशजानामपीदृशम् । सुखदुःखं भवेकामं मानुषाणां कथेव का ॥ ४३४
युष्माकं चाचिराद्वत्स भविष्यति समागमः । भत्री मृगाङ्कदत्तेन मा विषादमतः कृथाः ॥ ४३५
तघातिथ्यहेतोरास्थामिदं हि मे । भौमं धाम तदास्स्वेह करिष्येऽभिमतं ॥ ४३६
ततो यास्यामि कैलासं स्वं धामेति निजां कथाम् । उक्त्वा स यक्षो मां तत्र कंचित्कार्मुपाचरत् ॥ ४३७
अद्य युष्मानिह प्राप्ताञ्ज्ञात्वा रात्रौ स सन्मतिः । सुप्तानां भवतां मध्ये सुम्नमानीय मां न्यधात् ॥ ४३८
ततो दृष्टोऽस्मि युष्याभियूयं दृष्टा मयापि च । इत्येष युष्मद्विश्लेषे वृत्तान्तो देव मामकः ॥ ४३९
इति निजसचिवान्निशम्य तस्मान्निशि स विचित्रकथायथार्थनाम्नः ।
सुखमभजतीव राजपुत्रः सममपरैः सचिवैर्मुगाङ्कदत्तः ।
नीत्वात्र रात्रिगटवीभुवि नागशापविश्लेषितान्मिलितशेषसखीन्विचिन्वन् ।
अभ्युज्जयिन्युचलश्च शशाङ्कवल्या लाभाय सोऽर्पितमतिः सह तैर्वयस्यैः ।।
इति महाक्रविसोमदेवभट्ठविरचिते कथासरित्सागरे शशाङ्कवतीलचके षष्ठस्तरङ्गः।
_____