समास:०३ शारदास्तवनम्

विकिस्रोतः तः

समासः ३: शारदास्तवनम्
॥ श्रीरामः ॥
अथ वन्दे वेदमातरं श्रीशारदां ब्रह्मसुतां शब्दमूलरूपां वाग्देवतां । महामायाम् ॥ १.३.१॥
या उद्गमयति शब्दाङ्कुरान् । वदति वैखरीम् अपाराम् ।या शब्दस्य अभ्यन्तरं विवृत्य दर्शयते ॥ १.३.२॥
या योगिनां समाधिरूपा, या धीराणां निश्चयरूपा, या च विद्या-अविद्योपाधिच्छेदिका (तां शारदाम् अहं वन्दे)।१.३.३॥
या महापुरुषस्य भार्या, तेन अतिसंलग्ना, तुर्यावस्था, यदर्थं महाकार्येषु साधवः प्रवर्तिताः, (तां शारदाम् अहं वन्दे)।१.३.४॥
या महापुरुषाणां शान्तिः, या ईश्वरस्य निजशक्तिः, या ज्ञानिनां विरक्तिः, या च नैराश्यस्य शोभा, (तां शारदाम् अहं वन्दे)।१.३.५॥
या अनन्तब्रह्माण्डानि लीलया रचयति, लीलया भञ्जयति च, स्वतः आदिपुरुषे गुप्ततया निवसति, (तां शारदाम् अहं वन्दे)। १.३.६॥
या (यस्याः सृष्टिरूपं कर्म) प्रत्यक्षं दृश्यते, परं विचारिते सति न दृश्यते, यस्याः पारं ब्रह्मादयः अपि न जानन्ति (तां शारदाम् अहं वन्दे) ।१.३.७॥
या सर्वेषां नाटकानाम् (व्यवहाराणाम्) अन्तर्गता प्रेरणा, या च निर्मलस्फूर्तिरूपं भानं, यया ज्ञानशक्त्या स्वानन्दभोगः सम्भवति, (तां शारदाम् अहं वन्दे) ।१.३.८॥
या च लावण्यस्य अपि शोभा, या परब्रह्मसूर्यस्य प्रभा, या च शब्दम् (महावाक्यम्) उक्त्वा उत्थितमपि संसारं विलोपयति।१.३.९
या महामङ्गला मोक्षश्रीः, या सप्तदशी जीवनकला, यस्याः सत्त्वमेव लीला, या च सुशीतला, लावण्यस्य खनिः (सा एषा शारदा)१.३.१०
या अव्यक्तपुरुषस्य व्यक्तं रूपं, या च सविस्तरा प्रवृद्धा इच्छाशक्तिः,या कलेः कालस्य च नियन्त्री सद्गुरुकृपा (सा एषा शारदा)१.३.११
या परमार्थमार्गे विचारं संशोध्य, सारम् असारं च दर्शयति, शब्दबलेन या भवसिन्धोः परतीरं प्रापयति, (सा एषा शारदा) १.३.१२
एवं बहुविधवेषैः एषा एका एव नटिता।सा अन्तरङ्गे चतुर्भिः प्रकारैः सिद्धा अस्ति।१.३.१३
तिसृभिः वाग्भिः यदन्तः सञ्चितं तद् वैखर्या प्रकटितम्।अतः यावत् कर्तृत्वं तावत् शारदावशाद् (इति बोद्धव्यम्)।१.३.१४
या ब्रह्मादिकानां जननी, यतः हरिहरादयः जाताः, त्रैलोक्यसृष्टेः रचना यस्याः विस्तरः अस्ति (सा एषा शारदा)।१.३.१५
या परमार्थस्य मूलम्, अथवा या केवला सद्विद्या, या क्लेशरहिता निर्मला, निश्चला च स्वरूपस्थितिः एव (सा एषा शारदा)।१.३.१६
या योगिनां ध्याने, साधकानां चिन्तने, सिद्धानाम् अन्तःकरणे, समाधिरूपेण वर्तते, (सा एषा शारदा)।१.३.१७
या निर्गुणस्य चिह्नभूता, अनुभवस्य चिह्नरूपा, या व्यापकतया सर्वेषु पदार्थेषु वर्तते, (सा एषा शारदा)।१.३.१८
यां शास्त्राणि, पुराणानि, वेदाः अविरतं स्तुवन्ति, प्राणिनः नानारूपस्थां यां भजन्ते, (सा एषा शारदा)।१.३.१९
या (यया) वेदशास्त्राणां महिमा,या निरुपमस्य ब्रह्मणः उपमा, यया परमात्मा इति अभिधानं भवति, (सा एषा शारदा)।१.३.२०
नाना विद्याः, कलाः, सिद्धय:, नाना निश्चयबुद्धयः, सूक्ष्मवस्तुनः शुद्धं ज्ञानं (सा एषा शारदा)।१.३.२१
या हरिभक्तानाम् आत्मभक्तिः, या अन्तर्निष्ठानाम् अन्तःस्थिति:, या जीवन्मुक्तानां सायुज्यमुक्तिः, (सा एषा शारदा)।१.३.२२
या अनन्ता वैष्णवी माया, यस्याः नाट्यलाघवं न ज्ञायते, यस्याः नाट्यलाघवं पण्डितान् अपि ज्ञानाभिमानेन बध्नाति, (सा एषा शारदा)।१.३.२३
यद् यद् दृष्टिगोचरं, यद् यत् शब्देन ज्ञातं, यद् यद् मनसा मतं, तत्सर्वम् अस्याः स्वरूपम्।।१.३.२४
स्तवनं भजनं भक्तिभावः इत्यादीनां प्रतिष्ठा मायां विना नास्ति।अस्य वचनस्य अभिप्रायम् अनुभविनः जानन्ति ॥ १.३.२५॥
अतः या ज्येष्ठेभ्यः ज्येष्ठा, या ईश्वराणाम् ईश्वरी तां प्रति तदंशतया एव मम नमस्कारः।१.३.२६
इति श्रीदासबोधे गुरुशिष्यसंवादे शारदास्तवनं नाम समास तृतीयः॥

वर्ग: दासबोध: समर्थरामदासकृतय: मराठीभाषितस्य संस्कृतेन # दशक ०१ - स्तवनम्
"https://sa.wikisource.org/w/index.php?title=समास:०३_शारदास्तवनम्&oldid=128810" इत्यस्माद् प्रतिप्राप्तम्