अभिषेकनाटकम्/षष्ठोऽङ्कः

विकिस्रोतः तः

<poem> अथ षष्ठोऽङ्क:। (तत: प्रविशन्ति विद्याधरास्त्रय:।)32 सर्वे - एते स्मो भो! एते स्म:। प्रथम: - इक्ष्वाकुवंशविपुलोज्ज्वलदीप्तकेतो: द्वितीय: - रामस्य रावणवधाय कृतोद्यमस्य। तृतीय: - सङ्ग्रामदर्शनकुतूहलबद्धचित्ता: सर्वे - प्राप्ता वयं हिमवत: शिखरात् प्रतूर्णम् ।। 1 ।। प्रथम: - चित्ररथ! एते देवदेवर्षिसिद्धविद्याधरादयो निरन्तरं नभ: कृत्वा स्थिता:। तस्माद् वयमप्येतेषामेतान् गणान् परिहरन्त: स्वैरमेकान्ते स्थित्वा रामरावणयोर्युद्धविशेषं पश्याम:। उभौ - बाढम्। (तथा कृत्वा) प्रथम: - अहो प्रतिभयदर्शनीया खल्वियं युद्धभूमि:। इह हि, रजनिचरशरीरनीरकीर्णा कपिवरवीचियुता वरासिनक्रा । उदधिरिव विभाति युद्धभूमी रघुवरचन्द्रशरांशुवृद्धवेगा ।। 2 ।। द्वितीय: - एवमेतत्। एते पादपशौलभग्नशिरसो मुष्टिप्रहारैर्हता: क्रुद्धैर्वानरयूथपैरतिबलैरुत्पुच्छकर्णैर्वृता: । कण्ठग्राहविवृततुङ्गनयनैर्दंष्ट्रोष्ठतीव्रैर्मुखै: शैला वज्रहता इवाशु समरे रक्षोगणा: पातिता: ।। 3 ।। तृतीय: - एते चापि द्रष्टव्या भवद्भ्यां, निशितविमलखङ्गा: क्रोधविस्फारिताक्षा विमलविकृतदंष्ट्रा नीलजीमूतकल्पा: । हरिगणपतिसैन्यं हन्तुकामा: समन्ताद् रभसविवृतवक्त्रा राक्षसा: सम्पतन्ति ।। 4 ।। प्रथम: - अहो नु खलु, बाणा: पात्यन्ते राक्षसैर्वानरेषु द्वितीय: - शैला क्षिप्यन्ते वानरैर्नैऋतेषु। तृतीय: - मुष्टिप्रक्षेपैर्जानुसङ्घट्टनैश्च सर्वे - भीमश्चित्रं भो:! सम्प्रमर्द: प्रवृत्त: ।।5।। प्रथम: - रावणमपि पश्येतां भवन्तौ, कनकरचितदण्डां शक्तिमुल्लालयन्तं विमलविकृतदंष्ट्रं स्यन्दनं वाहयन्तम् । उदयशिखरिमध्ये पूर्णबिम्बं शशाङ्कं ग्रहमिव भगणेशं राममालोक्य रुष्टम् ।। 6 ।।33 द्वितीय: - राममपि पश्येतां भवन्तौ। सव्येन चापमवलम्ब्य करेण वीर- मन्येन सायकवरं परिवर्तयन्तम् । भूमौ स्थितं रथगतं रिपुमीक्षमाणं क्रौञ्चं यथा गिरिवरं युधि कार्त्तिकेयम् ।। 7 ।। तृतीय: - हहह। रावणेन विमुक्तेयं शक्ति: कालान्तकोपमा । रामेण स्मयमानेन द्विधा छिन्ना धनुष्पता ।। 8 ।। प्रथम: - शकिं्त निपातितां दृष्ट्वा क्रोधविस्फारितेक्षण:। रामं प्रत्यैषवं वर्षमभिवर्षति रावण: ।। 9 ।। द्वितीय: - अहो रामस्य शोभा। एता रावणजीमूताद् बाणधारा विनिस्सृता: । विभान्ति राममासाद्य वारिधारा वृषं यथा ।। 10।। तृतीय: - एष एष:, कनकरचितचापं तीक्ष्णमुद्यम्य शीघ्रं रणशिरसि सुघोरं बाणजालं विधून्वन् । रथगतमभियान्तं रावणं याति पद्भयां गजपतिमिव मत्तं तीक्ष्णदंष्ट्रो मृगेन्द्र:।। 19 ।। सर्वे - अये ज्वलित इव प्रभायायं देश:। किन्नु खल्विदम् । प्रथम: - आ युद्धसामान्यजनितशङ्केन महेन्द्रेण प्रेषितो मातलिवाहितो रथ:। द्वितीय: - उपस्थितं मातलिं दृष्ट्वा तस्य वचनाद् रथमारूढवान् राम:। तृतीय: - एष हि, सुरवरजयदर्पदेशिकेऽस्मिन् दितिसुतनाशकरे रथे विभाति । रजनिचरविनाशकारण: सं स्त्रिपुरवधाय यथा पुरा कपर्दी ।। 12 ।। प्रथम: - अहो महत् प्रवृत्तं युद्धम्। शरवरपरिपीततीव्रबाणं नरवरनैर्ऋतयो: समीक्ष्य युद्धम् । विरतविविधशस्त्रपातमेते हरिवरराक्षससैनिका: स्थिताश्च ।। 13 ।। द्वितीय: - अहो नु खलु, चारीभिरेतौ परिवर्तमानौ रथे स्थितौ बाणगणान् वमन्तौ । स्वरश्मिजालैर्धरणिं दहन्तौ सूर्याविव द्वौ नभसि भ्रमन्तौ ।। 14 ।।34 तृतीय: - रावणमपि पश्येतां भवन्तौ । शरैर्भीमवेगैर्हयान् मर्दयित्वा ध्वजं चापि शीघ्रं बलेेनाभिहत्य । महद् बाणवर्षं सुजन्तं नदन्तं हसन्तं नृदेवं भृशं भीषयन्तम् ।। 15 ।। प्रथम: - एष हि राम:, स्थानाक्रामणवामनीकृततनु: किञ्चित् समाश्वास्य वै तीव्रं बाणमवेक्ष्य रक्तनयनो मध्याह्नसूर्यप्रभ: । व्यक्तं मातलिना स्वयं नरपतिर्दत्तास्पदो वीर्यवान् क्रुद्ध: सहितवान् वरास्त्रममितं पैतामहं पार्थिव: ।। 16 ।। द्वितीय: - एतदस्त्रं रघुवरभुजवेगविप्रमुक्तं ज्वलनदिवाकरयुक्ततीक्ष्णधारम् । रजनिचरवरं निहत्य सङ्ख्ये पुनरभिगच्छति राममेवशीघ्रम् ।। 17 ।। सर्वे - हन्त निपातितो रावण:। प्रथम: - रावणं निहतं दृष्ट्वा पुष्पवृष्टिर्निपातिता । एता नदन्ति गम्भीरं भेर्यस्त्रिदिवसद्मनाम् ।। 18 ।। द्वितीय: - भवतु। सिद्धं देवकार्यम्। प्रथम: - तदागम्यताम्। वयमपि तावत् सर्वहितं रामं सम्भावयिष्याम:। उभौ - बाढम्। प्रथम: कल्प:। (निष्क्रान्ता: सर्वे।) विष्कम्भक:। (तत: प्रविशति राम:।) राम: - हत्वा रावणमाहवेऽद्य तरसा मद्बाणवेगार्दितं कृत्वा चापि विभीषणं शुभमतिं लङ्केश्वरं साम्प्रतम् । तीत्र्वा चैवमनल्पसत्त्वचरितं दोभ्र्यां प्रतिज्ञार्णवं लङ्कामभ्युपयामि बन्धुसहित: सीतां समाश्वासितुम् ।। 19 ।। (प्रविश्य) लक्ष्मण: - जयत्वार्य:। आर्य! एषा ह्यार्यार्यस्य समीपमुपसर्पति। राम: - वत्स! लक्ष्मण! अपायाच्च हि वैदेह्या उषिताया रिपुक्षये । दर्शनात् साम्प्रतं धैर्यं मन्युर्मे वारयिष्यति ।। 20 ।। लक्ष्मण: - यदाज्ञापयत्यार्य!। (निष्क्रान्त:।)35 (प्रविश्य) विभीषण: - जयतु देव:। एष हि राजंस्तव धर्मपत्नी त्वद्बाहुवीर्येण विधूतदु:खा । लक्ष्मी: पुरा दैत्यकुलच्युतेव तव प्रसादात् समुपस्थिता सा ।। 21 ।। राम: - विभीषण! तत्रैव तावत् तिष्ठतु रजनिचरावमर्शजातकल्मषा इक्ष्वाकुकुलस्याङ्कभूता। राजानं दशरथं पितरमुद्दिश्य न युक्तं भो लङ्काधिपते! मां द्रष्टम्। अपि च, मज्जमानमकार्येषु पुरुषं विषयेषु वै । निवारयति यो राजन्! स मित्रं रिपुरन्यथा ।। 22 ।। विभीषण: - प्रसीदतु देव:। राम: - नार्हति भवानत: परं पीडयितुम्। (प्रविश्य) लक्ष्मण: - जयत्वार्य:। आर्यस्याभिप्रायं श्रुत्वैवाग्निप्रवेशाय प्रसादं प्रतिपालयत्यार्या। राम: - लक्ष्मण! अस्या: पतिव्रतायाश्छन्दमनुतिष्ठ। लक्ष्मण: - यदाज्ञापयत्यार्य:। (परिक्रम्य) भो:! कष्टम्। विज्ञाय देव्या: शौचं च श्रुत्वा चार्यस्य शासनम् । धर्मस्नेहान्तरे न्यस्ता बुद्धिर्दोलायते मम ।। 23 ।। कोऽत्र। हनुमान् - जयतु कुमार:। लक्ष्मण: - हनूमान्! यदि ते शक्तिरस्ति, एवमाज्ञापयत्यार्य:। हनूमान् - अत्र किं तर्कयति कुमारः। लक्ष्मण: - निष्फलो मम तर्क:। अथवा वयमार्यस्याभिप्रायमनुवर्तितार:। हनूमान् - यदाज्ञापयति कुमार:। (निष्क्रान्तौ।) (प्रविश्य) लक्ष्मण: - प्रसीदत्वार्य: । आर्य! आश्चर्यम्। एषा ह्यार्या, विकसितशतपत्रदामकल्पा ज्वलनमिहाशु विमुक्तजीविताशा । श्रममिह तव निष्फलं च कृत्वा प्रविशति पद्मवनं यथैव हंसी ।। 24 ।। राम: - आश्चर्यमाश्चर्यम्। लक्ष्मण! निवारय, निवारय। लक्ष्मण: - यदाज्ञापयत्यार्य: ।36 हनूमान् - जयतु देव:। एषा कनकमालेव ज्वलनाद् वर्धितप्रभा । पावना पावकं प्राप्य निर्विकारमुपागता ।। 25 ।। राम: - (सविस्मयम्) किमिति किमिति। लक्ष्मण: - अहो, आश्चर्यम्। (प्रविश्य) सुग्रीव: - जयतु देव:। को नु खल्वेष जीवन्तीमादाय जनकात्मजाम् । प्रणम्यरूप: सम्भूतो ज्वलतो हव्यवाहनात् ।। 26 ।। लक्ष्मण: - अये अयमार्यां पुरस्कृत्येत एवाभिवर्तते भगवान् विभावसु:। राम: - अये अयं भगवान् हुताशन:। उपसर्पामस्तावत्। (सर्वे उपसर्पन्ति।) (तत: प्रविश्यत्यग्नि: सीतां गृहीत्वा।) अग्नि: - एष भगवान् नारायण:। जयतु देव:। राम: - भगवान्! नमस्ते। अग्नि: - न मे नमस्कारं कर्तुमर्हति देवेश:। इमां गृह्णीष्व राजेन्द्र! सर्वलोकनमस्कृताम् । अपापामक्षतां शुद्धां जानकीं पुरुषोत्तम! ।। 27 ।। अपि च, इमां भगवती लक्ष्मीं जानीहि जनकात्मजाम् । सा भवन्तमनुप्राप्ता मानुषीं तनुमास्थिता ।। 28।। राम: - अनुगृहीतोऽस्मि। जानतापि च वैदेह्या: शुचितां धूमकेतन! । प्रत्ययार्थं हि लोकानामेवमेव मया कृतम् ।। 21 ।। (नेपथ्ये दिव्यगन्धर्वा गायन्ति।) नमो भगवते त्रैलोक्यकारणाय नारायणाय। ब्रह्मा ते हृदयं जगत्त्रयपते! रुद्रश्च कोपस्तव नेत्रे चन्द्रदिवाकरौ सुरपते! जिह्वा च ते भारती । सब्रह्मेन्द्रमरुद्गणं त्रिभुवनं सृष्टं त्वयैव प्रभो ! सीतेयं जलसम्भवालयरता विष्णुर्भवान् गृह्यताम् ।। 30 ।। (पुनर्नेपथ्ये अपरे गायन्ति।)37 मग्नेयं हि जले वराहवपुषा भूमिस्त्वयैवोद्धूता विक्रान्तं भुवनत्रयं सुरपते! पादत्रयेण त्वया। स्वैरं रूपमुपस्थितेन भवता देव्या यथा साम्प्रतं हत्वा रावणमाहवे न हि तथा देवा: समाश्वासिता:।। 31 ।। अग्नि: - भद्रमुख! एते देवदेवर्षिसिद्धविद्याधरगन्धर्वाप्सरोगणा: स्वविभवैर्भवन्तं वर्धयन्ति। राम: - अनुगृहीतोऽस्मि। अग्नि: - भद्रमुख! अभिषेकार्थमित इतो भवान्। राम: - यदाज्ञापयति भगवान्। (निष्क्रान्तौ) (नेपथ्ये) जयतु देव:। जयतु स्वामी। जयतु भद्रमुख:। जयतु महाराज:। जयतु रावणान्तक:। जयत्वायुष्मान्। विभीषण: - एष एष महाराज:, तीत्र्वा प्रतिज्ञार्णवमाहवेऽद्य सम्प्राप्य देवीं च विधूतपापाम् । देवै: समस्तैश्च कृताभिषेको विभाति शुभ्रे नभसीव चन्द्र: ।। 32 ।। लक्ष्मण: - अहो तु खल्वार्यस्य वैष्णवं तेज:। यमवरुणकुबेरवासवाद्यै- स्त्रिदशगणैरभिसंवृतो विभाति । दशरथवचनात् कृताभिषेक - स्त्रिदशपतित्वमवाप्य वृत्रपहेव ।। 33।। (तत: प्रविशति कृताभिषेको राम: सीतया सह।) राम: - वत्स! लक्ष्मण! येनाहं कृतमङ्गलप्रतिसरो भद्रासनारोपितो ऽप्यम्बाया: प्रियमिच्छता नृपतिना मित्राभिषेक: कृत: । व्यक्तं दैवगतिं गतेन गुरुणा प्रत्यक्षत: साम्प्रतं तेनैवाद्य पुन: प्रहृष्टमनसा प्राप्ताभिषेक: कृत: ।। 34।। अग्नि: - भद्रमुख! एता हि महेन्द्रनियोगाद् भरतशत्रुघ्नपुर:सरा: प्रकृतयो भवन्तमुपस्थिता:। राम: - भगवन्! प्रहृष्टोऽस्मि। अग्नि: - इमे महेन्द्रादयोऽमृतभुजो भवन्तमभिवर्धयन्ति। राम: - अनुग्रहीतोऽस्मि। अग्नि: - भद्रमुख! किं ते भूय: प्रियमुपहरामि।38 राम: - यदि मे भगवान् प्रसन्न:, किमत: परमहमिच्छामि। (भरतवाक्यम्।) भवन्त्वरजसो गाव: परचक्रं प्रशाम्यतु । इमामपि महीं कृत्स्नां राजसिंह: प्रशास्तु न: ।। 35 ।। (निष्क्रान्ता: सर्वे) षष्ठोऽङ्क:। अभिषेकनाटकं समाप्तम्।