गरुडपुराणम्/आचारकाण्डः/अध्यायः १५९

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १५८ गरुडपुराणम्
अध्यायः १५९
वेदव्यासः
आचारकाण्डः, अध्यायः १६० →

श्रीगरुडमहापुराणम् १५९
धन्वन्वरिरुवाच ।
प्रमेहाणां निदानन्ते वक्ष्येऽहं शृणु सुश्रुत ! ।
प्रमेहा विंशतिस्तत्र श्लेष्मणो दश पित्ततः ॥ १,१५९.१ ॥

षट्चत्वारोऽनिलात्तेच मेदोमत्रकफावहाः ।
हारिद्रमेही कटुकं हरिद्रासन्निभं शकृत् ॥ १,१५९.२ ॥

विस्त्रं माञ्जिष्ठमेहेच मञ्जिष्ठा सलिलोपमम् ।
विस्त्रमुष्णं सलवणं रक्ताभ रक्तमेहतः ॥ १,१५९.३ ॥

वसामेही वसामिश्रं वसाभं मूत्रयेन्मुहुः ।
मज्जाभं मज्जमिश्रं वा मज्जमेही मुहुर्मुहुः ॥ १,१५९.४ ॥

हस्ती मत्त इवाजस्त्रं मूत्रं वेगविवर्जितम् ।
सलसीकं विवद्धं च हस्तिमेही प्रमेहति ॥ १,१५९.५ ॥

मधुमेही मधुसमं जायते स किल द्विधा ।
क्रुद्धे धातुक्षयाद्वायौ दोषावृतपथे यदा ॥ १,१५९.६ ॥

आवृतो दोषलिङ्गानि सोऽनिमित्तं प्रदर्शयेत् ।
क्षणात्क्षीणः क्षणात्पूर्णो भजते कृच्छ्रसाघ्यताम् ॥ १,१५९.७ ॥

कालेनोपेक्षितः सर्वोह्यायाति मधुमेहताम् ।
मधुरं यच्च मेहेषु प्रायो मध्विव मेहति ॥ १,१५९.८ ॥

सर्वे ते मधुमेहाख्या माधुर्याच्च तनोर्यतः ।
अविपाकोऽरुचिश्छर्दिर्निद्रा कासः सपीनसः ॥ १,१५९.९ ॥

उपद्रवाः प्रजायन्ते मेहानां कफजन्मनाम् ।
बस्तिमेहनयोस्तोदोमुष्कावदरणं ज्वरः ॥ १,१५९.१० ॥

दाहस्तृष्णाम्लिका मूर्छा विड्भेदः पित्तजन्मनाम् ।
वातजानामुदावर्तः कम्पहृद्गहलोलताः ॥ १,१५९.११ ॥

शूलमुन्निद्राता शोषः श्वासः कासञ्च जायते ।
शराविका कच्छपिका ज्वालिनी विनतालजी ॥ १,१५९.१२ ॥

मसूरिका सर्षपिका पुत्रिणी सविदारिका ।
विद्रधिश्चेति पिडिकाः प्रमेहोपेक्षया दश ॥ १,१५९.१३ ॥

अन्नस्य कफसंश्लेषात्प्रायस्तत्र प्रवर्तनम् ।
स्वाद्वम्ललवणस्निग्धगुरुपिच्छिलशीतम् ॥ १,१५९.१४ ॥

नवं धान्यं सुरासूपमांसेक्षुगुडगोरसम् ।
एकस्थानासनवति शयनं विनिवर्तनम् ॥ १,१५९.१५ ॥

बस्तिमाश्रित्य कुरुते प्रमेहाद्दूषितः कफः ।
दूषयित्वा वपुः क्लेदं स्वेदमेदोवसामिषम् ॥ १,१५९.१६ ॥

पित्तं रक्तमतिक्षीणे कफादौ मूत्रसंश्रयम् ।
धातुं बस्तिमुपानीय तत्क्षयेच्चैव मारुतः ॥ १,१५९.१७ ॥

साध्यासाध्यप्रतीत्याद्याः मेहास्तेनैव तद्भवाः ।
समे समकृता दोषे परमत्वात्तथापि च ॥ १,१५९.१८ ॥

सामान्य लक्षणन्तेषां प्रभूताविलमूत्रता ।
दोषदूष्या विशेषेऽपि तत्संयोगविशेषतः ॥ १,१५९.१९ ॥

मूत्रवर्णादिभेदेन भेदो मेहेषु कल्प्यते ।
अच्छं बहुसितं शीतं निर्गन्धमुदकोपमम् ॥ १,१५९.२० ॥

मेहत्युदकमेहेन किञ्चिदाविलपिच्छिलम् ।
इक्षो रसमिवात्यर्थं मधुरं चेक्षुमेहतः ॥ १,१५९.२१ ॥

सान्द्री भवेत्पर्युषितं सान्द्रमेहेन मेहति ।
सुरामेही सुरातुल्यमुपर्यच्छमधोघनम् ॥ १,१५९.२२ ॥

सहृष्टरोमा पिष्टेन पिष्टबद्बहुलं सितम् ।
शुक्राभं शुक्रमिश्रं वा शुक्रमेही प्रमेहति ॥ १,१५९.२३ ॥

मूत्रयेत्सिकतामेही सिकतारूपिणो मलान् ।
शीतमेही सुबहुशो मधुरं भृशशीतलम् ॥ १,१५९.२४ ॥

शनैः शनैः शनैर्मेही मन्दं मन्दंप्रमेहति ।
लालातन्तुयुतं मूत्रं लालामेहेन पिच्छिलम् ॥ १,१५९.२५ ॥

गन्धवर्णरसस्पर्शेः क्षारेण क्षारतोयवत् ।
नीलमेहन नीलाभं कालमेही मसीनिभम् ॥ १,१५९.२६ ॥

सन्धिमर्मसु जायन्ते मांसलेषु च धामसु ।
अन्तोन्नता मध्यनिन्मा अक्लेदसुरुजान्विता ॥ १,१५९.२७ ॥

शरावमानसंस्थाना पिडिका स्याच्छराविका ।
सदाहा कूर्मसंस्थाना ज्ञेया कच्छपिका बुधैः ॥ १,१५९.२८ ॥

महती पिडिका नीला विनता नाम सा स्मृता ।
दहति त्वचमुत्थाने ज्वालिनी कष्टदायिनी ॥ १,१५९.२९ ॥

रक्ता सिता स्फोटचिता दारुणा त्वलजी भवेत् ।
मसूराकृति संस्थाना विज्ञेया तु मसूरिका ॥ १,१५९.३० ॥

सर्षपोपमसंस्थाना जिह्वापाकमहारुजा ।
पुत्रिणी महती चाल्पा सुसूक्ष्मा पिडिका स्मृता ॥ १,१५९.३१ ॥

विदारीकन्दवद्वृत्ता कठिना च विदारिका ।
विद्रधेर्लक्षणैर्युक्ता ज्ञेया विद्रधिका तु सा ॥ १,१५९.३२ ॥

पुत्रिणी च विदारी च दुः सहा बहुमेदसः ।
सद्यः पित्तोल्बणास्त्वन्याः सम्भवन्त्यल्पमेदसः ॥ १,१५९.३३ ॥

पिडिकास्ता भवेयुः स्याद्दोषोद्रेको यथायथम् ।
प्रमेहेण विनाप्येता जायन्ते दुष्टमेदसः ॥ १,१५९.३४ ॥

तावच्च नोपलक्ष्यन्ते यावद्वर्णञ्च वर्जितम् ।
हारिद्रं रक्तवर्णं वा मेहप्राग्रूपवर्जितम् ॥ १,१५९.३५ ॥

यो मूत्रयेत तन्महें रक्तपित्तन्तु तद्विदुः ।
स्वेदोऽङ्गगान्धः शिथिलत्वमङ्गे श्य्याशनस्वप्नसुखाभिषङ्गः ।
हृन्नेत्रजिह्वाश्रवणोपदाहा घनोग्रता केशनखाभिवृद्धिः ॥ १,१५९.३६ ॥

शीतप्रियत्वं गलतालुशोषो माधुर्य मास्ये करपाददाहः ।
भविष्यतो मेहगणस्य रूपं मूत्रेऽपि धावन्ति पिपीलिकाश्च ॥ १,१५९.३७ ॥

तृष्णा प्रमेहे मधुरं प्रपिच्छं मध्वामये स्याद्विविधोविकारः ।
सम्पूरणाद्वा कफसम्भवः स्यात्क्षीणेषु दोषेष्वनिलात्मको वा ॥ १,१५९.३८ ॥

सम्पूर्णरूपाः कफपित्तमेहाः क्रमेण ये वै रतिसम्भवाश्च ।
सक्रामते पित्तकृतास्तु याप्याः साध्योऽस्ति मेहो यदि नास्ति दिष्टम् ॥ १,१५९.३९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रमेहनिदान नामैकोनषष्ट्युत्तरशततमोऽध्यायः