गरुडपुराणम्/आचारकाण्डः/अध्यायः २११

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः २१० गरुडपुराणम्
अध्यायः २११
वेदव्यासः
आचारकाण्डः, अध्यायः २१२ →

श्रीगरुडमहापुराणम् २११
सूत उवाच ।
प्रथमोऽष्टाक्षरैः पादो द्वितीयो द्वादशाक्षरैः ।
तृतीयः षोडशार्णैश्च विंशद्वर्णैश्चतुर्थकः ॥ १,२११.१ ॥

सामान्यलक्षणं पदचतुरूर्ध्वाभिरधस्य हि ॥ १,२११.१ ॥

आपीडः सर्वलः प्रोक्तः पूर्वपादान्तगद्वयः ॥ १,२११.२ ॥

द्वितीयेऽष्टाक्षरैः पादे कलिका प्रथमेर्ऽकजे ।
लवली स्यात्तृतीयेऽथ पूर्ववच्चाष्ट काक्षरे ।
प्रोक्ता चामृतधारेयं चतुरष्टाक्षरे सति ॥ १,२११.३ ॥

(इति पदचतुरूर्ध्वप्रकरणम्) ।
सजौ सलौ च प्रथमे नसजा गो द्वितीयके ।
तृतीये भनभा गश्च चतुर्थे सजसा जगौ ॥ १,२११.४ ॥

पूर्ववत्स्यात्सौरभकं तृतीयेऽघ्रौ रनौ भगौ ।
ललितञ्चाद्गतावत्स्यातृतीयेंऽघ्रौ ननौ ससौ ॥ १,२११.५ ॥

(इत्युद्गताप्रकरणम्) ।
उपस्थितप्रचुपितं प्रथमेऽघ्रौ मसौ जभौ ।
गौ द्वितीये सनजरा गस्तृतीये ननौ च सः ।
नौ नजौ यश्चतुर्थे स्याच्छेष पादाश्च पूर्ववत् ॥ १,२११.६ ॥

तृतीर्येऽघ्रौ विशेषश्च वृत्तं स्यान्नौ सनौ नसौ ॥ १,२११.७ ॥

आर्षभं तजराः पादे तृतीयेऽन्यच्च पूर्ववत् ।
पूर्ववत्प्रथमं शेषे तज्राः शुद्धविराड्भवेत् ॥ १,२११.८ ॥

(इत्युपस्थितप्रचुपितप्रकरणम्) ।
विषमाक्षरपादं वा पञ्चषट्कादि यावकम् ।
छन्दोऽत्र नोक्ता गाथेति दशधर्ंमादिवद्भवेत् ॥ १,२११.९ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विषमवृत्तलक्षणादिनिरूपणं नामैकादशोत्तरद्विशशततमोऽध्यायः